[[व्याकरणमहाभाष्यम्-विमर्शनात्मकम् Source: EB]]
[
पतञ्जलि व्याकरणमहाभाष्यम्
कि. = किल्थोर्न एडिशन पृष्ठक्रमाङ्क
रो. = रोहतक एडिशन पृष्ठक्रमाङ्क
(पाणिनीयसूत्र १) कि.,१।१-५ रो.,१-४ अथ शब्दानुशासनं । अथ इति अयं शब्दः अधिकारार्थः प्रयुज्यते । शब्दानुशासनं शास्त्रं अधिकृतं वेदितव्यं । केषां शब्दानां । लौकिकानां वैदिकानां च । तत्र लौकिकाः तावतः गौः अश्वः पुरुषः हस्ती शकुनिः मृगः ब्राह्मणः इति । वैदिकाः खलु अपि : शं नः देवीः अभिष्टये । इषे त्वा ऊर्जे त्वा । अग्निं ईले पुरोहितं । अग्ने अयाहि वीतये इति ।
(पाणिनीयसूत्र २) कि.,१।६-१३ रो.,५-७ अथ गौः इति अत्र कः शब्दः । किं यत्तत्सास्नालाङ्गूलककुदखुरविषाणि अर्थरूपं सः शब्दः । न इति आह । द्रव्यं नाम तत। यत्तर्हि ततिङ्गितं चेष्टितं निमिषितं सः शब्दः । न इति आह । क्रिया नाम सा । यत्तर्हि तत्शुक्लः नीलः कृष्णः कपिलः कपोतः इति सः शब्दः । न इति आह । गुणः नाम सः । यत्तर्हि तत्भिन्नेषु अभिन्नं छिन्नेषु अच्छिन्नं सामान्यभूतं सः शब्दः । न इति आह । आकृतिः नाम सा । कः तर्हि शब्दः । येन उच्चारितेन सास्नालाङ्गूलककुदखुरविषाणिनां सम्प्रत्ययः भवति सः शब्दः । अथ वा प्रतीतपदार्थकः लोके ध्वनिः शब्दः इति उच्यते । तत्यथा शब्दं कुरु मा शब्दं कार्षीः शब्दकारी अयं माणवकः इति । ध्वनिं कुर्वनेवं उच्यते । तस्मात्ध्वनिः शब्दः ।
(पाणिनीयसूत्र ३) कि.,१।१४-२।२ रो.,८-१४ कानि पुनः शब्दानुशासनस्य प्रयोजनानि । रक्षोहागमलघ्वसन्देहाः प्रोयोजनं । रक्षार्थं वेदानां अध्येयं व्याकरणं । लोपागमवर्णविकारज्ञः हि सम्यक्वेदान्परिपालयिष्यति । ऊहः खलु अपि। न सर्वैः लिङ्गैः न च सर्वाभिः विभक्तिभिः वेदे मन्त्राः निगदिताः। ते च अवश्यं यज्ञगतेन यथायथं विपरिणमयितव्याः। तान्न अवैयाकरणः शक्नोति यथायथं विपरिणमयितुम। तस्मातध्येयं व्याकरणं । आगमः खलु अपि । ब्राह्मणेन निष्कारणः धर्मः षडङ्गः वेदः अध्येयः ज्ञेयः इति । प्रधानं च षट्सु अङ्गेषु व्याकरणं । प्रधाने च कृतः यत्नः फलवान्भवति । लघ्वर्थं च अध्येयं व्याकरणम। ब्राह्मणेन अवश्यं शब्दाः ज्ञेयाः इति । न च अन्तरेण व्याकरणं लघुना उपायेन शब्दाः शक्याः ज्ञातुं । असन्देहार्थं च अध्येयं व्याकरणं । याज्ञिकाः पठन्ति । स्थूलपृषतीं आग्निवारुणीं अनड्वाहीं आलभेत इति । तस्यां सन्देहः स्थूला च असौ पृषती च स्थूलपृषती स्थूलानि पृषन्ति यस्याः सा स्थूलपृषती । तां न अवैयाकरणः स्वरतः अध्यवस्यति । यदि पूर्वपदप्रकृतिस्वरत्वं ततः बहुव्रीहिः। अथ अन्तोदात्तत्वं ततः तत्पुरुषः इति ।
(पाणिनीयसूत्र ४।१) कि.,२।३-९ रो.,११-१२ इमानि च भूयः शब्दानुशासनस्य प्रयोजनानि । ते असुराः , दुष्टः शब्दः , यतधीतं , यः तु प्रयुङ्क्ते , अविद्वांसः , विभक्तिं कुर्वन्ति , यः वै इमां , चत्वारि , उत त्वः , सक्तुं इव , सारस्वतीं , दशम्यां पुत्रस्य , सुदेवः असि वरुण इति । ते असुराः । ते असुराः हेलयः हेलयः इति कुर्वन्तः परा बभूवुः । तस्मात्ब्राह्मणेन न म्लेच्छितवै न अपभाषितवै । म्लेच्छः ह वै एषः यतपशब्दः । म्लेच्छाः मा भूम इति अध्येयं व्याकरणं । ते असुराः
(पाणिनीयसूत्र ४।२) कि.,२।१०-१४ रो.,१२-१३ दुष्टः शब्दः । दुष्टः शब्दः स्वरतः वर्णतः वा मिथ्या प्रयुक्तः न तं अर्थं आह । सः वाग्वज्रः यजमानं हिनस्ति यथा इन्द्रशत्रुः स्वरतः अपराधात। दुष्टान्शब्दान्मा प्रयुक्ष्महि इति अध्येयं व्याकरणं । दुष्टः शब्दः ।
(पाणिनीयसूत्र ४।३) कि.,२।१४-१७ रो.,३ यतधीतं । यतधीतं अविज्ञातं निगदेन एव शब्द्यते अनग्नौ इव शुष्कैधः न तत्ज्वलति कर्हि चित। तस्मातनर्थकं मा अधिगीष्महि इति अध्येयं व्याकरणम। यतधीतं ।
(पाणिनीयसूत्र ४।४) कि.,२।१८-३।५ रो.,१३-१५ यः तु प्रयुङ्क्ते । यः तु प्रयुङ्क्ते कुशलः विशेषे शब्दान्यथावत्व्यवहारकाले सः अनन्तं आप्नोति जयं परत्र वाग्योगवित्दुष्यति च अपशब्दैः । कः । वाग्योगवितेव । कुतः एतत। यः हि शब्दान्जानाति अपशब्दानपि असौ जानाति । यथा एव हि शब्दज्ञाने धर्मः एवं अपशब्दज्ञाने अपि अधर्मः । अथ वा भूयानधर्मः प्राप्नोति । भूयांसः अपशब्दाः अल्पीयांसः शब्दाः । एकैकस्य हि शब्दस्य बहवः अपशब्दाः । तत्यथा गौः इति अस्य शब्दस्य गावी गोणी गोता गोपोतलिका इति एवमादयः अपभ्रंशाः । अथ यः अवाग्योगवित। अज्ञानं तस्य शरणं । न अत्यन्ताय अज्ञानं शरणं भवितुं अर्हति । यः हि अजानन्वै ब्राह्मणं हन्यात्सुरां वा पिबेत्सः अपि मन्ये पतितः स्यात। एवं तर्हि सः अनन्तं आप्नोति जयं परत्र वाग्योगवित्दुष्यति च अपशब्दैः । कः। अवाग्योगवितेव । अथ यः वाग्योगवित। विज्ञानं तस्य शरणं । क्व पुनः इदं पठितं । भ्राजाः नाम श्लोकाः । किं च भोः श्लोकाः अपि प्रमाणं । किं च अतः । यदि प्रमाणं अयं अपि श्लोकः प्रमाणं भवितुं अर्हति । यतुदुम्बरवर्णानां घटीनां मण्डलं महत्पीतं न स्वर्गं गमयेत्किं तत्क्रतुगतं नयेतिति । प्रमत्तगीतः एषः तत्रभवतः । यः तु अप्रमत्तगीतः तत्प्रमानं । यस्तु प्रयुङ्क्ते ।
(पाणिनीयसूत्र ४।५) कि.,३।६-९ रो.,१५ अविद्वांसः । अविद्वांसः प्रत्यभिवादे नाम्नः ये प्लुतिं न विदुः कामं तेषु तु विप्रोष्य स्त्रीषु इव अयं अहं वदेत। अभिवादे स्त्रीवत्मा भूम इति अध्येयं व्याकरणं । अविद्वांसः
(पाणिनीयसूत्र ४।६) कि.,३।१०-११ रो.,१६ विभक्तिं कुर्वन्ति । याज्ञिकाः पठन्ति : प्रयाजाः सविभक्तिकाः कार्याः इति । न च अन्तरेण व्याकरणं प्रयाजाः सविभक्तिकाः शक्याः कर्तुम। विभक्तिं कुर्वन्ति
(पाणिनीयसूत्र ४।७) कि.,३।१२-१३ रो.,१६ यः वै इमां । यः वै इमां पदशः स्वरशः अक्षरशः वाचं विदधाति सः आर्त्विजीनः । आर्त्विजीनाः स्याम इति अध्येयं व्याकरणं । यः वै इमां ।
(पाणिनीयसूत्र ४।८) कि.,३।१४-२९ रो.,१६-१८ चत्वारि । चत्वरि शृङ्गा त्रयः अस्य पदा द्वे शीर्षे सप्त हस्तासः अस्य त्रिधा बद्धः वृषभः रोरवीति महः देवः मर्त्यान विवेश । चत्वारि शृङ्गानि चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताः च । त्रयः अस्य पादाः त्रयः कालाः भूतभविष्यद्वर्तमानाः । द्वे शीर्षे द्वौ शब्दात्मानौ नित्यः कार्यः च । सप्त हस्तासः अस्य सप्त विभक्तयः । त्रिधा बद्धः त्रिषु स्थानेषु बद्धः उरसि कण्ठे शिरसि इति । वृषभः वर्षणात। रोरवीति शब्दं करोति । कुतः एतत। रौतिः शब्दकर्मा । महः देवः मर्त्यानाविवेश इति । महान्देवः शब्दः । मर्त्याः मरणधर्माणः मनुष्याः । तानाविवेश । महता देवेन नः साम्यं यथा स्यातिति अध्येयं व्याकरणं । अपरः आह : चत्वरि वक्परिमिता पदनि तनि विदुः ब्राह्मण ये मनीषिणः गुहा त्रीणि निहिता न इङ्गयन्ति तुरीयं वाचः मनुष्याः वदन्ति । चत्वारि वाक्परिमिता पदानि । चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताः च । तानि विदुः ब्राह्मणाः ये मनीषिणः । मनसः ईषिणः मनीषिणः । गुहा त्रीणि निहिता न इङ्गयन्ति । गुहायां त्रीणि निहितानि न इङ्गयन्ति । न चेष्टन्ते । न निमिषन्ति इति अर्थः । तुरीयं वाचः मनुष्याः वदन्ति । तुरीयं ह वै एतत्वाचः यत्मनुष्येषु वर्तते । चतुर्थं इति अर्थः । चत्वारि ।
(पाणिनीयसूत्र ४।९) कि.,४।५-८ रो.,१८-१९ उत त्वः । उत त्वः पश्यन्न ददर्श वचं उत त्वः श्र्ण्वन्न शृणोति एनां उतो त्वस्मै तन्वं विसस्रे जाय इव पत्ये उशती सुवसाः । अपि खलु एकः पश्यनपि न पश्यति वाचं । अपि खलु एकः श्र्ण्वनपि न श्र्णोति एनां । अविद्वांसं आह अर्धं । उतो त्वस्मै तन्वं विसस्रे । तनुं विवृणुते । जाया इव पत्ये उशती सुवासाः । तद्यथा जाया पत्ये कामयमाना सुवासाः स्वं आत्मानं विवृणुते एवं वाक्वाग्विदे स्वात्मानं विवृणुते । वाक्नः विवृणुयातात्मानं इति अध्येयं व्याकरणं । उत त्वः ।
(पाणिनीयसूत्र ४।१०) कि.,४।९-१८ रो.,१९-२० सक्तुं इव । सक्तुं इव तितौना पुनन्तः यत्र धीराः मनसा वचं अक्रत अत्रा सखायः सख्यनि जानते भद्र एषां लक्ष्मीः निहिता अधि वाचि । सक्तुः सचतेः दुर्धावः भवति । कसतेः वा विपरीतात्विकसितो भवति । तितौ परिपवनं भवति ततवत्वा तुन्नवत्वा । धीराः ध्यानवन्तः मनसा प्रज्ञानेन वाचं अक्रत वाचं अकृषत । अत्रा सखायः सख्यानि जानते । सायुज्यानि जानते । क्व । यः एषः दुर्घः मार्गः एकगम्यः वाग्विषयः । के पुनः ते । वैयाकरणाः । कुतः एतत। भद्रा एषां लक्ष्मीः निहिता अधि वाचि । एषां वाचि भद्रा लक्ष्मीः निहिता भवति । लक्ष्मीः लक्षणात्भासनात्परिवृढा भवति । सक्तुं इव ।
(पाणिनीयसूत्र ४।११) कि.,४।१९-२१ रो.,२१ सारस्वतीम। याज्ञिकाः पठन्ति : आहिताग्निः अपशब्दं प्रयुज्य प्रायश्चित्तीयां सारस्वतीं इष्टिं निर्वपेतिति । प्रायश्चित्तीयाः मा भूम इति अध्येयं व्याकरणं । सारस्वतीं ।
(पाणिनीयसूत्र ४।१२) कि.,४।२२-२५ रो.,२१ दशम्यां पुत्रस्य । याज्ञिकाः पठन्ति : दशम्युत्तरकालं पुत्रस्य जातस्य नाम विदध्यात्घोषवदादि अन्तरन्तःस्थं अवृद्धं त्रिपुरुषानूकं अनरिप्रतिष्ठितं । तत्हि प्रतिष्ठिततमं भवति । द्व्यक्षरं चतुरक्षरं वा नाम कृतं कुर्यात्न तद्धितं इति । न च अन्तरेण व्याकरणं कृतः तद्धिताः वा शक्याः विज्ञातुं । दशम्यां पुत्रस्य ।
(पाणिनीयसूत्र ४।१३) कि.,४।२६-५।४ रो.,२१-२२ सुदेवः असि । सुदेवः असि वरुण यस्य ते सप्त सिन्धवः अनुक्षरन्ति काकुदं सूर्म्यं सुषिरं इव । सुदेवः असि वरुण सत्यदेवः असि यस्य ते सप्त सिन्धवः सप्त विभक्तयः । अनुक्षरन्ति काकुदं । काकुदं तालु । काकुः जिह्वा सा अस्मिनुद्यते इति काकुदं । सूर्म्यं सुषिरां इव । तद्यथा शोभनां ऊर्मीं सुषिरां अग्निः अन्तः प्रविश्य दहति एवं तव सप्त सिन्धवः सप्त विभक्तयः तालु अनुक्षरन्ति । तेन असि सत्यदेवः । सत्यदेवाः स्याम इति अध्येयं व्याकरणं । सुदेवः असि ।
(पाणिनीयसूत्र ५) कि.,५।५-११ रो.,२२-२३ किं पुनः इदं व्याकरनं एव अधिजिगांसमानेभ्यः प्रयोजनं अन्वाख्यायते न पुनः अन्यतपि किं चित। ओं इति उक्त्वा वृत्तान्तशः शं इति एवमादीन्शब्दान्पठन्ति । पुराकल्पे एततासीतः संस्कारोत्तरकालं ब्राह्मणाः व्याकरणं स्म अधीयते । तेभ्यः तत्र स्थानकरणानुप्रदानज्ञेभ्यः वैदिकाः शब्दाः उपदिश्यन्ते । ततद्यत्वे न तथा । वेदं अधीत्य त्वरिताः वक्तारः भवन्ति : वेदात्नः वैदिकाः शब्दाः सिद्धाः लोकात्च लौकिकाः । अनर्थकं व्याकरणं इति । तेभ्यः विप्रतिपन्नबुद्धिभ्यः अध्येतृभ्यः आचार्यः इदं शास्त्रं अन्वाचष्टे : इमानि प्रयोजनानि अध्येयं व्याकरणं इति ।
(पाणिनीयसूत्र ६) कि.,५।११-२२ रो.,२३-२४ उक्तः शब्दः । स्वरूपं अपि उक्तं । प्रयोजनानि अपि उक्तानि । शब्दानुशासनं इदानीं कर्तव्यं । तत्कथं कर्तव्यं । किं शब्दोपदेशः कर्तव्यः आहोस्वितपशब्दोपदेशः आहोस्वितुभयोपदेशः इति । अन्यतरोपदेशेन कृतं स्यात। तत्यथा भक्ष्यनियमेन अभक्ष्यप्रतिषेधो गम्यते । पञ्च पञ्चनखाः भक्ष्याः इति उक्ते गम्यते एततः अतः अन्ये अभक्ष्याः इति । अभक्ष्यप्रतिषेधेन वा भक्ष्यनियमः । तत्यथा अभक्ष्यः ग्राम्यकुक्कुटः अभक्ष्यः ग्राम्यशूकरः इति उक्ते गम्यते एततः आरण्यः भक्ष्यः इति । एवं इह अपि : यदि तावत्शब्दोपदेशः क्रियते गौः इति एतस्मिनुपदिष्टे गम्यते एततः गाव्यादयः अपशब्दाः इति । अथ अपशब्दोपदेशः क्रियते गाव्यादिषु उपदिष्टेषु गम्यते एततः गौः इति एषः शब्दः इति । किं पुनः अत्र ज्यायः । लघुत्वात्शब्दोपदेशः । लघीयान्शब्दोपदेशः गरीयानपशब्दोपदेशः । एकैकस्य शब्दस्य बहवः अपभ्रंशाः । तत्यथा । गौः इति अस्य शब्दस्य गावीगोणीगोतागोपोतलिकादयः अपभ्रंशाः । इष्टान्वाख्यानं खलु अपि भवति ।
(पाणिनीयसूत्र ७) कि.,५।२३-६।७ रो.,२४-२५ अथ एतस्मिन्शब्दोपदेशे सति किं शब्दानां प्रतिपत्तौ प्रतिपदपाठः कर्तव्यः : गौः अश्वः पुरुषः हस्ती शकुनिः मृगः ब्राह्मणः इति एवमादयः शब्दाः पठितव्याः । न इति आह । अनभ्युपायः एषः शब्दानां प्रतिपत्तौ प्रतिपदपाठः । एवं हि श्रूयते : बृहस्पतिः इन्द्राय दिव्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं प्रोवाच न अन्तं जगाम । बृहस्पतिः च प्रवक्ता इन्द्रः च अध्येता दिव्यं वर्षसहस्रं अध्ययनकालः न च अन्तं जगाम । किं पुनः अद्यत्वे । यः सर्वथा चिरं जीवति सः वर्षशतं जीवति । चतुर्भिः च प्रकारैः विद्या उपयुक्ता भवति आगमकालेन स्वाध्यायकालेन प्रवचनकालेन व्यवहारकालेन इति । तत्र च आगमकालेन एव आयुः पर्युपयुक्तं स्यात। तस्मातनभ्युपायः शब्दानां प्रतिपत्तौ प्रतिपदपाठः । कथं तर्हि इमे शब्दाः प्रतिपत्तव्याः । किं चित्सामन्यविशेषवत्लक्षणं प्रवर्त्यं येन अल्पेन यत्नेन महतः महतः शब्दौघान्प्रतिपद्येरन। किं पुनः तत। उत्सर्गापवादौ । कः चितुत्सर्गः कर्तव्यः कः चितपवादः । कथञ्जातीयकः पुनः उत्सर्गः कर्तव्यः कथञ्जातीयकः अपवादः । सामन्येन उत्सर्गः कर्तव्यः । तत्यथा कर्मणि अण। तस्य विशेषेण अपवादः । तत्यथा । आतः अनुपसर्गे कः ।
(पाणिनीयसूत्र ८) कि.,६।८-११ रो.,२५-२६ किं पुनः आकृतिः पदार्थः आहोस्वित्द्रव्यं । उभयं इति आह । कथं ज्ञायते । उभयथा हि आचार्येण सूत्राणि पठितानि । आकृतिं पदार्थं मत्वा जात्याख्यायां एकस्मिन्बहुवचनं अन्यतरस्यां इति उच्यते । द्रव्यं पदार्थं मत्वा सरूपाणां एकशेषः एकविभक्तौ इति एकशेषः आरभ्यते ।
(पाणिनीयसूत्र ९) कि.,६।१२-१४ रो.,२६-२७ किं पुनः नित्यः शब्दः आहोस्वित्कार्यः । सङ्ग्रहे एतत्प्राधान्येन परीक्षितं नित्यः वा स्यात्कार्यः वा इति । तत्र उक्ताः दोषाः प्रयोजनानि अपि उक्तानि । तत्र तु एषः निर्णयः यदि एव नित्यः अथ अपि कार्यः उभयथा अपि लक्षणं प्रवर्त्यं इति ।
(पाणिनीयसूत्र १०।१) कि.,६।१४-७।७ रो.,२७-३० कथं पुनः इदं भगवतः पाणिनेः आचार्यस्य लक्षणं प्रवृत्तं । (कात्यायन वार्तिक)सिद्धे शब्दार्थसम्बन्धे(वार्तिकान्त) । सिद्धे शब्दे अर्थे सम्बन्धे च इति । अथ सिद्धशब्दस्य कः पदार्थः । नित्यपर्यायवाची सिद्धशब्दः । कथं ज्ञायते । यत्कूटस्थेषु अविचालिषु भावेषु वर्तते । तत्यथा सिद्धा द्यौः , सिद्धा पृथिवी सिद्धं आकाशं इति । ननु च भोः कार्येषु अपि वर्तते । तत्यथा सिद्धः ओदनः , सिद्धः सूपः सिद्धा यवागूः इति । यावता कार्येषु अपि वर्तते तत्र कुतः एतत्नित्यपर्यायवाचिनः ग्रहणं न पुनः कार्ये यः सिद्धशब्दः इति । सङ्ग्रहे तावत्कार्यप्रतिद्वन्द्विभावात्मन्यामहे नित्यपर्यायवाचिनः ग्रहणं इति । इह अपि ततेव । अथ वा सन्ति एकपदानि अपि अवधारणानि । तत्यथा : अब्भक्षः वायुभक्षः इति । अपः एव भक्षयति वायुं एव भक्षयति इति गम्यते । एवं इह अपि सिद्धः एव न साध्यः इति । अथ वा पूर्वपदलोपः अत्र द्रष्टव्यः : अत्यन्तसिद्धः सिद्धः इति । तत्यथा देवदत्तः दत्तः , सत्यभामा भामा इति । अथ वा व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहातलक्षणं इति नित्यपर्यायवाचिनः ग्रहणं इति व्याख्यास्यामः । किं पुनः अनेन वर्ण्येन । किं न महता कण्ठेन नित्यशब्दः एव उपात्तः यस्मिनुपादीयमाने असन्देहः स्यात। मङ्गलार्थं । माङ्गलिकः आचार्यः महतः शास्त्रौघस्य मङ्गलार्थं सिद्धशब्दं आदितः प्रयुङ्क्ते । मङ्गलादीनि हि शास्त्राणि प्रथन्ते वीरपुरुषकाणि च भवन्ति आयुष्मत्पुरुषकाणि च । अध्येतारः च सिद्धार्थाः यथा स्युः इति । अयं खलु अपि नित्यशब्दः न अवश्यं कूटस्थेषु अविचालिषु भावेषु वर्तते । किं तर्हि । आभीक्ष्ण्ये अपि वर्तते । तत्यथा नित्यप्रहसितः नित्यप्रजल्पितः इति । यावता आभीक्ष्ण्ये अपि वर्तते तत्र अपि अन्येन एव अर्थः स्यात्व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहातलक्षणं इति । पश्यति तु आचार्यः मङ्गलार्थः च एव सिद्धशब्दः आदितः प्रयुक्तः भविष्यति शक्ष्यामि च एनं नित्यपर्यायवाचिनं वर्णयितुं इति । अतः सिद्धशब्दः एव उपात्तः न नित्यशब्दः ।
(पाणिनीयसूत्र १०।२) कि.,७।८-८।१ रो.,३०-३२ अथ कं पुनः पदार्थं मत्वा एषः विग्रहः क्रियते सिद्धे शब्दे अर्थे सम्बन्धे च इति । आकृतिं इति आह । कुतः एतत। आकृतिः हि नित्या । द्रव्यं अनित्यं । अथ द्रव्ये पदार्थे कथं विग्रहः कर्तव्यः । सिद्धे शब्दे अर्थसम्बन्धे च इति । नित्यः हि अर्थवतां अर्थैः अभिसम्बन्धः । अथ वा द्रव्ये एव पदार्थे एषः विग्रहः न्याय्यः सिद्धे शब्दे अर्थे सम्बन्धे च इति। द्रव्यं हि नित्यं आकृतिः अनित्या । कथं ज्ञायते । एवं हि दृश्यते लोके । मृत्कया चिताकृत्या युक्ता पिण्डः भवति । पिण्डाकृतिं उपमृद्य घटिकाः किर्यन्ते । घटिकाकृतिं उपमृद्य कुण्डिकाः क्रियन्ते । तथा सुवर्णं कया चिताकृत्या युक्तं पिण्डः भवति । पिण्डाकृतिं उपमृद्य रुचकाः क्रियन्ते । रुचकाकृतिं उपमृद्य कटकाः क्रियन्ते । कटकाकृतिं उप्मृद्य स्वस्तिकाः क्रियन्ते । पुनः आवृत्तः सुवर्णपिण्डः पुनः अपरया आकृत्या युक्तः खदिरागारसवर्णे कुण्डले भवतः । आकृतिः अन्या च अन्या च भवति द्रव्यं पुनः तदेव । आकृत्युपमर्देन द्रव्यं एव अवशिष्यते । आकृतौ अपि पदार्थे एषः विग्रहः न्याय्यः सिद्धे शब्दे अर्थे सम्बन्धे च इति । ननु च उक्तं आकृतिः अनित्या इति । न एततस्ति । नित्या आकृतिः । कथं । न क्व चितुपरता इति कृत्वा सर्वत्र उपरता भवति । द्रव्यान्तरस्था तु उपलभ्यते । अथ वा न इदं एव नित्यलक्षणं ध्रुवं कूटस्थं अविचालि अनपायोपजनविकारि अनुत्पत्ति अवृद्धि अव्यययोगि इति तन्नित्यं इति । ततपि नित्यं यस्मिन्तत्त्वं न विहन्यते । किं पुनः तत्त्वं । तद्भावः तत्त्वं । आकृतौ अपि तत्त्वं न विहन्यते । अथ वा किं नः एतेन इदं नित्यं इदं अनित्यं इति । यत्नित्यं तं पदार्थं मत्वा एषः विग्रहः क्रियते सिद्धे शब्दे अर्थे सम्बन्धे च इति । कथं पुनः ज्ञायते सिद्धः शब्दः अर्थः सम्बन्धः च इति । लोकतः । यत्लोके अर्थं उपादाय शब्दान्प्रयुञ्जते । न एषां निर्वृत्तौ यत्नं कुर्वन्ति । ये पुनः कार्याः भावाः निर्वृत्तौ तावत्तेषां यत्नः क्रियते । तत्यथा । घटेन कार्यं करिष्यन्कुम्भकारकुलं गत्वा आह कुरु घटं । कार्यं अनेन करिष्यामि इति । न तद्वत्शब्दान्प्रयोक्ष्यमाणः वैयाकरणकुलं गत्वा आह । कुरु शब्दान। प्रयोक्ष्ये इति । तावति एव अर्थं उपादाय शब्दान्प्रयुञ्जते ।
(पाणिनीयसूत्र ११) कि.,८।१-२२ रो.,३२-३५ यदि तर्हि लोकः एषु प्रमाणं किं शास्त्रेण क्रियते । (कात्यायन वार्तिक)लोकतः अर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः(वार्तिकान्त) । लोकतः अर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः क्रियते । किं इदं धर्मनियमः इति । धर्माय नियमः धर्मनियमः धर्मार्थः वा नियमः धर्मनियमः धर्मप्रयोजनः वा नियमः धर्मनियमः । (कात्यायन वार्तिक)यथा लौकिकवैदिकेषु(वार्तिकान्त) । प्रियतद्धिताः दाक्षिणात्याः । यथा लोके वेदे च इति प्रयोक्तव्ये यथा लौकिकवैदिकेषु इति प्रयुञ्जते । अथ वा युक्तः एव तद्धितार्थः । यथा लौकिकेषु वैदिकेषु च कृतान्तेषु । लोके तावतभक्ष्यः ग्राम्यकुक्कुटः अभक्ष्यः ग्राम्यशूकरः इति उच्यते । भक्ष्यं च नाम क्षुत्प्रतीघातार्थं उपादीयते । शक्यं च अनेन श्वमांसादिभिः अपि क्षुत्प्रतिहन्तुं । तत्र नियमः क्रियते । इदं भक्ष्यं । इदं अभक्ष्यं इति । तथा खेदात्स्त्रीषु प्रवृत्तिः भवति । समानः च खेदविगमः गम्यायां च अगम्यायां च । तत्र नियमः क्रियते : इयं गम्या इयं अगम्या इति । वेदे खलु अपि पयोव्रतः ब्राह्मणः यवागूव्रतः राजन्यः आमिक्षाव्रतः वैश्यः इति उच्यते । व्रतं च नाम अभ्यवहारार्थं उपादीयते । शक्यं च अनेन शालिमांसादीनि अपि व्रतयितुं । तत्र नियमः क्रियते । तथा बैल्वः खादिरः वा यूपः स्यातिति उच्यते । यूपः च नाम पश्वनुबन्धार्थं उपादीयते । शक्यं च अनेन किं चितेव काष्ठं उच्छ्रित्य अनुच्छ्रित्य वा पशुः अनुबन्द्धुं । तत्र नियमः क्रियते । तथा अग्नौ कपालानि अधिश्रित्य अभिमन्त्रयते । भृगूणां अङ्गिरसां घर्मस्य तपसा तप्यध्वं इति । अन्तरेण अपि मन्त्रं अग्निः दहनकर्मा कपालानि सन्तापयति । तत्र नियमः क्रियते । एवं क्रियमाणं अभ्युदयकारि भवति इति । एवं इह अपि समानायां अर्थगतौ शब्देन च अपशब्देन च धर्मनियमः क्रियते । शब्देन एव अर्थः अभिधेयः न अपशब्देन इति । एवं क्रियमाणं अभ्युदयकारि भवति इति ।
(पाणिनीयसूत्र १२) कि.,८।२३-१०।३ रो.,३५-३९ अस्ति अप्रयुक्तः । सन्ति वै शब्दाः अप्रयुक्ताः । तत्यथा ऊष तेर चक्र पेच इति । किं अतः यत्सन्ति अप्रयुक्ताः । प्रयोगात्हि भवान्शब्दानां साधुत्वं अध्यवस्यति । ये इदानीं अप्रयुक्ताः न अमी साधवः स्युः । इदं विप्रतिषिद्धं यतुच्यते सन्ति वै शब्दाः अप्रयुक्ताः इति । यदि सन्ति न अप्रयुक्ताः । अथ अप्रयुक्ताः न सन्ति । सन्ति च अप्रयुक्ताः च इति विप्रतिषिद्धं । प्रयुञ्जानः एव खलु भवानाह सन्ति शब्दाः अप्रयुक्ताः इति । कः च इदानीं अन्यः भवज्जातीयकः पुरुषः शब्दानां प्रयोगे साधुः स्यात। न एतत्विप्रतिषिद्धं । सन्ति इति तावत्ब्रूमः यतेतान्शास्त्रविदः शास्त्रेण अनुविदधते । अप्रयुक्ताः इति ब्रूमः यत्लोके अप्रयुक्ताः इति । यतपि उच्यते कः च इदानीं अन्यः भवज्जातीयकः पुरुषः शब्दानां प्रयोगे साधुः स्यातिति । न ब्रूमः अस्माभिः अप्रयुक्ताः इति । किं तर्हि । लोके अप्रयुक्ताः इति । ननु च भवानपि अभ्यन्तरः लोके । अभ्यन्तरः अहं लोके न तु अहं लोकः । (कात्यायन वार्तिक)अस्ति अप्रयुक्तः इति चेत्न अर्थे शब्दप्रयोगात्(वार्तिकान्त) । अस्ति अप्रयुक्तः इति चेत्तत्न । किं कारणं । अर्थे शब्दप्रयोगात। अर्थे शब्दाः प्रयुज्यन्ते । सन्ति च एषां शब्दानां अर्थाः येषु अर्थेषु प्रयुज्यन्ते । (कात्यायन वार्तिक)अप्रयोगः प्रयोगान्यत्वात्(वार्तिकान्त) । अप्रयोगः खलु एषां शब्दानां न्याय्यः । कुतः । प्रयोगान्यत्वात। यतेतेषां शब्दानां अर्थे अन्यान्शब्दान्प्रयुञ्जते । तत्यथा । ऊष इति एतस्य शब्दस्य अर्थे क्व यूयं उषिताः । तेर इति अस्य अर्थे किं यूयं तीर्णाः । चक्र इति अस्य अर्थे किं यूयं कृतवन्तः । पेच इति अस्य अर्थे किं यूयं पक्ववन्तः इति । (कात्यायन वार्तिक)अप्रयुक्ते दीर्घसत्त्रवत्(वार्तिकान्त) । यदि अपि अप्रयुक्ताः अवश्यं दीर्घसत्त्रवत्लक्षणेन अनुविधेयाः । तत्यथा । दीर्घसत्त्राणि वार्षशतिकानि वार्षसहस्रिकाणि च । न च अद्यत्वे कः चितपि व्यवहरति । केवलं ऋषिसम्प्रदायः धर्मः इति कृत्वा याज्ञिकाः शास्त्रेण अनुविदधते । (कात्यायन वार्तिक)सर्वे देशान्तरे(वार्तिकान्त) । सर्वे खलु अपि एते शब्दाः देशान्तरे प्रयुज्यन्ते । न च एते उपलभ्यन्ते । उपलब्धौ यत्नः क्रियतां । महान्हि शब्दस्य प्रयोगविषयः । सप्तद्वीपा वसुमती त्रयः लोकाः चत्वारः वेदाः साङ्गाः सरहस्याः बहुधा विभिन्नाः एकशतं अध्वर्युशाखाः सहस्रवर्त्मा सामवेदः एकविंसतिधा बाह्वृच्यं नवधा आथर्वणः वेदः वाकोवाक्यं इतिहासः पुराणं वैद्यकं इति एतावान्शब्दस्य प्रयोगविषयः । एतावन्तं शब्दस्य प्रयोगविषयं अननुनिशम्य सन्ति अप्रयुक्ताः इति वचनं केवलं साहसमात्रं । एतस्मिनतिमहति शब्दस्य प्रयोगविषये ते ते शब्दाः तत्र तत्र नियतविषयाः दृश्यन्ते । तत्यथा । शवतिः गतिकर्मा कम्बोजेषु एव भाषितः भवति । विकारे एनं आर्याः भाषन्ते शवः इति । हम्मतिः सुराष्ट्रेषु रंहतिः प्राच्यमध्येषु गमिं एव तु आर्याः प्रयुञ्जते । दातिः लवनार्थे प्राच्येषु दात्रं उदीच्येषु । ये च अपि एते भवतः अप्रयुक्ताः अभिमताः शब्दाः एतेषां अपि प्रयोगः दृश्यते । क्व । वेदे । यत्वः रेवतीः रेवत्यं ततूष । यत्मे नरः श्रुत्यं ब्रह्म चक्र । यत्र नः चक्र जरसं तनुनां इति ।
(पाणिनीयसूत्र १३) कि.,१०।४-११।१४ रो.,३९-४२ किं पुनः शब्दस्य ज्ञाने धर्मः आहोस्वित्प्रयोगे । कः च अत्र विशेषः । (कात्यायन वार्तिक)ज्ञाने धर्मः इति चेत्तथा अधर्मः(वार्तिकान्त) । ज्ञाने धर्मः इति चेत्तथा अधर्मः प्राप्नोति । यः हि शब्दान्जानाति अपशब्दानपि असौ जानाति । यथा एव शब्दज्ञाने धर्मः एवं अपशब्दज्ञाने अपि अधर्मः । अथ वा भूयानधर्मः प्राप्नोति ।भूयांसः अपशब्दाः अल्पीयांसः शब्दाः । एकैकस्य शब्दस्य बहवः अपभ्रंशाः । तत्यथा । गौः इति अस्य गावी गोणी गोता गोपोतलिका इति एवमादयः अपभ्रंशाः । (कात्यायन वार्तिक)आचारे नियमः(वार्तिकान्त) । आचारे पुनः ऋषिः नियमं वेदयते । ते असुराः हेलयः हेलयः इति कुर्वन्तः पराबभूवुः इति । अस्तु तर्हि प्रयोगे । (कात्यायन वार्तिक)प्रयोगे सर्वलोकस्य(वार्तिकान्त) । यदि प्रयोगे धर्मः सर्वः लोकः अभ्युदयेन युज्येत । कः च इदानीं भवतः मत्सरः यदि सर्वः लोकः अभ्युदयेन युज्येत । न खलु कः चित्मत्सरः । प्रयत्नानर्थक्यं तु भवति । फलवता च नाम प्रयत्नेन भवितव्यं न च प्रयत्नः फलात्व्यतिरेच्यः । ननु च ये कृतप्रयत्नाः ते साधीयः शब्दान्प्रयोक्ष्यन्ते । ते एव साधीयः अभ्युदयेन योक्ष्यन्ते । व्यतिरेकः अपि वै लक्ष्यते । दृश्यन्ते हि कृतप्रयत्नाः च अप्रवीणाः अकृतप्रयत्नाः च प्रवीणाः । तत्र फलव्यतिरेकः अपि स्यात। एवं तर्हि न अपि ज्ञाने एव धर्मः न अपि प्रयोगे एव । किं तर्हि (कात्यायन वार्तिक)शास्त्रपूर्वके प्रयोगे अभ्युदयः तत्तुल्यं वेदशब्देन(वार्तिकान्त) । शास्त्रपूर्वकं यः शब्दान्प्रयुङ्क्ते सः अभ्युदयेन युज्यते । तत्तुल्यं वेदशब्देन । वेदशब्दाः अपि एवं अभिवदन्ति । यः अग्निष्टोमेन यजते यः उ च एनं एवं वेद । यः अग्निं नाचिकेतं चिनुते यः उ च एनं एवं वेद । अपरः आह : तत्तुल्यं वेदशब्देन इति । यथा वेदशब्दाः नियमपूर्वं अधीताः फलवन्तः भवन्ति एवं यः शास्त्रपूर्वकं शब्दान्प्रयुङ्क्ते सः अभ्युदयेन युज्यते इति । अथ वा पुनः अस्तु ज्ञाने एव धर्मः इति । ननु च उक्तं ज्ञाने धर्मः इति चेत्तथा अधर्मः इति । न एषः दोषः । शब्दप्रमाणकाः वयं । यत्शब्दः आह ततस्माकं प्रमाणं । शब्दः च शब्दज्ञाने धर्मं आह न अपशब्दज्ञाने अधर्मं । यत्च पुनः अशिष्टाप्रतिषिद्धं न एव तत्दोषाय भवति न अभ्युदयाय । तत्यथा । हिक्कितहसितकण्डूयितानि न एव दोषाय भवन्ति न अपि अभ्युदयाय । अथ वा अभ्युपायः एव अपशब्दज्ञानं शब्दज्ञाने । यः अपशब्दान्जानाति शब्दानपि असौ जानाति । ततेवं ज्ञाने धर्मः इति ब्रुवतः अर्थातापन्नं भवति अपशब्दज्ञानपूर्वके शब्दज्ञाने धर्मः इति । अथ वा कूपखानकवतेतत्भवति । तत्यथा कूपखानकः खनन्यदि अपि मृदा पांसुभिः च अवकीर्णः भवति सः अप्सु सञ्जातासु ततः एव तं गुणं आसादयति येन सः च दोषः निर्हण्यते भूयसा च अभ्युदयेन योगः भवति एवं इह अपि यदि अपि अपशब्दज्ञाने अधर्मः तथा अपि यः तु असौ शब्दज्ञाने धर्मः तेन सः च दोषः निर्घानिष्यते भूयसा च अभ्युदयेन योगः भविष्यति । यतपि उच्यते आचारे नियमः इति याज्ञे कर्मणि सः नियमः । एवं हि श्रूयते । यर्वाणः तर्वाणः नाम ऋषयः बभूवुः प्रत्यक्षधर्माणः परापरज्ञाः विदितवेदितव्याः अधिगतयाथातथ्याः । ते तत्रभवन्तः यत्वा नः तत्वा नः इति प्रोयोक्तव्ये यर्वा णः तर्वा णः इति प्रयुञ्जते याज्ञे पुनः कर्मणि न अपभाषन्ते । तैः पुनः असुरैः याज्ञे कर्मणि अपभाषितं । ततः ते पराबभूताः ।
(पाणिनीयसूत्र १४) कि.,११।१४-१२।२७ रो.,४२-४७ अथ व्याकरणं इति अस्य शब्दस्य कः पदार्थः । सूत्रं । (कात्यायन वार्तिक)सूत्रे व्याकरणे षष्ठ्यर्थः अनुपपन्नः(वार्तिकान्त) । सूत्रे व्याकरणे षष्ठ्यर्थः न उपपद्यते व्याकरणस्य सूत्रं इति । किं हि ततन्यत्सूत्रात्व्याकरणं यस्य अदः सूत्रं स्यात। (कात्यायन वार्तिक)शब्दाप्रतिपत्तिः(वार्तिकान्त) । शब्दानां च अप्रतिपत्तिः प्राप्नोति व्याकरणात्शब्दान्प्रतिपद्यामहे इति । न हि सूत्रतः एव शब्दान्प्रतिपद्यन्ते । किं तर्हि । व्याख्यानतः च । ननु च ततेव सूत्रं विगृहीतं व्याख्यानं भवति । न केवलानि चर्चापदानि व्याख्यनं वृद्धिः आतैचिति । किं तर्हि । उदाहरणं प्रत्युदाहरणं वाक्याध्याहारः इति एतत्समुदितं व्याख्यानं भवति । एवं तर्हि शब्दः । (कात्यायन वार्तिक)शब्दे ल्युडर्थः(वार्तिकान्त) । यदि शब्दः व्याकरणं ल्युडर्थः न उपपद्यते व्याक्रियते अनेन इति व्याकरणं । न हि शब्देन किं चित्व्याक्रियते । केन तर्हि । सूत्रेण । (कात्यायन वार्तिक)भवे(वार्तिकान्त) । भवे च तद्धितः न उपपद्यते व्याकरणे भवः योगः वैयाकरणः इति । न हि शब्दे भवः योगः । क्व तर्हि । सूत्रे । (कात्यायन वार्तिक)प्रोक्तादयः च तद्धिताः(वार्तिकान्त) । प्रोक्तादयः च तद्धिताः न उपपद्यन्ते पाणिनिना प्रोक्तं पाणिनीयं , आपिशलं , काशकृत्स्नं इति । न हि पाणिनिना शब्दाः प्रोक्ताः । किं तर्हि । सूत्रं । किमर्थं इदं उभयं उच्यते भवे प्रोक्तादयः च तद्धिताः इति न प्रोक्तादयः च तद्धिताः इति एव भवे अपि तद्धितः चोदितः स्यात। पुरस्तातिदं आचार्येण दृष्टं भवे तद्धितः इति तत्पठितं । ततः उत्तरकालं इदं दृष्टं प्रोक्तादयः च तद्धिताः इति ततपि पठितं । न च इदानीं आचार्याः सूत्राणि कृत्वा निवर्तयन्ति । अयं तावतदोषः यतुच्यते शब्दे ल्युडर्थः इति । न अवश्यं करणाधिकरणयोः एव ल्युट्विधीयते किं तर्हि अन्येषु अपि कारकेषु कृत्यल्युटः बहुलं इति । तत्यथा प्रस्कन्दनं प्रपतनं इति । अथ वा शब्दैः अपि शब्दाः व्याक्रियन्ते । तत्यथा गौः इति उक्ते सर्वे सन्देहाः निवर्तन्ते न अश्वः न गर्दभः इति । अयं तर्हि दोषः भवे प्रोक्तादयः च तद्धिताः इति । एवं तर्हि (कात्यायन वार्तिक)लक्ष्यलक्षणे व्याकरणम्(वार्तिकान्त) । लक्ष्यं च लक्षणं च एतत्समुदितं व्याकरणं भवति । किं पुनः लक्ष्यं लक्षणं च । शब्दः लक्ष्यं सूत्रं लक्षणं । एवं अपि अयं दोषः समुदाये व्याकरणशब्दः प्रवृत्तः अवयवे न उपपद्यते । सूत्राणि च अधीयानः इष्यते वैयाकरणः इति । न एषः दोषः । समुदायेषु हि शब्दाः प्रवृत्ताः अवयवेषु अपि वर्तन्ते । तत्यथा पूर्वे पञ्चालाः , उत्तरे पञ्चालाः , तैलं भुक्तं , घृतं भुक्तं , शुक्लः , नीलः , कृष्णः इति । एवं अयं समुदाये व्याकरणशब्दः प्रवृत्तः अवयवे अपि वर्तते । अथ वा पुनः अस्तु सूत्रं । ननु च उक्तं सूत्रे व्याकरणे षष्ठ्यर्थः अनुपपन्नः इति । न एष दोषः । व्यपदेशिवद्भावेन भविष्यति । यतपि उच्यते शब्दाप्रतिपत्तिः इति न हि सूत्रतः एव शब्दान्प्रतिपद्यन्ते किं तर्हि व्याख्यानतः च इति परिहृतं एतत्ततेव सूत्रं विगृहीतं व्याख्यानं भवति इति । ननु च उक्तं न केवलानि चर्चापदानि व्याख्यानं वृद्धिः आतैचिति किं तर्हि उदाहरणं प्रत्युदाहरणं वाक्याध्याहारः इति एतत्समुदितं व्याख्यानं भवति इति । अविजानतः एततेवं भवति । सूत्रतः एव हि शब्दान्प्रतिपद्यन्ते । आतः च सूत्रतः एव यः हि उत्सूत्रं कथयेत्न अदः गृह्येत ।
(पाणिनीयसूत्र १५) कि.,१३।१-१४।२२ रो.,४७-५३ अथ किमर्थः वर्णानां उपदेशः । (कात्यायन वार्तिक)वृत्तिसमवायार्थः उपदेशः (वार्तिकान्त)। वृत्तिसमवायार्थः वर्णानां उपदेशः कर्तव्यः । किं इदं वृत्तिसमवयार्थः इति । वृत्तये समवायः वृत्तिसमवायः , वृत्त्यर्थः वा समवायः वृत्तिसमवायः , वृत्तिप्रयोजनः वा वृत्तिसमवयः । का पुनः वृत्तिः । शास्त्रप्रवृत्तिः । अथ कः समवयः । वर्णानां आनुपूर्व्येण सन्निवेशः । अथ कः उपदेशः । उच्चारणं । कुतः एतत। दिशिः उच्चारणक्रियः । उच्चार्य हि वर्णानाह : उपदिष्टाः इमे वर्णाः इति । (कात्यायन वार्तिक)अनुबन्धकरणार्थः च (वार्तिकान्त)। अनुबन्धकरणार्थः च वर्णानां उपदेशः कर्तव्यः । अनुबन्धानासङ्क्ष्यामि इति । न हि अनुपदिश्य वर्णाननुबन्धाः शक्याः आसङ्क्तुं । सः एषः वर्णानां उपदेशः वृत्तिसमवायार्थः च अनुबन्धकरणार्थः च । वृत्तिसमवायः च अनुबन्धकरणार्थः च प्रत्याहारार्थं । प्रत्याहारः वृत्त्यर्थः । इष्टबुद्ध्यर्थः च । इष्टबुद्ध्यर्थः च वर्णानां उपदेशः । इष्टान्वर्णान्भोत्स्ये इति । (कात्यायन वार्तिक)इष्टबुद्ध्यर्थः च इति चेतुदात्तानुदात्तस्वरितानुनासिक्दीर्घप्लुतानां अपि उपदेशः (वार्तिकान्त)। इष्टबुद्ध्यर्थः च इति चेतुदात्तानुदात्तस्वरितानुनासिक्दीर्घप्लुतानां अपि उपदेशः कर्तव्यः । एवङ्गुणाः अपि हि वर्णाः इष्यन्ते । आकृत्युपदेशात्सिद्धं । आकृत्युपदेशात्सिद्धं एतत। अवर्णाकृतिः उपदिष्टा सर्वं अवर्णकुलं ग्रहीष्यति । तथा इवर्णकुलाकृतिः । तथा उवर्णकुलाकृतिः । (कात्यायन वार्तिक)आकृत्युपदेशात्सिद्धं इति चेत्संवृतादीनां प्रतिषेधः(वार्तिकान्त) । आकृत्युपदेशात्सिद्धं इति चेत्संवृतादीनां प्रतिषेधः वक्तव्यः । के पुनः संवृतादयः । संवृतः कलः ध्मातः एणीकृतः अम्बूकृतः अर्धकः ग्रस्तः निरस्तः प्रगीतः उपगीतः क्ष्विण्णः रोमशः इति । अपरः आह : ग्रस्तं निरस्तं अविलम्बितं निर्हतं अम्बूकृतं ध्मातं अथो विकम्पितं सन्दष्टं एणीकृतं अर्धकं द्रुतं विकीर्णं एताः स्वरदोषभावनाः इति । अतः अन्ये व्यञ्जनदोषाः । न एषः दोषः । गर्गादिबिदादिपाठात्संवृतादीनां निवृत्तिः भविष्यति । अस्ति अन्यत्गर्गादिबिदादिपाठे प्रयोजनं । किं । समुदायानां साधुत्वं यथा स्यातिति । एवं तर्हि अष्टादशधा भिन्नां निवृत्तकलादिकां अवर्णस्य प्रत्यापत्तिं वक्ष्यामि । सा तर्हि वक्तव्या । (कात्यायन वार्तिक)लिङ्गार्था तु प्रत्यापत्तिः(वार्तिकान्त) । लिङ्गार्थ सा तर्हि भविष्यति । तत्तर्हि वक्तव्यं । यदि अपि एततुच्यते अथ वा एतर्हि अनुबन्धशतं न उच्चार्यं इत्सञ्ज्ञा च न वक्तव्या लोपः च न वक्तव्यः । यतनुबन्धैः क्रियते तत्कलादिभिः करिष्यति । सिध्यति एवं अपाणिनीयं तु भवति । यथान्यासं एव अस्तु । ननु च उक्तं आकृत्युपदेशात्सिद्धं इति चेत्संवृतादीनां प्रतिषेधः इति ।परिहृतं एतत्गर्गादिबिदादिपाठात्संवृतादीनां निवृत्तिः भविष्यति । ननु च अन्यत्गर्गादिबिदादिपाठे प्रयोजनं उक्तं । किं । समुदायानां साधुत्वं यथा स्यातिति । एवं तर्हि उभयं अनेन क्रियते । पाठः च एव विशेष्यते कलादयः च निवर्त्यन्ते । कथं पुनः एकेन यत्नेन उभयं लभ्यं । लभ्यं इति आह । कथं । द्विगताः अपि हेतवः भवन्ति । तत्यथा : आम्राः च सिक्ताः पितरः च प्रीणिताः इति । तथा वाक्यानि अपि ड्विष्ठानि भवन्ति । श्वेतः धावति , अलम्बुसानां याता इति । अथ वा इदं तावतयं प्रष्टव्यः । क्वे इमे संवृतादयः श्रूयेरनिति । आगमेषु । आगमाः शुद्धाः पठ्यन्ते । विकारेषु तर्हि । विकाराः शुद्धाः पठ्यन्ते । प्रत्ययेषु तर्हि । प्रत्ययाः शुद्धाः पठ्यन्ते । धातुषु तर्हि । धातवः अपि शुद्धाः पठ्यन्ते । प्रातिपदिकेषु तर्हि । प्रातिपदिकानि अपि शुद्धानि पठ्यन्ते । यानि तर्हि अग्रहणानि प्रातिपदिकानि । एतेषां अपि स्वरवर्णानुपूर्वीज्ञानार्थः उपदेशः कर्तव्यः । शशः षषः इति मा भूत। पलाशः पलाषः इति मा भूत। मञ्चकः मञ्जकः इति मा भूत। आगमाः च विकाराः च प्रत्ययाः सह धातुभिः उच्चार्यन्ते ततः तेषु न इमे प्राप्ताः कलादयः ।
(ऋस्_१।१) कि.,१५।२-१६।१८ रो.,५४-६० (कात्यायन वार्तिक)अकारस्य विवृतोपदेशः आकारग्रहणार्थः(वार्तिकान्त) । अकारस्य विवृतोपदेशः कर्तव्यः । किं प्रयोजनं । आकारग्रहणार्थः । अकारः सवर्णग्रगणेन आकारं अपि यथा गृह्णीयात। किं च कारणं न गृह्णीयात। विवारभेदात। किं उच्यते विवारभेदातिति न पुनः कालभेदादपि । यथा एव हि विवारभिन्नः एवं कालभिन्नः अपि । सत्यं एतत। वक्ष्यति तुल्यास्यप्रयत्नं सवर्णं इति अत्र आस्यग्रहणस्य प्रयोजनं आस्ये येषां तुल्यः देशः प्रयत्नः च ते सवर्णसञ्ज्ञकाः भवन्ति इति । बाह्यः च पुनः आस्यात्कालः । तेन स्यातेव कालभिन्नस्य ग्रहणं न पुनः विवारभिन्नस्य । किं पुनः इदं विवृतस्य उपदिश्यमानस्य प्रयोजनं अन्वाख्यायते आहोस्वित्संवृतस्य उपदिश्यमानस्य विवृतोपदेशः चोद्यते । विवृतस्य उपदिश्यमानस्य प्रयोजनं अन्वाख्यायते । कथं ज्ञायते । यतयं अ* अ इति अकारस्य विवृतस्य संवृतताप्रत्यापत्तिं शास्ति । न एततस्ति ज्ञापकं । अस्ति हि अन्यतेतस्य वचने प्रयोजनं । किं । अतिखट्वः , अतिमालः इति अत्र आन्तर्यतः विवृतस्य विवृतः प्राप्नोति । संवृतः स्यातिति एवमर्था प्रत्यापत्तिः । न एततस्ति । न एव लोके न च वेदे अकारो विवृतः अस्ति । कः तर्हि । संवृतः । यः अस्ति सः भविष्यति । ततेतत्प्रत्यापत्तिवचनं ज्ञापकं एव भविष्यति विवृतस्य उपदिश्यमानस्य प्रयोजनं अन्वाख्यायते इति । कः पुनः अत्र विशेषः विवृतस्य उपदिश्यमानस्य प्रयोजनं अन्वाख्यायेत संवृतस्य उपदिश्यमानस्य वा विवृतोपदेशः चोद्येत इति । न खलु कः चिद्विशेषः । आहोपुरुषिकामात्रं तु भवानाह संवृतस्य उपदिश्यमानस्य विवृतोपदेशः चोद्यते इति । वयं तु ब्रूमः विवृतस्य उपदिश्यमानस्य प्रयोजनं अन्वाख्यायते इति। (कात्यायन वार्तिक)तस्य विवृतोपदेशातन्यत्र अपि विवृतोपदेशः सवर्णग्रहणार्थः (वार्तिकान्त)। तस्य एतस्य आक्षरसमाम्नायिकस्य विवृतोपदेशातन्यत्र अपि विवृतोपदेशः कर्तव्यः । क्व अन्यत्र । धातुप्रातिपदिकप्रत्ययनिपातस्थस्य । किं प्रयोजनं । सवर्णग्रहणार्थः । आक्षरसमाम्नायिकेन अस्य ग्रहणं यथा स्यात। किं च कारणं न स्यात। विवारभेदातेव । आचार्यप्रवृत्तिः ज्ञापयति भवति आक्षरसमाम्नायिकेन धात्वादिस्थस्य ग्रहणं इति यतयं अकः सवर्णे दीर्घः इति प्रत्याहारे अकः ग्रहणं करोति । कथं कृत्वा ज्ञापकं । न हि द्वयोः आक्षरसमाम्नायिकयोः युगपत्समवस्थानं अस्ति । न एततस्ति ज्ञापकं । अस्ति हि अन्यतेतस्य वचने प्रयोजनं । किम। यस्य आक्षरसमाम्नायिकेन ग्रहणं अस्ति तदर्थं एतत्स्यात। खट्वाढकं मालाढकं इति । सति प्रयोजने न ज्ञापकं भवति । तस्मात्विवृतोपदेशः कर्तव्यः । कः एषः यत्नः चोद्यते विवृतोपदेशः नाम । विवृतः वा उपदिश्येत संवृतः वा कः नु अत्र विशेषः । सः एषः सर्वः एवमर्थः यत्नः यानि एतानि प्रातिपदिकानि अग्रहणानि तेषां एतेन अभ्युपायेन उपदेशः चोद्यते । तत्गुरु भवति । तस्मात्वक्तव्यं धात्वादिस्थः च विवृतः इति । (कात्यायन वार्तिक)दीर्घप्लुतवचने च संवृतनिवृत्त्यर्थः (वार्तिकान्त)। दीर्घप्लुतवचने च संवृतनिवृत्त्यर्थः विवृतोपदेशः कर्तव्यः । दीर्घप्लुतौ संवृतौ मा भूतां इति । वृक्षाभ्यां देवदत्ता इति । न एव लोके न च वेदे दीर्घप्लुतौ संवृतौ स्तः । कौ तर्हि । विवृतौ । यौ स्तः तौ भविष्यतः । स्थानी प्रकल्पयेतेतौ अनुस्वारः यथा यणं । संवृतः स्थानी संवृतौ दीर्घप्लुतौ प्रकल्पयेतनुस्वारः यथा यणं । तत्यथा सय्Áयन्ता सव्Áवत्सरः यल्Á लोकं तल्Á लोकं इति । अन्स्वारः स्थानी यणं अनुनासिकं प्रकल्पयति । विषमः उपन्यासः । युक्तं यत्सतः तत्र प्रक्ल्प्तिः भवति । सन्ति हि यणः सानुनासिकाः निरनुनासिकाः च । दीर्घप्लुतौ पुनः न एव लोके न च वेद संवृतौ स्तः । कौ तर्हि । विवृतौ । यौ स्तः तौ भविष्यतः । एवं अपि कुतः एतत्तुल्यस्थानौ प्रयत्नभिन्नौ भविष्यतः न पुनः तुल्यप्रयत्नौ स्थानभिन्नौ स्यातां ईकारः ऊकारः वा इति । वक्ष्यति स्थाने अन्तरतमः इति अत्र स्थाने इति वर्तमाने पुनः स्थानेग्रहणस्य प्रयोजनं । यत्र अनेकविधं आन्तर्यं तत्र स्थानतः एव आन्तर्यं बलीयः यथा स्यात।
(ऋस्_१।२) कि.,१६।१९-१९।८ रो.,६०-६९ (कात्यायन वार्तिक)तत्र अनुवृत्तिनिर्देशे सवर्णाग्रहणं अनण्त्वात्(वार्तिकान्त) । तत्र अनुवृत्तिनिर्देशे सवर्णानां ग्रहणं न प्राप्नोति । अस्य च्वौ यस्य ईति च । किं कारणं । अनण्त्वात। न हि एते अणः ये अनुवृत्तौ । के तर्हि । ये अक्षरसमाम्नये उपदिश्यन्ते । (कात्यायन वार्तिक)एकत्वातकारस्य सिद्धम्(वार्तिकान्त) । एकः अयं अकारः यः च अक्षरसमाम्नये यः च अनुवृत्तौ यः च धात्वादिस्थः । (कात्यायन वार्तिक)अनुबन्धसङ्करः तु(वार्तिकान्त) । अनुबन्धसङ्करः तु प्राप्नोति । कर्मणि अण्, आतः अनुपसर्गे कः इति के अपि णित्कृतं प्राप्नोति । (कात्यायन वार्तिक)एकाजनेकाज्ग्रहणेषु च अनुपपत्तिः(वार्तिकान्त) । एकाजनेकाज्ग्रहणेषु च अनुपपत्तिः भविष्यति । तत्र कः दोषः । किरिणा गिरिणा इति अत्र एकाज्लक्षणं अन्तोदात्तत्वं प्राप्नोति । इह च घटेन तरति घटिक इति द्व्यज्लक्षणः ठन्न प्राप्नोति । (कात्यायन वार्तिक)द्रव्यवत्च उपचाराः(वार्तिकान्त) । द्रव्यवत्च उपचाराः प्राप्नुवन्ति । तत्यथा । द्रव्येषु न एकेन घटेन अनेकः युगपत्कार्यं करोति । एवं इमं अकारं न अनेकः युगपतुच्चारयेत। (कात्यायन वार्तिक)विषयेण तु नानालिङ्गकारणात्सिद्धम्(वार्तिकान्त) । यतयं विषये विषये नानालिङ्गं अकारं करोति कर्मणि अणातः अनुपसर्गे कः इति तेन ज्ञायते नानुबन्धसङ्करः अस्ति इति । यदि हि स्यात्नानालिङ्गकरणं अनर्थकं स्यात। एकं एव अयं सर्वगुणं उच्चारयेत। न एततस्ति ज्ञपकं । इत्सञ्ज्ञाप्रक्ल्प्त्यर्थं एतत्स्यात। न हि अयं अनुबन्धैः शल्यकवत्शक्यः उपचेतुं । इत्सञ्ज्ञयां हि दोषः स्यात। आयम्य हि द्वयोः इत्सञ्ज्ञा स्यात। कयोः । आद्यन्तयोः । एवं तर्हि विषयेण तु पुनः लिङ्गकरणात्सिद्धं । यतयं विषये विषये पुनः लिङ्गं अकारं करोति प्राक्दीव्यतः अण्, शिवादिभ्यः अणिति तेन ज्ञायते न अनुबन्धसङ्करः अस्ति इति । यदि हि स्यात्पुनः लिङ्गकरणं अनर्थकं स्यात। अथ वा पुनः अस्तु विषयेण तु नानालिङ्गकारणात्सिद्धं इति एव । ननु च उक्तं इत्सञ्ज्ञाप्रक्ल्प्त्यर्थं एतत्स्यातिति । न एष दोषः । लोकतः एतत्सिद्धं । तत्यथा : लोके कः चित्देवदत्तं आह : इह मुण्डो भव , इह जटी भव , इह शिखी भव इति । यल्लिङ्गः यत्र उच्यते तल्लिङ्गः तत्र उपतिष्ठते । एवं अकारः यल्लिङ्गः यत्र उच्यते तल्लिङ्गः तत्र उपस्थास्यते । यतपि उच्यते एकाजनेकाज्ग्रहणेषु च अनुपपत्तिः इति । (कात्यायन वार्तिक)एकाजनेकाज्ग्रहणेषु च आवृत्तिसङ्ख्यानात्(वार्तिकान्त) । एकाजनेकाज्ग्रहणेषु च आवृत्तेः सङ्ख्यानातनेकाच्त्वं भविष्यति । तत्यथा सप्तदश सामिधेन्यः भवन्ति इति त्रिः प्रथमं अन्वाह त्रिः उत्तमं इति आवृत्तितः सप्तदशत्वं भवति । एवं इह अपि आवृत्तितः अनेकाच्त्वं भविष्यति । भवेदावृत्तितः कार्यं परिहृतं । इह तु खलु किरिणा गिरिणा इति एकाज्लक्षणं अन्तोदात्तत्वं प्राप्नोति एव । एततपि सिद्धं । कथं । लोकतः । तत्यथा लोके ऋषिसहस्रं एकां कपिलां एकैकशः सहस्रकृत्वः दत्त्वा तया सर्वे ते सहस्रदक्षिणः संपन्नाः एवं इह अपि अनेकाच्त्वं भविष्यति । यतपि उच्यते द्रव्यवत्च उपचाराः प्राप्नुवन्ति इति । भवेत्यतसम्भवि कार्यं तत्न अनेकः युगपत्कुर्यात। यत्तु खलु सम्भवि कार्यं अनेकः अपि तत्युगपत्करोति । तत्यथा घटस्य दर्शनं स्पर्शनं वा । सम्भवि च इदं कार्यं अकारस्य उच्चारणं नाम अनेकः अपि तत्युगपत्करिष्यति । (कात्यायन वार्तिक)आन्यभाव्यं तु कालशब्दव्यवायात्(वार्तिकान्त) । आन्यभाव्यं तु अकारस्य । कुतः । कालशब्दव्यवायात। कालव्यवायात्शब्दव्यवायात्च । कालव्यावायातः दण्ड , अग्रं । शब्दव्यवायातः दण्डः । न च एकस्य आत्मनः व्यवायेन भवितव्यं । भवति चेत्भवति आन्यभाव्यं अकारस्य । (कात्यायन वार्तिक)युगपत्च देशपृथक्त्वदर्शनात्(वार्तिकान्त) । युगपत्च देशपृथक्त्वदर्शनात्मन्यामहे आन्यभाव्यं अकारस्य इति । यतयं युगपत्देशपृथक्त्वेषु उपलभ्यते । अश्वः , अर्कः , अर्थः इति । न हि एकः देवदत्तः युगपत्स्रुघ्ने च भवति मथुरायां च । यदि पुनः इमे वर्णाः शकुनिवत्स्युः । तत्यथा शकुनयः आशुगमित्वात्पुरस्तातुत्पतिताः पश्चात्दृश्यन्ते एवं अयं अकारः द इति अत्र दृष्टः ण्ड इति अत्र दृश्यते । न एवं शक्यं । अनित्यत्वं एवं स्यात। नित्याः च शब्दाः । नित्येषु च शब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यं अनपायोपजनविकारिभिः । यदि च अयं द इति अत्र दृष्टः ण्ड इति अत्र दृश्येत न अयं कूटस्थः स्यात। यदि पुनः इमे वर्णाः आदित्यवत्स्युः । तत्यथा एकः आदित्यः अनेकाधिकरण्स्थः युगपत्देशपृथक्त्वेषु उपलभ्यते । विषमः उपन्यासः । न एकः द्रष्टा आदित्यं अनेकाधिकरणस्थं युगपत्देशपृथक्त्वेषु उपलभते । अकारं पुनः उपलभते । अकारं अपि न उपलभते । किं कारणं । श्रोत्रोपलब्धिः बुद्धिनिर्ग्राह्यः प्रयोगेण अभिज्वलितः आकाशदेशः शब्दः एकं च आकाशं । आकाशदेशाः अपि बहवः । यावता बहवः तस्मातान्यभाव्यं अकारस्य । (कात्यायन वार्तिक)आकृतिग्रहणात्सिद्धम्(वार्तिकान्त) । अवर्णाकृतिः उपदिष्टा सर्वं अवर्णकुलं ग्रहीष्यति । तथा इवर्णाकृतिः । तथा उवर्णाकृतिः । (कात्यायन वार्तिक)तद्वत्च तपरकरणम्(वार्तिकान्त) । एवं च कृत्वा तपराः क्रियन्ते । आकृतिग्रहणेन अतिप्रसक्तं इति । ननु च सवर्णग्रहणेन अतिप्रसक्तं इति कृत्वा तपराः क्रियेरन। प्रत्याख्यायते ततः सवर्णे अण्ग्रहणं अपरिभाष्यं आकृतिग्रहणातनन्यत्वात्च इति । (कात्यायन वार्तिक)हल्ग्रहणेषु च(वार्तिकान्त) । किं । आकृतिग्रहणात्सिद्धं इति एव । झलो झलि : अवात्तां अवात्तं अवात्त यत्र एतत्न अस्ति : अण्सवर्णान्गृह्णाति इति । (कात्यायन वार्तिक)रूपसामन्यात्वा(वार्तिकान्त) । रूपसामान्यात्वा सिद्धं । तत्यथा : तानेव शाटकानाच्छादयामः ये मथुरायां , तानेव शालीन्भुञ्ज्महे ये मगधेषु , ततेव इदं भवतः कार्षापणं यत्मथुरायां गृहीतं । अन्यस्मिन्च अन्यस्मिन्च रूपसामान्यात्ततेव इदं इति भवति । एवं इह अपि रूपसामान्यात्सिद्धं ।
(ऋस्_२) कि.,१९।१०-२१।२८ रो.,७०-७९ ल्कारोपदेशः किमर्थः । किं विशेषेण ल्कारोपदेशः चोद्यते न पुनः अन्येषां अपि वर्णानां उपदेशः चोद्यते । यदि किं चितन्येषां अपि वर्णानां उपदेशे प्रयोजनं अस्ति ल्कारोपदेशस्य अपि तत्भवितुं अर्हति । कः वा विशेषः । अयं अस्ति विशेषः । अस्य हि ल्कारस्य अल्पीयान्च एव प्रयोगविषयः यः च अपि प्रयोगविषयः सः अपि क्ल्पिस्थस्य । क्ल्पेः च लत्वं असिद्धं । तस्य असिद्धत्वातृकारस्य एव अच्कार्याणि भविष्यन्ति । न अर्थः ल्कारोपदेशेन । अतः उत्तरं पठति : (कात्यायन वार्तिक)ल्कारोपदेशः यदृच्छाशक्तिजानुकरणप्लुत्याद्यर्थः(वार्तिकान्त) । ल्कारोपदेशः क्रियते यदृच्छाशब्दार्थः अशक्तिजानुकरणार्थः प्लुत्याद्यर्थः च । यदृच्छाशब्दार्थः तावत। यदृच्छया कः चित्ल्तकः नाम तस्मिनच्कार्याणि यथा स्युः । दधि ल्तक देहि । मधु ल्तक देहि । उदङ्ल्तकः अगमत। प्रत्यङ्ल्तकः अगमत। चतुष्टयी शब्दानां प्रवृत्तिः : जातिशब्दाः गुणशब्दाः क्रियाशब्दाः यदृच्छाशब्दाः चतुर्थाः । अशक्तिजानुकरणार्थः । अशक्त्या कया चित्ब्राह्मण्या ऋतकः इति प्रयोक्तव्ये ल्तकः इति प्रयुक्तं । तस्य अनुकरणं : ब्राह्मणी ल्तकः इति आह । कुमारी ल्तकः इति आह इति । प्लुताद्यर्थः च ल्कारोपदेशः कर्तव्यः । के पुनः प्लुतादयः । प्लुतिद्विर्वचनस्वरिताः : क्ल्प्तशिख क्ल्प्प्तः , प्रक्ल्प्तः । प्लुत्यादिषु कार्येषु क्ल्पेः लत्वं सिद्धं । तस्य सिद्धत्वातच्कार्याणि न सिध्यन्ति । तस्मात्ल्कारोपदेशः कर्तव्यः । न एतानि सन्ति प्रयोजनानि । (कात्यायन वार्तिक)न्याय्यभावात्कल्पनं सञ्ज्ञादिषु (वार्तिकान्त)। न्याय्यस्य ऋतकशब्दस्य भावात्कल्पनं सञ्ज्ञादिषु साधु मन्यन्ते । ऋतकः एव असौ न ल्तकः इति । अपरः आह : न्याय्यः ऋतकशब्दः शास्त्रान्वितः अस्ति । सः कल्पयितव्यः साधुः सञ्ज्ञादिषु । ऋतकः एव असौ न ल्तकः । अयं तर्हि यदृच्छाशब्दः अपरिहार्यः । ल्फिडः ल्फिड्डः । एषः अपि ऋफिडः ऋफिड्डः च । कथं । अर्तिप्रवृत्तिः च एव लोके लक्ष्यते फिडिफिड्डौ औणादिकौ प्रत्ययौ । त्रयी च शब्दानां प्रवृत्तिः । जातिशब्दाः गुणशब्दाः क्रियाशब्दाः इति । न सन्ति यदृच्छाशब्दाः । अन्यथा कृत्वा प्रयोजनं उक्तं अन्यथा कृत्वा परिहारः । सन्ति यदृच्छाशब्दाः इति कृत्वा प्रयोजनं उक्तं । न सन्ति इति परिहारः । समाने च अर्थे शास्त्रान्वितः अशास्त्रान्वितस्य निवर्तकः भवति । तत्यथा । देवदत्तशब्दः देवदिण्णशब्दं निवर्तयति न गाव्यादीन। न एष दोषः । पक्षान्तरैः अपि परिहाराः भवन्ति । (कात्यायन वार्तिक)अनुकरणं शिष्टाशिष्टाप्रतिषिद्धेषु यथा लौकिकवैदिकेषु (वार्तिकान्त)। अनुकरणं हि शिष्टस्य साधु भवति । अशिष्टाप्रतिषिद्धस्य वा न एव तत्दोषाय भवति न अभ्युदयाय । यथा लौकिकवैदिकेषु । यथा लौकिकेषु वैदिकेषु च कृतान्तेषु । लोके तावतः यः एवं असौ ददाति यः एवं असौ यजते यः एवं असौ अधीते इति तस्य अनुकुर्वन्दद्यात्च यजेत च अधीयीत च सः अभ्युदयेन युज्यते । वेदे अपि : ये एवं विश्वसृजः सत्त्राणि अध्यासते इति तेषां अनुकुर्वन्तद्वत्सत्त्राणि अध्यासीत सः अपि अभ्युदयेन युज्यते । अशिष्टाप्रतिषिद्धं । यः एवं असौ हिक्कति यः एवं असौ हसति यः एवं असौ कण्डूयति इति तस्य अनुकुर्वन्हिक्केत्च हसेत्च कण्डूयेत्च न एव तत्दोषाय स्यात्न अभ्युदयाय । यः तु खलु एवं असौ ब्राह्मणं हन्ति एवं असौ सुरां पिबति इति तस्य अनुकुर्वन्ब्राह्मणं हन्यात्सुरां वा पिबेत्सः अपि मन्ये पतितः स्यात। विषमः उपन्यासः । यः च एवं हन्ति यः च अनुहन्ति उभौ तौ हतः । यः च पिबति यः च अनुपिबति उभौ तौ पिबतः । यः तु खलु एवं असौ ब्राह्मणं हन्ति एवं असौ सुरां पिबति इति तस्य अनुकुर्वन्स्नातानुलिप्तः माल्यगुणकण्ठः कदलीस्तम्भं छिन्द्यात्पयः वा पिबेत्न स मन्ये पतितः । एवं इह अपि यः एवं असौ अपशब्दं प्रयुङ्क्ते इति तस्य अनुकुर्वनपशब्दं प्रयुञ्जीत सः अपि अपशब्दभाक्स्यात। अयं तु अन्यः अपशब्दपदार्थकः शब्दः यदर्थः उपदेशः कर्तव्यः । न च अपशब्दपदार्थकः शब्दः अपशब्दः भवति । अवश्यं च एततेवं विज्ञेयं । यः हि मन्येत अपशब्दपदार्थकः शब्दः अपशब्दः भवति इति अपशब्दः इति एव तस्य अपशब्दः स्यात। न च एषः अपशब्दः । अयं खलु अपि भूयः अनुकरणशब्दः अपरिहार्यः यदर्थः उपदेशः कर्तव्यः । साधु ल्कारं अधीते । मधु ल्कारं अधीते इति । क्वस्थस्य पुनः एततनुकरणं । क्ल्पिस्थस्य । यदि क्ल्पिस्थस्य क्ल्पेः च लत्वं असिद्धं तस्य असिद्धत्वातृकारे एव अच्कार्याणि भविष्यन्ति । भवेत्तदर्थेन न अर्थः स्यात। अयं तु अन्यः क्ल्पिस्थपदार्थकः शब्दः यदर्थः उपदेशः कर्तव्यः । न कर्तव्यः । इदं अवश्यं वक्तव्यं । प्रकृतिवतनुकरणं भवति इति । किं प्रयोजनं । द्विः पचन्तु इति आह । तिङतिङः इति निघातः यथा स्यात। अग्नी इति आह । ईदूदेत्द्विवचनं प्रगृह्यं इति प्रगृह्यसञ्ज्ञा यथा स्यात। यदि प्रकृतिवतनुकरणं भवति इति उच्यते अपशब्दः एव असौ भवति कुमारील्तकः इति आह । ब्रह्मणी ल्तकः इति आह । अपशब्दः हि अस्य प्रकृतिः । न चापशब्दः प्रकृतिः । न हि अपशब्दाः उपदिश्यन्ते । न च अनुपदिष्टा प्रकृतिः अस्ति। (कात्यायन वार्तिक)एकदेशविकृतस्य अनन्यत्वात्प्लुत्यादयः(वार्तिकान्त) । एकदेशविकृतं अनन्यवत्भवति इति प्लुत्यादयः भविष्यन्ति । यदि एकदेशविकृतं अनन्यवत्भवति इति उच्यते राज्ञः क च राजकीयं अल्लोपः अनः इति लोपः प्राप्नोति । एकदेशविकृतं अनन्यवत्षष्ठीनिर्दिष्टस्य इति वक्ष्यामि । यदि षष्ठीनिर्दिष्टस्य इति उच्यते क्ल्प्तशिख इति प्लुतः न प्राप्नोति । न हि अत्र ऋकारः षष्ठीनिर्दिष्टः । कः तर्हि । रेफः । ऋकारः अपि अत्र षष्ठीनिर्दिष्टः । कथं । अविभक्तिकः निर्देशः । कृप उः रः लः कृपो रो लः इति । अथ वा पुनः अस्तु अविशेषेण । ननु च उक्तं । राज्ञः क च राजकीयं अल्लोपः अनः इति लोपः प्राप्नोति इति । वक्ष्यति एतत। श्वादीनां प्रसारणे नकारान्तग्रहणं अनकारान्तप्रतिषेधार्थं इति । तत्प्रकृतं उत्तरत्र अनुवर्तिष्यते । अल्लोपः अनः नकारान्तस्य इति । इह तर्हि क्ल्प्तशिख इति अनृतः इति प्रतिषेधः प्राप्नोति । (कात्यायन वार्तिक)रवत्प्रतिषेधात्च (वार्तिकान्त)। रवत्प्रतिषेधात्च एतत्सिध्यति । गुरोः अरवतः इति वक्ष्यामि । यदि अरवतः इति उच्यते होतृ-ऋकार , होत्®ऋकार , अत्र न प्राप्नोति । गुरोः अरवतः ह्रस्वस्य इति वक्ष्यामि । सः एषः सूत्रभेदेन ल्कारः प्लुत्याद्यर्थः सन्प्रत्याख्यायते । सा एषा महतः वंशस्तम्बात्लट्वा अनुकृष्यते ।
(ऋस्_३-४।१) कि.,२२।२-२३।२३ रो.,७९-८४ इदं विचार्यते । इमानि सन्ध्यक्षराणि तपराणि वा उपदिश्येरन। एत्, ओत्, ङ। ऐत्, औत्, चिति । अतपराणि वा यथान्यासं इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)सन्ध्यक्षरेषु तपरोपदेशः चेत्तपरोच्चारणम्(वार्तिकान्त) । सन्ध्यक्षरेषु तपरोपदेशः चेत्तपरोच्चारणं कर्तव्यं । (कात्यायन वार्तिक)प्लुत्यादिषु अज्विधिः(वार्तिकान्त) । प्लुत्यादिषु अजाश्रयः विधिः न सिध्यति । गोत्रात नौत्रात इति अत्र अनचि च इति अचः उत्तरस्य यरः द्वे भवतः इति द्विर्वचनं न प्राप्नोति । इह च प्रत्यङैतिकयन उदङौपगव इति अचि इति ङमुट्न प्राप्नोति । (कात्यायन वार्तिक)प्लुतसञ्ज्ञा च(वार्तिकान्त) । प्लुतसञ्ज्ञा च न सिध्यति । ऐतिकयन औपगव । ऊकलः अच्ह्रस्वदीर्घप्लुतः इति प्लुतसञ्ज्ञा न प्राप्नोति । सन्तु तर्हि अतपराणि । (कात्यायन वार्तिक)अतपरे एचः इख्रस्वादेशे(वार्तिकान्त) । यदि अतपराणि एचः इख्रस्वादेशे इति वक्तव्यं । किं प्रयोजनं । एचः ह्रस्वादेशशासनेषु अर्धः एकारः अर्धः ओकारः वा मा भूतिति । ननु च यस्य अपि तपराणि तेन अपि एतत्वक्तव्यं । इमौ ऐचौ समाहारवर्णौ मात्रा अवर्णस्य मात्रा इवर्णोवर्णयोः । तयोः ह्रस्वादेशशासनेषु कदा चितवर्णः स्यात्कदा चितिवर्णोवर्णौ । मा कदा चितवर्णं भूतिति । प्रत्याख्यायते एततः ऐचोः च उत्तरभूयस्त्वातिति । यदि प्रत्याख्यानपक्षः इदं अपि प्रत्याख्यायते : सिद्धं एङः सस्थानत्वातिति । ननु च एङः सस्थानतरौ अर्धः एकारः अर्धः ओकारः च । न तौ स्तः । यदि हि तौ स्यातां तौ एव अयं उपदिशेत। ननु च भोः छन्दोगानां सात्यमुग्रिराणायनीयाः अर्धं एकारं अर्धं ओकारं च अधीयते : सुजाते एश्वसूनृते , अध्वर्यो ओद्रिभिः सुतं , शुक्रं ते एन्यत्यजतं ते एन्यतिति । पार्षदकृतिः एषा तत्रभवतां । न एव हि लोके न अन्यस्मिन्वेदे अर्धः एकारः अर्धः ओकारः वा अस्ति । (कात्यायन वार्तिक)एकादेशे दीर्घग्रहणम्(वार्तिकान्त) । एकादेशे दीर्घग्रहणं कर्तव्यं । आत्गुणः दीर्घः । वृद्धिः एचि दीर्घः इति । किं प्रयोजनं । आन्तर्यतः त्रिमात्रचतुर्नात्राणां स्थानिनां त्रिमात्रचतुर्मात्राः आदेशाः मा भूवनिति। खट्वा , इन्द्रः खट्वेन्द्रः , खट्वा , उदकं खट्वोदकं , खट्वा , ईषा खट्वेषा , खट्वा , ऊढा खट्वोढा , खट्वा , एलका खट्वैलका , खट्वा , ओदनः खट्वौदनः , खट्वा , ऐतिकायनः खट्वैतिकायनः , खट्वा , औपगवः खट्वौपगवः । तत्तर्हि दीर्घग्रहणं कर्तव्यं । न कर्तव्यं । उपरिष्टात्योगविभागः करिष्यते । अकः सवर्णे एकः भवति । ततः दीर्घः । दीर्घः च स भवति यः सः एकः पूर्वपरयोः इति एवं निर्दिष्टः इति । इह अपि तर्हि प्राप्नोति । पशुं , विद्धं , पचन्ति इति । न एषः दोषः । इह तावत्पशुं इति अमि एकः इति इयता सिद्धं । सः अयं एवं सिद्धे सति यत्पूर्वग्रहणं करोति तस्य एतत्प्रयोजनं यथाजातीयकः पूर्वः तथाजातीयकः उभयोः यथा स्यातिति । विद्धं इति पूर्वः इति एव अनुवर्तते । अथ वा आचार्यप्रवृत्तिः ज्ञापयति न अनेन सम्प्रसारणस्य दीर्घः भवति इति यतयं हलः उत्तरस्य सम्प्रसारणस्य दीर्घत्वं शास्ति । पचन्ति इति अतः गुणे परः इति इयता सिद्धं । सः अयं एवं सिद्धे सति यत्रूपग्रहणं करोति तस्य एतत्प्रयोजनं यथाजातीयकं परस्य रूपं तथाजातीयकं उभयोः यथा स्यातिति । इह तर्हि खट्वर्श्यः मालर्श्यः इति दीर्घवचनातकारः न आनन्तर्यातेकाकौकारौ न । तत्र कः दोषः । विगृहीतस्य श्रवणं प्रसज्येत । न ब्रूमः यत्र क्रियमाणे दोषः तत्र कर्तव्यं । किं तर्हि । यत्र क्रियमाणे न दोषः तत्र कर्तव्यं इति । क्व च क्रियमाणे न दोषः । सञ्ज्ञाविधौ । वृद्धीः आतैच्दीर्घः । अतेङ्गुणः दीर्घः इति । तत्तर्हि दीर्घग्रहणं कर्तव्यं । न कर्तव्यं । कस्मातेव आन्तर्यतः त्रिमात्रचतुर्नात्राणां स्थानिनं त्रिमात्रचतुर्मात्राः आदेशाः न भवन्ति । तपरे गुणवृद्धी । ननु च भोः तः परः यस्मात्सः अयं तपरः । न इति आह । तातपि परः तपरः इति । यदि तातपि परः तपरः ®दोः अपिति इह एव स्यातः यवः स्तवः । लवः पवः इति अत्र न स्यात। न एषः तकारः । कः तर्हि । दकारः । किं दकारे प्रयोजनं । अथ किं तकारे प्रयोजनं । यदि असन्देहार्थः तकारः दकारः अपि । अथ मुखसुखार्थः तकारः दकारः अपि ।
(ऋस्_३-४।२) कि.,२३।२४-२६।२७ रो.,८४-९३ इदं विचार्यते । ये एते वर्णेषु वर्णैकदेशाः वर्णान्तरसमानाकृतयः एतेषां अवयवग्रहणेन ग्रहणं स्यात्वा न वा इति । कुतः पुनः इयं विचारणा । इह समुदायाः अपि उपदिश्यन्ते अवयवाः अपि । अभ्यन्तरः च समुदाये अवयवः । तत्यथा : वृक्षः प्रचलन्सह अवयवैः प्रचलति । तत्र समुदायस्थस्य अवयवस्य अवयवग्रहणेन ग्रहणं स्यात्वा न वा इति जायते विचारणा । कः च अत्र विशेषः । (कात्यायन वार्तिक)वर्णैकदेशाः वर्णग्रहणेन चेत्सन्ध्यक्ष्रे समानाक्षरविधिप्रतिषेधः(वार्तिकान्त) । वर्णैकदेशाः वर्णग्रहणेन इति चेत्सन्ध्यक्षरे समानाक्षराश्रयः विधिः प्राप्नोति । स प्रतिषेध्यः : अग्ने , इन्द्रं । वायो , उदकं । अकः सवर्णे दीर्घः इति दीर्घत्वं प्राप्नोति । (कात्यायन वार्तिक)दीर्घे ह्रस्वविधिप्रतिषेधः(वार्तिकान्त) । दीर्घे ह्रस्वाक्षराश्रयः विधिः प्राप्नोति । स प्रतिषेध्यः । ग्रामणीः , आलूय , प्रलूय । ह्रस्वस्य पिति कृति तुक्भवति इति तुक्प्राप्नोति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न दीर्घे ह्रस्वाश्रयः विधिः भवति इति यतयं दीर्घात्छे तुकं शास्ति । न एततस्ति ज्ञापकं । अस्ति हि अन्यतेतस्य वचने प्रयोजनं । किं । पदान्तात्वा इति विभाषां वक्ष्यामि इति । यत्तर्हि योगविभागं करोति । इतरथा हि दीर्घात्पदान्तात्वा इति एव ब्रूयात। इह तर्हि खट्वाभिः , मालाभिः , अतः बिह्सः ऐस्, इति ऐस्भावः प्राप्नोति । तपरकरणसामर्थ्यात्न भविष्यति । इह तर्हि याता वाता , अतः लोपः आर्धधातुके इति अकारलोपः प्राप्नोति । ननु च अत्र अपि तपरकरणसामर्थ्यातेव न भविष्यति । अस्ति हि अन्यत्तपरकरणे प्रयोजनं । किं । सर्वस्य लोपः मा भूतिति । अथ क्रियमाणे अपि तपरे परस्य लोपे कृते पूर्वस्य कस्मात्न भवति । परलोपस्य स्थानिवद्भावातसिद्धत्वात्च । एवं तर्हि आचार्यप्रवृत्तिः ज्ञापयति नाकारस्थस्य अकारस्य लोपः भवति इति यतयं आतः अनुपसर्गे कः इति ककारं अनुबन्धं करोति । कथं कृत्वा ज्ञापकं । कित्करणे एतत्प्रयोजनं किति इति आकार्लोपः यथा स्यातिति । यदि च आकारस्थस्य अपि अकार्लोपः स्यात्कित्करणं अनर्थकं स्यात। परस्य अकारस्य लोपे कृते द्वयोः अकारयोः पररूपे हि सिद्धं रूपं स्यातः गोदः , कम्बलदः इति । पश्यति तु आचार्यः नाकारस्थस्य अकारस्य लोपः भवति इति । अतः ककारं अनुबन्धं करोति । न एततस्ति ज्ञापकं । उत्तरार्थं एतत्स्यात। तुन्दशोकयोः परिमृजापनुदोः इति । यत्तर्हि गापोः ठकिति अनन्यार्थं ककारं अनुबन्धं करोति । (कात्यायन वार्तिक)एकवर्णवत्च(वार्तिकान्त) । एकवर्णवत्च दीर्घः भवति इति वक्तव्यं । किं प्रयोजनं । वाचा तरति इति द्व्यज्लक्षणः ठन्मा भूतिति । इह च वाचः निमित्तं , तस्य निमित्तं संयोगोत्पात्तौ इति द्व्यज्लक्षणः यत्मा भूतिति । अत्र अपि गोनौग्रहणं ज्ञापकं दीर्घात्द्व्यज्लक्षणः विधिः न भवति इति । अयं तु सर्वेषां परिहारः : (कात्यायन वार्तिक)न अव्यपवृक्तस्य अवयवे तद्विधिः यथा द्रव्येषु(वार्तिकान्त) । न अव्यपवृक्तस्य अवयव्स्य अवयवाश्रयः विधिः भवति यथा द्रव्येषु । तत्यथा द्रव्येषु : सप्तदश सामिधेन्यः भवन्ति इति न सप्तदशारत्निमात्रं काष्ठं अग्नौ अभ्याधीयते । विषमः उपन्यासः । प्रत्यृचं च एव हि तत्कर्म चोद्यते असम्भवः च अग्नौ वेद्यां च । यथा तर्हि सप्तदश प्रादेशमात्रीः अश्वत्थीः समिधः अभ्यादधीत इति न सप्तदशप्रादेशमात्रं काष्ठं अभ्याधीयते । अत्र अपि प्रतिप्रवणं च एतत्कर्म चोद्यते तुल्यः च असम्भवः अग्नौ वेद्यां च । यथा तर्हि तैलं न विक्रेतव्यं , मांसं न विक्रेतव्यं इति । व्यपवृत्कं च न विक्रीयते , अव्यपवृक्तं च गावः च सर्षपाः च विक्रियन्ते । तथा लोमनखं स्पृष्ट्वा शौचं कर्तव्यं इति , व्यपवृक्तं स्पृष्ट्वा नियोगतः कर्तव्यं अव्यपवृक्ते कामचारः । यत्र तर्हि व्यपवर्गः अस्ति । क्व च व्यपवर्गः अस्ति । सन्ध्यक्षरेषु । (कात्यायन वार्तिक)सन्ध्यक्षरेषु विवृतत्वात्(वार्तिकान्त) । यतत्र अवर्णं विवृततरं ततन्यस्मातवर्णात। ये*अपि इवर्णोवर्णे विवृततरे ते*अन्याभ्यां इवर्णोवर्णाभ्यां । अथवा पुनः न गृह्यन्ते । (कात्यायन वार्तिक)अग्रहणं चेत्नुड्विधिलादेशविनामेषु ऋकारग्रहणम्(वार्तिकान्त) । अग्रहणं चेत्नुड्विधिलादेशविनामेषु ऋकारस्य ग्रहणं कर्तव्यं । तस्मात्नुट्द्विहलः , ऋकारे च इति वक्तव्यं इह अपि यथा स्यातः आनृधतुः , आनृधुः इति । यस्य पुनः गृह्यन्ते द्विहलः इति एव तस्य सिद्धं । यस्य अपि न गृह्यन्ते तस्य अपि एषः न दोषः । द्विहल्ग्रहणं न करिष्यते । तस्मात्नुट्भवति इति एव । यदि न क्रियते आटतुः , आटुः इति अत्र अपि प्राप्नोति । अश्नोतिग्रहणं नियमार्थं भविष्यति । अश्नोतेः एव अवर्णोपधस्य न अन्यस्य अवर्णोपधस्य इति । लादेशे च ऋकारग्रहणं कर्तव्यं । कृपः रः लः , ऋकारस्य च इति वक्तव्यं इह अपि यथा स्यातः क्ल्प्तः , क्ल्प्तवानिति । यस्य पुनः गृह्यन्ते रः इति एव तस्य सिद्धं । यस्य अपि न गृह्यन्ते तस्य अपि एषः न दोषः । ऋकारः अपि अत्र निर्दिश्यते । कथं । अविभक्तिकः निर्देशः । कृप , उः , रः , लः कृपो रो लः इति । अथ वा उभयतः स्फोटमात्रं निर्दिश्यते । रश्रुतेः लश्रुतिः भवति इति । विनामे ऋकारग्रहणं कर्तव्यं । रषाभ्यां नः णः समानपदे , ऋकारात्च इति वक्तय्वं इह अपि यथा स्यातः मात्®णां , पित्®णां इति । यस्य पुनः गृह्यन्ते रषाभ्यां इति एव तस्य सिद्धं । न सिध्यति । यत्तत्रेफात्परं भक्तेः तेन व्यवहितत्वात्न प्राप्नोति । मा भूतेवं । अड्व्यवाये इति एव सिद्धं । न सिध्यति । वर्णैकदेशाः के वर्णग्रहणेन गृह्यन्ते । ये व्यपवृक्ताः अपि वर्णाः भवन्ति । यत्च अपि रेफात्परं भक्तेः न तत्क्व चितपि व्यपवृक्तं दृश्यते । एवं तर्हि योगविभागः करिष्यते । रषाभ्यां नः णः समानपदे । ततः व्यवाये । व्यवाये च रषाभ्यां नः णः भवति इति । ततः अट्कुप्वाङ्नुम्भिः इति । इदं इदानीं किमर्थं । नियमार्थं । एतैः एव आक्षरसमम्नायिकैः व्यवाये न अन्यैः इति । यस्य अपि न गृह्यन्ते तस्य अपि एषः न दोषः । आचार्यप्रवृत्तिः ज्ञापयति भवति ऋकारात्नः णत्वं इति यतयं क्षुभादिषु नृनमनशब्दं पठति । न एततस्ति ज्ञापकं । वृद्ध्यर्थं एतत्स्यातः नार्नमनिः । यत्तर्हि तृप्नोतिशब्दं पठति । यत्च अपि नृनमनशब्दं पठति । ननु च उक्तं वृद्ध्यर्थं एतत्स्यातिति । बहिरङ्गा वृद्धिः । अन्तरङ्गं णत्वं । असिद्धं बहिरङ्गं अन्तरङ्गे । अथ वा उपरिष्टात्योगविभागः करिष्यते । ऋतो नः णः भवति । ततः छन्दसि अवग्रहात। ऋतः इति एव । (कात्यायन वार्तिक)प्लुतौ ऐचः इदुतौ(वार्तिकान्त) । एतत्च वक्तव्यं । यस्य पुनः गृह्यन्ते गुरोः टेः इति एव प्लुत्या तस्य सिद्धं । यस्य अपि न गृह्यन्ते तस्य अपि एषः न दोषः । क्रियते एतत्न्यासे एव । (कात्यायन वार्तिक)तुल्यरूपे संयोगे द्विव्यञ्जनविधिः(वार्तिकान्त) । तुल्यरूपे संयोगे द्विव्यञ्जनाश्रयः विधिः न सिध्यति : कुक्कुटः , पिप्पलः , पित्तं इति । यस्य पुनः गृह्यन्ते तस्य द्वौ ककारौ द्वौ पकारौ द्वौ तकारौ । यस्य अपि न गृह्यन्ते तस्य अपि द्वौ ककारौ द्वौ पकारौ द्वौ तकारौ । कथं । मात्राकालः अत्र गम्यते । न च मात्रिकं व्यञ्जनं अस्ति । अनुपदिष्टं सत्कथं शक्यं विज्ञातुं । यदि अपि तावतत्र एतत्शक्यते वक्तुं यत्र एतत्न अस्ति अण्सवर्णान्गृह्णाति इति इह तु कथं सय्Áयन्ता सव्Áवत्सरः यल्Á लोकं तल्Á लोकं इति यत्र एततस्ति अण्सवर्णान्गृह्णाति इति । अत्र अपि मात्राकलः गृह्यते न च मात्रिकं व्यञ्जनं अस्ति । अनुपदिष्टं सत्कथं शक्यं प्रतिपत्तुं ।
(ऋस्_५।१) कि.,२७।२-२० रो.,९३-९४ सर्वे वर्णाः सकृतुपदिष्टाः । अयं हकारः द्विः उपदिश्यते पूर्वः च परः च । यदि पुनः पूर्वः एव उपदिश्येत परः एव वा । कः च अत्र विशेषः । (कात्यायन वार्तिक)हकारस्य परोपदेशे अड्ग्रहणेषु हग्रहणम्(वार्तिकान्त) । हकारस्य परोपदेशे अड्ग्रहणेषु हग्रहणं कर्तव्यं । आतः अटि नित्यं , शः छः अटि , दीर्घातटि समानपदे । हकारे च इति वक्तव्यं इह अपि यथा स्यातः महाÁ हि सः । (कात्यायन वार्तिक)उत्त्वे च (वार्तिकान्त)। उत्त्वे च हकारग्रहणं कर्तव्यं । अतः रोः अप्लुतातप्लुते , हशि च । हकारे च इति वक्तव्यं इह अपि यथा स्यातः पुरुषः हसति , ब्राह्मणः हसति इति । अस्तु तर्हि पूर्वोपदेशः । (कात्यायन वार्तिक)पूर्वोपदेशे कित्त्वक्सेड्विधयः झल्ग्रहणानि च(वार्तिकान्त) । यदि पूर्वोपदेशः कित्त्वं विधेयं । स्निहित्वा स्नेहित्वा सिस्निहिषति सिस्नेहिषति । रलः व्युपधात्हलादेः इति कित्त्वं न प्राप्नोति । क्सविधिः । क्सः च विधेयः । अधुक्षतलिक्षत। शलः इगुपधातनिटः क्सः इति क्सः न प्राप्नोति । इड्विधिः । इट्च विधेयः । रुदिहि स्वपिहि । वलादिलक्षणः इट्न प्राप्नोति। झल्ग्रहणानि च । किं । अहकाराणि स्युः । तत्र कः दोषः । झलः झलि इति इह न स्यातः अदाग्धां अदाग्धं । तस्मात्पूर्वः च उपदेष्टव्यः परः च । यदि च किं चितन्यत्र अपि उपदेशे प्रयोजनं अस्ति तत्र अपि उपदेशः कर्तव्यः ।
(ऋस्_५।२) कि.,२७।२१-२८।१५ रो.,९५-९७ इदं विचार्यते : अयं रेफः यकारवकाराभ्यां पूर्वः एव उपदिश्येत ह र य वटिति परः एव वा यथान्यासं इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)रेफस्य परोपदेशे अनुनासिकद्विर्वचनपरसवर्णप्रतिषेधः(वार्तिकान्त) । रेफस्य परोपदेशे अनुनासिकद्विर्वचनपरसवर्णानां प्रतिषेधः वक्तव्यः । अनुनासिकस्य : स्वः नयति , प्रातः नयति इति यरः अनुनासिके अनुनासिकः वा इति अनुनासिकः प्राप्नोति । द्विर्वचनस्य : भद्रह्रदः , मद्रह्रदः इति यरः इति द्विर्वचनं प्राप्नोति । परसवर्णस्य : कुण्डं रथेन , वनं रथेन । अनुस्वारस्य ययि इति परसवर्णः प्राप्नोति । अस्तु तर्हि पूर्वोपदेशः । (कात्यायन वार्तिक)पूर्वोपदेशे कित्त्वप्रतिषेधः व्यलोपवचनं च(वार्तिकान्त) । यदि पूर्वोपदेशः कित्त्वं प्रतिषेध्यं । देवित्वा दिदेविषति । रलः व्युपधातिति कित्त्वं प्राप्नोति । न एषः दोषः । न एवं विज्ञायते रलः व्युपधातिति । किं तर्हि । रलः अव्व्युपधातिति । किं इदं अव्व्युपधातिति । अवकारान्तात्व्युव्पधातव्व्युपधातिति । व्यलोपवचनं च । व्योः च लोपः वक्तव्यः : गौधेरः , पचेरन्यजेरन। जीवेः रदानुकः जीरदानुः । वलि इति लोपः न प्राप्नोति । न एषः दोषः । रेफः अपि अत्र निर्दिश्यते । लोपः व्योः वलि इति रेफे च वलि च इति । अथ वा पुनः अस्तु परोपदेशः । ननु च उक्तं रेफस्य परोपदेशे अनुनासिकद्विर्वचनपरसवर्णप्रतिषेधः इति । अनुनासिकपरसवर्णयोः तावत्प्रतिषेधः न वक्तव्यः । रेफोष्मणां सवर्णाः न सन्ति । द्विर्वचने अपि न इमौ रहौ कार्यिणौ द्विर्वचनस्य । किं तर्हि । निमित्तं इमौ रहौ द्विर्वचनस्य । तत्यथा । ब्राह्मणाः भोज्यन्तां । माठरकौण्डिन्यौ परिवेविष्टां इति। न इदानीं तौ भुञ्जाते ।
(ऋस्_५।३) कि.,२८।१६-२९।२८ रो.,९७-१०१ इदं विचार्यते । इमे अयोगवाहाः न क्व चितुपदिश्यन्ते श्रूयन्ते च । तेषां कार्यार्थः उपदेशः कर्तव्यः । के पुनः अयोगवाहाः । विसर्जनीयजिह्वामूलीयोपध्मानीयानुस्वारानुनासिक्ययमाः । कथं पुनः अयोगवाहाः । यतयुक्ताः वहन्ति अनुपदिष्टाः च श्रूयन्ते । क्व पुनः एषां उपदेशः कर्तव्यः । (कात्यायन वार्तिक)अयोगवाहानां अट्सु णत्वम्(वार्तिकान्त) । अयोगवाहानां अट्सु उपदेशः कर्तव्यः । किं प्रयोजनं । णत्वं । उरःकेण , उरःपेण : अड्व्यवाये इति णत्वं सिद्धं भवति । (कात्यायन वार्तिक)शर्षु जश्भावषत्वे(वार्तिकान्त) । शर्षु उपदेशः कर्तव्यः । किं प्रयोजनं । जश्भावषत्वे । अयं उब्जिः उपध्मानीयोपधः पठ्यते । तस्य जश्त्वे कृते उब्जिता उब्जितुं इति एतत्रूपं यथा स्यात। यदि उब्जिः उपध्मानीयोपधः पठ्यते उब्जिजिषति इति उपध्मानीयादेः एव द्विर्वचनं प्राप्नोति। दकारोपधे पुनः नन्द्राः संयोगादयः इति प्रतिषेधसः सिद्धः भवति । यदि दकारोपधः पठ्यते का रूपसिद्धिः : उब्जिता उब्जितुं इति । असिद्धे भः उद्जेः । इदं अस्ति स्तोः श्चुना श्चुः इति । ततः वक्ष्यामि भः उद्जेः । उद्जेः श्चुना सन्निपाते भः भवति इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । निपातनातेव सिद्धं । किं निपातनं । भुजन्युब्जौ पण्युपतपयोः इति । इह अपि तर्हि प्राप्नोति अभ्युद्गः , समुद्गः इति । अकुत्वविषये तत्निपातनं । अथ वा न एततुब्जेः रूपं । गमेः द्व्युपर्सर्गात्डः विधीयते । अभ्युद्गतः अभ्युद्गः । समुद्गतः समुद्गः इति । षत्वं च प्रयोजनं । सर्पिःषु धनुःषु । शर्व्यवाये इति षत्वं सिद्धं भवति । नुम्विसर्जनीयशर्व्यवाये अपि इति विसर्जनीयग्रहणं न कर्तव्यं भवति । नुमः च अपि तर्हि ग्रहणं शक्यं अकर्तुं । कथं सर्पींषि धनूंषि । अनुस्वारे कृते शर्व्यवाये इति एव सिद्धं । अवश्यं नुमः ग्रहणं कर्तव्यं अनुस्वारविशेषणं नुम्ग्रहणं नुमः यः अनुस्वारः तत्र यथा स्यातिह मा भूतः पुंसु इति । अथ वा अविशेषेण उपदेशः कर्तव्यः । किं प्रयोजनं । (कात्यायन वार्तिक)अविशेषेण संयोगोपधासञ्ज्ञालोन्त्यद्विर्वचनस्थानिवद्भावप्रतिषेधाः(वार्तिकान्त) । अविशेषेण संयोगसञ्ज्ञा प्रयोजनं । ऊब्जक । हलः अनन्तराः संयोगः इति संयोगसञ्ज्ञा संयोगे गुरु इति गुरुसञ्ज्ञा गुरोः इति प्लुतः भवति । उपधासञ्ज्ञा च प्रयोजनं । दुष्कृतं , निष्कृतं , निष्पीतं , दुष्पीतं । इदुदुपधस्य च अप्रत्ययस्य इति षत्वं सिद्धं भवति । न एततस्ति प्रयोजनं । न इदुदुपधग्रहणनेन विसर्जनीयः विशेष्यते । किं तर्हि । सकारः विशेष्यते । इदुदुपधस्य सकारस्य यः विसर्जनीयः इति । अथ वा उपधाग्रहणं न करिष्यते । इदुद्भ्यां तु विसर्जनीयं विशेषयिष्यामः । इदुद्भ्यां उत्तरस्य विसर्जनीयस्य इति । अलः अन्त्यविधिः प्रयोजनं । वृक्षः तरति । प्लक्षः तरति । अलः अन्त्यस्य विधयः भवन्ति इति अलः अन्त्यस्य सत्वं सिद्धं भवति । एततपि न अस्ति प्रयोजनं । निर्दिश्यमानस्य आदेशाः भवन्ति इति विसर्जनीयस्य एव भविष्यति । द्विर्वचनं प्रयोजनं । उरःकः , उरःपः । अनचि च । अचः उत्तरस्य यरः द्वे भवतः इति द्विर्वचनं सिद्धं भवति । स्थानिवद्भावप्रतिषेधः च प्रयोजनं । यथा इह भवति उरःकेण , उरःपेण इति अड्व्यवाये अपि इति णत्वं एवं इह अपि स्थानिवद्भावात्प्राप्नोति व्यूढोरस्केन महोरस्केन इति । तत्र अनल्विधौ इति प्रतिषेधः सिद्धः भवति ।
(ऋस्_५।४) कि.,३०।१-३२।११ रो.,१०१-१०६ किं पुनः इमे वर्णाः अर्थवन्तः आहोस्वितनर्थकाः । (कात्यायन वार्तिक)अर्थवन्तः वर्णाः धातुप्रातिपदिकप्रत्ययनिपातानां एकवर्णानां अर्थदर्शनात्(वार्तिकान्त) । धातवः एकवर्णाः अर्थवन्तः दृश्यन्ते : एति , अध्येति , अधीते इति । प्रातिपदिकनि एकवर्णानि अर्थवन्ति : आभ्यां , एभिः , एषु । प्रत्ययाः एकवर्णाः अर्थवन्तः : औपगवः , कापटवः । निपाताः एकवर्णाः अर्थवन्तः : अ*अपेहि । इ*इन्द्रं पश्य । उ*उत्तिष्ठ । धातुप्रातिपदिकप्रत्ययनिपातानां एकवर्णानां अर्थदर्शनात्मन्यामहे अर्थवन्तः वर्णाः इति । (कात्यायन वार्तिक)वर्णव्यत्यये च अर्थान्तरगमनात्(वार्तिकान्त) । वर्णव्यत्यये च अर्थान्तरगमनात्मन्यामहे अर्थवन्तः वर्णाः इति । कूपः , सूपः , यूपः इति । कूपः इति सककारेण कः चितर्थः गम्यते । सूपः इति ककारापाये सकारोपजने च अर्थान्तरं गम्यते । यूपः इति ककारसकारापाये यकारोपजने च अर्थान्ततं गम्यते । ते मन्यामहे : यः कूपे कूपार्थः सः ककारस्य । यः सूपे सूपार्थः सः सकारस्य । यः यूपे यूपार्थः सः यकारस्य इति । (कात्यायन वार्तिक)वर्णानुपलब्धौ च अनर्थगतेः(वार्तिकान्त) । वर्णानुपलब्धौ च अनर्थगतेः मन्यामहे अर्थवन्तः वर्णाः इति । वृक्षः , ऋक्षः , काण्डीरः , आण्डीरः । वृक्षः इति सककारेण कः चितर्थः गम्यते । ऋक्षः इति वकारापाये सः अर्थः न गम्यते । काण्डीरः इति सककारेण कः चितर्थः गम्यते । आण्डीरः इति ककारापाये सः अर्थः न गम्यते । किं तर्हि उच्यते अनर्थगतेः इति । न साधीयः हि अत्र अर्थस्य गतिः भवति । एवं तर्हि इदं पठितव्यं स्यात। वर्णानुपलब्धौ च अतदर्थगतेः । किं इदं अतदर्थगतेः इति । तस्य अर्थः तदर्थः । तदर्थस्य गतिः तदर्थगतिः । न तदर्थगतिः अतदर्थगतिः । अतदर्थगतेः इति । अथ वा सः अर्थः तदर्थः । तदर्थस्य गतिः तदर्थगतिः । न तदर्थगतिः अतदर्थगतिः । अतदर्थगतेः इति । सः तर्हि तथा निर्देशः कर्तव्यः । न कर्तव्यः । उत्तरपदलोपः अत्र द्रष्टव्यः । तत्यथाः उष्ट्रमुखं इव मुखं अस्य उष्ट्रमुखः , खरमुखं इव मुखं अस्य खरमुखः । एवं अतदर्थगतेः अनर्थगतेः । (कात्यायन वार्तिक)सङ्घातार्थवत्त्वात्च(वार्तिकान्त) । सङ्घातार्थवत्त्वात्च मन्यामहे अर्थवन्तः वर्णाः इति । येषां सङ्घाताः अर्थवन्तः अवयवाः अपि तेषां अर्थवन्तः । येषां पुनः अवयवाः अनर्थकाः समुदायाः अपि तेषां अनर्थकाः । तत्यथाः एकः चक्षुष्मान्दर्शने समर्थः तत्समुदायः च शतं अपि समर्थं । एकः च तिलः तैलदाने समर्थः तत्समुदायः च खारी अपि समर्था । येषां पुनः अवयवाः अनर्थकाः समुदायाः अपि तेषां अनर्थकाः । तत्यथाः एकः अन्धः दर्शने असमर्थः तत्समुदायः च शतं अपि असमर्थं । एका च सिकता तैलदाने असमर्था तत्समुदायः च खारीशतं अपि असमर्थं । यदि तर्हि इमे वर्णाः अर्थवन्तः अर्थवत्कृतानि प्राप्नुवन्ति । कानि । अर्थवत्प्रातिपदिकं इति प्रातिपदिकसञ्ज्ञा प्रातिपदिकातिति स्वाद्युत्पत्तिः सुबन्तं पदं इति पदसञ्ज्ञा । तत्र कः दोषः । पदस्य इति नलोपादीनि प्राप्नुवन्ति । धनं , वनं इति । (कात्यायन वार्तिक)सङ्घातस्य ऐकार्थ्यात्सुबभावः वर्णात्(वार्तिकान्त) । सङ्घातस्य एकत्वं अर्थः । तेन वर्णात्सुबुत्पत्तिः न भविष्यति । (कात्यायन वार्तिक)अनर्थकाः तु प्रतिवर्णं अर्थानुपलब्धेः(वार्तिकान्त) । अनर्थकाः तु वर्णाः । कुतः । प्रतिवर्णं अर्थानुपलब्धेः । न हि प्रतिवर्णं अर्थाः उपलभ्यन्ते । किं इदं प्रतिवर्णं इति । वर्णं वर्णं प्रति प्रतिवर्णं । (कात्यायन वार्तिक)वर्णव्यत्ययापायोपजनविकारेषु अर्थदर्शनात्(वार्तिकान्त) । वर्णव्यत्ययापायोपजनविकारेषु अर्थदर्शनात्मन्यामहे अनर्थकाः वर्णाः इति । वर्णव्यत्ययेः कृतेः तर्कुः , कसेः सिकताः , हिंसेः सिंहः । वर्णव्यत्ययः न अर्थव्यत्ययः । अपायः लोपः । घ्नन्ति , घन्तु , अघ्नन। वर्णापायः नार्थापायः । उपजनः आगमः । लविता , लवितुं । वर्णोपजनः न अर्थोपजनः । विकारः आदेशः । घातयति , घातकः । वर्णविकारः न अर्थविकारः । यथा एव वर्णव्यत्ययापायोपजनविकाराः भवन्ति तद्वतर्थव्यत्ययापायोपजनविकारैः भवितव्यं । न च इह तद्वत। अतः मन्यामहे अनर्थकाः वर्णाः इति । उभयं इदं वर्णेषु उक्तं अर्थवन्तः अनर्थकाः इति च । किं अत्र न्याय्यं । उभयं इति आह । कुतः । स्वभावतः । तत्यथाः समानं ईहमानानां अधीयानानां च के चितर्थैः युज्यन्ते अपरे न । न च इदानीं कः चितर्थवानिति कृत्वा सर्वैः अर्थवद्भिः शक्यं भवितुं , कः चितनर्थकः इति कृत्वा सर्वैः अनर्थकैः । तत्र किं अस्माभिः शक्यं कर्तुं । यत्धातुप्रत्ययप्रातिपदिकनिपाताः एकवर्णाः अर्थवन्तः अतः अन्ये अनर्थकाः इति स्वाभाविकं एतत। कथं यः एषः भवता वर्णानां अर्थवत्तायां हेतुः उपदिष्टः अर्थवन्तः वर्णाः धातुप्रातिपदिकप्रत्ययनिपातानां एकवर्णानां अर्थदर्शनात्वर्णव्यत्यये च अर्थान्तरगमनात्वर्णानुपलब्धौ च अनर्थगतेः सङ्घातार्थवत्त्वात्च इति । सङ्घातान्तराणि एव एतानि एवञ्जातीयकानि अर्थान्तरेषु वर्तन्तेः कूपः , सूपः , यूपः इति । यदि हि वर्णव्यत्ययकृतं अर्थान्तरगमनं स्यात्भूयिष्ठः कूपार्थः सूपे स्यात्सूपार्थः च कूपे कूपार्थः च यूपे यूपार्थः च कूपे सूपार्थः च यूपे यूपार्थः च सूपे । यतः तु खलु न कः चित्कूपस्य वा सूपे सूपस्य वा कूपे कूपस्य वा यूपे यूपस्य वा कूपे सूपस्य वा यूपे यूपस्य वा सूपे अतः मन्यामहे सङ्घातान्तराणि एव एतानि एवञ्जातीयकानि अर्थान्तरेषु वर्तन्ते इति । इदं खलु अपि भवता वर्णानां अर्थवत्तां ब्रुवता साधीयः अनर्थकत्वं द्योतितं । यः मन्यते यः कूपे कूपार्थः सः ककारस्य सूपे सूपार्थः सः सकारस्य यूपे यूपार्थः सः यकारस्य इति ऊपशब्दः तस्य अनर्थकः स्यात। तत्र इदं अपरिहृतं सङ्घातार्थवत्त्वात्च । एतस्य अपि प्रातिपदिकस्ञ्ज्ञायां वक्ष्यति ।
(ऋस्_५।५) कि.,३२।१२-३३।४ रो.,१०७-१०८ अ , इ , उणृ , ल्के , ओङै , औच। (कात्यायन वार्तिक)प्रत्याहारे अनुबन्धानां कथं अज्ग्रहणेषु न(वार्तिकान्त) । ये एते अक्षु प्रत्याहारार्थाः अनुबन्धाः क्रियन्ते एतेषां अज्ग्रहणेषु ग्रहणं कस्मात्न भवति । किं च स्यात। दधि णकारीयति मधु णकारीयति इति । इकः यणचि इति यणादेशः प्रसज्येत । (कात्यायन वार्तिक)आचारात्(वार्तिकान्त) । किं इदं आचारातिति । आचार्याणां उपचारात। न एतेषु आचार्याः अच्कार्याणि कृतवन्तः । (कात्यायन वार्तिक)अप्रधानत्वात्(वार्तिकान्त) । अप्रधानत्वात्च । न खलु अपि एतेषां अक्षु प्राधान्येन उपदेशः क्रियते । क्व तर्हि । हल्षु । कुतः एतत। एषा हि आचार्यस्य शैली लक्ष्यते यत्तुल्यजातीयान्तुल्यजातीयेषु उपदिशति । अचः अक्षु हलः हल्षु । (कात्यायन वार्तिक)लोपः च बलवत्तरः(वार्तिकान्त) । लोपः खलु अपि तावत्भवति । (कात्यायन वार्तिक)ऊकालः अचिति वा योगः तत्कालानां यथा भवेतचां ग्रहणं अच्कार्यं तेन एतेषां न भविष्यति(वार्तिकान्त) । अथ वा योगविभागः करिष्यते । ऊकालः अच। उ ऊ उ३ इति एवङ्कालः अच्भवति । ततः ह्रस्वदीर्घप्लुतः । ह्रस्वदीर्घप्लुतसञ्ज्ञः च भवति ऊकालः अच। एवं अपि कुक्कुटः इति अत्र अपि प्राप्नोति । तस्मात्पूर्वोक्तः एव परिहारः । एषः एव अर्थः। अपरः आह : (कात्यायन वार्तिक)ह्रस्वादीनां वचनात्प्राक्यावत्तावतेव योगः अस्तु अच्कार्याणि यथा स्युः तत्कालेषु अक्षु कार्याणि(वार्तिकान्त) ।
(ऋस्_५।६) कि.,३३।५-३४।२ रो.,१०८-११० अथ किमर्थं अन्तःस्थानां अण्सु उपदेशः क्रियते । इह सय्Áय्Áयन्ता सव्Áव्Áवत्सरः यल्Á ल्Áलोकं तल्Á ल्Áलोकं इति परसवर्णस्य असिद्धत्वातनुस्वारस्य एव द्विर्वचनं । तत्र परस्य परसवर्णे कृते तस्य यय्ग्रहणेन ग्रहणात्पूर्वस्य अपि परसवर्णः यथा स्यात। न एततस्ति प्रयोजनं । वक्ष्यति एतत। द्विर्वचने परसवर्णत्वं सिद्धं वक्तव्यं इति । यावता सिद्धत्वं उच्यते परसवर्णः एव तावद्भवति । परसवर्णे तर्हि कृते तस्य यर्ग्रहणेण ग्रहणात्द्विर्वचनं यथा स्यात। मा भूत्द्विर्वचनं । ननु च भेदः भवति। सति द्विर्वचने त्रियकारं असति द्विर्वचने द्वियकारं । न अस्ति भेदः । सति अपि द्विर्वचने द्वियकारं एव । कथं । हलः यमां यमि लोपः इति एवं एकस्य लोपेन भवितव्यं । एवं अपि भेदः । सति द्विर्वचने कदा चित्द्वियकारं कदा चित्त्रियकारं । सः एषः कथं भेदः न स्यात। यदि नित्यः लोपः स्यात। विभाषा च सः लोपः । यथा अभेदः तथा अस्तु । (कात्यायन वार्तिक)अनुवर्तते विभाषा शरः अचि यत्वारयति अयं द्वित्वम्(वार्तिकान्त) । यतयं शरः अचि इति द्विर्वचनप्रतिषेधं शास्ति तत्ज्ञापयति आचार्यः अनुवर्तते विभाषा इति । कथं कृत्वा ज्ञापकं । (कात्यायन वार्तिक)नित्ये हि तस्य लोपे प्रतिषेधार्थः न कः चित्स्यात्(वार्तिकान्त) । यदि नित्यः लोपः स्यात्प्रतिषेधवचनं अनर्थकं स्यात। अस्तु अत्र द्विर्वचनं । झरः झरि सवर्णे इति लोपः भविष्यति । पश्यति तु आचार्यः विभाषा सः लोपः इति । ततः द्विर्वचनप्रतिषेधं शास्ति । न एततस्ति ज्ञापकं । नित्ये अपि तस्य लोपे सः प्रतिषेधः अवश्यं वक्तव्यः । यतेततचः रहाभ्यां इति द्विर्वचनं लोपापवादः सः विज्ञायते । कथं । यरः इति उच्यते । एतावन्तः च यरः यतुत झरः वा यमः वा । यदि च अत्र नित्यः लोपः स्यात्द्विर्वचनं अनर्थकं स्यात। किं तर्हि तयोः योगयोः उदाहरणं । यतकृते द्विर्वचने त्रिव्यञ्जनः संयोगः । प्रत्त्तं , अवत्त्तं , आदित्य्यः । इह इदानीं कर्त्ता , हर्त्ता इति द्विर्वचनसामर्थ्यात्लोपः न भवति । एवं इह अपि लोपः न स्यातःः कर्षति वर्षति इति । तस्मात्नित्ये अपि लोपे अवश्यं सः प्रतिषेधः वक्तव्यः । ततेततत्यन्तं सन्दिग्धं वर्तते आचार्याणां विभाषा अनुवर्तते न वा इति ।
(ऋस्_६) कि.,३४।४-३५।१८ रो.,१११-११५ अयं णकारः द्विः अनुबध्यते पूर्वः च परः च । तत्र अण्ग्रहणेषु इण्ग्रहणेषु च सन्देहः भवति पूर्वेण वा स्युः परेण वा इति । कतरस्मिन्तावतण्ग्रहणे सन्देहः । ढ्रलोपे पूर्वस्य दीर्घः अणः इति । असन्दिग्धं पूर्वेण न परेण । कुतः एतत। पराभावात। न हि ढ्रलोपे परे अणः सन्ति । ननु च अयं अस्ति : आतृढं आवृढं इति । एवं तर्हि सामर्थ्यात्पूर्वेण न परेण । यदि हि परेण स्यातण्ग्रहणं अनर्थकं स्यात। ढ्रलोपे पूर्वस्य दीर्घः अचः इति एव ब्रूयात। अथ वा एततपि न ब्रूयात। अचः हि एतत्भवति ह्रस्वः दीर्घः प्लुतः इति । अस्मिन्तर्हि अण्ग्रहणे सन्देहः के अणः इति । असन्दिग्धं पूर्वेण न परेण । कुतः एतत। पराभावात। न हि के परे अणः सन्ति । ननु च अयं अस्ति । गोका नौका इति । एवं तर्हि सामर्थ्यात्पूर्वेण न परेण । यदि हि परेण स्यातण्ग्रहणं अनर्थकं स्यात। के अचः इति एव ब्रूयात। अथ वा एततपि न ब्रूयात। अचः हि एतत्भवति ह्रस्वः दीर्घः प्लुतः इति । अस्मिन्तर्हि अण्ग्रहणे सन्देहः अणः अप्रगृह्यस्य अनुनासिकः इति । असन्दिग्धं पूर्वेण न परेण । कुतः एतत। पराभावात। न हि पदान्ताः परे अणः सन्ति । ननु च अयं अस्ति कर्तृ हर्तृ इति । एवं तर्हि सामर्थ्यात्पूर्वेण न परेण । यदि हि परेण स्यातण्ग्रहणं अनर्थकं स्यात।अचः अप्रगृह्यस्य अनुनासिकः इति एव ब्रूयात। अथ वा एततपि न ब्रूयात। अचः एव हि प्रगृह्याः भवन्ति । अस्मिन्तर्हि अण्ग्रहणे सन्देहः उः अण्रपरः इति । असन्दिग्धं पूर्वेण न परेण । कुतः एतत। पराभावात। न हि उः स्थाने परे अणः सन्ति । ननु च अयं अस्ति कर्त्रर्थं हर्त्रर्थं इति । किं च स्यात। यदि अत्र रपरत्वं स्यात्द्वयोः रेफयोः श्रवणं प्रसज्येत । हलः यमां यमि लोपः इति एवं एकस्य अत्र लोपः भवति। विभाषा सः लोपः । विभाषा श्रवणं प्रसज्येत । अयं तर्हि नित्यः लोपः रः रि इति । पदान्तस्य इति एवं सः । न शक्यः पदान्तस्य विज्ञातुं । इह हि लोपः न स्यात्जर्गृधेः लङजर्घाः पास्पर्धेः अपास्पाः इति । इह तर्हि मात्®णां पित्®णां इति रपरत्वं प्रसज्येत । आचार्यप्रवृत्तिः ज्ञापयति न अत्र रपरत्वं भवति इति यतयं ®तः इत्धातोः इति धातुग्रहणं करोति । कथं कृत्वा ज्ञापकं । धातुग्रहणस्य एतत्प्रयोजनं । इह मा भूतः मात्®णां , पित्®णां इति । यदि च अत्र रपरत्वं स्यात्धातुग्रहणं अनर्थकं स्यात। रपरत्वे कृते अनन्त्यत्वातित्त्वं न भविष्यति । पश्यति तु आचार्यः न अत्र रपरत्वं भवति इति ततः धातुग्रहणं करोति । इह अपि तर्हि इत्त्वं न प्राप्नोति चिकीर्षति जिहीर्षति इति । मा भूतेवं । उपधायाः च इति एवं भविष्यति । इह अपि तर्हि प्राप्नोति मात्®णां , पित्®णां इति । तस्मात्तत्र धातुग्रहणं कर्तव्यं । एवं तर्हि अण्ग्रहणसामर्थ्यात्पूर्वेण न परेण । यदि परेण स्यातण्ग्रहणं अनर्थकं स्यात। उः अच्रपरः इति एव ब्रूयात। अस्मिन्तर्हि अण्ग्रहणे सन्देहः : अणुदित्सवर्णस्य च अप्रत्ययः इति । असन्दिग्धं परेण न पूर्वेण इति। कुतः एतत। (कात्यायन वार्तिक)सवर्णे अण्तपरं हि उः ऋत्(वार्तिकान्त) । यतयं उः ऋतिति ऋकारं तपरं करोति तत्ज्ञापयति आचार्यः परेण न पूर्वेण । इण्ग्रहणेषु तर्हि सन्देहः । असन्दिग्धं परेण न पूर्वेण इति। कुतः एतत। (कात्यायन वार्तिक)य्वोः अन्यत्र परेण इण्स्यात्(वार्तिकान्त) । यत्र इच्छति पूर्वेण सम्मृद्य ग्रहणं तत्र करोति य्वोः इति । तत्च गुरु भवति । कथं कृत्वा ज्ञापकं । तत्र विभक्तिनिर्देशे सम्मृद्य ग्रहणे अर्धचतस्रः मात्राः । प्रत्याहारग्रहणे पुनः तिस्रः मात्राः । सः अयं एवं लघीयसा न्यासेन सिद्धे सति यत्गरीयांसं यत्नं आरभते तत्ज्ञापयति आचार्यः परेण न पूर्वेण इति । किं पुनः वर्णोत्सत्तौ इव णकारः द्विः अनुबध्यते । एतत्ज्ञापयति आचार्यः भवति एषा परिभाषा व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहातलक्षणं इति। अणुदित्सवर्णं परिहाय पूर्वेण अण्ग्रहणं परेण इण्ग्रहणं इति व्याख्यास्यामः ।
(ऋस्_७-८।१) कि.,३५।२०-३६।४ रो.,११५-११६ किमर्थं इमौ मुखनासिकावचनौ वर्णौ उभौ अपि अनुबध्येते न ञकार एव अनुबध्येत । कथं यानि मकारेण ग्रहणानि हलः यमां यमि लोपः इति । सन्तु ञकारेण हलः यञां यञि लोपः इति । न एवं शक्यम। झकारभकारपरयोः अपि हि झकारभकार्योः लोपः प्रसज्येत । न झकारभकारौ झकारभकारयोः स्तः । कथं पुमः खय्यि अम्परे इति । एततपि अस्तु ञकारेण पुमः खय्यि अञ्परे इति । न एवं शक्यं । झकारभकारपरे हि खय्यि रुः प्रसज्येत । न झकारभकारपरः खयस्ति ।कथं ङमः ह्रस्वातचि ङमुट्नित्यं इति । एततपि अस्तु ञकारेण ङञः ह्रस्वातचि ङञुट्नित्यं इति । न एवं शक्यं । झकारभकारपरयोः अपि हि पदान्तयोः झकारभकारौ आगमौ स्यातां । न झकारभकारौ पदान्तौ स्तः । एवं अपि पञ्च आगमाः त्रयः आगमिनौ वैषम्यात्सङ्ख्यातानुदेशः न प्राप्नोति । सन्तु तावत्येषां आगमानां आगमिनः सन्ति । झकारभकारौ पदान्तौ न स्तः इति कृत्वा आगमौ अपि न भविष्यतः ।
(ऋस्_७-८।२) कि.,३६।५-११ रो.,११७ अथ किं इदं अक्षरं इति । (कात्यायन वार्तिक)अक्षरं न क्षरं विद्यात्(वार्तिकान्त)। न क्षीयते न क्षरति इति वा अक्षरं । (कात्यायन वार्तिक)अश्नोतेः वा सरः अक्षरम्(वार्तिकान्त) । अश्नोतेः वा पुनः अयं औणादिकः सरन्प्रत्ययः । (कात्यायन वार्तिक)वर्णं वा आहुः पूर्वसूत्रे(वार्तिकान्त) । अथ वा पूर्वसूत्रे वर्णस्य अक्षरं इति सञ्ज्ञा क्रियते ।
(ऋस्_७-८।३) कि.,३६।१२-१८ रो.,११८-१२० (कात्यायन वार्तिक)किमर्थं इदं उपदिश्यते(वार्तिकान्त) । अथ किमर्थं इदं उपदिश्यते । (कात्यायन वार्तिक)वर्णज्ञानं वाग्विषयः यत्र ब्रह्म वर्तते । तदर्थं इष्टद्बुद्ध्यर्थं लघ्वर्थं च उपदिश्यते(वार्तिकान्त) । सः अयं अक्षरसमाम्नायः वाक्समाम्नायः पुष्पितः फलितः चन्द्रतारकवत्प्रतिमण्डितः वेदितव्यः ब्रह्मराशिः । सर्ववेदपुण्यफलावाप्तिः च अस्य ज्ञाने भवति । मातापितरौ च अस्य स्वर्गे लोके महीयेते ।
पाणिनीयसूत्र १,१।१।१) कि.,३७।२-७ रो.,१२१-१२३ कुत्वं कस्मात्न भवति चोः कुः पदस्य इति । भत्वात। कथं भसञ्ज्ञा । अयस्मयादीनि छन्दसि इति । छन्दसि इति उच्यते । न च इदं छन्दः । छन्दोवत्सूत्राणि भवन्ति । यदि भसञ्ज्ञा वृद्धिः आदैचतेङ्गुणः इति जश्त्वं अपि न प्राप्नोति । उभयसञ्ज्ञानि अपि छन्दांसि दृश्यन्ते । तत्यथा । सः सुष्टुभा सः ऋक्वता गणेन । पदत्वात्कुत्वं भत्वात्जश्व्तं न भवति । एवं इह अपि भत्वात्कुत्वं न भविष्यति
पाणिनीयसूत्र १,१।१।२) कि.,३७।८-२४ रो.,१२३-१२४ किं पुनः इदं तद्भावितग्रहणं : वृद्धिः इति एवं ये आकारैकारौकाराः भाव्यन्ते तेषां ग्रहणं आहोस्वितादैज्मात्रस्य । किं च अतः । यदि तद्भावितग्रहणं शालीयः मालीयः इति वृद्धलक्षणः छः न प्राप्नोति । आम्रमयं शालमयं वृद्धलक्षणः मयट्न प्राप्नोति । आम्रगुप्तायनिः शालगुप्तयनिः वृद्धलक्षणः फिञ्न प्राप्नोति । अथ ऐज्मात्रस्य ग्रहणं सर्वः भासः सर्वभासः इति उत्तरपदपदवृद्धौ सर्वं च इति एषः विधिः प्राप्नोति । इह च तावती भार्या अस्य तावद्भार्यः यावद्भार्यः वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः प्राप्नोति । अस्तु तर्हि ऐज्मात्रस्य । ननु च उक्तं सर्वः भासः सर्वभासः इति उत्तरपदपदवृद्धौ सर्वं च इति एषः विधिः प्राप्नोति । न एषः दोषः । न एवं विज्ञायते उत्तरपदस्य वृद्धिः उत्तरपदवृद्धिः उत्तरपदवृद्धौ इति । कथं तर्हि । उत्तरपदस्य इति एवं प्रकृत्य या वृद्धिः तद्वति उत्तरपदे इति एवं एतत्विज्ञायते । अवश्यं च एततेवं विज्ञेयं । तद्भावितग्रहणे सति अपि इह प्रसज्येत : सर्वः कारकः सर्वकारकः इति । यदपि उच्यते इह तावती भार्या अस्य तावद्भार्यः यावद्भार्यः वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः प्राप्नोति इति न एषः दोषः । न एवं विज्ञायते वृद्धेः निमित्तं वृद्धिनिमित्तं वृद्धिनिमित्तस्य इति । कथं तर्हि । वृद्धेः निमित्तं यस्मिन्सः अयं वृद्धिनिमित्तः वृद्धिनिमित्तस्य इति । किं च वृद्धेः निमित्तम। यः असौ ककारः णकारः ञकारः वा । अथ वा यः कृत्स्नायाः वृद्धेः निमित्तं । कः च कृत्स्नायाः वृद्धेः निमित्तं । यः त्रयाणां आकारैकारौकाराणां ।
पाणिनीयसूत्र १,१।१।३) कि.,३७।२५-४०।१७ रो.,१२५-१३३ (कात्यायन वार्तिक)सञ्ज्ञाधिकारः सञ्ज्ञासम्प्रत्ययार्थः(वार्तिकान्त) । अथ सञ्ज्ञा इति प्रकृत्य वृद्ध्यादयः शब्दाः पठितव्याः । किं प्रयोजनं । सञ्ज्ञासम्प्रत्ययार्थः । वृद्ध्यादीनां शब्दानां सञ्ज्ञा इति एषः सम्प्रत्ययः यथा स्यात। (कात्यायन वार्तिक)इतरथा हि असम्प्रत्ययः यथा लोके(वार्तिकान्त) । अक्रियमाणे हि सञ्ज्ञाधिकारे वृद्ध्यादीनां सञ्ज्ञा इति एषः सम्प्रत्ययः न स्यात। इदं इदानीं बहुसूत्रं अनर्थकं स्यात। अनर्थकं इति आह । कथं । यथा लोके । लोके हि अर्थवन्ति च अनर्थकानि च वाक्यानि दृश्यन्ते । अर्थवन्ति तावतः देवदत्त गां अभ्याज शुक्लां दण्डेन । देवदत्त गां अभ्याज कृष्णां इति । अनर्थकानि च । दश दाडिमानि षटपूपाः कुण्डं अजाजिनं पललपिण्डः अधोरुकं एतत्कुमार्याः स्फैयकृतस्य पिता प्रतिशीनः इति । (कात्यायन वार्तिक)सञ्ज्ञासञ्ज्ञ्यसन्देहः च(वार्तिकान्त) । क्रियमाणे अपि सञ्ज्ञाधिकारे सञ्ज्ञासञ्ज्ञिनोः असन्देहः वक्तव्यः । कुतः हि एतत्वृद्धिशब्दः सञ्ज्ञा आदैचः सञ्ज्ञिनः इति । न पुनः आदैचः सञ्ज्ञा वृद्धिशब्दः सञ्ज्ञी इति । यत्तावतुच्यते सञ्ज्ञाधिकारः कर्तव्यः सञ्ज्ञासम्प्रत्ययार्थः इति न कर्तव्यः । (कात्यायन वार्तिक)आचार्याचारात्सञ्ज्ञासिद्धिः(वार्तिकान्त) । आचार्याचारात्सञ्ज्ञासिद्धिः भविष्यति । किं इदं आचार्याचारात। आचार्याणां उपचारात। (कात्यायन वार्तिक)यथा लौकिकवैदिकेषु(वार्तिकान्त) । तत्यथा लौकिकेषु वैदिकेषु च कृतान्तेषु । लोके तावतः मातापितरौ पुत्रस्य जातस्य संवृते अवकाशे नाम कुर्वाते देवदत्तः यज्ञदत्तः इति । तयोः उपचारातन्ये अपि जानन्ति इयं अस्य सञ्ज्ञा इति । वेदे : याज्ञिकाः सञ्ज्ञां कुर्वन्ति स्फ्यः यूपः चषालः इति । तत्रभवतां उपचारातन्ये अपि जानन्ति इयं अस्य सञ्ज्ञा इति । अपरे पुनः सिचि वृद्धिः इति उक्त्वा आकारैकारौकारानुदाहरन्ति । ते मन्यामहे : यया प्रत्याय्यन्ते सा सञ्ज्ञा ये प्रतीयन्ते ते सञ्ज्ञिनः इति । यतपि उच्यते क्रियमाणे अपि सञ्ज्ञाधिकारे सञ्ज्ञासञ्ज्ञिनोः असन्देहः वक्तव्यः इति । (कात्यायन वार्तिक)सञ्ज्ञासञ्ज्ञ्यसन्देहः(वार्तिकान्त) । सञ्ज्ञासञ्ज्ञिनोः असन्देहः सिद्धः । कुतः । आचार्याचारातेव । उक्तः आचार्याचारः । (कात्यायन वार्तिक)अनाकृतिः(वार्तिकान्त) । अथ वा अनाकृतिः सञ्ज्ञा । आकृतिमन्तः सञ्ज्ञिनः । लोके अपि हि आक्र्तिमतः मांसपिण्डस्य देवदत्तः इति सञ्ज्ञा क्रियते । (कात्यायन वार्तिक)लिङ्गेन वा(वार्तिकान्त) । अथ वा किं चित्लिङ्गं आसज्य वक्ष्यामि इत्थंलिङ्गा सञ्ज्ञा इति । वृद्धिशब्दे च तत्लिङ्गं करिष्यते न आदैच्छब्दे । इदं तावतयुक्तं यतुच्यते आचार्याचारातिति । किं अत्र अयुक्तं । तं एव उपालभ्य अगमकं ते सूत्रं इति तस्य एव पुनः प्रमाणीकरणं इति एततयुक्तं । अपरितुष्यन्खलु अपि भवाननेन परिहारेण आकृतिः लिङ्गेन वा इति आह । तत्च अपि वक्तव्यं । यदि अपि एततुच्यते अथ वा एतर्हि इत्सञ्ज्ञा न वक्तव्या लोपः च न वक्तव्यः । सञ्ज्ञालिङ्गं अनुबन्धेषु करिष्यते । न च सञ्ज्ञायाः निवृत्तिः उच्यते । स्वभावतः सञ्ज्ञाः सञ्ज्ञिनः प्रत्याय्य निवर्तन्ते । तेन अनुबन्धानां अपि निवृत्तिः भविष्यति । सिध्यति एवं । अपाणिनीयं तु भवति । यथान्यासं एव अस्तु । ननु च उक्तं सञ्ज्ञाधिकारः सञ्ज्ञासम्प्रत्ययार्थः इतरथा हि असम्प्रत्ययः यथा लोके इति । न यथा लोके तथा व्याकरणे । प्रमाणभूतः आचार्यः दर्भपवित्रपाणिः शुचौ अवकाशे प्राङ्मुखः उपविश्य महता यत्नेन सूत्रं प्रणयति स्म । तत्र अशक्यं वर्णेन अपि अनर्थकेन भवितुं किं पुनः इयता सूत्रेण । किं अतः यतशक्यं । अतः सञ्ज्ञासञ्ज्ञिनौ एव । कुतः नु खलु एतत्सञ्ज्ञासञ्ज्ञिनौ एव इति न पुनः साध्वनुशासने अस्मिन्शास्त्रे साधुत्वं अनेन किर्यते । कृतं अनयोः साधुत्वं । कथं । वृधिः अस्मै अविशेषेण उपदिष्टः प्रकृतिपाठे । तस्मात्क्तिन्प्रत्ययः । आदैचः अपि अक्षरसमाम्नाये उपदिष्टाः । प्रयोगनियमार्थं तर्हि इदं स्यात। वृद्धिशब्दात्परः आदैचः प्रयोक्तव्याः इति । न इह प्रयोगनियमः आरभ्यते । किं तर्हि । संस्कृत्य संस्कृत्य पदानि उत्सृज्यन्ते । तेषां यथेष्ठं अभिसम्बन्धः भवति । तत्यथा : आहर पात्रं , पात्रं आहर इति । आदेशाः तर्हि इमे स्युः । वृद्धिशब्दस्य आदैचः । षष्ठीनिर्दिष्टस्य आदेशाः उच्यन्ते न च अत्र षष्ठीं पश्यामः । आगमाः तर्हि इमे स्युः । वृद्धिशब्दस्य आदैचः आगमाः । आगमाः अपि षष्ठीनिर्दिष्टस्य एव उच्यन्ते लिङ्गेन च । न च अत्र षष्ठीं न खलु अपि आगमलिङ्गं पश्यामः । इदं खलु अपि भूयः सामनाधिकरण्यं एकविभक्तिकत्वं च । द्वयोः च एतत्भवति । कयोः । विशेषणविशेष्ययोः वा सञ्ज्ञासञ्ज्ञिनोः वा । तत्र एतत्स्यात्विशेषणविशेष्ये इति । तत्च न । द्वयोः हि प्रतीत्पदार्थकयोः लोके विशेषणविशेष्यभावः भवति । न च आदैच्छब्दः प्रतीतपदार्थकः । तस्मात्सञ्ज्ञासञ्ज्ञिनौ एव । तत्र तु एतावान्सन्देधः कः सञ्ज्ञी का सञ्ज्ञा इति । सः च अपि क्व सन्देहः । यत्र उभे समानाक्षरे । यत्र तु अन्यतरत्लघु यत्लघु सा सञ्ज्ञा । कुतः एतत। लघ्वर्थं हि सञ्ज्ञाकरणं । तत्र अपि अयं न अवश्यं गुरुलघुतां एव उपलक्षयितुं अर्हति । किं तर्हि । अनाकृतितां अपि । अनाकृतिः सञ्ज्ञा । आकृतिमन्तः सञ्ज्ञिनः । लोके हि आकृतिमतः मांसपिण्डस्य देवदत्तः इति सञ्ज्ञा क्रियते । अथ वा आवर्तिन्यः सञ्ज्ञाः भवन्ति । वृद्धिशब्दः च आवर्तते न आदैच्छब्दः । तत्यथा । इतरत्र अपि देवदत्तशब्दः आवर्तते न मांसपिण्डः । अथ वा पूर्वोच्चारितः सञ्ज्ञी परोच्चारिता सञ्ज्ञा । कुतः एतत। सतः हि कार्यिणः कार्येण भवितव्यं । तत्यथा । इतरत्र अपि सतः मांसपिण्डस्य देवदत्तः इति सञ्ज्ञा क्रियते । कथं वृद्धिः आतैचिति । एततेकं आचार्यस्य मङ्गलार्थं मृष्यतां । माङ्गलिकः आचार्यः महतः शास्त्रौघस्य मङ्गलार्थं वृद्धिशबं आदितः प्रयुङ्क्ते । मङ्गलादीनि हि शास्त्राणि प्रथन्ते वीरपुरुषकाणि च भवन्ति आयुष्मत्पुरुषकाणि च । अध्येतारः च सिद्धार्थाः यथा स्युः इति । सर्वत्र एव हि व्याकरणे पूर्वोच्चारितः सञ्ज्ञी परोच्चारिता सञ्ज्ञा । अतेङ्गुणः इति यथा । दोषवान्खलु अपि सञ्ज्ञाधिकारः । अष्टमे अपि हि सञ्ज्ञा क्रियते तस्य परं आम्रेडितं इति । तत्र अपि इदं अनुवर्त्यं स्यात। अथ वा अस्थाने अयं यत्नः क्रियते । न हि इदं लोकात्भिद्यते । यदि इदं लोकात्भिद्येत ततः यत्नार्हं स्यात। तत्यथा अगोज्ञाय कः चित्गां सक्थनि कर्णे वा गृहीत्वा उपदिशति अयं गौः इति । न च अस्मै आचष्टे इयं अस्य सञ्ज्ञा इति । भवति च अस्य सम्प्रत्ययः । तत्र एतत्स्यात्कृतः पूर्वैः अभिसम्बन्धः इति । इह अपि कृतः पूर्वैः अभिसम्बन्धः । कैः । आचार्यैः । तत्र एतत्स्यात। यस्मै सम्प्रति उपदिशति तस्य अकृतः इति । लोके अपि यस्मै सम्प्रति उपदिशति तस्य अकृतः । अथ तत्र कृतः इह अपि कृतः द्रष्टव्यः ।
पाणिनीयसूत्र १,१।१।४) कि.,४०।१८-४१।४ रो.,१३३-१३४ (कात्यायन वार्तिक)सतः वृद्ध्यादिषु सञ्ज्ञाभावात्तदाश्रये इतरेतराश्रयत्वातसिद्धिः(वार्तिकान्त) । सतः सञ्ज्ञिनः सञ्ज्ञाभावात्सञ्ज्ञाश्रये सञ्ज्ञिनि वृद्ध्यादिषु इतरेतराश्रयत्वातप्रसिद्धिः । का इतेरेतराश्रयता । सतां आदैचां सञ्ज्ञया भवितव्यं सञ्ज्ञया च आदैचः भाव्यन्ते । ततितरेतराश्रयं भवति , इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते । तत्यथा । नौः नावि बद्धा न इतरत्राणाय भवति। ननु च भोः इतरेतराश्रयाणि अपि कार्याणि दृश्यन्ते । तत्यथा । नौः शकटं वहति शकटं च नावं वहति । अन्यतपि तत्र किं चित्भवति जलं स्थलं वा । स्थले शकटं नावं वहति । जले नौः शकटं वहति । यथा तरि त्रिविष्टब्धकं । तत्र अपि अन्ततः सूत्रकं भवति । इदं पुनः इतरेतराश्रयं एव । (कात्यायन वार्तिक)सिद्धं तु नित्यशब्दत्वात्(वार्तिकान्त) । सिद्धं एतत। कथं । नित्यशब्दत्वात। नित्याः शब्दाः । नित्येषु शब्देषु सतां आदैचां सञ्ज्ञा क्रियते । न सञ्ज्ञया आदैचः भाव्यन्ते । यदि तर्हि नित्याः शब्दाः किमर्थं शास्त्रं । (कात्यायन वार्तिक)किमर्थं शास्त्रं इति चेत्निवर्तकत्वात्सिद्धम्(वार्तिकान्त) । निवर्तकं शास्त्रं । कथं । मृजिः अस्मै अविशेषेण उपदिष्टः । तस्य सर्वत्र मृजिबुद्धिः प्रसक्ता । तत्र अनेन निवृत्तिः क्रियते । मृजेः अक्ङित्सु प्रत्ययेषु मृजिप्रसङ्गे मार्जिः साधुः भवति इति ।
पाणिनीयसूत्र १,१।१।५) कि.,४१।५-१६ रो.,१३४-१३६ प्रत्येकं वृद्धिगुणसञ्ज्ञे भवतः इति वक्तव्यं । किं प्रयोजनं । समुदाये मा भूतां इति । (कात्यायन वार्तिक)अन्यत्र सहवचनात्समुदाये सञ्ज्ञाप्रसङ्गः(वार्तिकान्त) । अन्यत्र सहवचनात्समुदाये वृद्धिगुणसञ्ज्ञयोः अप्रसङ्गः । यत्र इच्छति सहभूतानां कार्यं करोति तत्र सहग्रहणं । तत्यथा । सह सुपा । उभे अभ्यस्तं सह इति । (कात्यायन वार्तिक)प्रत्यवयवं च वाक्यपरिसमाप्तेः(वार्तिकान्त) । प्रत्यवयवं च वाक्यपरिसमाप्तिः दृश्यते । तत्यथा । देवदत्तयज्ञदत्तविष्णुमित्राः भोज्यन्तां इति । न च उच्यते प्रत्येकं इति । प्रत्येकं च भुजिः परिसमाप्यते । ननु च अयं अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति । तत्यथा । गर्गाः शतं दण्ड्यन्तां इति । अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकं दण्डयन्ति । सति एतस्मिन्दृष्टान्ते यदि तत्र सहग्रहणं क्रियते इह अपि प्रत्येकं इति वक्तव्यं । अथ तत्र अन्तरेण सहग्रहणं सहभूतानां कार्यं भवति इह अपि न अर्थः प्रत्येकं इति वचनेन ।
पाणिनीयसूत्र १,१।१।६) कि.,४१।१७-४२।२४ रो.,१३६-१४० अथ किमर्थं आकारः तपरः क्रियते । (कात्यायन वार्तिक)आकारस्य तपरकरणं सवर्णार्थम्(वार्तिकान्त) । आकारस्य तपरकरणं क्रियते । किं प्रयोजनं । सवर्णार्थं । तपरः तत्कालस्य इति तत्कालानां ग्रहणं यथा स्यात। केषां । उदात्तानुन्दात्तस्वरितानां । किं च कारणं न स्यात। (कात्यायन वार्तिक)भेदकत्वात्स्वरस्य(वार्तिकान्त) । भेदकाः उदात्तादयः । कथं पुनः ज्ञायते भेदकाः उदात्तादयः इति । एवं हि दृश्यते लोके । यः उदात्ते कर्तव्ये अनुदात्तं करोति खण्डिकोपाध्यायः तस्मै चपेटां ददाति अन्यत्त्वं करोषि इति । अस्ति प्रयोजनं एतत। किं तर्हि इति । भेदकत्वात्गुणस्य इति वक्तव्यं । किं प्रयोजनं । आनुनासिक्यं नाम गुणः । तद्भिन्नस्य अपि यथा स्यात। किं च कारणं न स्यात। भेदकत्वात्गुणस्य । भेदकाः गुणाः । कथं पुनः ज्ञायते भेदकाः गुणाः इति । एवं हि दृश्यते लोके । एकः अयं आत्मा उदकं नाम । तस्य गुणभेदातन्यत्वं भवति : अन्यतिदं शीतं अन्यतिदं ऊष्णं इति । ननु च भोः अभेदकाः अपि गुणाः दृश्यन्ते । तत्यथा । देवदत्तः मुण्डी अपि जटी अपि शिखी अपि स्वां आख्यां न जहाति । तथा बालः युवा वृद्धः वत्सः दम्यः बलीवर्दः इति । उभयं इदं गुणेषु उक्तं भेदकाः अभेदकाः इति । किं पुनः अत्र न्याय्यं । अभेदकाः गुणाः इति एव न्याय्यं । कुतः एतत। यतयं अस्थिदधिसक्थ्यक्ष्णां अनङुदात्तः इति उदात्तग्रहणं करोति । यदि भेदकाः गुणाः स्युः उदात्तं एव उच्चारयेत। यदि तर्हि अभेदकाः गुणाः अनुदात्तादेः अन्तोदात्तात्च यतुच्यते तत्स्वरितादेः स्वरितान्तात्च प्राप्नोति । न एषः दोषः । आश्रीयमाणः गुणः भेदकः भवति । तत्यथा । शुक्लं आलभेत । कृष्णं आलभेत । तत्र यः शुक्ले आलब्धव्ये कृष्णं आलभेत न हि तेन यथोक्तं कृतं भवति । असन्देहार्थः तर्हि तकारः । ऐचिति उच्यमने सन्देहः स्यात। किं इमौ ऐचौ एव आहोस्विताकारः अपि अत्र निर्दिश्यते इति । सन्देहमात्रं एतत्भवति । सर्वसन्देहेषु च इदं उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहातलक्षणं इति । त्रयाणां ग्रहणं इति व्याख्यास्यामः । अन्यत्र अपि हि अयं एवञ्जातीयकेषु सन्देहेषु न कं चिद्यत्नं करोति । तत्यथा । औतः अम्शसोः इति ।इदं तर्हि प्रयोजनं : आन्तर्यतः त्रिमात्रचतुर्नात्राणां स्थानिनां त्रिमात्रचतुर्मात्राः आदेशाः मा भूवनिति : खट्वा* इन्द्रः खट्वेन्द्रः , खट्वा* उदकं खट्वोदकं , खट्वा* ईषा खट्वेषा खट्वा* ऊढा खट्वोढा खट्वा* एलका खट्वैलका खट्वा* ओदनः , खट्वौदनः , खट्वा* ऐतिकायनः , खट्वैतिकायनः , खट्वा* औपगवः , खट्वौपगवः इति । अथ क्रियमाणे अपि तकारे कस्मातेव त्रिमात्रचतुर्नात्राणां स्थानिनं त्रिमात्रचतुर्मात्राः आदेशाः न भवन्ति । तपरः तत्कालस्य इति नियमात। ननु तः परः यस्मात्सः अयं तपरः । न इति आह । तातपि परः तपरः इति । यदि तातपि परः तपरः ®दोः अपिति इह एव स्यात। यवः स्तवः । लवः पवः इति अत्र न स्यात। न एषः तकारः । कः तर्हि । दकारः । किं दकारे प्रयोजनं । अथ किं तकारे प्रयोजनं । यदि असन्देहार्थः तकारः दकारः अपि । अथ मुखसुखार्थः तकारः दकारः अपि ।
पाणिनीयसूत्र १,१।३।१) कि.,४२।२६-४४।१४ ऱो_१४०-१४६ इग्ग्रहणं किमर्थं । (कात्यायन वार्तिक)इग्ग्रहणं आत्सन्ध्यक्षरव्यञ्जननिवृत्त्यर्थं (वार्तिकान्त)। इग्ग्रहणं क्रियते आकारनिवृत्त्यर्थं सन्ध्यक्षरनिवृत्त्यर्थं व्यञ्जननिवृत्त्यर्थं च। आकारनिवृत्त्यर्थं तावत। याता वाता । आकारस्य गुणः प्राप्नोति । इग्ग्रहणात्न भवति । सन्ध्यक्षरनिवृत्त्यर्थं । ग्लायति म्लायति । सन्ध्यक्षरस्य गुणः प्राप्नोति । इग्ग्रहणात्न भवति । व्यञ्जननिवृत्त्यर्थं । उम्भिता , उम्भितुं उम्भितव्यं । व्यञ्जनस्य गुणः प्राप्नोति । इग्ग्रहणात्न भवति । आकारनिवृत्त्यर्थेन तावत्नार्थः । आचार्यप्रवृत्तिः ज्ञापयति न आकारस्य गुणः भवति इति यतयं आतः अनुपसर्गे कः इति ककारं अनुबन्धं करोति । कथं कृत्वा ज्ञापकं । कित्करणे एतत्प्रयोजनं किति इति आकारलोपः यथा स्यात। यदि च आकारस्य गुणः स्यात्कित्करणं अनर्थकं स्यात। गुणे कृते द्वयोः अकारयोः पररूपेण सिद्धं रूपं स्यात्गोदः , कम्बलदः इति । पश्यति तु आचार्यः न आकारस्य गुणः भवति इति । ततः ककारं अनुबन्धं करोति । सन्ध्यक्षरार्थेन अपि न अर्थः । उपदेशसामर्थ्यात्सन्ध्यक्षरस्य गुणः न भविष्यति । व्यञ्जननिवृत्त्यर्थेन अपि न अर्थः । आचार्यप्रवृत्तिः ज्ञापयति न व्यञ्जनस्य गुणः भवति इति यतयं जनेः डं शास्ति । कथं कृत्वा ज्ञापकं । डित्करणे एतत्प्रयोजनं डिति इति टिलोपः यथा स्यात। यदि व्यञ्जन्स्य गुणः स्यात्डित्करणं अनर्थकं स्यात। गुणे कृते त्रयाणां अकाराणां पररूपेण सिद्धं रूपं स्यातः उपसरजः , मन्दुरजः इति । पश्यति तु आचार्यः न व्यञ्जनस्य गुणः भवति इति । ततः जनेः डं शास्ति। न एतानि सन्ति प्रयोजनानि । यत्तावतुच्यते कित्करणं ज्ञापकं आकारस्य गुणः न भवति इति । उत्तरार्थं एतत्स्यात। तुन्दशोकयोः परिमृजापनुदोः इति । यत्तर्हि गापोः ठकिति अनन्यार्थं ककारं अनुबन्धं करोति । यतपि उच्यते उपदेशसामर्थ्यात्सन्ध्यक्षरस्य गुणः न भवति इति । यदि यत्यत्सन्ध्यक्षरस्य प्राप्नोति तत्ततुपदेशसामर्थ्यात्बाध्यते आयादयः अपि तर्हि न प्राप्नुवन्ति । न एषः दोषः । यं विधिं प्रति उपदेशः अनर्थकः स विधिः बाध्यते । यस्य तु विधेः निमित्तं एव न असौ बाध्यते । गुणं च प्रति उपदेशः अनर्थकः आयादीनां पुनः निमित्तं एव । यतपि उच्यते जनेः डवचनं ज्ञापकं न व्यञ्जनस्य गुणः भवति इति । सिद्धे विधिः आरभ्यमाणः ज्ञापकार्थः भवति । न च जनेः गुणेन सिध्यति । कुतः हि एतत्जनेः गुणः उच्यमानः अकारः भवति न पुनः एकारः वा स्यातोकारः वा इति । आन्तर्यतः अर्धमात्रिकस्य व्यञ्जनस्य मात्रिकः अकारः भविष्यति । एवं अपि अनुनासिकः प्राप्नोति । पररूपेण शुद्धः भविष्यति । एवं तर्हि गमेः अपि अयं डः वक्तव्यः । गमेः च गुणः उच्यमानः आन्तर्यतः ओकारः प्राप्नोति । तस्मातिग्ग्रहणं कर्तव्यं । यदि इग्ग्रहणं क्रियते द्यौः , पन्थाः , सः , इमं इते एते अपि इकः प्राप्नुवन्ति । (कात्यायन वार्तिक)सञ्ज्ञया विधाने नियमः(वार्तिकान्त) । सञ्ज्ञया ये विधीयन्ते तेषु नियमः । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । गुणवृद्धिग्रहणसामर्थ्यात। कथं पुनः अन्तरेण गुणवृद्धिग्रहणं इकः गुणवृद्धी स्यातां । प्रकृतं गुणवृद्धिग्रहणं अनुवर्तते । क्व प्रकृतं । वृद्धिः आतैचतेङ्गुणः इति । यदि ततनुवर्तते अतेङ्गुणः वृद्धिः च इति अदेङां अपि वृद्धिसञ्ज्ञा प्राप्नोति । सम्बन्धं अनुवर्तिष्यते । वृद्धिः आतैच। अतेङ्गुणः वृद्धिः आतैच। ततः इकः गुणवृद्धी इति । गुणवृद्धिग्रहणं अनुवर्तते आदैज्ग्रहणं निवृत्तं । अथ वा मण्डूकगतयः अधिकाराः । यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वतधिकाराः । अथ वा एकयोगः करिष्यते वृद्धिः आतैचतेङ्गुणः इति । ततः इको गुणवृद्धी इति । न च एकयोगे अनुवृत्तिः भवति । अथ वा अन्यवचनात्चकाराकरणात्प्रकृतापवादः विज्ञायते यथा उत्सर्गेण प्रसक्तस्य अपवादः बाधकः भवति । अन्यस्याः सञ्ज्ञायाः वचनात्चकारस्य अनुकर्षणार्थस्य अकरणात्प्रकृतायाः वृद्धिसञ्ज्ञायाः गुणसञ्ज्ञ बाधिका भविष्यति यथा उत्सर्गेण प्रसक्तस्य अपवादः बाधकः भवति । अथ वा वक्ष्यति एतत। अनुवर्तन्ते च नाम विधयः न च अनुवर्तनातेव भवन्ति । किं तर्हि यत्नात्भवन्ति । अथ वा उभयं निवृत्तं । ततपेक्षिष्यामहे ।
पाणिनीयसूत्र १,१।३।२) कि.,४४।१५-४७।१३ रो.,१४६-१५५ किं पुनः अयं अलोन्त्यशेषः आहोस्वितलोन्त्यापवादः । कथं च अयं तच्छेषः स्यात्कथं वा तदपवादः । यदि एकं वाक्यं तत्च इदं च अलः : अन्त्यस्य विधयः भवन्ति इकः गुणवृद्धी* अलः अन्त्यस्य इति ततः अयं तच्छेषः । अथ नाना वाक्यं : अलः अन्त्यस्य विधयः भवन्ति , इकः गुणवृद्धी* अन्त्यस्य च अनन्त्यस्य च इति ततः अयं तदपवादः । कः च अत्र विशेषः । (कात्यायन वार्तिक)वृद्धिगुणौ अलः अन्त्यस्य इति चेत्मिदिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेषु इग्ग्रहणम्(वार्तिकान्त) । वृद्धिगुणौ अलः अन्त्यस्य इति चेत्मिदिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेषु इग्ग्रहणं कर्तव्यं । मिदेः गुणः इकः इति वक्तव्यं । अनन्त्यत्वात्हि न प्राप्नोति । पुगन्तलघूपधस्य गुणः इकः इति वक्तव्यं । अनन्त्यत्वात्हि न प्राप्नोति । ऋच्छेः लिटि गुणः इकः इति वक्तव्यं । अनन्त्यत्वात्हि न प्राप्नोति । ऋदृसः अङि गुणः इकः इति वक्तव्यं । अनन्त्यत्वात्हि न प्राप्नोति । क्षिप्रक्षुद्रयोः गुणः इकः इति वक्तव्यं । अनन्त्यत्वात्हि न प्राप्नोति । (कात्यायन वार्तिक)सर्वादेशप्रसङ्गः च अनिगन्तस्य(वार्तिकान्त) । सर्वादेशः च गुणः च अनिगन्तस्य प्राप्नोति : याता वाता । किं कारणं । अलः अन्त्यस्य इति षष्ठी च एव हि अन्त्यं इकं उपसङ्क्रान्ता , अङ्गस्य इति च स्थानषष्ठी । तत्यतिदानीं अनिगन्तं अङ्गं तस्य गुणः सर्वादेशः प्राप्नोति । न एषः दोषः । यथा एव हि अलः अन्त्यस्य इति षष्ठी अन्त्यं इकं उपसङ्क्रान्ता एवं अङ्गस्य इति अपि स्थानषष्ठी । तत्यदिदानीं अनिगन्तं अङ्गं , तत्र षष्ठी एव न अस्ति कुतः गुणः कुतः सर्वादेशः । एवं तर्हि न अयं दोषसमुच्चयः । किं तर्हि । पूर्वापेक्षः अयं दोषः , ह्यर्थे च अयं चः पठितः । मिदिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेषु इग्ग्रहणं सर्वादेशप्रसङ्गः हि अनिगन्तस्य इति । मिदेः गुणः इकः इति वचनातन्त्यस्य न । अन्त्यस्य इति वचनातिकः न । उच्यते तु गुणः । सः सर्वादेशः प्राप्नोति । एवं सर्वत्र । अस्तु तर्हि तदपवादः । (कात्यायन वार्तिक)इग्मात्रस्य इति चेत्जुसिसार्वधातुकार्धधातुकह्रस्वाद्योः गुणेषु अनन्त्यप्रतिषेधः(वार्तिकान्त) । इग्मात्रस्य इति चेत्जुसिसार्वधातुकार्धधातुकह्रस्वाद्योः गुणेषु अनन्त्यप्रतिषेधः वक्तव्यः । जुसि गुणः । सः यथा इह भवति : अजुहवुः , अबिभयुः , एवं अनेनिजुः , पर्यविविषुः , अत्र अपि प्राप्नोति । सार्वधातुकार्धधातुकयोः गुणः । सः यथा इह भवति : कर्ता हर्ता नयति तरति भवति , एवं ईहिता , ईहितुं इति अत्र अपि प्राप्नोति । ह्रस्वस्य गुणः । सः यथा इह भवति : हे अग्ने हे वायो , एवं हे अग्निचित्, हे सोमसुतिति अत्र अपि प्राप्नोति । जसि गुणः । सः यथा इह भवति अग्नयः , वायवः इति एवं अग्निचितः , सोमसुतः इति अत्र अपि प्राप्नोति । ऋतो ङिसर्वनामस्थानयोः गुणः । सः यथा इह भवति कर्तरि कर्तारौ कर्तारः इति एवं सुकृति सुकृतौ सुकृतः इति अत्र अपि प्राप्नोति ।घेः ङिति गुणः । सः यथा इह भवति अग्नये वायवे एवं अग्निचिते सोमसुते इति अत्र अपि प्राप्नोति । ओः गुणः । सः यथा इह भवति बाभ्रव्यः , माण्डव्यः इति एवं सुश्रुत्, सौश्रुतः इति अत्र अपि प्राप्नोति । न एषः दोषः । (कात्यायन वार्तिक)पुगन्तलघूपधग्रहणं अनन्त्यनियमार्थम्(वार्तिकान्त) । पुगन्तलघूपधग्रहणं अनन्त्यनियमार्थं भविष्यति । पुगन्तलघूपधस्य एव अनन्त्यस्य न अन्यस्य अनन्त्यस्य इति । प्रकृतस्य एषः नियमः स्यात। किं च प्रकृतं । सार्वधातुकार्धधातुकयोः इति । तेन भवेतिह नियमात्न स्यातीहिता , ईहितुं , ईहितव्यं इति । ह्रस्वाद्योः गुणः तु अनियतः । सः अनन्त्यस्य अपि प्राप्नोति । अथ अपि एवं नियमः स्यात। पुगन्तलघूपधस्य सार्वधातुकार्धधातुकयोः एव इति । एवं अपि सार्वधातुकार्धधातुकयोः गुणः अनियतः । सः अनन्त्यस्य अपि प्राप्नोति : ईहिता , ईहितुं ईहितव्यं इति । अथ अपि उभयतः नियमः स्यातः पुगन्तलघूपधस्य एव सार्वधातुकार्धधातुकयोः , सार्वधातुकार्धधातुकयोः एव पुगन्तलघूपधस्य इति , एवं अपि अयं जुसि गुणः अनियतः । सः अनन्त्यस्य अपि प्राप्नोति : अनेनिजुः , पर्यविविषुः इति । एवं तर्हि न अयं तच्छेषः न अपि तदपवादः । अन्यतेव इदं परिभाषान्तरं असम्बद्धं अनया परिभाषया । परिभाषान्तरं इति च मत्वा क्रोष्ट्रीयाः पठन्ति : नियमातिकः गुणवृद्धी भवतः विप्रतिषेधेन इति । यदि च अयं तच्छेषः स्यात्तेन एव तस्य अयुक्तः विप्रतिषेधः । अथ अपि तदपवादः उत्सर्गापवादयोः अपि अयुक्तः विप्रतिषेधः । तत्र नियमस्य अवकाशः : राज्ञः क च , राजकीयं । इकः गुणवृद्धी* इति अस्य अवकाशः : चयनं , चायकः , लवनं , लावकः इति । इह उभयं प्राप्नोति : मेद्यति मार्ष्टि इति । इकः गुणवृद्धी* इति एतत्भवति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । विप्रतिषेधे हि परं इति उच्यते , पूर्वः च अयं योगः परः नियमः । इष्टवाची परशब्दः । विप्रतिषेधे परं यतिष्टं तत्भवति । एवं अपि अयुक्तः विप्रतिषेधः । द्विकार्ययोगः हि विप्रतिषेधः । न च अत्र एकः द्विकार्ययुक्तः । न अवश्यं द्विकार्ययोगः एव विप्रतिषेधः । किं तर्हि। असम्भवः अपि । सः च अस्ति अत्र असम्भवः । कः असौ अस्म्भवः । इह तावतः वृक्षेभ्यः , प्लक्षेभ्यः इति एकः स्थानी द्वौ आदेशौ । न च अस्ति सम्भवः यतेकस्य स्थानिनः द्वौ आदेशौ स्यातां । इह इदानीं मेद्यति मेद्यतः मेद्यन्ति इति द्वौ स्थानिनौ एकः आदेशः । न च अस्ति सम्भवः यत्द्वयोः स्थानिनोः एकः आदेशः स्यातिति एषः असम्भवः । सत्यं एतस्मिनसम्भवे युक्तः विप्रतिषेधः । एवं अपि अयुक्तः विप्रतिषेधः । द्वयोः हि सावकाशयोः समवस्थितयोः विप्रतिषेधः भवति । अनवकाशः च अयं योगः । ननु च इदानीं एव अस्य अवकाशः प्रक्ल्प्तः : चयनं , चायकः , लवनं , लावकः इति । अत्र अपि नियमः प्राप्नोति । यावता न अप्राप्ते नियमे अयं योगः आरभ्यते अतः तदपवादः अयं योगः भवति । उत्सर्गापवादयोः च अयुक्तः विप्रतिषेधः । अथ अपि कथं चितिकः गुणवृद्धी* इति अस्य अवकाशः स्यात्, एवं अपि यथा इह विप्रतिषेधातिकः गुणः भवति : मेद्यति मेद्यतः मेद्यन्ति , एवं इह अपि स्यातः अनेनिजुः , पर्यवेविषुः इति । एवं तर्हि वृद्धिः भवति गुणः भवति इति यत्र ब्रूयातिकः इति एतत्तत्र उपस्थितं द्रष्टव्यं । किं कृतं भवति । द्वितीया षष्ठी प्रादुः भाव्यते । तत्र कामचारः : गृह्यमाणेन वा इकं विशेषयितुं इका वा गृह्यमाणं । यावता कामचारः इह तावतः मिदिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेषु गृह्यमाणेन इकं विशेषयिष्यामः : एतेषां यः इकिति । इह इदानीं : जुसिसार्वधातुकार्धधातुकह्रस्वाद्योः गुणेषु इका गृह्यमाणं विशेषयिष्यामः : एतेषां गुणः भवति इकः । इगन्तानां इति । अथ वा सर्वत्र एव स्थानी निर्दिश्यते । इह तावतः मिदेः इति , अविभक्तिकः निर्देशः : मिद , एः , मिदेः , मिदेः इति । अथ वा षष्ठीसमासः भविष्यति मिदः इः , मिदिः , मिदेः इति । पुगन्तलघूपधस्य इति न एवं विज्ञायते : पुगन्तस्य अङ्गस्य लघूपधस्य च इति । कथं तर्हि । पुकि अन्तः पुगन्तः , लघ्वी उपधा लघूपधा , पुगन्तः च लघूपधा च पुगन्तलघूपधं पुगन्तलघूपधस्य इति । अवश्यं च एततेवं विज्ञेयं । अङ्गविशेषणे हि सति इह प्रसज्येत : भिनत्ति छिनत्ति इति । ऋच्छेः अपि प्रश्लिष्टनिर्देशः अयं । ऋच्छति , ऋ , ऋ , ®तां ऋच्छत्य्®तां इति । दृशेः अपि योगविभागः करिष्यते । उः अङि गुणः । उः अङि गुणः भवति । ततः दृशेः । दृशेः च अङि गुणः भवति । उः इति एव। क्षिप्रक्षुद्रयोः अपि यणादिपरं गुण इति इयता सिद्धं । सः अयं एवं सिद्धे सति यत्पूर्वग्रहणं करोति तस्य एतत्प्रयोजनं इकः यथा स्यातनिकः मा भूतिति ।
पाणिनीयसूत्र १,१।३।३) कि.,४७।१४-४९।२१ रो.,१५५-१६१ अथ वृद्धिग्रहणं किमर्थं । किं विशेषेण वृद्धिग्रहणं चोद्यते न पुनः गुणग्रहणं अपि । यदि किं चित्गुणग्रहणस्य प्रयोजनं अस्ति वृद्धिग्रहणस्य अपि तत्भवितुं अर्हति । कः वा विशेषः । अयं अस्ति विशेषः । गुणविधौ न क्व चित्स्थानी निर्दिश्यते । तत्र अवश्यं स्थानिनिर्देशार्थं गुणग्रहणं कर्तव्यं । वृद्धिविधौ पुनः सर्वत्र एव स्थानी निर्दिश्यते । अचः ञ्णिति अतः उपधायाः तद्धितेषु अचां आदेः इति । अतः उत्तरं पठति । (कात्यायन वार्तिक)वृद्धिग्रहणं उत्तरार्थम्(वार्तिकान्त) । वृद्धिग्रहणं क्रियते उत्तरार्थं । क्ङिति इति प्रतिषेधं वक्ष्यति । सः वृद्धेः अपि यथा स्यात। कः च इदानीं क्ङित्प्रत्ययेषु वृद्धेः प्रसङ्गः यावता ञ्णिति इति उच्यते । तत्च मृज्यर्थं । मृजेः वृद्धिः अविशेषेण उच्यते । सा क्ङिति मा भूतः मृष्टः , मृष्टवानिति । इहार्थं च अपि मृज्यर्थं वृद्धिग्रहणं कर्तव्यं । मृजेः वृद्धिः अविशेषेण उच्यते । सा इकः यथा स्यात। अनिकाः मा भूतिति । (कात्यायन वार्तिक)मृज्यर्थं इति चेत्योगविभागात्सिद्धम्(वार्तिकान्त) । मृज्यर्थं इति चेत्योगविभागः करिष्यते । मृजेः वृद्धिः । ततः ञ्णिति । ञिति णिति च वृद्धिः भवति । अचः इति एव । यदि अचः वृद्धिः उच्यते न्यमार्टः अटः अपि वृद्धिः प्राप्नोति । (कात्यायन वार्तिक)अटि च उक्तम्(वार्तिकान्त) । किं उक्तम। अनन्त्यविकारे अन्त्यसदेशस्य कार्यं भवति इति । (कात्यायन वार्तिक)वृद्धिप्रतिषेधानुपपत्तिः तु इक्प्रकरणात्(वार्तिकान्त) । वृद्धेः तु प्रतिषेधः न उपपद्यते । किं कारणं । इक्प्रकरणात। इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एवं सति मृजेः इग्लक्षणा वृद्धिः भवति । तस्मात्मृजेः इग्लक्षणा वृद्धिः एषितव्या । एवं तर्हि इह अन्ये वैयाकरणाः मृजेः अजादौ सङ्क्रमे विभाषा वृद्धिं आरभन्ते : परिमृजन्ति परिमार्जन्ति परिमृजन्तु परिमार्जन्तु परिममृजतुः , परिममार्जतुः इत्याद्यर्थं । ततिह अपि साध्यं । तस्मिन्साध्ये योगविभागः करिष्यते । मृजेः वृद्धिः अचः भवति । ततः अचि क्ङिति । अजादौ च क्ङिति मृजेः वृद्धिः भवति : परिमार्जन्ति परिमार्जन्तु । किमर्थं इदं । नियमार्थं : अजादौ एव क्ङिति न अन्यत्र । क्व अन्यत्र मा भूत। मृष्टः , मृष्टवानिति । ततः वा । वा अचि क्ङिति मृजेः वृद्धिः भवति । परिमृजन्ति , परिमार्जन्ति , परिममृजतुः , परिममार्जतुः इति । इहार्थं एव सिजर्थं वृद्धिग्रहणं कर्तव्यं । सिचि वृद्धिः अविशेषेण उच्यते । सा इकः यथा स्यात्, अनिकः मा भूतिति । कस्य पुनः अनिकः प्राप्नोति । अकारस्य : अचिकीर्षीत्, अजिहीर्षीत। न एततस्ति । लोपः अत्र बाधकः भविष्यति । आकारस्य तर्हि प्राप्नोति : अयासीत्, अवासीत। न अस्ति अत्र विशेषः सत्यां वृद्धौ असत्यां वा । सन्ध्यक्षरस्य तर्हि प्राप्नोति । न एव सन्ध्यक्षरं अन्त्यं अस्ति । ननु च इदं अस्ति ढलोपे कृते उदवोढां उदवोढं उदवोढ इति । न एततस्ति । असिद्धः ढलोपः । तस्य असिद्धत्वात्न एततन्त्यं भवति । व्यञ्जनस्य तर्हि प्राप्नोति : अभैत्सीत्, अच्छैत्सीत। हलन्तलक्षणा वृद्धिः बाधिका भविष्यति । यत्र तर्हि सा प्रतिषिध्यते : अकोषीत्, अमोषीत। सिचि वृद्धेः अपि एषः प्रतिषेधः । कथं । लक्षणं हि नाम ध्वनति भ्रमति मुहूर्तं अपि न अवतिष्ठते । अथ वा सिचि वृद्धिः परस्मैपदेषु इति सिचि वृद्धिः प्राप्नोति । तस्याः हलन्तलक्षणा वृद्धिः बाधिका । तस्याः अपि न इटि इति प्रतिषेधः । अस्ति पुनः क्व चिदन्यत्र अपि अपवादे प्रतिषिद्धे उत्सर्गः अपि न भवति । अस्ति इति आह । सुजाते* अश्वसूनृते , अध्वर्यो* अद्रिभिः सुतं , शुक्रं ते* अन्यतिति । पूर्वरूपत्वे प्रतिषिद्धे अयादयः अपि न भवन्ति । उत्तरार्थं एव तर्हि सिजर्थं वृद्धिग्रहणं कर्तव्यं । सिचि वृद्धिः अविशेषेण उच्यते । सा क्ङिति मा भूत्न्यनुवीत्, न्यधुवीत। न एततस्ति प्रयोजनं । अन्तरङ्गत्वातत्र उवङादेशे कृते अनन्त्यत्वात्वृद्धिः न भविष्यति । यदि तर्हि सिचि अन्तरङ्गं भवति , अकार्षीत्, अहार्षीतः गुणे कृते रपरत्वे च अनन्त्यत्वात्वृद्धिः न प्राप्नोति । मा भूतेवं । हलन्तस्य इति एवं भविष्यति । इह तर्हि : न्यस्तारीत्, व्यदारीतः गुणे रपरत्वे च अनन्त्यत्वात्वृद्धिः न प्राप्नोति । हलन्तलक्षणायाः च न इटि इति प्रतिषेधः । मा भूतेवं । र्लान्तस्य इति एवं भविष्यति । इह तर्हि : अलावीतपावीतः गुणे कृते अवादेशे च अनन्त्यत्वात्वृद्धिः न प्राप्नोति । हलन्तलक्षणायाः च न इटि इति प्रतिषेधः । मा भूतेवं । र्लान्तस्य इति एवं भविष्यति । र्लान्तस्य इति उच्यते न च इदं र्लान्तं । र्लान्तस्य इति अत्र वकारः अपि निर्दिश्यते । किं वकारः न श्रूयते । लुप्तनिर्दिष्तः वकारः । यदि एवं मा भवान्मवीतः अत्र अपि प्राप्नोति । अविमव्योः इति वक्ष्यामि । तत्वक्तव्यं । (कात्यायन वार्तिक)णिश्विभ्यां तौ निमातव्यौ(वार्तिकान्त) । यदि अपि एततुच्यते अथ वा एतर्हि णिश्व्योः प्रतिषेधः न वक्तव्यः भवति । गुणे कृते अयादेशे च यान्तानं न इति प्रतिषेधः भविष्यति । एवं तर्हि आचार्यप्रवृत्तिः ज्ञापयति न सिचि अन्तरङ्गं भवति इति यतयं अतः हलादेः लघोः इति अकारग्रहणं करोति । कथं कृत्वा ज्ञापकं । अकारग्रहणस्य एतत्प्रयोजनं इह मा भूतः अकोषीत्, अमोषीत। यदि सिचि अन्तरङ्गं स्यातकारग्रहणं अनर्थकं स्यात। गुणे कृते अलघुत्वात्वृद्धिः न भविष्यति । पश्यति तु आचार्यः न सिचि अन्तरङ्गं भवति इति । ततः अकारग्रहणं करोति । न एततस्ति ज्ञापकं । अस्ति अन्यतेतस्य वचने प्रयोजनं । किं । यत्र गुणः प्रतिषिध्यते तदर्थं एतत्स्यातः न्यकुटीत्, न्यपुटीतिति । यत्तर्हि णिश्व्योः प्रतिषेधं शास्ति तेन न इह अन्तरङ्गं अस्ति इति दर्शयति । यत्च करोति अकारग्रहणं लघोः इति कृते अपि । (कात्यायन वार्तिक)तस्मातिग्लक्षणा वृद्धिः (वार्तिकान्त)। तस्मातिग्लक्षणा वृद्धिः आस्थेया ।
पाणिनीयसूत्र १,१।३।४) कि.,४९।२४-५०।१६ रो.,१६१-१६३ (कात्यायन वार्तिक)षष्ठ्याः स्थानेयोगत्वातिग्निवृत्तिः(वार्तिकान्त) । षष्ठ्याः स्थानेयोगत्वात्सर्वेषां इकां निवृत्तिः प्राप्नोति । अस्य अपि प्राप्नोति : दधि मधु । पुनर्वचनं इदानीं किमर्थं स्यात। (कात्यायन वार्तिक)अन्यतरार्थं पुनर्वचनम्(वार्तिकान्त) । अन्यतरार्थं एतत्स्यात। सार्वधादुकार्धधातुकयोः गुणः एव इति । (कात्यायन वार्तिक)प्रसारणे च(वार्तिकान्त) । प्रसारणे च सर्वेषं यणां निवृत्तिः प्राप्नोति । अस्य अपि प्राप्नोति : याता वाता । पुनर्वचनं इदानीं किमर्थं स्यात। (कात्यायन वार्तिक)विषयार्थं पुनर्वचनं (वार्तिकान्त)। विषयार्थं एतत्स्यात। वचिस्वपियजादीनां किति एव इति । (कात्यायन वार्तिक)उः अण्रपरे च(वार्तिकान्त) । उः अण्रपरे च सर्वर्काराणां निवृत्तिः प्राप्नोति । अस्य अपि प्राप्नोति कर्तृ हर्तृ । (कात्यायन वार्तिक)सिद्धं तु षष्ठ्यधिकारे वचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । षष्ठ्यधिकारे इमे योगाः कर्तव्याः । एकः तावत्क्रियते तत्र एव । इमौ अपि योगौ षष्ठधिकारं अनुवर्तिष्येते । अथ वा षष्ठधिकारे इमौ योगौ अपेक्षिष्यामहे । अथ वा इदं तावदयं प्रष्टव्यः । सार्वधातुकार्धधातुकयोः गुणः भवति इति इह कस्मात्न भवति : याता वाता । इदं तत्र अपेक्षिष्यते इकः गुणवृद्धी* इति । यथा एव तर्हि इदं तत्र अपेक्षिष्यते एवं इह अपि तदपेक्षिष्यामहे सार्वधातुकार्धधातुकयोः इकः गुणवृद्धी* इति।
पाणिनीयसूत्र १,१।४।१) कि.,५१।२-१३ रो.,१६४-१६६ धातुग्रहणं किमर्थं । इह मा भूतः लूञ्लविता लवितुं पूञ्पविता पवितुं । आर्धधातुके इति किमर्थं । त्रिधा बद्धः वृषभः रोरवीति । किं पुनः इदं आर्धधातुकग्रहणं लोपविशेषणं : आर्धधातुकनिमित्ते लोपे सति ये गुणवृद्धी प्राप्नुतः ते न भवतः इति , आहोस्वित्गुणवृद्धिविशेषणं आर्धधातुकग्रहणं : धातुलोपे सति आर्धधातुकनिमित्ते ये गुणवृद्धी प्राप्नुतः ते न भवतः इति । किं च अतः । यदि लोपविशेषणं उपेद्धः प्रेद्धः अत्र अपि प्राप्नोति । अथ गुणवृद्धिविशेषणं क्नोपयति इति अत्र अपि प्राप्नोति । यथा इच्छसि तथा अस्तु । अस्तु लोपविशेषणं । कथं उपेद्धः प्रेद्धः इति । बहिरङ्गः गुणः अन्तरङ्गः प्रतिषेधः । असिद्धं बहिरङ्गं अन्तरङ्गे । यदि एवं न अर्थः धातुग्रहणेन । इह कस्मात्न भवतिः लूञ्लविता लवितुं । आर्धधातुकनिमित्ते लोपे प्रतिषेधः न च एषः आर्धधातुकनिमित्तः लोपः । अथ वा पुनः अस्तु गुणवृद्धिविशेषणं । ननु च उक्तं क्नोपयति इति अत्र अपि प्राप्नोति इति । न एषः दोषः । निपातनात्सिद्धं । किं निपातनं । चेले क्नोपेः इति
पाणिनीयसूत्र १,१।४।२) कि.,५१।१४-५२।२० रो.,१६६-१६९ परिगणनं कर्तव्यं । (कात्यायन वार्तिक)यङ्यक्क्यवलोपे प्रतिषेधः(वार्तिकान्त) । यङ्यक्क्यवलोपे प्रतिषेधः वक्तव्यः । यङः बेभिदिता मरीमृजः । यकः कुषुभिता मगधकः । क्यः समिधिता दृषदकः । वलोपे : जीरदानुः । किं प्रयोजनं । (कात्यायन वार्तिक)नुम्लोपस्रिव्यनुबन्धलोपे अप्रतिषेधार्थम्(वार्तिकान्त) । नुम्लोपे स्रिव्यनुबन्धलोपे च प्रतिषेधः मा भूतिति । नुम्लोपेः अभाजि रागः उपबर्हणं । स्रिवेः : आस्रेमाणं । अनुबन्धलोपे : लूञ्लविता लवितुं । यदि परिगणनं क्रियते स्यदः, प्रश्रथः, हिमश्रथः इति अत्र अपि प्राप्नोति । वक्ष्यति एतत्निपातनात्स्यदादिषु इति । तत्तर्हि परिगणनं कर्तव्यं । न कर्तव्यं । नुम्लोपे कस्मात्न भवति । (कात्यायन वार्तिक)इक्प्रकरणात्नुम्लोपे वृद्धिः(वार्तिकान्त) । इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एषा इग्लक्षणा वृद्धिः । यदि इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः स्यदः, प्रश्रथः, हिमश्रथः इति अत्र न प्राप्नोति । इह च प्राप्नोतिः अवोदः, एधः, ओद्मः इति । (कात्यायन वार्तिक)निपातनात्स्यदादिषु (वार्तिकान्त)। निपातनात्स्यदादिषु प्रतिषेधः भविष्यति न च भविष्यति । यदि इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः स्रिव्यनुबन्धलोपे कथं स्रिवेः आस्रेमाणं लूञ्लविता । (कात्यायन वार्तिक)प्रत्ययाश्रयत्वातन्यत्र सिद्धम्(वार्तिकान्त) । आर्धधातुकनिमित्ते लोपे प्रतिषेधः न च एषः आर्धधातुकनिमित्तः लोपः । यदि आर्धधातुकनिमित्ते लोपे प्रतिषेधः जीरदानुः अत्र न प्राप्नोति । (कात्यायन वार्तिक)रकि ज्यः प्रसारणं (वार्तिकान्त)। न एतत्जीवेः रूपं । रकि एतत्ज्यः प्रसारणं । यावता च इदानीं रकि जीवेः अपि सिद्धं भवति । कथं उपबर्हणं । बृहिः प्रकृत्यन्तरं । कथं ज्ञायते बृहिः प्रकृत्यन्तरं इति । अचि इति हि लोपः उच्यते अनजादौ अपि दृश्यतेः निबृह्यते । अनिटि इति च उच्यते । इडादौ अपि दृश्यतेः निबर्हिता निबर्हितुं इति । अजादौ अपि न दृश्यतेः बृंहयति बृंहकः । तस्मात्न अर्थः परिगणनेन । यदि परिगणनं न क्रियते भेद्यते छेद्यते अत्र अपि प्राप्नोति । न एषः दोषः । धातुलोपे इति न एवं विज्ञायतेः धातोः लोपः धातुलोपः, धातुलोपे इति । कथं तर्हि । धातोः लोपः अस्मिन्ततिदं धातुलोपम्, धातुलोपे इति । तस्मातिग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः । यदि तर्हि इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः पापचकः, पापठकः, मगधकः, दृषदकः अत्र न प्राप्नोति । (कात्यायन वार्तिक)अल्लोपस्य स्थानिवत्वात्(वार्तिकान्त) । अकारलोपे कृते तस्य स्थानिवत्वात्गुणवृद्धी न भविष्यतः ।
पाणिनीयसूत्र १,१।४।३) कि.,५२।२१-५३।१५ रो.,१६९-१७१ (कात्यायन वार्तिक)अनारम्भः वा(वार्तिकान्त) । अनारम्भः वा पुनः अस्य योगस्य न्याय्यः । कथं बेभिदिता, मरीमृजकः, कुषुभिता समिधिता इति । अत्र अपि अकारलोपे कृते तस्य स्थानिवत्वात्गुणवृद्धी न भविष्यतः । यत्र तर्हि स्थानिवद्भावः न अस्ति तदर्थं अयं योगः वक्तव्यः । क्व च स्थानिवद्भावः न अस्ति । यत्र हलचोः आदेशःः लोलुवः पोपुवः मरीमृजः सरीसृपः इति । अत्र अपि अकारलोपे कृते तस्य स्थानिवत्वात्गुणवृद्धी न भविष्यतः । लुकि कृते न प्राप्नोति । इदं इह सम्प्रधार्यमः लुक्क्रियतां अल्लोपः इति किं अत्र कर्तव्यं । परत्वातल्लोपः । नित्यः लुक। कृते अपि अल्लोपे प्राप्नोति अकृते अपि प्राप्नोति । लुकपि अनित्यः । कथं । अन्यस्य कृते अल्लोपे प्राप्नोति अन्यस्य अकृते । शब्दान्तरस्य च प्राप्नुवन्विधिः अनित्यः भवति । अनवकाशः तर्हि लुक। सावकाशः लुक। कः अवकाशः । अवशिष्टः । अथं कथं चितनवकाशः लुक्स्यातेवं अपि न दोषः । अल्लोपे योगविभागः करिष्यते : अतः लोपः । ततः यस्य : यस्य च लोपः भवति । अतः इति एव । किमर्थं इदं । लुकं वक्ष्यति तद्बाधनार्थं । ततो हलः । हलः उत्तरस्य च यस्य लोपः भवति इति । इह अपि परत्वात्योगविभागात्व लोपः लुकं बाधेतः कृष्णः नोनाव वृषभः यदि इदं । नोनूयतेः नोनाव । समानाश्रयः लुक्लोपेन बाध्यते । कः च समानाश्रयः । यः प्रत्ययाश्रयः । अत्र च प्राकेव प्रत्ययोत्पत्तेः लुक्भवति । कथं स्यदः, प्रश्रथः, हिमश्रथः, जीरदानुः, निकुचितः इति । (कात्यायन वार्तिक)उक्तं शेषे(वार्तिकान्त) । किं उक्तं । निपातनात्स्यदादिषु । प्रत्ययाश्रत्वातन्यत्र सिद्धं । रकि ज्यः प्रसारणं इति । निकुचिते अपि उक्तं सन्निपातलक्षणः विधिः अनिमित्तं तद्विघातस्य इति ।
पाणिनीयसूत्र १,१।५।१) कि.,५३।१७-५४।१३ रो.,१७१-१७४ (कात्यायन वार्तिक)क्ङिति प्रतिषेधे तन्निमित्तग्रहणम्(वार्तिकान्त) । क्ङिति प्रतिषेधे तन्निमित्तग्रहणं कर्तव्यं । क्ङिन्निमित्ते ये गुणवृद्धी प्राप्नुतः ते न भवतः इति वक्तव्यं । किं प्रयोजनं । (कात्यायन वार्तिक)उपधारोरवीत्यर्थं (वार्तिकान्त)। उपधार्थं रोरवीत्यर्थं च । उपधार्थं तावतः भिन्नः , भिन्नवानिति । किं पुनः कारणं न सिध्यति । क्ङिति इति उच्यते । तेन यत्र क्ङिति अनन्तरः गुणभावी अस्ति तत्र एव स्यातः चितं स्तुतं । इह तु न स्यातः भिन्नः , भिन्नवानिति । ननु च यस्य गुणः उच्यते तत्क्ङित्परत्वेन विशेषयिष्यामः । पुगन्तलघूपधस्य च गुणः उच्यते तत्च अत्र क्ङित्परं । पुगन्तलघूपधस्य इति न एवं विज्ञायते : पुगन्तस्य अङ्गस्य लघूपधस्य च इति । कथं तर्हि । पुकि अन्तः पुगन्तः , लघ्वी उपधा लघूपधा , पुगन्तः च लघूपधा च पुगन्तलघूपधं , पुगन्तलघूपधस्य इति । अवश्यं च एततेवं विज्ञेयं । अङ्गविशेषणे हि सति इह प्रसज्येत : भिनत्ति छिनत्ति इति । रोरवीत्यर्थं च । त्रिधा बद्धः वृषभः रोरवीति इति । यदि तन्निमित्तग्रहणं क्रियते शचङन्ते दोषः । रियति पियति धियति । प्रादुद्रुवत्प्रासुस्रुवत। अत्र प्राप्नोति । (कात्यायन वार्तिक)शचङन्तस्य अन्तरङ्गलक्षणत्वात्(वार्तिकान्त) । अन्तरङ्गलक्षणत्वातत्र इयङुवङोः कृतयोः अनुपधात्वात्गुणः न भविष्यति । एवं क्रियते च इदं तन्निमित्तग्रहणं न च कः चित्दोषः भवति । इमानि च भूयः तन्निमित्तग्रहणस्य प्रयोजनानि : हतः , हथः , उपोयते , औयत , लौयमानिः , पौयमानिः , नेनिक्ते इति । न एतानि सन्ति प्रयोजनानि । इह तावत्हतः , हथः इति । प्रसक्तस्य अनभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुं अत्र च धातूपदेशावस्थायां एव अकारः । इह च उपोयते , औयत , लौयमानिः , पौयमानिः इति । बहिरङ्गे गुणवृद्धी अन्तरङ्गः प्रतिषेधः । असिद्धं बहिरङ्गं अन्तरङ्गे । नेनिक्ते इति परेण रूपेण व्यवहितत्वात्न भविष्यति ।
पाणिनीयसूत्र १,१।५।२) कि.,५४।१३-५५।५ रो.,१७५-१७७ उपधार्थेन तावत्न अर्थः । धातोः इति वर्तते । धातुं क्ङित्परत्वेन विशेषयिष्यामः । यदि धातुः विशेष्यते विकरणस्य न प्राप्नोति : चिनुतः , सुनुतः , लुनीतः , पुनीतः इति । न एषः दोषः । विहितविशेषणं धातुग्रहणं । धातोः यः विहितः इति । धातोः एव तर्हि न प्राप्नोति । न एवं विज्ञायते धातोः विहितस्य क्ङिति इति । कथं तर्हि । धातोः विहिते क्ङिति इति । अथ वा कार्यकालं हि सञ्ज्ञापरिभाषं । यत्र कार्यं तत्र द्रष्टव्यं । पुगन्तलघूपधस्य गुणः भवति इति उपस्थितं इदं भवति क्ङिति न इति । अथ वा यतेतस्मिन्योगे क्ङिद्ग्रहणं तदनवकाशं । तस्य अनवकाशत्वात्गुणवृद्धी न भविष्यतः । अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति उपधालक्षणस्य गुणस्य प्रतिषेधः इति यतयं त्रसिगृधिधृषिक्षिपेः क्नुः इकः झल्हलन्तात्च इति क्नुसनौ कितौ करोति । कथं कृत्वा ज्ञापकं । कित्करणे एतत्प्रयोजनं गुणः कथं न स्यातिति । यदि च अत्र गुणप्रतिषेधः न स्यात्कित्करणं अनर्थकं स्यात। पश्यति तु आचार्यः भवति उपधालक्षणस्य गुणस्य प्रतिषेधः इति । ततः क्नुसनौ कितौ करोति । रोरवीत्यर्थेन अपि न अर्थः । क्ङिति इति उच्यते । न च अत्र क्ङितं पश्यामः । प्रत्ययलक्षणेन प्राप्नोति । न लुमता तस्मिनिति प्रत्ययलक्षणप्रतिषेधः । अथ अपि न लुमता अङ्गस्य इति उच्यते एवं अपि न दोषः । कथं । न लुमता लुप्ते अङ्गाधिकारः प्रतिनिर्दिश्यते । किं तर्हि । यः असौ लुमता लुप्यते तस्मिन्यतङ्गं तस्य यत्कार्यं तत्न भवति इति । अथ अपि आङ्गाधिकारः प्रतिनिर्दिश्यते एवं अपि न दोषः । कथं । कार्यकालं हि सञ्ज्ञापरिभाषं यत्र कार्यं तत्र द्रष्टव्यं । सार्वधातुकार्धधातुकयोः गुणः भवति इति उपस्थितं इदं भवति क्ङिति न इति । अथ वा छान्दसं एतत। दृष्टानुविधिः च छन्दसि भवति । अथ वा बहिरङ्गः गुणः अन्तरङ्गः प्रतिषेधः । असिद्धं बहिरङ्गं अन्तरङ्गे । अथ वा पूर्वस्मिन्योगे यदार्धधातुकग्रहणं ततनवकाशं । तस्य अनवकाशत्वात्गुणः भविष्यति ।
पाणिनीयसूत्र १,१।५।३) कि.,५५।६-१८ रो.,१७७-१८० इह कस्मात्न भवति : लैगवायनः , कामयते । (कात्यायन वार्तिक)तद्धितकाम्योः इक्प्रकरणात्(वार्तिकान्त) । इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एते इग्लक्षणे । लकारस्य ङित्त्वातादेशेषु स्थानिवद्भावप्रसङ्गः । लकारस्य ङित्त्वातादेशेषु स्थानिवद्भावः प्राप्नोति : अचिनवं असुनवं अकरवं । (कात्यायन वार्तिक)लकारस्य ङित्त्वातादेशेषु स्थानिवद्भावप्रसङ्गः इति चेत्यासुटः ङिद्वचनात्सिद्धं (वार्तिकान्त)। यतयं यासुटः ङिद्वचनं शास्ति तत्ज्ञापयति आचार्यः न ङिदादेशाः ङितः भवन्ति इति । यदि एतत्ज्ञाप्यते कथं नित्यं ङितः इतः च इति । ङितः यत्कार्यं तत्भवति ङिति यत्कार्यं तत्न भवति इति । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । यासुटः एव ङिद्वचनात। अपर्याप्तः च एव हि यासुट्समुदायस्य ङित्त्वे ङितं च एनं करोति । तस्य एतत्प्रयोजनं ङितः यत्कार्यं तत्यथा स्यात्ङिति यत्कार्यं तत्मा भूतिति ।
पाणिनीयसूत्र १,१।६) कि.,५५।२०-५६।१६ रो.,१८०-१८२ किमर्थं इदं उद्यते । गुणवृद्धी मा भूतां इति : आदीध्यनं आदीध्यकः , आवेव्यनं आवेव्यकः इति । अयं योगः शक्यः अकर्तुं । कथं । (कात्यायन वार्तिक)दीधीवेव्योः छन्दोविषयत्वात्दृष्टानुविधित्वात्च छन्दसः अदीधेतदीधयुः इति च गुणदर्शनातप्रतिषेधः(वार्तिकान्त) । दीधीवेव्योः छन्दोविषयत्वात। दीधीवेव्यौ छन्दोविषयौ । दृष्टानुविधित्वात्च छन्दसः । दृष्टानुविधिः च छन्दसि भवति । अदीधेत्, अदीधयुः इति च गुणदर्शनातप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । प्रजपतिः वै यत्किं चन मनसा अदीधेत। होत्रय वृतः कृपयनदीधेत। अदीधयुः दाशराज्ञे वृतसः । भवेतिदं युक्तं उदाहरणं : अदीधेतिति । इदं तु अयुक्तं : अदीधयुः इति । अयं जुसि गुणः प्रतिषेधविषये [प्रतिषेधविषयः] आरभ्यते । सः यथा एव क्ङिति न इति एतं प्रतिषेधं बाधते एवं इमं अपि बाधते । न एषः दोषः । जुसि गुणः प्रतिषेधविषये आरभ्यमाणः तुल्यजातीयं प्रतिषेधं बाधते । कः च तुल्यजातीयः प्रतिषेधः । यः प्रत्ययाश्रयः । प्रकृत्याश्रयः च अयं । अथ वा येन न अप्राप्ते तस्य बाधनं भवति । न च अप्राप्ते क्ङिति न इति एतस्मिन्प्रतिषेधे जुसि गुणः आरभ्यते । अस्मिन्पुनः प्राप्ते च अप्राप्ते च । यदि तर्हि अयं योगः न आरभ्यते कथं दीध्यतिति । (कात्यायन वार्तिक)दीध्यतिति श्यन्व्यत्ययेन(वार्तिकान्त) । दीध्यतिति श्यनेषः व्यत्ययेन भविष्यति । इटः च अपि ग्रहणं शक्यं अकर्तुं । कथं अकणिषं अरणिषं , कणिता श्वः , रणिता श्वः इति । आर्धधातुकस्य इट्वलादेः इति अत्र इटिति वर्तमाने पुनः इड्ग्रहणस्य प्रयोजनं इटेव यथा स्यात्यतन्यत्प्राप्नोति तत्मा भूतिति । किं च अन्यत्प्राप्नोति । गुणः । यदि नियमः क्रियते पिपठिषतेः अप्रत्ययः पिपटःईः : दीर्घत्वं न प्राप्नोति । न एषः दोषः । आङ्गं यत्कार्यं तत्नियम्यते । न च एतताङ्गं । अथ वा असिद्धं दीर्घत्वं । तस्य असिद्धत्वात्नियमः न भविष्यति ।
पाणिनीयसूत्र १,१।७।१) कि.,५६।१८-२३ रो.,१८२-१८३ अनन्तराः इति कथं इदं विज्ञायते : अविद्यमानं अन्तरं एषां इति आहोस्वितविद्यमानाः अन्तरा एषां इति । किं च अतः । यदि विज्ञायते अविद्यमानं अन्तरं एषां इति अवग्रहे संयोगसञ्ज्ञा न प्राप्नोति अप्सु इति अप्-सु इति । विद्यते हि अत्र अन्तरं । अथ विज्ञायते अविद्यमानाः अन्तरा एषां इति न दोषः भवति । यथा न दोषः तथा अस्तु । अथ वा पुनः अस्तु अविद्यमानं अन्तरं एषां इति । ननु च उक्तं अवग्रहे संयोगसञ्ज्ञा न प्राप्नोति अप्-सु इति अप्सु इति । विद्यते हि अत्र अन्तरं इति । न एव दोषः न प्रयोजनं ।
पाणिनीयसूत्र १,१।७।२) कि.,५६।२४-५७।२६ रो.,१८३-१८६ (कात्यायन वार्तिक)संयोगसञ्ज्ञायां सहवचनं यथा अन्यत्र(वार्तिकान्त) । संयोगसञ्ज्ञायां सहवचनं कर्तव्यं । हलः अनन्तराः संयोगः सह इति वक्तव्यं । किं प्रयोजनं । सहभूतानां संयोगसञ्ज्ञा यथा स्यातेकैकस्य मा भूतिति । यथा अन्यत्र । तत्यथा अन्यत्र अपि यत्र इच्छति सहबूतानां कार्यं करोति तत्र सहग्रहणं । तत्यथा । सह सुपा । उभे अभ्यस्तं सह इति । किं च स्यात्यदि एकैकस्य हलः संयोगसञ्ज्ञा स्यात। इह निर्यायात्, निर्वायात्, वा अन्यस्य संयोगादेः इति एत्त्वं प्रसज्येत । इह च संहृषीष्ट इति ऋतः च संयोगादेः इति इट्प्रसज्येत । इह च संह्रियते इति गुणः अर्तिसंयोगाद्योः इति गुणः प्रसज्येत । इह च दृषत्करोति समित्करोति इति संयोगान्तस्य लोपः प्रसज्येत । इह च शक्ता वस्ता इति स्कोः संयोगाद्योः इति लोपः प्रसज्येत । इह च निर्यातः , निर्वातः संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वं प्रसज्येत । न एषः दोषः । यत्तावतुच्यते इह तावत्निर्यायात्, निर्वायात्वा अन्यस्य संयोगादेः इति एत्त्वं प्रसज्येत इति । न एवं विज्ञायते संयोगः आदिः यस्य सः अयं संयोगादिः , संयोगादेः इति । कथं तर्हि । संयोगौ आदी यस्य सः अयं संयोगादिः , संयोगादेः इति । एवं तावत्सर्वं आङ्गं परिहृतं । यतपि उच्यते इह च दृषत्करोति समित्करोति इति संयोगान्तस्य लोपः प्रसज्येत इति । न एवं विज्ञायते संयोगः अन्तः यस्य ततिदं संयोगान्तं , संयोगान्तस्य इति । कथं तर्हि । संयोगौ अन्तौ अस्य तदिदं संयोगान्तं , संयोगान्तस्य इति । यतपि उच्यते इह च शक्ता वस्ता इति स्कोः संयोगाद्योः इति लोपः प्रसज्येत इति । न एवं विज्ञायते संयोगौ आदी संयोदादी संयोगाद्योः इति । कथं तर्हि । संयोगयोः आदी संयोगादी संयोगाद्योः इति । यतपि उच्यते इह च निर्यातः , निर्वातः संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वं प्रसज्येत इति । न एवं विज्ञायते संयोगः आदिः यस्य सः अयं संयोगादिः , संयोगादेः इति । कथं तर्हि । संयोगौ आदी यस्य सः अयं संयोगादिः , संयोगादेः इति । कथं कृत्वा एकैकस्य संयोगसञ्ज्ञा प्राप्नोति । प्रत्येकं वाक्यपरिसमाप्तिः दृष्टा । तत्यथा । वृद्धिगुणसञ्ज्ञे प्रत्येकं भवतः । ननु च अयं अपि अस्ति दृष्टान्तः : समुदाये वाक्यपरिसमाप्तिः इति । तत्यथा । गर्गाः शतं दण्ड्यन्तां इति । अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकं दण्डयन्ति । सति एतस्मिन्दृष्टान्ते यदि तत्र प्रत्येकं इति उच्यते इह अपि सहग्रहणं कर्तव्यं । अथ तत्र अन्तरेण प्रत्येकं इति वचनं प्रत्येकं वृद्धिगुणसञ्ज्ञे भवतः इह अपि न अर्थः सहग्रहणेन ।
पाणिनीयसूत्र १,१।७।३) कि.,५७।२७-५९।२ रो.,१८६-१९० अथ यत्र बहूनां आनन्तर्यं किं तत्र द्वयोः द्वयोः संयोगस्ञ्ज्ञा भवति आहोस्वितविशेषेण । कः च अत्र विशेषः । (कात्यायन वार्तिक)समुदाये संयोगादिलोपः मस्जेः(वार्तिकान्त) । समुदाये संयोगादिलोपः मस्जेः न सिध्यति । मङ्क्ता मङ्क्तुं । इह च निर्ग्लेयात्, निर्ग्लायात्, निर्म्लेयात्, निर्म्लायातः वा अन्यस्य संयोगादेः इति एत्त्वं न प्राप्नोति । इह च संस्वरिषीष्ट इति ऋतः च संयोगादेः इति इट्न प्राप्नोति । इह च संस्वर्यते इति गुणः अर्तिसंयोगाद्योः इति गुणः न प्राप्नोति । इह च गोमान्करोति यवमान्करोति इति संयोगान्तस्य लोपः इति लोपः न प्राप्नोति । इह च निर्ग्लानः , निर्म्लानः इति संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वं न प्राप्नोति । अस्तु तर्हि द्वयोः द्वयोः । (कात्यायन वार्तिक)द्वयोः हलोः संयोगः इति चेत्द्विर्वचनं (वार्तिकान्त)। द्वयोः हलोः संयोगः इति चेत्द्विर्वचनं न सिध्यति । इन्द्रं इच्छति इन्द्रीयति । इन्द्रीयतेः सनः इन्दिद्रीयिषति । न न्द्राः संयोगादयः इति दकारस्य द्विर्वचनं न प्राप्नोति । (कात्यायन वार्तिक)न वा अज्विधेः(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । अज्विधेः । न्द्राः संयोगादयः न द्विः उच्यन्ते । अजादेः इति वर्तते । अथ यदि एव बहूनां संयोगस्ञ्ज्ञा अथ अपि द्वयोः द्वयोः किं गतं एततियता सूत्रेण आहोस्वितन्यतरस्मिन्पक्षे भूयः सूत्रं कर्तव्यं । गतं इति आह । कथं । यद तावत्बहूनां संयोगस्ञ्ज्ञा तदा एवं विग्रहः करिष्यते : अविद्यमानं अन्तरं एषां इति । यदा द्वयोः द्वयोः तदा एवं विग्रहः करिष्यते : अविद्यमानाः अन्तरा एषां इति । द्वयोः च एव अन्तरा कः चित्विद्यते न वा । एवं अपि बहूनां एव प्राप्नोति । यान्हि भवान्षष्ठ्या प्रतिनिर्दिशति एतेषां अन्येन व्यवाये न भवितव्यं । अस्तु तर्हि समुदाये सञ्ज्ञा । ननु च उक्तं समुदाये संयोगादिलोपः मस्जेः इति । न एषः दोषः । वक्ष्यति एतत। अन्त्यात्पूर्वः मस्जेः मितनुषङ्गसंयोगादिलोपार्थं इति । अथ वा अविशेषेण संयोगसञ्ज्ञा विज्ञास्यते द्वयोः अपि बहूनां अपि । तत्र द्वयोः या संयोगस्ञ्ज्ञा तदाश्रयः लोपः भविष्यति । यतपि उच्यते इह च निर्ग्लेयात्, निर्ग्लायात्, निर्म्लेयात्, निर्म्लायातः वा अन्यस्य संयोगादेः इति एत्त्वं न प्राप्नोति इति अङ्गेन संयोगादिं विशेषयिष्यामः । अङ्गस्य संयोगादेः इति । एवं तावत्सर्वं आङ्गं परिहृतं । यतपि उच्यते इह च गोमान्करोति यवमान्करोति इति संयोगान्तस्य लोपः इति लोपः न प्राप्नोति इति पदेन संयोगान्तं विशेषयिष्यामः । पदस्य संयोगान्तस्य । यतपि उच्यते इह च निर्ग्लानः , निर्म्लानः इति संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वं न प्राप्नोति इति धातुन संयोगादिं विशेषयिष्यामः । धातोः संयोगादेः इति ।
पाणिनीयसूत्र १,१।७।४) कि.,५९।३-२४ रो.,१९०-१९२ (कात्यायन वार्तिक)स्वरानन्तर्हितवचनम्(वार्तिकान्त) । स्वरैः अनन्तर्हिताः हलः संयोगसञ्ज्ञाः भवन्ति इति वक्तव्यं । किं प्रयोजनं । व्यवहितानां मा भूत। पचति पनसं । ननु च अनन्तराः इति उच्यते । तेन व्यवहितानां न भविष्यति । (कात्यायन वार्तिक)दृष्टं आनन्तर्यं व्यवहिते(वार्तिकान्त) । व्यवहिते अपि अनन्तरशब्दः दृश्यते । तत्यथा : अनन्तरौ इमौ ग्रामौ इति उच्यते । तयोः च एव अन्तरा नद्यः च पर्वताः च भवन्ति । यदि तर्हि व्यवहिते अपि अनन्तरशब्दः भवति आनन्तर्यवचनं इदानीं किमर्थं स्यात। (कात्यायन वार्तिक)आनन्तर्यवचनं किमर्थं इति चेतेकप्रतिषेधार्थम्(वार्तिकान्त) । एकस्य हलः संयोगसञ्ज्ञा मा भूतिति । किं च स्यात्यदि एकस्य हलः संयोगसञ्ज्ञा स्यात। इयेष , उवोष । इजादेः च गुरुमतः अनृच्छः इति आं प्रसज्येत । (कात्यायन वार्तिक)न वा अतज्जातीयव्यवायात्(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । अतज्जातीयस्य व्यवायात। अतज्जातीयकं हि लोके व्यवधायकं भवति । कथं पुनः ज्ञायते अतज्जातीयकं लोके व्यवधायकं भवति इति । एवं हि कं चित्कः चित्पृच्छति । अनन्तरे* एते ब्राह्मणकुले* इति । सः आह । न अनन्तरे । वृषलकुलं अनयोः अन्तरा इति । किं पुनः कारणं क्व चिततज्जातीयकं व्यवधायकं भवति क्व चित्न । सर्वत्र एव हि अतज्जातीयकं व्यवधायकं भवति । कथं अनन्तरौ इमौ ग्रामौ इति । ग्रामशब्दः अयं बह्वर्थः । अस्ति एव शालासमुदाये वर्तते । तत्यथा ग्रामः दग्धः इति । अस्ति वाटपरिक्षेपे वर्तते । तत्यथा ग्रामं प्रविष्टः । अस्ति मनुष्येषु वर्तते । तत्यथा ग्रामः गतः , ग्रामः आगतः इति । अस्ति सारण्यके ससीमके सस्थण्डिलके वर्तते । तत्यथा ग्रामः लब्धः इति । तत्यः सारण्यके ससीमके सस्थण्डिलके वर्तते तं अभिसमीक्ष्य एतत्प्रयुज्यते : अनन्तरौ इमौ ग्रामौ इति । सर्वत्र एव हि अतज्जातीयकं व्यवधायकं भवति ।
पाणिनीयसूत्र १,१।८।१) कि.,५९।२६-६०।५ रो.,१९२-१९३ किं इदं मुखनासिकावचनः इति । मुखं च नासिका च मुखनासिकं । मुखनासिकं वचनं अस्य सः अयं मुखनासिकावचनः । यदि एवं मुखनासिकवचनः इति प्राप्नोति । निपातनात्दीर्घत्वं भविष्यति । अथ वा मुखनासिकं आवचनं अस्य सः अयं मुखनासिकावचनः । किं इदं आवचनं इति । ईषद्वचनं आवचनं । किं चित्मुखवचनं किं चित्नासिकावचनं । मुखद्वितीया वा नासिका वचनं अस्य सः अयं मुखनासिकावचनः । मुखोपसंहिता वा नासिका वचनं अस्य सः अयं मुखनासिकावचनः ।
पाणिनीयसूत्र १,१।८।२) कि.,६०।५-१६ रो.,१९३-१९४ अथ मुखग्रहणं किमर्थं । नासिकावचनः अनुनासिकः इति इयति उच्यमाने यमानुस्वाराणां एव प्रसज्येत । मुखग्रहणे पुनः क्रियमाणे न दोषः भवति । अथ नासिकाग्रहणं किमर्थं । मुखवचनः अनुनासिकः इति इयति उच्यमाने कचटतपानां एव प्रसज्येत । नासिकाग्रहणे पुनः क्रियमाणे न दोषः भवति । मुखग्रहणं शक्यं अकर्तुं । केन इदानीं उभयवचनानां भविष्यति । प्रासादवासिन्यायेन । तत्यथा । के चित्प्रासादवासिनः के चित्भूमिवासिनः के चितुभयवासिनः । ये प्रासादवासिनः गृह्यन्ते ते प्रासादवासिग्रहणेन । ये भूमिवासिनः गृह्यन्ते ते भूमिवासिन्यायेन । ये उभयवासिनः गृह्यन्ते ते प्रासादवासिग्रहणेन भूमिवासिन्यायेन च । एवं इह अपि के चित्मुखवचनाः के चित्नासिकावचनाः के चितुभयवचनाः । तत्र ये मुखवचनाः गृह्यन्ते ते मुखग्रहणेन । ये नासिकावचनाः गृह्यन्ते ते नासिकाग्रहणेन । ये उभयवचनाः गृह्यन्ते एव ते मुखग्रहणेन नासिकाग्रहणेन च। भवेतुभयवचनानां सिद्धं । यमानुस्वाराणां अपि प्राप्नोति । न एव दोषः न प्रयोजनं ।
पाणिनीयसूत्र १,१।८।३) कि.,६०।१७-२६ रो.,१९४-१९५ इतरेतराश्रयं तु भवति । का इतरेतराश्रयता । सतः अनुनासिकस्य सञ्ज्ञया भवितव्यं सञ्ज्ञया च नाम अनुनासिकः भाव्यते । ततितरेतराश्रयं भवति । इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते । (कात्यायन वार्तिक)अनुनासिकसञ्ज्ञायां इतरेतराश्रये उक्तम्(वार्तिकान्त) । सिद्धं तु नित्यशब्दत्वातिति । नित्याः शब्दाः । नित्येषु शब्देषु सतः अनुनासिकस्य सञ्ज्ञा क्रियते । न सञ्ज्ञया अनुनासिकः भाव्यते । यदि तर्हि नित्याः शब्दाः किमर्थं शास्त्रं । किमर्थं शास्त्रं इति चेत्निवर्तकत्वात्सिद्धं । निवर्तकं शास्त्रं । कथं । आङस्मै अविशेषेण उपदिष्टः अननुनासिकः । तस्य सर्वत्र अननुनासिकबुद्धिः प्रसक्ता । तत्र अनेन निवृत्तिः क्रियते । छन्दसि अचि परतः आङः अननुनासिकस्य प्रसङ्गे अनुनासिकः साधुः भवति इति ।
पाणिनीयसूत्र १,१।९।१) कि.,६१।२-७ रो.,१९५-१९७ तुलया सम्मितं तुल्यं । आस्यं च प्रयत्नः च आस्यप्रयत्नं । तुल्यास्यं तुल्यप्रयत्नं च सवर्णसञ्ज्ञं भवति । किं पुनः आस्यं । लौकिकं आस्यं ओष्ठात्प्रभृति प्राक्काकलकात। कथं पुनः आस्यं । अस्यन्ति अनेन वर्णानिति आस्यं । अन्नं एततास्यन्दते इति वा आस्यं । अथ कः प्रयत्नः । प्रयतनं प्रयत्नः । प्रपूर्वात्यततेः भावसाधनः नङ्प्रत्ययः । यदि लौकिकं आस्यं किं आस्योपादाने प्रयोजनं । सर्वेषां हि तत्तुल्यं भवति । वक्ष्यति एततः प्रयत्नविशेषणं आस्योपादानं इति ।
पाणिनीयसूत्र १,१।९।२) कि.,६१।८-६२।१४ रो.,१९७-२०२ (कात्यायन वार्तिक)सवर्णसञ्ज्ञायां भिन्नदेशेषु अतिप्रसङ्गः प्रयत्नसामान्यात्(वार्तिकान्त) । सवर्णसञ्ज्ञायां भिन्नदेशेषु अतिप्रसङ्गः भवति जबगडदशां । किं कारणं । प्रयत्नसामान्यात। एतेषां हि समानः प्रयत्नः । (कात्यायन वार्तिक)सिद्धं तु आस्ये तुल्यदेशप्रयत्नं सवर्णम्(वार्तिकान्त) । सिद्धं एतत। कथं । आस्ये येषां तुल्यः देशः यत्नः च ते सवर्णसञ्ज्ञाः भवन्ति इति वक्तव्यं । एवं अपि किं आस्योपादाने प्रयोजनं । सर्वेषां हि तत्तुल्यं । प्रयत्नविशेषणं आस्योपादानं । सन्ति हि आस्यात्बाह्याः प्रयत्नाः । ते हापिताः भवन्ति । तेषु सत्सु असत्सु अपि सवर्णसञ्ज्ञा सिध्यति । के पुनः ते । विवारसंवारौ श्वासनादौ घोषवदघोषता अल्पप्राणता महाप्राणता इति । तत्र वर्गाणां प्रथमद्वितीयाः विवृतकण्ठाः श्वासानुप्रदानाः अघोषाः । एके अल्पप्राणाः अपरे महाप्राणाः । तृतीयचतुर्थाः संवृतकण्ठाः नादानुप्रदानाः घोषवन्तः । एके अल्पप्राणाः अपरे महाप्राणाः । यथा तृतीयाः तथा पञ्चमाः आनुनासिक्यवर्जं । आनुनासिक्यं तेषां अधिकः गुणः । एवं अपि अवर्णस्य सवर्णसञ्ज्ञा न प्राप्नोति । किं कारणं । बाह्यं हि आस्यात्स्थानं अवर्णस्य । सर्वमुखस्थानं अवर्णं एके इच्छन्ति । एवं अपि व्यपदेशः न प्रकल्पते : आस्ये येषां तुल्यः देशः इति । व्यपदेशिवद्भावेन व्यपदेशः भविष्यति । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं सवर्णसञ्ज्ञयां भिन्नदेशेषु अतिप्रसङ्गः प्रयत्नसामान्यातिति । न एषः दोषः । न हि लौकिकं आस्यं । किं तर्हि । तद्धितान्तं आस्यं : आस्ये भवं आस्यं । शरीरावयवात्यत। किं पुनः आस्ये भवं । स्थानं करणं च । एवं अपि प्रयत्नः अविशेषितः भवति । प्रयत्नः च विशेषितः । कथं । न हि प्रयतनं प्रयत्नः । किं तर्हि । प्रारम्भः यत्नस्य प्रयत्नः । यदि प्रारम्भः यत्नस्य प्रयत्नः एवं अपि अवर्णस्य एङोः च सवर्णसञ्ज्ञा प्राप्नोति । प्रश्लिष्टवर्णौ एतौ । अवर्णस्य तर्हि ऐचोः च सवर्णसञ्ज्ञा प्राप्नोति । विवृततरावर्णौ एतौ । एतयोः एव तर्हि मिथः सवर्णसञ्ज्ञा प्राप्नोति । न एतौ तुल्यस्थानौ । उदात्तादीनां तर्हि सवर्णसञ्ज्ञा न प्राप्नोति । अभेदकाः उदात्तादयः । अथ वा किं नः एतेन प्रारम्भः यत्नस्य प्रयत्नः इति ।प्रयतनं एव प्रयत्नः । ततेव च तद्धितान्तं आस्यं । यत्समानं तताश्रयिष्यामः । किं सति भेदे । सति इति आह । सति एव हि भेदे सवर्णसञ्ज्ञया भवितव्यं । कुतः एतत। भेदाधिष्ठाना हि सवर्णसञ्ज्ञा । यदि हि यत्र सर्वं समानं तत्र स्यात्सवर्णसञ्ज्ञावचनं अनर्थकं स्यात। यदि तर्हि सति भेदे किं चित्समानं इति कृत्व सवर्णसञ्ज्ञा भविष्यति शकारछकारयोः षकारठकारहोः सकारथकारयोः सवर्णसञ्ज्ञा प्राप्नोति । एतेषां हि सर्वं अन्यत्समानं करणवर्जं । एवं तर्हि प्रयतनं एव प्रयत्नः ततेव तद्धितान्तं आस्यं न तु अयं द्वन्द्वः : आस्यं च प्रयत्नः च आस्यप्रयत्नं इति । किं तर्हि । त्रिपदः बहुव्रीहिः : तुल्यः आस्ये प्रयत्नः एषां इति । अथ वा पूर्वः तत्पुरुषः ततः बहुव्रीहिः : तुल्यः आस्ये तुल्यास्यः , तुल्यास्यः प्रयत्नः एषां इति । अथ वा परः तत्पुरुषः ततः बहुव्रीहिः : आस्ये यत्नः आस्ययत्नः , तुल्यः आस्ययत्नः एषां इति ।
पाणिनीयसूत्र १,१।९।३) कि.,६२।१५-२६ रो.,२०२-२०३ तस्य । तस्य इति तु वक्तव्यं । किं प्रयोजनं । यः यस्य तुल्यास्यप्रयत्नः सः तस्य सवर्णसञ्ज्ञः यथा स्यात। अन्यस्य तुल्यास्यप्रयत्नः अन्यस्य सवर्णसञ्ज्ञः मा भूत। (कात्यायन वार्तिक)तस्य अवचनं वचनप्रामाण्यात्(वार्तिकान्त) । तस्य इति न वक्तव्यं । अन्यस्य तुल्यास्यप्रयत्नः अन्यस्य सवर्णसञ्ज्ञः कस्मात्न भवति । वचनप्रामाण्यातः सवर्णसञ्ज्ञावचनसामर्थ्यात। यदि हि अन्यस्य तुल्यास्यप्रयत्नः सः अन्यस्य सवर्णसञ्ज्ञः स्यात्सवर्णसञ्ज्ञावचनं अनर्थकं स्यात। (कात्यायन वार्तिक)सम्बन्धिशब्दैः वा तुल्यम्(वार्तिकान्त) । सम्बन्धिशब्दैः वा पुनः तुल्यं एतत। तत्यथा सम्बन्धिशब्दाः : मातरि वर्तितव्यं , पितरि शुश्रूषितव्यं इति । न च उच्यते स्वस्यां मातरि स्वस्मिन्वा पितरि इति सम्बन्धात्च एतत्गम्यते या यस्य माता यः च यस्य पिता इति । एवं इह अपि तुल्यास्यप्रयत्नं सवर्णं इति अत्र सम्बन्दिशब्दौ एतौ । तत्र सम्बन्धातेतत्गन्तव्यं : यत्प्रति यत्तुल्यास्यप्रयत्नं तत्प्रति तत्सवर्णसञ्ज्ञं भवति इति ।
पाणिनीयसूत्र १,१।९।४) कि.,६२।२७-६३।२३ रो.,२०३-२०७ (कात्यायन वार्तिक)ऋकारल्कारयोः सवर्णविधिः(वार्तिकान्त) । ऋकारल्कारयोः सवर्णसञ्ज्ञा विधेया । होतृ , ल्कारः , होत्®ल्कारः । किं प्रयोजनं । अकः सवर्णे दीर्घः इति दीर्घत्वं यथा स्यात। न एततस्ति प्रयोजनं । वक्ष्यति एतत। सवर्णदीर्घत्वे ऋति , रृवावचनं ल्ति , ल्ल्वावचनं इति । तत्सवर्णे यथा स्यात। इह मा भूतः दधि , ल्कारः , मधु , ल्कारः इति । यतेतत्सवर्णदीर्घत्वे ऋति इति एततृतः इति वक्ष्यामि । ततः ल्ति । ल्ति च वा ल्ल् भवति । ऋतः इति एव । तत्न वक्तव्यं भवति । अवश्यं तत्वक्तव्यं । ऊकालः अच्ह्रस्वर्दीर्घप्लुतसञ्ज्ञः भवति इति उच्यते । न च रृकारः ल्ल्कारः वा अचस्ति । रृकारस्य , ल्ल्कारस्य च अच्त्वं वक्ष्यामि । तत्च अवश्यं वक्तव्यं प्लुतः यथा स्यातः होतृ , ऋकारः होत्®कारः , होतृ३कारः , होतृ , ल्कारः , होत्ल्कारः , होत्ल्३कारः । किं पुनः अत्र ज्यायः । सवर्णसञ्ज्ञावचनं एव ज्यायः । दीर्घत्वं च एव हि सिद्धं भवति। अपि च ऋकारग्रहणे ल्कारग्रहणं सन्निहितं भवति । यथा इह भवति : ऋति अकःः खट्व ऋश्यः , माल ऋश्यः इदं अपि सङ्गृहीतं बहवति : खट्व , ल्कारः, माल , ल्कारः इति । वा सुपि आपिशलेः : उपर्कारीयति , उपार्कारीयति , इदं अपि सिद्धं भवति : उपल्कारीयति, उपाल्कारीयति इति । यदि तर्हि ऋकारग्रहणे ल्कारग्रहणं सन्निहितं भवति उः अण्रपरः , ल्कारस्य अपि रपरत्वं प्राप्नोति । ल्कारस्य लपरत्वं वक्ष्यामि । तत्च अवश्यं वक्तव्यं असत्यां सवर्णसञ्ज्ञायां विध्यर्थं । ततेव सत्यां रेफबाधनार्थं भविष्यति । इह तर्हि रषाभ्यां नः णः समानपदे इति ऋकारग्रहणं चोदितं मात्®णां , पित्®णां इति एवमर्थं । ततिह अपि प्राप्नोति : क्ल्प्यमानं पश्य इति । अथ असत्यां अपि सवर्णसञ्ज्ञायां इह कस्मात्न भवति : प्रक्ल्प्यमानं पश्य इति । चुटुतुलशर्व्यवाये न इति वक्ष्यामि । अपरः आह : त्रिभिः च मध्यमैः वर्गैः लशसैः च व्यवाये न इति वक्ष्यामि इति । वर्णैकदेशाः च वर्णग्रहणेन गृह्यन्ते इति यः असौ ल्कारे लकारः तदाश्रयः प्रतिषेधः भविष्यति । यदि एवं न अर्थः रषाभ्यां णत्वे ऋकारग्रहणेन । वर्णैकदेशाः च वर्णग्रहणेन गृह्यन्ते इति यः असौ ऋकारे रेफः तदाश्रयं णत्वं भविष्यति ।
पाणिनीयसूत्र १,१।१०) कि.,६३।२५-६५।६ रो.,२०७-२११ (कात्यायन वार्तिक)अज्झलोः प्रतिषेधे शकारप्रतिषेधः अज्झल्त्वात्(वार्तिकान्त) । अज्झलोः प्रतिषेधे शकारस्य शकारेण सवर्णसञ्ज्ञायाः प्रतिषेधः प्राप्नोति । किं कारणं । अज्झल्त्वात। अच्च एव हि शकारः हल्च । कथं तावतच्त्वं । इकारः सवर्णग्रहणेन शकारं अपि गृह्णाति इति अच्त्वं । हल्षु उपदेशात्हल्त्वं । तत्र कः दोषः । (कात्यायन वार्तिक)तत्र सवर्णलोपे दोषः(वार्तिकान्त) । तत्र सवर्णलोपे दोषः भवति । परश्शतानि कार्याणि । झरः झरि सवर्णे इति लोपः न प्राप्नोति । (कात्यायन वार्तिक)सिद्धं अनच्त्वात्(वार्तिकान्त) । सिद्धं एतत। कथं । अनच्त्वात। कथं अनच्त्वं । स्पृष्टं स्पर्शानां करणं । ईषत्स्पृष्टं अन्तःस्थानां । विवृतं ऊष्मणां । ईषतिति अनुवर्तते । स्वराणां विवृतं । ईषतिति निवृत्तं । (कात्यायन वार्तिक)वाक्यापरिसमाप्तेः वा(वार्तिकान्त) । वाक्यापरिसमाप्तेः वा सिद्धं एतत। किं इदं वाक्यापरिसमाप्तेः इति । वर्णानां उपदेशः तावत। उपदेशोत्तरकाला इत्सञ्ज्ञा । इत्सञ्ज्ञोत्तरकालः आदिः अन्त्येन सह इता इति प्रत्याहारः । प्रत्याहारोत्तरकाला सवर्णसञ्ज्ञा । सवर्णसञ्ज्ञोत्तरकालं अणुदित्सवर्णस्य च अप्रत्ययः इति सवर्णग्रहणं । एतेन सर्वेण समुदितेन वाक्येन अन्यत्र सवर्णानां ग्रहणं भवति । च च अत्र इकारः शकारं गृह्णाति । यथा एव तर्हि इकारः शकारं न गृह्णाति एवं ईकारं अपि न गृह्णीयात। तत्र कः दोषः । कुमारी , ईहते कुमारीहते । अकः सवर्णदीर्घत्वं न प्राप्नोति । न एषः दोषः । यतेततकः सवर्णे दीर्घः इति प्रत्याहारग्रहणं तत इकारः ईकारं गृह्णाति । शकारं न गृह्णाति । अपरः आह : (कात्यायन वार्तिक)अज्झलोः प्रतिषेधे शकारप्रतिषेधः अझल्त्वात्(वार्तिकान्त) । अज्झलोः प्रतिषेधे शकारस्य शकारेण सवर्णसञ्ज्ञायाः प्रतिषेधः प्राप्नोति । किं कारणं । अज्झल्त्वात। अच्च एव शकारः हल्च । कथं तावतच्त्वं । इकारः सवर्णग्रहणेन शकारं अपि गृह्णाति इति अच्त्वं । हल्षु उपदेशात्हल्त्वं । तत्र कः दोषः । (कात्यायन वार्तिक)तत्र सवर्णलोपे दोषः(वार्तिकान्त) । तत्र सवर्णलोपे दोषः भवति । परश्शतानि कार्याणि । झरः झरि सवर्णे इति लोपः न प्राप्नोति । (कात्यायन वार्तिक)सिद्धं अनच्त्वात्(वार्तिकान्त) । सिद्धं एतत। कथं । अनच्त्वात। कथं अनच्त्वं । (कात्यायन वार्तिक)वाक्यापरिसमाप्तेः वा(वार्तिकान्त) । उक्ता वाक्यापरिसमाप्तिः । अस्मिन्पक्षे वा इति एततसमर्थितं भवति । एतत्च समर्थितं । कथं । अस्तु वा शकारस्य शकारेण सवर्णसञ्ज्ञा मा वा भूत। ननु च उक्तं : परश्शतानि कार्याणि । झरः झरि सवर्णे इति लोपः न प्राप्नोति इति । मा भूत्लोपः । ननु च भेदः भवति । सति लोपे द्विशकारं असति लोपे त्रिशकारं । न अस्ति भेदः । असति अपि लोपे द्विशकारं एव । कथं । विभाषा द्विर्वचनं । एवं अपि भेदः । असति लोपे कदा चित्द्विशकारं कदा चित्त्रिशकारं सति लोपे द्विशकारं एव । सः एषः कथं भेदः न स्यात। यदि नित्यः लोपः स्यात। विभाषा तु सः लोपः । यथा अभेदः तथा अस्तु ।
पाणिनीयसूत्र १,१।११।१) कि.,६६।२-६७।२ रो.,२१३-२१७ किमर्थं ईदादीनां तपराणां प्रगृह्यसञ्ज्ञा उच्यते । तपरः तत्कालस्य इति तत्कालानां सवर्णानां ग्रहणं यथा स्यात। केषां । उदात्तानुदात्तस्वरितानां । अस्ति प्रयोजनं एतत। किं तर्हि इति । प्लुतानां तु प्रगृह्यसञ्ज्ञा न प्राप्नोति । किं कारणं । अतत्कालत्वात। न हि प्लुताः तत्कालाः । असिद्धः प्लुतः । तस्यासिद्धत्वात्तत्कालाः एव भवन्ति । सिद्धः प्लुतः स्वरसन्धिषु । कथं ज्ञायते सिद्धः प्लुतः स्वरसन्धिषु इति । यतयं प्लुतप्रगृह्याः अचि इति प्लुतस्य प्रकृतिभावं शास्ति । कथं कृत्वा ज्ञापकं । सतः हि कार्यिणः कार्येण भवितव्यं । किं एतस्य ज्ञापने प्रयोजनं । अप्लुतातप्लुते इति एतत्न वक्तव्यं भवति । किं अतः यत्सिद्धः प्लुतः स्वरसन्धिषु । सञ्ज्ञाविधौ असिद्धः । तस्य असिद्धत्वात्तत्कालाः एव भवन्ति । सञ्ज्ञाविधौ च सिद्धः । कथं । कार्यकालं सञ्ज्ञापरिभाषं । यत्र कार्यं तत्र उपस्थितं द्रष्टव्यं । प्रगृह्यः प्रकृत्या इति उपस्थितं इदं भवति ईदूदेत्द्विवचनं प्रगृह्यं इति । किं पुनः प्लुतस्य प्रगृह्यसञ्ज्ञावचने प्रयोजनं । प्रगृह्याश्रयः प्रकृतिभावः यथा स्यात। मा भूतेवं । प्लुतः प्रकृत्या इति एवं भविष्यति । न एवं शक्यं । उपस्थिते हि दोषः स्यात। अप्लुतवतुपस्थिथे इति अत्र पठिष्यति हि आचार्यः : वद्वचनं प्लुतकार्यप्रतिषेधार्थं , प्लुतप्रतिषेधे हि प्रगृह्य्प्लुतप्रतिषेधप्रसङ्गः अन्येन विहितत्वातिति । तस्मात्प्लुतस्य प्रगृह्यसञ्ज्ञा एषितव्या प्रगृह्याश्रयः प्रकृतिभावः यथा स्यात। यदि पुनः दीर्घाणां अतपराणां प्रगृह्यसञ्ज्ञा उच्येत । एवं अपि एकारः एव एकः सवर्णान्गृह्णीयात। ईकारोकारौ न गृह्णीयातां । किं कारणं । अनण्त्वात। यदि पुनः ह्रस्वानां अतपराणां प्रगृह्यसञ्ज्ञा उच्येत । न एवं शक्यं । इह अपि प्रसज्येत : अकुर्वहि , अत्र अकुर्वहि अत्र इति । तस्मात्दीर्घाणां एव तपराणां प्रगृह्यसञ्ज्ञा वक्तव्या । दीर्घाणां च उच्यमाना प्लुतानां न प्राप्नोति । एवं तर्हि किं नः एतेन यत्नेन यत्सिद्धः प्लुतः स्वरसन्धिषु इति । असिद्धः प्लुतः । तस्य असिद्धत्वात्तत्कालाः एव भवन्ति इति । कथं यत्तत्ज्ञापकं उक्तं प्लुतप्रगृह्याः अचि इति। प्लुतभावी प्रकृत्या इति एवं एतत्विज्ञायते । कथं यत्तत्प्रयोजनं उक्तं । क्रियते तत्न्यासे एव अप्लुतातप्लुते इति । एवं अपि यत्सिद्धे प्रगृह्यकार्यं तत्प्लुतस्य न प्राप्नोति । अणः अप्रगृह्यस्य अनुनासिकः इति । एवं तर्हि किं नः एतेन कार्यकालं सञ्ज्ञापरिभाषं इति । यथोद्देशं एव सञ्ज्ञापरिभाषं । तत्र च असौ असिद्धः । तस्यासिद्धत्वात्तत्कालाः एव भवन्ति ।
पाणिनीयसूत्र १,१।११।२) कि.,६७।३-६८।७ रो.,२१७-२२० कथं पुनः इदं विज्ञायते : ईदादयः यत्द्विवचनं इति आहोस्वितीदाद्यन्तं यत्द्विवचनं इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)ईदादयः द्विवचनं प्रगृह्याः इति चेतन्त्यस्य विधिः(वार्तिकान्त) । ईदादयः द्विवचनं प्रगृह्याः इति चेतन्त्यस्य प्रगृह्यसञ्ज्ञा विधेया । पचेते* इति , पचेथे* इति । वचनात्भविष्यति । अस्ति वचने प्रयोजनं । किं । खट्वे* इति , माले* इति । अस्तु तर्हि ईदाद्यन्तं यत्द्विवचनं इति । (कात्यायन वार्तिक)ईदाद्यन्तं इति चेतेकस्य विधिः(वार्तिकान्त) । ईदाद्यन्तं इति चेतेकस्य प्रगृह्यसञ्ज्ञा विधेया । खट्वे* इति , माले* इति । (कात्यायन वार्तिक)न वा आद्यन्तत्वात्(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । आद्यन्तत्वात। आद्यन्तवतेकस्मिनिति एकस्य अपि भविष्यति । अथ वा एवं वक्ष्यामि : ईदाद्यन्तं यत्द्विवचनान्तं इति । (कात्यायन वार्तिक)ईदाद्यन्तं द्विवचनान्तं इति चेत्लुकि प्रतिषेधः(वार्तिकान्त) । ईदाद्यन्तं द्विवचनान्तं इति चेत्लुकि प्रतिषेधः वक्तव्यः । कुमार्योः अगारं , कुमार्यगारं वध्वोः अगारं , वध्वगारं । एतत्हि ईदाद्यन्तं च श्रूयते द्विवचनान्तं च भवति प्रत्ययलक्षणेन । (कात्यायन वार्तिक)सप्तम्यां अर्थग्रहणं ज्ञापकं प्रत्ययलक्षणप्रतिषेधस्य(वार्तिकान्त) । यतयं ईदूतौ च सप्तम्यर्थे इति अर्थग्रहणं करोति तत्ज्ञापयति आचार्यः न प्रगृह्यसञ्ज्ञायां प्रत्ययलक्षणं भवति इति । तत्तर्हि ज्ञाप्कार्थं अर्थग्रहणं कर्तव्यं । न कर्तव्यं । ईदादिभिः द्विवचनं विशेषयिष्यामः ईदादिविशिष्टेन च द्विवचनेन तदन्तविधिः भविष्यति । ईदाद्यन्तं यत्द्विवचनं तदन्तं ईदाद्यन्तं इति । एवं अपि अशुक्ले वस्त्रे शुक्ले सम्पद्येतां , शुक्ली आस्तां वस्त्रे* इति अत्र प्राप्नोति । अत्र हि ईदादि द्विवचनं तदन्तं च भवति प्रत्ययलक्षणेन । अत्र अपि अकृते शीभावे लुक्भविष्यति । इदं इह सम्प्रधार्यं । लुक्क्रियतां शीभावः इति किं अत्र कर्तव्यं । परत्वात्शीभावः । नित्यः लुक। कृते अपि शीभावे प्राप्नोति अकृते अपि प्राप्नोति । अनित्यः लुक। अन्यस्य कृते शीभावे प्राप्नोति अन्यस्य अकृते । शब्दान्तरस्य च प्राप्नुवन्विधिः अनित्यः भवति ।शीभावः अपि अनित्यः । न हि कृते लुकि प्राप्नोति । उभयोः अनित्ययोः परत्वात्शीभावः शीभावे कृते लुक। अथ अपि कथं चित्नित्यः लुक्स्यातेवं अपि दोषः । वक्ष्यति एतत। पदसञ्ज्ञायां अन्तवचनं अन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थं इति। इदं च अपि प्रत्ययग्रहणं अयं च अपि सञ्ज्ञाविधिः । अवश्यं खलु एतस्मिनपि पक्षे आद्यन्तवद्भावः एषितव्यः । तस्मातस्तु सः एव मध्यमः पक्षः ।
पाणिनीयसूत्र १,१।१२) कि.,६८। ९-७०।३ रो.,२२०-२२६ (कात्यायन वार्तिक)मात्प्रगृह्यसञ्ज्ञायां तस्य असिद्धत्वातयावेकादेशप्रतिषेधः(वार्तिकान्त) । मात्प्रगृह्यसञ्ज्ञायां तस्य ईत्त्वस्य ऊत्त्वस्य च असिद्धत्वातयावेकादेशाः प्राप्नुवन्ति । तेषां प्रतिषेधः वक्तव्यः । अमी* अत्र , अमी* आसते , अमू* अत्र , अमू* आसाते । ननु च प्रगृह्यसञ्ज्ञावचनसामर्थ्यातयादयः न भविष्यन्ति । (कात्यायन वार्तिक)वचनार्थः हि सिद्धे(वार्तिकान्त) । न इदं वचनात्लभ्यं । अस्ति हि अन्यतेतस्य वचने प्रयोजनं । किं । यत्सिद्धे प्रगृह्यसञ्ज्ञाकार्यं तदर्थं एतत्स्यात। अणः अप्रगृह्यस्य अनुनासिकः इति । न एकं प्रयोजनं योगारम्भं प्रयोजयति । यदि एतावत्प्रयोजनं स्यात्तत्र एव अयं ब्रूयातणः अप्रगृह्यस्य अनुनासिकः अदसः न इति । (कात्यायन वार्तिक)विप्रतिषेधात्वा(वार्तिकान्त) । अथ वा प्रगृह्यसञ्ज्ञा क्रियतां अयादयः वा । प्रगृह्यसञ्ज्ञा भविष्यति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । विप्रतिषेधे परं इति उच्यते । पूर्वा च प्रगृह्यसञ्ज्ञा परे अयादयः । परा प्रगृह्यसञ्ज्ञा करिष्यते । सूत्रविपर्यासः कृतः भवति । एवं तर्हि परा एव प्रगृह्यसञ्ज्ञा । कथं । कार्यकालं हि सञ्ज्ञापरिभाषं । यत्र कार्यं तत्र उपस्थितं द्रष्टव्यं । प्रगृह्यः प्रकृत्या इति एततुपस्थितं भवति अदसः मातिति । एवं अपि अयुक्तः विप्रतिषेधः । कथं । द्विकार्ययोगः हि विप्रतिषेधः । न च अत्र एकः द्विकार्ययुक्तः । एचां अयादयः । ईदूतोः प्रगृह्यस्ञ्ज्ञा । न अवश्यं द्विकार्ययोगः एव विप्रतिषेधः । किं तर्हि । असम्भवः अपि । सः च अस्ति अत्र असम्भवः । कः असौ असम्भवः । प्रगृह्यसञ्ज्ञा अभिनिर्वर्तमाना अयादीन्बाधते , अयादयः अभिनिर्वर्तमनाः प्रगृह्यसञ्ज्ञानिमित्तं विघ्नन्ति इति एषः असम्भवः । सति असम्भवे युक्तः विप्रतिषेधः । एवं अपि अयुक्तः विप्रतिषेधः । सतोः हि विप्रतिषेधः भवति । न च अत्र ईत्त्वोत्त्वे स्तः न अपि मकारः । उभयं असिद्धं । (कात्यायन वार्तिक)आश्रयात्सिद्धत्वं च यथा रोः उत्त्वे (वार्तिकान्त)। आश्रयात्सिद्धत्वं भविष्यति । तत्यथा रुः उत्त्वे आश्रयात्सिद्धः भवति । किं पुनः कारणं रुः उत्त्वे आश्रयात्सिद्धः भवति न पुनः यत्र एव रुः सिद्धः तत्र एव उत्त्वं अपि उच्यते । न एवं शक्यं । (कात्यायन वार्तिक)असिद्धे हि उत्त्वे आद्गुणाप्रसिद्धिः(वार्तिकान्त) । असिद्धे हि उत्त्वे आद्गुणाप्रसिद्धिः स्यात। वृक्षः अत्र , प्लक्षः अत्र । तस्मात्तत्र आश्रयात्सिद्धत्वं एषितव्यं । तत्र यथा आश्रयात्सिद्धं भवति एवं इह अपि भविष्यति । अथ वा प्रगृह्यसञ्ज्ञावचनसामर्थ्यातयादयः आदेशाः न भविष्यन्ति । अथ वा योगविभागः करिष्यते । अदसः । अदसः ईदादयः प्रगृह्यसञ्ज्ञाः भवन्ति । ततः मात। मात्च परे ईदादयः प्रगृह्यसञ्ज्ञाः भवन्ति । अदसः इति एव । किमर्थः योगविभागः । एकः यत्तत्सिद्धे प्रगृह्यकार्यं तदर्थः । अपरः यतसिद्धे । इह अपि तर्हि प्राप्नोति : अमुया , अमुयोः इति । किं च स्यात्यदि प्रगृह्यसञ्ज्ञा स्यात। प्रगृह्याश्रयः प्रकृतिभावः प्रसज्येत । न एषः दोषः । पदान्तप्रकरणे प्रकृतिभावः । न च एषः पदान्तः । एवं अपि अमुके अत्र अत्र अपि प्राप्नोति । द्विवचनं इति वर्तते । यदि द्विवचनं इति वर्तते अमी* अत्र इति न प्राप्नोति । एवं तर्हि एदन्तं इति निवृत्तं । अथ वा आह अयं अदसः मातिति । न च ईत्त्वोत्त्वे स्तः न अपि मकारः । ते एवं विज्ञास्यामः मार्थातीदाद्यर्थानां इति । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । अदसः ईत्त्वोत्त्वे स्वरे बहिष्पदलक्षणे प्रगृह्यसञ्जायां च सिद्धे वक्तव्ये इति । (कात्यायन वार्तिक)तत्र सकि दोषः(वार्तिकान्त) । तत्र सककारे दोषः भवति । अमुके अत्र । (कात्यायन वार्तिक)न वा ग्रहणविशेषणत्वात्(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । ग्रहणविशेषणत्वात। न माद्ग्रहणेन ईदाद्यन्तं विशेष्यते । किं तर्हि । ईदादयः विशेष्यन्ते । मात्परे ये ईदादयः इति ।
पाणिनीयसूत्र १,१।१३) कि.,७०।५-१० रो.,२२६-२२७ इह कस्मात्न भवति : काशे कुशे वंशे इति । (कात्यायन वार्तिक)शे अर्थवद्ग्रहणात्(वार्तिकान्त) । अर्थवतः शेशब्दस्य ग्रहणं । न च अयं अर्थवान। एवं अपि हरिशे बभ्रुशे इति अत्र प्राप्नोति । एवं तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवं न भविष्यति । अथ वा पुनः अस्तु अर्थवद्ग्रहणे न अनर्थकस्य इति । कथं हरिशे बभ्रुशे इति । एकः अत्र विभक्त्यर्थेन अर्थवानपरः तद्धितार्थेन । समुदायः अनर्थकः ।
पाणिनीयसूत्र १,१।१४) कि.,७०।१२-७१।७ रो.,२२७-२३० निपातः इति किमर्थं । चकार अत्र , जहार अत्र । एकाचिति किमर्थं । प्र इदं ब्रह्म , प्र इदं क्षत्रं । एकाचिति अपि उच्यमाने अत्र अपि प्राप्नोति । एषः अपि हि एकाच। एकाचिति न अयं बहुव्रीहिः : एकः अचस्मिन्सः अयं एकाचिति । किं तर्हि । तत्पुरुषः अयं समानाधिकरणः : एकः अचेकाच। यदि तत्पुरुषः समानाधिकरणः न अर्थः एकग्रहणेन । इह कस्मात्न भवति : प्र इदं ब्रह्म , प्र इदं क्षत्रं । अचेव यः निपातः इति एवं विज्ञास्यते । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । अज्ग्रहणसामर्थ्यात। यदि हि यत्च अच्च अन्यत्च तत्र स्यातज्ग्रहणं अनर्थकं स्यात। अस्ति अन्यतज्ग्रहणस्य प्रयोजनं । किम। अजन्तस्य यथा स्यात। हलन्तस्य मा भूत। न एव दोषः न प्रयोजनं । एवं अपि कुतः एतत्द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः आद्यन्तवतेकस्मिनिति च येन विधिः तदन्तस्य इति च इयं इह परिभाषा भविष्यति आद्यन्तवतेकस्मिनिति इयं न भविष्यति येन विधिः तदन्तस्य इति । आचार्यप्रवृत्तिः ज्ञापयति इयं इह परिभाषा भवति आद्यन्तवतेकस्मिनिति इयं न भवति येन विधिः तदन्तस्य इति यतयं अनाङिति प्रतिषेधं शास्ति । एवं तर्हि सिद्धे सति यतज्ग्रहणे क्रियमाणे एकग्रहणं करोति तत्ज्ञापयति आचार्यः अन्यत्र वर्णग्रहणे जातिग्रहणं भवति इति । किं एतस्य ज्ञापने प्रयोजनं । दम्भेः हल्ग्रहणस्य जातिवाचकत्वात्सिद्धं इति यतुक्तं ततुपपन्नं भवति । अनाङिति किमर्थं । आ , उदकान्तातोदकान्तात। इह कस्मात्न भवतिः आ* एवं नु मन्यसे , आ* एवं किल ततिति । सानुबन्धकस्य ग्रहणं अननुबन्धकः च अत्र आकारः । क्व पुनः अयं सानुबन्धकः क्व निरनुबन्धकः । ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः एतं आतं ङितं विद्यात्वाक्यस्मरणयोः अङित।
पाणिनीयसूत्र १,१।१५।१) कि.,७१।९-१३ रो.,२३०-२३१ किं उदाहरणं । आहो* इति , उताहो* इति । न एततस्ति प्रयोजनं । निपातसमाहारः अयं : आह , उ : आहो* इति, उत , आह , उ : उताहो* इति । तत्र निपातः एकाचनाङिति एव सिद्धं । एवं तर्हि एकनिपाताः इमे । अथ वा प्रतिषिद्धार्थः अयं आरम्भः : ओ षु यातं मरुतः , ओषु यातं बृहती शक्वरी च , ओ चित्सखायं सख्य ववृत्यां ।
पाणिनीयसूत्र १,१।१५।२) कि.,७१।१४-२१ रो.,२३१-२३३ (कात्यायन वार्तिक)ओतः च्विप्रतिषेधः(वार्तिकान्त) । ओदन्तः निपातः इति अत्र च्व्यन्तस्य प्रतिषेधः वक्तव्यः । अनदः , अदः , अभवतः अदोभवत्, तिरोभवत। न वक्तव्यं । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवं न भविष्यति । एवं अपि अगौः गौः सम्पद्यते गोभवतः अत्र प्राप्नोति । एवं तर्हि गौणमुख्ययोः मुख्ये कार्यसम्प्रययः इति । तत्यथा : गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति न बाहीकः अनुबध्यते । कथं तर्हि बाहीके वृद्ध्यात्त्वे भवतः : गौः तिष्थति । गां आनय इति । अर्थाश्रये एततेवं भवति । यत्हि शब्दाश्रयं शब्दमात्रे तत्भवति । शब्दाश्रये च वृद्ध्यात्त्वे ।
पाणिनीयसूत्र १,१।१७-१८।१) कि.,७१।२३-७२।६ रो.,२३३-२३४ इह कस्मात्न भवति : आहो* इति , उताहो* इति । उञः इति उच्यते । न च अत्र उञं पश्यामः । उञः अयं अन्येन सह एकादेशः उञ्ग्रहणेन गृह्यते । आचार्यप्रवृत्तिः ज्ञापयति न उञेकादेशः उञ्ग्रहणेन गृह्यते इति यतयं ओतिति ओदन्तस्य निपातस्य प्रगृह्यसञ्ज्ञां शास्ति । न एततस्ति ज्ञापकं । उक्तं एतत्प्रतिषिद्धार्थः अयं आरम्भः । दोषः खलु अपि स्यात्यदि उञेकादेशः उञ्ग्रहणेन न गृह्येत : जानु , उ । अस्य रुजति जानू* अस्य रुजति जान्वस्य रुजति । मयः उञः वः वा इति वत्वं न स्यात। एवं तर्हि एकनिपाताः इमे । अथ वा द्वौ उकारौ इमौ एकः अननुबन्धकः अपरः सानुबन्धकः । तत्यः अननुबन्धकः तस्य एषः एकादेशः ।
पाणिनीयसूत्र १,१।१७-१८।२) कि.,७२।७-१३ रो.,२३४-२३५ (कात्यायन वार्तिक)उञः इति योगविभागः(वार्तिकान्त) । उञः इति योगविभागः कर्तव्यः । उञः शाकल्यस्य आचार्यस्य मतेन प्रगृह्यसञ्ज्ञा भवति । उ* इति विति । ततः उÁ । उञः ऊÁ इति अयं आदेशः भवति शाकल्यस्य आचार्यस्य मतेन दीर्घः अनुनासिकः प्रगृह्यसञ्ज्ञकः च उÁ इति । किमर्थः योगविभागः । (कात्यायन वार्तिक)उÁ वा शाकल्यस्य(वार्तिकान्त) । शाकल्यस्य आचार्यस्य मतेन उÁ विभाषा यथा स्यातः ऊÁ इति , उ* इति । अन्येषां आचार्याणां मतेन विति ।
पाणिनीयसूत्र १,१।१९) कि.,७२।१५-७३।१८ रो.,२३५-२३८ (कात्यायन वार्तिक)ईदूतौ सप्तमी इति एव (वार्तिकान्त)। ईदूतौ सप्तमी इति एव सिद्धं । न अर्थः अर्थग्रहणेन । (कात्यायन वार्तिक)लुप्ते अर्थग्रहणात्भवेत्(वार्तिकान्त) । लुप्तायं सप्तम्यां प्रगृह्यसञ्ज्ञा न प्राप्नोति । क्व । सोमो गौरी अधि श्रितः । इष्यते च अत्र अपि स्यातिति । तत्च अन्तरेण यत्नं न सिध्यति इति एवमर्थं अर्थग्रहणं । न अत्र सप्तमी लुप्यते । किं तर्हि । पूर्वसवर्णः अत्र भवति ।(कात्यायन वार्तिक) पूर्वस्य चेत्सवर्णः असौ आडाम्भावः प्रसज्यते(वार्तिकान्त) । यदि पूर्वसवर्णः आटाम्भावः च प्राप्नोति । एवं तर्हि आह अयं ईदूतौ सप्तमी इति न स अस्ति सप्तमी ईदूतौ । तत्र वचनात्भविष्यति । (कात्यायन वार्तिक)वचनात्यत्र दीर्घत्वम्(वार्तिकान्त) । न इदं वचनात्लभ्यम। अस्ति हि अन्यतेतस्य वचने प्रयोजनं । किं । यत्र सप्तम्याः दीर्घत्वं उच्यते : दृतिं न शुष्कं सरसी शयानं इति । सति प्रयोजने इह न प्राप्नोति सोमो गौरी अधि श्रितः इति । (कात्यायन वार्तिक)तत्र अपि सरसी यदि(वार्तिकान्त) । तत्र अपि सिद्धं । कथं । यदि सरसीशब्दस्य प्रवृत्तिः अस्ति । अस्ति च लोके सरसीशब्दस्य प्रवृत्तिः । कथं । दक्षिणापथे हि महान्ति सरांसि सरस्यः इति उच्यन्ते । (कात्यायन वार्तिक)ज्ञापकं स्यात्तदन्तत्वे(वार्तिकान्त) । एवं तर्हि ज्ञापयति आचार्यः न प्रगृह्यसञ्ज्ञायां प्रत्ययलक्षणं भवति इति । किं एतस्य ज्ञापने प्रयोजनं । कुमार्योः अगारं कुमार्यगारं , वध्वोः अगारं वध्वगारं । प्रत्ययलक्षणेन प्रगृह्यसञ्ज्ञा न भवति । (कात्यायन वार्तिक)मा वा पूर्वपदस्य भूत्(वार्तिकान्त)। अथ वा पूर्वपदस्य मा भूतिति एवमर्थं अर्थग्रहणं : वाप्यां अश्वः वाप्यश्वः , नद्यां आतिः नद्यातिः । अथ क्रियमाणे अपि अर्थग्रहणे कस्मातेव अत्र न भवति । जहत्स्वार्था वृत्तिः इति । अथ अजहत्स्वार्थायां वृत्तौ दोषः एव । अजहत्स्वार्थायां च न दोषः । समुदायार्थः अभिधीयते । (कात्यायन वार्तिक)ईदुतौ सप्तमी इति एव लुप्ते अर्थग्रहणात्भवेत्पूर्वस्य चेत्सवर्णः असौ आडाम्भावः प्रसज्यते वचनात्यत्र दीर्घत्वं तत्र अपि सरसी यदि ज्ञापकं स्यात्तदन्तत्वे मा वा पूर्वपदस्य भूत्(वार्तिकान्त) ।
पाणिनीयसूत्र १,१।२०।१) कि.,७३।२०-७४।२२ रो.,२३९-२४१ (कात्यायन वार्तिक)घुसञ्ज्ञायां प्रकृतिग्रहणं शिदर्थम्(वार्तिकान्त)। घुसञ्ज्ञायां प्रकृतिग्रहणं कर्तव्यं । दाधाप्रकृतयः घुसञ्ज्ञा भवन्ति इति वक्तव्यं । किं प्रयोजनं । आत्त्वभूतानां इयं सञ्ज्ञा क्रियते । सा आत्त्वभूतानां एव स्यातनात्त्वभूतानां न स्यात। ननु च भूयिष्थानि घुसञ्ज्ञाकार्याणि आर्धधातुके तत्र च एते आत्त्वभूताः दृश्यन्ते । शिदर्थं । शिदर्थं प्रकृतिग्रहणं कर्तव्यं । शिति आत्त्वं प्रतिषिध्यते तदर्थं : प्रणिदयते प्रणिधयति इति । भारद्वाजीयाः पठन्ति घुसञ्ज्ञायां प्रकृतिग्रहणं शिद्विकृतार्थं । घुसञ्ज्ञायां प्रकृतिग्रहणं क्रियते । किं प्रयोजनं । शिदर्थं विकृतार्थं च । शिति उदाहृतं । विकृतार्थं खलु अपि : प्रणिदाता प्रणिधाता । किं पुनः कारणं न सिध्यति । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति प्रतिपदं ये आत्त्वभूताः तेषां एव स्यात। लक्षणेन ये आत्त्वभूताः तेषां न स्यात। अथ क्रियमाणे अपि प्रकृतिग्रहणे कथं इदं विज्ञायते । दाधाः प्रकृतयः आहोस्वित्दाधां प्रकृतयः इति । किं च अतः । यदि विज्ञायते दाधाः प्रकृतयः इति सः एव दोषः । आत्त्वभूतानां एव स्यातनात्त्वभूतानां न स्यात। अथ विज्ञायते दाधां प्रकृतयः इति अनात्त्वभूतानां एव स्यातात्त्वभूतानां न स्यात। एवं तर्हि न एवं विज्ञायते दाधाः प्रकृतयः इति न अपि दाधां प्रकृतयः इति । कथं तर्हि । दाधाः घुसञ्ज्ञाः भवन्ति प्रकृतयः च एषां इति । तत्तर्हि प्रकृतिग्रहणं कर्तव्यं । न कर्तव्यं । इदं प्रकृतं अर्थग्रहणं अनुवर्तते । क्व प्रकृतं । ईदूतौ च सप्तम्यर्थे इति । ततः वक्ष्यामि दाधाः घु अदाप। अर्थे इति । न एवं शक्यं । ददातिना समानार्थान्रातिरासतिदाशतिमंहतिप्रीणातिप्रभृतीनाहुः । एतेषां अपि घुसञ्ज्ञा प्राप्नोति । तस्मात्न एवं शक्यं । न चेतेवं प्रकृतिग्रहणं कर्तव्यं । शिदर्थेन तावत्न अर्थः प्रकृतिग्रहणेन । अवश्यं तत्र मार्थं प्रकृतिग्रहणं कर्तव्यं प्रणिमयते प्रण्यमयत इति एवमर्थं । तत्पुरस्तातपक्रक्ष्यते : घुप्रकृतौ माप्रकृतौ च इति । यदि प्रकृतिग्रहणं क्रियते प्रनिमिनोति प्रनिमीनाति अत्र अपि प्राप्नोति । अथ अक्रियमाणे अपि प्रकृतिग्रहणे इह कस्मात्न भवति : प्रनिमाता प्रनिमातुं इति । आकारान्तस्य ङितः ग्रहणं विज्ञास्यते । यथा एव तर्हि अक्रियमाणे प्रकृतिग्रहणे आकारान्तस्य ङितः ग्रहणं विज्ञायते एवं क्रियमाणे अपि प्रकृतिग्रहणे आकारान्तस्य ङितः ग्रहणं विज्ञास्यते । विकृतार्थेन च अपि न अर्थः । दोषः एव एतस्याः परिभाषायाः लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति गामादाग्रहणेषु अविशेषः इति ।
पाणिनीयसूत्र १,१।२०।२) कि.,७४।२३-७५।१४ रो.,२४२-२४४ (कात्यायन वार्तिक)समानशब्दप्रतिषेधः(वार्तिकान्त) । समानशब्दानां प्रतिषेधः वक्तव्यः : प्रनिदारयति प्रनिधारयति । दाधाः घुसञ्ज्ञाः भवन्ति इति घुसञ्ज्ञा प्राप्नोति । (कात्यायन वार्तिक)समानशब्दाप्रतिषेधः अर्थवद्ग्रहणात्(वार्तिकान्त) । समानशब्दानां अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । घुसञ्ज्ञा कस्मात्न भवति । अर्थवद्ग्रहणात। अर्थवतोः दाधोः ग्रहणं । न च एतौ अर्थवन्तौ । (कात्यायन वार्तिक)अनुपसर्गात्वा(वार्तिकान्त) । अथ वा यत्क्रियायुक्तास्प्रादयः तं प्रति गत्युपसर्गसञ्ज्ञे भवतः । न च एतौ दाधौ प्रति क्रियायोगः । यदि एवं इह अपि तर्हि न प्राप्नोति प्रणिदापयति प्रणिधापयति । अत्र अपि न एतौ दाधौ अर्थवन्तौ न अपि एतौ दाधौ प्रति क्रियायोगः । (कात्यायन वार्तिक)न वा अर्थवतः हि आगमः तद्गुणीभूतः तद्ग्रहणेन गृह्यते यथा अन्यत्र(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । अर्थवतः आगमः तद्गुणीभूतः अर्थवद्ग्रहणेन गृह्यते यथा अन्यत्र । तत्यथा । अन्यत्र अपि अर्थवतः आगमः अर्थवद्ग्रहणेन गृह्यते । क्व अन्यत्र । लविता चिकीर्षिता इति । युक्तं पुनः यत्नित्येषु नाम शब्देषु आगमशासनं स्यात्न नित्येषु शब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यं अनपायोपजनविकारिभिः । आगमः च नाम अपूर्वः शब्दोपजनः । अथ युक्तं यत्नित्येषु शब्देषु आदेशाः स्युः । बाढं युक्तं । शब्दान्तरैः इह भवितव्यं । तत्र शब्दान्तरात्शब्दान्तरस्य प्रतिपत्तिः युक्ता । आदेशाः तर्हि इमे भविष्यन्ति अनागमकानां सागमकाः । तत्कथं । सर्वे सर्वपदादेशाः दाक्षीपुत्रस्य पाणिनेः एकदेशविकारे हि नित्यत्वं न उपपद्यते ।
पाणिनीयसूत्र १,१।२०।३) कि.,७५।१५-२३ रो.,२४५-२४६ (कात्यायन वार्तिक)दीङः प्रतिषेधः स्थाघ्वोः इत्त्वे(वार्तिकान्त) । दीङः प्रतिषेधः स्थाघ्वोः इत्त्वे वक्तव्यः । उपादास्त अस्य स्वरः शिक्षकस्य इति । मीनातिमिनोति इति आत्त्वे कृते स्थाघ्वोः इत्च इति इत्त्वं प्राप्नोति । कुतः पुनः अयं दोषः जायते । किं प्रकृतिग्रहणाताहोस्वित्रूपग्रहणात। रूपग्रहणातिति आह । इह खलु प्रकृतिग्रहणात्दोषः जायते : उपदिदीषते । सनि मीमाघुरभलभ इति । न एषः दोषः । दाप्रकृतिः इति उच्यते । न च इयं दाप्रकृतिः । आकारान्तानां एजन्ताः प्रकृतयः एजन्तानां अपि ईकारान्ताः । न च प्रकृतिप्रकृतिः प्रकृतिग्रहणेन गृह्यते । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । घुसञ्ज्ञा कस्मात्न भवति । सन्निपातलक्षणः विधिः अनिमित्तं तद्विघातस्य इति एवं न भविष्यति ।
पाणिनीयसूत्र १,१।२०।४) कि.,७५।२४-७६।१४ रो.,२४६-२४७ (कात्यायन वार्तिक)दाप्प्रतिषेधे न दैपि अनेजन्तत्वात्(वार्तिकान्त) । दाप्प्रतिषेधे दैपि प्रतिषेधः न प्राप्नोति : अवदातं मुखं । ननु च आत्त्वे कृते भविष्यति । तत्हि आत्त्वं न प्राप्नोति । किं कारणं । अनेजन्तत्वात। (कात्यायन वार्तिक)सिद्धं अनुबन्धस्य अनेकान्तत्वात्(वार्तिकान्त)। सिद्धं एतत। कथं । अनुबन्धस्य अनेकान्तत्वात। अनेकान्ताः अनुबन्धाः । (कात्यायन वार्तिक)पित्प्रतिषेधात्वा(वार्तिकान्त) । अथ वा दाधाः घु अपितिति वक्ष्यामि । तत्च अवश्यं वक्तव्यं । अदापिति हि उच्यमाने इह अपि प्रसज्येत : प्रणिदापयति इति । शक्यं तावतनेन अदापिति ब्रुवता बान्तस्य प्रतिषेधः विज्ञातुं । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं दप्प्रतिषेधे न दैपि इति । परिहृतं एतत्सिद्धं अनुबन्धस्य अनेकान्तत्वातिति । अथ एकान्तेषु दोषः एव । एकान्तेषु च न दोषः । आत्त्वे कृते भविष्यति । ननु च उक्तं तत्हि आत्त्वं न प्राप्नोति । किं कारणं । अनेजन्तत्वातिति । पकारलोपे कृते भविष्यति । न हि अयं तदा दाप्भवति । भूतपूर्वगत्या भविष्यति । एतत्च अत्र युक्तं यत्सर्वेषु एव सानुबन्धकग्रहणेषु भूतपूर्वगतिः विज्ञायते । अनैमित्तिकः हि अनुबन्धलोपः तावति एव भवति । अथ वा आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतं अनेजन्तत्वं इति यतयं उदीचां माङः व्यतीहारे इति मेङः सानुबन्धकस्य आत्त्वभूतस्य ग्रहणं करोति । अथ वा दापेव अयं न दैपस्ति । कथं अवदाययति इति । श्यन्विकरणः भविष्यति ।
पाणिनीयसूत्र १,१।२१।१) कि.,७६।१६-७८।२ रो.,२४७-२५२ किमर्थं इदं उच्यते । (कात्यायन वार्तिक)सति अन्यस्मिनाद्यन्तवद्भावातेकस्मिनाद्यन्तवद्वचनम्(वार्तिकान्त) । सति अन्यस्मिन्यस्मात्पूर्वं न अस्ति परं अस्ति सः आदिः इति उच्यते । सति अन्यस्मिन्यस्मात्परं न अस्ति पूर्वं अस्ति सः अन्तः इति उच्यते । सति अन्यस्मिनाद्यन्तवद्भावातेतस्मात्कारणातेकस्मिनाद्यन्तापदिष्टानि कार्याणि न सिध्यन्ति । इष्यन्ते च स्युः इति । तानि अन्तरेण यत्नं न सिध्यन्ति इति एकस्मिनाद्यन्तवद्वचनं । एवमर्थं इदं उच्यते । अस्ति प्रयोजनं एतत। किं तर्हि इति । (कात्यायन वार्तिक)तत्र व्यपदेशिवद्वचनम्(वार्तिकान्त) । तत्र व्यपदेशिवद्भावः वक्तव्यः । व्यपदेशिवतेकस्मिन्कार्यं भवति इति वक्तव्यं । किं प्रयोजनं । (कात्यायन वार्तिक)एकाचः द्वे प्रथमार्थम्(वार्तिकान्त) । वक्ष्यति एकाचः द्वे प्रथमस्य इति बहुव्रीहिनिर्देशः इति । तस्मिन्क्रियमाणे इह एव : स्यात्पपाच पपाठ । इयाय , आर इति अत्र न स्यात। व्यप्देशिवतेकस्मिन्कार्यं भवति इति अत्र अपि सिद्धं भवति । (कात्यायन वार्तिक)षत्वे च आदेशसम्प्रत्ययार्थम्(वार्तिकान्त) । वक्ष्यति आदेशप्रत्यययोः इति अवयवषष्ठी एव इति । एतस्मिन्क्रियमाणे इह एव स्यातः करिष्यति हरिष्यति । इह न स्यातः इन्द्रः मा वक्षत्, सः देवन्यक्षत। व्यप्देशिवतेकस्मिन्कार्यं भवति इति अत्र अपि सिद्धं भवति । सः तर्हि व्यपदेशिवद्भावः वक्तव्यः । न वक्तव्यः । (कात्यायन वार्तिक)अवचनात्लोकविज्ञानात्सिद्धम्(वार्तिकान्त) । अन्तरेण एव वचनं लोकविज्ञानात्सिद्धं एतत। तत्यथा : लोके शालासमुदायः ग्रामः इति उच्यते । भवति च एततेकस्मिनपि एकशालः ग्रामः इति । विषमः उपन्यासः । ग्रामशब्दः अयं बह्वर्थः । अस्ति एव शालासमुदाये वर्तते । तत्यथा ग्रामः दग्धः इति । अस्ति वाटपरिक्षेपे वर्तते । तत्यथा ग्रामं प्रविष्टः । अस्ति मनुष्येषु वर्तते । तत्यथा । ग्रामः गतः , ग्रामः आगतः इति । अस्ति सारण्यके ससीमके सस्थण्डिलके वर्तते । तत्यथा ग्रामः लब्धः इति । तत्यः सारण्यके ससीमके सस्थण्डिलके वर्तते तं अभिसमीक्ष्य एतत्प्रयुज्यते : एकशालः ग्रामः इति । यथा तर्हि वर्णसमुदायः पदं पदसमुदायः ऋकृक्समुदायः सूक्तं इति उच्यते । भवति च एततेकस्मिनपि एकवर्णं पदं एकपदा ऋकेकर्चं सूक्तं इति । अत्र अपि अर्थेन युक्तः व्यपदेशः । पदं नाम अर्थः सूक्तं नम अर्थः । यथा तर्हि बहुषु पुत्रेषु एततुपपन्नं : भवति अयं मे ज्येष्ठः अयं एव मे मध्यमः अयं एव मे कनीयानिति । भवति च एततेकस्मिनपि अयं एव मे ज्येष्ठः अयं मे मध्यमः अयं मे कनीयानिति । तथा असूतायां असोष्यमाणायां च भवति प्रथमगर्भेण हता इति । तथा अनेत्य अनाजिगमिषुः आह इदं मे प्रथमं आगमनं इति । आद्यन्तवद्भावः च शक्यः अवक्तुं । कथं । (कात्यायन वार्तिक)अपूर्वानुत्तरलक्षणत्वाताद्यन्तयोः सिद्धं एकस्मिन्(वार्तिकान्त) । अपूर्वलक्षणः आदिः अनुत्तरलक्षणः अन्तः । एतत्च एकस्मिनपि भवति । अपूर्वानुत्तरलक्षणत्वातेतस्मात्कारणातेकस्मिनपि आद्यन्तापदिष्टनि कार्याणि भविष्यन्ति । न अर्थः आद्यन्तवद्भावेन । गोनर्दीयः तु आह सत्यं एतत्सति तु अन्यस्मिनिति ।
पाणिनीयसूत्र १,१।२१।२) कि.,७८।३-७९।१० रो.,२५२-२५४ कानि पुनः अस्य योगस्य प्रयोजनानि । (कात्यायन वार्तिक)आदिवत्त्वे प्रयोजनं प्रत्ययञ्निदाद्युदात्तत्वे(वार्तिकान्त) । प्रत्ययस्य आदिः उदात्तः भवति इति इह एव स्यातः कर्तव्यं , तैत्तिरीयः । औपगवः , कापटवः इति अत्र न स्यात। ञ्निति आदिः नित्यं इति इह एव स्यातः अहिचुम्बकायनिः , अग्निवेश्यः । गर्ग्यः , कृतिः इति अत्र न स्यात। (कात्यायन वार्तिक)वलादेः आर्धधातुकस्य इट्(वार्तिकान्त) । वलादेः आर्धधातुकस्य इट्प्रयोजनं । आर्धधातुकस्य इट्वलादेः इह एव : स्यात्करिष्यति हरिष्यति । जोषिषत्, मनिद्षतिति अत्र न स्यात। य्(कात्यायन वार्तिक)अस्मिन्विधिः तदादित्वे(वार्तिकान्त) । यस्मिन्विधिः तदादित्वे प्रयोजनं । वक्ष्यति यस्मिन्विधिः तदादौ अल्ग्रहणे इति । तस्मिन्क्रियमाणे अचि श्नुधातुभ्रुवां य्वोः इयङुवङौ इह एव स्यातः श्रियः , भ्रुवः । श्रियौ भ्रुवौ इति अत्र न स्यात। (कात्यायन वार्तिक)अजाद्याट्त्वे (वार्तिकान्त)। अजाद्याट्त्वे प्रयोजनं । आटजादीनां इह एव स्यातः ऐहिष्ट , ऐक्षिष्ट । ऐत्, अध्यैष्ट इति अत्र न स्यात। अथ अन्तवत्त्वे कानि प्रयोजनानि । (कात्यायन वार्तिक)अन्तवत्द्विवचनान्तप्रगृह्यत्वे (वार्तिकान्त)। अन्तवत्द्विवचनान्तप्रगृह्यत्वे प्रयोजनं । ईदूदेत्द्विवचनं प्रगृह्यं इह एव स्यातः पचेते* इति पचेथे* इति । खट्वे* इति माले* इति इति अत्र न स्यात। (कात्यायन वार्तिक)मितचः अन्त्यात्परः(वार्तिकान्त) । मितचः अन्त्यात्परः प्रयोजनं । इह एव स्यातः कुण्डानि वनानि । तानि यानि इति अत्र न स्यात। (कात्यायन वार्तिक)अचः अन्त्यादि टि(वार्तिकान्त) । अचः अन्त्यादि टि प्रयोजनं । टितः आत्मनेपदानां टेः ए इति इह एव स्यातः कुर्वाते कुर्वाथे । कुरुते कुर्वे इति अत्र न स्यात। (कात्यायन वार्तिक)अलः अन्त्यस्य(वार्तिकान्त) । अलः अन्त्यस्य प्रयोजनं । अतः दीर्घः यञि सुपि च इह एव स्यातः घटाभ्यं , पटाभ्यां । आभ्यां इति अत्र न स्यात। (कात्यायन वार्तिक)येन विदिः तदन्तत्वे(वार्तिकान्त) । येन विदिः तदन्तत्वे प्रयोजनं । अचः यतिह एव स्यातः चेयं , जेयं । एयं अध्येयं इति अत्र न स्यात। आद्यन्तवतेकस्मिन्कार्यं भवति इति अत्र अपि सिद्धं भवति ।
पाणिनीयसूत्र १,१।२२) कि.,७९।१२-८०।२ रो.,२५५-२५६ (कात्यायन वार्तिक)घसञ्ज्ञायां नदीतरे प्रतिषेधः(वार्तिकान्त) । घसञ्ज्ञायां नदीतरे प्रतिषेधः वक्तव्यः । नद्याः तरः नदीतरः इति । घसञ्ज्ञायां नदीतरे अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । घसञ्ज्ञा कस्मात्न भवति । (कात्यायन वार्तिक)तरब्ग्रहणं हि औपदेशिकम्(वार्तिकान्त) । औपदेशिकस्य तरपः ग्रहणं । न च एषः उपदेशे तरप्शब्दः । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । इह हि व्याकरणे सर्वेषु एव सानुबन्धकेषु ग्रहणेषु रूपं आश्रीयते : यत्र एतत्रूपं इति । रूपनिर्ग्रहः च न अन्तरेण लौकिकं प्रयोगं । तस्मिन्च लौकिके प्रयोगे सानुबन्धकानां प्रयोगः न अस्ति इति कृत्वा द्वितीयः प्रयोगः उपास्यते । कः असौ । उपदेशः नाम । न च एषः उपदेशे तरप्शब्दः । अथ वा अस्तु अस्य घसञ्ज्ञा । कः दोषः । घादिषु नद्याः ह्रस्वः भवति इति ह्रस्वत्वं प्रसज्येत । समानाधिकरणेषु घादिषु इति एवं तत। यदा तर्हि सा एव नदी सः एव तरः तदा प्राप्नोति । स्त्रीलिङ्गेषु एव घादिषु इति एवं तत। अवश्यं च एततेवं विज्ञेयं । समानाधिकरणेषु घादिषु इति उच्यमाने इह प्रसज्येत महिषी रूपं इव ब्राह्मणी रूपं इव ।
पाणिनीयसूत्र १,१।२३।१) कि.,८०।४-८२।९ रो.,२५६-२६३ (कात्यायन वार्तिक)सङ्ख्यासञ्ज्ञायां सङ्ख्याग्रहणम्(वार्तिकान्त) । सङ्ख्यासञ्ज्ञायां सङ्ख्याग्रहणं कर्तव्यं । बहुगण्वतुडतयः सङ्ख्यासञ्ज्ञाः भवन्ति । सङ्ख्या च सङ्ख्यासञ्ज्ञा भवति इति वक्तव्व्यं । किं प्रयोजनं । (कात्यायन वार्तिक)सङ्ख्यासम्प्रत्ययार्थम्(वार्तिकान्त) । एकादिकायाः सङ्ख्यायाः सङ्ख्याप्रदेशेषु सङ्ख्या इति एषः सम्प्रत्ययः यथा स्यात। ननु च एकादिका सङ्ख्या लोके सङ्ख्या इति प्रतीता । तेन अस्याः सङ्ख्याप्रदेशेषु सङ्ख्यासम्प्रत्ययः भविष्यति । एवं अपि कर्तव्यं । (कात्यायन वार्तिक)इतरथा हि असम्प्रत्ययः अकृत्रिमत्वात्यथा लोके(वार्तिकान्त) । अक्रियमाणे हि सङ्ख्याग्रहणे एकादिकायाः सङ्ख्यायाः सङ्ख्या इति सम्प्रत्ययः न स्यात। किं कारणं । अकृत्रिमत्वात। बह्वादीनां कृत्रिमा सञ्ज्ञा । कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः भवति यथा लोके । तत्यथा लोके गोपालकं आनय कटजकं आनय इति यस्य एषा सञ्ज्ञा भवति सः आनीयते न यः गाः पालयति यः वा कटे जातः । यदि तर्हि कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति नदीपौर्णमास्याग्रहायणीभ्यः इति अत्र अपि प्रसज्येत । पौर्णमास्याग्रहायणीग्रहणसामर्थ्यात्न भविष्यति । तद्विशेषेभ्यः तर्हि प्राप्नोति : गङ्गा यमुना इति । एवं तर्हि आचार्यप्रवृत्तिः ज्ञापयति न तद्विशेषेभ्यः भवति इति यतयं विपाट्शब्दं शरत्प्रभृतिषु पठति । इह तर्हि प्राप्नोति : नदीभिः च इति । बहुवचननिर्देशात्न भविष्यति । स्वरूपविधिः तर्हि प्राप्नोति । बहुवचननिर्देशातेव न भविष्यति । एवं न च इदं अकृतं भवति कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः इति न च कः चित्दोषः । (कात्यायन वार्तिक)उत्तरार्थं च(वार्तिकान्त) । उत्तरार्थं च सङ्ख्याग्रहणं कर्तव्यं । ष्णान्ता षट। षकारनकारान्तायाः सङ्ख्यायाः षट्सञ्ज्ञा यथा स्यात। इह मा भूतः पामानः , विप्रुषः इति । इहार्थेन तावत्न अर्थः सङ्ख्याग्रहणेन । ननु च उक्तं इतरथा हि असम्प्रत्ययः अकृत्रिमत्वात्यथा लोके इति । न एषः दोषः । अर्थात्प्रकरणात्वा लोके कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति । अर्थः वा अस्य एवंसङ्ज्ञकेन भवति प्रकृतं वा तत्र भवति इदं एवंसङ्ज्ञकेन कर्तव्यं इति। आतः च अर्थात्प्रकरणात्वा । अङ्ग हि भवान्ग्राम्यं पांसुरपादं अप्रकरणज्ञं आगतं ब्रवीतु गोपालकं आनय कटजकं आनय इति । उभयगतिः तस्य भवति साधीयः वा यष्टिहस्तं गमिष्यति । यथा एव तर्हि अर्थात्प्रकरणात्वा लोके कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति एवं इह अपि प्राप्नोति । जानाति हि असौ बह्वादीनां इयं सञ्ज्ञा कृता इति । न यथा लोके तथा व्याकरणे । उभयगतिः पुनः इह भवति । अन्यत्र अपि न अवश्यं इह एव । तत्यथा : कर्तुः ईप्सिततमं कर्म इति कृत्रिमा सञ्ज्ञा । कर्मप्रदेशेषु च उभयगतिः भवति । कर्मणि द्वितीया इति कृत्रिमस्य ग्रहणं कर्तरि कर्मव्यतिहारे इति अकृत्रिमस्य । तथा साधकतमं करणं इति कृत्रिमा करणसञ्ज्ञा । करणप्रदेशेषु च उभयगतिः भवति । कर्तृकरणयोः तृतीया इति कृत्रिमस्य ग्रहणं शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे इति अकृत्रिमस्य । तथा आधारः अधिकरणं इति कृत्रिमा अधिकरणसञ्ज्ञा । अधिकरणेप्रदेशेषु च उभयगतिः भवति । सप्तमी अधिकरणे च इति कृत्रिमस्य ग्रहणं विप्रतिषिद्धं च अनधिकरणवाचि इति अकृत्रिमस्य । अथ वा न इदं सञ्ज्ञाकरणं । तद्वदतिदेशः अयं : बहुगणवतुडतयः सङ्ख्यावत्भवन्ति इति । सः तर्हि वतिनिर्देशः कर्तव्यः । न हि अन्तरेण वतिं अतिदेशः गम्यते । अन्तरेण अपि वतिं अतिदेशः गम्यते । तत्यथा : एषः ब्रह्मदत्तः । अब्रह्मदत्तं ब्रह्मदत्तः इति आह । ते मन्यामहे : ब्रह्मदत्तवतयं भवति इति । एवं इह अपि असङ्ख्यां सङ्ख्या इति आह । सङ्ख्यावतिति गम्यते । अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति एकादिकायाः सङ्ख्यायाः सङ्ख्याप्रदेशेषु सङ्ख्यासम्प्रत्ययः इति यतयं सङ्ख्यायाः अतिशदन्तायाः कनिति तिशदन्तायाः प्रतिषेधं शास्ति । कथं कृत्वा ज्ञापकं । न हि कृत्रिमा त्यन्ता शदन्ता वा सङ्ख्या अस्ति । ननु च इयं अस्ति डतिः । यत्तर्हि शदन्तायाः प्रतिषेधं शास्ति । यत्च अपि त्यन्तायाः प्रतिषेधं शास्ति । ननु च उक्तं डत्यर्थं एतत्स्यातिति । अर्थवद्ग्रहणे न अनर्थकस्य इति अर्थवतः तिशब्दस्य ग्रहणं । न च डतेः तिशब्दः अर्थवान। अथ वा महती इयं सञ्ज्ञा क्रियते । सञ्ज्ञा च नाम यतः न लघीयः । कुतः एतत। लघ्वर्थं हि सञ्ज्ञाकरणं । तत्र महत्याः सञ्ज्ञायाः करणे एतत्प्रयोजनं अन्वर्थसञ्ज्ञा यथ विज्ञायेत । सङ्ख्यायते अनया सङ्ख्या इति । एकादिकया च अपि सङ्ख्यायते । उत्तरार्थेन च अपि न अर्थः सङ्ख्याग्रहणेन । इदं प्रकृतं अनुवर्तिष्यते । इदं वै सञ्ज्ञार्थं उत्तरत्र च सञ्ज्ञिविशेषणार्थः । न च अन्यार्थं प्रकृतं अन्यार्थं भवति । न खलु अपि अन्यत्प्रकृतं अनुवर्तनातन्यत्भवति । न हि गोधा सर्पन्ती सर्पणातहिः भवति । यत्तावतुच्यते न च अन्यार्थं प्रकृतं अन्यार्थं भवति इति अन्यार्थं अपि प्रकृतं अन्यार्थं भवति । तत्यथा : शाल्यर्थं कुल्याः प्रणीयन्ते ताभ्यः च पाणीयं पीयते उपश्पृश्यते च शालयः च भाव्यन्ते । यदपि उच्यते न खलु अपि अन्यत्प्रकृतं अनुवर्तनातन्यत्भवति । न हि गोधा सर्पन्ती सर्पणातहिः भवति इति । भवेत्द्रव्येषु एततेवं स्यात। शब्दः तु खलु येन येन विशेषेण अभिसम्बध्यते तस्य तस्य विशेषकः भवति । अथ वा सापेक्षः अयं निर्देशः क्रियते न च अन्यत्किं चितपेक्ष्यं अस्ति । ते सङ्ख्यां एव अपेक्षिष्यामहे ।
पाणिनीयसूत्र १,१।२३।२) कि.,८२।१०-८३।८ रो.,२६३-२६५ (कात्यायन वार्तिक)अध्यर्धग्रहणं च समासकन्विध्यर्थम्(वार्तिकान्त) । अध्यर्धग्रहणं च कर्तव्यं । किं प्रयोजनं । समासकन्विध्यर्थं । समासविध्यर्थं कन्द्विध्यर्थं च । समासविध्यर्थं तावतः अध्यर्धशूर्पं । कन्विध्यर्थं : अध्यर्धकं । (कात्यायन वार्तिक)लुकि च अग्रहणम्(वार्तिकान्त) । लुकि च अध्यर्धग्रहणं न कर्तव्यं भवति : अध्यर्धपूर्वद्विगोः लुकसञ्ज्ञायां इति । द्विगोः इति एव सिद्धं । (कात्यायन वार्तिक)अर्धपूर्वपदः च पूरणप्रत्ययान्तः(वार्तिकान्त) । अर्धपूर्वपदः च पूरणप्रत्ययान्तः सङ्ख्यासञ्ज्ञः भवति इति वक्तव्यं । किं प्रयोजनं । समासकन्विध्यर्थं । समासविध्यर्थं कन्द्विध्यर्थं च । समासविध्यर्थं तावतः अर्धपञ्चमशूर्पं । कन्विध्यर्थं : अर्धपञ्चमकं । (कात्यायन वार्तिक)अधिकग्रहणं च अलुकि समासोत्तरपदवृद्ध्यर्थम्(वार्तिकान्त) । अधिकग्रहणं च अलुकि कर्तव्यं । किं प्रयोजनं । समासोत्तरपदवृद्ध्यर्थं । समासवृद्ध्यर्थं उत्तरवृद्ध्यर्तं च । समासवृद्ध्यर्थं तावतः अधिकषाष्ठिकः , अधिकसाप्ततिकः । उत्तरपदवृद्ध्यर्थं अधिकषाष्ठिकः , अधिकसाप्ततिकः । अलुकि इति किं अर्थं । अधिकषाष्ठिकः , अधिकसाप्ततिकः । (कात्यायन वार्तिक)बहुव्रीहौ च अग्रहणम्(वार्तिकान्त) । बहुव्रीहौ च अधिकशब्दस्य ग्रहणं न कर्तव्यं भवति : सङ्ख्यया अव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येये इति । सङ्ख्या इति एव सिद्धं । (कात्यायन वार्तिक)बह्वादीनां अग्रहणम्(वार्तिकान्त) । बह्वादीनां ग्रहणं शक्यं अकर्तुं । केन इदानीं सङ्ख्याप्रदेशेषु सङ्ख्यसम्प्रत्ययः भविष्यति । ज्ञापकात्सिद्धं । किं ज्ञापकं । यतयं वतोः इट्वा इति सङ्ख्यायाः विहितस्य कनः वत्वन्तातिटं शास्ति । वतोः एव तत्ज्ञापकं स्यात। न इति आह । योगापेक्षं ज्ञापकं ।
पाणिनीयसूत्र १,१।२४) कि.,८३।१०-८४।७ रो.,२६५-२६९ (कात्यायन वार्तिक)षट्सञ्ज्ञायां उपदेशवचनम्(वार्तिकान्त) । षट्सञ्ज्ञायां उपदेशग्रहणं कर्तव्यं । उपदेशे षकारनकारान्ता सङ्ख्या षट्सञ्ज्ञा भवति इति वक्तव्यं । किं प्रयोजनं । (कात्यायन वार्तिक)शताद्यष्टनोः नुम्नुडर्थम्(वार्तिकान्त) । शतानि सहस्राणि । नुमि कृते ष्णान्ता षटिति षट्सञ्ज्ञा प्राप्नोति । उपदेशग्रहणात्न भवति । अष्टानां इति अत्र आत्वे कृते षट्सञ्ज्ञा न प्राप्नोति । उपदेशग्रहणात्भवति । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । इह तावत्शतानि सहस्राणि इति । सन्निपातलक्षणः विधिः अनिमित्तं तद्विघातस्य इति । अष्टनः अपि उक्तं । किं उक्तं । अष्टनः दीर्घग्रहणं षट्सञ्ज्ञाज्ञापकं आकारान्तस्य नुडर्थं इति । अथ वा आकारः अपि अत्र निर्दिश्यते । षकारान्ता नकारान्ता आकारान्ता च सङ्ख्या षट्सञ्ज्ञा भवति इति । इह अपि तर्हि प्राप्नोति : सधमधः द्युम्नः एकाः तः एकाः इति । न एषः दोषः । एकशब्दः अयं बह्वर्थः । अस्ति एव सङ्ख्यापदं । तत्यथा : एकः , द्वौ , बहवः इति । अस्ति असहायवाची । तत्यथा : एकाग्नयः , एकहलानि , एकाकिभिः क्षुद्रकैः जितं इति । असहायैः इति अर्थः । अस्ति अन्यार्थे वर्तते । तत्यथा : प्रजं एका रक्षति उर्जं एका इति । अन्या इति अर्थः । सधमदः द्युम्नः एकाः तः । अन्याः इति अर्थः । तत्यः अन्यार्थे वर्तते तस्य एषः प्रयोगः । इह तर्हि प्राप्नोति : द्वभ्यां इष्टये विंशत्य च इति । एवं तर्हि सप्तमे योगविभागः करिष्यते । अष्टाभ्यः औश। ततः षड्भ्यः : षड्भ्यः च यतुक्तं अष्टाभ्यः अपि तत्भवति । ततः लुकः लुक्च भवति षड्भ्यः इति । अथ वा उपरिष्टात्योगविभागः करिष्यते । अष्टनः आ विभक्तौ । ततः रायः : रायः च विभक्तौ आकारादेशः भवति । हलि इति उभयोः शेषः । यदि एवं प्रियाष्टौ प्रियाष्टाः इति न सिध्यति प्रियाष्टानौ प्रियाष्टानः इति च प्राप्नोति । यथालक्षणं अप्रयुक्ते ।
पाणिनीयसूत्र १,१।२५) कि.,८४।९-१२ रो.,२६९ इदं डतिग्रहणं द्विः क्रियते सङ्ख्यासञ्ज्ञायां षट्सञ्ज्ञायां च । एकं शक्यं अकर्तुं । कथं । यदि तावत्सङ्ख्यासञ्ज्ञायां क्रियते षट्सञ्ज्ञायां न करिष्यते । कथं । ष्णान्ता षटिति अत्र डति इति अनुवर्तिष्यते । अथ षट्सञ्ज्ञायां क्रियते सङ्ख्यासञ्ज्ञायां न करिष्यते । डति च इति अत्र सङ्ख्यासञ्ज्ञा अनुवर्तिष्यते ।
पाणिनीयसूत्र १,१।२६) कि.,८४।१४-८५।१७ रो.,२७०-२७२ (कात्यायन वार्तिक)निष्ठासञ्ज्ञायां समानशब्दप्रतिषेधः(वार्तिकान्त) । निष्ठासञ्ज्ञायां समानशब्दानां प्रतिषेधः कर्तव्यः । लोतः गर्तः इति । निष्ठासञ्ज्ञायां समानशब्दाप्रतिषेधः । निष्ठासञ्ज्ञायां समानशब्दप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । निष्ठासञ्ज्ञा कस्मात्न भवति । अनुबन्धः अन्यत्वकरः । अनुबन्धः क्रियते । सः अन्यत्वं करिष्यति । (कात्यायन वार्तिक)अनुबन्धः अन्यत्वकरः इति चेत्न लोपात्(वार्तिकान्त) । अनुबन्धः अन्यत्वकरः इति चेत्तत्न । किं कारणं । लोपात। लुप्यते अत्र अनुबन्धः । लुप्ते अत्र अनुबन्धे न अन्यत्वं भविष्यति । तत्यथा : कतरत्देवदत्तस्य गृहं । अदः यत्र असौ काकः इति । उत्पतिते काके नष्टं तत्गृहं भवति । एवं इह अपि लुप्ते अनुबन्धे नष्टः प्रत्ययः भवति । यदि अपि लुप्यते जानाति तु असौ सानुबन्धकस्य इयं सञ्ज्ञा कृता इति । तत्यथा इतरत्र अपि : कतरत्देवदत्तस्य गृहं । अदः यत्र असौ काकः इति । उत्पतिते काके यदि अपि नष्टं तत्गृहं भवति अन्ततः तं उद्देशं जानाति । (कात्यायन वार्तिक)सिद्धविपर्यासः च(वार्तिकान्त) । सिद्धः च विपर्यासः । यदि अपि जानाति सन्देहः तस्य भवति : अयं सः तशब्दः लोतः गर्तः इति अयं सः तशब्दः लूनः गीर्णः इति । तत्यथा इतरत्र अपि : कतरत्देवदत्तस्य गृहं । अदः यत्र असौ काकः इति । उत्पतिते काके यदि अपि नष्टं तत्गृहं भवति अन्ततः तं उद्देशं जानाति । सन्देहः तु तस्य भवति : इदं तत्गृहं इदं तत्गृहं इति । एवं तर्हि । (कात्यायन वार्तिक)कारककालविशेषात्सिद्धम्(वार्तिकान्त) । कारककालविशेषौ उपादेयौ । भूते यः तशब्दः कर्तरि कर्मणि भावे च इति । तत्यथा इतरत्र अपि । यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः अध्रुवेण निमित्तेन ध्रुवं निमित्तं उपादत्ते वेदिकां पुण्डरीकं वा । एवं अपि प्राकीर्ष्ट इति अत्र प्राप्नोति । (कात्यायन वार्तिक)लुङि सिजादिदर्शनात्(वार्तिकान्त) । लुङि सिजादिदर्शनात्न भविष्यति । यत्र तर्हि सिजादयः न दृश्यन्ते प्राभित्त इति । दृश्यन्ते अत्र अपि सिजादयः । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । यथा एव अयं अनुपदिष्टान्कारककालविशेषानवगच्छति एवं एततपि अवगन्तुं अर्हति : यत्र सिजादयः न इति ।
पाणिनीयसूत्र १,१।२७।१) कि.,८६।२-८ रो.,२७३-२७४ सर्वादीनि इति कः अयं समासः । बहुव्रीहिः इति आह । कः अस्य विग्रहः । सर्वशब्दः आदिः येषां तानि इमानि इति । यदि एवं सर्वशब्दस्य सर्वनामसञ्ज्ञा न प्राप्नोति । किं कारणं । अन्यपदार्थत्वात्बहुव्रीहेः । बहुव्रीहिः अयं अन्यपदार्थे वर्तते । तेन यतन्यत्सर्वशब्दात्तस्य सर्वनामस्ञ्ज्ञा प्राप्नोति । तत्यथा चित्रगुः आनीयतां इति उक्ते यस्य ताः गावः भवन्ति स आनीयते न गावः । न एषः दोषः । भवति बहुव्रीहौ तद्गुणसंविज्ञानं अपि । तत्यथा : चित्रवासं आनय । लोहितोष्णीषाः ऋत्विजः प्रचरन्ति । तद्गुणः आनीयते तद्गुणाः च प्रचरन्ति ।
पाणिनीयसूत्र १,१।२७।२) कि.,८६।९-८७।६ रो.,२७४-२७७ इह सर्वनामानि इति पूर्वपदात्सञ्ज्ञायां अगः इति णत्वं प्राप्नोति । तस्य प्रतिषेधः वक्तव्यः । (कात्यायन वार्तिक)सर्वनामसञ्ज्ञायां निपातनात्णत्वाभावः(वार्तिकान्त) । सर्वनामसञ्ज्ञायां निपातनात्णत्वं न भविष्यति । किं एतत्निपातनं नाम । अथ कः प्रतिषेधः नाम । अविशेषेण किं चितुक्त्वा विशेषेण न इति उच्यते । तत्र व्यक्तं आचार्यस्य अभिप्रायः गम्यते : इदं न भवति इति । निपातनं अपि एवञ्जातीयकं एव । अविशेषेण णत्वं उक्त्वा विशेषेण निपातनं क्रियते । तत्र व्यक्तं आचार्यस्य अभिप्रायः गम्यते : इदं न भवति इति । ननु च निपातनात्च अणत्वं स्यात्यथाप्राप्तं च णत्वं । किं अन्ये अपि एवं विधयः भवन्ति । इह इकः यणचि इति वचनात्च यण्स्यात्यथाप्राप्तः च इक्श्रूयेत । न एषः दोषः । अस्ति अत्र विशेषः । षष्ठ्या अत्र निर्देशः क्रियते । षष्ठी च पुनः स्थानिनं निवर्तयति । इह तर्हि : कर्तरि शप्दिवादिभ्यः श्यनिति वचनात्च श्यन्स्यात्यथाप्राप्तः च शप्श्रूयेत । न एषः दोषः । शबादेशाः श्यनादयः करिष्यन्ते । तत्तर्हि शपः ग्रहणं कर्तव्यं । न कर्तव्यं । प्रकृतं अनुवर्तते । क्व प्रकृतं । कर्तरि शपिति । तत्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन च इह अर्थः । दिवादिभ्यः इति एषा पञ्चमी शपिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति : तस्मातिति उत्तरस्य । प्रत्ययविधिः अयं । न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति । न अयं प्रत्ययविधिः । विहितः प्रत्ययः प्रकृतः च अनुवर्तते । इह तर्हि : अव्ययसर्वनाम्नां अकच्प्राक्टेः इति । वचनात्च अकच्स्यात्यथाप्राप्तः च कः श्रूयेत । न एषः दोषः । न अप्राप्ते हि के अकचारभ्यते । सः बाधकः भविष्यति । निपातनं अपि एवञ्जातीयकं एव । न अप्राप्ते णत्वे निपातनं आरभ्यते । तत्बाधकं भविष्यति । यदि तर्हि निपातनानि अपि एवञ्जातीयकानि भवन्ति समः तते दोषः भवति । इह अन्ये वैयाकरणाः समः तते विभाषा लोपं आरभन्ते : समः हि ततयोः वा इति । सततं , सन्ततं , सहितं , संहितं इति । इह पुनः भवान्निपातनात्च मलोपं इच्छति अपरस्पराः क्रियासातत्ये इति यथाप्राप्तं च अलोपं सन्ततं इति । एतत्न सिध्यति । कर्तव्यः अत्र यत्नः । बाधकानि एव हि निपातनानि भवन्ति ।
पाणिनीयसूत्र १,१।२७।३) कि.,८७।७-८९।३ रो.,२७८-२८५ (कात्यायन वार्तिक)सञ्ज्ञोपसर्जनप्रतिषेधः(वार्तिकान्त) । सञ्ज्ञोपसर्जनीभूतानां सर्वादीनां प्रतिषेधः वक्तव्यः । सर्वः नाम कः चित। तस्मै सर्वाय देहि । अतिसर्वाय देहि । सः कथं कर्तव्यः । (कात्यायन वार्तिक)पाठात्पर्युदासः पठितानां सञ्ज्ञाकरणम्(वार्तिकान्त) । पाठातेव पर्युदासः कर्तव्यः । शुद्धानां पठितानां सञ्ज्ञा कर्तव्या । सर्वादीनि सर्वनामसञ्ज्ञानि भवन्ति । सञ्ज्ञोपसर्जनीभूतानि न सर्वादीनि । किं अविशेषेण । न इति आह । विशेषेण च । किं प्रयोजनं । (कात्यायन वार्तिक)सर्वाद्यानन्तर्यकार्यार्थम्(वार्तिकान्त) । सर्वादीनां आनन्तर्येण यतुच्यते कार्यं ततपि सञ्ज्ञोपसर्जनीभूतानां मा भूतिति । किं प्रयोजनं । (कात्यायन वार्तिक)प्रयोजनं डतरादीनां अद्भावे(वार्तिकान्त) । डतरादीनां अद्भावे प्रयोजनं । अतिक्रान्तं इदं बृआह्मणकुलं कतरत्, अतिकतरं ब्राह्मणकुलं इति । (कात्यायन वार्तिक)त्यदादिविधौ च(वार्तिकान्त) । त्यदादिविधौ च प्रयोजनं । अतिक्रान्तः अयं ब्राह्मणः तं अतितत्ब्राह्मणः इति । सञ्जाप्रतिषेधः तावत्न वक्तव्यः । उपरिष्टात्योगविभागः करिष्यते । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायां । ततः असञ्ज्ञायां इति । सर्वादीनि इति एवं यानि अनुक्रान्तानि असञ्ज्ञायां तानि द्रष्टव्यानि । उपसर्जनप्रतिषेधः च न कर्तव्यः । अनुपसर्जनातिति एषः योगः प्रत्याख्यायते । तं एवं अभिसम्भन्त्स्यामः : अनुपसर्जन* अ* अतिति । किं इदं अ* अतिति । अकारात्कारौ शिष्यमाणौ अनुपसर्जनस्य द्रष्टव्यौ । यदि एवं अतियुष्मतत्यस्मतिति न सिध्यति । प्रश्लिष्टनिर्देशः अयं : अनुपसर्जन* अ* अ* अतिति । अकारान्तातकारात्कारौ शिष्यमाणौ अनुपसर्जनस्य द्रष्टव्यौ । अथ वा अङ्गाधिकारे यतुच्यते गृह्यमाणविभक्तेः तत्भवति । यदि एवं परमपञ्च परमसप्त षड्भ्यः लुकिति लुक्न प्राप्नोति । न एषः दोषः । षट्प्रधानः एषः समासः । इह तर्हि प्रियसक्थ्ना ब्राह्मणेन अनङ्न प्राप्नोति । सप्तमीनिर्दिष्टे यतुच्यते प्रकृतविभक्तौ तत्भवति । यदि एवं अतितत्, अतितदौ , अतितदः इति अत्वं प्राप्नोति । तत्च अपि वक्तव्यं । न वक्तव्यं । इह तावतद्ड्डतरादिभ्यः पञ्चभ्यः इति पञ्चमी अङ्गस्य इति षष्ठी । तत्र अशक्यं विविभक्तित्वात्डतरादिभ्यः इति पञ्चम्या अङ्गं विशेषयितुं । तत्र किं अन्यत्शक्यं विशेषयितुं अन्यततः विहितात्प्रत्ययात। डतरादिभ्यः यः विहितः इति । इह इदानीं अस्थिदधिसख्थ्यक्ष्णां अनङुदात्तः इति त्यदादीनां अः भवति इति अस्थ्यादीनां इति एषा षष्ठी अङ्गस्य इति अपि त्यदादीनां इति अपि षष्ठी अङ्गस्य इति अपि । तत्र कामचारः : गृह्यमाणेन वा विभक्तिं विशेषयितुं अङ्गेन वा । यावता कामचारः इह तावतस्थिदधिसख्थ्यक्ष्णां अनङुदात्तः इति अङ्गेन विभक्तिं विशेषयिष्यामः अस्थ्यादिभिः अनङं : अङ्गस्य विभक्तौ अनङ्भवति अस्थ्यादीनां इति । इह इदानीं त्यदादीनां अः भवति इति गृह्यमाणेन विभक्तिं विशेषयिष्यामः अङ्गेन अकारं : त्यदादीनां विभक्तौ अः भवति अङ्गस्य इति । यदि एवं अतिसः : अत्वं न प्राप्नोति । न एषः दोषः । त्यदादिप्रधानः एषः समासः । अथ वा न इदं सञ्ज्ञाकरणं । पाठविशेषणं इदं : सर्वेषां यानि नामानि तानि सर्वादीनि । सञ्ज्ञोपसर्जने च विशेषे अवतिष्ठेते । यदि एवं सञ्ज्ञाश्रयं यत्कार्यं तत्न सिध्यति : सर्वनाम्नः स्मै , आमि सर्वनाम्नः सुठिति । अन्वर्थग्रहणं तत्र विज्ञास्यते : सर्वेषां यत्नाम तत्सर्वनाम । सर्वनाम्नः उत्तरस्य ङेः स्मै भवति । सर्वनाम्नः उत्तरस्य आमः सुट्भवति । यदि एवं सकलं , कृत्स्नं , जगतिति अत्र अपि प्राप्नोति । एतेषां च अपि शब्दानां एकैकस्य सः सः विषयः । तस्मिन्तस्मिन्विषये यः यः शब्दः वर्तते तस्य तस्य तस्मिन्तस्मिन्वर्तमानस्य सर्वनामकार्यं प्राप्नोति । एवं तर्हि उभयं अनेन क्रियते । पाठः च एव विशेष्यते सञ्ज्ञा च । कथं पुनः एकेन यत्नेन उभयं लभ्यं । लभ्यं इति आह । कथम। एकशेषनिर्देशात। एकशेषनिर्देशः अयं : सर्वादीनि च सर्वादीनि च सर्वादीनि । सर्वनामानि च सर्वनामानि च सर्वनामानि । सर्वादीनि सर्वनानसञ्ज्ञानि भवन्ति । सर्वेषां यानि च नामानि तानि सर्वादीनि । सञ्ज्ञोपसर्जने च विशेषे अवतिष्ठेते । अथ वा महती इयं सञ्ज्ञा क्रियते । सञ्ज्ञा च नाम यतः न लघीयः । कुतः एतत। लघ्वर्थं हि सञ्ज्ञाकरणं । तत्र महत्याः सञ्ज्ञायाः करणे एतत्प्रयोजनं अन्वर्थसञ्ज्ञा यथा विज्ञायेत । सर्वादीनि सर्वनानसञ्ज्ञानि भवन्ति सर्वेषां नामानि इति च अतः सर्वनामानि । सञ्ज्ञोपसर्जने च विशेषे अवतिष्ठेते ।
पाणिनीयसूत्र १,१।२७।४) कि.,८९।४-९०।३ रो.,२८६-२८९ अथ उभस्य सर्वनामत्वे कः अर्थः । (कात्यायन वार्तिक)उभस्य सर्वनामत्वे अकजर्थः(वार्तिकान्त) । उभस्य सर्वनामत्वे अकजर्थः पाठः क्रियते : उभकौ । किं उच्यते अकजर्थः इति न पुनः अन्यानि अपि सर्वनामकार्याणि । (कात्यायन वार्तिक)अन्याभावः द्विवचनटाब्विषयत्वात्(वार्तिकान्त) । अन्येषां सर्वनाम्कार्याणां अभावः । किं कारणं । द्विवचनटाब्विषयत्वात। उभशब्दः अयं द्विवचनटाब्विषयः । अन्यानि च सर्वनामकार्याणि एकवचनबहुवचनेषु उच्यन्ते । यदा पुनः अयं उभशब्दः द्विवचनटाब्विषयः कः इदानीं अस्य अन्यत्र भवति । (कात्यायन वार्तिक)उभयः अन्यत्र(वार्तिकान्त) । उभयशब्दः अस्य अन्यत्र बह्वति । उभये देवमनुष्याः , उभयः मणिः इति । किं च स्यात्यदि अत्र अकच्न स्यात। कः प्रसज्येत । कः च इदानीं काकचोः विशेषः । उभशब्दः अयं द्विवचनटाब्विषयः इति उक्तं । तत्र अकचि सति अकचः तन्मध्यपतितत्वात्शक्यते एतत्वक्तुं : द्विवचनपरः अयं इति । के पुनः सति न अयं द्विवचनपरः स्यात। तत्र द्विवचनपरता वक्तव्या । यथा एव तर्हि के सति न अयं द्विवचनपरः एवं आपि अपि सति न अयं द्विवचनपरः स्यात। तत्र अपि द्विवचनपरता वक्तव्या । अवचनातपि तत्परविज्ञानं । अन्तरेण अपि वचनं आपि द्विवचनपरः अयं भविष्यति । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । एकादेशे कृते द्विवचनपरः अयं अन्तादिवद्भावेन । (कात्यायन वार्तिक)अवचनातापि तत्परविज्ञानं इति चेत्के अपि तुल्यम्(वार्तिकान्त) । अवचनातापि तत्परविज्ञानं इति चेत्के अपि अन्तरेण वचनं द्विवचनपरः भविष्यति । कथं । स्वार्थिकाः प्रत्ययाः प्रकृतितः अविशिष्टाः भवन्ति इति प्रकृतिग्रहणेन स्वार्थिकानां अपि ग्रहणं भवति । अथ भवतः सर्वनामत्वे कानि प्रोजनानि । (कात्यायन वार्तिक)भवतः अकच्छेषात्वानि(वार्तिकान्त) । भवतः अकच्छेषात्वानि प्रयोजनानि । अकचः भवकान। शेषः : सः च भवान्च भवन्तौ । आत्वं : भवादृकिति । किं पुनः इदं परिगणनं आहोस्वितुदाहरणमात्रं । उदाहरणमात्रं इति आह । तृतीयादयः अपि हि इष्यन्ते । सर्वनाम्नः तृतीया च : भवता हेतुना , भवतः हेतोः इति ।
पाणिनीयसूत्र १,१।२८) कि.,९०।५-२६ रो.,२८९-२९१ दिग्ग्रहणं किमर्थं । न बहुव्रीहौ इति प्रतिषेधं वक्ष्यति । तत्र न ज्ञायते क्व विभाषा क्व प्रतिषेधः इति । दिग्ग्रहणे पुनः क्रियमाणे न दोषः भवति । दिगुपदिष्टे विभाषा अन्यत्र प्रतिषेधः । अथ समासग्रहणं किमर्थम। समासः एव यः बहुव्रीहिः तत्र यथा स्यात। बहुव्रीहिवद्भावेन यः बहुव्रीहिः तत्र मा भूतिति : दक्षिणदक्षिणस्यै देहि इति । अथ बहुव्रीहिग्रहणं किमर्थं । द्वन्द्वे मा भूत्दक्षिणोत्तरपूर्वाणां इति । न एततस्ति प्रयोजनं । द्वन्द्वे च इति प्रतिषेधः भविष्यति । न अप्राप्ते प्रतिषेधे इयं परिभाषा आरभ्यते । सा यथा एव बहुव्रीहौ इति एतं प्रतिषेधं बाधते एवं द्वन्द्वे च इति एतं अपि बाधेत । न बाधते । किं कारणं । येन न अप्राप्ते तस्य बाधनं भवति । न च अप्राप्ते न बहुव्रीहौ इति एतस्मिन्प्रतिषेधे इयं परिभाषा आरभ्यते । द्वन्द्वे च इति एतस्मिन्पुनः प्राप्ते च अप्राप्ते च । अथ वा पुरस्तातपवादाः अनन्तरान्विधीन्बाधन्ते इति एवं इयं विभाषा न बहुव्रीहौ इति एतं प्रतिषेधं बाधिष्यते द्वन्द्वे च इति एतं प्रतिषेधं न बाधिष्यते । अथ वा इदं तावतयं प्रष्टव्यः । इह कस्मात्न भवति : या पूर्वा सा उत्तरा अस्य उन्मुग्धस्य सः अयं पूर्वोत्तरः उन्मुग्धः , तस्मै पूर्वोत्तराय देहि । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति । यदि एवं न अर्थः बहुव्रीहिग्रहणेन । द्वन्द्वे कस्मात्न भवति । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति । उत्तरार्थं तर्हि बहुव्रीहिग्रहणं कर्तव्यं । न कर्तव्यं । क्रियते तत्र एव बहुव्रीहौ इति । द्वितीयं कर्तव्यं । बहुव्रीहिः एव यः बहुव्रीहिः तत्र यथा स्यात। बहुव्रीहिवद्भावेन यः बहुव्रीहिः तत्र मा भूतिति : एकैकस्मै देहि । एततपि न अस्ति प्रयोजनम। समासे इति वर्तते । तेन बहुव्रीहिं विशेषयिष्यामः : समासः यः बहुव्रीहिः इति । इदं तर्हि प्रयोजनं । अवयवभूतस्य अपि बहुव्रीहेः प्रतिषेधः यथा स्यात। इह मा भूत्वस्त्रं अन्तरं एषां ते इमे वस्त्रान्तराः वसनं अन्तरं एषां ते इमे वसनान्तराः वस्त्रान्तराः च वसनान्तराः च वस्त्रान्तरवसनान्तराः ।
पाणिनीयसूत्र १,१।२९।१) कि.,९१।२-२१ रो.,२९१-२९३ किं उदाहरणं । प्रियविश्वाय । न एततस्ति प्रयोजनं । सर्वाद्यन्तस्य बहुव्रीहेः प्रतिषेधेन भवितव्यं । वक्ष्यति च एततः बहुव्रीहौ सर्वनामसङ्ख्ययोः उपसङ्ख्यानं इति । तत्र विश्वप्रियाय इति भवितव्यं । इदं तर्हि : द्व्यन्याय त्र्यन्याय । ननु च अत्र अपि सर्वनाम्नः एव पूर्वनिपातेन भवितव्यं । न एषः दोषः । वक्ष्यति एततः सङ्ख्यासर्वनाम्नोः यः बहुव्रीहिः परत्वात्तत्र सङ्ख्यायाः पूर्वनिपातः भवति इति । इदं च अपि उदाहरणं प्रियविश्वाय । ननु च उक्तं विश्वप्रियाय इति भवितव्यं इति । वक्ष्यति एततः वा प्रियस्य इति । न खलु अपि अवश्यं सर्वाद्यन्तस्य एव बहुव्रीहेः प्रतिषेधेन भवितव्यं । किं तर्हि । असर्वाद्यन्तस्य अपि भवितव्यं । किं प्रयोजनं । अकच्मा भूत। किं च स्यात्यदि अकच्स्यात। कः न स्यात। कः च इदानीं काकचोः विशेषः । व्यञ्जनान्तेषु विशेषः । अहकं पिता अस्य मकत्पितृकः , त्वकं पिता अस्य त्वकत्पितृकः इति प्राप्नोति , मत्कपितृकः त्वत्कपितृकः इति च इष्यते । कथं पुनः इच्छता अपि भवता बहिरङ्गेन प्रतिषेधेन अन्तरङ्गः विधिः शख्यः बाधितुं । अन्तरङ्गानपि विधीन्बहिरङ्गः विधिः बाधते गोमत्प्रियः इति यथा । क्रियते तत्र यत्नः : प्रत्ययोत्तरपदयोः च इति । ननु च इह अपि क्रियते : न बहुव्रीहौ इति । अस्ति अन्यतेतस्य वचने प्रयोजनं । किं । प्रियविश्वाय । उपसर्जनप्रतिषेधेन अपि एतत्सिद्धं । अयं खलु अपि बहुव्रीहिः अस्ति एव प्राथमकल्पिकः यस्मिनैकपद्यं ऐकस्वर्यं ऐकविभक्तिकत्वं च । अस्ति तादर्थ्यात्ताच्छब्द्यं : बहुव्रीह्यर्थानि पदानि बहुव्रीहिः इति । तत्यत्तादर्थ्यात्ताच्छब्द्यं तस्य इदं ग्रहणं । गोनर्दीयः आह (कात्यायन वार्तिक)अकच्स्वरौ तु कर्तव्यौ प्रत्यङ्गं मुक्तसंशयौ (वार्तिकान्त)। त्वकत्पितृकः मकत्पितृकः इति एव भवितव्यं इति ।
पाणिनीयसूत्र १,१।२९।२) कि.,९१।२२-९२।५ रो.,२९३-२९४ (कात्यायन वार्तिक)प्रतिषेधे भूतपूर्वस्य उपसङ्ख्यानम्(वार्तिकान्त) । प्रतिषेधे भूतपूर्वस्य उपसङ्ख्यानं कर्तव्यं । आढ्यः भूतपूर्वः आढ्यपूर्वः , आढ्यपूर्वाय देहि इति । (कात्यायन वार्तिक)प्रतिषेधे भूतपूर्वस्य उपसङ्ख्यानानर्थक्यं पूर्वादीनां व्यवस्थायां इति वचनात्(वार्तिकान्त) । प्रतिषेधे भूतपूर्वस्य उपसङ्ख्यानं नर्थकं । किं कारणं । पूर्वादीनां व्यवस्थायां इति वचनात। पूर्वादीनां व्यवस्थायां सर्वनामस्ञ्ज्ञा उच्यते । न च अत्र व्यवस्था गम्यते ।
पाणिनीयसूत्र १,१।३०) कि.,९२। ७-१४ रो.,२९४ समासे इति वर्तमाने पुनः समासग्रहणं किमर्थं । अयं तृतीयासमासः अस्ति एव प्राथमकल्पिकः यस्मिनैकपद्यं ऐकस्वर्यं ऐकविभक्तिकत्वं च । अस्ति तादर्थ्यात्ताच्छब्द्यं : तृतीयासमासार्थानि पदानि तृतीयासमासः इति । तत्यत्तादर्थ्यात्ताच्छब्द्यं तस्य इदं ग्रहणं । अथ वा समसे इति वर्तमाने पुनः समासग्रहणस्य एतत्प्रयोजनं : योगाङ्गं यथा उपजायेत । सति योगाङ्गे योगविभागः करिष्यते । तृतीया । तृतीयासमासे सर्वादीनि सर्वनामसञ्ज्ञानि न भवन्ति । मासपूर्वाय देहि संवत्सरपूर्वाय देहि । ततः असमासे । असमासे च तृतीयायाः सर्वादीनि सर्वनामसञ्ज्ञानि न भवन्ति । मासेन पूर्वाय इति ।
पाणिनीयसूत्र १,१।३२) कि.,९२।१६ रो.,२९५ जसः कार्यं प्रति विभाषा , अकच्हि न भवति ।
पाणिनीयसूत्र १,१।३४) कि.,९२।१९-९३।६ रो.,२९५-२९७ (कात्यायन वार्तिक)अवरादीनां च पुनः सूत्रपाठे ग्रहणानर्थक्यं गणे पठितत्वात्(वार्तिकान्त) । अवरादीनां च पुनः सूत्रपाठे ग्रहणं अनर्थकं । किं कारणं । गणे पठितत्वात। गणे हि एतानि पठ्यन्ते । कथं पुनः ज्ञायते सः पूर्वः पाठः अयं पुनः पाठः इति । तानि हि पूर्वादीनि इमानि अवरादीनि । इमानि अपि पूर्वादीनि । एवं तर्हि आचार्यप्रवृत्तिः ज्ञापयति सः पूर्वः पाठः अयं पुनः पाठः इति यतयं पूर्वादिभ्यः नवभ्यः वा इति नवग्रहणं करोति । नव एव पूर्वादीनि । इदं तर्हि प्रयोजनं : व्यवस्थायां असञ्ज्ञायां इति वक्ष्यामि इति । एततपि न अस्ति प्रयोजनं । एवंविशिष्टानि एव एतानि गणे पठ्यन्ते । इदं तर्हि प्रयोजनं द्व्यादिपर्युदासेन पर्युदासः मा भूतिति । एततपि न अस्ति प्रयोजनं । आचार्यप्रवृत्तिः ज्ञापयति न एषां द्व्यादिपर्युदासेन पर्युदासः भवति इति यतयं पूर्वत्र असिद्धं इति निपातनं करोति । वार्त्तिककारः च पठति : जश्भावातिति चेतुत्तरत्र अभावातपवादप्रसङ्गः इति । इदं तर्हि प्रयोजनं जसि विभाषां वक्ष्यामि इति ।
पाणिनीयसूत्र १,१।३५) कि.,९३।८-९ रो.,२९७-२९८ आख्याग्रहणं किमर्थं । ज्ञातिधनपर्यायवाची यः स्वशब्दः तस्य यथा स्यात। इह मा भूतः स्वे पुत्राः स्वाः पुत्राः स्वे गावः स्वाः गावः ।
पाणिनीयसूत्र १,१।३६।१) कि.,९३।११-१७ रो.,२९८-२९९ (कात्यायन वार्तिक)उपसंव्यानग्रहणं अनर्थकं बहिर्योगेण कृतत्वात्(वार्तिकान्त) । उपसंव्यानग्रहणं अनर्थकं । किं कारणं । बहिर्योगेण कृतत्वात। बहिर्योगे इति एव सिद्धं । (कात्यायन वार्तिक)न वा शाटकयुगाद्यर्थम्(वार्तिकान्त) । न वा अनर्थकं । किं कारणं । शाटकयुगाद्यर्थं । शाटकयुगाद्यर्थं तर्हि इदं वक्तव्यं यत्र एतत्न ज्ञायते किं अन्तरीयं किं उत्तरीयं इति। अत्र अपि यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति निर्ज्ञातं तस्य भवति इदं अन्तरीयं इदं उत्तरीयं इति ।
पाणिनीयसूत्र १,१।३६।२) कि.,९३।१८-२३ रो.,२९९ अपुरि इति वक्तव्यं । इह मा भूतः अन्तरायां पुरि वसति इति । (कात्यायन वार्तिक)वाप्रकरणे तीयस्य ङित्सु उपसङ्ख्यानं (वार्तिकान्त)। वाप्रकरणे तीयस्य ङित्सु उपसङ्ख्यानं कर्तव्यं : द्वितीयायै द्वितीयस्यै तृतीयायै तृतीयस्यै । विभाषा द्वितीयातृतीयाभ्यां इति एतत्न वक्तव्यं भवति । किं पुनः अत्र ज्यायः । उपसङ्ख्यानं एव अत्र ज्यायः । इदं अपि सिद्धं भवति : द्वितीयाय द्वितीयस्मै तृतीयाय तृतीयस्मै ।
पाणिनीयसूत्र १,१।३७) कि.,९४।२-८ रो.,२९९-३०० किमर्थं पृथक्ग्रहणं स्वरादीनां क्रियते न चादिषु एव पठ्येरन। चादीनां वै असत्त्ववचनानां निपातसञ्ज्ञा स्वरादीनां पुनः सत्त्ववचनानां असत्त्ववचनानां च । अथ किमर्थं उभे सञ्ज्ञे क्रियेते न निपात्सञ्ज्ञा एव स्यात। न एवं शक्यं । निपातः एकाचनाङिति प्रगृह्यसञ्ज्ञा उक्ता । सा स्वरादीनां अपि एकाचां प्रसज्येत । एवं तर्हि अव्ययसञ्ज्ञा एव अस्तु । तत्च अशक्यं । वक्ष्यति एततः अव्यये नञ्कुनिपातानां इति । तत्गरीयसा न्यासेन परिगणनं कर्तव्यं स्यात। तस्मात्पृथक्ग्रहणं कर्तव्यं उभे च सञ्ज्ञे कर्तव्ये ।
पाणिनीयसूत्र १,१।३८।१) कि.,९४।१०-१९ रो.,३००-३०१ (कात्यायन वार्तिक)असर्वविभक्तौ अविभक्तिनिमित्तस्य उपसङ्ख्यानम्(वार्तिकान्त) । असर्वविभक्तौ अविभक्तिनिमित्तस्य उपसङ्ख्यानं कर्तव्यं : नाना विना । किं पुनः कारणं न सिध्यति । (कात्यायन वार्तिक)सर्वविभक्तिः हि अविशेषात्(वार्तिकान्त)। सर्वविभक्तिः हि एषः भवति । किं कारणं । अविशेषात। अविशेषेण विहितत्वात। (कात्यायन वार्तिक)त्रलादीनां च उपसङ्ख्यानम्(वार्तिकान्त) । त्रलादीनां च उपसङ्ख्यानं कर्तव्यं । तत्र यत्र ततः यतः । ननु च विशेषेण एते विधीयन्ते : पञ्चम्याः तसिल्सप्तम्याः त्रलिति । वक्ष्यति एततः इतराभ्यः अपि दृश्यन्ते इति ।
पाणिनीयसूत्र १,१।३८।२) कि.,९४।१८-९५।११ रो.,३०२-३०३ यदि पुनः अविभक्तिः शब्दः अव्ययसञ्ज्ञः भवति इति उच्येत । (कात्यायन वार्तिक)अविभक्तौ इतरेतराश्रयत्वातप्रसिद्धिः(वार्तिकान्त) । अविभक्तौ इतरेतराश्रयत्वातप्रसिद्धिः सञ्ज्ञायाः । का इतरेतराश्रयता । सति अविभक्तित्वे सञ्ज्ञया भवितव्यं सञ्ज्ञया च अविभक्तित्वं भाव्यते । ततितरेतराश्रयं भवति , इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते । (कात्यायन वार्तिक)अलिङ्गं असङ्ख्यं इति वा(वार्तिकान्त) । अथ वा अलिङ्गं असङ्ख्यं अव्ययं इति वक्तव्यं । एवं अपि इतरेतराश्रयं एव भवति । का इतरेतराश्रयता । सति अलिङ्गासङ्ख्यत्वे सञ्ज्ञया भवितव्यं सञ्ज्ञया च अलिङ्गासङ्ख्यत्वं भाव्यते । ततितरेतराश्रयं भवति , इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते । न इदं वाचनिकं अलिङ्गता असङ्ख्यता च । किं तर्हि । स्वाभाविकं एतत। तत्यथा : समानं ईहमानानां अधीयानानां च के चितर्थैः युज्यन्ते अपरे न । तत्र किं अस्माभिः कर्तुं शक्यं । स्वाभाविकं एतत। तत्तर्हि वक्तव्यं अलिङ्गं असङ्ख्यं इति । न वक्तव्यं । (कात्यायन वार्तिक)सिद्धं तु पाठात्(वार्तिकान्त) । पाठात्वा सिद्धं एतत। कथं पाठः कर्तव्यः । तसिलादयः प्राक्पासपः , शस्प्रभृतयः प्राक्समासान्तेभ्यः , मान्तः , कृत्वोर्थः , तसिवती , नानाञौ इति ।
पाणिनीयसूत्र १,१।३८।३) कि.,९५।१२-२२ रो.,३०३-३०४ अथ वा पुनः अस्तु अविभक्तिः शब्दः अव्ययसञ्ज्ञः भवति इति एव । ननु च उक्तं अविभक्तौ इतरेतराश्रयत्वातप्रसिद्धिः इति । न एषः दोषः । इदं तावतयं प्रष्टव्यः । यदि अपि वैयाकरणाः विभक्तिलोपं आरभमाणाः अविभक्तिकान्शब्दाञ्प्रयुञ्जते ये तु एते वैयाकरणेभ्यः अन्ये मनुष्याः कथं ते अविभक्तिकान्शब्दान्प्रयुञ्जते इति । अभिज्ञाः च पुनः लौकिकाः एकत्वादीनां अर्थानां । आतः च अभिज्ञाः : अन्येन हि वस्नेन एकं गां क्रीणन्ति , अन्येन द्वौ , अन्येन त्रीन। अभिज्ञाः च न च प्रयुञ्जते । ततेततेवं सन्दृश्यतां : अर्थरूपं एततेवञ्जातीयकं येन अत्र विभक्तिः न भवति इति । तत्च अपि एततेवं अनुगम्यमानं दृश्यतां : किं चितव्ययं विभक्त्यर्थप्रधानं किं चित्क्रियाप्रधानं । उच्चैः , नीचैः इति विभक्त्यर्थप्रधानं , हिरुक्पृथकिति क्रियाप्रधानं । तद्धितः च अपि कः चित्विभक्त्यर्थप्रधानः कः चित्क्रियाप्रधानः । तत्र यत्र इति विभक्त्यर्थप्रधानः , नाना विन इति क्रियाप्रधानः । न च एतयोः अर्थयोः लिङ्गसङ्ख्याभ्यां योगः अस्ति ।
पाणिनीयसूत्र १,१।३८।४) कि.,९५।२३-९६।५ रो.,३०४-३०७ अथ अपि असर्वविभक्तिः इति उच्यते एवं अपि न दोषः । कथं । इदं च अपि अद्यत्वे अतिबहु क्रियते : एकस्मिनेकवचनं , द्वयोः द्विवचनं , बहुषु बहुवचनं इति । कथं तर्हि । एकवचनं उत्सर्गः करिष्यते । तस्य द्विबह्वोः अर्थयोः द्विवचनबहुवचने बाधके भविष्यतः । न च अपि एवं विग्रहः करिष्यते : न सर्वाः असर्वाः , असर्वाः विभक्तयः अस्मातिति । कथं तर्हि । न सर्वा असर्वा , असर्वा विभक्तिः अस्मातिति । त्रिकं पुनः विभक्तिसञ्ज्ञं । एवं गते कृति अपि तुल्यं एतत्मान्तस्य कार्यं ग्रहणं न तत्र । ततः परे च अभिमताः कार्याः त्रयः कृदर्थाः ग्रहणेन योगाः । कृत्तद्धितानां ग्रहणं तु कार्यं सङ्ख्याविशेषं हि अभिनिश्रिताः ये । तेषां प्रतिषेधः भवति इति वक्तव्यं । इह मा भूतः एकः , द्वौ , बहवः इति । तस्मात्स्वरादिग्रहणं च कार्यं कृत्तद्धितानां च पाठे ।
पाणिनीयसूत्र १,१।३८।५) कि.,९६।६-१७ रो.,३०७-३०८ पाठेन इयं अव्ययसञ्ज्ञा क्रियते । सा इह न प्राप्नोति : परमोच्चैः , परमनीचैः इति । तदन्तविधिना भविष्यति । इह अपि तर्हि प्राप्नोति : अत्युच्चैः अत्युच्चैसौ अत्युच्चैसः इति । उपसर्जनस्य न इति प्रतिषेधः भविष्यति । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । सर्वनामसञ्ज्ञायां प्रकृतः प्रतिषेधः इह अनुवर्तिष्यते । सः वै तत्र प्रत्याख्यायते । यथा सः तत्र प्रत्याख्यायते इह अपि तथा शक्यः प्रत्याख्यातुं । कथं सः तत्र प्रत्याख्यायते । महती इयं सञ्ज्ञा क्रियते । इयं अपि च महती सञ्ज्ञा क्रियते । सञ्ज्ञा च नाम यतः न लघीयः । कुतः एतत। लघ्वर्थं हि सञ्ज्ञाकरणं । तत्र महत्याः सञ्ज्ञायाः करणे एतत्प्रयोजनं अन्वर्थसञ्ज्ञा यथा विज्ञायेत : न व्येति इति अव्ययं इति । क्व पुनः न व्येति । स्त्रीपुंनपुंसकानि सत्त्वगुणाः एकत्वद्वित्वबहुत्वानि च । एतानर्थान्के चित्वियन्ति के चित्न वियन्ति । ये न वियन्ति तदव्ययं । सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु वचनेषु च सर्वेषु यत्न व्येति ततव्ययं ।
पाणिनीयसूत्र १,१।३९।१) कि.,९६।१९-९७।२ रो.,३०८-३१० कथं इदं विज्ञायते : कृत्यः मान्तः इति आहोस्वित्कृदन्तं यत्मान्तं इति । किं च अतः । यदि विज्ञायते कृत्यः मान्तः इति कारयां चकार हारयां चकार इति अत्र न प्राप्नोति । अथ विज्ञायते कृदन्तं यत्मान्तं इति प्रतामौ प्रतामः इति अत्र अपि प्राप्नोति । यथा इच्छसि तथा अस्तु । अस्तु तावत्कृत्यः मान्तः इति । कथं कारयां चकार हारयां चकार इति । किं पुनः अत्र अव्ययसञ्ज्ञया प्रार्थ्यते । अव्ययातिति लुक्यथा स्यात। मा भूतेवं । आमः इति एवं भविष्यति । न सिध्यति । लिग्रहणं तत्र अनुवर्तते । लिग्रहणं निवर्तिष्यते । यदि निवर्तते प्रत्ययमात्रस्य लुक्प्राप्नोति । इष्यते च प्रत्ययमात्रस्य । आतः च इष्यते । एवं हि आह : कृञ्च अनुप्रयुज्यते लिटि इति । यदि च प्रत्ययमात्रस्य लुक्भवति ततः एततुपपन्नं भवति । अथ वा पुनः अस्तु कृदन्तं यत्मान्तं इति । कथं प्रतामौ प्रतामः इति । आचार्यप्रवृत्तिः ज्ञापयति न प्रत्ययलक्षणेन अव्ययसञ्ज्ञा भवति इति यतयं प्रशान्शब्दं स्वरादिषु पठति ।
पाणिनीयसूत्र १,१।३९।२) कि.,९७।३-१००।४ रो.,३१०-३१८ (कात्यायन वार्तिक)कृत्मेजन्तः च अनिकारोकारप्रकृतिः(वार्तिकान्त) । कृत्मेजन्तः च अनिकारोकारप्रकृतिः इति वक्तव्यं । इह मा भूतः आधये , आधेः , चिकीर्षवे , चिकीर्षोः इति । (कात्यायन वार्तिक)अनन्यप्रकृतिः इति वा(वार्तिकान्त) । अथ वा अनन्यप्रकृतिः कृतव्ययसञ्ज्ञः भवति इति वक्तव्यं । किं पुनः अत्र ज्यायः । अनन्यप्रकृतिवचनं एव ज्यायः । इदं अपि सिद्धं भवति : कुम्भकारेभ्यः , नगरकारेभ्यः इति । तत्तर्हि वक्तव्यं । (कात्यायन वार्तिक)न वा सन्निपातलक्षणः विधिः अनिमित्तं तद्विघातस्य(वार्तिकान्त) । न वा वक्तव्यं । किं कारणं । सन्निपातलक्षणः विधिः अनिमित्तं तद्विघातस्य इति एषा परिभाषा कर्तव्या । कः पुनः अत्र विशेषः एषा वा परिभाषा क्रियेत अनन्यप्रकृतिः इति वा उच्येत । अवश्यं एषा परिभाषा कर्तव्या । बहूनि एतस्याः परिभाषायाः प्रयोजनानि । कानि पुनः तानि । (कात्यायन वार्तिक)प्रयोजनं ह्रस्वतं तुग्विधेः ग्रामणिकुलम्(वार्तिकान्त) । ग्रामणिकुलं , सेनानिकुलं इति अत्र ह्रस्वत्वे कृते ह्रस्वस्य पिति कृति तुक्भवति इति तुक्प्राप्नोति । सन्निपातलक्षणः विधिः अनिमित्तं तद्विघातस्य इति न दोषः भवति । न एततस्ति प्रयोजनं । बहिरङ्गं ह्रस्वत्वं । अन्तरङ्गः तुक। असिद्धं बहिरङ्गं अन्तरङ्गे । (कात्यायन वार्तिक)नलोपः वृत्रहभिः(वार्तिकान्त) । वृत्र्हभिः , भ्रूण्हभिः इति अत्र नलोपे कृते ह्रस्वस्य पिति कृति तुक्भवति इति तुक्प्राप्नोति । सन्निपातलक्षणः विधिः अनिमित्तं तद्विघातस्य इति न दोषः भवति । एततपि न अस्ति प्रयोजनं । असिद्धः नलोपः । तस्य असिद्धत्वात्न भविष्यति । (कात्यायन वार्तिक)उदुपधत्वं अकित्त्वस्य निकुचिते(वार्तिकान्त) । उदुपधत्वं अकित्त्वस्य अनिमित्तं । क्व । निकुचिते । निकुचितः इति अत्र नलोपे कृते उदुपधात्भावादिकर्मणोः अन्यतरस्यां इति अकित्त्वं प्राप्नोति । सन्निपातलक्षणः विधिः अनिमित्तं तद्विघातस्य इति न दोषः भवति । एततपि न अस्ति प्रयोजनं । अस्तु अत्र अकित्त्वं । न धातुलोपे आर्धधातुके इति प्रतिषेधः भविष्यति । (कात्यायन वार्तिक)नाभावः यञि दीर्घत्वस्य अमुना(वार्तिकान्त) । नाभावः यञि दीर्घत्वस्य अस्निमित्तं । क्व । अमुना । नाभावे कृते अतः दीर्घः यञि सुपि च इति दीर्घत्वं प्राप्नोति । सन्निपातलक्षणः विधिः अनिमित्तं तद्विघातस्य इति न दोषः भवति । एततपि न अस्ति प्रयोजनं । वक्ष्यति एततः न मु टादेशे इति । (कात्यायन वार्तिक)आत्त्वं कित्त्वस्य उपादास्त(वार्तिकान्त) । आत्त्वं कित्त्वस्य अनिमित्तं । क्व । उपादास्त अस्य स्वरः शिक्षकस्य इति । आत्त्वे कृते स्थाघ्वोः इत्च इति इत्त्वं प्राप्नोति । सन्निपातलक्षणः विधिः अनिमित्तं तद्विघातस्य इति न दोषः भवति । एततपि न अस्ति प्रयोजनं । उक्तं एततः दीङः प्रतिषेधः स्थाघ्वोः इत्त्वे इति । तिसृचतसृत्वं ङीब्विधेः । तिसृचतसृत्वं ङीब्विधेः अनिमित्तं । तिस्रः तिष्ठन्ति चतस्रः तिष्ठन्ति । तिसृचतसृभावे कृते ऋन्नेभ्यः ङीपिति ङीप्प्राप्नोति । सन्निपातलक्षणः विधिः अनिमित्तं तद्विघातस्य इति न दोषः भवति । एततपि न अस्ति प्रयोजनं । आचार्यप्रवृत्तिः ज्ञापयति न तिसृचतसृभावे कृते ङीप्भवति इति यतयं न तिसृचतसृ इति नामि दीर्घत्वप्रतिषेधं शास्ति । इमानि तर्हि प्रयोजनानि : शतानि सहस्राणि । नुमि कृते ष्णान्ता षटित्षट्सञ्ज्ञा प्राप्नोति । सन्निपातलक्षणः विधिः अनिमित्तं तद्विघातस्य इति न दोषः भवति । शकटौ पद्धतौ । अत्त्वे कृते अतः इति टाप्प्राप्नोति । सन्निपातलक्षणः विधिः अनिमित्तं तद्विघातस्य इति न दोषः भवति । इयेष , उवोष । गुणे कृते इजादेः च गुरुमतः अनृच्छः इति आं प्राप्नोति । सन्निपातलक्षणः विधिः अनिमित्तं तद्विघातस्य इति न दोषः भवति । (कात्यायन वार्तिक)तस्य दोषः वर्णाश्रयः प्रत्ययः वर्णविचालस्य(वार्तिकान्त) । तस्य एतस्य लक्षणस्य दोषः वर्णाश्रयः प्रत्ययः वर्णविचालस्य अनिमित्तं स्यात। क्व । अत इञः दाक्षिः , प्लाक्षिः । न प्रत्ययः सन्निपातलक्षणः । अङ्गसञ्ज्ञा तर्हि अनिमित्तं स्यात। (कात्यायन वार्तिक)आत्त्वं पुग्विधेः क्रापयति(वार्तिकान्त) । आत्त्वं पुग्विधेः अनिमित्तं स्यात। क्व । क्रापयति इति । (कात्यायन वार्तिक)पुघ्रस्वत्वस्य अदीदपत्(वार्तिकान्त) । पुख्रस्वत्वस्य अनिमित्तं स्यात। क्व । अदीदपतिति । (कात्यायन वार्तिक)त्यदाद्यकारः टाब्विधेः(वार्तिकान्त) । त्यदाद्यकारः टाब्विधेः अनिमित्तं स्यात। क्व । या सा । (कात्यायन वार्तिक)इड्विधिः आकारलोपस्य पपिवान्(वार्तिकान्त) । इड्विधिः आकारलोपस्य अनिमित्तं स्यात। क्व । पपिवान्तस्थिवानिति । (कात्यायन वार्तिक)मतुब्विभक्त्युदात्तत्वं पूर्वनिघातस्य(वार्तिकान्त) । मतुब्विभक्त्युदात्तत्वं पूर्वनिघातस्य अनिमित्तं स्यात। क्व । अग्निमान्वायुमान्परमवाचा परमवाचे । (कात्यायन वार्तिक)नदीह्रस्व्रत्वं सम्बुद्धिलोपस्य(वार्तिकान्त) । नदीह्रस्व्रत्वं सम्बुद्धिलोपस्य अनिमित्तं स्यात। क्व । नदि कुमारि किशोरि ब्राह्मणि ब्रह्मबन्धु । ह्रस्वत्वे कृते एङ्ह्रस्वात्सम्बुद्धेः इति लोपः न प्राप्नोति । मा भूतेवं । ङ्यन्तातिति एवं भविष्यति । न सिध्यति । दीर्घातिति उच्यते । ह्रस्वान्तात्च न प्राप्नोति । इदं इह सम्प्रधार्यं : ह्रस्वत्वं क्रियतां सम्बुद्धिलोपः इति किं अत्र कर्तव्यं । परत्वात्ह्रस्वत्वं । नित्यः सम्बुद्धिलोपः । कृते अपि ह्रस्वत्वे प्राप्नोति अकृते अपि । अनित्यः सम्बुद्धिलोपः । न हि कृते ह्रस्वत्वे प्राप्नोति । किं कारणं । सन्निपातलक्षणः विधिः अनिमित्तं तद्विघातस्य इति । एते दोषाः समाः भूयांसः वा । तस्मात्न अर्थः अनया परिभाषया । न हि दोषाः सन्ति इति परिभाषा न कर्तव्या लक्षणं वा न प्रणेयं । न हि भिक्षुकाः सन्ति इति स्थाल्यः न अधिश्रीयन्ते न च मृगाः सन्ति इति यवाः न उप्यन्ते । दोषाः खलु अपि साकल्येन परिगणिताः प्रयोजनानां उदाहरणमात्रं । कुतः एतत। न हि दोषाणां लक्षणं अस्ति । तस्मात्यानि एतस्याः परिभाषायाः प्रयोजनानि तदर्थं एषा परिभाषा कर्तव्या प्रतिविधेयं च दोषेषु ।
पाणिनीयसूत्र १,१।४१) कि.,१००।६-२६ रो.,३१८-३२० (कात्यायन वार्तिक)अव्ययीभावस्य अव्ययत्वे प्रयोजनं लुग्मुख्स्वरोपचाराः(वार्तिकान्त) । अव्ययीभावस्य अव्ययत्वे प्रयोजनं किं । लुग्मुख्स्वरोपचाराः । लुकः उपाग्नि प्रत्यग्नि । अव्ययातिति लुक्सिद्धः भवति । मुखस्वरः । उपाग्निमुखः , प्रत्यग्निमुखः । न अव्ययदिक्शब्द्गोमहत्स्थूलपृथुवत्सेभ्यः इति प्रतिषेधः सिद्धः भवति । उपचारः : उपपयःकारः , उपपयःकामः इति । अतः कृकमिकंसकुम्भपात्रकुशाकर्णीषु अनव्ययस्य इति प्रतिषेधः सिद्धः भवति । किं पुनः इदं परिगणनं आहोस्वितुदाहरणमात्रं । परिगणनं इति आह । अपि खलु अपि आहुः । यतन्यतव्ययीभावस्य अव्ययकृतं प्राप्नोति तस्य प्रतिषेधः वक्तव्यः इति । किं पुनः तत। पराङ्गवद्भावः । पराङ्गवद्भावे अव्ययप्रतिषेधः चोदितः उच्चैः अधीयान नीचैः अधीयान इति एवमर्थं । सः इह अपि प्राप्नोति : उपाग्नि अधीयान प्रत्यग्नि अधीयान । अकचि अव्ययग्रहणं क्रियते उच्चकैः , नीचकैः इति एवमर्थं । ततिह अपि प्राप्नोति : उपाग्निकं , प्रत्यग्निकं इति । मुमि अव्ययप्रतिषेधः उच्यते दोषामन्यं अहः , दिवामन्या रात्रिः इति एवमर्थं । सः इह अपि प्राप्नोति : औपकुम्भम्मन्यः , उपमणिकम्मन्यः । अस्य च्वौ अव्ययप्रतिषेधः उच्यते दोषाभूतं अहः , दिवाभूता रात्रिः इति एवमर्थं । सः इह अपि प्राप्नोति : उपकुम्भीभूतं उपमणिकीभूतं । यदि परिगणनं क्रियते न अर्थः अव्ययीभावस्य अव्ययसञ्ज्ञया । कथं यानि अव्ययीभावस्य अव्ययत्वे प्रयोजनानि । न एतानि सन्ति । यत्तावतुच्यते लुकिति : आचार्यप्रवृत्तिः ज्ञापयति भवति अव्ययीभावात्लुकिति यदयं न अव्ययीभावाततः इति प्रतिषेधं शास्ति । उपचारः : अनुत्तरपदस्थस्य इति वर्तते । तत्र मुखस्वरः एकः प्रयोजयति । न च एकं प्रयोजनं योगारम्भं प्रयोजयति । यदि एतावत्प्रयोजनं स्यात्तत्र एव अयं ब्रूयात्नाव्ययातव्ययीभावात्च इति ।
पाणिनीयसूत्र १,१।४२-४३) कि.,१०१।२-१६ रो.,३२०-३२२ (कात्यायन वार्तिक)शि सर्वनामस्थानं सुटनपुंसकस्य इति चेत्जसि शिप्रतिषेधः(वार्तिकान्त) । शि सर्वनामस्थानं सुटनपुंसकस्य इति चेत्जसि शेः प्रतिषेधः प्राप्नोति : कुण्डानि तिष्ठन्ति वनानि तिष्ठन्ति । असमर्थसमासः च अयं द्रष्टव्यः अनपुंसकस्य इति । न हि नञः नपुंसकेन सामर्थ्यम। केन तर्हि । भवतिना : न भवति नपुंसकस्य इति । यत्तावतुच्यते शि सर्वनामस्थानं सुटनपुंसकस्य इति चेत्जसि शिप्रतिषेधः इति । न अप्रतिषेधात। न अयं प्रसज्यप्रतिषेधः : नपुंसकस्य न इति । किं तर्हि । पर्युदासः अयं : यतन्यत्नपुंसकातिति । नपुंसके अव्यापारः । यदि केन चित्प्राप्नोति तेन भविष्यति । पूर्वेण च प्राप्नोति । अप्राप्तेः वा । अथ वा अनन्तरा या प्राप्तिः सा प्रतिषिध्यते । कुतः एतत। अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति । पूर्वा प्राप्तिः अप्रतिषिद्धा । तया भविष्यति । ननु च इयं प्राप्तिः पूर्वां प्राप्तिं बाधते । न उत्सहते प्रतिषिद्धा सती बाधितुं । यतपि उच्यते । असमर्थसमासः च अयं द्रष्टव्यः इति यदि अपि वक्तव्यः अथ वा एतर्हि बहूनि प्रयोजनानि । कानि । असूर्यम्पश्यानि मुखानि , अपुनर्गेयाः श्लोकाः , अश्राद्धभोजी ब्राह्मणः इति ।
पाणिनीयसूत्र १,१।४४।१) कि.,१०१।१८-१०२।१० रो.,३२२-३२३ (कात्यायन वार्तिक)न वा इति विभाषायां अर्थसञ्ज्ञाकरणम्(वार्तिकान्त) । न वा इति विभाषायां अर्थस्य सञ्ज्ञा कर्तव्या । नवाशब्दस्य यः अर्थः तस्य सञ्ज्ञा भवति इति वक्तव्यं । किं प्रयोजनं । (कात्यायन वार्तिक)शब्दसञ्ज्ञायां हि अर्थासम्प्रत्ययः यथा अन्यत्र(वार्तिकान्त) । शब्दसञ्ज्ञायां हि सत्यां अर्थस्य असम्प्रत्ययः स्यात्यथा अन्यत्र । अन्यत्र अपि शब्दसञ्ज्ञायां शब्दस्य सम्प्रत्ययः भवति न अर्थस्य । क्व अन्यत्र । दाधाः घु अदाप्तरप्तमपौ घः इति घुग्रहणेषु घग्रहणेषु च शब्दस्य सम्प्रत्ययः भवति न अर्थस्य । तत्तर्हि वक्तव्यं । न वक्तव्यं । (कात्यायन वार्तिक)इतिकरणः अर्थनिर्देशार्थः(वार्तिकान्त) । इतिकरणः क्रियते । सः अर्थनिर्देशार्थः भविष्यति । किं गतं एततितिना आहोस्वित्शबाधिक्यातर्थाधिक्यं । गतं इति आह । कुतः । लोकतः । तत्यथा लोके गौः अयं इति आह इति गोशब्दातितिकरणः परः प्रयुज्यमानः गोशब्दं स्वस्मात्पदार्थात्प्रच्यावयति । सः असौ स्वस्मात्पदार्थात्प्रच्युतः या असौ अर्थपदार्थकता तस्याः शब्दपदार्थकः सम्पद्यते । एवं इह अपि नवाशब्दातितिकरणः परः प्रयुज्यमानः नवाशब्दं स्वस्मात्पदार्थात्प्रच्यावयति । सः असौ स्वस्मात्पदार्थात्प्रच्युतः या असौ शब्दपदार्थकता तस्याः लौकिकं अर्थं सम्प्रत्याययति । न वा इति यत्गम्यते न वा इति यत्प्रतीयते इति ।
पाणिनीयसूत्र १,१।४४।२) कि.,१०२।११-१०३।२ रो.,३२४-३२५ (कात्यायन वार्तिक)समानशब्दप्रतिषेधः(वार्तिकान्त) । समानशब्दानां प्रतिषेधः वक्तव्यः : नवा कुण्डिका नवा घटिका इति । किं च स्यात्यदि एतेषां अपि विभाषासञ्ज्ञा स्यात। विभाषा दिक्समासे बहुव्रीहौ : दक्षिणपूर्वस्यां शालायां । अचिरकृतायां सम्प्रत्ययः स्यात। (कात्यायन वार्तिक)न वा विधिपूर्वकत्वात्प्रतिषेधसमप्रत्ययः यथा लोके(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । विधिपूर्वकत्वात। विधाय किं चित्न वा इति उच्यते । तेन प्रतिषेधवाचिनः समप्रत्ययः भवति । तत्यथा लोके : ग्रामः भवता गन्तव्यः न वा । न इति गम्यते । अस्ति कार्णं येन लोके प्रतिषेधवाचिनः समप्रत्ययः भवति । किं कारणं । विलिङ्गं हि भवान्लोके निर्देशं करोति । आङ्ग हि समानलिङ्गः निर्देशः क्रियतां प्रत्यग्रवाचिनः सम्प्रत्ययः भविष्यति । तत्यथा : ग्रामः भवता गन्तव्यः नवः । प्रत्यग्रः इति गम्यते । एतत्च एव न जानीमः : क्व चित्व्याकरणे समानलिङ्गः निर्देशः क्रियते इति । अपि च कामचारः प्रयोक्तुः शब्दानां अभिसम्बन्धे । तत्यथा : यवागूः भवता भोक्तव्या नवा । यदा यवागूशब्दः भुजिना अभिसम्बध्यते भुजिः नवाशब्देन तदा प्रतिषेधवाचिनः सम्प्रत्ययः भवति : यवागूः भवता भोक्तव्या नवा । न इति गम्यते । यदा यवागूशब्दः नवाशब्देन अभिसम्बध्यते न भुजिना तदा प्रत्यग्रवाचिनः सम्प्रत्ययः भवति : यवागूः नवा भवता भोक्तव्या । प्रत्यग्रा इति गम्यते । न च इह वयं विभाषाग्रहणेन सर्वादीनि अभिसम्बध्नीमः : दिक्समासे बहुव्रीहौ सर्वादीनि विभाषा भवन्ति इति । किं तर्हि । भवतिः अभिसम्बध्यते : दिक्समासे बहुव्रीहौ सर्वादीनि भवन्ति विभाषा इति ।
पाणिनीयसूत्र १,१।४४।३) कि.,१०३।३-१०४।७ रो.,३२५-३२८ (कात्यायन वार्तिक)विध्यनित्यत्वं अनुपपन्नं प्रतिषेधसञ्ज्ञाकरणात्(वार्तिकान्त) । विध्यनित्यत्वं न उपपद्यते : शुशाव , शुशुवतुः , शुशुवुः , शिश्वाय , शिश्वियतुः , शिश्वियुः । किं कारणं । प्रतिषेधसञ्ज्ञाकरणात। प्रतिषेधस्य इयं सञ्ज्ञा क्रियते । तेन विभाषाप्रदेशेषु प्रतिषेधस्य एव सम्प्रत्ययः स्यात। (कात्यायन वार्तिक)सिद्धं तु प्रसज्यप्रतिषेधात्(वार्तिकान्त) । सिद्धं एतत। कथं । प्रसज्यप्रतिषेधात। प्रसज्य किं चित्न वा इति उच्यते । तेन उभयं भविष्यति । (कात्यायन वार्तिक)विप्रतिषिद्धं तु(वार्तिकान्त) । विप्रतिषिद्धं तु भवति । अत्र न ज्ञायते : केन अभिप्रायेण प्रसजति केन निवृत्तिं करोति इति । (कात्यायन वार्तिक)न वा प्रसङ्गसामर्थ्यातन्यत्र प्रतिषेधविषयात्(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । प्रसङ्गसामर्थ्यात। प्रसङ्गसामर्थ्यात्च विधिः भविष्यति अन्यत्र प्रतिषेधविषयात्प्रतिषेधसामर्थ्यात्च प्रतिषेधः भविष्यति अन्यत्र विधिविषयात। ततेतत्क्व सिद्धं भवति । या अप्राप्ते विभाषा । या हि प्राप्ते कृतसामर्थ्यः तत्र पूर्वेण विधिः इति कृत्वा प्रतिषेधस्य एव सम्प्रत्ययः स्यात। एततपि सिद्धं । कथं । विभाषा इति महतीसञ्ज्ञा क्रियते । सञ्ज्ञा च नाम यतः न लघीयः । कुतः एतत। लघ्वर्थं हि सञ्ज्ञाकरणं । तत्र महत्याः सञ्ज्ञायाः करणे एतत्प्रयोजनं उभयोः सञ्ज्ञा यथा विज्ञायेत : न इति च वा इति च । तत्र या तावतप्राप्ते विभाषा तत्र प्रतिषेध्यं न अस्ति इति कृत्वा वा इति अनेन विकल्पः भविष्यति । या हि प्राप्ते विभाषा तत्र उभयं उपस्थितं भवति : न इति च वा इति च । तत्र न इति अनेन प्रतिषिद्धे वा इति अनेन विकल्पः भविष्यति । एवं अपि (कात्यायन वार्तिक)विप्रतिषेधयोः युगपद्वचनानुपपत्तिः(वार्तिकान्त) । विप्रतिषेधयोः युगपद्वचनं न उपपद्यते : शुशाव शुशुवतुः शुशुवुः शिश्वाय शिश्वियतुः शिश्वियुः । किं कारणं । (कात्यायन वार्तिक)भवति इति चेत्न प्रतिषेधः(वार्तिकान्त) । भवति इति चेत्प्रतिषेधः न प्राप्नोति । (कात्यायन वार्तिक)न इति चेत्न विधिः(वार्तिकान्त) । न इत्चेत्विधिः न सिध्यति । (कात्यायन वार्तिक)सिद्धं तु पूर्वस्य उत्तरेण बाधितत्वात्(वार्तिकान्त) । सिद्धं एतत। कथं । पूर्वविधिं उत्तर्विधिः बाधते । इतिकरणः अर्थनिर्देशाऋथः इति उक्तं ।
पाणिनीयसूत्र १,१।४४।४) कि.,१०४।८-१०५।१३ रो.,३२८-३३२ (कात्यायन वार्तिक)साध्वनुशासने अस्मिन्यस्य विभाषा तस्य साधुत्वम्(वार्तिकान्त) । साध्वनुशासने अस्मिन्शास्त्रे यस्य विभाषा क्रियते सः विभाषा साधुः स्यात। समासः च एव हि विभाषा । तेन समासस्य एव विभाषा साधुत्वं स्यात। अस्तु । यः साधुः सः प्रयोक्ष्यते। असाधुः न प्रयोक्ष्यते । न च एव हि कदा चित्राजपुरुषः इति अस्यां अवस्थायां असाधुत्वं इष्यते । अपि च (कात्यायन वार्तिक)द्वेधाप्रतिपत्तिः(वार्तिकान्त) । द्वैधं शब्दानां अप्रतिपत्तिः । इच्छामः च पुनः विभाषाप्रदेशेषु द्वैधं शब्दानां प्रतिपत्तिः स्यातिति तत्च न सिध्यति । यस्य पुनः कार्याः शब्दाः विभाषा असौ समासं निर्वर्तयति । यस्य अपि नित्याः शब्दाः तस्य अपि एषः न दोषः । कथं । न विभाषाग्रहणेन साधुत्वं अभिसम्बध्यते । किं तर्हि । समाससञ्ज्ञा अभिसम्बध्यते : समासः इति एषा सञ्ज्ञा विभाषा भवति इति । तत्यथा : मेध्यः पशुः विभाषितः । मेध्यः अनड्वान्विभाषितः इति । न एतत्विचार्यते : अनड्वान्न अनड्वानिति । किं तर्हि आलब्धव्यः न आलब्धव्यः इति । (कात्यायन वार्तिक)कार्ये युगपदन्वाचययौगपद्यम्(वार्तिकान्त) । कार्येषु शब्देषु युगपतन्वाचयेन च यतुच्यते तस्य युगपद्वचनता प्राप्नोति : तव्यत्तव्यानीयरः , ढक्च मण्डूकातिति । यस्य पुनः नित्याः शब्दाः प्रयुक्तानां असौ साधुत्वं अन्वाचष्टे । ननु च यस्य अपि कार्याः तस्य अपि एषः न दोषः । कथं । प्रत्ययः परः भवति इति उच्यते । न च एकस्याः प्रकृतेः अनेकस्य प्रत्ययस्य युगपत्परत्वेन सम्भवः अस्ति । न अपि ब्रूमः प्रत्ययमाला प्राप्नोति । किं तर्हि । कर्तव्यं इति प्रयोक्तव्ये युगपत्द्वितीयस्य तृतीयस्य च प्रयोगः प्राप्नोति । न एषः दोषः । अर्थगत्यर्थः शब्दप्रयोगः । अर्थं सम्प्रत्याययिष्यामि इति शब्दः प्रयुज्यते । तत्र एकेन उक्तत्वात्तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यं उक्तार्थानां अप्रयोगः इति । (कात्यायन वार्तिक)आचार्यदेशशीलने च तद्विषयता(वार्तिकान्त) । आचार्यदेशशीलनेन यतुच्यते तस्य तद्विषयता प्राप्नोति । इकः ह्रस्वः अङ्यः गालवस्य प्राचां अवृद्धात्फिन्बहुलं इति गालवाः एव ह्रस्वान्प्रयुञ्जीरन्प्राक्षु च एव हि फिन्स्यात। तत्यथा : जमदग्निः वै एतत्पञ्चमं अवदानं अवाद्यत्तस्मात्न अजामदग्न्यः पञ्चावत्तं जुहोति । यस्य पुनः नित्याः शब्दाः गालवग्रहणं तस्य पूजार्थं देशग्रहणं च कीर्त्यर्थं । ननु च यस्य अपि कार्याः तस्य अपि पूजार्थं गालवग्रहणं स्यात्देशग्रहं च कीर्त्यर्थं । (कात्यायन वार्तिक)तत्कीर्तने च द्वेधाप्रतिपत्तिः(वार्तिकान्त) । तत्कीर्तने च द्वैधं शब्दानां अप्रतिपत्तिः स्यात। इच्छामः च पुनः आचार्यग्रहणेषु देशग्रहणेषु च द्वैधं शब्दानां प्रतिपत्तिः स्यातिति तत्च न सिध्यति ।
पाणिनीयसूत्र १,१।४४।५) कि.,१०५।१४-२० रो.,३३२-३३३ (कात्यायन वार्तिक)अशिष्यः वा विदितत्वात्(वार्तिकान्त) । अशिष्यः वा पुनः अयं योगः । किं कारणं । विदितत्वात। यतनेन योगेन प्रार्थ्यते तस्य अर्थस्य विदितत्वात। ये अपि हि एतां सञ्ज्ञां न आरभन्ते ते अपि विभाषा इति उक्ते अनित्यत्वं अवगच्छन्ति । याज्ञिकाः खलु अपि सञ्ज्ञां अनारभमाणाः विभाषा इति उक्ते अनित्यत्वं अवगच्छन्ति । तत्यथा । मेध्यः पशुः विभाषितः । मेध्यः अनड्वान्विभाषितः इति । आलब्धव्यः न आलब्धव्यः इति गम्यते । आचार्यः खलु अपि सञ्ज्ञां आरभमाणः भूयिष्ठं अन्यैः अपि शब्दैः एतं अर्थं सम्प्रत्याययति बहुलं अन्यतरस्यां उभयथा वा एकेषां इति ।
पाणिनीयसूत्र १,१।४४।६) कि.,१०५।२१-१०८।७ रो.,३३३-३३९ (कात्यायन वार्तिक)अप्राप्ते त्रिसंशयाः(वार्तिकान्त) । इतः उत्तरं याः विभाषाः अनुक्रमिष्यामः अप्राप्ते ताः द्रष्टव्याः । त्रिसंशयाः तु भवन्ति : प्राप्ते अप्राप्ते उभयत्र वा इति । द्वन्द्वे च विभाषा जसि : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथं च प्राप्ते कथं वा अप्राप्ते कथं वा उभयत्र । उभयशब्दः सर्वादिषु पठ्यते तयपः च अयजादेशः क्रियते । तेन वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । अप्राप्ते । अयच्प्रत्ययान्तरं । यदि प्रत्ययान्तरं उभयी इति ईकारः न प्राप्नोति । मा भूतेवं । मात्रचः इति एवं भविष्यति । कथं । मात्रचिति न इदं प्रत्ययग्रहणं । किं तर्हि । प्रत्याहारग्रहणं । क्व सन्निविष्टानां प्रत्याहारः । मात्रशब्दात्प्रभृति आ आयचः चकारात। यदि प्रत्याहारग्रहणं कति तिष्ठन्ति : अत्र अपि प्राप्नोति । अतः इति वर्तते । एवं अपि तैलमात्रा घ्र्तमात्रा इति अत्र अपि प्राप्नोति । सदृशस्य अपि असन्निविष्टस्य न भविष्यति प्रत्याहारेण ग्रहणं । ऊर्णोः विभाषा : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथं च प्राप्ते कथं वा अप्राप्ते कथं वा उभयत्र । असंयोगात्लिट्कितिति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । अप्राप्ते । अन्यत्हि कित्त्वं अन्यत्ङित्त्वं । एकं चेत्ङित्कितौ । यदि एकं ङित्कितौ ततः अस्ति सन्देहः । अथ हि नाना न अस्ति सन्देहः । यदि अपि नाना एवं अपि सन्देहः । कथं । प्रौर्णुवि इति । सार्वधातुकं अपितिति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । अप्राप्ते । विभाषा उपयमने : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथं च प्राप्ते कथं वा अप्राप्ते कथं वा उभयत्र । गन्धने इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । अप्राप्ते । गन्धने इति निवृत्तं । अनुपसर्गात्वा : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथं च प्राप्ते कथं वा अप्राप्ते कथं वा उभयत्र । वृत्तिसर्गतायनेषु क्रमः इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । अप्राप्ते । वृत्त्यादिषु इति निवृत्तं । विभाषा वृक्षमृगादीनां : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथं च प्राप्ते कथं वा अप्राप्ते कथं वा उभयत्र । जातिः अप्राणिनां इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । अप्राप्ते । जातिः अप्राणिनां इति निवृत्तं । उषविदजागृभ्यः अन्यतरस्यां : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथं च प्राप्ते कथं वा अप्राप्ते कथं वा उभयत्र । प्रत्ययान्तातिति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । अप्राप्ते । प्रत्ययान्ताः धात्वन्तराणि । दीपादीनां विभाषा : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथं च प्राप्ते कथं वा अप्राप्ते कथं वा उभयत्र । भावकर्मणोः इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । अप्राप्ते । कर्तरि इति वर्तते । एवं अपि सन्देहः : न्याय्ये वा कर्तरि कर्मकर्तरि वा इति । न अस्ति सन्देहः । सकर्मकस्य कर्ता कर्मवत्भवति अकर्मकाः च दीपादयः । अकर्मकाः अपि वै सोपसर्गाः सकर्मकाः भवन्ति । कर्मापदिष्टाः विधयः कर्मस्थभावकानां कर्मस्थक्रियाणां च भवन्ति कर्तृस्थभावकाः च दीपादयः । विभाषा अग्रेप्रथमपूर्वेषु : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथं च प्राप्ते कथं वा अप्राप्ते कथं वा उभयत्र । आभीक्ष्ण्ये इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । अप्राप्ते । आभीक्ष्ण्ये इति निवृत्तं । तृनादीनां विभाषा : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथं च प्राप्ते कथं वा अप्राप्ते कथं वा उभयत्र । आक्रोशे इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । अप्राप्ते । आक्रोशे इति निवृत्तं । एकहलादौ पूरयितव्ये अन्यतरस्यां । प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथं च प्राप्ते कथं वा अप्राप्ते कथं वा उभयत्र । उदकस्य उदः सञ्ज्ञायां इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । अप्राप्ते । सञ्ज्ञायां इति निवृत्तं । श्वादेः इञि पदान्तस्य अन्यतरस्यां । प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथं च प्राप्ते कथं वा अप्राप्ते कथं वा उभयत्र । इञि इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । अप्राप्ते । इञि इति निवृत्तं । सपूर्वायाः प्रथमायाः विभाषा । प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथं च प्राप्ते कथं वा अप्राप्ते कथं वा उभयत्र । चादिभिः योगे इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । अप्राप्ते । चादिभिः योगे इति निवृत्तं । ग्रः यङि अचि विभाषा । प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथं च प्राप्ते कथं वा अप्राप्ते कथं वा उभयत्र । यङि इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । अप्राप्ते । अप्राप्ते । यङि इति निवृत्तं
पाणिनीयसूत्र १,१।४४।७) कि.,१०८।८-१०९।३ रो.,३३९-४० (कात्यायन वार्तिक)प्राप्ते च(वार्तिकान्त) । इतः उत्तरं याः विभाषाः अनुक्रमिष्यामः प्राप्ते ताः द्रष्टव्याः । त्रिसंशयाः तु भवन्ति : प्राप्ते अप्राप्ते उभयत्र वा इति । विभाषा विप्रलापे : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथं च प्राप्ते कथं वा अप्राप्ते कथं वा उभयत्र । व्यक्तवाचां इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । प्राप्ते । व्यक्तवाचां इति हि वर्तते । विभाषा उपपदेन प्रतीयमाने : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथं च प्राप्ते कथं वा अप्राप्ते कथं वा उभयत्र । स्वरितञितः इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । प्राप्ते । स्वरितञितः इति हि वर्तते । तिरः अन्तर्धौ विभाषा कृञि : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथं च प्राप्ते कथं वा अप्राप्ते कथं वा उभयत्र । अन्तर्धौ इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । प्राप्ते । अन्तर्धौ इति हि वर्तते । अधिः ईश्वरे विभाषा कृञि : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथं च प्राप्ते कथं वा अप्राप्ते कथं वा उभयत्र । ईश्वरे इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । प्राप्ते । ईश्वरे इति हि वर्तते । दिवः तदर्थस्य विभाषा उपसर्गे : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथं च प्राप्ते कथं वा अप्राप्ते कथं वा उभयत्र । तदर्थस्य इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । प्राप्ते । तदर्थस्य इति वर्तते
पाणिनीयसूत्र १,१।४४।८) कि.,१०९।४-११०।८ रो.,३४०-३४१ (कात्यायन वार्तिक)उभयत्र च(वार्तिकान्त) । इतः उत्तरं याः विभाषाः अनुक्रमिष्यामः उभयत्र ताः द्रष्टव्याः । त्रिसंशयाः तु भवन्ति : प्राप्ते अप्राप्ते उभयत्र वा इति । हृक्रोः अन्यतरस्यां : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथं च प्राप्ते कथं वा अप्राप्ते कथं वा उभयत्र । गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणां इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । उभयत्र । प्राप्ते तावतः अभ्यवहारयति सैन्धवान्, अभ्यवहारयति सैन्धवैः , विकारयति सैन्धवान्, विकारयति सैन्धवैः । अप्राप्ते : हरति भारं देवदत्तः । हारयति भारं देवदत्तं , हारयति भारं देवदत्तेन । करोति कटं देवदत्तः । कारयति कटं देवदत्तं , कारयति कटं देवदत्तेन । न यदि विभाषा साकाङ्क्षे : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथं च प्राप्ते कथं वा अप्राप्ते कथं वा उभयत्र ।यदि इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । उभयत्र । प्राप्ते तावतः अभिजानासि देवदत्त यत्कश्मीरेषु वत्स्यामः , यत्कश्मीरेषु अवसाम , यत्तत्र ओदनान्भोक्ष्यामहे , यत्तत्र ओदनानभुञ्ज्महि । अप्राप्ते : अभिजानासि देवदत्त कश्मीरान्गमिष्यामः , कश्मीरानगच्छाम , तत्र ओदनां भोक्ष्यामहे , तत्र ओदनानभुञ्ज्महि । विभाषा श्वेः : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथं च प्राप्ते कथं वा अप्राप्ते कथं वा उभयत्र ।किति इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । उभयत्र । प्राप्ते तावतः शुशुवतुः , शुशुवुः , शिश्वियतुः , शिश्वियुः । अप्राप्ते : शुशाव शुशविथ शिश्वाय शिश्वयिथ । विभाषा सङ्घुषास्वनां : सम्पूर्वात्घुषेः प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथं च प्राप्ते कथं वा अप्राप्ते कथं वा उभयत्र । घुषिः अविशब्दने इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । उभयत्र । प्राप्ते तावतः सङ्घुष्टा रज्जुः , सङ्घुषिता रज्जुः । अप्राप्ते : सङ्घुष्टं वाक्यं , सङ्घुषितं वाक्यं । आङ्पूर्वात्स्वनेः प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः । कथं च प्राप्ते कथं वा अप्राप्ते कथं वा उभयत्र । मनसि इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति । उभयत्र । प्राप्ते तावतः आस्वान्तं मनः , आस्वनितं मनः । अप्राप्ते : आस्वान्तः देवदत्तः , आस्वनितः देवदत्तः इति ।
पाणिनीयसूत्र १,१।४५) कि.,१११।२-११२।१७ रो.,३४२-३४६ फ़्किं इयं वाक्यस्य सम्प्रसारणसञ्ज्ञा क्रियते : इक्यणः इति एतत्वाक्यं सम्प्रसारणसञ्ज्ञं भवति इति , आहोस्वित्वर्णस्य : इक्यः यणः स्थाने सः सम्प्रसारणसञ्ज्ञः भवति इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)सम्प्रसारणसञ्ज्ञायां वाक्यसञ्ज्ञा चेत्वर्णविधिः(वार्तिकान्त) । सम्प्रसारणसञ्ज्ञायां वाक्यसञ्ज्ञा चेत्वर्णविधिः न सिध्यति : सम्प्रसारणात्परः पूर्वः भवति , सम्प्रसारणस्य दीर्घः भवति इति । न हि वाक्यस्य सम्प्रसारणसञ्ज्ञायां सत्यां एषः निर्देशः उपपद्यते न अपि एतयोः कार्ययोः सम्भवः अस्ति । अस्तु तर्हि वर्णस्य । (कात्यायन वार्तिक)वर्णसञ्ज्ञा चेत्निर्वृत्तिः (वार्तिकान्त)। वर्णसञ्ज्ञा चेत्निर्वृत्तिः न सिध्यति : ष्यङः सम्प्रसारणं इति । सः एव हि तावतिक्दुर्लभः यस्य सञ्ज्ञा क्रियते । अथ अपि कथं चित्लभ्येत केन असु यणः स्थाने स्यात। अनेन एव हि असौ व्यवस्थाप्यते । ततेततितरेतराश्रयं भवति , इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते । (कात्यायन वार्तिक)विभक्तिविशेषनिर्देशः तु ज्ञापकः उभयसञ्ज्ञात्वस्य(वार्तिकान्त) । यतयं विभक्तिविशेषैः निर्देशं करोति सम्प्रसारणात्परः पूर्वः भवति सम्प्रसारणस्य दीर्घः भवति ष्यङः सम्प्रसारणं इति तेन ज्ञायते उभयोः सञ्ज्ञा भवति इति । यत्तावताह सम्प्रसारणात्परः पूर्वः भवति सम्प्रसारणस्य दीर्घः भवति इति तेन ज्ञायते वर्णस्य भवति इति । यतपि आह ष्यङः सम्प्रसारणं इति तेन ज्ञायते वाक्यस्य अपि सञ्ज्ञा भवति इति । अथ वा पुनः अस्तु वाक्यस्य एव । ननु च उक्तं सम्प्रसारणसञ्ज्ञायां वाक्यसञ्ज्ञा चेत्वर्णविधिः इति । न एषः दोषः । यथा काकात्जातः काकः , श्येनात्जातः श्येनः एवं सम्प्रसारणात्जातं सम्प्रसारणं । यत्तत्सम्प्रसारणात्जातं सम्प्रसारणं तस्मात्परः पूर्वः भवति तस्य दीर्घः भवति इति । अथ वा दृश्यन्ते हि वाक्येषु वाक्यैकदेशान्प्रयुञ्जानाः पदेषु च पदैकदेशान। वाक्येषु तावत्वाक्यैकदेशानः प्रविश पिण्डीं , प्रविश तर्पर्णं । पदेषु पदैकदेशानः देवदत्तः दत्तः , सत्यभामा भामा इति । एवं इह अपि सम्प्रसारणनिर्वृत्तात्सम्प्रसारणनिर्वृत्तस्य इति एतस्य वाक्यस्य अर्थे सम्प्रसारणात्सम्प्रसारणस्य इति वाक्यैकदेशः प्रयुज्यते । तेन निर्वृत्तस्य विधिं विज्ञास्यामः । सम्प्रसारणनिर्वृत्तात्सम्प्रसारणनिर्वृत्तस्य इति । अथ वा आह अयं सम्प्रसारणात्परः पूर्वः भवति सम्प्रसारणस्य दीर्घः भवति इति । न च वाक्यस्य सम्प्रसारणसञ्ज्ञायां सत्यां एषः निर्देशः उपपद्यते न अपि एतयोः कार्ययोः सम्भवः अस्ति । तत्र वचनात्भविष्यति । अथ वा पुनः अस्तु वर्णस्य । ननु च उक्तं वर्णसञ्ज्ञा चेत्निर्वृत्तिः इति । न एषः दोषः । इतरेतराश्रयमात्रं एतत्चोदितं । सर्वाणि च इतरेतराश्रयाणि एकत्वेन परिहृतानि सिद्धं तु नित्यशब्दत्वातिति । न इदं तुल्यं अन्यैः इतरेतराश्रयैः । न हि तत्र किं चितुच्यते अस्य स्थाने ये आकारैकारौकाराः भाव्यन्ते ते वृद्धिसञ्ज्ञाः भवन्ति इति । इह पुनः उच्यते इक्यः यणः स्थाने सः सम्प्रसारणसञ्ज्ञः भवति इति । एवं तर्हि भाविनी इयं सञ्ज्ञा विज्ञास्यते । तत्यथा : कः चित्कं चित्तन्तुवायं आह : अस्य सूत्रस्य शाटकं वय इति । सः पश्यति : यदि शाटकः न वातव्यः अथ वातव्यः न शाटकः । शाटकः वातव्यः इति विप्रतिषिद्धं । भाविनी खलु अस्य सञ्ज्ञा अभिप्रेता । सः मन्ये वातव्यः यस्मिनुते शाटकः इति एतत्भवति इति । एवं इह अपि सः यणः स्थाने भवति यस्य अभिनिर्वृत्तस्य सम्प्रसारणं इति एषा सञ्ज्ञा भविष्यति । अथ वा इजादियजादिप्रवृत्तिः च एव हि लोके लक्ष्यते । यजाद्युपदेशात्तु इजादिनिवृत्तिः प्रसक्ता । प्रयुञ्जते च पुनः लोकाः इष्टं उप्तं इति । ते मन्यामहे : अस्य यणः स्थाने इमं इकं प्रयुञ्जते इति । तत्र तस्य असाध्वभिमतस्य शास्त्रेण साधुत्वं अवस्थाप्यते : किति साधुः भवति ङिति साधुः भवति इति ।
पाणिनीयसूत्र १,१।४६।१) कि.,११२।१९-२२ रो., ३४६ समासनिर्देशः अयं । तत्र न ज्ञायते कः आदिः कः अन्तः इति । तत्यथा : अजाविधनौ देवदत्तयज्ञदत्तौ इति उक्ते न ज्ञायते कस्य अजाः धनं कस्य अवयः इति । यदि अपि तावत्लोके एषः दृष्टान्तः दृष्टान्तस्य अपि पुरुषारम्भः निवर्तकः भवति । अस्ति च इह कः चित्पुरुषारम्भः । अस्ति इति आह । कः । सङ्ख्यातनुदेशः नाम ।
पाणिनीयसूत्र १,१।४६।२) कि.,११२।२३-११३।१५ रो.,३४६-३४९ कौ पुनः टकितौ आद्यन्तौ भवतः । आगमौ इति आह । युक्तं पुनः यत्नित्येषु नाम शब्देषु आगमशासनं स्यात्न नित्येषु शब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यं अनपायोपजनविकारिभिः । आगमः च नाम अपूर्वः शब्दोपजनः । अथ युक्तं यत्नित्येषु शब्देषु आदेशाः स्युः । बाढं युक्तं । शब्दान्तरैः इह भवितव्यं । तत्र शब्दान्तरात्शब्दान्तरस्य प्रतिपत्तिः युक्ता । आदेशाः तर्हि इमे भविष्यन्ति अनागमकानां सागमकाः । तत्कथं । सञ्ज्ञाधिकारः अयं । आद्यन्तौ च इह सङ्कीर्त्येते । टकार्ककारौ इतौ उदाह्रियेते । तत्र आद्यन्तयोः टकारककारौ इतौ सञ्ज्ञे भविष्यतः । तत्र आर्धधातुकस्य इट्वलादेः इति उपस्थितं इदं भवति : आदिः इति । तेन इकारादिः आदेशः भविष्यति । एतावतिह सूत्रं इटिति । कथं पुनः इयता सूत्रेण इकारादिः आदेशः लभ्यः । लभ्यः इति आह । कथम। बहुव्रीहिनिर्देशात। बहुव्रीहिनिर्देशः अयं : इकारः आदिः अस्य इति । यदि अपि तावतत्र एतत्शक्यते वकुतं इह कथं : लुङ्लङ्लृङ्क्षु अटुदात्तः इति यत्र अशक्यं उदात्तग्रहणेन अकारः विशेषयितुं । तत्र कः दोषः । अङ्गस्य उदात्तत्वं प्रसज्येत । न एषः दोषः । त्रिपदः अयं बहुव्रीहिः । तत्र वाक्ये एव उदात्तग्रहणेन अकारः विशेष्यते : अकारः उदात्तः आदिः अस्य इति । यत्र तर्हि अनुवृत्त्या एतत्भवति : आटजादीनां इति । वक्ष्यति एततः अजादीनां अटा सिद्धं इति । अथ वा यत्तावतयं सामान्येन शक्नोति उपदेष्टुं तत्तावतुपदिशति प्रकृतिं ततः वलादि आर्धधातुकं ततः पश्चातिकारं । तेन अयं विशेषेण शब्दान्तरं समुदायं प्रतिपद्यते । तत्यथा खदिरबुर्बुरयोः : खदिरबुर्बुरौ गौरकाण्डौ सूक्ष्मपर्णौ । ततः पश्चाताह कण्टकवान्खदिरः इति । तेन असौ विशेषेण द्रव्यान्तरं समुदायं प्रतिपद्यते । अथ वा एतया आनुपूर्व्या अयं शब्दान्तरं उपदिशति : प्रकृतिं ततः वलादि आर्धधातुकं ततः पश्चातिकारं यस्मिन्तस्य आगमबुद्धिः भवति ।
पाणिनीयसूत्र १,१।४६।३) कि.,११३।१६-११४।१६ रो.,३४९-३५१ (कात्यायन वार्तिक)टकितोः आद्यन्तविधाने प्रत्ययप्रतिषेधः(वार्तिकान्त) । टकितोः आद्यन्तविधाने प्रत्ययस्य प्रतिषेधः वक्तव्यः । प्रत्ययः आदिः अन्तः वा मा भूतः चरेः टः आतः अनुपसर्गे कः इति । परवचनात्सिद्धं । परवचनात्प्रत्ययः आदिः अन्तः वा न भविष्यति । (कात्यायन वार्तिक)परवचनात्सिद्धं इति चेत्न अपवादत्वात्(वार्तिकान्त) । परवचनात्सिद्धं इति चेत्न । किं कारणं । अपवादत्वात। अपवादः अयं योगः । तत्यथा मितचः अन्त्यात्परः इति एषः योगः स्थानेयोगत्वस्य प्रत्ययपरत्वस्य च अपवादः । विषमः उपन्यासः । युक्तं तत्र यतनवकाशं मित्करणं स्थानेयोगत्वं प्रत्ययपरत्वं च बाधते । इह पुनः उभयं सावकासं । कः अवकाशः । टित्करणस्य अवकाशः : टितः इति ईकारः यथा स्यात। कित्करणस्य अवकाशः : किति इति आकारलोपः यथा स्यात। प्रयोजनं नाम तत्वक्तव्यं यत्नियोगतः स्यात। यदि च अयं नियोगतः परः स्यात्ततः एतत्प्रयोजनं स्यात। कुतः नु खलु एतत्टित्करणातयं परः भविष्यति न पुनः आदिः इति कित्करणात्च परः भविष्यति न पुनः अन्तः इति । टितः खलु अपि एषः परिहारः यत्र न अस्ति सम्भवः यत्परः च स्यातादिः च । कितः तु अपरिहारः । अस्ति हि सम्भवः यत्परः च स्यातन्तः च । तत्र कः दोषः । उपसर्गे घोः किः : आध्योः , प्रध्योः । नोङ्धात्वोः इति प्रतिषेधः प्रसज्येत । टितः च अपि अपरिहारः । स्यातेव हि अयं टित्करणातादिः न पुनः परः । क्व तर्हि इदानीं इदं स्यातः टितः ईकारः भवति इति । यः उभयवानः गापोः टकिति । (कात्यायन वार्तिक)सिद्धं तु षष्ठ्यधिकारे वचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । षष्ठ्यधिकारे अयं योगः करत्व्यः : आद्यन्तौ टकितौ षष्ठीनिर्दिष्टस्य इति । (कात्यायन वार्तिक)आद्यन्तयोः वा षष्थ्यर्थत्वात्तदभावे असम्प्रत्ययः(वार्तिकान्त) । आद्यन्तयोः वा षष्थ्यर्थत्वात्षष्ठ्याः अभावे असम्प्रत्ययः । आदिः अन्तः वा न भविष्यति । युक्तं पुनः यत्शब्दनिमित्तकः नाम अर्थः स्यात्न अर्थनिमित्तकेन शब्देन भवितव्यं । अर्थनिमित्तकः एव शब्दः । तत्कथं । आद्यन्तौ षष्ठ्यर्थौ । न च अत्र षष्ठीं पश्यामः । ते मन्यामहे : आद्यन्तौ एव अत्र न स्तः । तयोः अभावे षष्ठी अपि न भवति इति ।
पाणिनीयसूत्र १,१।४७।१) कि.,११४।१८-११५।४ रो.,३५२ किमर्थं इदं उच्यते । (कात्यायन वार्तिक)मितचः अन्त्यात्परः इति स्थानपरप्रत्ययापवादः(वार्तिकान्त) । मितचः अन्त्यात्परः इति उच्यते स्थानेयोगत्वस्य प्रत्ययपरत्वस्य च अपवादः । स्थानेयोगत्वस्य तावतः कुण्डानि वनानि पयांसि यशांसि । प्रत्ययपरत्वस्य : भिनत्ति छिनत्ति । भवेतिदं युक्तं उदाहरणं कुण्डानि वनानि यत्र न अस्ति सम्भवः यतयं अचः अन्य्तात्परः च स्यात्स्थाने च इति । इदं तु अयुक्तं पयांसि यशांसि । अस्ति हि सम्भवः यतचः अन्य्तात्परः च स्यात्स्थाने च । एततपि युक्तं । कथं । न एव ईश्वरः आज्ञापयति न अपि धर्मसूत्रकाराः पठन्ति अपवादैः उत्सर्गाः बाध्यन्तां इति । किं तर्हि । लौकिकः अयं दृष्टान्तः । लोके हि सति अपि सम्भवे बाधनं भवति । तत्यथा : दधि ब्राह्मणेभ्यः दीयतां तक्रं कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानं निवर्तकं भवति । एवं इह अपि सति अपि सम्भवे अचां अन्त्यात्परत्वं षष्ठीस्थानेयोगत्वं बाधिष्यते ।
पाणिनीयसूत्र १,१।४७।२) कि.,११५।५-१२ रो.,३५२-३५३ (कात्यायन वार्तिक)अन्त्यात्पूर्वः मस्जेः अनुषङ्गसंयोगादिलोपार्थम्(वार्तिकान्त) । अन्त्यात्पूर्वः मस्जेः मित्वक्तव्यः । किं प्रयोजनं । अनुषङ्गसंयोगादिलोपार्थं । अनुषङ्गलोपार्थं संयोगादिलोपार्थं च । अनुषङ्गलोपार्थं तावतः मग्नः , मग्नवान। संयोगादिलोपार्थं मङ्क्ता मङ्क्तुं , मङ्क्तव्यं । (कात्यायन वार्तिक)भर्जिमर्च्योः च(वार्तिकान्त) । भर्जिमर्च्योः च अन्त्यात्पूर्वः मित्वक्तव्यः । भरूजा मरीचयः इति । सः तर्हि वक्तव्यः । न वक्तव्यः । निपातनात्सिद्धं । किं निपातनं । भरूजाशब्दः अङ्गुल्यादिषु पठ्यते मरीचिशब्दः बाह्वादिषु ।
पाणिनीयसूत्र १,१।४७।३) कि.,११५।१३-११७।२ रो.,३५३-३५७ किं पुनः अयं पूर्वान्तः आहोस्वित्परादिः आहोस्वितभक्तः । कथं च अयं पूर्वान्तः स्यात्कथं वा परादिः कथं वा अभक्तः । यदि अन्तः इति वर्तते ततः पूर्वान्तः । अथ आदिः इति वर्तते ततः परादिः । अथ उभयं निवृत्तं ततः अभक्तः । कः च अत्र विशेषः । (कात्यायन वार्तिक)अभक्ते दीर्घनलोपस्वरणत्वानुस्वारशीभावाः(वार्तिकान्त) । यदि अभक्तः दीर्घत्वं न प्राप्नोति : कुण्डानि वनानि । नोपधायाः सर्वनामस्थाने च असम्बुद्धौ इति दीर्घत्वं न प्राप्नोति । दीर्घ । नलोप : नलोपः च न सिध्यति : अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानां । नलोपः प्रातिपदिकान्तस्य इति नलोपः न प्राप्नोति । नलोप । स्वर : स्वरः च न सिध्यति : सर्वाणि ज्योतींषि । सर्वस्य सुपि इति आद्युदात्तत्वं न प्राप्नोति । स्वर । णत्व : णत्वं च न सिध्यति : माषवापाणि व्रीहिवापाणि । पूर्वान्ते प्रातिपदिकान्तनकारस्य इति सिद्धं , परादौ विभक्तिनकारस्य , अभक्ते नुमः ग्रहणं कर्तव्यं । न कर्तव्यं । क्रियते न्यासे एव : प्रातिपदिकान्तनुम्विभक्तिषु इति । णत्व । अनुस्वार : अनुस्वारः च न सिध्यति : द्विषन्तपः , परन्तपः । मः अनुस्वारः हलि इति अनुस्वारः न प्राप्नोति । मा भूतेवं । नः च अपदान्तस्य झलि इति एवं भविष्यति । यः तर्हि न झल्परः : वहंलिहः गौः , अभ्रंलिहः वायुः । अनुस्वार । शीभाव : शीभावः च न सिध्यति : त्रपुणी जतुनी तुम्बुरुणी । नपुंसकातुत्तरस्य औङः शीभावः भवति इति शीभावः न प्राप्नोति । शीभाव । एवं तर्हि परादिः करिष्यते । (कात्यायन वार्तिक)परादौ गुणवृद्ध्यौत्त्वदीर्घनलोपानुस्वारशीभावेनकारप्रतिषेधः(वार्तिकान्त) । यदि परादिः गुणः प्रतिषेध्यः : त्रपुणे जतुने तुम्बुरुणे । घेः ङिति इति गुणः प्राप्नोति । गुण । वृद्धि : वृद्धिः प्रतिषेध्या : अतिसखीनि ब्राह्मणकुलानि । सख्युः असम्बुद्धौ इति णित्त्वे अचः ञ्णिति इति वृद्धिः प्राप्नोति । वृद्धि । औत्त्व : औत्त्वं च प्रतिषेध्यं : त्रपुणि जतुनि तुम्बुरुणि । इदुद्भ्यां औतत्च घेः इति औत्त्वं प्राप्नोति । औत्त्व । दीर्घ : दीर्घत्वं च न सिध्यति : कुण्डानि वनानि । नोपधायाः सर्वनामस्थाने च असम्बुद्धौ इति दीर्घत्वं न प्राप्नोति । मा भूतेवं । अतः दीर्घः यञि सुपि च इति एवं भविष्यति । इह तर्हि : अस्थीनि दधीनि प्रियसखीनि ब्राह्मणकुलानि । दीर्घ । नलोप : नलोपः च न सिध्यति : अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानां । नलोपः प्रातिपदिकान्तस्य इति नलोपः न प्राप्नोति । नलोप । अनुस्वार : अनुस्वारः च न सिध्यति : द्विषन्तपः , परन्तपः । मः अनुस्वारः हलि इति अनुस्वारः न प्राप्नोति । मा भूतेवं । नः च अपदान्तस्य झलि इति एवं भविष्यति । यः तर्हि न झल्परः : वहंलिहः गौः , अभ्रंलिहः वायुः । अनुस्वार । शीभावेनकारप्रतिषेधः : शीभावे नकारस्य प्रतिषेधः वक्तव्यः : त्रपुणी जतुनी तुम्बुरुणी । सनुम्कस्य शीभावः प्राप्नोति । न एषः दोषः । निर्दिश्यमानस्य आदेशाः भवन्ति इति एवं न भविष्यति । यः तर्हि निर्दिश्यते तस्य न प्राप्नोति । कस्मात। नुमा व्यवहितत्वात। एवं तर्हि पूर्वान्तः करिष्यते । (कात्यायन वार्तिक)पूर्वान्ते नपुंसकोपसर्जनह्रस्वत्वं द्विगुस्वरः च(वार्तिकान्त) । यदि पूर्वन्तः क्रियते नपुंसकोपसर्जनह्रस्वत्वं द्विगुस्वरः च न सिध्यति । नपुंसकोपसर्जनह्रस्वत्वं : आराशस्त्रिणी धानाशष्कुलिनी निष्कौशाम्बिनी निर्वाराणसिनी । द्विगुस्वर : पञ्चारत्निनी दशारत्निनी । नुमि कृते अनन्त्यत्वातेते विधयः न प्राप्नुन्वन्ति । (कात्यायन वार्तिक)न वा बहिरङ्गलक्षणत्वात्(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । बहिरङ्गलक्षणत्वात। बहिरङ्गः नुं , अन्तरङ्गाः एते विधयः । असिद्धं बहिरङ्गं अन्तरङ्गे । द्विगुस्वरे भूयान्परिहारः : सङ्घातभक्तः असौ न उत्सहते अवयवस्य इगन्ततां विहन्तुं इति कृत्वा द्विगुस्वरः भविष्यति ।
पाणिनीयसूत्र १,१।४८) कि.,११७।४-११८।४ रो.,३५७-३५९ किमर्थं इदं उच्यते । (कात्यायन वार्तिक)एचः इक्सवर्णाकारनिवृत्त्यर्थम्(वार्तिकान्त) । एचः इक्भवति इति उच्यते सवर्णनिवृत्त्यर्थं अकारनिवृत्त्यर्थं च । सवर्ण्निवृत्त्यर्थं तावतः एङः ह्रस्वशासनेषु अर्धः एकारः अर्धः ओकारः वा मा भूतिति । अकारनिवृत्त्यर्थं च । इमौ ऐचौ समाहारवर्णौ । मात्रा अवर्णस्य मात्रा इवर्णोवर्णयोः । तयोः ह्रस्वशासनेषु कदा चितवर्णः स्यात्कदा चितिवर्णोवर्णौ । मा कदा चितवर्णं भूतिति एवमर्थं इदं उच्यते । अस्ति प्रयोजनं एतत। किं तर्हि इति । दीर्घप्रसङ्गः । दीर्घाः तु इकः प्राप्नुवन्ति । किं कारणं । स्थाने अन्तरतमः भवति इति । ननु च ह्रस्वादेशे इति उच्यते । तेन दीर्घाः न भविष्यन्ति । विष्यार्थं एतत्स्यात। एचः ह्रस्वप्रसङ्गे इक्भवति इति । (कात्यायन वार्तिक)दीर्घाप्रसङ्गः तु निवर्तकत्वात्(वार्तिकान्त) । दीर्घाणां तु इकां अप्रसङ्गः । किं कारणं । निवर्तकत्वात। न अनेन इकः निर्वर्त्यन्ते । किं तर्हि । अनिकः निवर्त्यन्ते । सिद्धाः एव ह्रस्वाः इकः च अनिकः च । तत्र अनेन अनिकः निवर्त्यन्ते । सवर्णनिवृत्त्यर्थेन तावत्न अर्थः । (कात्यायन वार्तिक)सिद्धं एङः सस्थानत्वात्(वार्तिकान्त) । सिद्धं एतत। कथं । एङः सस्थानत्वातिकारोकारौ भविष्यतः । अर्धः एकारः अरधः ओकारः वा न भविष्यति । ननु च एङः सस्थानतरौ अर्धः एकारौकारौ । न तौ स्तः । यदि हि तौ स्यातां तौ एव अयं उपदिशेत। ननु च भोः छन्दोगानां सात्यमुग्रिराणायनीयाः अर्धं एकारं अर्धं ओकारं च अधीयते : सुजाते एश्वसूनृते , अध्वर्यो ओद्रिभिः सुतं , शुक्रं ते एन्यत्यजतं ते एन्यतिति । पार्षदकृतिः एषा तत्रभवतां । न एव लोके न अन्यस्मिन्वेदे अर्धः एकारः अर्धः ओकारः वा अस्ति । अकारनिवृत्त्यर्थेन अपि न अर्थः । (कात्यायन वार्तिक)ऐचोः च उत्तरभूयस्त्वात्(वार्तिकान्त) । ऐचोः च उत्तरभूयस्त्वातवर्णः न भविष्यति । भूयसी मात्रा इवर्णोवर्णयोः अल्पीयसी अवर्णस्य । भूयसः एव ग्रहणानि भविष्यन्ति । तत्यथा ब्राह्मणग्रामः आनीयतां इति उच्यते तत्र च अवरतः पञ्चकारुकी भवति ।
पाणिनीयसूत्र १,१।४९।१) कि.,११८।६-७ रो.,३६० किं इदं स्थानेयोगा इति । स्थाने योगः अस्याः सा इयं स्थानेयोगा । सप्तम्यलोपः निपातनात। तृतियाया वा एत्वं : स्थानेन योगः अस्याः सा इयं स्थानेयोगा ।
पाणिनीयसूत्र १,१।४९।२) कि.,११८।८-११९।२८ रो.,३६०-३६४ (कात्यायन वार्तिक)किमर्थं पुनः इदं उच्यते । षष्ठ्याः स्थानेयोगवचनं नियमार्थम्(वार्तिकान्त) । नियमाऋथः अयं आरम्भः । एकशतं षष्ठ्यर्थाः यावन्तः वा ते सर्वे षष्ठ्यां उच्चारितायां प्राप्नुवन्ति । इष्यते च व्याकरणे या षष्ठी सा स्थानेयोगा एव स्यातिति । तत्च अन्तरेण यत्नं न सिध्यति इति षष्ठ्याः स्थानेयोगवचनं नियमार्थं । एवमर्थं इदं उच्यते । अस्ति प्रयोजनं एतत। किं तर्हि इति । (कात्यायन वार्तिक)अवयवषष्ठ्यादिषु अतिप्रसङ्गः शासः गोहः इति(वार्तिकान्त) । अवयवषष्ठ्यादयः तु न सिध्यन्ति । तत्र कः दोषः । शासः इतङ्हलोः इति शासेः च अन्त्यस्य स्यातुपधामात्रस्य च । ऊतुपधायाः गोहः इति गोहः च अन्त्यस्य स्यातुपधामात्रस्य च । (कात्यायन वार्तिक)अवयवषष्ठ्यादीनां च अप्राप्तिः योगस्य असन्दिग्धत्वात्(वार्तिकान्त) । अवयवषष्ठ्यादीनां च नियमस्य अप्राप्तिः । किं कारणं । योगस्य असन्दिग्धत्वात। सन्देहे नियमः न च अवयवषष्ठ्यादिषु सन्देहः । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते। लौकिकः अयं दृष्टाण्तः । तत्यथा लोके : कं चित्कः चित्पृच्छति : ग्रामान्तरं गमिष्यामि पन्थानं मे भवानुपदिशतु इति । सः तस्मै आचष्टे । अमुष्मिनवकाशे हस्तदक्षिणः ग्रहीतव्यः अमुष्मिनवकाशे हस्तवामः इति । यः तु अत्र तिर्यक्पथः भवति न तस्मिन्सन्देहः इति कृत्वा न असौ उपदिश्यते । एवं इह अपि सन्देहे नियमः न च अवयवषष्ठ्यादिषु सन्देहः । अथ वा स्थाने अयोगा स्थानेयोगा किं इदं अयोगा इति । अव्यक्तयोगा अयोगा । अथ वा योगवती योगा । का पुनः योगवती । यस्याः बहवः योगाः । कुतः एतत। भूम्नि हि मतुप्भवति । (कात्यायन वार्तिक)विशिष्टा वा षष्ठी स्थानेयोगा(वार्तिकान्त) । अथ वा किं चिद्लिङ्गं आसज्य वक्ष्यामि : इत्थंलिङ्गा षष्ठी स्थानेयोगा भवति इति । न तत्लिङ्गं अवयवषष्ठ्यादिषु करिष्यते । यदि एवं शासः इतङ्हलोः शा हौ शासिग्रहणं कर्तव्यं स्थानेयोगार्थं लिङ्गं आसङ्क्ष्यामि इति । न कर्तव्यं । यतेव अदः पुरस्तातवयवषष्ठ्यर्थं प्रकृतं एततुत्तरत्र अनुवृत्तं सत्स्थानेयोगार्थं भविष्यति । कथं । अधिकारः नाम त्रिप्रकारः । कः चितेकदेशस्थः सर्वं शास्त्रं अभिज्वलयति यथा प्रदीपः सुप्रविज्वलितः सर्वं वेश्म अभिज्वलयति । अपरः अधिकारः यथा रज्ज्वा अयसा वा बद्धं काष्ठं अनुकृष्यते तद्वतनुकृष्यते चकारेण । अपरः अधिकारः प्रतियोगं तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते । तत्यदा एषः पक्षः अधिकारः प्रतियोगं तस्य अनिर्देशार्थः इति तदा हि यतेव अदः पुरस्तातवयवषष्ठ्यर्थं प्रकऋतं एततुत्तरत्र अनुवृत्तं सत्स्थानेयोगार्थं भविष्यति । सम्प्रत्ययमात्रं एतत्भवति । न हि अनुच्चार्य शब्दं लिङ्गं शक्यं आसङ्क्तुं । एवं तर्हि आदेशे तत्लिङ्गं करिष्यते तत्प्रकृतिं आस्कन्त्स्यति । यदि नियमः क्रियते यत्र एका षष्ठी अनेकं च विशेष्यं तत्र न सिध्यति : अङ्गस्य , हलः , अणः , सम्प्रसारणस्य इति । हलपि विशेष्यः अणपि विशेष्यः सम्प्रसारणं अपि विशेष्यं । असति पुनः नियमे कामचारः एकया षष्थ्या अनेकं विशेषयितुं । तत्यथा । देवदत्तस्य पुत्रः पाणिः कम्बलः इति । तस्मात्न अर्थः नियमेन । ननु च उक्तं एकशतं षष्ठ्यर्थाः यावन्तः वा ते सर्वे षष्ठ्यां उच्चारितायां प्राप्नुवन्ति इति । न एषः दोषः । यदि अपि लोके बहवः अभिसम्बन्धाः आर्थाः यौनाः मौखाः स्रौवाः च शब्दस्य तु शब्देन कः अन्यः अभिसम्बन्धः भवितुं अर्हति अन्यततः स्थानात। शब्दस्य अपि शब्देन अनन्तरादयः अभिसम्बन्धाः । अस्तेः भूः भवति इति सन्देहः : स्थाने अनन्तरे समीपे इति । सन्देहमात्रं एतत्भवति । सर्वसन्देहेषु च इदं उपतिष्ठते : व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहातलक्षणं इति । स्थाने इति व्याख्यास्यामः । न तर्हि इदानीं अयं योगः वक्तव्यः । वक्तव्यः च । किं प्रयोजनं । षष्ठ्यन्तं स्थानेन यथा युज्येत यतः षष्ठी उच्चारिता । किं कृतं भवति । निर्दिश्यमानस्य आदेशाः भवन्ति इति एषा परिभाषा न कर्तव्या भवति ।
पाणिनीयसूत्र १,१।५०।१) कि.,१२०।२-१३ रो.,३६४-३६६ किं उदाहरणं । इकः यणचि : दधि अत्र मधु अत्र : तालुस्थानस्य तालुस्थानः ओष्ठस्थानस्य ओष्ठस्थानः यथा स्यात। न एततस्ति । सङ्ख्यातानुदेशेन अपि एतत्सिद्धं । इदं तर्हि : तस्थस्थमिपां ताम्तम्तामः इति एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बहुवर्थः यथा स्यात। ननु च एततपि सङ्ख्यातानुदेशेन एव सिद्धं । इदं तर्हि : अकः सवर्णे दीर्घः इति : दण्डाग्रं , क्षुपाग्रं , दधि इन्द्रः , मधु उष्ट्रः इति : कण्ठस्थानयोः कण्ठस्थानः तालुस्थानयोः तालुस्थानः ओष्ठस्थानयोः ओष्ठस्थानः यथा स्यातिति । अथ स्थाने इति वर्तमाने पुनः स्थानग्रहणं किमर्थं । यत्र अनेकविधं आन्तर्यं तत्र स्थानतः एव आन्तर्यं बलीयः यथा स्यात। किं पुनः तत। चेता स्तोता : प्रमाणतः अकारः गुणः प्राप्नोति स्थानतः एकारौकारौ । पुनः स्थानग्रहणातेकारौकारौ भवतः । अथ तमब्ग्रहणं किमर्थं । झयः हः अन्यतरस्यां इति अत्र सोष्मणः सोष्माणः इति द्वितीयाः प्रसक्ताः नादवतः नादवन्तः इति तृतीयाः । तमप्ग्रहणेन सोष्माणः नादवन्तः च ते भवन्ति चतुर्थाः : वाग्घसति त्रिष्टुब्भसति इति ।
पाणिनीयसूत्र १,१।५०।२) कि.,१२०।१४-१२१।२९ रो.,३६६-३७० किमर्थं पुनः इदं उच्यते । (कात्यायन वार्तिक)स्थानिनः एकत्वनिर्देशातनेकादेशनिर्देशात्च सर्वप्रसङ्गः तस्मात्स्थानेन्तरतमवचनं (वार्तिकान्त)। स्थानी एकत्वेन निर्दिश्यते : अकः इति , अनेकः च पुनः आदेशः प्रतिनिर्दिश्यते : दीर्घः इति । स्थानिनः एकत्वनिर्देशातनेकादेशनिर्देशात्च सर्वप्रसङ्गः । सर्वे सर्वत्र प्राप्नुवन्ति । इष्यते च अन्तरतमाः एव स्युः इति । तत्च अन्तरेण यत्नं न सिध्यति । तस्मात्स्थाने अन्तरतमः इति वचनं नियमार्थं । एवमर्थं इदं उच्यते । अस्ति प्रयोजनं एतत। किं तर्हि इति । यथा पुनः इयं अन्तरतमनिर्वृत्त्तिः सा किं प्रकृतितः भवति : स्थानिनि अन्तरतमे षष्ठी , आहोस्वितादेशतः : स्थाने प्राप्यमाणानां अन्तरतमः आदेशः भवति इति । कुतः पुनः इयं विचारणा । उभयथा अपि तुल्या संहिता : स्थानेन्तरतम , उरण्रपरः इति । किं च अतः । यदि प्रकृतितः : इकः यणचि : यणां ये अन्तरतमाः इकः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति इह एव स्यातः दधि अत्र मधु अत्र । कुमारी अत्र ब्रह्मबन्ध्वर्थं इति अत्र न स्यात। आदेशतः पुनः अन्तरतमनिर्वृत्तौ सत्यां सर्वत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति सर्वत्र सिद्धं भवति । तथा इकः गुणवृद्धी : गुणवृद्ध्योः ये अन्तरतमाः इकः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति इह एव स्यातः नेता लविता नायकः लावकः । चेता स्तोता चायकः स्तावकः इति अत्र न स्यात। आदेशतः पुनः अन्तरतमनिर्वृत्तौ सत्यां सर्वत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति सर्वत्र सिद्धं भवति । तथा ऋवर्णस्य गुणवृद्धिप्रसङ्गे गुणवृद्ध्योः यतन्तरतमं ऋवर्णं तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति इह एव स्यातः कर्ता हर्ता , आस्तारकः , निपारकः । आस्तरिता निपरिता कारकः , हारकः इति अत्र न स्यात। आदेशतः पुनः अन्तरतमनिर्वृत्तौ सत्यां सर्वत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति सर्वत्र सिद्धं भवति । अथ आदेशतः अन्तरतमनिर्वृत्तौ सत्यां अयं दोषः : वान्तः यि प्रत्यये : स्थानिनिर्देशः कर्तव्यः । ओकारौकारयोः इति वक्तव्यं एकारैकारयोः मा भूतिति । प्रकृतितः पुनः अन्तरतमनिर्वृत्तौ सत्यां वान्तादेशस्य या अन्तरतमा प्रकृतिः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति अन्तरेण स्थानिनिर्देशं सिद्धं भवति । आदेशतः अपि अन्तरतमनिर्वृत्तौ सत्यां न दोषः । कथं । वान्तग्रहणं न करिष्यते । यि प्रत्यये एचः अयादयः भवन्ति इति एव। यदि न क्रियते चेयं , जेयं इति अत्र अपि प्राप्नोति । क्षय्यजय्यौ शक्यार्थे इति एतत्नियमार्थं भविष्यति : क्षिज्योः एव एचः इति । तयोः तर्हि शक्यार्थातन्यत्र अपि प्राप्नोति : क्षेयं पापं जेयः वृषलः इति । उभयतः नियमः विज्ञास्यते : क्षिज्योः एव एचः अनयोः च शक्याऋथे एव इति । इह अपि तर्हि नियमात्न प्राप्नोति : लव्यं , पव्यं अवश्यलाव्यं अवश्यपाव्यं इति । तुल्यजातीयस्य नियमः । कः च तुल्यजातीयः । यथाजातीयकः क्षिज्योः एच। कथञ्जातीयकः क्षिज्योः एच। एकारः । एवं अपि रायं इच्छति रैयति अत्र अपि प्राप्नोति । रायिः छान्दसः । दृष्टानुविधिः छन्दसि भवति । ऊदुपधयाः गोहः : आदेशतः अन्तरतमनिर्वृत्तौ सत्यां उपधाग्रहणं कर्तव्यं । प्रकृतितः पुनः अन्तरतमनिर्वृत्तौ सत्यां ऊकारस्य गोहः या अन्तरतमा प्रकृतिः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति अन्तरेण उपधाग्रहणं सिद्धं भवति । आदेशतः अपि अन्तरतमनिर्वृत्तौ सत्यां न दोषः । क्रियते एतत्न्यासे एव । रदाभ्यां निष्ठातः नः पूर्वस्य च दः : आदेशतः अन्तरतमनिर्वृत्तौ सत्यां तकारग्रहणं कर्तव्यं । प्रकृतितः पुनः अन्तरतमनिर्वृत्तौ सत्यां नकारस्य निष्ठायां या अन्तरतमा प्रकृतिः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति अन्तरेण तकारग्रहणं सिद्धं भवति । आदेशतः अपि अन्तरतमनिर्वृत्तौ सत्यां न दोषः । क्रियते एतत्न्यासे एव ।
पाणिनीयसूत्र १,१।५०।३) कि.,१२२।१-२० रो.,३७०-३७२ किं पुनः इदं निर्वर्तकं : अन्तरतमाः अनेन निर्वर्त्यन्ते , आहोस्वित्प्रतिपादकं : अन्येन निर्वृत्तानां अनेन प्रतिपत्तिः । कः च अत्र विशेषः । (कात्यायन वार्तिक)स्थाने अन्तरतमनिर्वतके स्थानिनिवृत्तिः(वार्तिकान्त) । स्थाने अन्तरतमनिर्वतके सर्वस्थानिनां निवृत्तिः प्राप्नोति । अस्य अपि प्राप्नोति : दधि मधु । अस्तु । न कः चितन्यः आदेशः प्रतिनिर्दिश्यते । तत्र आन्तर्यतः दधिशब्दस्य दधिशब्दः एव मधुशब्दस्य मधुशब्दः एव आदेशः भविष्यति । यदि च एवं क्व चित्वैरूप्यं तत्र दोषः स्यातः बिसं बिसं , मुसलं मुसलं । इण्कोः इति षत्वं प्राप्नोति । अपि च इष्टा व्यवस्था न प्रकल्पेत । तत्यथा तप्ते भ्राष्ट्रे तिलाः क्षिप्ताः मुहूर्तं अपि न अवतिष्ठन्ते एवं इमे वर्णाः मुहूर्तं अपि न अवतिष्ठेरन। अस्तु तर्हि प्रतिपादकं : अन्येन निर्वृत्तानां अनेन प्रतिपत्तिः । (कात्यायन वार्तिक)निर्वृत्तप्रतिपत्तौ निर्वृत्तिः(वार्तिकान्त) । निर्वृत्तप्रतिपत्तौ निर्वृत्तिः न सिध्यति । सर्वे सर्वत्र प्राप्नुवन्ति । किं तर्हि उच्यते निर्वृत्तिः न सिध्यति इति । न साधीयः निर्वृत्तिः सिद्धा भवति । न ब्रूमः निर्वृत्तिः न सिध्यति इति । किं तर्हि । इष्टा व्यवस्था न प्रकल्पेत । न सर्वे सर्वत्र इष्यन्ते । इदं इदानीं किमर्थं स्यात। (कात्यायन वार्तिक)अनर्थकं च(वार्तिकान्त) । अनर्थकं एतत्स्यात। यः हि भुक्तवन्तं ब्रूयात्मा भुक्थाः इति किं तेन कृतं स्यात। (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । सिद्धं तु षष्ठ्यधिकारे वचनातिति । षष्ठ्यधिकारे अयं योगः कर्त्व्यः : स्थाने अन्तरतमः षष्ठीनिर्दिष्टस्य ।
पाणिनीयसूत्र १,१।५०।४) कि.,१२२।२१-१२३।१६ रो.,३७२-३७३ (कात्यायन वार्तिक)प्रत्यात्मवचनं च(वार्तिकान्त) । प्रत्यात्मं इति च वक्तव्यं । किं प्रयोजनं । यः यस्य अन्तरतमः स तस्य स्थाने यथा स्यातन्यस्य अन्तरतमः अन्यस्य स्थाने मा भूतिति । (कात्यायन वार्तिक)प्रत्यात्मवचनं अशिष्यं स्वभावसिद्धत्वात्(वार्तिकान्त) । प्रत्यात्मवचनं अशिष्यं । किं कारणं । स्वभावसिद्धत्वात। स्वभावतः एतत्सिद्धं । तत्यथा : समाजेषु समाशेषु समवायेषु च आस्यतां इति उच्यते । न च उच्यते प्रत्यात्मं इति प्रत्यात्मं च आसते । (कात्यायन वार्तिक)अन्तरतमवचनं च(वार्तिकान्त) । अन्तरतमवचनं च अशिष्यं । योगः च अपि अयं अशिष्यः । कुतः । स्वभावसिद्धत्वातेव । तत्यथा : समाजेषु समाशेषु समवायेषु च आस्यतां इति उक्ते न एव कृशाः कृशैः सह आसत न पाण्डवः पाण्डुभिः । येषां एव किं चितर्थकृतं आन्तर्यं तैः एव सः आसते । तथा गावः दिवसं चरितवत्यः यः यस्याः प्रसवः भवति तेन सह शेरते । तथा यानि एतानि गोयुक्तकानि सङ्घुष्टकानि भवन्ति तानि अन्योन्यं पश्यन्ति सब्दं कुर्वन्ति । एवं तावत्चेतनावत्सु । अचेतनेषु अपि । लोष्टः क्षिप्तः बाहुवेगं गत्वा न एव तिर्यक्गच्छति न ऊर्ध्वं आरोहति पृथिवीविकारः पृथिवीं गच्छति आन्तर्यतः । तथा या एताः आन्तरिक्ष्यः सूक्ष्माः आपः तासां विकारः धूमः सः आकाशदेशे निवाते न एव तिर्यक्गच्छति न अवाकवरोहति अब्विकारः अपः एव गच्छति आन्तर्यतः । तथा ज्योतिषः विकारः अर्चिः आकाशदेशे निवाते सुप्रज्वलितः न एव तिर्यक्गच्छति न अवाकवरोहति ज्योतिषः विकारः ज्योतिः एव गच्छति आन्तर्यतः ।
पाणिनीयसूत्र १,१।५०।५) कि.,१२३।१७-१२५।१५ रो., ३७३-३७७ (कात्यायन वार्तिक)व्यञ्जनस्वरव्यतिक्रमे च तत्कालप्रसङ्गः(वार्तिकान्त) । व्यञ्जनव्यतिक्रमे स्वरव्यतिक्रमे च तत्कालता प्राप्नोति । व्यञ्जनव्यतिक्रमे : इष्टं उप्तं । आन्तर्यतः अर्धमात्रिकस्य व्यञ्जनस्य अर्धमात्रिकः इक्प्राप्नोति । न एव लोके न च वेदे अर्धमात्रिकः इकस्ति । कः तर्हि । मात्रिकः । यः अस्ति सः भविष्यति । स्वरव्यतिक्रमे : दधि अत्र मधु अत्र कुमारी अत्र ब्रह्मबन्ध्वर्थं इति । आन्तर्यतः मात्रिकस्य द्विमात्रिकस्य इकः मात्रिकः द्विमात्रिकः वा यण्प्राप्नोति । न एव लोके न च वेदे मात्रिकः द्विमात्रिकः वा यणस्ति ।कः तर्हि । अर्धमात्रिकः । यः अस्ति सः भविष्यति । (कात्यायन वार्तिक)अक्षु च अनेकवर्णादेशेषु(वार्तिकान्त) । अक्षु च अनेकवर्णादेशेषु तत्कालता प्राप्नोति । इदमः इशः आन्तर्यतः अर्ध्तृतीयमात्रस्य इदमः स्थाने अर्ध्तृतीयमात्रं इवर्णं प्राप्नोति । न एषः दोषः । भाव्यमानेन सवर्णानां ग्रहणं न इति एवं न भविष्यति । (कात्यायन वार्तिक)गुणवृद्ध्येज्भावेषु च(वार्तिकान्त) । गुणवृद्ध्येज्भावेषु च तत्कालता प्राप्नोति : खट्वा इन्द्रः खट्वेन्द्रः खट्वा उदकं खट्वोदकं खट्वा ईषा खट्वेषा खट्वा ऊढा खट्वोढा खट्वा एलका खट्वैलका खट्वा ओदनः खट्वौदनः , खट्वा ऐतिकयनः खट्वैतिकायनः , खट्वा औपगवः खट्वौपगवः इति । आन्तर्यतः त्रिमात्र्चतुर्मात्राणां स्थानिनां त्रिमात्रचतुर्मात्राः आदेशाः प्राप्नुवन्ति । न एषः दोषाः । तपरे गुणवृद्धी । ननु च तः परः यस्मात्सः अयं तपरः । न इति आह । तातपि परः तपरः । यदि तातपि परः तपरः ®दोः अपिति इह एव स्यातः यवः , स्तवः । लवः , पवः इति अत्र न स्यात। न एषः तकारः । कः तर्हि । दकारः । किं दकारे प्रयोजनं । अथ किं तकारे प्रयोजनं । यदि असन्देहार्थः तकारः दकारः अपि । अथ मुखसुखार्थः तकारः दकारः अपि । एज्भावे : कुर्वाते कुर्वाथे । आन्तर्यतः अर्धतृतीयमात्रस्य टिसञ्ज्ञकस्य अर्धतृतीयमात्रः एः प्राप्नोति । न एव लोके न च वेदे अर्धतृतीयमात्रः एः अस्ति । (कात्यायन वार्तिक)ऋवर्णस्य गुणवृद्धिप्रसङ्गे सर्वप्रसङ्गः अविशेषात्(वार्तिकान्त) । ऋवर्णस्य गुणवृद्धिप्रसङ्गे सर्वप्रसङ्गः । सर्वे गुणवृद्धिसञ्ज्ञकाः ऋवर्णस्य स्थाने प्राप्नुवन्ति । किं कारणं । अविशेषात। न हि कः चित्विशेषः उपादीयते एवञ्जातीयकः गुणवृद्धिसञ्ज्ञकः ऋवर्णस्य स्थाने भवति इति । अनुपादीयमाने विशेषे सर्वप्रसङ्गः । (कात्यायन वार्तिक)न वा ऋवर्णस्य स्थाने रपरप्रसङ्गातवर्णस्य आन्तर्यम्(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । ऋवर्णस्य स्थाने रपरप्रसङ्गात। उः स्थाने अण्प्रसज्यमानः एव रपरः भवति इति उच्यते । तत्र ऋवर्णस्य आन्तर्यतः रेफवतः रेफवानकारः एव अन्तरतमः भवति । (कात्यायन वार्तिक)सर्वादेशप्रसङ्गः तु अनेकाल्त्वात्(वार्तिकान्त) । सर्वादेशप्रसङ्गः तु गुणवृद्धिसञ्ज्ञकः ऋवर्णस्य प्राप्नोति । किं कारणं । अनेकाल्त्वात। अनेकाल्शित्सर्वस्य इति । (कात्यायन वार्तिक)न वा अनेकाल्त्वस्य तदाश्रयत्वातृवर्णादेशस्य अविघातः(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । अनेकाल्त्वस्य तदाश्रयत्वात। यदा अयं उः स्थाने तदा अनेकाल। अनेकाल्त्वस्य तदाश्रयत्वातृवर्णादेशस्य विघातः न भविष्यति । अथवा अनान्तर्यं एव एतयोः आन्तर्यं । एकस्य अपि अन्तरतमा प्रकृतिः न अस्ति अपरस्य अपि अन्तरतमः आदेशः न अस्ति । एततेव एतयोः आन्तर्यं । (कात्यायन वार्तिक)सम्प्रयोगः वा नष्टाश्वदग्धरथवत्(वार्तिकान्त) । अथ वा नष्टाश्वदग्धरथवत्सम्प्रयोगः भवति । तत्यथा : तव अश्वः नष्टः मम अपि रथः दग्धः । उभौ सम्प्रयुज्यावहै इति । एवं इह अपि : तव अपि अन्तरतमा प्रकृतिः न अस्ति मम अपि अन्तरतमः आदेशः न अस्ति । अस्तु नौ सम्प्रयोगः इति । विषमः उपन्यासः । चेतनावत्सु अर्थात्प्रकरणात्वा लोके सम्प्रयोगः भवति । वर्णाः च पुनः अचेतनाः । तत्र किङ्कृतः सम्प्रयोगः । यदि अपि वर्णाः अचेतनाः यः तु असौ प्रयुङ्क्ते सः चेतनावान। (कात्यायन वार्तिक)एजवर्णयोः आदेशे अवर्णं स्थानिनः अवर्णप्रधानत्वात्(वार्तिकान्त) । एजवर्णयोः आदेशे अवर्णं प्राप्नोति :खट्वा एलका , माला औपगवः । किं कारणं । स्थानिनः अवर्णप्रधानत्वात। स्थानी हि अत्र अवर्णप्रधानः । (कात्यायन वार्तिक)सिद्धं तु उभयान्तर्यात्(वार्तिकान्त) । सिद्धं एतत। कथं । उभयोः यः अन्तरतमः तेन भवितव्यं । न च अवर्णं उभयोः अन्तरतमं ।
पाणिनीयसूत्र १,१।५१।१) कि.,१२५।१७-१२६।१९ रो.,३७८-३८१ किं इदं उरण्रपरवचनं अन्यनिवृत्त्यर्थं : उः स्थाने अणेव भवति रपरः च इति , आहोस्वित्रपरत्वं अनेन विधीयते : उः स्थाने अण्च अनण्च अण्तु रपरः एव । कः च अत्र विशेषः । (कात्यायन वार्तिक)उरण्रपरवचनं अन्यनिवृत्त्यर्थं चेतुदात्तादिषु दोषः(वार्तिकान्त) । उरण्रपरवचनं अन्यनिवृत्त्यर्थं चेतुदात्तादिषु दोषः भवति । के पुनः उदात्तादयः । उदात्तानुदात्तस्वरितानुनासिकाः । कृतिः , हृतिः , कृतं , हृतं , प्रकृतं , प्रहृतं न्®Á: पाहि । अस्तु तर्हि उः स्थाने अण्च अनण्च अण्तु रपरः इति । य्(कात्यायन वार्तिक)अः उः स्थाने सः रपरः इति चेत्गुणवृद्ध्योः अवर्णाप्रतिपत्तिः(वार्तिकान्त) । यः उः स्थाने सः रपरः इति चेत्गुणवृद्ध्योः अवर्णाप्रतिपत्तिः । कर्ता हर्ता वार्षगण्यः । किं हि साधीयः ऋवर्णस्य असवर्णे यतवर्णं स्यात्न पुनः एङैचौ । पूर्वस्मिनपि पक्षे एषः दोषः । किं हि साधीयः तत्र अपि ऋवर्णस्य असवर्णे यतवर्णं स्यात्न पुनः इवर्णोवर्णौ । अथ मतं एततुः स्थाने अणः च अनणः च प्रसङ्गे अणेव भवति रपरः च इति सिद्धा पूर्वस्मिन्पक्षे अवर्णस्य प्रतिपत्तिः । यत्तु ततुक्तं उदात्तादिषु दोषः भवति इति इह सः दोषः जायते । न जायते । जायते सः दोषः । कथं । उदात्तः इति अनेन अणः अपि प्रतिनिर्दिश्यन्ते अनणः अपि । यदि अपि प्रतिनिर्दिश्यन्ते न तु प्राप्नुवन्ति । किं कारणं । स्थाने अन्तरतमः भवति । कुतः नु खलु द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः स्थाने अन्तरतमः उः अण्रपरः इति च स्थाने अन्तरतमः इति अनया परिभाषया व्यवस्था भविष्यति न पुनः उः अण्रपरः इति । अतः किं । अतः एषः दोषः जायते : उदात्तादिषु दोषः इति । ये च अपि एते ऋवर्णस्य स्थाने प्रतिपदं आदेशाः उच्यन्ते तेषु रपरत्वं न प्राप्नोति : ®तः इत्धातोः उतोष्ठ्यपूर्वस्य इति । (कात्यायन वार्तिक)सिद्धं तु प्रसङ्गे रपरत्वात्(वार्तिकान्त) । सिद्धं एतत। कथं । प्रसङ्गे रपरत्वात। उः स्थाने अण्प्रसज्यमानः एव रपरः भवति इति । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । स्थाने इति वर्तते स्थानशब्दः च प्रसङ्गवाची । यदि एवं आदेशः अविशेषितः भवति । आदेशः च विशेषितः । कथं । द्वितीयं स्थानग्रहणं प्रकृतं अनुवर्तते। तत्र एवं अभिसम्बन्धः करिष्यते : उः स्थाने अण्स्थाने इति । उः प्रसङ्गे अण्प्रसज्यमानः एव रपरः भवति ।
पाणिनीयसूत्र १,१।५१।२) कि.,१२६।२०-१२७।३ रो.,३८२ अथ अण्ग्रहणं किमर्थं न उः रपरः इति एव उच्येत । उः रपरः इति इयति उच्यमाने कः इदानीं रपरः स्यात। यः उः स्थाने भवति । कः च उः स्थाने भवति । आदेशः । (कात्यायन वार्तिक)आदेशः रपरः इति चेत्रीरिविधिषु रपरप्रतिषेधः(वार्तिकान्त) । आदेशः रपरः इति चेत्रीरिविधिषु रपरत्वस्य प्रतिषेधः वक्तव्यः । के पुनः रीरिविधयः । अकङ्लोपानङनङ्रीङ्रिङादेशाः । अकङः सौधातकिः । लोपः : पैतृष्वसेयः । आनङः होतापोतारौ । अनङः कर्ता हर्ता । रीङः मात्रीयति पित्रीयति । रिङः क्रियते ह्रियते । (कात्यायन वार्तिक)उदात्तादिषु च(वार्तिकान्त) । किं । रपरत्वस्य प्रतिषेधः वक्तव्यः । कृतिः , हृतिः , कृतं , हृतं , प्रकृतं , प्रहृतं न्®Á: पाहि । तस्मातण्ग्रहणं कर्तव्यं ।
पाणिनीयसूत्र १,१।५१।३) कि.,१२७।४-२४ रो.,३८२-३८५ (कात्यायन वार्तिक)एकादेशस्य उपसङ्ख्यानम्(वार्तिकान्त) । एकादेशस्य उपसङ्ख्यानं कर्तव्यं : खट्वर्श्यः , मालर्श्यः । किं पुनः कारणं न सिध्यति । उः स्थाने अण्प्रसज्यमानः एव रपरः भवति इति उच्यते न च अयं उः एव स्थाने अण्शिष्यते । किं तर्हि । उः च अन्यस्य च । अवयवग्रहणात्सिद्धं । यतत्र ऋवर्णं तदाश्रयं रपरत्वं भविष्यति । तत्यथा माषाः न भोक्तव्याः इति मिश्राः अपि न भुज्यन्ते । (कात्यायन वार्तिक)अवयवग्रहणात्सिद्धं इति चेतादेशे रान्तप्रतिषेधः(वार्तिकान्त) । अव्ययवग्रहणात्सिद्धं इति चेतादेशे रान्तस्य प्रतिषेधः वक्तव्यः : होतापोतारौ । यथा एव उः च अन्यस्य च स्थाने अण्रपरः भवति एवं यः उः स्थाने अण्च अनण्च सः अपि रपरः स्यात। यदि पुनः ऋवर्णान्तस्य स्थानिनः रपरत्वं उच्येत : खट्वर्श्यः , मालर्श्यः । न एवं शक्यं । इह हि दोषः स्यातः कर्ता हर्ता किरति गिरति । ऋवर्णान्तस्य इति उच्यते । न च एततृवर्णान्तं । ननु च एततपि व्यपदेशिवद्भावेन ऋवर्णान्तं । अर्थवता व्यपदेशिवद्भावः न च एषः अर्थवान। तस्मात्न एवं शक्यं । न चेतेवं उपसङ्ख्यानं कर्तव्यं । इह च रपरत्वप्रतिषेधः वक्तव्यः : मातुः , पितुः इति । उभयं न वक्तव्यं । कथं । इह यः द्वयोः षष्ठीनिर्दिष्टयोः प्रसङ्गे भवति लभते असौ अन्यतरतः व्यपदेशं । तत्यथा देवदत्तस्य पुत्रः , देवदत्तायाः पुत्रः इति । कथं मातुः पितुः इति । अस्तु अत्र रपरत्वं । का रूपसिद्दिः । रात्सस्य इति सकारस्य लोपः रेफस्य विसर्जनीयः । न एवं शक्यं । इह हि मातुः करोति , पितुः करोति इति अप्रत्ययविसर्जनीयस्य इति षत्वं प्रसज्येत । अप्रत्ययस्विसर्जनीयस्य इति उच्यते । प्रत्ययविसर्जनीयः च अयं । लुप्यते अत्र प्रत्ययः रात्सस्य इति । एवं तर्हि भ्रातुष्पुत्रग्रहणं ज्ञापकं एकादेशनिमित्तात्षत्वप्रतिषेधस्य । यतयं कस्कादिषु भ्रातुष्पुत्रशब्दं पठति तत्ज्ञापयति आचार्यः न एकादेशनिमित्त्तात्षत्वं भवति इति।
पाणिनीयसूत्र १,१।५१।४) कि.,१२७।२५-१३०।२ रो.,३८५-३९१ किं पुनः अयं पूर्वान्तः आहोस्वित्परादिः आहोस्वितभक्तः । कथं च अयं पूर्वान्तः स्यात्कथं वा परादिः कथं वा अभक्तः । यदि अन्तः इति वर्तते ततः पूर्वान्तः । अथ आदिः इति वर्तते ततः परादिः । अथ उभयं निवृत्तं ततः अभक्तः । कः च अत्र विशेषः । (कात्यायन वार्तिक)अभक्ते दीर्घलत्वयगभ्यस्तस्वरहलादिशेषविसर्जनीयप्रतिषेधः प्रत्ययाव्यवस्था च(वार्तिकान्त) । यदि अभक्तः दीर्घत्वं न प्राप्नोति : गीः , पूः । रेफवकारान्तस्य धातोः इति दीर्घत्वं न प्राप्नोति । किं पुनः कारणं रेफवकाराभ्यां धातुः विशेष्यते न पुनः पदं विशेष्यते रेफवकारान्तस्य पदस्य इति । न एवं शक्यं । इह अपि प्रसज्येत : अग्निः , वायुः इति । एवं तर्हि रेफवकाराभ्यां पदं विशेषयिष्यामः धातुना इकं : रेफवकारान्तस्य पदस्य इकः धातोः इति । एवं अपि प्रियं ग्रामणि कुलं अस्य प्रियग्रामणिः , प्रियसेनानिः अत्र अपि प्राप्नोति । तस्मात्धातुः एव विशेष्यते । धातौ च विशेष्यमाणे इह दीर्घत्वं न प्राप्नोति : गीः , पूः । दीर्घ । लत्व : लत्वं च न सिध्यति : निजेगिल्यते । ग्रः यङि इति लत्वं न प्राप्नोति । न एषः दोषः । ग्रः इति अनन्तरयोगा एषा षष्ठी । एवं अपि स्वः जेगिल्यते इति अत्र अपि प्राप्नोति । एवं तर्हि यङा आनन्तर्यं विशेषयिष्यामः । अथ वा ग्रः इति पञ्चमी । लत्व । यक्स्वर : यक्स्वरः च न सिध्यति । गीर्यते स्वयं एव , पुर्यते स्वयं एव । अचः कर्तृयकि इति एषः स्वरः न प्राप्नोति रेफेण व्यवहितत्वात। न एषः दोषः । स्वरविधौ व्यञ्जनं अविद्यमानवतिति न अस्ति व्यवधानं । यक्स्वर । अभ्यस्तस्वर : अभ्यस्तस्वरः च न सिध्यति : म हि स्म ते पिपरुः , म हि स्म ते बिभरुः । अभ्यस्तानां आदिः उदात्तः भवति अजादौ लसार्वधातुके इति एषः स्वरः न प्राप्नोति रेफेण व्यवहितत्वात। न एषः दोषः । स्वरविधौ व्यञ्जमं अविद्यमानवतिति न अस्ति व्यवधानं । अभ्यस्तस्वर । हलादिशेष : हलादिशेषः च न सिध्यति : ववृते ववृधे । अभ्यासस्य इति हलादिशेषः न प्राप्नोति । हलादिशेष । विसर्जनीय : विसर्जनीयस्य च प्रतिषेधः वक्तव्यः : नार्कुटः , नार्पत्यः । खरवसानयोः विसर्जनीयः इति विसर्जनीयः प्राप्नोति । विसर्जनीय । प्रत्ययाव्यवस्था : प्रत्यये व्यवस्था न प्रकल्पते : किरतः , गिरतः । रेफः अपि अभक्तः प्रत्ययः अपि । तत्र व्यवस्था न प्रकल्पते । एवं तर्हि पूर्वान्तः करिष्यते । (कात्यायन वार्तिक)पूर्वान्ते र्ववधारणं विसर्जनीयप्रतिषेधः यक्स्वरः च(वार्तिकान्त) । यदि पूर्वान्तः रोः अवधारणं कर्तव्यं : रोः सुपि । रोः एव सुपि न अन्यस्य रेफस्य : सर्पिष्षु धनुष्षु । इह मा भूतः गीर्षु पूर्षु । परादौ अपि सति अवधारणं कर्तव्यं चतुर्षु इति एवं अर्थं । विसर्जनीयप्रतिषेधः : विसर्जनीयस्य च प्रतिषेधः वक्तव्यः : नार्कुटः , नार्पत्यः । खरवसानयोः विसर्जनीयः इति विसर्जनीयः प्राप्नोति । परादौ अपि विसर्जनीयस्य प्रतिषेधः वक्तव्यः नार्कल्पिः इति एवमर्थं । कल्पिपदसङ्घातभक्तः असौ न उत्सहते अवयवस्य पदान्ततां विहन्तुं इति कृत्वा विसर्जनीयः प्राप्नोति । यक्स्वरः : यक्स्वरः च न सिध्यति : गीर्यते स्वयं एव , पुर्यते स्वयं एव । अचः कर्तृयकि इति एषः स्वरः न प्राप्नोति । न एषः दोषः । उपदेशे इति वर्तते । अथ वा पुनः अस्तु परादिः । (कात्यायन वार्तिक)परादौ अकारलोपौत्वपुक्प्रतिषेधः चङि उपधाह्रस्वत्वं इटः अव्यवस्था अभ्यासलोपः अभ्यस्ततादिस्वरः दीर्घत्वं च(वार्तिकान्त) । यदि परादिः अकारलोपः प्रतिषेध्यः : कर्ता हर्ता : अतः लोपः आर्धधातुके इति अकारलोपः प्राप्नोति । न एषः दोषः । उपदेशे इति वर्तते । यदि उपदेशे इति वर्तते धिनुतः , कृणुतः अत्र लोपः न प्राप्नोति । न उपदेशग्रहणेन प्रकृतिः अभिसम्बध्यते । किं तर्हि । आर्धधातुकं अभिसम्बध्यते । आर्धधातुकोपदेशे यतकारान्तं इति । अकारलोप । औत्व : औत्वं च प्रतिषेध्यं : चकार जहार । आतः औ णलः इति औत्वं प्राप्नोति । न एषः दोषः । निर्दिश्यमानस्य आदेशाः भवन्ति इति एवं न भविष्यति । यः तर्हि निर्दिश्यते तस्य कस्मात्न भवति । रेफेन व्यवहितत्वात। औत्व । पुक्प्रतिषेधः : पुक्च प्रतिषेध्यः : कारयति हारयति । आतां पुकिति पुक्प्राप्नोति । पुक्प्रतिषेधः । चङि उपधाह्रस्वत्वं च न सिध्यति : अचीकरतजीहरत। णौ चङि उपधायाः ह्रस्वः इति ह्रस्वत्वं न प्राप्नोति । चङि उपधाह्रस्वत्वं । इटः अव्यवस्था : इटः च व्यवस्था न प्रकल्पते : आस्तरिता निपरिता । इटपि परादिः रेफः अपि । तत्र व्यवस्था न प्रकल्पते । इटः अव्यवस्था । अभ्यासलोपः : अभ्यासलोपः च वक्तव्यः : ववृते ववृधे । अभ्यासस्य इति हलादिशेषः न प्राप्नोति । अभ्यासलोपः । अभ्यस्तस्वर : अभ्यस्तस्वरः च न सिध्यति : म हि स्म ते पिपरुः , म हि स्म ते बिभरुः । अभ्यस्तानां आदिः उदात्तः भवति अजादौ लसार्वधातुके इति एषः स्वरः न प्राप्नोति । अभ्यस्तस्वर । तादिस्वरः : तादिस्वरः च न सिध्यति : प्रकर्ता प्रकर्तुं , प्रहर्ता प्रहर्तुं । तादौ च निति कृति अतौ इति एषः स्वरः न प्राप्नोति । न एषः दोषः । उक्तं एततः कृदुपदेशे वा ताद्यर्थं इडर्थं इति । तादिस्वरः । दीर्घत्वं : दीर्घत्वं च न सिध्यति : गीः , पूः । रेफवकारान्तस्य धातोः इति दीर्घत्वं न प्राप्नोति ।
पाणिनीयसूत्र १,१।५२।१) कि.,१३०।४-११ रो.,३९१-३९२ किं इदं अल्ग्रहणं अन्त्यविशेषणं आहोस्वितादेशविशेषणं । किं च अतः । यदि अन्त्यविशेषणं आदेशः अविशेषितः भवति । तत्र कः दोषः । अनेकालपि आदेशः अन्त्यस्य प्रसज्येत । यदि पुनः अलन्त्यस्य इति उच्येत । तत्र अयं अपि अर्थः अनेकाल्शित्सर्वस्य इति एतत्न वक्तव्यं भवति । इदं नियमार्थं भविष्यति : अलेव अन्त्यस्य भवति न अन्यः इति । एवं अपि अन्त्यः अविशेषितः भवति । तत्र कः दोषः । वाक्यस्य अपि पदस्य अपि अन्त्यस्य प्रसज्येत । यदि खलु अपि एषः अभिप्रायः तत्न क्रियेत इति अन्त्यविशेषणे अपि सति तत्न करिष्यते । कथं । ङित्च अलः अन्त्यस्य इति एतत्नियमार्थं भविष्यति : ङितेव अनेकालन्त्यस्य भवति न अन्यः इति ।
पाणिनीयसूत्र १,१।५२।२) कि.,१३०।१२-२० रो.,३९२-३९४ किमर्थं पुनः इदं उच्यते । (कात्यायन वार्तिक)अलः अन्त्यस्य इति स्थाने विज्ञातस्य अनुसंहारः(वार्तिकान्त) । अलः अन्त्यस्य इति स्थाने विज्ञातस्य अनुसंहारः क्रियते स्थाने प्रसक्तस्य । (कात्यायन वार्तिक)इतरथा हि अनिष्टप्रसङ्गः(वार्तिकान्त) । इतरथा हि अनिष्टप्रसङ्गः प्रसज्येत । टित्किन्मितः अपि अन्त्यस्य स्युः । यदि पुनः अयं योगशेषः विज्ञायेत । (कात्यायन वार्तिक)योगशेषे च(वार्तिकान्त) । किं । अनिष्टं प्रसज्येते । टित्किन्मितः अपि अन्त्यस्य स्युः । तस्मात्सुष्ठु उच्यते : अलः अन्त्यस्य इति स्थाने विज्ञातस्य अनुसंहारः इतरथा हि अनिष्टप्रसङ्गः इति ।
पाणिनीयसूत्र १,१।५३) कि.,१३०।२१-१३१।७ रो.,३९४-३९५ तातङन्त्यस्य कस्मात्न भवति । ङित्च अलः अन्त्यस्य इति प्राप्नोति । (कात्यायन वार्तिक)तातङि ङित्करणस्य सावकाशत्वात्विप्रतिषेधात्सर्वादेशः(वार्तिकान्त) । तातङि ङित्करणस्य सावकाशं । कः अवकाशः । गुणवृद्धिप्रतिषेधार्थः ङकारः । तातङि ङित्करणस्य सावकाशत्वात्विप्रतिषेधात्सर्वादेशः भविष्यति । प्रयोजनं नाम तत्वक्तव्यं यत्नियोगतः स्यात। यदि च अयं नियोगतः सर्वादेशः स्यात्ततः एतत्प्रयोजनं स्यात। कुतः नु खलु एतत्ङित्करणातयं सर्वादेशः भविष्यति न पुनः अन्त्यस्य स्यातिति । एवं तर्हि एततेव ज्ञापयति न तातङन्त्यस्य स्थाने भवति इति यतेतं ङितं करोति । इतरथा हि लोटः एरुप्रकरणे एव ब्रूयात्तिह्योः ताताशिषि अन्यतरस्यां इति ।
पाणिनीयसूत्र १,१।५४) कि.,१३१।९-१७ रो.,३९५-३९६ (कात्यायन वार्तिक)अलः अन्त्यस्य अदेः परस्य अनेकाल्शित्सर्वस्य इति अपवादविप्रतिषेधात्सर्वादेशः(वार्तिकान्त) । अलः अन्त्यस्य इति उत्सर्गः । तस्य आदेः परस्य अनेकाल्शित्सर्वस्य इति अपवादौ । अपवादविप्रतिषेधात्तु सर्वादेशः भविष्यति । आदेः परस्य इति अस्य अवकाशः द्व्यन्तरुपसर्गेभ्यः अपः ईतः द्वीपं अन्वीपं । अनेकाल्शित्सर्वस्य इति अस्य अवकाशः अस्तेः भूः : भविता भवितुं । इह उभयं प्राप्नोति : अतः भिसः ऐस। अनेकाल्शित्सर्वस्य इति एतत्भवति विप्रतिषेधेन । शित्सर्वस्य इति अस्य अवकाशः इदमः इशः इतः , इह । आदेः परस्य इति अस्य अवकाशः सः एव । इह उभयं प्राप्नोति : अष्टाभ्यः औश। शित्सर्वस्य इति एतत्भवति विप्रतिषेधेन ।
पाणिनीयसूत्र १,१।५५) कि.,१३१।१९-१३२।७ रो.,३९६-३९७ शित्सर्वस्य इति किं उदाहरणं । इदमः इशः इतः , इह । न एततस्ति प्रयोजनं । शित्करणातेव अत्र सर्वादेशः भविष्यति । इदं तर्हि : अष्टाभ्यः औश। ननु च अत्र अपि शित्करणातेव सर्वादेशः भविष्यति । इदं तर्हि : जसः शी जश्शसोः शिः । ननु च अत्र अपि शित्करणातेव सर्वादेशः भविष्यति । अस्ति अन्यत्शित्करणे प्रयोजनं । किं । विशेषणार्थः । क्व विशेषणार्थेन अर्थः । शि सर्वनामस्थानं विभाषा ङिश्योः इति । शित्सर्वस्य इति शक्यं अकर्तुं । कथं । अन्त्यस्य अयं स्थाने भवन्न प्रत्ययः स्यात। असत्यां प्रत्ययसञ्ज्ञायां इत्सञ्ज्ञा न स्यात। असत्यां इत्सञ्ज्ञायां लोपः न स्यात। असति लोपे अनेकाल। यदा अनेकाल्तदा सर्वादेशः । यदा सर्वादेशः तद प्रत्ययः । यदा प्रत्ययः तदा इत्सञ्ज्ञा । यदा इत्सञ्ज्ञा तदा लोपः । एवं तर्हि सिद्धे सति यत्शित्सर्वस्य इति आह तत्ज्ञापयति आचार्यः अस्ति एषा परिभाषा : न अनुबन्धकृतं अनेकाल्त्वं भवति इति । किं एतस्य ज्ञापने प्रयोजनं । तत्र असरूपसर्वादेशाप्प्रतिषेधेषु पृथक्त्वनिर्देशः अनाकारान्तत्वातिति उक्तं । तत्न वक्तव्यं भवति इति ।
पाणिनीयसूत्र १,१।५६।१) कि.,१३३।२-१६ रो.,३९८-४०१ वत्करणं किमर्थं । स्थानी आदेशः अनल्विधौ इति इयति उच्यमाने सञ्ज्ञाधिकरः अयं तत्र स्थानी आदेशस्य सञ्ज्ञा स्यात। तत्र कः दोषः । आङः यमहनः आत्मनेपदं भवति इति वधेः एव स्यात। हन्तेः न स्यात। वत्करणे पुनः क्रियमाणे न दोषः भवति । स्थानिकार्यं आदेशे अतिदिश्यते गुरुवत्गुरुपुत्रः इति यथा । अथ आदेशग्रहणं किमर्थं । स्थानिवतनल्विधौ इति इयति उच्यमाने कः इदानीं स्थानिवत्स्यात। यः स्थाने भवति । कः च स्थाने भवति । आदेशः । इदं तर्हि प्रयोजनं आदेशमात्रं स्थानिवत्यथा स्यात। एकदेशविकृतस्य उपसङ्ख्यानं चोदयिष्यति । तत्न वक्तव्यं भवति । अथ विधिग्रहणं किमर्थम। सर्वविभक्त्यन्तः समासः यथा विज्ञायेत : अलः परस्य विधिः अल्विधिः , अलः विधिः अल्विधिः , अलि विधिः अल्विधिः , अला विधिः अल्विधिः इति । न एततस्ति प्रयोजनं । प्रातिपदिकर्निर्देशः अयं । प्रातिपदिकर्निर्देशाः च अर्थतन्त्राः भवन्ति । न कां चित्प्राधान्येन विभक्तिं आश्रयन्ति । तत्र प्रातिपदिकार्थे निर्दिष्टे यां यां विभक्तिं आश्रयितुं बुद्धिः उपजायते सा सा आश्रयितव्या । इदं तर्हि प्रयोजनं : उत्तरपदलोपः यथा विज्ञायेत : अलं आश्रयते अलाशृअयः , अलाश्रयः विधिः अल्विधिः इति । यत्र प्राधान्येन अलाश्रीयते तत्र एव प्रतिषेधः स्यात। यत्र विशेषणत्वेन अलाश्रीयते तत्र प्रतिषेधः न स्यात। किं प्रयोजनं । प्रदीव्य प्रसीव्य इति वलादिलक्षणः इट्मा भूतिति ।
पाणिनीयसूत्र १,१।५६।२) कि.,१३३।१७-१३४।९ रो.,४०१-४०२ किमर्थं पुनः इदं उच्यते । (कात्यायन वार्तिक)स्थान्यादेशपृथक्त्वातादेशे स्थानिवदनुदेशः गुरुवत्गुरुपुत्रे इति यथा(वार्तिकान्त) । अन्यः स्थानी अन्यः आदेशः । स्थान्यादेशपृथक्त्वातेतस्मात्कारणात्स्थानिकार्यं आदेशे न प्राप्नोति । तत्र कः दोषः । आङः यमहनः आत्मनेपदं भवति इति हन्तेः एव स्यात्वधेः न स्यात। इष्यते च वधेः अपि स्यातिति । तत्च अन्तरेण यत्नं न सिध्यति । तस्मात। स्थानिवदनुदेशः । एवमर्थं इदं उच्यते । गुरुवत्गुरुपुत्रः इति यथा । तत्यथा गुरुवतस्मिन्गुरुपुत्रे वर्तितव्यं इति गुरौ यत्कार्यं तत्गुरुपुत्रे अतिदिश्यते , एवं इह अपि स्थानिकार्यं आदेशे अतिदिश्यते । न एततस्ति प्रयोजनं । लोकतः एतत्सिद्धं । तत्यथा लोके यः यस्य प्रसङ्गे भवति लभते असौ तत्कार्याणि । तत्यथा उपाध्यायस्य शिष्यः याज्यकुलानि गत्वा अग्रासनादीनि लभते । यदि अपि तावत्लोके एषः दृष्टान्तः दृष्टान्तस्य अपि तु पुरुषारम्भः निवर्तकः भवति । अस्ति च इह कः चित्पुरुषारम्भः । अस्ति इति आह । कः । स्वरूपविधिः । हन्तेः आत्मनेपदं उच्यमानं हन्तेः एव स्यात्वधेः न स्यात। एवं तर्हि आचार्यप्रवृत्तिः ज्ञापयति स्थानिवतादेशः भवति इति यतयं युष्मदस्मदोः अनादेशे इति आदेशप्रतिषेधं शास्ति । कथं कृत्वा ज्ञापकं । युष्मदस्मदोः विभक्तौ कार्यं उच्यमानं कः प्रसङ्गः यतादेशे स्यात। पश्यति तु आचार्यः स्थानिवतादेशः भवति इति । अतः आदेशे प्रतिषेधं शास्ति । इदं तर्हि प्रयोजनं : अनल्विधौ इति प्रतिषेधं वक्ष्यामि इति , इह मा भूतः द्यौः , पन्थाः , सः इति । एततपि न अस्ति प्रयोजनं । आचार्यप्रवृत्तिः ज्ञापयति अल्विधौ स्थानिवद्भावः न भवति इति यतयं अदः जग्धिः ल्यप्ति किति इति ति किति इति एव सिद्धे ल्यब्ग्रहणं करोति । तस्मात्न अर्थः अनेन योगेन ।
पाणिनीयसूत्र १,१।५६।३) कि.,१३४।१०-१३५।८ रो.,४०३-४०६ आरभ्यमाणे अपि एतस्मिन्योगे (कात्यायन वार्तिक)अल्विधौ प्रतिषेधे अविशेषणे अप्राप्तिः तस्य अदर्शनात्(वार्तिकान्त) । अल्विधौ प्रतिषेधे असति अपि विशेषणे समाश्रीयमणे असति तस्मिन्विशेषणे अप्राप्तिः विधेः : प्रदीव्य प्रसीव्य । किं कारणं । तस्य अदर्शनात। वलादेः इति उच्यते न च अत्र वलादिं पश्यामः । ननु च एवमर्थः एव अयं यत्नः क्रियते : अन्यस्य कार्यं उच्यमानं अन्यस्य यथा स्यातिति । सत्यं एवमर्थः न तु प्राप्नोति । किं कारणं । (कात्यायन वार्तिक)सामान्यातिदेशे विशेषानतिदेशः (वार्तिकान्त)। सामन्ये हि अतिदिश्यमाने विशेषः न अतिदिष्टः भवति । तत्यथा : ब्रह्मणवतस्मिन्क्षत्रिये वर्तितव्यं इति सामान्यं यत्ब्राह्मणकार्यं तत्क्षत्रिये अतिदिश्यते । यत्विशिष्टं माठरे कौण्डिन्ये वा न तततिदिश्यते । एवं इह अपि सामान्यं यत्प्रत्ययकार्यं तततिदिश्यते यत्विशिष्टं वलादेः इति न तततिदिश्यते । यदि एवं अग्रहीतिति इटः ईटि इति सिचः लोपः न प्राप्नोति । अनल्विधौ इति पुनः उच्यमाने इह अपि प्रतिषेधः भविष्यति : प्रदीव्य प्रसीव्य इति । विशिष्टं हि एषः अलं आश्रयते वलं नाम । इह च प्रतिषेधः न भविष्यति : अग्रहीतिति । विशिष्टं हि एषः अनलं आश्रयति इटं नाम । यदि तर्हि सामान्यं अपि अतिदिश्यते विशेषः च (कात्यायन वार्तिक)सति आश्रये विधिः इष्टः(वार्तिकान्त) । सति च वलादित्वे इटा भवितव्यं : अरुदितां अरुदितं अरुदित । किं अतः यत्सति भवितव्यं । (कात्यायन वार्तिक)प्रतिषेधः तु प्राप्नोति अल्विधित्वात्(वार्तिकान्त) । प्रतिषेधः तु प्राप्नोति । किं कारणं । अल्विधित्वात। अल्विधिः अयं भवति । तत्र अनल्विधौ इति प्रतिषेधः प्राप्नोति । (कात्यायन वार्तिक)न वा आनुदेशिकस्य प्रतिषेधातितरेण भावः(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । आनुदेशिकस्य प्रतिषेधात। अस्तु अत्र आनुदेशिकस्य वलादित्वस्य प्रतिषेधः । स्वाश्रयं अत्र वलादित्वं भविष्यति । न एतत्विवदामहे वलादिः न वलादिः इति । किं तर्हि । स्थानिवद्भावात्सार्वधातुकत्वं एषितव्यं । तत्र अनल्विधौ इति प्रतिषेधः प्राप्नोति ।
पाणिनीयसूत्र १,१।५६।४) कि.,१३५।९-१३६।४ रो.,४०६-४०८ किं पुनः आदेशिनि अलि आश्रीयमाणे प्रतिषेधः भवति आहोस्वितविशेषेण आदेशे आदेशिनि च । कः च अत्र विशेषः । (कात्यायन वार्तिक)आदेश्यल्विधिप्रतिषेधे कुरुवधपिबां गुणवृद्धिप्रतिषेधः(वार्तिकान्त) । आदेश्यल्विधिप्रतिषेधे कुरुवधपिबां गुणवृद्धिप्रतिषेधः वक्तव्यः । कुरु इति अत्र स्थानिवद्भावातङ्गसञ्ज्ञा श्वाश्रयं च लघूपधत्वं । तत्र लघूपधगुणः प्राप्नोति । वधकं इति अत्र स्थानिवद्भावातङ्गसञ्ज्ञा श्वाश्रयं च अदुपधत्वं । तत्र वृद्धिः प्राप्नोति । पिब इति अत्र स्थानिवद्भावातङ्गसञ्ज्ञा श्वाश्रयं च लघूपधत्वं । तत्र गुणः प्राप्नोति । अस्तु तर्हि अविशेषेण आदेशे आदेशिनि च । (कात्यायन वार्तिक)आदेश्यादेशे इति चेत्सुप्तिङ्कृदतिदिष्टेषु उपसङ्ख्यानम्(वार्तिकान्त) । आदेश्यादेशे इति चेत्सुप्तिङ्कृदतिदिष्टेषु उपसङ्ख्यानं कर्तव्यं । सुपः वृक्षाय प्लक्षाय । स्थानिवद्भावात्सुप्सञ्ज्ञा स्वाश्रयं च यञादित्वं । तत्र प्रतिषेधः प्राप्नोति । सुप। तिङः अरुदितां अरुदितं अरुदित । स्थानिवद्भावात्सार्वधातुकसञ्ज्ञा स्वाश्रयं च वलादित्वं । तत्र प्रतिषेधः प्राप्नोति । तिङ। कृदतिदिष्टं : भुवनं , सुवनं , धुवनं । स्थानिवद्भावात्प्रत्ययसञ्ज्ञा स्वाश्रयं च अजादित्वं । तत्र प्रतिषेधः प्राप्नोति । किं पुनः अत्र ज्यायः । आदेशिनि अलि आश्रीयमाणे प्रतिषेधः इति ज्यायः । कुतः एतत। तथा हि अयं विशिष्टं स्थानिकार्यं आदेशे अतिदिशति गुरुवत्गुरुपुत्रे इति यथा । तत्यथा : गुरुवत्गुरुपुत्रे वर्तितव्यं अन्यत्र उच्छिष्टभोजनात्पादोपसङ्ग्रहणाच्च इति । यदि च गुरुपुत्रः अपि गुरुः भवति ततपि कर्तव्यं । अस्तु तर्हि आदेशिनि अलि आश्रीयमाणे प्रतिषेधः । ननु च उक्तं आदेश्यल्विधिप्रतिषेधे कुरुवधपिबां गुणवृद्धिप्रतिषेधः इति । न एषः दोषः । करोतौ तपरकरणनिर्देशात्सिद्धं । पिबतिः अदन्तः । वधकं इति न अयं ण्वुल। अन्यः अयं अकशब्दः कितौणादिकः रुचकः इति यथा ।
पाणिनीयसूत्र १,१।५६।५) कि.,१३६।५-१३७।२ रो.,४०८-४११ (कात्यायन वार्तिक)एकदेशविकृतस्य उपसङ्ख्यानम्(वार्तिकान्त) । एकदेशविकृतस्य उपसङ्ख्यानं कर्तव्यं । किं प्रयोजनं । पचतु पचन्तु । तिङ्ग्रहणेन ग्रहणं यथा स्यात। (कात्यायन वार्तिक)एकदेशविकृतस्य अनन्यत्वात्सिद्धम्(वार्तिकान्त) । एकदेशविकृतं अनन्यवत्भवति इति तिङ्ग्रहणेन ग्रहणं भविष्यति । तत्यथ : श्वा कर्णे वा पुच्छे वा छिन्ने श्वा एव भवति न अश्वः न गर्दभः इति । (कात्यायन वार्तिक)अनित्यत्वविज्ञानं तु तस्मातुपसङ्ख्यनम्(वार्तिकान्त) । अनित्यत्वविज्ञानं तु भवति । नित्याः शब्दाः । नित्येषु नाम शब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यं अनपायोपजनविकारिभिः । तत्र सः एव अयं विकृतः च एतत्नित्येषु न उपपद्यते । तस्मातुपसङ्ख्यनं कर्तव्यं । भारद्वाजीयाः पठन्ति : (कात्यायन वार्तिक)एकदेशविकृतेषु उपसङ्ख्यानम्(वार्तिकान्त) । एकदेशविकृतेषु उपसङ्ख्यानं कर्तव्यं । किं प्रयोजनं । पचतु पचन्तु : तिङ्ग्रहणेन ग्रहणं यथा स्यात। किं च कारणं न स्यात। (कात्यायन वार्तिक)अनादेशत्वात्(वार्तिकान्त) । आदेशः स्थानिवतिति उच्यते , न च इमे आदेशाः । (कात्यायन वार्तिक)रूपान्यत्वात्च(वार्तिकान्त) । अन्यत्खलु अपि रूपं पचति इति अन्यत्पचतु इति । इमे अपि आदेशाः । कथं । आदिश्यते यः सः आदेशः । इमे च अपि आदिश्यन्ते । (कात्यायन वार्तिक)आदेशः स्थानिवतिति चेत्न अनाश्रितत्वात्(वार्तिकान्त) । आदेशः स्थानिवतिति चेत्तत्न । किं कारणं । अनाश्रितत्वात। यः अत्र आदेशः न असौ आश्रीयते यः च आश्रीयते न असौ आदेशः । न एतत्मन्तव्यं : समुदाये आश्रीयमाणे अवयवः न आश्रीयते इति । अभ्यन्तरः हि समुदायस्य अवयवः । तत्यथा : वृक्षः प्रचलन्सह अवयवैः प्रचलति । (कात्यायन वार्तिक)आश्रयः इति चेतल्विधिप्रसङ्गः (वार्तिकान्त)। आश्रयः इति चेतल्विधिः अयं भवति । तत्र अनल्विधौ इति प्रतिषेधः प्राप्नोति । न एषः दोषः । न एवं सति कः चितपि अनल्विधिः स्यात। उच्यते च इदं अनल्विधौ इति । तत्र प्रकर्षगतिः विज्ञास्यते : साधीयः यः अल्विधिः इति । कः च साधीयः अल्विधिः । यत्र प्राधान्येन अलाश्रीयते । यत्र नान्तरीयकः अलाश्रीयते न असौ अल्विधिः । अथ वा उक्तं आदेशग्रहणस्य प्रयोजनं : आदेशमात्रं स्थानिवत्यथा स्यातिति ।
पाणिनीयसूत्र १,१।५६।६) कि.,१३७।३-२६ रो.,४११-४१२ (कात्यायन वार्तिक)अनुपपन्नं स्थान्यादेशत्वं नित्यत्वात्(वार्तिकान्त) । स्थानी आदेशः इति एतत्नित्येषु शब्देषु न उपपद्यते । किं कारणं । नित्यत्वात। स्थानी हि नां यः भूत्वा न भवति । आदेशः हि नाम यः अभूत्वा भवति । एतत्च नित्येषु शब्देषु न उपपद्यते यत्सतः नाम विनाशः स्यातसतः वा प्रादुर्भावः इति । स्(कात्यायन वार्तिक)इद्धं तु यथा लौकिकवैदिकेषु अभूतपूर्वे अपि स्थानशब्दप्रयोगात्(वार्तिकान्त) । सिद्धं एतत। कथं । यथा लौकिकेषु वैदिकेषु च कृतान्तेषु अभूतपूर्वे अपि स्थानशब्दः वर्तते । लोके तावतः उपाध्यायस्य स्थाने शिष्यः इति उच्यते न च तत्र उपाध्यायः भूतपूर्वः भवति । वेदे अपि : सोमस्य स्थाने पूतीकतृणानि अभिषुणुयातिति उच्यते न च तत्र सोमः भूतपूर्वः भवति । (कात्यायन वार्तिक)कार्यविपरिणामात्वा सिद्धम्(वार्तिकान्त) । अथ वा कार्यविपरिणामात्सिद्धं एतत। किं इदं कार्यविपरिणामातिति । कार्या बुद्धिः । सा विपरिणम्यते । ननु च कार्याविपरिणामातिति भवितव्यं । सन्ति च एव हि औत्तर्पदिकानि ह्रस्वत्वानि । अपि च बुद्धिः सम्प्रत्ययः इति अनर्थान्तरं । कार्या बुद्धिः कार्यः सम्प्रत्ययः कार्यस्य सम्प्रत्ययस्य विपरिणामः कार्यविपरिणामः कार्यविपरिणामातिति । परिहारन्तरं एव इदं मत्वा पठितं । कथं च इदं परिहारान्तरं स्यात। यदि भूतपूर्वे स्थानशब्दः वर्तते । भूतपूर्वे च अपि स्थानशब्दः वर्तते । कथं । बुद्ध्या । तत्यथा कः चित्कस्मै चितुपदिशति प्राचीनं ग्रामाताम्राः इति । तस्य सर्वत्र आम्रबुद्धिः प्रसक्ता । ततः पश्चातह ये क्षीरिणः अवरोहवन्तः पृथुपर्णाः ते न्यग्रोधाः इति। सः तत्र आम्रबुद्ध्याः न्यग्रोधबुद्धिं प्रतिपद्यते । सः ततः पश्यति बुद्ध्या आम्रान्च अपकृष्यमाणान्न्यग्रोधान्च आधीयमानान। नित्याः एव च स्वस्मिन्विषये आम्राः नित्याः च न्यग्रोधाः । बुद्धिः तु अस्य विपरिणम्यते । एवं इह अपि अस्तिः अस्मै अविशेषेण उपदिष्टः । तस्य सर्वत्र अस्तिबुद्धिः प्रसक्ता । सः अस्तेः भूः इति अस्तिबुद्ध्याः भवतिबुद्धिं प्रतिपद्यते । सः ततः पश्यति बुद्ध्या अस्तिं च अपकृष्यमाणं भवतिं च आधीयमानं । नित्यः एव स्वस्मिन्विषये अस्तिः नित्यः भवतिः । बुद्धिः तु अस्य विपरिणम्यते ।
पाणिनीयसूत्र १,१।५६।७) कि.,१३८।१-१० रो.,४१३-४१४ (कात्यायन वार्तिक)अपवादप्रसङ्गः तु स्थानिवत्त्वात्(वार्तिकान्त) । अपवादे उत्सर्गकृतं च प्राप्नोति । कर्मणि अणातः अनुपसर्गे कः इति के अपि अणि कृतं प्राप्नोति । किं कारणं । स्थानिवत्त्वात। (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । विषयेण तु नानालिङ्गकरणात्सिद्धं इति । अथ वा । (कात्यायन वार्तिक)सिद्धं तु षष्ठीनिर्दिष्टस्य स्थानिवद्वचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । षष्ठीनिर्दिष्टस्य आदेशः स्थानिवतिति वक्तव्यं । तत्तर्हि षष्ठीनिर्दिष्टग्रहणं कर्तव्यं । न कर्तव्यं । प्रकृतं अनुवर्तते । क्व प्रकृतं । षष्ठी स्थानेयोगा इति । अथ वा आचार्यप्रवृत्तिः ज्ञापयति न अपवादे उत्सर्गकृतं भवति इति यतयं श्यनादीनां कान्चित्शितः करोति : श्यन्, श्नं , श्ना , शः , श्नुः इति ।
पाणिनीयसूत्र १,१।५६।८) कि.,१३८।११-१४१।२२ रो.,४१४-४२१ (कात्यायन वार्तिक)तस्य दोषः तयादेशे उभयप्रतिषेधः (वार्तिकान्त)। तस्य एतस्य लक्षणस्य दोषः : तयादेशे उभयप्रतिषेधः वक्तव्यः : उभये देवमनुष्याः । तयपः ग्रहणेन ग्रहणात्जसि विभाषा प्राप्नोति । न एषः दोषः । अयच्प्रत्ययान्तरं । यदि प्रत्ययान्तरं उभयी इति ईकारः न प्राप्नोति । मा भूतेवं । मात्रचः इति एवं भविष्यति । कथं । मात्रचिति न इदं प्रत्ययग्रहणं । किं तर्हि । प्रत्याहारग्रहणं । क्व सन्निविष्टानां प्रत्याहारः । मात्रशब्दात्प्रभृति आ आयचः चकारात। यदि प्रत्याहारग्रहणं कति तिष्ठन्ति अत्र अपि प्राप्नोति । अतः इति वर्तते । एवं अपि तैलमात्रा घ्र्तमात्रा इति अत्र अपि प्राप्नोति । सदृशस्य अपि असन्निविष्टस्य न भविष्यति प्रत्याहारेण ग्रहणं । (कात्यायन वार्तिक)जात्यख्यायां वचनातिदेशे स्थानिवद्भावप्रतिषेधः(वार्तिकान्त) । जात्यख्यायां वचनातिदेशे स्थानिवद्भावस्य प्रतिषेधः वक्तव्यः । व्रीहिभ्यः आगतः इति अत्र घेः ङिति इत्गुणः प्राप्नोति । न एषः दोषः । उक्तं एततः अर्थातिदेशात्सिद्धं इति । (कात्यायन वार्तिक)ङ्याब्ग्रहणे अदीर्घः (वार्तिकान्त)। ङ्याब्ग्रहणे अदीर्घः आदेशः न स्थानिवतिति वक्तव्यं । किं प्रयोजनं । निष्कौशाम्बिः , अतिखट्वः । ङ्याब्ग्रहणेन ग्रहणात्सुलोपः मा भूतिति । ननु च दीर्घातिति उच्यते । तत्न वक्तव्यं भवति । किं पुनः अत्र ज्यायः । स्थानिवत्प्रतिषेधः एव ज्यायान। इदं अपि सिद्धं भवति : अतिखट्वाय अतिमालाय । याटापः इति याट्न भवति । अथ इदानीं असति अपि स्थानिवद्भावे दीर्घत्वे कृते पित्च असौ भूतपूर्वः इति कृत्वा याटापः इति याट्कस्मात्न भवति । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति । ननु च इदानीं सति अपि स्थानिवद्भावे एतया परिभाषया शक्यं इह उपस्थातुं । न इति आह । न हि इदानीं क्व चितपि स्थानिवद्भावः स्यात। तत्तर्हि वक्तव्यं । न वक्तव्यम। प्रश्लिष्टनिर्देशात्सिद्धं । प्रश्लिष्टनिर्देशः अयं : ङी* ई* ईकारान्ताता* आपाकारान्तातिति । (कात्यायन वार्तिक)आहिभुवोः ईट्प्रतिषेधः(वार्तिकान्त) । आहिभुवोः ईट्प्रतिषेधः वक्तव्यः : आत्थ अभूत। अस्तिब्रूग्रहणेन ग्रहणातीट्प्राप्नोति । आहेः तावत्न वक्तव्यः । आचार्यप्रवृत्तिः ज्ञापयति न आहेः ईट्भवति इति यतयं आहः थः इति झलादिप्रकरणे थत्वं शास्ति । न एततस्ति प्रयोजनम। अस्ति हि अन्यतेतस्य वचने प्रयोजनं । किं । भूतपूर्वगतिः यथा विज्ञायेत : झलादिः यः भूतपूर्वः इति । यदि एवं थवचनं अनर्थकं स्यात। आथिं एव अयं उच्चारयेतः ब्रुवः पञ्चानां आदितः आथः ब्रुवः इति । भवतेः च अपि न वक्तव्यः । अस्तिसिचः अपृक्ते इति द्विसकारकः निर्देशः : अस्तेः सकारान्तातिति । (कात्यायन वार्तिक)वध्यादेशे वृद्धितत्वप्रतिषेधः(वार्तिकान्त) । वध्यादेशे वृद्धितत्वप्रतिषेधः वक्तव्यः : वधकं पुष्करं इति । स्थानिवद्भावात्वृद्धितत्वे प्राप्नुतः । न एषः दोषः । उक्तं एततः न अयं ण्वुल। अन्यः अयं अकशब्दः कितौणादिकः रुचकः इति यथा । (कात्यायन वार्तिक)इड्विधिः च(वार्तिकान्त) । इड्विधेयः : आवधिषीष्ट । एकाचः उपदेशे अनुदात्तातिति प्रतिषेधः प्राप्नोति । न एषः दोषः । आद्युदात्तनिपातनं करिष्यते । स निपातनस्वरः प्रकृतिस्वरस्य बाधकः भविष्यति । एवं अपि उपदेशिवद्भावः वक्तव्यः । यथा एव हि निपातनस्वरः प्रकृतिस्वरं बाधते एवं प्रत्ययस्वरं अपि बाधेत : आवधिषीष्ट इति । न एषः दोषः । आर्धधातुकीयाः सामान्येन भवन्ति अनवस्थितेषु प्रत्ययेषु । तत्र आर्धधातुकसामान्ये वधिभावे कृते सति शिष्टत्वात्प्रत्ययस्वरः भविष्यति । (कात्यायन वार्तिक)आकारान्तात्नुक्षुक्प्रतिषेधः(वार्तिकान्त) । आकारान्तात्नुक्षुकोः प्रतिषेधः वक्तव्यः : विलापयति भापयते । लीभीग्रहणेन ग्रहणात्नुक्षुकौ प्राप्नुतः । लीभियोः प्रश्लिष्टनिर्देशात्सिद्धं । लीभियोः प्रश्लिष्टनिर्देशः अयं : ली* ई* ईकारान्तस्य भी* ई* ईकारान्तस्य च इति । (कात्यायन वार्तिक)लोडादेशे शाभावजभावधित्वहिलोपैत्त्वप्रतिषेधः(वार्तिकान्त) । लोडादेशे एषां प्रतिषेधः वक्तव्यः : शिष्टात्, हतात्, भिन्तात्, कुरुतात्, स्तात। लोडादेशे कृते शाभावः जभावः धित्वं हिलोपः एत्त्वं इति एते विधयः प्राप्नुवन्ति । न एषः दोषः । इदं इह सम्प्रधार्यं : लोडादेशः क्रियतां एते विधयः इति किं अत्र कर्तव्यं । परत्वात्लोडादेशः । अथ इदानीं लोडादेशे कृते पुनःप्रसङ्गविज्ञानात्कस्मातेते विधयः न भवन्ति । सकृद्गतौ विप्रतिषेधे यत्बाधितं तत्बाधितं एव इति कृत्वा । (कात्यायन वार्तिक)त्रयादेशे स्रन्तप्रतिषेधः(वार्तिकान्त) । त्रयादेशे स्रन्तस्य प्रतिषेधः वक्तव्यः : तिसृणां । तिसृभावे कृते त्रेः त्रयः इति त्रयादेशः प्राप्नोति । न एषः दोषः । इदं इह सम्प्रधार्यं : तिसृभावः क्रियतां त्रयादेशः इति किं अत्र कर्तव्यं । परत्वात्तिसृभावः । अथ इदानीं तिसृभावे कृते पुनःप्रसङ्गविज्ञानात्त्रयादेशः कस्मात्न भवति । सकृद्गतौ विप्रतिषेधे यत्बाधितं तत्बाधितं एव इति । (कात्यायन वार्तिक)आम्विधौ च(वार्तिकान्त) । आम्विधौ च स्रन्तस्य प्रतिषेधः वक्तव्यः : चतस्रः तिष्ठन्ति । चतसृभावे कृते चतुरनडुहोः आं उदात्तः इति आं प्राप्नोति । न एषः दोषः । इदं इह सम्प्रधार्यं : चतसृभावः क्रियतां चतुरनडुहोः आं उदात्तः इति आं इति किं अत्र कर्तव्यं । परत्वात्चतसृभावः । अथ इदानीं चतसृभावे कृते पुनःप्रसङ्गविज्ञानातां कस्मात्न भवति । सकृद्गतौ विप्रतिषेधे यत्बाधितं तत्बाधितं एव इति । (कात्यायन वार्तिक)स्वरे वस्वादेशे(वार्तिकान्त) । स्वरे वस्वादेशे प्रतिषेधः वक्तव्यः : विदुषः पश्य । शतुः अनुमः नद्यजादी अन्तोदात्तातिति एषः स्वरः प्राप्नोति । न एषः दोषः । अनुमः इति प्रतिषेधः भविष्यति । अनुमः इति उच्यते न च अत्र नुमं पश्यामः । अनुमः इति न इदं आगमग्रहणं । किं तर्हि । प्रत्याहारग्रहणं । क्व सन्निविष्टानां प्रत्याहारः । उकारात्प्रभृति आ नुमः मकारात। यदि प्रत्याहारग्रहणं लुनत पुनत अत्र अपि प्राप्नोति । अनुम्ग्रहणेन न शत्रन्तं विशेष्यते । किं तर्हि । शता एव विशेष्यते : शता यः अनुम्कः इति । अवश्यं च एततेवं विज्ञेयं । आगमग्रहणे हि सति इह प्रसज्येत : मुञ्चता मुञ्चतः इति । (कात्यायन वार्तिक)गोः पूर्वणित्त्वात्वस्वरेषु(वार्तिकान्त) । गोः पूर्वणित्त्वात्वस्वरेषु प्रतिषेधः वक्तव्यः : चित्रग्वग्रं , शबलग्वग्रं । सर्वत्र विभाषा गोः इति विभाषा पूर्वत्वं प्राप्नोति । न एषः दोषः । एङः इति वर्तते । तत्र अनल्विधौ इति प्रतिषेधः भविष्यति । एवं अपि हे चित्रगो अग्रं अत्र प्राप्नोति । णित्त्वं : चित्रगुः , चित्रगू चित्रगवः । गोतो णितिति णित्त्वं प्राप्नोति । आत्वं : चित्रगुं पश्य शबलगुं पश्य । आ ओतः इति आत्वं प्राप्नोति । न एषः दोषः । तपरकरणात्सिद्धं । तपरकरणसामार्थ्यात्णित्त्वात्वे न भविष्यतः । स्वर : बहुगुमान। न गोश्वन्साववर्ण इति प्रतिषेधः प्राप्नोति । (कात्यायन वार्तिक)करोतिपिब्योः प्रतिषेधः(वार्तिकान्त) । करोतिपिब्योः प्रतिषेधः वक्तव्यः : कुरु पिब इति । स्थानिवद्भावात्लघूपधगुणः प्राप्नोति । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । करोतौ तपरकरणनिर्देशात्सिद्धं , पिबतिः अदन्तः इति ।
पाणिनीयसूत्र १,१।५७।१) कि.,१४१।२४-१४४।१७ रो.,४२१-४३१ अचः इति किमर्थं । प्रश्नः , द्यूत्वा , आक्राष्टां आगत्य । प्रश्नः , विश्नः इति अत्र छकारस्य शकारः परनिमित्तकः । तस्य स्थानिवद्भावात्छे च इति तुक्प्राप्नोति । अचः इति वचनात्न भवति । न एततस्ति प्रयोजनं । क्रियमाणे अपि वै अज्ग्रहणे अवश्यं अत्र तुगभावे यत्नः कर्तव्यः । अन्तरङ्गत्वात्हि तुक्प्राप्नोति । इदं तर्हि : द्यूत्वा । वकारस्य ऊठ्परनिमित्तकः । तस्य स्थानिवद्भावातचि इति यणादेशः न प्राप्नोति । अचः इति वचनात्भवति । एततपि न अस्ति प्रयोजनं । स्वाश्रयं अत्र अच्त्वं भविष्यति । अथ वा यः अत्र आदेशः न असौ आश्रीयते यः च आश्रीयते न असौ आदेशः । इदं तर्हि प्रयोजनं : आक्राष्टां । सिचः लोपः परनिमित्तकः । तस्य स्थानिवद्भावात्षढोः कः सि इति कत्वं प्राप्नोति । अचः इति वचनात्भवति । एततपि न अस्ति प्रयोजनं ।वक्ष्यति एततः पूर्वत्रासिद्धे न स्थानिवतिति । इदं तर्हि प्रयोजनं : आगत्य , अभिगत्य । अनुनासिकलोपः परनिमित्तकः । तस्य स्थानिवद्भावात्ह्रस्वस्य इति तुक्न प्राप्नोति । अचः इति वचनात्भवति । अथ परस्मिनिति किमर्थं । युवजानिः , द्विपदिका , वैयाघ्रपद्यः , आदीध्ये । युवजानिः , वधूजानिः इति : जायायाः निङ्न परनिमित्तकः । तस्य स्थानिवद्भावात्वलि इति यलोपः न प्राप्नोति । परस्मिनिति वचनात्भवति । न एततस्ति प्रयोजनं । स्वाश्रयं अत्र वल्तं भविष्यति । अथ वा यः अत्र आदेशः न असौ आश्रीयते यः च आश्रीयते न असौ आदेशः । इदं तर्हि प्रयोजनं : द्विपदिका त्रिपदिका । पादस्य लोपः न परनिमित्तकः । तस्य स्थानिवद्भावात्पद्भावः न प्राप्नोति । परस्मिनिति वचनात्भवति । एततपि न अस्ति प्रयोजनं । पुनर्लोपवचनसामर्थ्यात्स्थानिवद्भावः न भविष्यति । इदं तर्हि प्रयोजनं : वैयाघ्रपद्यः । ननु च अत्र अपि पुनर्वचनसामर्थ्यातेव न भविष्यति । अस्ति हि अन्यत्पुनर्लोपवचने प्रयोजनं । किं । यत्र भसञ्ज्ञा न : व्याघ्रपात्, श्येनपातिति । इदं च अपि उदाहरणं : आदीध्ये , आवेव्ये । इकारस्य एकारः न परनिमित्तकः । तस्य स्थानिवद्भावात्यीवर्णयोः दीधीवेव्योः इति लोपः प्राप्नोति । परस्मिनिति वचनात्भवति । अथ पूर्वविधौ इति किं अर्थं । हे गौः , बाभ्रवीयाः , नैधेयः । हे गौः इति औकारः परनिमित्तकः । तस्य स्थानिवद्भावातेङ्ह्रस्वात्सम्बुद्धेः इति लोपः प्राप्नोति । पूर्वविधौ इति वचनात्न भवति । न एततस्ति प्रयोजनं । आचार्यप्रवृत्तिः ज्ञापयति न सम्बुद्धिलोपे स्थानिवद्भावः भवति इति यतयं एङ्ह्रस्वात्सम्बुद्धेः इति एङ्ग्रहणं करोति । न एततस्ति ज्ञापकं । गोर्थं एतत्स्यात। यत्तर्हि प्रत्याहारग्रहणं करोति । इतरथा हि ओह्रस्वातिति एव ब्रूयात। इदं तर्हि प्रयोजनं : बाभ्रवीयाः , माधवीयाः । वान्तादेशः परनिमित्तकः । तस्य स्थानिवद्भावात्हलः तद्धितस्य इति यलोपः न प्राप्नोति । पूर्वविधौ इति वचनात्न भवति । एततपि न अस्ति प्रयोजनं । स्वाश्रयं अत्र हल्त्वं भविष्यति । अथ वा यः अत्र आदेशः न असौ आश्रीयते यः च आश्रीयते न असौ आदेशः । इदं तर्हि प्रयोजनं : नैधेयः । आकारलोपः परनिमित्तकः । तस्य स्थानिवद्भावात्द्व्यज्लक्षणः ढक्न प्राप्नोति । पूर्वविधौ इति वचनात्न भवति । अथ विधिग्रहणं किमर्थं । सर्वविभक्त्यन्तः समासः यथा विज्ञायेत : पूर्वस्य विधिः पूर्वविधिः , पूर्वस्मात्विधिः पूर्वविधिः इति । कानि पुनः पूर्वस्मात्विधौ स्थानिवद्भावस्य प्रयोजनानि । बेभिदिता , माथितिकः , अपीपचन। बेभिदिता , चेच्छिदिता इति अकारलोपे कृते एकाज्लक्षणः इट्प्रतिषेधः प्राप्नोति । स्थानिवद्भावात्न भवति । माथितिकः इति अकारलोपे कृते तान्तात्कः इति कादेशः प्राप्नोति । स्थानिवद्भावात्न भवति । अपीपचनिति एकादेशे कृते अभ्यस्तात्झेः जुस्भवति इति जुस्भावः प्राप्नोति । स्थानिवद्भावात्न भवति । न एतानि सन्ति प्रयोजनानि । कुतः । प्रातिपदिकर्निर्देशः अयं । प्रातिपदिकर्निर्देशाः च अर्थतन्त्राः भवन्ति । न कां चित्प्राधान्येन विभक्तिं आश्रयन्ति । तत्र प्रातिपदिकार्थे निर्दिष्टे यां यां विभक्तिं आश्रयितुं बुद्धिः उपजायते सा सा आश्रयितव्या । इदं तर्हि प्रयोजनं : विधिमात्रे स्थानिवत्यथा स्यातनाश्रीयमाणायां अपि प्रकृतौ : वाय्वोः , अध्वर्य्वोः । लोपः व्योः वलि इति यलपः मा भूतिति । अस्ति प्रयोजनं एतत। किं तर्हि इति । अपरविधौ इति तु वक्तव्यं । किं प्रयोजनं । स्वविधौ अपि स्थानिवद्भावः यथा स्यात। कानि पुनः स्वविधौ स्थानिवद्भावस्य प्रयोजनानि । आयन्, आसन्, धिन्वन्ति कृण्वन्ति दधि अत्र , मधु अत्र चक्रतुः , चक्रुः । इह तावतः आयन्, आसनिति इणस्त्योः यण्लोपयोः कृतयोः अनजादित्वाताटजादीनां इति आट्न प्राप्नोति । स्थानिवद्भावात्भवति । धिन्वन्ति कृण्वन्ति इति यणादेशे कृते वलादिलक्षणः इट्प्राप्नोति । स्थानिवद्भावात्न भवति । दधि अत्र मधु अत्र इति यणादेशे कृते संयोगान्तलोपः प्राप्नोति । स्थानिवद्भावात्न भवति । चक्रतुः , चक्रुः इति यणादेशे कृते अनच्त्वात्द्विर्वचनं न प्राप्नोति । स्थानिवद्भावात्भवति । यदि तर्हि स्वविधौ अपि स्थानिवद्भावः भवति द्वाभ्यां , देयं , लवनं अत्र अपि प्राप्नोति । द्वाभ्यां इति अत्र अत्वस्य स्थानिवद्भावात्दीर्घत्वं न प्राप्नोति । देयं इति ईत्त्वस्य स्थानिवद्भावात्गुणः न प्राप्नोति । लवनं इति गुणस्य स्थानिवद्भावातवादेशः न प्राप्नोति । न एषः दोषः । स्वाश्रयाः अत्र एते विधयः भविष्यन्ति । तत्तर्हि वक्तव्यं अपरविधौ इति । न वक्तव्यं । पूर्वविधौ इति एव सिद्धं । कथं । न पूर्व्ग्रहणेन आदेशः अभिसम्बध्यते : अजादेशः परनिमित्तकः पूर्वस्य विधिं प्रति स्थानिवत्भवति । कुतः पूर्वस्य । आदेशातिति । किं तर्हि । निमित्तं अभिसम्बध्यते : अजादेशः परनिमित्तकः पूर्वस्य विधिं प्रति स्थानिवत्भवति । कुतः पूर्वस्य । निमित्तातिति । अथ निमित्ते अभिसम्बध्यमाने यत्ततस्य योगस्य मूर्धाभिषिक्तं उदाहरणं ततपि सङ्गृहीतं भवति । किं पुनः तत। पट्व्या मृद्व्या इति । बाढं सङ्गृहीतं । ननु च ईकारयणा व्यवहितत्वात्न असौ निमित्तात्पूर्वः भवति । व्यवहिते अपि पूर्वशब्दः वर्तते । तत्यथा : पूर्वं मथुरायाः पाटलिपुत्रं इति । अथ वा आदेशः एव अभिसम्बध्यते । कथं यानि स्वविधौ स्थानिवद्भावस्य प्रयोजनानि । न एतानि सन्ति । इह तावतायन्, आसन्, धिन्वन्ति कृण्वन्ति इति । अयं विधिशब्दः अस्ति एव कर्मसाधनः : विधीयते विधिः । अस्ति भावसाधनः : विधानं विधिः इति । कर्मसाधनस्य विधिशब्दस्य उपादाने न सर्वं इष्टं सङ्गृहीतं इति कृत्वा भावसाधनस्य विधिशब्दस्य उपादानं विज्ञास्यते : पूर्वस्य विधानं प्रति पूर्वस्य भावं प्रति पूर्वः स्यातिति स्थानिवत्भवति इति एवं आट्भविष्यति इट्च न भविष्यति । दधि अत्र मधु अत्र चक्रतुः चक्रुः इति परिहारं वक्ष्यति
पाणिनीयसूत्र १,१।५७।२) कि.,१४४।१८-१४६।५ रो.,४३१-४३५ कानि पुनः अस्य योगस्य प्रयोजनानि । (कात्यायन वार्तिक)स्तोष्यामि अहं पादिकं औदवाहिं ततः श्वोभूते शातनीं पातनीं च । नेतारौ आगच्छतं धारणिं रावणिं च ततः पश्चात्स्रंस्यते ध्वंस्यते च(वार्तिकान्त) । इह तावत्पादिकं औदवाहिं शातनीं पातनीं धारणिं रावणिं इति अकारलोपे कृते पद्भावः ऊठल्लोपः टिलोपः इति एते विधयः प्राप्नुवन्ति । स्थानिवद्भावात्न भवन्ति । स्रंस्यते ध्वंस्यते : णिलोपे कृते अनिदितां हलः उपधायाः क्ङिति इति नलोपः प्राप्नोति । स्थानिवद्भावात्न भवति । न एतानि सन्ति प्रयोजनानि । असिद्धवतत्र आ भातिति अनेन अपि एतानि सिद्धानि । इदं तर्हि प्रयोजनं : याज्यते वाप्यते । णिलोपे कृते यजादीनां किति इति सम्प्रसारणं प्राप्नोति । स्थानिवद्भावात्न भवति । एततपि न अस्ति प्रयोजनं । यजादिभिः अत्र कितं विशेषयिष्यामः यजादीनां यः कितिति । कः च यजादीनां कित। यजादिभ्यः यः विहितः इति । इदं तर्हि प्रयोजनं : पट्व्या मृद्व्या इति । परस्य यणादेशे कृते पूर्वस्य न प्राप्नोति ईकारयणा व्यवहितत्वात। स्थानिवद्भावात्भवति । किं पुनः कारणं परस्य तावत्भवति न पुनः पूर्वस्य । नित्यत्वात। नित्यः परयणादेशः । कृते अपि पूर्वयणादेशे प्राप्नोति अकृते अपि प्राप्नोति । नित्यत्वात्परयणादेशे कृते पूर्वस्य न प्राप्नोति । स्थानिवद्भावात्भवति । एततपि न अस्ति प्रयोजनं । असिद्धं बहिरङ्गलक्षणं अन्तरङ्गलक्षणे इति असिद्धत्वात्बहिरङ्गलक्षणस्य परयणादेशस्य अन्तरङ्गलक्षणः पूर्वयणादेशः भविष्यति । अवश्यं च एषा परिभाषा आश्रयितव्या स्वरार्थं कर्त्र्य हर्त्र्य इति उदात्तयणः हल्पूर्वातिति एषः स्वरः यथा स्यात। अनेन अपि सिद्धः स्वरः । कथं । (कात्यायन वार्तिक)आरभ्यमाणे नित्यः असौ(वार्तिकान्त) । आरभ्यमाणे तु अस्मिन्योगे नित्यः पूर्वयणादेशः । कृते अपि परयणादेशे प्राप्नोति अकृते अपि । परयणादेशः अपि नित्यः । कृते अपि पूर्वयणादेशे प्राप्नोति अकृते अपि । (कात्यायन वार्तिक)परः च असौ व्यवस्था(वार्तिकान्त) । व्यवस्थया च असौ परः । (कात्यायन वार्तिक)युगपत्सम्भवः न अस्ति(वार्तिकान्त) । न च अस्ति यौगपद्येन सम्भवः । कथं च सिध्यति । (कात्यायन वार्तिक)बहिरङ्गेण सिध्यति(वार्तिकान्त) । असिद्धं बहिरङ्गलक्षणं अन्तरङ्गलक्षणे इति अनेन सिध्यति । एवं तर्हि यः अत्र उदात्तयण्तदाश्रयः स्वरः भविष्यति । ईकारयणा व्यवहितत्वात्न प्राप्नोति । स्वरविधौ व्यञ्जनं अविद्यमानवत्भवति इति न अस्ति व्यवधानं । सा तर्हि एषा परिभाषा कर्तव्या । ननु च इयं अपि कर्तव्या : असिद्धं बहिरङ्गलक्षणं अन्तरङ्गलक्षणे इति । बहुप्रयोजना एषा परिभाषा । अवश्यं एषा कर्तव्या । सा च अपि एषा लोकतः सिद्धा । कथं । प्रत्यङ्गवर्ती लोकः लक्ष्यते । तत्यथा : पुरुषः अयं प्रातः उत्थाय यानि अस्य प्रतिशरीरं कार्याणि तानि तावत्करोति ततः सुहृदां ततः सम्बन्धिनां । प्रातिपदिकं च अपि उपदिष्टं सामान्यभूते अर्थे वर्तते । सामन्ये वर्तमानस्य व्यक्तिः उपजायते । व्यक्तस्य सतः लिङ्गसङ्ख्याभ्यां अन्वितस्य बाह्येन अर्थेन योगः भवति । यया एव आनुपूर्व्या अर्थानां प्रादुर्भावः तया एव शब्दानां अपि तद्वत्कार्यैः अपि भवितव्यं । इमानि तर्हि प्रयोजनानि : पटयति , अवधीत्, बहुखट्वकः । पटयति लघयति इति टिलोपे कृते अतः उपधायाः इति वृद्धिः प्राप्नोति । स्थानिवद्भावात्न भवति । अवधीतिति अकारलोपे कृते अतः हलादेः लघोः इति विभाषा वृद्धिः प्राप्नोति । स्थानिवद्भावात्न भवति । बहुखट्वकः इतापः अन्यतरस्यां ह्रस्वत्वे कृते ह्रस्वान्ते अन्त्यात्पूर्वं इति एषः स्वरः प्राप्नोति । स्थानिवद्भावात्न भवति ।
पाणिनीयसूत्र १,१।५७।३) कि.,१४६।६-१६ रो.,४३५-४३६ इह वैयाकरणः , सौवश्वः इति य्वोः स्थानिवद्भावातायावौ प्राप्नुतः । तयोः प्रतिषेधः वक्तव्यः । (कात्यायन वार्तिक)अचः पूर्वविज्ञानातैचोः सिद्धम्(वार्तिकान्त) । यः अनादिष्टातचः पूर्वः तस्य विधिं प्रति स्थानिवद्भावः । आदिष्टात्च एषः अचः पूर्वः । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । अचः इति पञ्चमी : अचः पूर्वस्य । यदि एवं आदेशः अविशेषितः भवति । आदेशः च विशेषितः । कथं । न ब्रूमः यत्षष्ठीनिर्दिष्टं अज्ग्रहणं तत्पञ्चमीनिर्दिष्टं कर्तव्यं । किं तर्हि अन्यत्कर्तव्यं । अन्यत्च न कर्तव्यं । यतेव अदः षष्ठीनिर्दिष्टं अज्ग्रहणं तस्य दिक्शब्दैः योगे पञ्चमी भवति : अजादेशः परनिमित्तकः पूर्वस्य विधिं प्रति स्थानिवत्भवति । कुतः पूर्वस्य । अचः इति । तत्यथा आदेशः प्रथमानिर्दिष्टः । तस्य दिक्शब्दैः योगे पञ्चमी भवति : अजादेशः परनिमित्तकः पूर्वस्य विधिं प्रति स्थानिवत्भवति । कुतः पूर्वस्य । आदेशातिति ।
पाणिनीयसूत्र १,१।५७।४) कि.,१४६।१७-१४७।१८ रो.,४३६-४३८ (कात्यायन वार्तिक)तत्र आदेशलक्षणप्रतिषेधः(वार्तिकान्त) । तत्र आदेशलक्षणं कार्यं प्राप्नोति । तस्य प्रतिषेधः वक्तव्यः : वाय्वोः , अध्वर्य्वोः । लोपः व्योः वलि इति यलोपः प्राप्नोति । असिद्धवचनात्सिद्धं । अजादेशः परनिमित्तकः पूर्वस्य विधिं प्रति असिद्धः भवति इति वक्तव्यं । (कात्यायन वार्तिक)असिद्धवचनात्सिद्धं इति चेतुत्सर्गलक्षणानां अनुदेशः(वार्तिकान्त) । असिद्धवचनात्सिद्धं इति चेतुत्सर्गलक्षणानां अनुदेशः कर्तव्यः : पट्व्या म्र्द्व्या इति । ननु च एततपि असिद्धवचनात्सिद्धं । (कात्यायन वार्तिक)असिद्धवचनात्सिद्धं इति चेत्न अन्यस्य असिद्धवचनातन्यस्य भावः(वार्तिकान्त) । असिद्धवचनात्सिद्धं इति चेत्तत्न । किं कारणं । न अन्यस्य असिद्धवचनातन्यस्य भावः । न हि अन्यस्य असिद्धवचनातन्यस्य प्रादुर्भावः भवति । न हि देवदत्तस्य हन्तरि हते देवदत्तस्य प्रादुर्भावः भवति । त्(कात्यायन वार्तिक)अस्मात्स्थानिवद्वचनं असिद्धत्वं च(वार्तिकान्त) । तस्मात्स्थानिवद्भावः वक्तव्यः असिद्धत्वं च । पट्व्या मृद्व्या इति अत्र स्थानिवद्भावः । वाय्वोः , अध्वर्य्वोः इति असिद्धत्वं । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । स्थानिवद्वचनानर्थक्यं शास्त्रासिद्धत्वातिति । विषमः उपन्यासः । युक्तं तत्र यतेकादेशशास्त्रं तुक्शास्त्रे असिद्धं स्यातः अन्यतन्यस्मिन। इह पुनः न युक्तं । कथं हि तदेव नाम तस्मिनसिद्धं स्यात। तदेव च अपि तस्मिनसिद्धं भवति । वक्ष्यति हि आचार्यः : चिणः लुकि तग्रहणानर्थक्यं सङ्घातस्य अप्रत्ययत्वात्तलोपस्य च असिद्धत्वातिति । चिणः लुक्चिणः लुकि एव असिद्धः भवति । (कात्यायन वार्तिक)कामं अतिदिश्यतां वा सत्च असत्च अपि न इह भारः अस्ति । कल्प्यः हि वाक्यशेषः वाक्यं वक्तरि अधीनं हि(वार्तिकान्त) । अथ वा वतिनिर्देशः अयं । कामचारः च वतिनिर्देशे वाक्यशेषं समर्थयितुं । तत्यथा । उशीनरवत्मद्रेषु यवाः । सन्ति न सन्ति इति । मातृवतस्याः कलाः । सन्ति न सन्ति । एवं इह अपि स्थानिवत्भवति स्थानिवत्न भवति इति वाक्यशेषं समर्थयिष्यामहे । इह तावत्पट्व्या मृद्व्या इति यथा स्थानिनि यणादेशः भवति एवं आदेशे अपि । इह इदानीं वाय्वोः अध्वर्य्वोः इति यथा स्थानिनि यलोपः न भवति एवं आदेशे अपि न भवति ।
पाणिनीयसूत्र १,१।५७।५) कि.,१४७।१९-१४८।२४ रो.,४३८-४४१ किं पुनः अनन्तरस्य विधिं प्रति स्थानिवद्भावः आहोस्वित्पूर्वमात्रस्य । कः च अत्र विशेषः । (कात्यायन वार्तिक)अनन्तरस्य चेतेकाननुदात्तद्विगुस्वरगतिनिघातेषु उपसङ्ख्यानम्(वार्तिकान्त) । अनन्तरस्य चेतेकाननुदात्तद्विगुस्वरगतिनिघातेषु उपसङ्ख्यानं कर्तव्यं । एकाननुदात्त : लुनीहि अत्र पुनीहि अत्र । अनुदात्तं पदं एकवर्जं इति एषः स्वरः न प्राप्नोति । द्विगुस्वर : पञ्चारत्न्यः , दशारत्न्यः । इगन्तकाल इति एषः स्वरः न प्राप्नोति । गतिनिघात : यत्प्रलुनीहि अत्र , यत्प्रपुनीहि अत्र । तिङि चोदात्तवति इति एषः स्वरः न प्राप्नोति । अस्तु तर्हि पूर्वमात्रस्य । (कात्यायन वार्तिक)पूर्वमात्रस्य इति चेतुपधाह्रस्वत्वं (वार्तिकान्त)। पूर्वमात्रस्य इति चेतुपधाह्रस्वत्वं वक्तव्यं : वादितवन्तं प्रयोजितवानः अवीवदत्वीणां परिवादकेन । किं पुनः कारणं न सिध्यति । यः असौ णौ णिः लुप्यते तस्य स्थानिवद्भावात्ह्रस्वत्वं न प्राप्नोति । (कात्यायन वार्तिक)गुरुसञ्ज्ञा च(वार्तिकान्त) । गुरुसञ्ज्ञा च न सिध्यति : श्लेष्मा३घ्न पित्ता३घ्न दा३ध्यश्व मा३ध्वश्व । हलः अनन्तराः संयोगः इति संयोगसञ्ज्ञा । संयोगे गुरु इति गुरुसञ्ज्ञा । गुरोः इति प्लुतः न प्राप्नोति । ननु च यस्य अपि अनन्तरस्य विधिं प्रति स्थानिवद्भावः तस्य अपि अनन्तरलक्षणः विधिः संयोगसञ्ज्ञा विधेया । (कात्यायन वार्तिक)न वा संयोगस्य अपूर्वविधित्वात्(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । संयोगस्य अपूर्वविधित्वात। न पूर्वविधिः संयोगः । किं तर्हि । पूर्वपरविधिः संयोगः । (कात्यायन वार्तिक)एकादेशस्य उपसङ्ख्यानम्(वार्तिकान्त) । एकादेशस्य उपसङ्ख्यानं कर्तव्यं : श्रायसौ ग्ॐअतौ चातुरौ , आनडुहौ पादे , उदवाहे । एकादेशे कृते नुमामौ पद्भावः ऊठिति एते विधयः प्राप्नुवन्ति । किं पुनः कारणं न सिध्यति । (कात्यायन वार्तिक)उभयनिमित्तत्वात्(वार्तिकान्त) । अजादेशः परनिमित्तकः इति उच्यते उभयनिमित्तः च अयं । (कात्यायन वार्तिक)उभयादेशत्वात्च(वार्तिकान्त) । अचः आदेशः इचि उच्यते अचोः च अयं आदेशः । न एषः दोषः । यत्तावतुच्यते उभयनिमित्तत्वातिति : इह यस्य ग्रामे नगरे वा अनेकं कार्यं भवति शक्नोति असौ ततः अन्यतरत्व्यपदेष्टुं : गुरुनिमित्तं वसामः । अध्ययननिमित्तं वसामः इति । यतपि उच्यते उभयादेशत्वात्च इति । इह यः द्वयोः षष्ठीनिर्दिष्टयोः प्रसङ्गे भवति लभते असौ अन्यतरतः व्यपदेशं । तत्यथा देवदत्तस्य पुत्रः , देवदत्तायाः पुत्रः इति ।
पाणिनीयसूत्र १,१।५७।६) कि.,१४९।१-१९ रो.,४४१-४४३ अथ हलचोः आदेशः स्थानिवत्भवति उताहो न । कः च अत्र विशेषः । (कात्यायन वार्तिक)हलचोः आदेशः स्थानिवतिति चेत्विंशतेः तिलोपः एकादेशः(वार्तिकान्त) । हलचोः आदेशः स्थानिवतिति चेत्विंशतेः तिलोपे एकादेशः वक्तव्यः : विंशकः , विंशं शतं , विंशः । (कात्यायन वार्तिक)स्थूलादीनां यणादिलोपे अवादेशः(वार्तिकान्त) । स्थूलादीनां यणादिलोपे कृते अवादेशः वक्तव्यः : स्थवीयान्, दवीयान। (कात्यायन वार्तिक)केकयिमित्रय्वोः इयादेशे एत्वम्(वार्तिकान्त) । केकयिमित्रय्वोः इयादेशे एत्वं न सिध्यति : कैकेयः , मैत्रेयः । अचि इति एत्वं न सिध्यति । (कात्यायन वार्तिक)उत्तरपदलोपे च(वार्तिकान्त) । उत्तरपदलोपे च दोषः भवति : दध्युपसिक्ताः सक्तवः दधिसक्तवः । अचि इति यणादेशः प्राप्नोति । (कात्यायन वार्तिक)यङ्लोपे यणियङुवङः(वार्तिकान्त) । यङ्लोपे यणियङुवङः न सिध्यन्ति : चेच्यः , नेन्यः , चेक्रियः , लोलुवः , पोपुवः । अचि इति यणियङुवङः न सिध्यन्ति । अस्तु तर्हि न स्थानिवत। (कात्यायन वार्तिक)अस्थानिवत्त्वे यङ्लोपे गुणवृद्धिप्रतिषेधः (वार्तिकान्त)। अस्थानिवत्त्वे यङ्लोपे गुणवृद्धिप्रतिषेधः वक्तव्यः : लोलुवः , पोपुवः , सरीसृपः , मरीमृजः इति । न एषः दोषः । न धातुलोपे आर्धधातुके इति प्रतिषेधः भविष्यति ।
पाणिनीयसूत्र १,१।५७।७) कि.,१४९।२०-१५१।११ रो.,४४३-४४७ किं पुनः आश्रीयमाणायां प्रकृतौ स्थानिवत्भवति आहोस्वितविशेषेण । कः च अत्र विशेषः । (कात्यायन वार्तिक)अविशेषेण स्थानिवतिति चेत्लोपयणादेशे गुरुविधिः(वार्तिकान्त) । अविशेषेण स्थानिवतिति चेत्लोपयणादेशे गुरुविधिः न सिध्यति : श्लेष्मा३घ्न पित्ता३घ्न दा३ध्यश्व मा३ध्वश्व । हलः अनन्तराः संयोगः इति संयोगसञ्ज्ञा संयोगे गुरु इति गुरुसञ्ज्ञा गुरोः इति प्लुतः न प्राप्नोति । (कात्यायन वार्तिक)द्विर्वचनादयः च प्रतिषेधे(वार्तिकान्त) । द्विर्वचनादयः च प्रतिषेधे वक्तव्याः : द्विर्वचनवरेयलोप इति । (कात्यायन वार्तिक)क्सलोपे लुग्वचनम्(वार्तिकान्त) । क्सलोपे लुक्वक्तव्यः : अदुग्ध , अदुग्धाः : लुक्वा दुहदिहलिहगुहां आत्मनेपदे दन्त्ये इति । (कात्यायन वार्तिक)हन्तेः घत्वम्(वार्तिकान्त) । हन्तेः च घत्वं वक्तव्यं : घ्नन्ति घ्नन्तु , अघ्नन। अस्तु तर्हि आश्रीयमाणायां प्रकृतौ इति । (कात्यायन वार्तिक)ग्रहणेषु स्थानिवतिति चेत्जग्ध्यादिषु आदेशप्रतिषेधः(वार्तिकान्त) । ग्रहणेषु स्थानिवतिति चेत्जग्ध्यादिषु आदेशस्य प्रतिषेधः वक्तव्यः : निराद्य समाद्य । अदः जग्धिः ल्यप्ति किति इति जग्धिभावः प्राप्नोति । (कात्यायन वार्तिक)यणादेशे युलोपेत्वानुनासिकात्त्वप्रतिषेधः(वार्तिकान्त) । यणादेशे युलोपेत्वानुनासिकात्त्वानां प्रतिषेधः वक्तव्यः । यलोप : वाय्वोः , अध्वर्य्वोः । लोपः व्योः वलि इति यलोपः प्राप्नोति । उलोप : अकुर्वि* आशां अकुर्व्याशां । नित्यं करोतेः ये च इति उकारलोपः प्राप्नोति । ईत्व : अलुनि* आशां अलुन्याशां । ई हलि अघोः इति ईत्वं प्राप्नोति । अनुनासिकात्त्व : अजज्ञि* आशां अजज्ञ्याशां । ये विभाषा इति अनुनासिकात्त्वं प्राप्नोति । (कात्यायन वार्तिक)रायात्वप्रतिषेधः च(वार्तिकान्त) । रायः आत्वस्य च प्रतिषेधः वक्तव्यः : रायि* आशां राय्याशां । रायः हलि इति आत्वं प्राप्नोति । (कात्यायन वार्तिक)दीर्घे यलोपप्रतिषेधः(वार्तिकान्त) । दीर्घे यलोपस्य प्रतिषेधः वक्तव्यः : सौर्ये नाम हिमवतः श्र्ङ्गे तद्वान्सौर्यी हिमवानिति सौ इनाश्रये दीर्घत्वे कृते ईति यलोपः प्राप्नोति । (कात्यायन वार्तिक)अतः दीर्घे यलोपवचनम्(वार्तिकान्त) । अतः दीर्घे यलोपः वक्तव्यः : गार्गाभ्यां , वात्साभ्यां । दीर्घे कृते आपत्यस्य च तद्धिते अनाति इति प्रतिषेधः प्राप्नोति । न एषः दोषः । आश्रीयते तत्र प्रकृतिः : तद्धिते इति । सर्वेषां एषां परिहारः : उक्तं विधिग्रहणस्य प्रयोजनं विधिमात्रे स्थानिवत्यथा स्यातनाश्रीयमाणायां अपि प्रकृतौ इति । अथ वा पुनः अस्तु अविशेषेण स्थानिवतिति । ननु च उक्तं अविशेषेण स्थानिवतिति चेत्लोपयणादेशे गुरुविधिः द्विर्वचनादयः च प्रतिषेधे , क्सलोपे लुग्वचनं , हन्तेः घत्वं इति । न एषः दोषः । यत्तावतुच्यते अविशेषेण स्थानिवतिति चेत्लोपयणादेशे गुरुविधिः इति : उक्तं एततः न वा संयोगस्य अपूर्वविधित्वातिति । यतपि उच्यते द्विर्वचनादयः च प्रतिषेधे वक्तव्याः इति : उच्यन्ते न्यासे एव । क्सलोपे लुग्वचनं इति : क्रियते न्यासे एव । हन्तेः घत्वं इति । सप्तमे परिहारं वक्ष्यति ।
पाणिनीयसूत्र १,१।५८।१) कि.,१५१।१४-१५२।१५ रो.,४४७-४५३ पदान्तविधिं प्रति न स्थानिवतिति उच्यते । तत्र वेतस्वानिति रुः प्राप्नोति । न एषः दोषः । भसञ्ज्ञा अत्र बाधिका भविष्यति : तसौ मत्वर्थे इति । अकारान्तं एतत्भसञ्ज्ञां प्रति । पदसञ्ज्ञां प्रति सकारान्तं । ननु च एवं विज्ञास्यते : यः सम्प्रति पदान्तः इति । कर्मसाधनस्य विधिशब्दस्य उपादाने एततेवं स्यात। अयं च विधिशब्दः अस्ति एव कर्मसाधनः : विधीयते विधिः । अस्ति भावसाधनः : विधानं विधिः इति । तत्र भावसाधनस्य उपादाने एषः दोषः भवति । इह च : ब्रह्मबन्ध्वा ब्रह्मबन्ध्वै : धकारस्य जश्त्वं प्राप्नोति । अस्ति पुनः किं चित्भावसाधनस्य विधिशब्दस्य उपादाने सति इष्टं सङ्गृहीतं आहोस्वित्दोषान्तं एव । अस्ति इति आह । इह कानि सन्ति यानि सन्ति कौ स्तः , यौ स्तः इति यः असौ पदान्तः यकारः वकारः वा श्रूयेत सः न श्रूयते । षडिकः च अपि सिद्धः भवति । वाचिकः तु न सिध्यति । अस्तु तर्हि कर्मसाधनः । यदि कर्मसाधनः षडिकः न सिध्यति । अस्तु तर्हि भावसाधनः । वाचिकः न सिध्यति । वाचिकषडिकौ न संवदेते । कर्तव्यः अत्र यत्नः । कथं ब्रह्मबन्ध्वा ब्रह्मबन्ध्वै। उभयतः आश्रये न अन्तादिवतिति । कथं वेतस्वान। न एवं विज्ञायते : पदस्य अन्तः पदान्तः पदन्तविधिं प्रति इति । कथं तर्हि । पदे अन्तः पदान्तः पदान्तविधिं प्रति इति । अथ वा यथा एव अन्यानि अपि पदकार्याणि उपप्लवन्ते रुत्वं जश्त्वं च एवं इदं अपि पदकार्यं उपप्लोष्यते । किम। भसञ्ज्ञा नाम । वरे यलोपविधिं प्रति न स्थानिवत्भवति इति उच्यते । तत्र ते अप्सु यायावरः प्रवपेत पिण्डानवर्णलोपविधिं प्रति स्थानिवत्स्यात। न एषः दोषः । न एवं विज्ञायते : वरे यलोपविधिं प्रति न स्थानिवत्भवति इति । कथं तर्हि । वरे अयलोपविधिं प्रति इति । किं इदं अयलोपविधिं प्रति इति । अवर्णलोपविधिं प्रति यलोपविधिं च प्रति इति । अथ वा योगविभागः करिष्यते : वरे लुप्तं न स्थानिवत। ततः यलोपविधिं च प्रति न स्थानिवतिति । यलोपे किं उदाहरणं । कण्डूयतेः अप्रत्ययः कण्डूः इति । न एततस्ति । क्वौ लुप्तं न स्थानिवत। इदं तर्हि : सौरी बलाका । न एततस्ति । उपधात्वविधिं प्रति न स्थानिवत। इदं तर्हि प्रयोजनं : आदित्यः । न एततस्ति । पूर्वत्रासिद्धे न स्थानिवत। इदं तर्हि : कण्डूतिः , वल्गूतिः । न एततस्ति प्रयोजनं । कण्डूया वल्गूया इति भवितव्यं । इदं तर्हि : कण्डूयतेः क्तिचः ब्राह्मणकण्डूतिः , क्षत्रियकण्डूतिः ।
पाणिनीयसूत्र १,१।५८।२) कि.,१५२।१६-१५३।३ रो.,४५३-४५४ (कात्यायन वार्तिक)प्रतिषेधे स्वरदीर्घयलोपेषु लोपाजादेशः न स्थानिवत्(वार्तिकान्त) । प्रतिषेधे स्वरदीर्घयलोपेषु लोपाजादेशः न स्थानिवतिति वक्तव्यं । स्वर : आकर्षिकः , चिकीर्षकः , जिहीर्षकः । यः हि अन्यः आदेशः स्थानिवतेव असौ भवति : पञ्चारत्न्यः , दशारत्न्यः । स्वर । दीर्घ : प्रतिदीव्ना प्रतिदीव्ने । यः हि अन्यः आदेशः स्थानिवतेव असौ भवति : किर्योः , गिर्योः । दीर्घ । यलोप : ब्राह्मणकण्डूतिः , क्षत्रियकण्डूतिः । यः हि अन्यः आदेशः स्थानिवतेव असौ भवति : वाय्वोः , अध्वर्य्वोः इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । इह हि लोपः अपि प्रकृतः आदेशः अपि । विधिग्रहणं अपि प्रकृतं अनुवर्तते । दीर्घादयः अपि निर्दिश्यन्ते । केवलं अत्र अभिसम्बन्धमात्रं कर्तव्यं : स्वरदीर्घयलोपविधिषु लोपाजादेशः न स्थानिवतिति । आनुपूर्व्येण सन्निविष्टानां यथेष्टं अभिसम्बन्धः शक्यते कर्तुं । न च एतनि आनुपूर्व्येण सन्निविष्टानि । अनानुपूर्व्येण अपि सन्निविष्टानां यथेष्तं अभिसम्बन्धः भवति । तत्यथा : अनड्वाहं उदहारि या त्वं हरसि शिरसा कुम्भं भगिनि साचीनं अभिधावन्तं अद्राक्षीः इति । तस्य यथेष्तं अभिसम्बन्धः भवति : उदहारि भगिनि या त्वं कुम्भं हरसि शिरसा अनड्वाहं साचीनं अभिधावन्तं अद्राक्षीः इति ।
पाणिनीयसूत्र १,१।५८।३) कि.,१५३।४-१५४।६ रो.,४५५-४५९ (कात्यायन वार्तिक)क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेषु उपसङ्ख्यानम्(वार्तिकान्त) । क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेषु उपसङ्ख्यानं कर्तव्यं । क्वौ किं उदाहरणं । कण्डूयतेः अप्रत्ययः कण्डूः इति । न एततस्ति । यलोपविधिं प्रति न स्थानिवत। इदं तर्हि : पिपठिषतेः अप्रत्ययः पिपठीः । न एततस्ति । दीर्घत्वं प्रति न स्थानिवत। इदं तर्हि : लावयतेः लौः , पावयतेः पौः । न एततस्ति । अकृत्वा वृद्ध्यावादेशौ णिलोपः । प्रत्ययलक्षणेन वृद्धिः भविष्यति । इदं तर्हि : लवं आचष्टे लवयति । लवयतेः अप्रत्ययः लौः , पौः । स्थानिवद्भावात्णेः ऊठ्न प्राप्नोति । क्वौ लुप्तं न स्थानिवतिति भवति । एवं अपि न सिध्यति । कथं । क्वौ णिलोपः णौ अकारलोपः । तस्य स्थानिवद्भावातूठ्न प्राप्नोति । न एषः दोषः । न एवं विज्ञायते : क्वौ लुप्तं न स्थानिवतिति । कथं तर्हि । क्वौ विधिं प्रति न स्थानिवत। लुकि किं उदाहरणं । बिम्बं , बदरं । न एततस्ति । पुंवद्भावेन अपि एतत्सिद्धं । इदं तर्हि : आमलकं । एततपि न अस्ति । वक्ष्यति एततः फले लुग्वचनानर्थक्यं प्रकृत्यन्तरत्वातिति । इदं तर्हि : पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुः , दशपटुः इति । ननु च एततपि पुंवद्भावेन एव सिद्धं । कथं पुंवद्भावः । भस्य अढे तद्धिते पुंवत्भवति इति । भस्य इति उच्यते । यजादौ च भं भवति न च अत्र यजादिं पश्यामः । प्रत्ययलक्षणेन यजादिः । वर्णाश्रये न अस्ति प्रत्ययलक्षणं । एवं तर्हि ठक्छसोः च इति एवं भविष्यति । टक्छसोः च इति उच्यते । न च अत्र टक्छसौ पश्यामः । प्रत्ययलक्षणेन । न लुमता तस्मिनिति प्रत्ययलक्षणस्य प्रतिषेधः । न खलु अपि ठकेव क्रीतप्रत्ययः क्रीताद्यर्थाः एव वा तद्धिताः । किं तर्हि । अन्ये अपि तद्धिताः ये लुकं प्रयोजयन्ति : पञ्चेन्द्राण्यः देवताः अस्य इति पञ्चेन्द्रः , दशेन्द्रः , पञ्चाग्निः , दशाग्निः । उपधात्वे किं उदाहरणं । पिपठिषतेः अप्रत्ययः पिपठीः इति । न एततस्ति । दीर्घविधिं प्रति न स्थानिवत। इदं तर्हिः सौरी बलाका । न एततस्ति । यलोपविधिं प्रति न स्थानिवत। इदं तर्हि : पारिखीयः । चङ्परनिर्ह्रासे च उपसङ्ख्यनं कर्तव्यं । वादितवन्तं प्रयोजितवानः अवीवदत्वीणां परिवादकेन । किं पुनः कारणं न सिध्यति । यः असौ णौ णिः लुप्यते तस्य स्थानिवद्भावात्ह्रस्वत्वं न प्राप्नोति । ननु च एततपि उपधात्वविधिं प्रति न स्थानिवतिति एव सिद्धं । विशेषे एतत्वक्तव्यं । क्व । प्रत्ययविधौ इति । इह मा भूतः पटयति लघयति इति । कुत्वे च उपसङ्ख्यनं कर्तव्यं । अर्चयतेः अर्कः , मर्चयतेः मर्कः । न एतत्घञन्तं । औणादिकः एषः कशब्दः । तस्मिनाष्टमिकं कुत्वं । एततपि णिचा व्यवहितत्वात्न प्राप्नोति ।
पाणिनीयसूत्र १,१।५८।४) कि.,१५४।७-१५५।७ रो.,४५९-४६१ (कात्यायन वार्तिक)पूर्वत्रासिद्धे च(वार्तिकान्त) । पूर्वत्रासिद्धे च न स्थानिवतिति वक्तव्यं । किं प्रयोजनं । (कात्यायन वार्तिक)प्रयोजनं क्सलोपः सलोपे(वार्तिकान्त) क्सलोपः सलोपे प्रयोजनं : अदुग्ध , अदुग्धाः । लुक्वा दुहदिहलिहगुहां आत्मनेपदे दन्त्ये इति लुग्ग्रहणं न कर्तव्यं । (कात्यायन वार्तिक)दधः आकारलोपे आदिचतुर्थत्वे(वार्तिकान्त) । दधः आकारलोपे आदिचतुर्थत्वे प्रयोजनं : धत्से धद्ध्वे धद्ध्वं इति । दधः तथोः च इति चकारः न कर्तव्यः भवति । (कात्यायन वार्तिक)हलः यमां यमि लोपे(वार्तिकान्त) । हलः यमां यमि लोपे प्रयोजनं : आदित्यः । हलः यमां यमि लोपः सिद्धः भवति । (कात्यायन वार्तिक)अल्लोपणिलोपौ संयोगान्तलोपप्रभृतिषु(वार्तिकान्त) । अल्लोपणिलोपौ संयोगान्तलोपप्रभृतिषु प्रयोजनं : पापच्यतेः पापक्तिः , यायज्यतेः यायष्टिः , पाचयतेः पाक्तिः , याजयतेः याष्टिः । (कात्यायन वार्तिक)द्विर्वचनादीनि च(वार्तिकान्त) । द्विर्वचनादीनि च न पठितव्यानि भवन्ति । पूर्वत्रासिद्धेन एव सिद्धानि भवन्ति । किं अविशेषेण । न इति आह । (कात्यायन वार्तिक)वरेयलोपस्वरवर्जम्(वार्तिकान्त) । वरेयलोपं स्वरं च वर्जयित्वा । (कात्यायन वार्तिक)तस्य दोषः संयोगादिलोपलत्वणत्वेषु(वार्तिकान्त) । तस्य एतस्य लक्षणस्य दोषः संयोगादिलोपलत्वणत्वेषु । संयोगादिलोप : काक्यर्थं , वास्यर्थं । स्कोः संयोगाद्योः अन्ते च इति लोपः प्राप्नोति । लत्वं : निगार्यते निगाल्यते । अचि विभाषा इति लत्वं न प्राप्नोति । णत्वं : माषवपनी व्रीहिवापनी । प्रातिपदिकान्तस्य इति णत्वं प्राप्नोति ।
पाणिनीयसूत्र १,१।५९।१) कि.,१५५।९-१८ रो.,४६१-४६२ (कात्यायन वार्तिक)आदेशे स्थानिवदनुदेशात्तद्वतः द्विर्वचनम्(वार्तिकान्त) । आदेशे स्थानिवदनुदेशात्तद्वतः । किंवतः । आदेशवतः द्विर्वचनं प्राप्नोति । तत कः दोषः । (कात्यायन वार्तिक)तत्र अभ्यासरूपम्(वार्तिकान्त) । तत्र अभ्यासरूपं न सिध्यति : चक्रतुः , चक्रुः इति । (कात्यायन वार्तिक)अज्ग्रहणं तु ज्ञापकं रूपस्थानिवद्भावस्य(वार्तिकान्त) । यतयं अज्ग्रहणं करोति तत्ज्ञापयति आचार्यः रूपं स्थानिवत्भवति इति । कथं कृत्वा ज्ञापकं । अज्ग्रहणस्य एतत्प्रयोजनं : इह मा भूतः जेघ्रीयते , देध्मीयते इति । यदि रूपं स्थानिवत्भवति ततः अज्ग्रहणं अर्थवत्भवति । अथ हि कार्यं न अर्थः अज्ग्रहणेन । भवति एव अत्र द्विर्वचनं ।
पाणिनीयसूत्र १,१।५९।२) कि.,१५५।१९-१५६।२७ रो.,४६२-४६६ (कात्यायन वार्तिक)तत्र गाङ्प्रतिषेधः (वार्तिकान्त)। तत्र गाङः प्रतिषेधः वक्तव्यः : अधिजगे । इवर्णाभ्यासता प्राप्नोति । न वक्तव्यः । गाङ्लिटि इति द्विलकारकः निर्देशः : लिटि लकारादौ इति । (कात्यायन वार्तिक)क्®त्येजन्तदिवादिनामधातुषु अभ्यासरूपम्(वार्तिकान्त) । क्®त्येजन्तदिवादिनामधातुषु अभ्यासरूपं न सिध्यति । क्®ति : अचिकीर्तत। क्®ति । एजन्त : जग्ले मम्ले । एजन्त । दिवादि : दुद्यूषति सुस्यूषति । दिवादि । नामधातु : भवनं इच्छति भवनीयति भवनीयतेः सनः बिभवनीयिषति । एवं तर्हि प्रत्यये इति वक्ष्यामि । (कात्यायन वार्तिक)प्रत्यये इति चेत्क्®त्येजन्तनमधातुषु अभ्यासरूपम्(वार्तिकान्त) । प्रत्यये इति चेत्क्®त्येजन्तनमधातुषु अभ्यासरूपं न सिध्यति । दिवादयः एके परिहृताः । एवं तर्हि द्विर्वचननिमित्ते अचि अजादेशः स्थानिवतिति वक्ष्यामि । सः तर्हि निमित्तशब्दः उपादेयः । न हि अन्तरेण निमित्तशब्दं निमित्तार्थः गम्यते । अन्तरेण अपि निमित्तशब्दं निमित्तार्थः गम्यते । तत्यथा : दधित्रपुसं प्रत्यक्षः ज्वरः । ज्वरनिमित्तं इति गम्यते । नड्वलोदकं पादरोगः । पादरोगनिमित्तं इति गम्यते । अयुः घृतं । आयुषः निमित्तं इति गम्यते । अथ वा अकारः मत्वर्थीयः : द्विर्वचनं अस्मिनस्ति सः अयं द्विर्वचनः , द्विर्वचने इति । एवं अपि न ज्ञायते कियन्तं असौ कालं स्थानिवत्भवति इति । यः पुनः आह द्विर्वचने कर्तव्ये इति कृते तस्य द्विर्वचने स्थानिवत्न भविष्यति । एवं तर्हि प्रतिषेधः प्रकृतः । सः अनुवर्तिष्यते । क्व प्रकृतः । न पदान्तद्विर्वचन इति । द्विर्वचननिमित्ते अचि अजादेशः न भवति इति । एवं अपि न ज्ञायते कियन्तं असौ कालं न भवति इति । यः पुनः आह द्विर्वचने कर्तव्ये इति कृते तस्य द्विर्वचने अजादेशः भविष्यति । एवं तर्हि उभयं अनेन क्रियते : प्रत्ययः च विशेष्यते द्विर्वचनं च । कथं पुनः एकेन यत्नेन उभयं लभ्यं । लभ्यं इति आह । कथं । एकशेषनिर्देशात। एकशेषनिर्देशः अयं : द्विर्वचनं च द्विर्वचनं च द्विर्वचनं । द्विर्वचने च कर्तव्ये द्विर्वचने अचि प्रत्यये इति द्विर्वचननिमित्ते अचि स्थानिवत्भवति । (कात्यायन वार्तिक)द्विर्वचननिमित्ते अचि स्थानिवतिति चेत्णौ स्थानिवद्वचनं (वार्तिकान्त)। द्विर्वचननिमित्ते अचि स्थानिवतिति चेत्णौ स्थानिवद्भावः वक्तव्यः : अवनुनावयिषति , अवचुक्षावयिषति । न वक्तव्यः । (कात्यायन वार्तिक)ओः पुयण्जिषु वचनं ज्ञापकं णौ स्थानिवद्भावस्य(वार्तिकान्त) । यतयं पुयण्जि अपरे इति आह तत्ज्ञापयति आचार्यः भवति णौ स्थानिवतिति । यदि एतत्ज्ञाप्यते अचीकीर्ततत्र अपि प्राप्नोति । तुल्यजातीयस्य ज्ञापकं । कः च तुल्यजातीयः । यथाजातीयकाः पुयण्जयः । कथञ्जातीयकाः च एते । अवर्णपराः । कथं जग्ले मम्ले । अनैमित्तिकं आत्त्वं शिति तु प्रतिषेधः ।
पाणिनीयसूत्र १,१।५९।३) कि.,१५७।१-११ रो.,४६६-४६८ कानि पुनः अस्य योगस्य प्रयोजनानि । पपतुः , पपुः , तस्थतुः , तस्थुः , जग्मतुः , जग्मुः , आटितत्, आशिशत्, चक्रतुः , चक्रुः इति । आल्लोपोपधालोपणिलोपयणादेशेषु कृतेषु अनच्कत्वात्द्विर्वचनं न प्राप्नोति । स्थानिवद्भावात्भवति । न एतानि सन्ति प्रयोजनानि । पूर्वविप्रतिषेधेन अपि एतानि सिद्धानि । कथं । वक्ष्यति हि आचार्यः : द्विर्वचनं यणयवायावादेशाल्लोपोपधालोपकिकिनोरुत्त्वेभ्यः इति । सः पूर्वविप्रतिषेधः न पठितव्यः भवति । किं पुनः अत्र ज्यायः । स्थानिवद्भावः एव ज्यायान। पूर्वविप्रतिषेधे हि सति इदं वक्तव्यं स्यातः ओदौदादेशस्य उत्भवति चुटुतुशरादेः अभ्यासस्य इति । ननु च त्वया अपि इत्त्वं वक्तव्यं । परार्थं मम भविष्यति : सनि अतः इत्भवति इति । मम अपि तर्हि उत्त्वं परार्थं भविष्यति : उत्परस्य अतः ति च इति । इत्त्वं अपि त्वया वक्तव्यं यत्समानाश्रयं तदर्थं : उत्पिपविषते संयियविषति इति एवमर्थं । तस्मात्स्थानिवतिति एषः एव पक्षः ज्यायान।
पाणिनीयसूत्र १,१।६०) कि.,१५८।२-१५९।४ रो.,४६९-४७१ अर्थस्य सञ्ज्ञा कर्तव्या शब्दस्य मा भूतिति । इतरेतराश्रयं च भवति । का इतरेतराश्रयता । सतः अदर्शनस्य सञ्ज्ञया भवितव्यं सञ्ज्ञय च अदर्शनं भाव्यते । ततेततितरेतराश्रयं भवति । इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते । (कात्यायन वार्तिक)लोपसञ्ज्ञायां अर्थसतोः उक्तम्(वार्तिकान्त) । किं उक्तं । अर्थस्य तावतुक्तं : इतिकरणः अर्थनिर्देशार्थः इति । सतः अपि उक्तं : सिद्धं तु नित्यशब्दत्वातिति । नित्याः शब्दाः । नित्येषु च शब्देषु सतः अदर्शनस्य सञ्ज्ञा क्रियते । न सञ्ज्ञया अदर्शनं भाव्यते । (कात्यायन वार्तिक)सर्वप्रसङ्गः तु सर्वस्य अन्यत्र अदृष्टत्वात्(वार्तिकान्त) । सर्वप्रसङ्गः तु भवति । सर्वस्य अदर्शनस्य लोपसञ्ज्ञा प्राप्नोति । किं कारणं । सर्वस्य अन्यत्र अदृष्टत्वात। सर्वः हि शब्दः यः यस्य प्रयोगविषयः सः ततः अन्यत्र न दृश्यते । त्रपु जतु इति अत्र अणः अदर्शनं । तत्र अदर्शनं लोपः इति लोपसञ्ज्ञा प्राप्नोति । तत्र कः दोषः । (कात्यायन वार्तिक)तत्र प्रत्ययलक्षणप्रतिषेधः(वार्तिकान्त) । तत्र प्रत्ययलक्षणं कार्यं प्राप्नोति । तस्य प्रतिषेधः वक्तव्यः । अचः ञ्णिति इति वृद्धिः प्राप्नोति । न एषः दोषः । ञ्णिति अङ्गस्य अचः वृद्धिः उच्यते । यस्मात्प्रत्ययविधिः तदादि प्रत्यये अङ्गं भवति । यस्मात्च अत्र प्रत्ययविधिः न तत्प्रत्यये परतः यत्च प्रत्यये परतः न तस्मात्प्रत्ययविधिः । क्विपः तर्हि अदर्शनं । तत्र अदर्शनं लोपः इति लोपसञ्ज्ञा प्राप्नोति । तत्र कः दोषः । तत्र प्रत्ययलक्षणप्रतिषेधः । तत्र प्रत्ययलक्षणं कार्यं प्राप्नोति । तस्य प्रतिषेधः वक्तव्यः । ह्रस्वस्य पिति कृति तुक्भवति इति तुक्प्राप्नोति । (कात्यायन वार्तिक)सिद्धं तु प्रसक्तादर्शनस्य लोपसञ्ज्ञित्वात्(वार्तिकान्त) । सिद्धं एतत। कथं । प्रसक्तादर्शनं लोपसञ्ज्ञं भवति इति वक्तव्यं । यदि प्रसक्तादर्शनं लोपसञ्ज्ञं भवति इति उच्यते ग्रामणीः , सेनानीः : अत्र वृद्धिः प्राप्नोति । प्रसक्तादर्शनं लोपसञ्ज्ञं भवति षष्ठीनिर्दिष्टस्य । यदि षष्ठीनिर्दिष्टस्य इति उच्यते चाहलोपे एव इति अवधारणे चादिलोपे विभाषा इति अत्र लोपसञ्ज्ञा न प्राप्नोति । अथ प्रसक्तादर्शनं लोपसञ्ज्ञं भवति इति उच्यमाने कथं इव एतत्सिध्यति । कः शब्दस्य प्रसङ्गः । यत्र गम्यते च अर्थः न च प्रयुज्यते । अस्तु तर्हि प्रसक्तादर्शनं लोपसञ्ज्ञं भवति इति एव । कथं ग्रामणीः , सेनानीः । यः अत्र अणः प्रसङ्गः क्विपा असौ बाध्यते ।
पाणिनीयसूत्र १,१।६१) कि.,१५९।६-१६०।२३ रो.,४७१-४७६ प्रत्ययग्रहणं किमर्थं । (कात्यायन वार्तिक)लुमति प्रत्ययग्रहणं अप्रत्ययसञ्ज्ञाप्रतिषेधार्थं (वार्तिकान्त)। लुमति प्रत्ययग्रहणं क्रियते अप्रत्ययस्य एताः सञ्ज्ञाः मा भूवनिति । किं प्रयोजनं । (कात्यायन वार्तिक)प्रयोजनं तद्धितलुकि कंसीयपरशव्ययोः लुकि च गोप्रकृतिनिवृत्त्यर्थं (वार्तिकान्त)। तद्धितलुकि गोनिवृत्त्यर्थं कंसीयपरशव्ययोः च लुकि प्रकृतिनिवृत्त्यर्थं । लुक्तद्धितलुकि इति गोः अपि लुक्प्राप्नोति । प्रत्ययग्रहणात्न भवति । कंसीयपरशव्ययोः यञञौ लुक्च इति प्रकृतेः अपि लुक्प्राप्नोति । प्रत्ययग्रहणात्न भवति । गोनिवृत्त्यर्थेन तावत्न अर्थः । (कात्यायन वार्तिक)योगविभागात्सिद्धम्(वार्तिकान्त) । योगविभागः करिष्यते : गोः उपसर्जनस्य । गोन्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति । ततः स्त्रियाः । स्त्रीप्रत्ययान्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति । ततः लुक्तद्धितलुकि इति । स्त्रियाः इति वर्तते । गोः इति निवृत्तं । (कात्यायन वार्तिक)कंसीयपरशव्ययोः विशिष्टनिर्देशात्सिद्धम्(वार्तिकान्त) । कंसीयपरशव्ययोः अपि विशिष्टनिर्देशः कर्तव्यः : कंसीयपरशव्ययोः यञञौ भवतः छयतोः च लुक्भवति इति । सः च अवश्यं विशिष्टनिर्देशः कर्तव्यः क्रियमाणे अपि वै प्रत्ययग्रहणे उकारसशब्दयोः मा भूतिति : कमेः सः कंसः । परान्शृणाति इति परशुः इति । न एषः दोषः । उणादयः अव्युत्पन्नानि प्रातिपदिकानि । सः एषः अनन्यार्थः विशिष्टनिर्देशः कर्तव्यः प्रत्ययग्रहणं वा कर्तव्यं । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । ङ्याप्प्रातिपदिकग्रहणं आङ्गभपदसञ्ज्ञार्थं यच्छयोः च लुगर्थं इति । (कात्यायन वार्तिक)षष्ठीनिर्देशार्थं तु(वार्तिकान्त) । षष्ठीनिर्देशार्थं तर्हि प्रत्ययग्रहणं कर्तव्यं । (कात्यायन वार्तिक)अनिर्देशे हि षष्ठ्यर्थाप्रसिद्धिः(वार्तिकान्त) । अक्रियमाणे हि प्रत्ययग्रहणे षष्ठ्यर्थस्य अप्रसिद्धिः स्यात। कस्य । स्थानेयोगत्वस्य । क्व पुनः इह षष्ठीनिर्देशार्थेन अर्थः प्रत्ययग्रहणेन यावता सर्वत्र एव षष्ठी उच्चार्यते : अणिञोः तद्राजस्य यञञोः शपः इति । इह न का चित्षष्ठी : जनपदे लुपिति । अत्र अपि प्रकृतं प्रत्ययग्रहणं अनुवर्तते । क्व प्रकृतं । प्रत्ययः परः च इति । तत्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन च इह अर्थः । ङ्याप्प्रातिपदिकातिति एषा पञ्चमी प्रत्ययः इति प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मातिति उत्तरस्य । प्रत्ययविधिः अयं । न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति । न अयं प्रत्ययविधिः । विहितः प्रत्ययः प्रकृतः च अनुवर्तते । (कात्यायन वार्तिक)सर्वादेशार्थं वा वचनप्रामाण्यात्(वार्तिकान्त) । सर्वादेशार्थं तर्हि प्रत्ययग्रहणं कर्तव्यं । लुक्श्लुलुपः सर्वादेशाः यथा स्युः । अथ क्रियमाणे अपि प्रत्ययग्रहणे कथं इव लुक्श्लुलुपः सर्वादेशाः लभ्याः । वचनप्रामाण्यातः प्रत्ययग्रहणसामाऋथ्यात। एततपि न अस्ति प्रयोजनं । आचार्यप्रवृत्तिः ज्ञापयति लुक्श्लुलुपः सर्वादेशाः भवन्ति इति यतयं लुक्वा दुहदिहलिहगुहां आत्मनेपदे दन्त्ये इति लोपे कृते लुकं शास्ति । (कात्यायन वार्तिक)उत्तरार्थं तु(वार्तिकान्त) । उत्तरार्थं तर्हि प्रत्ययग्रहणं कर्तव्यं । न कर्तव्यम। क्रियते तत्र एव : प्रत्ययलोपे प्रत्ययलक्षणं इति । द्वितीयं कर्तव्यं कृत्स्नप्रत्ययलोपे प्रत्ययलक्षणं यथा स्यात। एकदेशलोपे मा भूतिति : आघ्नीत सं रायस्पोषेण ग्मीय इति ।
पाणिनीयसूत्र १,१।६२।१) कि.,१६०।२५-१६१।१४। रो.,४७६-४७८ प्रत्ययग्रहणं किमर्थम। लोपे प्रत्ययलक्षणं इति इयति उच्यमाने सौरथी वहती इति गुरूपोत्तमलक्षणः ष्यङ्प्रसज्येत । न एषः दोषः । न एवं विज्ञायते : लोपे प्रत्ययलक्षणं प्रत्ययस्य प्रादुर्भावः इति । कथं तर्हि । प्रत्ययः लक्षणं यस्य कार्यस्य तत्लुप्ते अपि भवति इति । इदं तर्हि प्रयोजनं : सति प्रत्यये यत्प्राप्नोति तत्प्रत्ययलक्षनेन यथा स्यात। लोपोत्तरकालं यत्प्राप्नोति तत्प्रत्ययलक्षणेन मा भूतिति । किं प्रयोजनं । ग्रामणिकुलं , सेनानिकुलं : औत्तरपदिके ह्रस्वत्वे कृते ह्रस्वस्य पिति कृति तुक्भवति इति तुक्प्राप्नोति । सः मा भूतिति । यदि तर्हि यत्सति प्रत्यये प्राप्नोति तत्प्रत्ययलक्षनेन भवति । लोपोत्तरकालं यत्प्राप्नोति तत्न भवति जगत्, जनगतिति अत्र तुक्न प्राप्नोति । लोपोत्तरकलः हि अत्र तुकागमः । तस्मात्न अर्थः एवमर्थेन प्रत्ययग्रहणेन । कस्मात्न भवति ग्रामणिकुलं , सेनानिकुलं । बहिरङ्गं ह्रस्वत्वं । अन्तरङ्गः तुक। असिद्धं बहिरङ्गं अन्तरङ्गे । इदं तर्हि प्रयोजनं : कृत्स्नप्रत्ययलोपे प्रत्ययलक्षणं यथा स्यात। एकदेशलोपे मा भूतिति : आघ्नीत सं रायस्पोषेण ग्मीय इति । पूर्वस्मिनपि योगे प्रत्ययग्रहणस्य एतत्प्रयोजनं उक्तम। अन्यतरत्शक्यं अकर्तुं । अथ द्वितीयं प्रत्ययग्रहणं किमर्थं । प्रत्ययलक्षणं यथा स्यात्वर्णलक्षणं मा भूतिति : गवे हितं गोहितं , रायः कुलं रैकुलं इति ।
पाणिनीयसूत्र १,१।६२।२) कि.,१६१।१५-१६२।२१ रो.,४७९-४८२ किमर्थं पुनः इदं उच्यते । (कात्यायन वार्तिक)प्रत्ययलोपे प्रत्ययलक्षणवचनं सदन्वाख्यानात्शास्त्रस्य(वार्तिकान्त) । प्रत्ययलोपे प्रत्ययलक्षणं इति उच्यते सदन्वाख्यानात्शास्त्रस्य । सत्शास्त्रेण अन्वाख्यायते सतः वा शास्त्रं अन्व्याखायकं भवति । सदन्वाख्यानात्शास्त्रस्य उगिदचां सर्वनामस्थाने अधातोः इति इह : एव स्यात्गोमन्तौ यवमन्तौ । गोमान्यवमानिति अत्र न स्यात। इष्यते च स्यातिति । तत्च अन्तरेण यत्नं न सिध्यति । अतः प्रत्ययलोपे प्रत्ययलक्षणवचनं । एवमर्थं इदं उच्यते । अस्ति प्रयोजनं एतत। किं तर्हि इति। (कात्यायन वार्तिक)लुकि उपसङ्ख्यानम्(वार्तिकान्त) । लुकि उपसङ्ख्यानं कर्तव्यं : पञ्च सप्त । किं पुनः कारणं न सिध्यति । (कात्यायन वार्तिक)लोपे हि विधानम्(वार्तिकान्त) । लोपे हि प्रत्ययलक्षणं विधीयते । तेन लुकि न प्राप्नोति । (कात्यायन वार्तिक)न वा अदर्शनस्य लोपसञ्ज्ञित्वात्(वार्तिकान्त) । न वा कर्तव्यं । किं कारणं । अदर्शनस्य लोपसञ्ज्ञित्वात। अदर्शनं लोपसञ्ज्ञं इति उच्यते । लुमत्सञ्ज्ञाः च अदर्शनस्य क्रियन्ते । तेन लुकि अपि भविष्यति । यदि एवं । (कात्यायन वार्तिक)प्रत्ययादर्शनं तु लुमत्सञ्ज्ञम्(वार्तिकान्त) । प्रत्ययादर्शनं तु लुमत्सञ्ज्ञं अपि प्राप्नोति । तत्र कः दोषः । (कात्यायन वार्तिक)तत्र लुकि श्लुविधिप्रतिषेधः(वार्तिकान्त) । तत्र लुकि श्लुविधिः अपि प्राप्नोति । सः प्रतिषेध्यः : अत्ति हन्ति । श्लौ इति द्विर्वचनं प्राप्नोति । (कात्यायन वार्तिक)न वा पृथक्सञ्ज्ञाकरणात्(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । पृथक्सञ्ज्ञाकरणात। पृथक्सञ्ज्ञाकरणसामर्थ्यात्लुकि श्लुविधिः न भविष्यति । तस्मातदर्शनसामान्यात्लोपसञ्ज्ञा लुमत्सञ्ज्ञाः अवगाहते । यथा एव तर्हि अदर्शनसामान्यात्लोपसञ्ज्ञा लुमत्सञ्ज्ञाः अवगाहते एवं लुमत्सञ्ज्ञाः अपि लोपसञ्ज्ञां अवगाहेरन। तत्र कः दोषः । अगोमती गोमती सम्पन्ना गोमतीभूता : लुक्तद्धितलुकि इति ङीपः लुक्प्रसज्येत । ननु च अत्र अपि पृथक्सञ्ज्ञाकरणातिति एव सिद्धं । यथा एव तर्हि पृथक्सञ्ज्ञाकरणसामर्थ्यात्लुमत्सञ्ज्ञाः लोपसञ्ज्ञां न अवगाहन्ते एवं लोपसञ्ज्ञा अपि लुमत्सञ्ज्ञाः न अवगाहेत । तत्र सः एव दोषः : लुकि उपसङ्ख्यानं इति । अस्ति अन्यत्लोपसञ्ज्ञायाः पृथक्सञ्ज्ञाकरणे प्रयोजनं । किम। लुमत्सञ्ज्ञासु यतुच्यते तत्लोपमात्रे मा भूतिति । (कात्यायन वार्तिक)लुमति प्रतिषेधात्वा(वार्तिकान्त) । अथ वा यतयं न लुमता अङ्गस्य इति प्रत्षेधं शास्ति तत्ज्ञापयति आचार्यः भवति लुकि प्रत्ययलक्षणं इति ।
पाणिनीयसूत्र १,१।६२।३) कि.,१६२।२२-१६४।१० रो.,४८२-४८६ (कात्यायन वार्तिक)सतः निमित्ताभावात्पदसञ्ज्ञाभावः (वार्तिकान्त)। सन्प्रत्ययः येषां कार्याणां अनिमित्तं : राज्ञः पुरुषः इति सः लुप्तः अपि अनिमित्तं स्यातः राजपुरुषः इति । अस्तु तस्याः अनिमित्तं या स्वादौ पदं इति पदसञ्ज्ञा या तु सुबन्तं पदं इति पदसञ्ज्ञा सा भविष्यति । सति एतत्प्रत्यये आसीतः अनया भविष्यति अनया न भविष्यति इति । लुप्ते इदानीं प्रत्यये यावतः एव अवधेः स्वादौ पदं इति पदसञ्ज्ञा तावतः एव अवधेः सुबन्तं पदं इति । अस्ति च प्रत्ययलक्षणेन यजादिपरता इति कृत्वा भसञ्ज्ञा प्राप्नोति । (कात्यायन वार्तिक)तुग्दीर्घत्वयोः च विप्रतिषेधानुपपत्तिः एकयोगलक्षणत्वात्परिवीः इति(वार्तिकान्त) । तुग्दीर्घत्वयोः च विप्रतिषेधः न उपपद्यते । क्व । परिवीः इति । किं कारणं । एकयोगलक्षणत्वात। एकयोगलक्षणे तुग्दीर्घत्वे । इह लुप्ते प्रत्यये सर्वाणि प्रत्ययाश्रयाणि कार्याणि पर्यवपन्नानि भवन्ति । तानि एतानि प्रत्युत्थाप्यन्ते । अनेन एव तुकनेन एव च दीर्घत्वं इति । ततेततेकयोगलक्षणं भवति । एकयोगलक्षणानि च न प्रकल्पन्ते । (कात्यायन वार्तिक)सिद्धं तु स्थानिसञ्ज्ञानुदेशातान्यभाव्यस्य(वार्तिकान्त) । सिद्धं एतत। कथं । स्थानिसञ्ज्ञा अन्यभूतस्य भवति इति वक्तव्यं । किं कृतं भवति । सत्तामात्रं अनेन क्रियते । यथाप्राप्ते तुग्दीर्घत्वे भविष्यतः । तत्वक्तव्यं भवति । यदि अपि एततुच्यते अथ वा एतर्हि स्थानिवद्भावः न आरभ्यते । स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वक्ष्यामि । यदि एवं आङः यमहनः आत्मनेपदं भवति इति हन्तेः एव स्यात्वधेः न स्यात। न हि का चित्हन्तेः सञ्ज्ञा अस्ति या वधेः अतिदिश्येत । हन्तेः अपि सञ्ज्ञा अस्ति । का । हन्तिः एव । कथं । स्वं रूपं शब्दस्य अशब्दसञ्ज्ञा इति वचनात्स्वं रूपं शब्दस्य सञ्ज्ञा भवति इति हन्तेः अपि हन्तिः सञ्ज्ञा भविष्यति । (कात्यायन वार्तिक)भसञ्ज्ञाङीप्ष्फगोरात्वेषु च सिद्धम्(वार्तिकान्त) । भसञ्ज्ञाङीप्ष्फगोरात्वेषु च सिद्धं भवति । भसञ्ज्ञा : राज्ञः पुरुषः राजपुरुषः । प्रत्ययलक्षणेन यचि भं इति भासञ्ज्ञा प्राप्नोति । स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात्न भवति । ङीपः चित्रायां जाता चित्रा । प्रत्ययलक्षणेन अणन्तातीकारः प्राप्नोति । स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात्न भवति । ष्फ : वतङ्डी । प्रत्ययलक्षणेन यञन्तातिति ष्फः प्राप्नोति । स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात्न भवति । गोः आत्वं । गां इच्छति गव्यति । प्रत्ययलक्षणेन अमि आ ओतः अम्शसोः इति आत्वं प्राप्नोति । स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात्न भवति । (कात्यायन वार्तिक)तस्य दोषः ङौनकारलोपेत्त्वेम्विधयः (वार्तिकान्त)। तस्य एतस्य लक्षणस्य दोषः ङौनकारलोपः । आर्द्रे चर्मन्लोहिते चर्मन। प्रत्ययलक्षणेन यचि भं इति भसञ्ज्ञा सिद्धा भवति । स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात्न प्राप्नोति । इत्त्वं : आशीः । प्रत्ययलक्षणेन हलि इति इत्वं सिद्धं भवति । स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात्न प्राप्नोति । इं : अतृणेत। प्रत्ययलक्षणेन हलि इति इत्त्वं सिद्धं भवति । स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात्न प्राप्नोति । सूत्रं च भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं सतः निमित्ताभावात्पदसञ्ज्ञाभावः तुग्दीर्घत्वयोः च विप्रतिषेधानुपपत्तिः एकयोगलक्षणत्वात्परिवीः इति । न एषः दोषः । वक्ष्यति अत्र परिहारं । इह अपि परिवीः इति शास्त्रपरविप्रतिषेधेन परत्वात्दीर्घत्वं भविष्यति ।
पाणिनीयसूत्र १,१।६२।४) कि.,१६४।११-१६५।१३ रो.,४८६-४९० कानि पुनः अस्य योगस्य प्रयोजनानि । (कात्यायन वार्तिक)प्रयोजनं अपृक्तशिलोपे नुं अमामौ गुणवृद्धिदीर्घत्वेमडाट्श्नम्विधयः(वार्तिकान्त) । अपृक्तलोपे शिलोपे च कृते नुं अमामौ गुणवृद्धी दीर्घत्वं इमडाटौ श्नम्विधिः इति प्रयोजनानि । नुं : अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानां । नुं । अमामौ : हे अनड्वन्, अनड्वान। गुणः : अधोक्, अलेट। वृद्धिः : नि अमार्ट। दीर्घत्वं : अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानां । इं : अतृणेट। अडाटौ : अधोक्, अलेट्, ऐयः , औनः । श्नम्विधिः : अभिनः अत्र , अच्छिनः अत्र । अपृक्तशिलोपयोः कृतयोः एते विधयः न प्राप्नुवन्ति । प्रत्ययलक्षणेन भवन्ति । न एतानि सन्ति प्रयोजनानि । स्थानिवद्भावेन अपि एतानि सिद्धानि । न सिध्यन्ति । आदेशः स्थानिवतिति उच्यते । न च लोपः आदेशः । लोपः अपि आदेशः । कथं । आदिश्यते यः सः आदेशः । लोपः अपि आदिश्यते । दोषः खलु अपि स्यात्यदि लोपः न आदेशः स्यात। इह अचः परस्मिन्पूर्वविधौ इति एतस्य भूयिष्ठानि लोपे उदाहरणानि तानि न स्युः । यत्र तर्हि स्थानिवद्भावः न अस्ति तदर्थं अयं योगः वक्तव्यः । क्व च स्थानिवद्भावः न अस्ति । यः अल्विधिः । किं प्रयोजनं । प्रयोजनं ङौनकार्लोपेत्त्वेम्विधयः । (कात्यायन वार्तिक)भसञ्ज्ञाङीप्ष्फ्गोरात्वेषु दोषः(वार्तिकान्त) । भसञ्ज्ञाङीप्ष्फ्गोरात्वेषु दोषः भवति। भसञ्ज्ञायां तावत्न दोषः । आचार्यप्रवृत्तिः ज्ञापयति न प्रत्ययलक्षणेन भसञ्ज्ञा भवति इति यतयं न ङिसम्बुद्ध्योः इति ङौ प्रतिषेधं शास्ति । ङीपि अपि : न एवं विज्ञायते : अणन्तातकारान्तात। कथं तर्हि । अण्यः अकारः इति । ष्फे अपि : न एवं विज्ञायते : यञन्तातकारन्तातिति । कथं तर्हि । यञ्यः अकारः इति । गोः आत्वे अपि : न एवं विज्ञायते : अमि अचि इति । कथं तर्हि । अचि अमि इति । प्रयोजनानि अपि तर्हि तानि न सन्ति । यत्तावतुच्यते ङौनकार्लोपः इति क्रियते एतत्न्यासे एव : न ङिसम्बुद्ध्योः इति । इत्त्वं अपि । वक्ष्यति एततः शासः इत्त्वे आशासः क्वौ इति । इम्विधिः अपि : हलि इति निवृत्तं । यदि हलि इति निवृत्तं तृणहानि अत्र अपि प्राप्नोति । एवं तर्हि अचि न इति अपि अनुवर्तिष्यते । न तर्हि इदानीं अयं योगः वक्तव्यः । वक्तव्यः च । किं प्रयोजनं । प्रत्ययं गृहीत्वा यतुच्यते तत्प्रत्ययलक्षणेन यथा स्यात्शब्दं गृहीत्वा यतुच्यते तत्प्रत्ययलक्षणेन मा भूतिति । किं प्रयोजनं । शोभनाः दृषदः अस्य सुदृषत्ब्राह्मणः । सोः मनसी* अलोमोषसी* इति एषः स्वरः मा भूतिति ।
पाणिनीयसूत्र १,१।६३।१) कि.,१६५।१५-१६६।८ रो.,४९०-४९२ (कात्यायन वार्तिक)लुमति प्रतिषेधे एकपदस्वरस्य उपसङ्ख्यानम्(वार्तिकान्त) । लुमति प्रतिषेधे एकपदस्वरस्य उपसङ्ख्यानं कर्तव्यम। एकपदस्वरे च लुमता लुप्ते प्रत्ययलक्षणं न भवति इति वक्तव्यं । किं अविशेषेण । न इति आह । (कात्यायन वार्तिक)सर्वामन्त्रितसिज्लुक्स्वरवर्जम्(वार्तिकान्त) । सर्वस्वरं आमन्त्रितस्वरवं सिज्लुक्स्वरं च वर्जयित्वा । सर्वस्वर : सर्वस्तोमः , सर्वपृष्ठः : सर्वस्य सुपि इति आद्युदात्तत्वं यथा स्यात। आमन्त्रितस्वर : सर्पिः आगच्छ , सप्त आगच्छत : आमन्त्रितस्य च इति आद्युदात्तत्वं यथा स्यात। सिज्लुक्स्वर : म हि दतां , म हि धतां : आदिः सिचः अन्यतरस्यां इति एषः स्वरः यथा स्यात। किं प्रयोजनं । (कात्यायन वार्तिक)प्रयोजनं ञिनिकिल्लुकि स्वराः(वार्तिकान्त) । ञिनिकित्स्वराः लुकि प्रयोजयन्ति । गर्गः , वत्सः , बिदः , उर्वः , उष्ट्रग्रीवः , वामरज्जुः : ञ्निति इति आद्युदात्तत्वं मा भूतिति । इह च : अत्रयः : कितः इति अन्तोदात्तत्वं मा भूतिति । (कात्यायन वार्तिक)पथिमथोः सर्वनामस्थाने(वार्तिकान्त) । पथिमथोः सर्वनामस्थाने लुकि प्रयोजनं । पथिप्रियः , मथिप्रियः : पथिमथोः सर्वनामस्थाने इति एषः स्वरः मा भूतिति । (कात्यायन वार्तिक)अह्नः रविधौ(वार्तिकान्त) । अह्नः रविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवति इति वक्तव्यं । अहः ददति , अहः भुङ्क्ते : रः असुपि इति प्रत्ययलक्षणेन प्रतिषेधः मा भूतिति ।
पाणिनीयसूत्र १,१।६३।२) कि.,१६६।९-१६७।२८ रो.,४९३-४९८ (कात्यायन वार्तिक)उत्तरपदत्वे च अपदादिविधौ (वार्तिकान्त)। उत्तरपदत्वे च अपदादिविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवति इति वक्तव्यं । परमवाचा परमवाचे परमगोदुहा परमगोदुहे परमश्वलिहा परमश्वलिहे : पदस्य इति प्रत्ययलक्षणेन कुत्वादीनि मा भूवनिति । अपदादिविधौ इति किमर्थं । दधिसेचौ दधिसेचः : सात्पदाद्योः इति प्रतिषेधः यथा स्यात। यदि अपदादिविधौ इति उच्यते उत्तरपदाधिकारः न प्रकल्पेत । तत्र कः दोषः । कर्णः वर्णलक्षणातिति एवमादिः विधिः न सिध्यति । यदि पुनः नलोपादिविधौ प्लुत्यन्ते लुमता लुप्ते प्रत्ययलक्षणं न भवति इति उच्येत । न एवं शक्यं । इह हि : राजकुमार्यौ राजकुमार्यः इति शाकलं प्रसज्येत । न एषः दोषः । यतेतत्सिति शाकलं न इति एतत्प्रत्यये शाकलं न इति वक्ष्यामि । यदि प्रत्यये शाकलं न इति उच्यते दधि अधुना मधु अधुना : अत्र अपि न प्रसज्येत । प्रत्यये शाकलं न भवति । कस्मिन। यस्मात्यः प्रत्ययः विहितः इति । इह तर्हि परमदिवा परमदिवे : दिव उतिति उत्त्वं प्राप्नोति इति। अस्तु तर्हि अविशेषेण । ननु च उक्तं उत्तरपदाधिकारः न प्रकल्पेत इति । वचनातुत्तरपदाधिकारः भविष्यति । तत्तर्हि वक्तव्यं । न वक्तव्यं । अनुवृत्तिः करिष्यते । इदं अस्ति : यस्मात्प्रतययविधिः तदादि प्रत्यये अङ्गं , सुप्तिङन्तं पदं । यस्मात्सुप्तिङ्विधिः तदादि सुबन्तं च । नः क्ये । नान्तं क्ये पदसञ्ज्ञं भवति यस्मात्क्यविधिः सुबन्तं च । सिति च । सिति च पूर्वं पदसञ्ज्ञं भवति यस्मात्सिद्विधिः तदादि सुबन्तं च । स्वादिषु असर्वनामस्थाने । स्वादिषु असर्वनामस्थाने पूर्वं पदसञ्ज्ञं भवति यस्मात्स्वादिविधिः तदादि सुबन्तं च । यचि भं । यजादिप्रत्यये पूर्वं पदसञ्ज्ञं भवति यस्मात्यजादिविधिः तदादि सुबन्तं च । इह तर्हि : परमवाकः असर्वनामस्थाने इति प्रतिषेधः प्राप्नोति । अस्तु तस्याः प्रतिषेधः या स्वादौ पदं इति पदसञ्ज्ञा या तु सुबन्तं पदं इति पदसञ्ज्ञा सा भविष्यति । सति एतत्प्रत्यये आसीतनया भविष्यति अनया न भविष्यति इति । लुप्ते इदानीं प्रत्यये यावतः एव अवधेः स्वादौ पदं इति पदसञ्ज्ञा तावतः एव अवधेः सुबन्तं पदं इति । अस्ति च प्रत्ययलक्षणेन सर्वनामस्थानपरता इति कृत्वा प्रतिषेधाः च बलीयांसः भवन्ति इति प्रतिषेधः प्राप्नोति । न अप्रतिषेधात। न अयं प्रसज्यप्रतिषेधः : सर्वनामस्थाने न इति । किं तर्हि । पर्युदासः अयं : यतन्यत्सर्वनामस्थानातिति । सर्वनामस्थाने अव्यापारः । यदि केन चित्प्राप्नोति तेन भविष्यति । पूर्वेण च प्राप्नोति । अप्राप्तेः वा । अथ वा अनन्तरा य प्राप्तिः सा प्रतिषिध्यते । कुतः एतत। अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति । पूर्वा प्राप्तिः अप्रतिषिद्धा तया भविष्यति । ननु च इयं प्राप्तिः पूर्वां प्राप्तिं बाधते । न उत्सहते प्रतिषिद्धा सती बाधितुं । यदि एवं परमवाचौ परमवाचः इति सुप्तिङन्तं पदं इति पदसञ्ज्ञा प्राप्नोति । एवं तर्हि योगविभागः करिष्यते । स्वादिषु पूर्वं पदसञ्ज्ञं भवति । ततः सर्वनामस्थाने अयचि पूर्वं पदसञ्ज्ञं भवति । ततः भं । भसञ्ज्ञं भवति यजादौ असर्वनामस्थने इति । यदि तर्हि सौ अपि पदं भवति , एचः प्लुताधिकारे पदान्तग्रहणं चोदयिष्यति इह मा भूतः भद्रं करोषि गौः इति , तस्मिन्क्रियमाणे अपि भविष्यति । वाक्यपदयोः अन्त्यस्य इति एवं तत। इह तर्हि : दधिसेचौ दधिसेचः : सात्पदाद्योः इति पदादिलक्षणः प्रतिषेधः न प्राप्नोति । मा भूतेवं : पदस्य आदिः पदादिः , पदादेः न इति । कथं तर्हि । पदातादिः पदादिः , पदादेः न इति एवं भविष्यति । न एवं शक्यं । इह अपि प्रसज्येत : ऋक्षु वाक्षु त्वक्षु कुमारीषु किशोरीषु इति । सात्प्रतिषेधः ज्ञापकः स्वादिषु पदत्वेन येषां पदसञ्ज्ञा न तेभ्यः प्रतिषेधः भवति इति । इह तर्हि : बहुसेचौ , बहुसेचः : बहुचयं प्रत्ययः । अत्र पदातादिः पदादिः , पदादेः न इति उच्यमाने अपि न सिध्यति । एवं तर्हि उत्तरपदत्वे च पदादिविधौ लुमता लुप्ते प्रत्ययलक्षणं भवति इति वक्ष्यामि । तत्नियमार्थं भविष्यति : पदादिविधौ एव न पदान्तविधौ इति । कथं बहुसेचौ बहुसेचः । बहुच्पूर्वस्य च पदादिविधौ न पदान्तविधौ इति । (कात्यायन वार्तिक)द्वन्द्वे अन्त्यस्य(वार्तिकान्त) । द्वन्द्वे अन्त्यस्यलुमता लुप्ते प्रत्ययलक्षणं न भवति इति वक्तव्यं । वाक्स्रक्त्वचं ।
पाणिनीयसूत्र १,१।६३।३) कि.,१६८।१-२३ रो.,४९८-५०० इह अभूवनिति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति । (कात्यायन वार्तिक)सिचः उसः अप्रसङ्गः आकारप्रकरणात्(वार्तिकान्त) । सिचः उसः अप्रसङ्गः । किं कारणं । आकारप्रकरणात। आतः इति एतत्नियमार्थं भविष्यति : आतः एव सिज्लुगन्तात्न अन्यस्मात्सिज्लुगन्तातिति । इह : इति युष्मत्पुत्रः ददाति , इति अस्मत्पुत्रः ददाति इति अत्र युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोः वाम्नावौ इति वाम्नावादयः प्राप्नुवन्ति । (कात्यायन वार्तिक)युष्मदस्मदोः स्थग्रहणात्(वार्तिकान्त) । स्थग्रहणं तत्र क्रियते । तत्श्रूयमाणविभक्तिविशेषणं विज्ञास्यते । अस्ति अन्यत्स्थग्रहणस्य प्रयोजनं । किं । सविभक्तिकस्य वाम्नावादयः यथा स्युः इति । न एततस्ति प्रयोजनं । पदस्य इति वर्तते विभक्त्यन्तं च पदं । तत्र अन्तरेण अपि स्थग्रहणं सविभक्तिकस्य एव ग्रहणं भविष्यति । भवेत्सिद्धं यत्र विभक्त्यन्तं पदं । यत्र तु खलु विभक्तौ पदं तत्र न सिध्यति : ग्रामः वां दीयते , ग्रामः नौ दीयते जनपदः वां दीयते , जनपदः नौ दीयते । सर्वग्रहणं अपि प्रकृतं अनुवर्तते । तेन सविभक्तिकस्य एव भविष्यति । इह : चक्षुष्कामं याजयां चकार इति तिङतिङः इति । तस्य च निघातः तस्मात्च अनिघातः प्राप्नोति । (कात्यायन वार्तिक)आमि लिलोपात्तस्य च अनिघातः तस्मात्च निघातः(वार्तिकान्त) । आमि लिलोपात्तस्य च अनिघातः तस्मात्च निघातः सिद्धः भविष्यति । (कात्यायन वार्तिक)अङ्गाधिकारे इटः विधिप्रतिषेधौ(वार्तिकान्त) । अङ्गाधिकारे इटः विधिप्रतिषेधौ न सिध्यतः : जिगमिष संविवृत्स । अङ्गस्य इति इटः विधिप्रतिषेधौ न प्राप्नुतः । (कात्यायन वार्तिक)क्रमेः दीर्घत्वं च(वार्तिकान्त) । किं च । इटः च विधिप्रतिषेधौ । न इति आह । अदेशे अयं चः पठितः । क्रमेः च दीर्घत्वं : उत्क्राम सङ्क्राम इति ।
पाणिनीयसूत्र १,१।६३।४) कि.,१६८।२४-१६९।१४ रो.,५००-५०२ इह किं चितङ्गाधिकारे लुमता लुप्ते प्रत्ययलक्षणेन भवति किं चित्च अन्यत्र न भवति । यदि पुनः न लुमता तस्मिनिति उच्येत । अथ न लुमता तस्मिनिति उच्यमाने किं सिद्धं एतत्भवति इटः विधिप्रतिषेधौ क्रमेः दीर्घत्वं च । बाढं सिद्धं । न इटः इविधिप्रतिषेधौ परस्मैपदेषु इति उच्यते । कथं तर्हि । सकारादौ इति । तद्विशेषणं परस्मैपदग्रहणं । न खलु अपि क्रमेः दीर्घत्वं परस्मैपदेषु इति उच्यते । कथं तर्हि । शिति इति । तद्विशेषणं परस्मैपदग्रहणं । (कात्यायन वार्तिक)न लुमता तस्मिनिति चेत्हनिणिङादेशाः तलोपे(वार्तिकान्त) । न लुमता तस्मिनिति चेत्हनिणिङादेशाः तलोपे न सिध्यन्ति : अवधि भवता दस्युः , अगायि भवता ग्रामः , अध्यगायि भवता अनुवाकः । तलोपे कृते लुङि इति हनिणिङादेशाः न प्राप्नुवन्ति । न एषः दोषः । न लुङि इति हनिणिङादेशाः उच्यन्ते । किं तर्हि । आर्धधातुके इति । तद्विशेषणं लुङ्ग्रहणं । इह च : सर्वस्तोमः , सर्वपृष्ठः सर्वस्य सुपि इति आद्युदात्तत्वं न प्राप्नोति । तत्च अपि वक्तव्यं । न वक्तव्यं । न लुमता अङ्गस्य इति एव सिद्धं । कथं । न लुमता लुप्ते अङ्गाधिकारः प्रतिनिर्दिश्यते । किं तर्हि । यः असौ लुमता लुप्यते तस्मिन्यतङ्गं तस्य यत्कार्यं तत्न भवति । एवं अपि सर्वस्वरः न सिध्यति । कर्तव्यः अत्र यत्नः ।
पाणिनीयसूत्र १,१।६५।१) कि.,१६९।१६-२५ रो.,५०२-५०३ किं इदं अल्ग्रहणं अन्त्यविशेषणं । एवं भवितुं अर्हति । (कात्यायन वार्तिक)उपधासञ्ज्ञायां अल्ग्रहणं अन्त्यनिर्देशः चेत्सङ्घातप्रतिषेधः(वार्तिकान्त) । उपधासञ्ज्ञायां अल्ग्रहणं अन्त्यनिर्देशः चेत्सङ्घातस्य प्रतिषेधः वक्तव्यः । सङ्घातस्य उपधासञ्ज्ञा प्राप्नोति । तत्र कः दोषः । शासः इतङ्हलोः : शिष्ट्वा शिष्टः : सङ्घातस्य इत्त्वं प्राप्नोति । यदि पुनः अलन्त्यातिति उच्येत । एवं अपि अन्त्यः अविशेषितः भवति । तत्र कः दोषः । सङ्घातातपि पूर्वस्य उपधासञ्ज्ञा प्रसज्येत । तत्र कः दोषः । शासः इतङ्हलोः : शिष्टः , शिष्टवानः शकारस्य इत्त्वं प्रसज्येत । सूत्रं च भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं उपधासञ्ज्ञायां अल्ग्रहणं अन्त्यनिर्देशः चेत्सङ्घातप्रतिषेधः इति । न एषः दोषः । अन्त्यविज्ञानात्सिद्धं । सिद्धं एतत। कथं । अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य भविष्यति ।
पाणिनीयसूत्र १,१।६५।२) कि.,१७०।१-१७१।९ रो.,५०३-५०६ (कात्यायन वार्तिक)अन्त्यविज्ञानात्सिद्धं इति चेत्न अनर्थके अलोन्त्यविधिः अनभ्यासविकारे(वार्तिकान्त) । अन्त्यविज्ञानात्सिद्धं इति चेत्तत्न । किं कारणं । न अनर्थके अलोन्त्यविधिः अनभ्यासविकारे । अनर्थके अलोन्त्यविधिः न इति एषा परिभाषा कर्तव्या । किं अविशेषेण । न इति आह । अनभ्यासविकारे । अभ्यासविकारान्वर्जयित्वा । भृञां इत्, अर्तिपिपर्त्योः च इति । कानि एतस्याः परिभाषायाः प्रयोजनानि । (कात्यायन वार्तिक)प्रयोजनं अव्यक्तानुकरणस्य अतः इतौ(वार्तिकान्त) । अन्त्यस्य प्राप्नोति । अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति । न एततस्ति प्रयोजनं । आचार्यप्रवृत्तिः ज्ञापयति न अन्त्यस्य पररूपं भवति इति यतयं न आम्रेडितस्य अन्त्यस्य तु वा इति आह । (कात्यायन वार्तिक)घ्वसोः एत्हौ अभ्यासलोपः च(वार्तिकान्त) । घ्वसोः एत्हौ अभ्यासलोपः च इति अन्त्यस्य प्राप्नोति । अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति । एततपि न अस्ति प्रयोजनं । पुनर्लोपवचनसामर्थ्यात्सर्वस्य भविष्यति । अथ वा शित्लोपः करिष्यते । सः शित्सर्वस्य इति सर्वादेशः भविष्यति । सः तर्हि शकारः कर्तव्यः । न कर्तव्यः । क्रियते न्यासे एव । द्विशकारकः निर्देशः : घ्वसोः एत्हौ अभ्यासलोपश्श्च इति । (कात्यायन वार्तिक)आपि लोपः अकः अनचि(वार्तिकान्त) । तिष्ठति सूत्रं । अन्यथा व्याख्यायते : आपि हलि लोपः इति अन्त्यस्य प्राप्नोति । अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति । एततपि न अस्ति प्रयोजनं । अनः एव लोपं वक्ष्यामि । ततनः ग्रहणं कर्तव्यं । न कर्तव्यं । प्रकृतं अनुवर्तते । क्व प्रकृतं । अनापि अकः इति । तत्वै प्रथमानिर्दिष्टं । षष्ठीनिर्दिष्तेन च इह अर्थः । हलि इति एषा सप्तमी अनिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति : तस्मिनिति निर्दिष्टे पूर्वस्य इति । (कात्यायन वार्तिक)अत्र लोपः अभ्यासस्य(वार्तिकान्त) । अत्र लोपः अभ्यासस्य इति अन्त्यस्य प्राप्नोति । अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति । एततपि न अस्ति प्रयोजनं । अत्रग्रहणसामर्थ्यात्सर्वस्य भविष्यति । अस्ति अन्यतत्रग्रहणस्य प्रयोजनं । किं । सनधिकारः अपेक्ष्यते , इह मा भूतः दधौ ददौ । अन्तरेण अपि अत्रग्रहणं सनधिकारं अपेक्षिष्यामहे । सन्तर्हि सकारादिः अपेक्ष्यते सनि सकारादौ इति , इह मा भूतः जिज्ञापयिषति । अन्तरेण अपि अत्रग्रहणं सनं सकारादिं अपेक्षिष्यामहे । प्रकृतयः तर्हि अपेक्ष्यन्ते । एतासां प्रकृतीनां लोपः यथा स्यात्, इह मा भूतः पिपक्षति यियक्षति । अन्तरेण अपि अत्रग्रहणं एताः प्रकृतीः अपेक्षिष्यामहे । विषयः तर्हि अपेक्ष्यते । मुचः अकर्मकस्य गुणः वा इति इह मा भूतः मुमुक्षति गां इति । अन्तरेण अपि अत्रग्रहणं विषयं अपेक्षिष्यामहे । कथं । अकर्मकस्य इति उच्यते । तेन यत्र एव अयं मुचिः अकर्मकः तत्र एव भविष्यति । तस्मात्न अर्थः अनया परिभाषया ।
पाणिनीयसूत्र १,१।६५।३) कि.,१७१।१०-१६ रो.,५०६ (कात्यायन वार्तिक)अलः अन्त्यात्पूर्वः अलुपधा इति वा(वार्तिकान्त) । अथ वा व्यक्तं एव पथितव्यं अलः अन्त्यात्पूर्वः अलुपधासञ्ज्ञः भवति इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । (कात्यायन वार्तिक)अवचनात्लोकविज्ञानात्सिद्धम्(वार्तिकान्त) । अन्तरेण अपि वचनं लोकविज्ञानात्सिद्धं एतत। कथं । लोके अमीषां ब्राह्मणानां अन्त्यात्पूर्वः आनीयतां इति उक्ते यथाजातीयकः अन्त्यः तथाजातीयकः अन्त्यात्पूर्वः आनीयते ।
पाणिनीयसूत्र १,१।६६-६७।१) कि.,१७१।१८-१७२।१७ रो.,५०७-५११ किं उदाहरणं । इह तावतः तस्मिनिति निर्दिष्टे पूर्वस्य इति : इकः यणचि : दधि अत्र मधु अत्र । इह : तस्मातिति उत्तरस्य इति : द्वयन्तरुपसर्गेभ्यः अपः ईतः द्वीपं अन्तरीपं समीपं । अन्यथाजातीयकेन शब्देन निर्देशः क्रियते अन्यथाजातीयकः उदाह्रियते । किं पुनः उदाहरणं । इह तावतः तस्मिनिति निर्दिष्टे पूर्वस्य इति : तस्मिनणि च युष्माकास्माकौ इति । तस्मातिति उत्तरस्य इति : तस्मात्शसः नः पुंसि इति । इदं च अपि उदाहरणं : इकः यणचि द्व्यन्तरुपसर्गेभ्यः अपः ईतिति । कथं । सर्वनाम्ना अयं निर्देशः क्रियते सर्वनाम च सामान्यवाचि । तत्र सामान्ये निर्दिष्टे विशेषाः अपि उदाहरणानि भवन्ति । किं पुनः सामान्यं कः वा विशेषः । गौः सामान्यं कृष्णः विशेषः । न तर्हि इदानीं कृष्णः सामान्यं भवति गौः विशेषः भवति । भवति च । यदि सामान्यं अपि विशेषः विशेषः अपि सामान्यं सामान्यविशेषौ न प्रकल्पेते । प्रकल्पेते च । कथं । विवक्षातः । यदा अस्य गौः सामान्येन विवक्षितः भवति कृष्णः विशेषत्वेन तदा गौः सामान्यं कृष्णः विशेषः । यदा कृष्णः सामान्येन विवक्षितः भवति गौः विशेषत्वेन तदा कृष्णः सामान्यं कृष्णः विशेषः । अपरः आह : प्रकल्पेते च । कथं । पितापुत्रवत। तत्यथा सः एव कं चित्प्रति पिता भवति कं चित्प्रति पुत्रः भवति एवं इह अपि सः एव कं चित्प्रति सामान्यं कं चित्प्रति विशेषः । एते खलु अपि नैर्देशिकानां वार्त्ततरकाः भवन्ति ये सर्वनाम्ना निर्देशाः क्रियन्ते । एतैः हि बहुतरकं व्याप्यते । अथ किमर्थं उपसर्गेण निर्देशः क्रियते । शब्दे सप्तम्या निर्दिष्टे पूर्वस्य कार्यं यथा स्यातर्थे मा भूतः जनपदे अतिशायने इति । किं गतं एततुपसर्गेण आहोस्वित्शब्दाधिक्यातर्थाधिक्यं । गतं इति आह । कथं । निः अयं बहिर्भावे वर्तते । तत्यथा : निष्क्रान्तः देशात्निर्देशः । बहिर्देशः इति गम्यते । शब्दः च शब्दात्बहिर्भूतः अर्थः अबहिर्भूतः । अथ निर्दिष्टग्रहणं किमर्थं । (कात्यायन वार्तिक)निर्दिष्टग्रहणं आनन्तर्यार्थम्(वार्तिकान्त) । निर्दिष्टग्रहणं क्रियते आनन्तर्यार्थं । आनन्तर्यमात्रे कार्यं यथा स्यात। इकः यणचि : दधि अत्र मधु अत्र । इह मा भूतःसमिधौ समिधः , दृषदौ दृषदः ।
पाणिनीयसूत्र १,१।६६-६७।२) कि.,१७२।१९-१७४।५ रो.,५११-५१५ किमर्थं पुनः इदं उच्यते । (कात्यायन वार्तिक)तस्मिन्तस्मातिति पूर्वोत्तरयोः योगयोः अविशेषात्नियमार्थं वचनं दधि उदकं पचति ओदनम्(वार्तिकान्त) । तस्मिन्तस्मातिति पूर्वोत्तरयोः योगयोः अविशेषात्नियमार्थः अयं आरम्भः । ग्रामे देवदत्तः । पूर्वः परः इति सन्देहः । ग्रामात्देवदत्तः । पूर्वः परः इति सन्देहः । एवं इह अपि : इकः यणचि । दधि उदकं , पचति ओदनं । उभौ इकौ उभौ अचौ । अचि पूर्वस्य अचि परस्य इति सन्देहः । तिङतिङः इति अतिङः पूर्वस्य अतिङः परस्य इति सन्देहः । इष्यते च अत्र अचि पूर्वस्य स्यात्, अतिङः परस्य इति । तत्च अन्तरेण यत्नं न सिध्यति इति नियमार्थं वचनं । अस्ति प्रयोजनं एतत। किं तर्हि इति । अथ यत्र उभयं निर्दिश्यते किं तत्र पूर्वस्य कार्यं भवति आहोस्वित्परस्य इति । (कात्यायन वार्तिक)उभयनिर्देशे विप्रतिषेधात्पञ्चमीनिर्देशः(वार्तिकान्त) । उभयनिर्देशे विप्रतिषेधात्पञ्चमीनिर्देशः भविष्यति । किं प्रयोजनं । (कात्यायन वार्तिक)प्रयोजनं अतः लसार्वधातुकनुदात्तत्वे(वार्तिकान्त) । वक्ष्यति तास्यादिभ्यः अनुदात्तत्वे सप्तमीनिर्देशः अभ्यस्तसिजर्थः इति । तस्मिन्क्रियमाणे तास्यादिभ्यः परस्य लसार्वधातुकस्य लसार्वधातुके परतः तास्यादीनां इति सन्देहः । तास्यादिभ्यः परस्य लसार्वधातुकस्य । (कात्यायन वार्तिक)बहोः इष्ठादीनां आदिलोपः(वार्तिकान्त) । बहोः उत्तरेषां इष्ठेमेयसां इष्ठेमयःसु परतः बहोः इति सन्देहः । बहोः उत्तरेषां इष्ठेमेयसां । (कात्यायन वार्तिक)गोतः णित्(वार्तिकान्त) । गोतः परस्य सर्वनामस्थानस्य सर्वनामस्थाने परतः गोतः इति सन्देहः । गोतः परस्य सर्वनामस्थानस्य । (कात्यायन वार्तिक)रुदादिभ्यः सार्वधातुके(वार्तिकान्त) । रुदादिभ्यः परस्य सार्वधातुकस्य सार्वधातुके परतः रुदादीनां इति सन्देहः । रुदादिभ्यः परस्य सार्वधातुकस्य । (कात्यायन वार्तिक)आने मुकीतासः(वार्तिकान्त) । आसः उत्तरस्य आनस्य , आने परतः आसः इति सन्देहः । आसः उत्तरस्य आनस्य । (कात्यायन वार्तिक)आमि सर्वनाम्नः सुट्(वार्तिकान्त) । सर्वनाम्नः उत्तरस्य आमः आमि परतः सर्वनाम्नः इति सन्देहः । सर्वनाम्नः उत्तरस्य । (कात्यायन वार्तिक)घेः ङिति आट्नद्याः(वार्तिकान्त) । नद्याः उत्तरेषां ङितां ङित्सु परतः नद्याः इति सन्देहः । नद्याः उत्तरेषां ङितां । (कात्यायन वार्तिक)याटापः(वार्तिकान्त) । आपः उत्तरस्य ङितः ङिति परतः आपः इति सन्देहः । आपः उत्तरस्य ङितः ।(कात्यायन वार्तिक) ङमः ह्रस्वातचि ङमुट्नित्यम्(वार्तिकान्त) । ङमः उत्तरस्य अचः अचि परतः ङमः इति सन्देहः । ङमः उत्तरस्य अचः । (कात्यायन वार्तिक)विभक्तिविशेषनिर्देशानवकाशत्वातविप्रतिषेधः(वार्तिकान्त) । विभक्तिविशेषनिर्देशस्य अनवकाशत्वातयुक्तः अयं विप्रतिषेधः । सर्वत्र एव अत्र कृतसामर्थ्या सप्तमी अकृतसामार्थ्या पञ्चमी इति कृत्वा पञ्चमीनिर्देशः भविष्यति ।
पाणिनीयसूत्र १,१।६६-६७।३) कि.,१७४।६-१७५।१८ रो.,५१५-५१८ (कात्यायन वार्तिक)यथार्थं वा षष्ठीनिर्देशः(वार्तिकान्त) । यथार्थं वा षष्ठीनिर्देशः कर्तव्यः । यत्र पूर्वस्य कार्यं इष्यते तत्र पूर्वस्य षष्ठी कर्तव्या । यत्र परस्य कार्यं इष्यते तत्र परस्य षष्ठी कर्तव्या । सः तर्हि तथा निर्देशः कर्तव्यः । न कर्तव्यः । अनेन एव प्रक्ल्प्तिः भविष्यति : तस्मिनिति निर्दिष्टे पूर्वस्य षष्ठी । तस्मातिति निर्दिष्टे परस्य षष्ठी । तत्तर्हि षष्ठीग्रहणं कर्तव्यं । न कर्तव्यं । प्रकृतं अनुवर्तते । क्व प्रकृतं । षष्ठी स्थानेयोगा इति । (कात्यायन वार्तिक)प्रकल्पकं इति चेत्नियमाभावः(वार्तिकान्त) । प्रकल्पकं इति चेत्नियमस्य अभावः । उक्तं च एततः नियमार्थः अयं आरम्भः इति । प्रत्ययविधौ खलु अपि पञ्चम्याः प्रकल्पिकाः स्युः । तत्र कः दोषः । गुप्तिज्किभ्यः सनिति एषा पञ्चमी सनिति प्रथमायाः षष्ठीं प्रकल्पयेत्तस्मातिति उत्तरस्य इति । अस्तु । न कः चितादेशः प्रतिनिर्दिश्यते । तत्र आन्तर्यतः सनः सनेव भविष्यति । न एवं शक्यं । इत्सञ्ज्ञा न प्रकल्पेत । उपदेशे इति इत्सञ्ज्ञा उच्यते । (कात्यायन वार्तिक)प्रकृतिविकाराव्यवस्था च(वार्तिकान्त) । प्रकृतिविकारयोः च व्यवस्था न प्रकल्पेत । इकः यणचि : अचि इति एषा सप्तमी यणिति प्रथमायाः षष्ठीं प्रकल्पयेत्तस्मिनिति निर्दिष्टे पूर्वस्य इति । (कात्यायन वार्तिक)सप्तमीपञ्चम्योः च भावातुभयत्र षष्ठीप्रक्ल्प्तिः तत्र उभयकार्यप्रसङ्गः(वार्तिकान्त) । सप्तमीपञ्चम्योः च भावातुभयत्र एव षष्ठी प्राप्नोति । तास्यादिभ्यः इति एषा पञ्चमी लसार्वधातुके इति अस्याः सप्तम्याः षष्ठीं प्रकल्पयेत्तस्मातिति उत्तरस्य इति । तथा लसार्वधातुके इति एषा सप्तमी तास्यादिभ्यः इति पञ्चम्याः षष्ठीं प्रकल्पयेत्तस्मिनिति निर्दिष्टे पूर्वस्य इति । तत्र कः दोषः । उभयोः कार्यं तत्र प्राप्नोति । न एषः दोषः । यत्तावतुच्यते : प्रकल्पकं इति चेत्नियमाभावः इति । मा भूत्नियमः । सप्तमीनिर्दिष्टे पूर्वस्य षष्ठी प्रकल्प्यते पञ्चमीनिर्दिष्टे परस्य । यावता सप्तमीनिर्दिष्टे पूर्वस्य षष्ठी प्रकल्प्यते एवं पञ्चमीनिर्दिष्टे परस्य । न उत्सहते सप्तमीनिर्दिष्टे परस्य कार्यं भवितुं न अपि पञ्चमीनिर्दिष्टे पूर्वस्य । यतपि उच्यते : प्रत्ययविधौ खलु अपि पञ्चम्याः प्रकल्पिकाः स्युः इति । सन्तु प्रकल्पिकाः । ननु च उक्तं गुप्तिज्किभ्यः सनिति एषा पञ्चमी सनिति प्रथमायाः षष्ठीं प्रकल्पयेत्तस्मातिति उत्तरस्य इति । परिहृतं एततः न कः चितादेशः प्रतिनिर्दिश्यते । तत्र आन्तर्यतः सनः सनेव भविष्यति इति । ननु च उक्तं : न एवं शक्यं । इत्सञ्ज्ञा न प्रकल्पेत । उपदेशे इति इत्सञ्ज्ञा उच्यते इति । स्यातेषः दोषः यदि इत्सञ्ज्ञा आदेशं प्रतीक्षेत । तत्र खलु कृतायां इत्सञ्ज्ञायां लोपे च कृते आदेशः भविष्यति । उपदेशे इति हि इत्सञ्ज्ञा उच्यते । अथ वा न अनुत्पन्ने सनि प्रक्ल्प्त्या भवितव्यं । यदा च उत्पन्नः सन्तदा कृतसामर्थ्या पञ्चमी इति कृत्वा प्रक्ल्प्तिः न भविष्यति । यतपि उच्यते : प्रकृतिविकाराव्यवस्था च इति । तत्र अपि कृता प्रकृतौ षष्ठी इकः इति विकृतौ प्रथमा यणिति । यत्र च नाम सौत्री षष्ठी न अस्ति तत्र प्रक्ल्प्त्या भवितव्यं । अथ वा अस्तु तावतिकः यणचि इति यत्र नाम सौत्री षष्ठी । यदि च इदानीं अचि इति एषा सप्तमी यणिति प्रथमायाः षष्ठीं प्रकल्पयेत्तस्मिनिति निर्दिष्टे पूर्वस्य इति अस्तु । न कः चितन्यः आदेशः प्रतिनिर्दिश्यते । तत्र आन्तर्यतः यणः यणेव भविष्यति । यतपि उच्यते : सप्तमीपञ्चम्योः च भावातुभयत्र षष्ठीप्रक्ल्प्तिः तत्र उभयकार्यप्रसङ्गः इति । आचार्यप्रवृत्तिः ज्ञापयति न उभे युगपत्प्रकल्पिके भवतः इति यतयं एकः पूर्वपरयोः इति पूर्वग्रहणं करोति ।
पाणिनीयसूत्र १,१।६८।१) कि.,१७५।२०-२३ रो.,५१९-५२० रूपग्रहणं किं अर्थं न स्वं शब्दस्य अशब्दसञ्ज्ञा भवति इति एव रूपं शबस्य सञ्ज्ञा भविष्यति । न हि अन्यत्स्वं शब्दस्य अस्ति अन्यततः रूपात। एवं तर्हि सिद्धे सति यत्रूपग्रहणं करोति तत्ज्ञापयति आचार्यः अस्ति अन्यत्रूपात्स्वं शब्दस्य इति । किं पुनः तत। अर्थः । किं एतस्य ज्ञापने प्रयोजनं । अर्थवद्ग्रहणे न अनर्थकस्य इति एषा परिभाषा न कर्तव्या भवति ।
पाणिनीयसूत्र १,१।६८।२) कि.,१७५।२४-१७६।२४ रो.,५२०-५२३ किमर्थं पुनः इदं उच्यते । (कात्यायन वार्तिक)शब्देन अर्थगतेः अर्थस्य असम्भवात्तद्वाचिनः सञ्ज्ञाप्रतिषेधार्थं स्वंरूपवचनं (वार्तिकान्त)। शब्देन उच्चारितेन अर्थः गम्यते । गां आनय दधि अशान इति अर्थः आनीयते अर्थः च भुज्यते । अर्थस्य असम्भवात। इह व्याकरणे अर्थे कार्यस्य असम्भवः । अग्नेः डकिति : न शक्यते अङ्गारेभ्यः परः ढक्कर्तुं । शब्देन अर्थगतेः अर्थस्य असम्भवात्यावन्तः तद्वाचिनः शब्दाः तावद्भ्यः सर्वेभ्यः उत्पत्तिः प्राप्नोति । इष्यते च तस्मातेव स्यातिति । तत्च अन्तरेण यत्नं न सिध्यति इति तद्वाचिनः सञ्ज्ञाप्रतिषेधार्थं स्वंरूपवचनं । एवमर्थं इदं उच्यते । (कात्यायन वार्तिक)न वा शब्दपूर्वकः हि अर्थे सम्प्रत्ययः तस्मातर्थनिवृत्तिः(वार्तिकान्त) । न वा एतत्प्रयोजनं अस्ति । किं कारणं । शब्दपूर्वकः हि अर्थे सम्प्रत्ययः । शब्दपूर्वकः हि अर्थस्य सम्प्रत्ययः । आतः च शब्दपूर्वकः : यः अपि हि असौ आहूयते नाम्ना नाम यदा अनेन न उपलब्धं भवति तद पृच्छति किं भवानाह इति । शब्दपूर्वकः च अर्थस्य सम्प्रत्ययः इह च व्याकरणे शब्दे कार्यस्य सम्भवः अर्थे असम्भवः । तस्मातर्थनिवृत्तिः भविष्यति । इदं तर्हि प्रयोजनं अशब्दसञ्ज्ञा इति वक्ष्यामि इति । इह मा भूतः दाधाः घु अदाप्तरप्तमपौ घः इति । (कात्यायन वार्तिक)सञ्ज्ञाप्रतिषेधानर्थक्यं वचनप्रामाण्यात्(वार्तिकान्त) । सञ्ज्ञाप्रतिषेधः च अनर्थकः । शब्दसञ्ज्ञायां स्वरूपविधिः कस्मात्न भवति । वचनप्रामाण्यात। शब्दसञ्ज्ञावचनसामर्थ्यात। ननु च वचनप्रामाण्यात्सञ्ज्ञिनां सम्प्रत्ययः स्यात्स्वरूपग्रहणात्च सञ्ज्ञायाः । एततपि न अस्ति प्रयोजनं । आचार्यप्रवृत्तिः ज्ञापयति शब्दसञ्ज्ञायां न स्वरूपविधिः भवति इति यतयं ष्णान्ता षटिति षकारान्तायाः सङ्ख्यायाः षट्सञ्ज्ञां शास्ति । इतरथा हि वचनप्रामाण्यात्नकारान्तायाः सङ्ख्यायाः सम्प्रत्ययः स्यात्स्वरूपग्रहणात्च षकारान्तायाः । न एततस्ति प्रयोजनं । न हि षकारान्ता सञ्ज्ञा । का तर्हि । डकारान्ता । असिद्धं जश्त्वं । तस्य असिद्धत्वात्षकारान्ता । मन्त्राद्यर्थं तर्हि इदं वक्तव्यं । मन्त्रे , ऋचि यजुषि इति यतुच्यते तत्मन्त्रशब्दे ऋक्शब्दे च यजुःशब्दे च मा भूत। (कात्यायन वार्तिक)मन्त्राद्यर्थं इति चेत्शास्त्रसामर्थ्यातर्थगतेः सिद्धम्(वार्तिकान्त) । मन्त्राद्यर्थं इति चेत्न । किं कारणं । शास्त्रसामर्थ्यातर्थस्य गतिः भविष्यति । मन्त्रे , ऋचि यजुषि इति यतुच्यते तत्मन्त्रशब्दे ऋक्शब्दे च यजुःशब्दे च तस्य कार्यस्य सम्भवः न अस्ति इति कृत्वा मन्त्रादिसहचरितः यः अर्थः तस्य गतिः भविष्यति साहचर्यात।
पाणिनीयसूत्र १,१।६८।३) कि.,१७६।२५-१७७।१६ रो.,५२३-५२५ (कात्यायन वार्तिक)सित्तद्विशेषाणां वृक्षाद्यर्थम्(वार्तिकान्त) । सिन्निर्देशः कर्तव्यः । ततः वक्तव्यं : तद्विशेषाणां ग्रहणं भवति इति । किं प्रयोजनं । वृक्षाद्यर्थं । विभाषा वृक्षमृग इति : प्लक्षन्यग्रोधं , प्लक्षन्यग्रोधाः । (कात्यायन वार्तिक)पित्पर्यायवचनस्य च स्वाद्यर्थम्(वार्तिकान्त) । पिन्निर्देशः कर्तव्यः । ततः वक्तव्यं : पर्यायवचनस्य तद्विशेषाणां च ग्रहणं भवति स्वस्य च रूपस्य इति । किं प्रयोजनं । स्वाद्यर्थं । स्वे पुषः : स्वपोषं पुष्यति रैपोषं , विद्यापोषं , गोपोषं अश्वपोषं । (कात्यायन वार्तिक)जित्पर्यायवचनस्य एव राजाद्यर्थम्(वार्तिकान्त) । जिन्निर्देशः कर्तव्यः । ततः वक्तव्यं पर्यायवचनस्य एव ग्रहणं भवति । किं प्रयोजनं । राजाद्यर्थं । सभा राजामनुष्यपूर्वा : इनसभं ईश्वरसभं । तस्य एव न भवति : राजसभा । तद्विशेषाणां च न भवति : पुष्यमित्रसभा चन्द्रगुप्तसभा । (कात्यायन वार्तिक)झित्तस्य च तद्विशेषाणां च मत्स्याद्यर्थम्(वार्तिकान्त) । झिन्निर्देशः कर्तव्यः । ततः वक्तव्यं : तस्य च ग्रहणं भवति तद्विशेषाणां च इति । किं प्रयोजनं । मत्स्याद्यर्थं । पक्षिमत्स्यमृगान्हन्ति : मात्स्यिकः । तद्विशेषाणां : शाफरिकः , शाकुलिकः । पर्यायवचनानां न भवति : अजिह्मान्हन्ति इति । अस्य एकस्य पर्यायवचनस्य इष्यते : मीनान्हन्ति मैनिकः ।
पाणिनीयसूत्र १,१।६९।१) कि.,१७७।१८-१७८।७ रो.,५२५-५२७ अप्रत्ययः इति किमर्थं । सनाशंसभिक्षः उः , अ साम्प्रतिके । अत्यल्पं इदं उच्यते : अप्रत्ययः इति । अप्रत्ययादेशटित्किन्मितः इति वक्तव्यं । प्रत्यये उदाहृतं । आदेशे : इदमः इशः इह , इतः । टिति । लविता लवितुं । किति । बभूव । मिति । हे अनड्वन। टितः परिहारः । आचार्यप्रवृत्तिः ज्ञापयति न टितः सवर्णानां ग्रहणं भवति इति यतयं ग्रहः अलिटि दीर्घत्वं शास्ति । न एततस्ति ज्ञापकं । नियमार्थं एतत्स्यातः ग्रहः अलिटि दीर्घः एव इति । यत्तर्हि व्®तः वा इति विभाषां शास्ति । सर्वेषां एव परिहारः : भाव्यमानेन सवर्णानां ग्रहणं न इति एवं भविष्यति । प्रत्यये भूयान्परिहारः : अनभिधानात्प्रत्ययः सवर्णान्न ग्रहीष्यति । यान्हि प्रत्ययः सवर्णग्रहणेन गृह्णीयात्न तैः अर्थस्य अभिधानं स्यात। अनभिधानात्न भविष्यति । इदं तर्हि प्रयोजनं : इह के चित्प्रतीयन्ते के चित्प्रत्याय्यन्ते । ह्रस्वाः प्रतीयन्ते डीर्घाः प्रत्याय्यन्ते । यावत्ब्रूयात्प्रत्याय्यमानेन सवर्णानं ग्रहणं न इति तावतप्रत्ययः इति । कं पुनः दीर्घः सवर्णग्रहणेन गृह्णीयात। ह्रस्वं । यत्नाधिक्यात्न ग्रहीष्यति । प्लुतं तर्हि गृह्णीयात। अनण्त्वात्न ग्रहीष्यति । एवं तर्हि सिद्धे सति यतप्रत्ययः इति प्रतिषेधं शास्ति तत्ज्ञापयति आचार्यः भवति एषा परिभाषा : भाव्यमानेन सवर्णानां ग्रहणं न इति ।
पाणिनीयसूत्र १,१।६९।२) कि.,१७८।८-१७९।१२ रो.,५२८-५३१ किमर्थं पुनः इदं उच्यते । (कात्यायन वार्तिक)अण्सवर्णस्य इति स्वरानुनासिक्यकालभेदात्(वार्तिकान्त) । अण्सवर्णस्य इति उच्यते । स्वरभेदातानुनासिक्यभेदात्कालभेदात्च अण्सवर्णान्न गृह्णीयात। इष्यते च सवर्णग्रहणं स्यातिति । तत्च अन्तरेण यत्नं न सिध्यति इति एवमर्थं इदं उच्यते । अस्ति प्रयोजनं एतत। किं तर्हि इति । (कात्यायन वार्तिक)तत्र प्रत्याहारग्रहणे सवर्णाग्रहणं अनुपदेशात्(वार्तिकान्त) । तत्र प्रत्याहारग्रहणे सवर्णानां ग्रहणं न प्राप्नोति : अकः सवर्णे दीर्घः इति । किं कारणं । अनुपदेशात। यथाजातीयकानां सञ्ज्ञा कृता तथाजातीयकानां सम्प्रत्यायिका स्यात। ह्रस्वानां च क्रियते । ह्रस्वानां एव सम्प्रत्यायिका स्यात्दीर्घानां न स्यात। ननु च ह्रस्वाः प्रतीयमानाः दीर्घान्सम्प्रत्याययिष्यन्ति । (कात्यायन वार्तिक)ह्रस्वसम्प्रत्ययातिति चेतुच्चार्यमाणसम्प्रत्यायकत्वात्शब्दस्य अवचनम्(वार्तिकान्त) । ह्रस्वसम्प्रत्ययातिति चेतुच्चार्यमाणः शब्दः सम्प्रत्यायकः भवति न सम्प्रतीयमनः । तत्यथा ऋकिति उक्ते सम्पाठमात्रं गम्यते न अस्याः अर्थः गम्यते । एवं तर्हि वर्णपाठे एव उपदेशः करिष्यते । व्(कात्यायन वार्तिक)अर्णपाठे उपदेशः इति चेतवर्कालत्वात्परिभाषायाः अनुपदेशः(वार्तिकान्त) । वर्णपाठे उपदेशः इति चेतवर्कालत्वात्परिभाषायाः अनुपदेशः । किं परा सूत्रात्क्रियते इति अतः अवरकाला । न इति आह । सर्वथा अवरकाला एव । वर्णानां उपदेशः तावत। उपदेशोत्तरकालः आदिः अन्त्येन सह इता इति प्रत्याहारः । प्रत्याहारोत्तरकाला सवर्णसञ्ज्ञा । सवर्णसञ्ज्ञोत्तरकालं अणुदित्सवर्णस्य च अप्रत्ययः इति । सा एषा उपदेशोत्तरकाला अवरकाला सती वर्णानां उत्पत्तौ निमित्तत्वाय कल्पयिष्यते इति तत्न । (कात्यायन वार्तिक)तस्मातुपदेशः(वार्तिकान्त) । तस्मातुपदेशः कर्तव्यः । (कात्यायन वार्तिक)तत्र अनुवृत्तिनिर्देशे सवर्णाग्रहणं अनण्त्वात्(वार्तिकान्त) । तत्र अनुवृत्तिनिर्देशे सवर्णानां ग्रहणं न प्राप्नोति : अस्य च्वौ यस्य ईति च । किं कारणं । अनण्त्वात। न हि एते अणः ये अनुवृत्तिनिर्देशे । के तर्हि । ये अक्षरसमाम्नाये उपदिश्यन्ते । एवं तर्हि अनण्त्वातनुवृत्तौ न अनुपदेशात्च प्रत्याहारे न । उच्यते च इदं अण्सवर्णान्गृह्णाति इति । तत्र वचनात्भविष्यति । (कात्यायन वार्तिक)वचनात्यत्र तत्न अस्ति(वार्तिकान्त) । न इदं वचनात्लभ्यं । अस्ति हि अन्यतेतस्य वचने प्रयोजनं । किं । ये एते प्रत्याहाराणां आदितः वर्णाः तैः सवर्णानां ग्रहणं यथा स्यात।
पाणिनीयसूत्र १,१।६९।३) कि.,१७९।१२-१८०।१२ रो.,५३१-५३५ एवं तर्हि (कात्यायन वार्तिक)सवर्णे अण्ग्रहणं अपरिभाष्यं आकृतिग्रहणात्(वार्तिकान्त) । सवर्णे अण्ग्रहणं अपरिभाष्यं । कुतः । आकृतिग्रहणात। अवर्णाकृतिः उपदिष्टा सा सर्वं अवर्णकुलं ग्रहीष्यति । तथा इवर्णकुलाकृतिः । तथा उवर्णकुलाकृतिः । ननु च अन्या आकृतिः अकारस्य आकारस्य च । (कात्यायन वार्तिक)अनन्यत्वात्च(वार्तिकान्त) । अनन्याकृतिः अकारस्य आकारस्य च । (कात्यायन वार्तिक)अनेकान्तः हि अनन्यत्वकरः(वार्तिकान्त) । यः हि अनेकान्तेन भेदः न असौ अन्यत्वं करोति । तत्यथा : न यः गोः च गोः च भेदः सः अन्यत्वं करोति । यः तु खलु गोः च अश्वस्य च भेदः सः अन्यत्वं करोति । अपरः आह : सवर्णे अण्ग्रहणं अपरिभाष्यं । आकृतिग्रहणातनन्यत्वं । सवर्णे अण्ग्रहणं अपरिभाष्यं । आकृतिग्रहणातनन्यत्वं भविष्यति । अनन्याकृतिः अकारस्य आकारस्य च । अनेकान्तः हि अनन्यत्वकरः । यः हि अनेकान्तेन भेदः न असौ अन्यत्वं करोति । तत्यथा : न यः गोः च गोः च भेदः सः अन्यत्वं करोति । यः तु खलु गोः च अश्वस्य च भेदः सः अन्यत्वं करोति । (कात्यायन वार्तिक)तद्वत्च हल्ग्रहणेषु(वार्तिकान्त) । एवं च कृत्वा च हल्ग्रहणेषु सिद्धं भवति । झलः झलि : अवात्तां अवात्तं अवात्त यत्र एतत्न अस्ति अण्सवर्णान्गृह्णाति इति । अनेकान्तः हि अनन्यत्वकरः इति उक्तार्थं । (कात्यायन वार्तिक)द्रुतविलम्बितयोः च अनुपदेशात्(वार्तिकान्त) । द्रुतविलम्बितयोः च अनुपदेशात्मन्यामहे आकृतिग्रहणात्सिद्धं इति । यतयं कस्यां चित्वृत्तौ वर्णानुपदिश्य सर्वत्र कृती भवति । अस्ति प्रयोजनं एतत। किं तर्हि इति । (कात्यायन वार्तिक)वृत्तिपृथक्त्वं तु न उपपद्यते(वार्तिकान्त) । वृत्तेः तु पृथक्त्वं न उपपद्यते । (कात्यायन वार्तिक)तस्मात्तत्र तपरनिर्देशात्सिद्धम्(वार्तिकान्त) । तस्मात्तत्र तपरनिर्देशः कर्तव्यः । न कर्तव्यः । क्रियते एतत्न्यासे एव : अतः भिसः ऐसिति ।
पाणिनीयसूत्र १,१।७०।१) कि.,१८०।१४-२० रो.,५३५-५३६ अयुक्तः अयं निर्देशः । ततिति अनेन कालः प्रतिनिर्दिश्यते ततिति अयं च वर्णः । तत्र अयुक्तं वर्णस्य कालेन सह सामनाधिकरण्यं । कथं तर्हि निर्देशः कर्तव्यः । तत्कालकालस्य इति । किं इदं तत्कालकालस्य इति । तस्य कालः तत्कालः , तत्कालः कालः यस्य सः अयं तत्कालकालः , तत्कालकालस्य इति । सः तर्हि तथा निर्देशः कर्तव्यः । न कर्तव्यः । उत्तरपदलोपः अत्र द्रष्टव्यः । तत्यथा उष्ट्रमुखं इव मुखं अस्य उष्ट्रमुखः , खरमुखः । एवं तत्कालकालः तत्कालः , तत्कालस्य इति । अथ वा साहचर्यात्ताच्छब्द्यं भविष्यति । कालसहचरितः वर्णः अपि कालः एव।
पाणिनीयसूत्र १,१।७०।२) कि.,१८०।२१-१८१।२४ रो.,५३७-५४० किं पुनः इदं नियमार्थं आहोस्वित्प्रापकं । कथं च नियमार्थं स्यात्कथं वा प्रापकं । यदि अत्र अण्ग्रहणं अनुवर्तते ततः नियमार्थं । अथ निवृत्तं ततः प्रापकं । कः च अत्र विशेषः । (कात्यायन वार्तिक)तपरः तत्कालस्य इति नियमाऋथं इति चेत्दीर्घग्रहणे स्वरभिन्नाग्रहणम्(वार्तिकान्त) । तपरः तत्कालस्य इति नियमाऋथं इति चेत्दीर्घग्रहणे स्वरभिन्नानां ग्रहणं न प्राप्नोति । केषां । उदात्तानुदात्तस्वरितानां । अस्तु तर्हि प्रापकं । (कात्यायन वार्तिक)प्रापकं इति चेत्ह्रस्वग्रहणे दीर्घप्लुतप्रतिषेधः(वार्तिकान्त) । प्रापकं इति चेत्ह्रस्वग्रहणे दीर्घप्लुतयोः तु प्रतिषेधः वक्तव्यः । (कात्यायन वार्तिक)विप्रतिषेधात्सिद्धम्(वार्तिकान्त) । अण्सवर्णान्गृह्णाति इति एततस्तु तपरः तत्कालस्य इति वा । तपरः तत्कालस्य इति एतत्भवति विप्रतिषेधेन । अण्सवर्णान्गृह्णाति इति अस्य अवकाशः ह्रस्वाः अतपराः अणः । तपरः तत्कालस्य इति अस्य अवकाशः दीर्घाः तपराः । ह्रस्वेषु तपरेषु उभयं प्राप्नोति । तपरः तत्कालस्य इति एतत्भवति विप्रतिषेधेन । यदि एवं (कात्यायन वार्तिक)द्रुतायां तपरकरणे मध्यमविलम्बितयोः उपसङ्ख्यानं कालभेदात्(वार्तिकान्त) । द्रुतायां तपरकरणे मध्यमविलम्बितयोः उपसङ्ख्यानं कर्तव्यं तथा मध्यमायां द्रुतविलम्बितयोः तथा विलम्बितायां द्रुतमध्यमयोः । किं पुनः कारणं न सिध्यति । कालभेदात। ये हि द्रुतायां वृत्तौ वर्णाः त्रिभागाधिकाः ते मध्यमायां । ये मध्यमायां वर्णाः त्रिभागाधिकाः ते विलम्बितायां । (कात्यायन वार्तिक)सिद्धं तु अवस्थिताः वर्णाः वक्तुः चिराचिरवचनात्वृत्तयः विशिष्यन्ते(वार्तिकान्त) । सिद्धं एतत। कथं । अवस्थिताः वर्णाः द्रुतमध्यमविलम्बितासु । किङ्कृतः तु वृत्तिविशेषः । वक्तुः चिराचिरवचनात्वृत्तयः विशिष्यन्ते । वक्ता कः चिताश्वभिधायी भवति , आशु वर्णानभिधत्ते । कः चित्चिरेण कः चित्चिरतरेण । तत्यथा : तं एव अध्वानं कः चिताशु गच्छति कः चित्चिरेण गच्छति कः चित्चिरतरेण गच्छति । रथिकः आशु गच्छति आश्विकः चिरेण पदातिः चिरतरेण । विषमः उपन्यासः । अधिकरणं अत्र अध्वा व्रजिक्रियायाः । तत्र अयुक्तं यतधिकरणस्य वृद्धिह्रासौ स्यातां । एवं तर्हि स्फोटः शब्दः ध्वनिः शब्दगुणः । कथं । भेर्याघातवत। तत्यथा भेर्याघातः भेरीं आहत्य कः चित्विंशति पदानि गच्छति कः चित्त्रिंशत्कः चित्चत्वारिंशत। स्फोटः च तावानेव भवति । ध्वनिकृता वृद्धिः । ध्वनिः स्फोटः च शब्दानां ध्वनिः तु खलु लक्ष्यते । अल्पः महान्च केषां चितुभयं तत्स्वभावतः ।
पाणिनीयसूत्र १,१।७१) कि.,१८२।२-१३ रो.,५४१-५४२ (कात्यायन वार्तिक)आदिः अन्त्येन सह इति असम्प्रत्ययः सञ्ज्ञिनः अनिर्देशात्(वार्तिकान्त) । आदिः अन्त्येन सह इति असम्प्रत्ययः । किं कारणं । सञ्ज्ञिनः अनिर्देशात। न हि सञ्ज्ञिनः निर्दिश्यन्ते । (कात्यायन वार्तिक)सिद्धं तु आदिः इता सह तन्मध्यस्य इति वचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । आदिः अन्त्येन सह इता गृह्यमाणः स्वस्य च रूपस्य ग्राहकः तन्मध्यानां च इति वक्तव्यं । (कात्यायन वार्तिक)सम्बन्धिशब्दैः वा तुल्यम्(वार्तिकान्त) । सम्बन्धिशब्दैः वा तुल्यं एतत। तत्यथा सम्बन्धिशब्दाः : मातरि वर्तितव्यं , पितरि शुश्रूषितव्यं इति । न च उच्यते स्वस्यां मातरि स्वस्मिन्पितरि इति सम्बन्धात्च गम्यते या यस्य माता यः च यस्य पिता इति । एवं इह अपि आदिः अन्त्यः इति सम्बन्धिशब्दौ एतौ । तत्र सम्बन्धातेतत्गन्तव्यं : यं प्रति आदिः अन्त्यः इति च भवति तस्य ग्रहणं भवति स्वस्य च रूपस्य इति ।
पाणिनीयसूत्र १,१।७२।१) कि.,१८२।१५-१८३।२ रो.,५४२-५४४ इह कस्मात्न भवति : इकः यणचि : दधि अत्र मधु अत्र । अस्तु । अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य भविष्यति । न एवं शक्यं । ये अनेकालः आदेशाः तेषु दोषः स्यातः एचः अयवायावः इति । न एषः दोषः । यथा एव प्रकृतितः तदन्तविधिः भवति एवं आदेशतः अपि भविष्यति । तत्र एजन्तस्य अयाद्यन्ता आदेशाः भविष्यन्ति । यदि च एवं क्व चित्वैरूप्यं तत्र दोषः स्यात। अपि च अन्तरङ्गबहिरङ्गे न प्रकल्प्येयातां । तत्र कः दोषः । स्योनः , स्योना : अन्तरङ्गलक्षणस्य यणादेशस्य बहिरङ्गलक्षणः गुणः बाधकः प्रसज्येत । ऊनशब्दं हि आश्रित्य यणादेशः नशब्दं आश्रित्य गुणः । अल्विधिः च न प्रकल्पेत : द्यौः , पन्थाः , सः इति । तस्मात्प्रकृते तदन्तविधिः इति वक्तव्यं । न वक्तव्यं । येन इति करणे एषा तृतीया अन्येन च अन्यस्य विधिः भवति । तत्यथा : देवदत्तस्य समाशं शरावैः ओदनेन च यज्ञदत्तः प्रतिविधत्ते , तथा सङ्ग्रामं हस्त्यश्वरथपदातिभिः । एवं इह अपि अचा धातोः यतं विधत्ते । अकारेण प्रातिपदिकस्य इञं विधत्ते ।
पाणिनीयसूत्र १,१।७२।२) कि.,१८३।३-१६ रो.,५४४-५४६ (कात्यायन वार्तिक)येन विधिः तदन्तस्य इति चेत्ग्रहणोपाधीनां तदन्तोपाधिप्रसङ्गः(वार्तिकान्त) । येन विधिः तदन्तस्य इति चेत्ग्रहणोपाधीनां तदन्तोपाधिताप्रसङ्गः । ये ग्रहणोपाधयः ते अपि तदन्तोपाधयः स्युः । तत्र कः दोषः । उतः च प्रत्ययातसंयोगपूर्वातिति असंयोगपूर्वग्रहणं उकारान्त्विशेषणं स्यात। तत्र कः दोषः । असंयोगपूर्वग्रहणेन इह एव पर्युदासः स्यातःः अक्ष्णुहि तक्ष्णुहि इति । इह न स्यातः आप्नुहि शक्नुहि इति । तथा उतोष्थ्यपूर्वस्य इति ओष्ठ्यपूर्वग्रहणं ®कारान्तविशेषणं स्यात। तत्र कः दोषः । ओष्ठ्यपूर्वग्रहणेन इह च प्रसज्येत : सङ्कीर्णं इति । इह च न स्यातः निपूर्ताः पिण्डाः इति । (कात्यायन वार्तिक)सिद्धं तु विशेषणविशेष्ययोः यथेष्टत्वात्(वार्तिकान्त) । सिद्धं एतत। कथं । यथेष्टं विशेषणविशेष्ययोः योगः भवति । यावता यथेष्टं इह तावतः उतः च प्रत्ययातसंयोगपूर्वातिति न असंयोगपूर्वग्रहणेन उकारान्तं विशेष्यते । किं तर्हि । उकारः एव विशेष्यते : उकारः यः असंयोगपूर्वः तदन्तात्प्रत्ययातिति । तथा उतोष्थ्यपूर्वस्य इति न ओष्ठपूर्वग्रहणेन ®कारान्तं विशेष्यते । किं तर्हि । ®कारः एव विशेष्यते : ®कारः यः ओष्ठ्यपूर्वः तदन्तस्य धातोः इति ।
पाणिनीयसूत्र १,१।७२।३) कि.,१८३।१७-१८४।२५ रो.,५४६-५५० (कात्यायन वार्तिक)समासप्रत्ययविधौ प्रतिषेधः(वार्तिकान्त) । समासविधौ प्रत्ययविधौ च प्रतिषेधः वक्तव्यः । समासविधौ तावतः द्वितीया श्रितादिभिः समस्यते : कष्टश्रितः , नरकश्रितः । कष्टं परमश्रित इति अत्र मा भूत। प्रत्ययविधौ : नडस्य अपत्यं नाडायनः । इह न भवति : सूत्रनडस्य अपत्यं सौत्रनाडिः । किं अविशेषेण । न इति आह । (कात्यायन वार्तिक)उगिद्वर्णग्रहणवर्जम्(वार्तिकान्त) । उगिद्ग्रहणं वर्णग्रहणं च वर्जयित्वा । उगिद्ग्रहणं : भवती , अतिभवती महती , अतिमहती । वर्णग्रहणं : अतः इञः दाक्षिः , प्लाक्षिः । अस्ति च इदानीं कः चित्केवलः अकारः प्रातिपदिकं यदर्थः विधिः स्यात। अस्ति इति आह । अततेः डः : अः , तस्य अपत्यं : अतः इञिः । (कात्यायन वार्तिक)अकच्श्नम्वतः सर्वनामाव्ययधातुविधौ उपसङ्ख्यानं (वार्तिकान्त)। अकच्वतः सर्वनामाव्ययविधौ श्नम्वतः धातुविधौ उपसङ्ख्यानं कर्तव्यं । अकच्वतः : सर्वके विश्वके । अव्ययविधौ : उच्चकैः नीचकैः । श्नम्वतः : भिनत्ति छिनत्ति । किं पुनः कारणं न सिध्यति । इह तस्य वा ग्रहणं भवति तदन्तस्य वा । न च इदं तत्न अपि तदन्तं । (कात्यायन वार्तिक)सिद्धं तु तदन्तान्तवचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । तदन्तान्तवचनात। तदन्तान्तस्य इति वक्तव्यं । किं इदं तदन्तान्तस्य इति । तस्य अन्तः तदन्तः , तदन्तः अन्तः यस्य ततिदं तदन्तान्तं , तदन्तान्तस्य इति । सः तर्हि तथा निर्देशः कर्तव्यः । न कर्तव्यः । उत्तरपदलोपः अत्र द्रष्टव्यः । तत्यथा : उष्ट्रमुखं इव मुखं अस्य : उष्ट्रमुखः , खरमुखः । एवं इह अपि तदन्तः अन्तः यस्य तदन्तस्य इति । (कात्यायन वार्तिक)तदेकदेशविज्ञानात्वा सिद्धम्(वार्तिकान्त) । तदेकदेशविज्ञानात्वा पुनः सिद्धं एतत। तदेकदेशभूतः तद्ग्रहणेन गृह्यते । तत्यथा गङ्गा यमुना देवदत्ता इति । अनेका नदी गङ्गां यमुनां च प्रविष्टा गङ्गायमुनाग्रहणेन गृह्यते । तथा देवदत्तास्थः गर्भः देवदत्ताग्रहणेन गृह्यते । विषमः उपन्यासः । इह के चित्शब्दाः अक्तपरिमाणानां अर्थानां वाचकाः भवन्ति ये एते सङ्ख्याशब्दाः परिमाणशब्दाः च । पञ्च सप्त इति : एकेन अपि अपाये न भवन्ति । द्रोणः खारी आढकं इति : न एव अधिके भवन्ति न न्यूने । के चित्यावतेव तत्भवति तावतेव आहुः ये एते जातिशब्दाः गुणशब्दाः च । तैलं घृतं इति : खार्यां अपि भवन्ति द्रोणे अपि । शुक्लः नीलः कृष्णः इति : हिमवति अपि भवति वटकणिकामात्रे अपि द्रव्ये । इमाः च अपि सञ्ज्ञाः अक्तपरिमाणानां अर्थानां क्रियन्ते । ताः केन अधिकस्य स्युः । एवं तर्हि आचार्यप्रवृत्तिः ज्ञापयति तदेकदेशभूतं तद्ग्रहणेन गृह्यते इति यतयं न इदमदसोः अकोः इति सककारयोः इदमदसोः प्रतिषेधं शास्ति । कथं कृत्वा ज्ञापकं । इदमदसोः कार्यं उच्यमानं कः प्रसङ्गः यत्सककारयोः स्यात। पश्यति तु आचार्यः तदेकदेशभूतं तद्ग्रहणेन गृह्यते इति । ततः सककारयोः प्रतिषेधं शास्ति ।
पाणिनीयसूत्र १,१।७२।४) कि.,१८४।२६-१८६।२४ रो.,५५०-५५४ कानि पुनः अस्य योगस्य प्रयोजनानि । (कात्यायन वार्तिक)प्रयोजनं सर्वनामाव्ययसञ्ज्ञायाम्(वार्तिकान्त) । सर्वनामाव्ययसञ्ज्ञायां प्रयोजनं : सर्वे परमसर्वे विश्वे परमविश्वे , उच्चैः , परमोच्चैः , नीचैः , परमनीचैः इति । (कात्यायन वार्तिक)उपपदविधौ भयाढ्यादिग्रहणम्(वार्तिकान्त) । उपपदविधौ भयाढ्यादिग्रहणं प्रयोजनं : भयङ्करः , अभयङ्करः , आढ्यङ्करणं , खाड्यङ्करणं । (कात्यायन वार्तिक)ङीब्विधौ उगिद्ग्रहणम्(वार्तिकान्त) । ङीब्विधौ उगिद्ग्रहणं प्रयोजनं : भवती , अतिभवती महती , अतिमहती । (कात्यायन वार्तिक)प्रतिषेधे स्वस्रादिग्रहणम्(वार्तिकान्त) । प्रतिषेधे स्वस्रादिग्रहणं प्रयोजनं : स्वसा परमस्वसा दुहिता परमदुहिता । (कात्यायन वार्तिक)अपरिमाणबिस्तादिग्रहणं च प्रतिषेधे(वार्तिकान्त) । अपरिमाणबिस्तादिग्रहणं च प्रतिषेधे प्रयोजनं । अपरिमाणबिस्ताचितकम्बलेभ्यः न तद्धितलुकि : द्विबिस्ता द्विपरमबिस्ता त्रिबिस्ता त्रिपरमबिस्ता द्व्याचिता द्विपरमाचिता । (कात्यायन वार्तिक)दिति(वार्तिकान्त) । दितिग्रहणं च प्रयोजनं । दितेः अपत्यं दैत्यः , अदितेः अपत्यं आदित्यः । दित्यदित्यादित्य इति अदितिग्रहणं न कर्तव्यं भवति । (कात्यायन वार्तिक)रोण्याः अण्(वार्तिकान्त) । रोण्याः अण्ग्रहणं च प्रयोजनं : आजकरोणः , सैंहकरोणः । (कात्यायन वार्तिक)तस्य च(वार्तिकान्त) । तस्य च इति वक्तव्यं : रौणः । किं पुनः कारणं न सिध्यति । तदन्तात्च तदन्तविधिना सिद्धं केवलात्च व्यप्देशिवद्भावेन । व्यप्देशिवद्भावः अप्रातिपदिकेन । किं पुनः कारणं व्यप्देशिवद्भावः अप्रातिपदिकेन । इह : सूत्रान्तात्ठक्भवति दशान्तात्डः भवति इति : केवलातुत्पत्तिः मा भूतिति । न एततस्ति प्रयोजनं । सिद्धं अत्र तदन्तात्च तदन्तविधिना केवलात्च व्यप्देशिवद्भावेन । सः अयं एवं सिद्धे सति यतन्तग्रहणं करोति तत्ज्ञापयति आचार्यः सूत्रान्तातेव दशान्तातेव इति । न अत्र तदन्तातुत्पत्तिः प्राप्नोति । इदानीं एव हि उक्तं : समासप्रत्ययविधौ प्रतिषेधः इति । सा तर्हि एषा परिभाषा कर्तव्या । न कर्तव्या । आचार्यप्रवृत्तिः ज्ञापयति व्यप्देशिवद्भावः अप्रातिपदिकेन इति यतयं पूर्वातिनिः सपूर्वात्च इति आह । न एततस्ति प्रयोजनं । अस्ति हि अन्यतेतस्य वचने प्रयोजनं । किं । सपूर्वात्पूर्वातिनिं वक्ष्यामि इति । यत्तर्हि योगविभागं करोति । इतरथा हि पूर्वात्सपूर्वातिति एव ब्रूयात। किं पुनः अयं अस्य एव शेषः : तस्य च इति । न इति आह । यत्च अनुक्रान्तं यत्च अनुक्रंसय्ते सर्वस्य एव शेषः तस्य च इति । (कात्यायन वार्तिक)रथसीताहलेभ्यः यद्विधौ(वार्तिकान्त) । रथसीताहलेभ्यः यद्विधौ प्रयोजनं : रथ्यः , परमरथ्यः , सीत्यं , परमसीत्यं , हल्या परमहल्या । (कात्यायन वार्तिक)सुसर्वार्धदिक्शब्देभ्यः जनपदस्य(वार्तिकान्त) । सुसर्वार्धदिक्शब्देभ्यः जनपदस्य प्रयोजनं : सुपाञ्चालकः , सुमागधकः । सु । सर्व : सर्वपाञ्चालकः , सर्वमागधकः । सर्व । अर्ध : अर्धपाञ्चालकः , अर्धमागधकः । अर्ध । दिक्शब्द : पूर्वपाञ्चालकः , पूर्वमागधकः । (कात्यायन वार्तिक)ऋतोः वृद्धिमद्विधौ अवयवानाम्(वार्तिकान्त) । ऋतोः वृद्धिमद्विधौ अवयवानां प्रयोजनं : पूर्वशारदं , अपरशारदं , पूर्वनैदाघं , अपरनैदाघं । (कात्यायन वार्तिक)ठञ्विधौ सङ्ख्यायाः(वार्तिकान्त) । ठञ्विधौ सङ्ख्यायाः प्रयोजनं : द्विषाष्टिकं , पञ्चषाष्टिकं । (कात्यायन वार्तिक)धर्मात्नञः(वार्तिकान्त) । धर्मात्नञः प्रयोजनं : धर्मं चरति धार्मिकः , अधर्मं चरति आधर्मिकः । अधर्मात्च इति न वक्तव्यं भवति ।
पाणिनीयसूत्र १,१।७२।५) कि.,१८७।१-१८८।२३ रो.,५५५-५६१ (कात्यायन वार्तिक)पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च(वार्तिकान्त) । पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च इति वक्तव्यं । पदाधिकारे किं प्रयोजनं । (कात्यायन वार्तिक)प्रयोजनं इष्टिकेषीकामालानां चिततूलभारिषु (वार्तिकान्त): इष्टकचितं चिन्वीत , पक्वेष्टिक्चितं चिन्वीत , इषीकतूलेन मुञ्जेषीकतूलेन मालभारिणी कन्या , उत्पलमालभारिणी कन्या । अङ्गाधिकारे किं प्रयोजनं । (कात्यायन वार्तिक)महदप्स्वसृत्®णां दीर्घविधौ(वार्तिकान्त) । महदप्स्वसृत्®णां दीर्घविधौ प्रयोजनं : महान्, परममहान। महत। अपः आपः तिष्ठन्ति , स्वापः तिष्ठन्ति । अप। स्वसृ : स्वसा स्वसारौ स्वसारः , परमस्वसा परमस्वसारौ परमस्वसारः । स्वसृ । नप्तृ : नप्ता नप्तारौ नप्तारः । एवं परमनप्ता परमनप्तारौ परमनप्तारः । (कात्यायन वार्तिक)पद्युष्मदस्मदस्थ्याद्यन्डुहः नुम्(वार्तिकान्त) । पद्भावः प्रयोजनं : दिव्पदः पश्य । अस्ति च इदानीं कः चित्केवलः पाच्छभ्दः यदर्थः विधिः स्यात। न अस्ति इति आह । एवं तर्हि अङ्गाधिकारे प्रयोजनं न अस्ति इति कृत्वा पदाधिकारस्य इदं प्रयोजनं उक्तं : हिमकाषिहतिषु च : यथा पत्काषिणौ पत्काषिणः एवं परमपत्काषिणौ परमपत्काषिणः । यदि तर्हि पदाधिकारे पादस्य तदन्तविधिः भवति पादस्य पद आज्यतिगोपहतेषु : यथा इह भवति : पादेन उपहतं पदोपहतं अत्र अपि स्यातः दिग्धपादेन उपहतं दिग्धपादोपहतं । एवं तर्हि अङ्गाधिकारे एव प्रयोजनं । ननु च उक्तं न अस्ति केवलः पाच्छब्दः इति । अयं अस्ति पादयतेः अप्रत्ययः पातः पदा पदे । पद। युष्मतस्मतः यूयं , वयं अतियूयं अतिवयं । अस्थ्यादि : अस्थ्ना दध्ना सक्थ्ना पर्मास्थ्ना परमदध्ना परमसक्थ्ना । अनडुहः नुं : अनड्वान्, परमानड्वान। (कात्यायन वार्तिक)द्युपथिमथिपुङ्गोसखिचतुरनडुत्त्रिग्रहणम्(वार्तिकान्त) । द्युपथिमथिपुङ्गोसखिचतुरनडुत्त्रिग्रहणं प्रयोजनं : द्यौः , सुद्यौः , पन्थाः , सुपन्थाः , मन्थाः , सुमन्थाः , परममन्थाः , पुमान्परमपुमान्, गौः , सुगौः , सखा सखायौ सखायः , सुसखा सुसखायौ सुसखायः , परमसखा परमसखायौ परमसखायः , चत्वारः परमचत्वारः , अनड्वाहः , पर्मानड्वाहः , त्रयाणां , परमत्रयाणां । (कात्यायन वार्तिक)त्यदादिविधिभस्त्रादिस्त्रीग्रहणं च(वार्तिकान्त) । त्यदादिविधिभस्त्रादिस्त्रीग्रहणं च प्रयोजनं : सः , अतिसः , भस्त्रका भस्त्रिका निर्भस्त्रका निर्भस्त्रिका बहुभस्त्रका बहुभस्त्रिका । स्त्रीग्रहणं च प्रयोजनं । स्त्रियौ स्त्रियः राजस्त्रियौ राजस्त्रियः । (कात्यायन वार्तिक)वर्णग्रहणं च सर्वत्र(वार्तिकान्त) । वर्णग्रहणं च सर्वत्र प्रयोजनं । क्व सर्वत्र । अङ्गाधिकारे च अन्यत्र च । अन्यत्र उदाहृतं । आन्गाधिकारे : अतः दीर्घः यञि सुपि च : इह एव स्यातः आभ्यां । घटाभ्यां इति अत्र न स्यात। (कात्यायन वार्तिक)प्रत्ययग्रहणं च अपञ्चम्याः (वार्तिकान्त)। प्रत्ययग्रहणं च अपञ्चम्याः प्रयोजनं : यञिञोः फक्भवति । गार्ग्यायणः वात्स्यायनः परमगार्ग्यायणः परमवात्स्यायनः । अपञ्चम्याः इति किमर्थं । दृषत्तीर्णा परिषत्तीर्णा । अला एव अनर्थकेन न अन्येन अनर्थकेन इति वक्तव्यं । किं प्रयोजनं । हन्ग्रहणे प्लीहन्ग्रहणं मा भूत। उद्ग्रहणे गर्मुद्ग्रहणं । स्त्रीग्रहणे शस्त्रीग्रहणं । सङ्ग्रहणे पायसं करोति इति मा भूत। किमर्थं इदं उच्यते न पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च इति एव सिद्धं । न च इदं तत्न अपि तदुत्तरपदं । तत्न वक्तव्यं भवति । किं पुनः अत्र ज्यायः । तदन्तविधिः एव ज्यायान। इदं अपि सिद्धं भवति : परमातिमहान। एतत्हि न एव तत्न अपि तदुत्तरपदं । अनिनस्मन्ग्रहणानि च अर्थवता च अनर्थकेन च तदन्तविधिं प्रयोजयन्ति । अनः राज्ञा इति अर्थवता साम्ना इति अनर्थकेन । अन। इनः दण्डी* इति अर्थवता वाग्मी* इति अनर्थकेन । इन। असः सुपयाः इति अर्थवता सुस्रोताः इति अनर्थकेन । अस। मनः सुशर्मा इति अर्थवता सुप्रथिमा इति अनर्थकेन ।
पाणिनीयसूत्र १,१।७२।६) कि.,१८८।२४-१८९।२ रो.,५६१ (कात्यायन वार्तिक)यस्मिन्विधिः तदादौ अल्ग्रहणे(वार्तिकान्त) । अल्ग्रहणेषु यस्मिन्विधिः तदादौ इति वक्तव्यं । किं प्रयोजनं । अचि श्नुधातुभ्रुवां य्वोः इयङुवङौ इति इह एव स्यातः श्रियौ भ्रुवौ । श्रियः , भ्रुवः इति अत्र न स्यात।
पाणिनीयसूत्र १,१।७३।१) कि.,१८९।४-२२ रो.,५६२-५६५ वृद्धिग्रहणं किमर्थम। यस्य अचां आदिः तत्वृद्धं इति इयति उच्यमाने दात्ताः , राक्षिताः अत्र अपि प्रसज्येत । वृद्धिग्रहणे पुनः क्रियमाणे न दोषः भवति । अथ यस्यग्रहणं किमर्थं । यस्य इति व्यपदेशाय । अथ अज्ग्रहणं किमर्थं । वृद्धिः यस्य आदिः तत्वृद्धं इति इयति उच्यमाने इह एव स्यातः ऐतिकायनीयाः , औपगवीयाः । इह न स्यातः गार्गीयाः , वात्सीयाः इति । अज्ग्रहणे पुनः क्रियमाणे न दोषः भवति । अथ आदिग्रहणं किमर्थं । वृद्धिः यस्य अचां तत्वृद्धं इति इयति उच्यमाने सभासन्नयने भवः साभसन्नयनः इति अत्र प्रसज्येत । आदिग्रहणे पुनः क्रियमाणे न दोषः भवति । (कात्यायन वार्तिक)वृद्धसञ्ज्ञायां अजसन्निवेशातनादित्वम्(वार्तिकान्त) । वृद्धसञ्ज्ञायां अजसन्निवेशातादिः इति एतत्न उपपद्यते । न हि अचां सन्निवेशः अस्ति । ननु च एवं विज्ञायते : अचेव आदिः अजादिः । न एवं शक्यं । इह एव प्रसज्येत : औपगवीयाः । इह न स्यातः गार्गीयाः इति । एकान्तादित्वं तर्हि विज्ञायते । (कात्यायन वार्तिक)एकान्तादित्वे च सर्वप्रसङ्गः(वार्तिकान्त) । इह अपि प्रसज्येत : सभासन्नयने भवः साभसन्नयनः इति । (कात्यायन वार्तिक)सिद्धं अजाकृतिनिर्देशात्(वार्तिकान्त) । सिद्धं एतत। कथं । अजाकृतिः निर्दिश्यते । एवं अपि व्यञ्जनैः व्यवहितत्वात्न प्राप्नोति । (कात्यायन वार्तिक)व्यञ्जनस्य अविद्यमानत्वं यथा अन्यत्र(वार्तिकान्त) । व्यञ्जनस्य अविद्यमानवद्भावः वक्तव्यः यथा अन्यत्र अपि भवति व्यञ्जनस्य अविद्यमानवद्भावः । क्व अन्यत्र । स्वरे ।
पाणिनीयसूत्र १,१।७३।२) कि.,१८९।२३-१९०।१० रो.,५६५-५६६ (कात्यायन वार्तिक)वा नामधेयस्य(वार्तिकान्त) । वा नामधेयस्य वृद्धसञ्ज्ञा वक्तव्या : देवदत्तीयाः , दैवदत्ताः , यज्ञदत्तीयाः , याज्ञदत्ताः । (कात्यायन वार्तिक)गोत्रोत्तरपदस्य च(वार्तिकान्त) । गोत्रोत्तरपदस्य च वृद्धसञ्ज्ञा वक्तव्या : कम्बलचारायणीयाः , ओदनपाणिनीयाः , घृतरौढीयाः । (कात्यायन वार्तिक)गोत्रान्तात्वा असमस्तवत्(वार्तिकान्त) । गोत्रान्तात्वा असमस्तवत्प्रत्ययः भवति इति वक्तव्यं : एतानि एव उदाहरणानि । किं अविशेषेण । न इति आह । (कात्यायन वार्तिक)जिह्वाकात्यहरितकात्यवर्जम्(वार्तिकान्त) । जिह्वाकात्यं हरितकात्यं च वर्जयित्वा : जैहवाकाताः , हारितकाताः । किं पुनः अत्र ज्यायः । गोत्रान्तात्वा असमस्तवतिति एव ज्यायः । इदं अपि सिद्धं भवति : पिङ्गलकाण्वस्य छात्त्राः पैङ्गलकाण्वाः ।
पाणिनीयसूत्र १,१।७४) कि.,१९०।१२-१८ रो.,५६६-५६७ यस्याचामादिग्रहणं अनुवर्तते उताहो न । किं च अतः । यदि अनुवर्तते इह च प्रसज्येत : त्वत्पुत्रस्य छात्त्राः त्वात्पुत्राः , मात्पुत्राः इह च न स्यातः त्वदीयः , मदीयः इति । अथ निवृत्तं एङ्प्राचां देशे यस्याचामादिग्रहणं कर्तव्यं । एवं तर्हि अनुवर्तते । कथं त्वापुत्राः , मात्पुत्राः इति । सम्बन्धं अनुवर्तिष्यते । वृद्धिः यस्य अचां आदिः तत्वृद्धं । त्यदादीनि च वृद्धसञ्ज्ञानि भवन्ति । वृद्धिः यस्य अचां आदिः तत्वृद्धं । एङ्प्राचां देशे । यस्याचामादिग्रहणं अनुवर्तते । वृद्धिग्रहणं निवृत्तं । तत्यथा कः चित्कान्तारे समुपस्थिते सार्थं उपादत्ते । सः यदा निष्कान्तारीभूतः भवति तदा सार्थं जहाति
पाणिनीयसूत्र १,१।७५) कि.,१९०।२०-२१ रो.,५६७-५६८ एङ्प्राचां देशे शैषिकेषु इति वक्तव्यं : सैपुरिकी सैपुरिका स्कौनगरिकी स्कौनगरिका इति ।
पाणिनीयसूत्र १,२।१।१) कि.,१९१।२-१९२।१२ रो.,३-७ (कात्यायन वार्तिक)ङित्किद्वचने तयोः अभावातप्रसिद्धिः(वार्तिकान्त) । ङित्किद्वचने तयोः अभावात्, ङकारककारयोः अभावात्, ङित्त्वकित्त्वयोः अप्रसिद्धिः । सता हि अभिसम्बन्धः शक्यते कर्तुं न च अत्र ङकारककारौ इतौ पश्यामः । तत्यथा चित्रगुः देवदत्तः इति : यस्य ताः गावः सन्ति सः एव ताभ्यां शब्दाभ्यां शक्यते अभिसम्बन्धुं । भाव्येते तर्हि अनेन । गाङ्कुटादिभ्यः अञ्णित्ङित्भवति इति । असंयोगात्लिट्कित्भवति इति । (कात्यायन वार्तिक)भवति इति चेतादेशप्रतिषेधः(वार्तिकान्त) । भवति इति चेतादेशस्य प्रतिषेधः वक्तव्यः । ङकारककारौ इतौ आदेशौ प्राप्नुतः । कथं पुनः इत्सञ्ज्ञः नाम आदेशः स्यात। किं हि वचनात्न भवति । एवं तर्हि षष्ठीनिर्दिष्टस्य आदेशाः उच्यन्ते न च अत्र षष्ठीं पश्यामः । गाङ्कुटादिभ्यः इति एषा पञ्चमी अञ्णितिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मातिति उत्तरस्य इति । सञ्ज्ञाकरणं तर्हि इदं । गाङ्कुटादिभ्यः अञ्णित्ङित्सञ्ज्ञः भवति इति । असंयोगात्लिट्कित्सञ्ज्ञः भवति इति । (कात्यायन वार्तिक)सञ्ज्ञाकरणे क्ङिद्ग्रहणे असम्प्रत्ययः शब्दभेदात्(वार्तिकान्त) । सञ्ज्ञाकरणे क्ङिद्ग्रहणे असम्प्रत्ययः स्यात। किं कारणं । शब्दभेदात। अन्यः हि शब्दः क्ङिति इति अन्यः किति इति ङिति इति च । तथा किद्ग्रहणेषु ङिद्ग्रहणेषु च अनयोः एव सम्प्रत्ययः स्यात। तद्वदतिदेशः तर्हि अयं : गाङ्कुटादिभ्यः अञ्णित्ङिद्वत्भवति इति । असंयोगात्लिट्किद्वत्भवति इति । सः तर्हि वतिनिर्देशः कर्तव्यः । न हि अन्तरेण वतिं अतिदेशः गम्यते । अन्तरेण अपि वतिं अतिदेशः गम्यते । तत्यथा : एषः ब्रह्मदत्तः । अब्रह्मदत्तं ब्रह्मदत्तः इति आह । ते मन्यामहे ब्रह्मदत्तवतयं भवति इति । एवं इह अपि अङितं ङितिति आह । ङिद्वतिति गम्यते । अकितं कितिति आह । किद्वतिति गम्यते । (कात्यायन वार्तिक)तद्वदतिदेशे अकिद्विधिप्रसङ्गः (वार्तिकान्त)। तद्वदतिदेशे अकिद्विधिः अपि प्राप्नोति । सृजिदृशोः झलि अं अकिति : सिसृक्षति दिदृक्षते : अकिल्लक्षणः अमागमः प्राप्नोति । (कात्यायन वार्तिक)सिद्धं तु प्रसज्यप्रतिषेधात्(वार्तिकान्त) । सिद्धं एतत। कथं । प्रसज्य अयं प्रतिषेधः क्रियते : किति न इति । (कात्यायन वार्तिक)सर्वत्र सनन्तातात्मनेपदप्रतिषेधः(वार्तिकान्त) । सर्वेषु पक्षेषु सनन्तातात्मनेपदं प्राप्नोति । उच्चुकुटिषति निचुकुटिषति : ङिति इति आत्मनेपदं प्राप्नोति । तस्य प्रतिषेधः वक्तव्यः । (कात्यायन वार्तिक)सिद्धं तु पूर्वस्य कार्यातिदेशात्(वार्तिकान्त) । सिद्धं एतत। कथं । पूर्वस्य यत्कार्यं तततिदिश्यते । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । सप्तम्यर्थे अपि वतिः भवति । तत्यथा : मथुरायां इव मथुरावत्पाटलिपुत्रे इव पाटलिपुत्रवतेवं ङिति इव ङिद्वत।
पाणिनीयसूत्र १,२।१।२) कि.,१९२।१३-१९३।१३ रो.,७-१० अथ किमर्थं पृथक्ङित्कितौ क्रियेते न सर्वं कितेव वा स्यात्ङितेव वा । (कात्यायन वार्तिक)पृथगनुबन्धत्वे प्रयोजनं वचिस्वपियजादीनां असम्प्रसारणं सार्वधातुकचङादिषु(वार्तिकान्त) । पृथगनुबन्धत्वे प्रयोजनं वचिस्वपियजादीनां असम्प्रसारणं सार्वधातुके चङादिषु च। सार्वधातुके प्रयोजनं : यथा इह भवति सुप्तः , सुप्तवानिति एवं स्वपितः , स्वपिथः : अत्र अपि प्राप्नोति । चङादिषु प्रयोजनं । के पुनः चङादयः । चङङ्नजिङ्ङ्वनिबथङ्नङः । चङः यथा इह भवति शूनः , शूनवानिति एवं अशिश्वियतः अत्र अपि प्राप्नोति । अङः यथा इह भवति शूनः , उक्तः इति एवं अश्वत्, अवोचतः अत्र अपि प्राप्नोति । नजिङः यथा इह भवति सुप्तः इति एवं स्वप्नकः अत्र अपि प्राप्नोति । ङ्वनिपः यथा इह भवति इष्टः इति एवं यज्वा : अत्र अपि प्राप्नोति । अथङः यथा इह भवति उषितः इति एवं आवसथः : अत्र अपि प्राप्नोति । नङः यथा इह भवति इष्टं एवं यज्ञः : अत्र अपि प्राप्नोति । (कात्यायन वार्तिक)जाग्रः अगुणविधिः(वार्तिकान्त) । जागर्तेः अगुणविधिः प्रयोजनं । यथा इह भवति जागृतः , जागृथः इति अङिति इति पर्युदासः एवं जागरितः, जागरितवानिति अत्र अपि प्राप्नोति । अपरः आह : जाग्रः गुणविधिः । जागर्तेः गुणविधिः प्रयोजनं । यथा इह भवति जागरितः , जागरितवानेवं जागृतः जागृथः इति अत्र अपि प्राप्नोति । (कात्यायन वार्तिक)कुटादीनां इट्प्रतिषेधः(वार्तिकान्त) । कुटादीनां इट्प्रतिषेधः प्रयोजनं । यथा इह भवति लूत्वा पूत्वा श्र्युकः किति इति इट्प्रतिषेधः एवं नुविता धुविता : अत्र अपि प्राप्नोति । (कात्यायन वार्तिक)क्त्वायां कित्प्रतिषेधः च(वार्तिकान्त) । क्त्वायां कित्प्रतिषेधः च प्रयोजनं । किं च । इट्प्रतिषेधः च । न इति आह । अदेशे अयं चः पठितः । क्त्वायां च कित्प्रतिषेधः इति । यथा इह भवति देवित्वा सेवित्वा न क्त्वा सेटिति प्रतिषेधः एवं कुटित्वा पुटित्वा : अत्र अपि प्राप्नोति । अथ वा देशे एव अयं चः पठितः । क्त्वायां कित्प्रतिषेधः च इट्प्रतिषेधः च । इट्प्रतिषेधः : यथा इह भवति लूत्वा पूत्वा श्र्युकः किति इति इट्प्रतिषेधः एवं नुवित्वा धुवित्वा : अत्र अपि प्राप्नोति । स्यातेतत्प्रयोजनं यदि अत्र नियोगतः आतिदेशिकेन ङित्त्वेन औपदेशिकं कित्त्वं बाध्येत । सति अपि तु ङित्त्वे कितेव एषः । तस्मात्नूत्वा धूत्वा इति एव भवितव्यं ।
पाणिनीयसूत्र १,२।४।१) कि.,१९३।१५-२२ रो.,१०-११ सार्वधातुकग्रहणं किमर्थं । अपितिति इयति उच्यमाने आर्धधातुकस्य अपि अपितः ङित्त्वं प्रसज्येत : कर्ता हर्ता । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न अनेन आर्धधातुकस्य ङित्त्वं भवति इति यतयं आर्धधातुकीयान्कान्चित्ङितः करोति : चङङ्नजिङ्ङ्वनिबथङ्नङः । सार्वधातुके अपि एतत्ज्ञापकं स्यात। न इति आह । तुल्यजातीयस्य ज्ञापकं । कः च तुल्यजातीयः । यथाजातीयकाः चङङ्नजिङ्ङ्वनिबथङ्नङः । कथञ्जातीयकाः च एते । आर्धधातुकाः । यदि एततस्ति तुल्यजातीयस्य ज्ञापकं इति चङङौ लुङ्विकरणानं ज्ञापकौ स्यातां नजिङ्वर्तमानकालानां ङ्वनिप्भूतकालानां अथङ्शब्दः औणादिकानां नङ्शब्दः घञर्थानां । तस्मात्सार्वधातुकग्रहणं कर्तव्यं ।
पाणिनीयसूत्र १,२।४।२) कि.,१९३।२३-१९४।७ रो.,११-१२ किं पुनः अयं पर्युदासः : यतन्यत्पितः , आहोस्वित्प्रसज्य अयं प्रतिषेधः : पित्न इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)अपित्ङितिति चेत्शब्देकादेशप्रतिषेधः आदिवत्त्वात्(वार्तिकान्त) । अपित्ङितिति चेत्शब्देकादेशे प्रतिषेधः वक्तव्यः : च्यवन्ते प्लवन्ते । किं कारणं । आदिवत्त्वात। पिदपितोः एकादेशः अपितः आदिवत्स्यात। अस्ति अन्यत्पितः इति कृत्वा ङित्त्वं प्राप्नोति । अस्तु तर्हि प्रसज्यप्रतिषेधः : पित्न इति । (कात्यायन वार्तिक)न पित्ङितिति चेतुत्तमैकादेशप्रतिषेधः(वार्तिकान्त) । पित्न इति चेतुत्तमैकादेशे प्रतिषेधः प्राप्नोति : तुदानि लिखानि । किं कारणं । आदिवत्त्वातेव । पिदपितोः एकादेशः पितः आदिवत्स्यात। तत्र पित्न इति प्रतिषेधः प्राप्नोति । यथा इच्छसि तथा अस्तु । ननु च उक्तं उभयथा अपि दोषः इति । उभयथा अपि न दोषः । एकादेशः पूर्वविधौ स्थानिवतिति स्थानिवद्भावात्व्यवधानं ।
पाणिनीयसूत्र १,२।५) कि.,१९४।९-१६ रो.,१२-१३ (कात्यायन वार्तिक)ऋदुपधेभ्यः लिटः कित्त्वं गुणात्विप्रतिषेधेन(वार्तिकान्त) । ऋदुपधेभ्यः लिटः कित्त्वं गुणात्भवति विप्रतिषेधेन : ववृते ववृधे । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । न वा क्सस्य अनवकाशत्वातपवादः गुणस्य इति । विषमः उपन्यासः । युक्तं तत्र यतनवकाशं कित्करणं गुणं बाधते । इह पुनः उभयं सावकाशं । कित्करणस्य अवकाशःः ईजतुः ईजुः । गुणस्य अवकाशः : वर्तित्वा वर्धित्वा । इह उभयं प्राप्नोति : ववृते ववृधे । परत्वात्गुणः प्राप्नोति । इदं तर्हि उक्तं : इष्टवाची परशब्दः । विप्रतिषेधे परं यतिष्टं तत्भवति इती ।
पाणिनीयसूत्र १,२।६) कि.,१९४।१८-१९५।२ रो.,१४ किमर्थं इदं उच्यते । इन्धेः सम्योगार्थं वचनं भवतेः पिदर्थं । अयं योगः शक्यः अवक्तुं । कथं । (कात्यायन वार्तिक)इन्धेः छन्दोविषयत्वात्भुवः वुकः नित्यत्वात्ताभ्यां किद्वचनानर्थक्यम्(वार्तिकान्त) । इन्धेः छन्दोविषयः लिट। न हि अन्तरेण छन्दः इन्धेः अनन्तरः लिट्लभ्यः । आमा भाषायां भवितव्यं । भुवः वुकः नित्यत्वात। भवतेः अपि नित्यः वुक। कृते अपि प्राप्नोति अकृते अपि । ताभ्यां किद्वचनानर्थक्यं । ताभ्यां इन्धिभवितिभ्यां किद्वचनं अनर्थकं ।
पाणिनीयसूत्र १,२।७) कि.,१९५।४-१२ रो.,१५ किमर्थं मृडादिभ्यः परस्य क्त्वः कित्त्वं उच्यते । कितेव हि क्त्वा । न क्त्वा सेटिति प्रतिषेधः प्राप्नोति तद्बाधनार्थं । यदि तर्हि मृडादिभ्यः परस्य क्त्वः कित्त्वं उच्यते न अर्थः न क्त्वा सेटिति अनेन कित्त्वप्रतिषेधेन । इदं नियमार्थं भविष्यति : मृडादिभ्यः एव परस्य क्त्वः कित्त्वं भवति न अन्येभ्यः इति । यदि नियमः क्रियते इह अपि तर्हि नियमान्न प्राप्नोति : लूत्वा पूत्वा । अत्र अपि अकित्त्वं प्राप्नोति । तुल्यजातीयस्य नियमः । कः च तुल्यजातीयः । यथाजातीयकः मृडादिभ्यः परः क्त्वा । कथञ्जातीयकः मृडादिभ्यः परः क्त्वा । सेट। एवं अपि अस्ति अत्र कः चित्विभाषितेट। सः अनिटां नियामकः स्यात। अस्तु तावत्ये सेटः तेषां ग्रहणं नियमाऋथं । यः इदानीं विभाषितेट्तस्य ग्रहणं विध्यर्थं भविष्यति ।
पाणिनीयसूत्र १,२।८) कि.,१९५।१४ रो.,१६ स्वपिप्रच्छ्योः सनर्थं ग्रहणं कितेव हि क्त्वा ।
पाणिनीयसूत्र १,२।९) कि.,१९५।१६-१९७।११ रो.,१६-२१ किमर्थं इकः परस्य सनः कित्त्वं उच्यते । (कात्यायन वार्तिक)इकः कित्त्वं गुणः मा भूत्(वार्तिकान्त) । इकः कित्त्वं उच्यते गुणः मा भूतिति : चिचीषति तुष्टूषति । न एततस्ति प्रयोजनं । (कात्यायन वार्तिक)दीर्घारम्भात्(वार्तिकान्त) । दीर्घत्वं अत्र बाधकं भविष्यति । (कात्यायन वार्तिक)कृते भवेत्(वार्तिकान्त) । कृते खलु दीर्घत्वे गुणः प्राप्नोति । (कात्यायन वार्तिक)अनर्थकं तु(वार्तिकान्त) । अनर्थकं एवं सति दीर्घत्वं स्यात। न अनर्थकं । (कात्यायन वार्तिक)ह्रस्वार्थम्(वार्तिकान्त) । ह्रस्वानां दीर्घवचनसामर्थ्यात्गुणः न भविष्यति । भवेत्ह्रस्वानां दीर्घवचनसामर्थ्यात्गुणः न स्यात। (कात्यायन वार्तिक)दीर्घाणां तु प्रसज्यते(वार्तिकान्त) । दीर्घाणां तु खलु गुणः प्राप्नोति । ननु च दीर्घाणां अपि दीर्घवचनसामर्थ्यात्गुणः न भविष्यति । न दीर्घाणां दीर्घाः प्राप्नुवन्ति । किं कारणं । न हि भुक्तवान्पुनः भुङ्क्ते न च कृतश्मश्रुः पुनः श्मश्रूनि कारयति । ननु च पुनः प्रवृत्तिः अपि दृष्टा । भुक्तवान्च पुनः भुङ्क्ते कृतश्मश्रुः च पुनः श्मश्रूनि कारयति । (कात्यायन वार्तिक)सामर्थ्यात्हि पुनः भाव्यम्(वार्तिकान्त) । सामर्थ्यात्तत्र पुनः प्रवृत्तिः भवति भोजनविशेषात्शिल्पिविशेषात्वा । दीर्घाणां पुनः दीर्घत्ववचने न किं चित्प्रयोजनं अस्ति । अकृतकारि खलु अपि शास्त्रं अग्निवत। तत्यथा अग्निः यददग्धं तत्दहति । दीर्घाणां अपि दीर्घवचने एतत्प्रयोजनं गुणः मा भूतिति । कृतकारि खलु अपि शास्त्रं पर्जन्यवत। तत्यथा पर्जन्यः यावतूनं पूर्णं च सर्वं अभिवर्षति । यथा एव तर्हि दीर्घवचनसामर्थ्यात्गुणः न भवति एवं ®दित्त्वं अपि न प्राप्नोति : चिकीर्षति जिहीर्षति इति। (कात्यायन वार्तिक)®दित्त्वं दीर्घसंश्रयम्(वार्तिकान्त) । न अकृते दीर्घे ®दित्त्वं प्राप्नोति । किं कारणं । ®तः इति उच्यते । भवेत्ह्रस्वानां न अकृते दीर्घे ®दित्त्वं स्यात्दीर्घाणां तु खलु अकृते अपि दीर्घत्वे ®दित्त्वं प्राप्नोति । (कात्यायन वार्तिक)दीर्घाणां न अकृते दीर्घे(वार्तिकान्त) । दीर्घाणां अपि न अकृते दीर्घे ®दित्त्वं प्राप्नोति । यदा दीर्घत्वेन गुणः बाधितः ततः उत्तरकालं ®दित्त्वं भवति । (कात्यायन वार्तिक)णिलोपः तु प्रयोजनम्(वार्तिकान्त) । इदं तर्हि प्रयोजनं : णिलोपः यथा स्यातिति : ज्ञीप्सति । क्व अस्ताः क्व निपतिताः क्व कित्त्वं क्व णिलोपः । कः वा अभिसम्बन्धः यत्सति कित्त्वे णिलोपः स्यातसति न स्यात। एषः अभिसम्बन्धः यत्सति कित्त्वे सावकाशं दीर्घत्वं परत्वात्णिलोपः बाधते । असति पुनः कित्त्वे अनवकाशं दीर्घत्वं यथा एव गुणं बाधते एवं णिलोपं अपि बाधेत । तत्र णिलोपस्य अवकाशः : कारणा हारणा । दीर्घत्वस्य अवकाशः : चिचीषति तुष्टूषति । इह उभयं प्राप्नोति : ज्ञीप्सति । परत्वात्णिलोपः । असति अपि कित्त्वे सावकाशं दीर्घत्वं । कः अवकाशः । इस्भावः । निमित्सति प्रमित्सति । मीनातिमिनोत्योः दीर्घत्वे कृते मीग्रहणेन ग्रहणं यथा स्यात। यथा एव तर्हि असति कित्त्वे सावकाशं दीर्घत्वं परत्वात्णिलोपः बाधते एवं गुणः अपि बाधेत । तस्मात्कित्त्वं वक्तव्यं । इकः कित्त्वं गुणः मा भूत्दीर्घारम्भात्कृते भवेत् । अनर्थकं तु ह्रस्वार्थं दीर्घाणां तु प्रसज्यते । । सामर्थ्यात्हि पुनः भाव्यं ®दित्त्वं दीर्घसंश्रयं दीर्घाणां न अकृते दीर्घे णिलोपः तु प्रयोजनं ।
पाणिनीयसूत्र १,२।१०) कि.,१९७।१३-२२ रो.,२२-२३ अयुक्तः अयं निर्देशः । कथं हि इकः नाम हलन्तः स्यातन्यस्य अन्यः । कथं तर्हि निर्देशः कर्तव्यः । इग्वतः हलः इति । यदि एवं यियक्षति अत्र अपि प्राप्नोति । एवं तर्हि इगुपधात्हलन्तातिति वक्ष्यामि । एवं अपि दम्भेः न प्राप्नोति । सूत्रं च भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं अयुक्तः अयं निर्देशः इति । न अयुक्तः । अन्तशब्दः अयं अस्ति एव अवयववाची । तत्यथा वस्त्रान्तः , वसनान्तः : वस्त्रावयवः , वसनावयवः इति गम्यते । अस्ति सामीप्ये वर्तते । तत्यथा उदकान्तं गतः इति । उदकसमीपं गतः इति गम्यते । तत्यः सामीप्ये वर्तते तस्य इदं ग्रहणं । एवं अपि दम्भेः न सिध्यति । यः अत्र इक्समीपे हल्न तस्मातुत्तरः सन। यस्मातुत्तरः सन्न असौ इक्समीपे हल। एवं तर्हि (कात्यायन वार्तिक)दम्भेः हल्ग्रहणस्य जातिवाचकत्वात्सिद्धम्(वार्तिकान्त) । हल्जातिः निर्दिश्यते : इकः उत्तरा या हल्जातिः इति ।
पाणिनीयसूत्र १,२।११) कि.,१९७।२४-१९८।१६ रो.,२४-२५ कथं इदं विज्ञायते : आत्मनेपदं यौ लिङ्सिचौ इति आहोस्वितात्मनेपदेषु परतः यौ लिङ्सिचौ इति । किं च अतः। यदि विज्ञायते आत्मनेपदं यौ लिङ्सिचौ इति लिङ्विशेषितः सिचविशेषितः । अथ विज्ञायते आत्मनेपदेषु परतः यौ लिङ्सिचौ इति सिच्विशेषितः लिङविशेषितः । यथा इच्छसि तथा अस्तु । अस्तु तावतात्मनेपदं यौ लिङ्सिचौ इति । ननु च उक्तं । लिङ्विशेषितः सिचविशेषितः इति । सिच्च विशेषितः । कथं । आत्मनेपदं सिच्न अस्ति इति कृत्वा आत्मनेपदपरे सिचि कार्यं विज्ञास्यते । अथ वा पुनः अस्तु आत्मनेपदेषु परतः यौ लिङ्सिचौ इति । ननु च उक्तं सिच्विशेषितः लिङविशेषितः इति । लिङ्च विशेषितः । कथं । आत्मनेपदेषु परतः लिङ्न अस्ति इति कृत्वा आत्मनेपदे लिङि कार्यं विज्ञास्यते । न एव वा पुनः अर्थः लिङ्विशेषणेन आत्मनेपदग्रहणेन । किं कारणं । झलिति वर्तते । आत्मनेपदेषु च एव लिङ्झलादिः न परस्मैपदेषु । ततेतत्सिज्विशेषणं आत्मनेपदग्रहणं । अथ सिज्विशेषणे आत्मनेपदग्रहणे सति किं प्रयोजनं । इह मा भूतः अयाक्षीत्, अवात्सीत। न एततस्ति । इकः इति वर्तते । एवं अपि अनैषीत्, अचैषीतः अत्र अपि प्राप्नोति । एततपि न अस्ति प्रयोजनं । हलन्तातिति वर्तते । एवं अपि अकोषीत्, अमोषीतः अत्र अपि प्राप्नोति । न एततस्ति प्रयोजनं । झलिति वर्तते । एवं अपि अभैत्सीत्, अच्छैत्सीतः अत्र अपि प्राप्नोति । न एततस्ति । इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एषा इग्लक्षणा वृद्धिः । इदं तर्हि प्रयोजनं : इह मा भूतः अद्राक्षीत्, अस्राक्षीत। किं च स्यात। अकिल्लक्षणः अमागमः न स्यात।
पाणिनीयसूत्र १,२।१७) कि.,१९८।१८-१९९।४ रो.,२५-२७ (कात्यायन वार्तिक)इत्च कस्य तकारेत्त्वम्(वार्तिकान्त) । कस्य हेतोः इकारः तपरः क्रियते । (कात्यायन वार्तिक)दीर्घः मा भूत्(वार्तिकान्त) । दीर्घः मा भूतिति । (कात्यायन वार्तिक)ऋते अपि सः(वार्तिकान्त) । अन्तरेण अपि आरम्भं सिद्धः अत्र दीर्घः : घुमास्थागापाजहाति इति । (कात्यायन वार्तिक)अनन्तरे प्लुतः मा भूत्(वार्तिकान्त) । इदं तर्हि प्रयोजनं : अनन्तरे प्लुतः मा भूतिति । कुतः नु खलु एततनन्तरार्थे आरम्भे ह्रस्वः भविष्यति न पुनः प्लुतः इति । (कात्यायन वार्तिक)प्लुतः च विषये स्मृतः(वार्तिकान्त) । विषये खलु प्लुतः उच्यते । यदा च सः विषयः भवितव्यं एव तदा प्लुतेन । (कात्यायन वार्तिक)इत्च कस्य तकारेत्त्वं दीर्घः मा भूतृते अपि सः । अनन्तरे प्लुतः मा भूत्प्लुतः च विषये स्मृतः(वार्तिकान्त)
पाणिनीयसूत्र १,२।१८) कि.,१९९।६-२००।२४ रो.,२७-३१ (कात्यायन वार्तिक)न सेटिति कृते अकित्त्वे(वार्तिकान्त) । न सेटिति एव सिद्धं । न अर्थः क्त्वाग्रहणेन । निष्ठायं अपि तर्हि प्राप्नोति : गुधितः गुधितवानिति । (कात्यायन वार्तिक)निष्ठायां अवधारणात्(वार्तिकान्त) । निष्ठायां अवधारणात्न भविष्यति । किं अवधारणं । निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः इति । परोक्षायां तर्हि प्राप्नोति । किं च स्यात। पपिव पपिम : क्ङिति इति आकारलोपः न स्यात। मा भूतेवं । इटि इति एवं भविष्यति । इदं तर्हि : जग्मिव जघ्निव । क्ङिति इति उपधालोपः न स्यात। (कात्यायन वार्तिक)ज्ञापकात्न परोक्षायाम्(वार्तिकान्त) । ज्ञापकात्परोक्षायां न भविष्यति । किं ज्ञापकं । (कात्यायन वार्तिक)सनि झल्ग्रहणं विदुः(वार्तिकान्त) । यतयं इकः झलिति झल्ग्रहणं करोति तत्ज्ञापयति आचार्यः औपदेशिकस्य कित्त्वस्य प्रतिषेधः न आतिदेशिकस्य इति । कथं कृत्वा ज्ञापकं । झल्ग्रहणस्य एतत्प्रयोजनं : इह मा भूतः शिशयिषते इति । यदि च अत्र आतिदेशिकस्य कित्त्वस्य प्रतिषेधः स्यात्झल्ग्रहणं अनर्थकं स्यात। अस्तु अत्र कित्त्वं । न सेटिति प्रतिषेधः भविष्यति । पश्यति तु आचार्यः औपदेशिकस्य कित्त्वस्य प्रतिषेधः न आतिदेशिकस्य इति । ततः झल्ग्रहणं करोति । न एततस्ति प्रयोजनं । उत्तरार्थं एतत्स्यात। स्थाघ्वोः इत्च झलादौ यथा स्यात। इह मा भूतः उपास्थायिषातां उपास्थायिषत । (कात्यायन वार्तिक)इत्त्वं कित्सन्नियोगेन(वार्तिकान्त) । कित्सन्नियोगेन इत्त्वं उच्यते । तेन असति कित्त्वे इत्त्वं न भविष्यति । (कात्यायन वार्तिक)रेण तुल्यं सुधीवनि(वार्तिकान्त) । तत्यथा सुधीवा सुपीवा : ङीप्सन्नियोगेन रः उच्यमानः असति ङीपि न भवति । अथ वा अस्तु अत्र इत्त्वं । का रूपसिद्धिः । वृद्धौ कृतायां आयादेशः भविष्यति । (कात्यायन वार्तिक)वस्वर्थम्(वार्तिकान्त) । वस्वर्थं तर्हि क्त्वाग्रहणं कर्तव्यं । वसौ हि औपदेशिकं कित्त्वं । किं च स्यात। पपिवान्पपिमानः क्ङिति इति आकारलोपः न स्यात। मा भूतेवं । इटि इति एवं भविष्यति । इदं तर्हि : जग्मिवान्, जघ्निवानः क्ङिति इति उपधालोपः न स्यात। (कात्यायन वार्तिक)किदतीदेशात्(वार्तिकान्त) । अस्तु अत्र औपदेशिकस्य कित्त्वस्य प्रतिषेधः । आतिदेशिकस्य कित्त्वं भविष्यति । यत्र तर्हि तत्प्रतिषिध्यते : अञ्जेः आजिवानिति । एवं तर्हि छान्दसः क्वसुः लिट्च छन्दसि सार्वधातुकं अपि भवति । तत्र सार्वधातुकं अपित्ङित्भवति इति ङिति उपधालोपः भविष्यति । (कात्यायन वार्तिक)निगृहीतिः(वार्तिकान्त) । निगृहीतिः प्रयोजनं । इदं तर्हि प्रयोजनं : इह मा भूतः निगृहीतिः , उपसन्निहितिः , निकुचितिः । तत्तर्हि क्त्वाग्रहणं कर्तव्यं । न कर्तव्यं । (कात्यायन वार्तिक)क्त्वा च विग्रहात्(वार्तिकान्त) । उपरिष्टात्योगविभागः करिष्यते : न सेट्निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः । मृषः तितिक्षायां । उदुपधात्भावादिकर्मणोः अन्यतरस्यां । ततः पूङः । पूङः निष्ठा सेट्न कित्भवति । ततः क्त्वा । क्त्वा च सेट्न कित्भवति । पूङिति निवृत्तं । (कात्यायन वार्तिक)न सेटिति कृते अकित्त्वे निष्ठायां अवधारणात्(वार्तिकान्त) । (कात्यायन वार्तिक)ज्ञापकात्न परोक्षायां सनि झल्ग्रहणं विदुः (वार्तिकान्त) । ।(कात्यायन वार्तिक) इत्त्वं कित्सन्नियोगेन रेण तुल्यं सुधीवनि (वार्तिकान्त) । (कात्यायन वार्तिक)वस्वर्थं किदतीदेशात्निगृहीतिः क्त्वा च विग्रहात्(वार्तिकान्त) । ।
पाणिनीयसूत्र १,२।२१) कि.,२०१।२-४ रो.,३१ इह कस्मात्न भवति । गुधितः गुधितवानिति । (कात्यायन वार्तिक)उदुपधात्शपः(वार्तिकान्त) । शब्विकरणेभ्यः इष्यते ।
पाणिनीयसूत्र १,२।२२) कि.,२०१।६-१९ रो.,३१-३२ (कात्यायन वार्तिक)पूङः क्त्वानिष्ठयोः इटि वाप्रसङ्गः सेट्प्रकरणात्(वार्तिकान्त) । पूङः क्त्वानिष्ठयोः इटि विभाषा प्राप्नोति । किं कारणं । सेट्प्रकरणात। सेटिति वर्तते । (कात्यायन वार्तिक)न वा सेट्त्वस्य अकिदाश्रयत्वातनिटि वा कित्त्वम्(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । सेट्त्वस्य अकिदाश्रयत्वात। अकिदाश्रयं सेट्त्वं । यदा अकित्त्वं तदा इटा भवितव्यं । सेट्त्वस्य अकिदाश्रयत्वातनिटि एव विभाषा कित्त्वं भविष्यति । इड्विधौ पूङः ग्रहणं क्रियते । तेन वचनातिट्सेट्प्रकरणात्च इटि एव विभाषा कित्त्वं प्राप्नोति । (कात्यायन वार्तिक)इड्विधौ हि अग्रहणम्(वार्तिकान्त) । इड्विधौ हि पूङः ग्रहणं न कर्तव्यं भवति । भारद्वाजीयाः पठन्ति : (कात्यायन वार्तिक)नित्यं अकित्त्वं इडाद्योः (वार्तिकान्त)।(कात्यायन वार्तिक) क्त्वाग्रहणं उत्तरार्थं (वार्तिकान्त)। नित्यं अकित्त्वं इडाद्योः सिद्धं । कथम। विभाषामध्ये अयं योगः क्रियते । विभाषामध्ये च ये विधयः ते नित्याः भवन्ति । किमर्थं तर्हि क्त्वाग्रहणं । क्त्वाग्रहणं उत्तरार्थं । उत्तरार्थं क्त्वाग्रहणं क्रियते : नोपधात्थपान्तात्वा वञ्चिलुञ्च्यृतः च इति ।
पाणिनीयसूत्र १,२।२५) कि.,२०१।२१ रो.,३३ काश्यपग्रहणं किमर्थम। काश्यपग्रहणं पूजार्थं । वा इति एव हि वर्तते ।
पाणिनीयसूत्र १,२।२६) कि.,२०२।२-७ रो.,३३ किं इदं रलः क्त्वासनोः कित्त्वं विधीयते आहोस्वित्प्रतिषिध्यते । किं च अतः । यदि विधीयते क्त्वाग्रहणं अनर्थकं । कितेव हि क्त्वा । अथ प्रतिषिध्यते सन्ग्रहणं अनर्थकं । अकितेव हि सन। अतः उत्तरं पठति : (कात्यायन वार्तिक)रलः क्त्वासनोः कित्त्वम्(वार्तिकान्त) । रलः क्त्वासनोः कित्त्वं विधीयते । ननु च उक्तं : क्त्वाग्रहणं अनर्थकं । कितेव हि क्त्वा इति । न अनर्थकं । न क्त्वा सेटिति प्रतिषेधः प्राप्नोति । तद्बाधनार्थं ।
पाणिनीयसूत्र १,२।२७।१) कि.,२०२।९-१५ रो.,३४ अयुक्तः अयं निर्देशः । ऊ इति अनेन कालः प्रतिनिर्दिश्यते ऊ इति अयं च वर्णः । तत्र अयुक्तं वर्णस्य कालेन सह सामनाधिकरण्यं । कथं तर्हि निर्देशः कर्तव्यः । ऊकालकालस्य इति । किं इदं ऊकालकालस्य इति । ऊ इति एतस्य कालः ऊकालः । ऊकालः कालः अस्य ऊकालकालः इति । सः तर्हि तथा निर्देशः कर्तव्यः । न कर्तव्यः । उत्तरपदलोपः अत्र द्रष्टव्यः । तत्यथा उष्ट्रमुखं मुखं अस्य उष्ट्रमुखः , खरमुखः एवं ऊकालकालः ऊकालः इति । अथ वा साहचर्यात्ताच्छब्द्यं भविष्यति । कालसहचरितः वर्णः अपि कालः एव ।
पाणिनीयसूत्र १,२।२७।२) कि.,२०२।१६-२०४।२४ रो.,३४-४० (कात्यायन वार्तिक)ह्रस्वादिषु समसङ्ख्याप्रसिद्धिः निर्देशवैषम्यात्(वार्तिकान्त) । ह्रस्वादिषु समसङ्ख्यत्वस्य अप्रसिद्धिः । किं कारणं । निर्देशवैषम्यात। तिस्रः सञ्ज्ञाः एका सञ्ज्ञी । वैषम्यात्सङ्ख्यातानुदेशः न प्राप्नोति । (कात्यायन वार्तिक)सिद्धं तु समस्ङ्ख्यत्वात्(वार्तिकान्त) । सिद्धं एतत। कथं । समसङ्ख्यत्वात। कथं समसङ्ख्यत्वं । (कात्यायन वार्तिक)त्रयाणां हि विकारनिर्देशः(वार्तिकान्त) । त्रयाणां अयं प्रश्लिष्टनिर्देशः । कथं पुनः ज्ञायते त्रयाणां अयं प्रश्लिष्टनिर्देशः इति । तिसृणां सञ्ज्ञानां करणसामर्थ्यात। यदि अपि तावत्तिसृणां सञ्ज्ञानां करणसामर्थ्यात्ज्ञायते त्रयाणां अयं प्रश्लिष्टनिर्देशः इति कुतः तु एततः एतेन आनुपूर्व्येण सन्निविष्टानां सञ्ज्ञाः भविष्यन्ति इति । आदौ मात्रिकः ततः द्विमात्रः ततः त्रिमात्रः इति । न पुनः मात्रिकः मध्ये वा अन्ते वा स्यात्तथा द्विमात्रः आदौ वा अन्ते वा स्यात्तथा त्रिमात्रः आदौ वा मध्ये वा स्यात। अयं तावत्त्रिमात्रः अशक्यः आदौ वा मध्ये वा कर्तुं । कुतः । प्लुताश्रयः हि प्रकृतिभावः प्रसज्येत । मात्रिकद्विमात्रिकयोः अपि घ्यन्तं पूर्वं निपतति इति मात्रिकस्य पूर्वनिपातः भविष्यति । यत्तावतुच्यते अयं तावत्त्रिमात्रः अशक्यः आदौ वा मध्ये वा कर्तुं । प्लुताश्रयः हि प्रकृतिभावः प्रसज्येत इति । प्लुताश्रयः प्रकृतिभावः प्लुतसञ्ज्ञा च अनेन एव । यदि च त्रिमात्रः आदौ वा मध्ये वा स्यात्प्लुतसञ्ज्ञा एव अस्य न स्यात्कुतः प्रत्कृतिभावः । यतपि उच्यते मात्रिकद्विमात्रिकयोः अपि घ्यन्तं पूर्वं निपतति इति मात्रिकस्य पूर्वनिपातः भविष्यति इति । ह्रस्वाश्रया हि घिसञ्ज्ञा ह्रस्वसञ्ज्ञा च अनेन एव। यदि च मात्रिकः मध्ये वा अन्ते वा स्यात्ह्रस्वसञ्ज्ञा एव अस्य न स्यात्कुतः घिसञ्ज्ञा कुतः पूर्वनिपातः । एवं एषा व्यवस्था न प्रकल्पते । एवं तर्हि आचार्यप्रवृत्तिः ज्ञापयति न मात्रिकः अन्ते भवति इति यतयं विभाषा पृष्टप्रतिवचने हेः इति मात्रिकस्य प्लुतं शास्ति । कथं कृत्वा ज्ञापकं । यः अन्ते सः प्लुतसञ्ज्ञकः । यदि च मात्रिकः अन्ते स्यात्प्लुतसञ्ज्ञा अस्य स्यात। तत्र मात्राकालस्य मात्राकालवचनं अनर्थकं स्यात। मध्ये तर्हि स्यातिति । अत्र अपि आचार्यप्रवृत्तिः ज्ञापयति न मात्रिकः मध्ये भवति इति यतयं अतः दीर्घः यञि सुपि च इत्दीर्घत्वं शास्ति । कथं कृत्वा ज्ञापकं । यः मध्ये सः दीर्घसञ्ज्ञकः । यदि च मात्रिकः मध्ये स्यात्दीर्घसञ्ज्ञा अस्य स्यात। तत्र मात्राकालस्य मात्राकालवचनं अनर्थकं स्यात। द्विमात्रः तर्हि अन्ते स्यात। अत्र अपि आचार्यप्रवृत्तिः ज्ञापयति न द्विमात्रः अन्ते भवति इति यतयं ओं अभ्यादाने इति द्विमात्रिकस्य प्लुतं शास्ति । कथं कृत्वा ज्ञापकं । यः अन्ते सः प्लुतसञ्ज्ञकः । यदि च द्विमात्रिकः अन्ते स्यात्प्लुतसञ्ज्ञा अस्य स्यात। तत्र द्विमात्रकालस्य द्विमात्रकालवचनं अनर्थकं स्यात। मात्रिकेण च अस्य पूर्वनिपातः बाधितः इति कृत्वा क्व अन्यत्र उत्सहते भवितुं अन्यततः मध्यात। एवं एषा व्यवस्था प्रक्ल्प्ता । भवेत्व्यवस्था प्रक्ल्प्ता । (कात्यायन वार्तिक)दीर्घप्लुतयोः तु पूर्वसञ्ज्ञाप्रसङ्गः (वार्तिकान्त)। दीर्घप्लुतयोः अपि पूर्वसञ्ज्ञा प्राप्नोति । का । ह्रस्वसञ्ज्ञा । किं कारणं । अण्सवर्णान्गृह्णाति इति । (कात्यायन वार्तिक)सिद्धं तु तपरनिर्देशात्(वार्तिकान्त) । सिद्धं एतत। कथं । तपरनिर्देशः कर्तव्यः : उदूकालः इति । यदि एवं द्रुतायां तपरकरणे मध्यमविलम्बितयोः उपसङ्ख्यानं कालभेदात। (कात्यायन वार्तिक)द्रुतादिषु च उक्तम्(वार्तिकान्त) । किं उत्क्तं । सिद्धं तु । अवस्थिताः वर्णाः वक्तुः चिराचिरवचनात्वृत्तयः विशिष्यन्ते इति । सः तर्हि तपरनिर्देशः कर्तव्यः । न कर्तव्यः । इह कालग्रहणं क्रियते । यावत्च तपरकरणं तावत्कालग्रहणं । प्रत्येकं च कालशब्दः परिसमाप्यते : उकालः ऊकालः ऊ३कालः इति । अथ वा एकसञ्ज्ञाधिकारे अयं योगः कर्तव्यः । तत्र एका सञ्ज्ञा भवति या परा अनवकाशा च इति एवं हि दीर्घप्लुतयोः पूर्वसञ्ज्ञा न भविष्यति । अथ वा स्वं रूपं शब्दस्य अशब्दसञ्ज्ञा इति अयं योगः प्रत्याख्यायते । तत्र यतेततशब्दसञ्ज्ञा इति एतत्यया विभक्त्या निर्दिश्यमानं अर्थवत्भवति तया निर्दिष्टं अनुवर्तिष्यते : अणुदित्सवर्णस्य च अप्रत्ययः अशब्दसञ्ज्ञायां इति । अथ वा ह्रस्वसञ्ज्ञावचनसामर्थ्यात्दीर्घप्लुतयोः पूर्वसञ्ज्ञा न भविष्यति । ननु च इदं प्रयोजनं स्यातः सञ्ज्ञया विधाने नियमं वक्ष्यामि इति । ह्रस्वसञ्ज्ञया यतुच्यते ततचः स्थाने यथा स्यातिति । स्यातेतत्प्रयोजनं यदि किञ्चित्कराणि ह्रस्वशासनानि स्युः । यतः तु खलु यावतज्ग्रहणं तावत्ह्रस्वग्रहणं अतः अकिञ्चित्कराणि ह्रस्वशासनानि । इदं तर्हि प्रयोजनं : एचः इख्रस्वादेशे इति वक्ष्यामि इति । अनुच्यमाने हि एतस्मिन्ह्रस्वप्रदेशेषु एचः इक्भवति इति वक्तव्यं स्यात। ह्रस्वः नपुंसके प्रातिपदिकस्य एचः इक्भवति इति । णौ चङि उपधायाः ह्रस्वः एचः इक्भवति इति । ह्रस्वः हलादिः शेषः एचः इक्भवति इति । सञ्ज्ञा च नाम यतः न लघीयः । कुतः एतत। लघ्वर्थं हि सञ्ज्ञाकरणं । लघीयः च त्रिः ह्रस्वप्रदेशेषु एचः इक्भवति इति न पुनः सञ्ज्ञाकरणं । त्रिः ह्रस्वप्रदेशेषु एचः इक्भवति इति षट्ग्रहणानि । सञ्ज्ञाकरणे पुनः अष्टौ । ह्रस्वसञ्ज्ञा वक्तव्या । त्रिः ह्रस्वप्रदेशेषु ह्रस्वग्रहणं कर्तव्यं ह्रस्वः ह्रस्वः ह्रस्वः इति । एचः इख्रस्वादेशे इति । सः अयं लघीयसा न्यासेन सिद्धे सति यत्गरीयांसं यत्नं आरभते तस्य एतत्प्रयोजनं दीर्घप्लुतयोः तु पूर्वसञ्ज्ञा मा भूतिति ।
पाणिनीयसूत्र १,२।२८।१) कि.,२०४।२६-२०६।२ रो.,४०-४१ किं अयं अलोन्त्यशेषः आहोस्वितलोन्त्यापवादः । कथं च अयं तच्छेषः स्यात्कथं वा तदपवादः । यदि एकं वाक्यं तत्च इदं च : अलः अन्त्यस्य विधयः भवन्ति अचः ह्रस्वदीर्घप्लुताः अन्त्यस्य इति ततः अयं तच्छेशः । अथ नाना वाक्यं : अलः अन्त्यस्य विधयः भवन्ति , अचः ह्रस्वदीर्घप्लुताः अन्त्यस्य अनन्त्यस्य च इति ततः अयं तदपवादः । कः च अत्र विशेषः । (कात्यायन वार्तिक)ह्रस्वादिविधिः अलः अन्त्यस्य इति चेत्वचिप्रच्छिशमादिप्रभृतिहनिगमिदीर्घेषु अज्ग्रहणम्(वार्तिकान्त) । ह्रस्वादिविधिः अलः अन्त्यस्य इति चेत्वचिप्रच्छिशमादिप्रभृतिहनिगमिदीर्घेषु अज्ग्रहणं कर्तव्यं । वचिप्रच्छ्योः दीर्घः अचः इति वक्तव्यं । अनन्त्यत्वात्न प्राप्नोति । शमादीनां दीर्घः अचः इति वक्तव्यं । अनन्त्यत्वात्न प्राप्नोति । हनिगम्योः दीर्घः अचः इति वक्तव्यं । अनन्त्यत्वात्न प्राप्नोति । अस्तु तर्हि तदपवादः । (कात्यायन वार्तिक)अचः चेत्नपुंसकह्रस्वाकृत्सार्वधातुकनामिदीर्घेषु अनन्त्यप्रतिषेधः(वार्तिकान्त) । अचः चेत्नपुंसकह्रस्वाकृत्सार्वधातुकनामिदीर्घेषु अनन्त्यप्रतिषेधः वक्तव्यः । ह्रस्वः नपुंसके प्रातिपदिकस्य : यथा इह भवति : रै : अतिरि नौ : अतिनौ एवं सुवाक्ब्राह्मणकुलं इति अत्र अपि प्राप्नोति । अकृत्सार्वधातुकयोः दीर्घः : यथा इह भवति : चीयते स्तूयते एवं भिद्यते अत्र अपि प्राप्नोति । नामि दीर्घः : यथा इह भवति : अग्नीनां , वायूनां एवं अत्र अपि प्राप्नोति : षण्णां । न एषः दोषः । नोपध्यायाः इति एतत्नियमार्थं भविष्यति । प्रकृतस्य एषः नियमः स्यात। किं च प्रकृतं । नामि इति । तेन भवेतिह नियमात्न स्यातः षण्णां । अन्यते तन्यते अत्र अपि प्राप्नोति । अथ अपि एवं नियमः स्यातः नोपधायाः नामि एव इति एवं अपि भवेतिह नियमात्न स्यातः अन्यते तन्यते । षण्णां इति अत्र प्राप्नोति । अथ अपि उभयतः नियमः स्यातः नोपधायाः एव नामि नामि एव नोपदध्यायाः इति एवं अपि भिद्यते सुवाक्ब्राह्मणकुलं इत अत्र अपि प्राप्नोति । एवं तर्हि ह्रस्वः दीर्घः प्लुतः इति यत्र ब्रूयातचः इति एतत्तत्र उपस्थितं द्रष्टव्यं । किं कृतं भवति । द्वितीया षष्ठी प्रादुः भाव्यते । तत्र कामचारः : गृह्यमाणेन वा अचं विशेषयितुं अचा वा गृह्यमाणः । यावता कामचारः इह तावत्वचिप्रच्छिशमादिप्रभृतिहनिगमिदीर्घेषु गृह्यमाणेन अचं विशेषयिष्यामः : एषां अचः दीर्घः भवति इति । इह इदानीं नपुंसकह्रस्वाकृत्सार्वधातुकनामिदीर्घेषु अचा गृह्यमाणं विशेषयिष्यामः : नपुंसकस्य ह्रस्वः भवति अचः । अजन्तस्य इति । अकृत्सार्वधातुकयोः दीर्घः अचः । अजन्तस्य इति । नामि दीर्घः भवति अचः । अजन्तस्य इति ।
पाणिनीयसूत्र १,२।२८।२) कि.,२०६।३-१२ रो.,४१-४३ इह कस्मात्न भवति : द्यौः , पन्थाः , सः इति । (कात्यायन वार्तिक)सञ्ज्ञया विधाने नियमः(वार्तिकान्त) । सञ्ज्ञया ये विधीयन्ते तेषु नियमः । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । अचिति वर्तते । तत्र एवं अभिसम्बन्धः करिष्यते : अचः अच्भवति ह्रस्वः दीर्घः प्लुतः इति एवं भाव्यमनः इति । अथ पूर्वस्मिन्योगे अज्ग्रहणे सति किं प्रयोजनं । (कात्यायन वार्तिक)अज्ग्रहणं संयोगाच्समुदायनिवृत्त्यर्थम्(वार्तिकान्त) । अज्ग्रहणं क्रियते संयोग्निवृत्त्यर्थं अच्समुदायनिवृत्त्यर्थं च । संयोग्निवृत्त्यर्थं तावतः प्रतक्ष्य प्ररक्ष्य । ह्रस्वस्य पिति कृति तुकिति तुक्मा भूतिति । अच्समुदायनिवृत्त्यर्थं : तितौच्छत्रं , तितौच्छाया । दीर्घात्पदान्तात्वा इति विभाषा मा भूत।
पाणिनीयसूत्र १,२।२९-३०।१) कि.,२०६।१४-२५ रो.,४३-४५ किं षष्ठीनिर्दिष्टं अज्ग्रहणं अनुवर्तते उताहो न । किं च अतः । यदि अनुवर्तते हल्स्वरप्राप्तौ व्यञ्जनं अविद्यमानवतिति परिभाषा न प्रकल्पते । कथं हलः नाम स्वरप्राप्तिः स्यात। एवं तर्हि निवृत्तं । बहूनि एतस्याः परिभाषायाः प्रयोजनानि । अथ प्रथमानिर्दिष्टं अज्ग्रहणं अनुवर्तते उताहो न । किं च अर्थः अनुवृत्त्या । बाढं अर्थः यदि एते व्यञ्जनस्य अपि गुणाः लक्ष्यन्ते । ननु च प्रत्यक्षं उपलभ्यन्ते : इषे त्वा ऊर्जे त्वा । न एते व्यञ्जनस्य गुणाः । अचः एते गुणाः । तत्सामीप्यात्तु व्यञ्जनं अपि तद्गुणं उपलभ्यते । तत्यथा । द्वयोः रक्तयोः वस्त्रयोः मध्ये शुक्लं वस्त्रं तद्गुणं उपलभ्यते बदरपिटके रिक्तकः लोहकंसः तद्गुणः उपलभ्यते । कुतः नु खलु एततचः एते गुणाः । तत्सामीप्यात्तु व्यञ्जनं अपि तद्गुणं उपलभ्यते इति । न पुनः व्यञ्जनस्य एते गुणाः स्युः । तत्सामीप्यात्तु अचपि तद्गुणः उपलभ्यते इति । अन्तरेण अपि व्यञ्जनं अचः एव एते गुणाः लक्ष्यन्ते । न पुनः अन्तरेण अचं व्यञ्जनस्य उच्चारणं अपि भवति । अन्वर्थं खलु अपि निर्वचनं : स्वयं राजन्ते स्वराः । अन्वक्भवति व्यञ्जनं इति ।
पाणिनीयसूत्र १,२।२९-३०।२) कि.,२०७।१-१७ रो.,४५-४६ (कात्यायन वार्तिक)उच्चनीचस्य अनवस्थितत्वात्सञ्ज्ञाप्रसिद्धिः(वार्तिकान्त) । इदं उच्चनीचं अनवस्थितपदर्थकं । ततेव हि कं चित्प्रति उच्चैः भवति कं चित्प्रति नीचैः । एवं कं चित्कः चितधीयानं आह : किं उच्चैः रोरूयसे । अथ नीचैः वर्ततां इति । तं एव तथा अधीयानं अपरः आह : किं अन्तर्दन्तकेन अधीषे । उच्चैः वर्ततां इति । एवं उच्चनीचं अनवस्थितपदर्थकं । तस्य अनवस्थानात्सञ्ज्ञायाः अप्रसिद्धिः । एवं तर्हि लक्षणं करिष्यते : आयामः दारुण्यं अणुता खस्य इति उच्चैःकराणि शब्दस्य । आयामः गात्राणां निग्रहः । दारुण्यं स्वरस्य दारुणता रूक्षता । अणुता खस्य कण्ठस्य संवृतता । उच्चैःकराणि शब्दस्य । अथ नीचैःकराणि शब्दस्य । अन्ववसर्गः मार्दवं उरुता खस्य इति नीचैःकराणि शब्दस्य । अन्ववसर्गः गात्राणां शिथिलता । मार्दवं स्वरस्य मृदुता स्निग्धता । उरुता खस्य महत्ता कण्ठस्य । इति नीचैःकराणि शब्दस्य । एततपि अनैकान्तिकं । यतल्पप्राणस्य सर्वोच्चैः तत्महाप्राणस्य सर्वनीचैः । (कात्यायन वार्तिक)सिद्धं तु समानप्रक्रमवचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । समाने प्रक्रमे इति वक्तव्यं । कः पुनः प्रक्रमः । उरः कण्ठः शिरः इति ।
पाणिनीयसूत्र १,२।३१) कि.,२०७।१६-२०८।९ रो.,४६-४८ समाहारः स्वरितः इति उच्यते । कस्य समाहारः स्वरितसञ्ज्ञः भवति । अचोः इति आह । (कात्यायन वार्तिक)समाहारः अचोः चेत्न अभावात्(वार्तिकान्त) । समाहारः अचोः चेत्तत्न । किं कारणं । अभावात। न हि अचोः समाहारः अस्ति । ननु अयं अस्ति गाङ्गेनूपे इति । न एषः अचोः समाहारः । अन्यः अयं उदात्तानुदात्तयोः स्थाने एकः आदिश्यते । एवं तर्हि गुणयोः । गुणयोः चेत्न अच्प्रकरणात। गुणयोः समहारः इति चेत्तत्न । किं कारणं । अच्प्रकरणात। अचिति वर्तते । (कात्यायन वार्तिक)सिद्धं तु अच्समुदायस्य अभावात्तद्गुणे सम्प्रत्ययः(वार्तिकान्त) । सिद्धं एतत। कथं । अच्समुदायः न अस्ति इति कृत्वा तद्गुणस्य अचः समाहारगुणस्य सम्प्रत्ययः भविष्यति । कथं पुनः समाहारः इति अनेन अच्शक्यः प्रतिनिर्देष्टुं । मतुब्लोपः अत्र द्रष्टव्यः । तत्यथा पुष्पकाः एषां ते पुष्पकाः , कालकाः एषां ते कालकाः इति एवं समाहारवान्समाहारः । अथ वा अकारः मत्वर्थीयः । तत्यथा तुन्दः , घाटः इति । यदि एवं त्रैस्वर्यं न प्रकल्पते । तत्र कः दोषः । त्रैस्वर्यं अधीमहे इति एतत्न उपपद्यते । न एतत्गुणापेक्षं । किं तर्हि । अजपेक्षं । त्रैस्वर्यं अधीमहे : त्रिप्रकारैः अज्भिः अधीमहे कैः चितुदात्तगुणैः कैः चितनुदात्तगुणैः कैः चितुभयगुणैः । तत्यथा : शुक्लगुणः शुक्लः कृष्णगुणः कृष्णः । यः इदानीं उभयगुणः सः तृतीयां आख्यां लभते कल्माषः इति वा सारङ्गः इति वा । एवं इह अपि उदात्तगुणः उदात्तः अनुदात्तगुणः अनुदात्तः । यः इदानीं उभयवान्स तृतीयां आख्यां लभते स्वरितः इति ।
पाणिनीयसूत्र १,२।३२।१) कि.,२०८।११-२०९।४ रो.,४८-५० अर्धह्रस्वं इति उच्यते । तत्र दीर्घप्लुतयोः न प्राप्नोति । कन्या शक्तिके३ शक्तिके । न एषः दोषः । मात्रचः अत्र लोपः द्रष्टव्यः । अर्धह्रस्वमात्रं अर्धह्रस्वं इति । किमर्थं इदं उच्यते । आमिश्रीभूतं इव इदं भवति । तत्यथा : क्षीरोदके सम्पृक्ते* आमिश्रीभूतत्वात्न ज्ञायते : कियत्क्षीरं कियतुदकं कस्मिनवकाशे क्षीरं कस्मिनवकाशे उदकं इति । एवं इह अपि आमिश्रीभूतत्वात्न ज्ञायते : कियतुदात्तं कियतनुदात्तं कस्मिनवकाशे उदात्तं कस्मिनवकाशे अनुदात्तं इति । तताचार्यः सुहृत्भूत्वा अन्वाचष्टे : इयतुदात्तं इयतनुदात्तं अस्मिनवकाशे उदात्तं अस्मिनवकाशे अनुदात्तं इति । यदि अयं एवं सुहृत्किं अन्यानि अपि एवञ्जातीयकानि न उपदिशति । कानि पुनः तानि । स्थानकरणानुप्रदानानि । व्याकरणं नाम इयं उत्तरा विद्या । सः असौ छन्दःशास्त्रेषु अभिविनीतः उपलब्ध्या अवगन्तुं उत्सहते । यदि एवं न अर्थः अनेन । इदं अपि उपलब्ध्या गमिष्यति । सञ्ज्ञाकरणं तर्हि इदं : तस्य स्वरितस्य आदितः अर्धह्रस्वं उदात्तसञ्ज्ञं इति । किं कृतं भवति । त्रिः उदात्तप्रदेशेषु स्वरितग्रहणं न कर्तव्यं भवति : उदात्तस्वरितपरस्य सन्नतरः , उदात्तस्वरितयोः यणः स्वरितः अनुदात्तस्य न उदात्तस्वरितोदयं इति । सञ्ज्ञाकरणं हि नाम यतः न लघीयः । कुतः एतत। लघ्वर्थं हि सञ्ज्ञाकरणं । लघीयः च त्रिः उदात्तप्रदेशेषु स्वरितग्रहणं न पुनः सञ्ज्ञाकरणं । त्रिः उदात्तप्रदेशेषु स्वरितग्रहणे नव अक्षराणि सञ्ज्ञाकरणे पुनः एकादश । एवं तर्हि उभयं अनेन क्रियते अन्वाख्यानं च सञ्ज्ञा च । कथं पुनः एकेन यत्नेन उभयं लभ्यं । लभ्यं इति आह । कथं । अन्वर्थग्रहणं विज्ञास्यते : तस्य स्वरितस्य आदितः अर्धह्रस्व्रं उदात्तसञ्ज्ञं भवति इति । ऊर्ध्वं आत्तं इति च अतः उदात्तं । यदि तर्हि सञ्ज्ञाकरणं उदात्तादेः यतुच्यते तत्स्वरितादेः अपि प्राप्नोति । अन्वाख्यानं एव तर्हि इदं मन्दबुद्धेः ।
पाणिनीयसूत्र १,२।३२।२) कि.,२०९।५-२५ रो.,५०-५२ (कात्यायन वार्तिक)स्वरितस्यार्धह्रस्वोदात्ताता उदात्तस्वरितपरस्यसन्नतरातूर्ध्वं उदात्तादनुदात्तस्यस्वरितात्कार्यं स्वरितातिति सिद्ध्यर्थम्(वार्तिकान्त) । स्वरितस्यार्धह्रस्वोदात्ताता उदात्तस्वरितपरस्यसन्नतरः इति एतस्मात्सूत्रातिदं सूत्रकाण्डं ऊर्ध्वं उदात्तातनुदात्तस्य स्वरितः इति अतः कार्यं । किं प्रयोजनं । स्वरितातिति सिद्ध्यर्थं । स्वरितातिति सिद्धिः यथा स्यात। स्वरितात्संहितायां अनुदात्तानां इति : इमं मे गङ्गे यमुने सरस्वति शुतुद्रि । क्व तर्हि स्यात। यः सिद्धः स्वरितः : कार्यं देवदत्तयज्ञदत्तौ । (कात्यायन वार्तिक)स्वरितोदात्तार्थं च(वार्तिकान्त) । स्वरितोदात्तार्थं च तत्र एव कर्तव्यं । न सुब्रह्मण्यायां स्वरितस्य तु उदात्तः : इन्द्र अगच्छ । क्व तर्हि स्यात। यः सिद्धः स्वरितः : सुब्रह्मण्यों इन्द्र अगच्छ । (कात्यायन वार्तिक)स्वरितोदात्तात्च अस्वरितार्थम्(वार्तिकान्त) । स्वरितोदात्तात्च अस्वरितार्थं तत्र एव कर्तव्यं । इन्द्र अगच्छ हरिवः अगच्छ । (कात्यायन वार्तिक)स्वरितपरसन्नतरार्थं च(वार्तिकान्त) । स्वरितपरसन्नतरार्थं च तत्र एव कर्तव्यं । उदात्तस्वरितपरस्य सन्नतरः : मणवक जटिलकाध्यापक न्यङ। क्व तर्हि स्यात। यः सिद्धः स्वरितः : मणवक जटिलकाभिरूपक क्व । तत्तर्हि वक्तव्यं । न वक्तव्यं । (कात्यायन वार्तिक)देवब्रह्मणोः अनुदात्तवचनं ज्ञापकं स्वरितातिति सिद्धत्वस्य(वार्तिकान्त) । देवब्रह्मणोः अनुदात्तवचनं ज्ञापकं सिद्धः इह स्वरितः इति । यदि एतत्ज्ञाप्यते स्वरितोदात्तपरस्य अनुदात्तस्य स्वरितत्वं प्राप्नोति । न ब्रूमः देवब्रह्मणोः अनुदात्तवचनं ज्ञापकं सिद्धः इह स्वरितः इति । किं तर्हि । परं एतत्काण्डं इति ।
पाणिनीयसूत्र १,२।३३।१) कि.,२१०।२-४ रो.,५३ किं इदं पारिभाषिक्याः सम्बुद्धेः ग्रहणं : एकवचनं सम्बुद्धिः आहोस्वितन्वर्थग्रहणं : सम्बोधनं सम्बुद्धिः इति । किं च अतः । यदि पारिभाषिक्याः देवाः ब्रह्माणः इति अत्र न प्राप्नोति । अथ अन्वर्थग्रहणं न दोषः । यथा न दोषः तथा अस्तु ।
पाणिनीयसूत्र १,२।३३।२) कि.,२१०।५-१७ रो.,५३-५४ किं पुनः इयं एकश्रुतिः उदात्ता आहोस्वितनुदात्ता । न उदात्ता । कथं ज्ञायते । यतयं उच्चैस्तरां वा वषट्कारः इति आह । कथं कृत्वा ज्ञापकं । अतन्त्रं तरनिर्देशः । यावतुच्चैः तावतुच्चैस्तरां इति । यदि तर्हि न उदात्ता अनुदात्ता । अनुदात्ता च न । कथं ज्ञायते । यतयं उदात्तस्वरितपरस्य सन्नतरः इति आह । कथं कृत्वा ज्ञापकं । अतन्त्रं तरनिर्देशः । यावत्सन्नः तावत्सन्नतरः इति । सा एषा ज्ञापकाभ्यां उदात्तानुदात्तयोः मध्यं एकश्रुतिः अन्तरालं ह्रियते । अपरः आह : किं पुनः इयं एकश्रुतिः उदात्ता उत अनुदात्ता । उदात्ता । कथं ज्ञायते । यतयं उच्चैस्तरां वा वषट्कारः इति आह । कथं कृत्वा ज्ञापकं । तन्त्रं तरनिर्देशः । उच्चैः दृष्ट्वा उच्चैस्तरां इति एतत्भवति । यदि तर्हि उदात्ता न अनुदात्ता । अनुदात्ता च । कथं ज्ञायते । यतयं उदात्तस्वरितपरस्य सन्नतरः इति आह । कथं कृत्वा ज्ञापकं । तन्त्रं तरनिर्देशः । सन्नं दृष्ट्वा सन्नतरः इति एतत्भवति । ते एते तन्त्रे तरनिर्देशे सप्त स्वराः भवन्ति : उदात्तः , उदात्ततरः , अनुदात्तः , अनुदात्तरः , स्वरितः , स्वरिते यः उदात्तः सः अन्येन विशिष्तः , एकश्रुतिः सप्तमः ।
पाणिनीयसूत्र १,२।३७) कि.,२१०।१९-२११।१४ रो.,५५-५६ (कात्यायन वार्तिक)सुब्रह्मण्यायं ओकारः उदात्तः(वार्तिकान्त) । सुब्रह्मण्यायं ओकारः उदात्तः भवति : सुब्रह्मण्यों । (कात्यायन वार्तिक)आकारः आख्याते परादिः च(वार्तिकान्त) । आकारः आख्याते परादिः च उदात्तः भवति : इन्द्र अगच्छ । हरिवः अगच्छ । (कात्यायन वार्तिक)वाक्यादौ च द्वे द्वे(वार्तिकान्त) । वाक्यादौ च द्वे द्वे उदात्ते भवतः : इन्द्र अगच्छ । हरिवः अगच्छ । (कात्यायन वार्तिक)मघवन्वर्जं (वार्तिकान्त)। अगच्छ मघवन। (कात्यायन वार्तिक)सुत्यापराणां अन्तः(वार्तिकान्त) । सुत्यापराणां अन्तः उदात्तः भवति : द्व्यहे सुत्यं । त्र्यहे सुत्यं । (कात्यायन वार्तिक)असौ इति अन्तः(वार्तिकान्त) । असौ इति अन्तः उदात्तः भवति : गार्ग्यः यजते । वात्स्यः यजते । (कात्यायन वार्तिक)अमुष्य इति अन्तः (वार्तिकान्त)। अमुष्य इति अन्तः : दाक्षेः पित यजते । (कात्यायन वार्तिक)स्यान्तस्य उपोत्तमं च(वार्तिकान्त) । स्यान्तस्य उपोत्तमं उदात्तं भवति अन्तः च । गार्ग्यस्य पित यजते । वात्स्यस्य पित यजते । (कात्यायन वार्तिक)वा नामधेयस्य(वार्तिकान्त) । वा नामधेयस्य स्यान्तस्य उपोत्तमं उदात्तं भवति : देवदत्तस्य पित यजते । देवदत्तस्य पित यजते ।
पाणिनीयसूत्र १,२।३८) कि.,२११।१६-१७ रो.,५६-५७ (कात्यायन वार्तिक)देवब्रह्मणोः अनुदात्तत्वं एके(वार्तिकान्त) । देवब्रह्मणोः अनुदात्तत्वं एके इच्छन्ति : देवाः ब्रह्माणः । देवाः ब्रह्माणः ।
पाणिनीयसूत्र १,२।३९) कि.,२११।१९-२१२।१७ रो.,५७-५९ (कात्यायन वार्तिक)स्वरितात्संहितायां अनुदात्तानां इति चेत्द्व्येकयोः ऐकश्रुत्यवचनम्(वार्तिकान्त) । स्वरितात्संहितायां अनुदात्तानां इति चेत्द्व्येकयोः ऐकश्रुत्यं वक्तव्यं : अग्निवेश्यः पचति । किं पुनः कारणं न सिध्यति । बहुवचनेन निर्देशः क्रियते । तेन बहूनां ऐकश्रुत्यं स्यात्द्व्येकयोः न स्यात। न एषः दोषः । न अत्र निर्देशः तन्त्रं । कथं पुनः तेन एव निर्देशः क्रियते तत्च अतन्त्रं स्यात। तत्कारी च भवान्तद्द्वेषी च । नान्तरीयकत्वातत्र बहुवचनेन निर्देशः क्रियते : अवश्यं कया चित्विभक्त्या केन चित्वचनेन निर्देशः कर्तव्यः इति । तत्यथा : कः चितन्नार्थी शालिकलापं सपलालं सतुषं आहरति नान्तयीयकत्वात। सः यावतादेयं तावतादाय तुषपलालानि उत्सृजति । तथा कः चित्मांसार्थी मत्स्यान्सकण्टकान्सशकलानाहरति नान्तयीयकत्वात। सः यावतादेयं तावतादाय शकलकण्टकानुत्सृजति । एवं इह अपि नान्तरीयकत्वात्बहुवचनेन निर्देशः क्रियते । अविशेषेण ऐकश्रुत्यं । (कात्यायन वार्तिक)अविशेषेण ऐकश्रुत्यं इति चेत्व्यवहितानां अप्रसिद्धिः(वार्तिकान्त) । अविशेषेण ऐकश्रुत्यं इति चेत्व्यवहितानां ऐकश्रुत्यं न प्राप्नोति : इमं मे गङ्गे यमुने सरस्वति शुतुद्रि । (कात्यायन वार्तिक)अनेकं अपि इति तु वचनात्सिद्धम्(वार्तिकान्त) । अनेकं अपि एकं अपि स्वरितात्परं संहितायां एकश्रुति भवति इति वक्तव्यं । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं : स्वरितात्संहितायां अनुदात्तानां इति चेत्द्व्येकयोः ऐकश्रुत्यवचनं । अविशेषेण ऐकश्रुत्यं व्यवहितानां अप्रसिद्धिः इति । न एषः दोषः । कथं । एकशेषनिर्देशः अयं अनुदात्तस्य च : अनुदात्तयोः च अनुदात्तानां च अनुदात्तानां इति । एवं अपि षट्प्रभृतीनां एव प्राप्नोति । षट्प्रभृतिषु एकशेषः परिसमाप्यते । प्रत्येकं वाक्यपरिसमाप्तिः दृष्टा इति द्व्येकयोः अपि भविष्यति ।
पाणिनीयसूत्र १,२।४१) कि.,२१२।१९-२१३।२४ रो.,५९-६२ (कात्यायन वार्तिक)अपृक्तसञ्ज्ञायां हल्ग्रहणं स्वादिलोपे हलः अग्रहणार्थम्(वार्तिकान्त) । अपृक्तसञ्ज्ञायां हल्ग्रहणं कर्तव्यं । एकहल्प्रत्ययः अपृक्तसञ्ज्ञः भवति इति वक्तव्यं । किं प्रयोजनं । स्वादिलोपे हलः अग्रहणार्थं । स्वादिलोपे हलः ग्रहणं न कर्तव्यं भवति : हल्ङ्याब्भ्यः दीर्घात्सुतिसि अपृक्तं हलिति अपृक्तस्य इति एव सिद्धं । अणिञोः लुगर्थं अल्ग्रहणं । अणिञोः लुगर्थं अल्ग्रहणं कर्तव्यं । किं प्रयोजनं । अणिञोः लुकि ग्रहणं न कर्तव्यं भवति : ण्यक्षत्रियार्षञितः यूनि लुकणिञोः इति अपृक्तस्य इति एव सिद्धं । (कात्यायन वार्तिक)अणिञोः लुगर्थं इति चेत्णे अतिप्रसङ्गः(वार्तिकान्त) । अणिञोः लुगर्थं इति चेत्णे अतिप्रसङ्गः भवति । इह अपि प्राप्नोति : फाण्टाहृतेः अपत्यं माणवकः पःआण्टाहृतः इति । णवचनसामार्थ्यात्न भविष्यति । (कात्यायन वार्तिक)वचनप्रामाण्यातिति चेत्फग्निवृत्त्यर्थं वचनम्(वार्तिकान्त) । वचनप्रामाण्यातिति चेत्फग्निवृत्त्यर्थं एतत्स्यातः फकतः मा भूतिति । (कात्यायन वार्तिक)पैलादिषु वचनात्सिद्धम्(वार्तिकान्त) । यदि एतावत्प्रयोजनं स्यात्पैलादिषु एव पाठं कुर्वीत । तत्र पाठातन्येषां अपि फकः निवृत्तिः भवति । एवं सिद्धे सति यतयं णं शास्ति तत्ज्ञापयति आचार्यः न अस्य लुक्भवति इति । तानि एतानि त्रीणि ग्रहणानि भवन्ति । अपृक्तसञ्ज्ञायां हल्ग्रहणं कर्तव्यं । स्वादिलोपे हलः ग्रहणं न कर्तव्यं । अणिञोः लुकि ग्रहणं कर्तव्यं । अल्ग्रहणे अपि वै क्रियमाणे तानि एव त्रीणि ग्रहणानि भवन्ति । अपृक्तसञ्ज्ञायां अल्ग्रहणं कर्तव्यं । स्वादिलोपे हलः ग्रहणं कर्तव्यं । अणिञोः लुकि ग्रहणं न कर्तव्यं भवति । अपृक्तग्रहणं कर्तव्यं । तत्र न अस्ति लाघवकृतः विशेषः । अयं अस्ति विशेषः : अल्ग्रहणे क्रियमाणे एकग्रहणं न करिष्यते । कस्मात्न भवति दर्विः , जागृविः । अलेव यः प्रत्ययः । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । अल्ग्रहणसामर्थ्यात। यदि यः अल्च अन्यः च तत्र स्यातल्ग्रहणं अनर्थकं स्यात। हल्ग्रहणे अपि क्रियमाणे एकग्रहणं न करिष्यते । कस्मात्न भवति दर्विः जागृविः । हलेव यः प्रत्ययः । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । हल्ग्रहणसामर्थ्यात। यदि यः हल्च अन्यः च तत्र स्यात्हल्ग्रहणं अनर्थकं स्यात। अस्ति अन्यत्हल्ग्रहणस्य प्रयोजनं । किं । हलन्तस्य यथा स्यातलन्तस्य मा भूतिति । एवं तर्हि सिद्धे सति यतल्ग्रहणे क्रियमाणे एकग्रहणं करोति तत्ज्ञापयति आचार्यः अन्यत्र वर्णग्रहणे जातिग्रहणं भवति इति । किं एतस्य ज्ञापने प्रयोजनं । दम्भेः हल्ग्रहणस्य जातिवाचकत्वात्सिद्धं इति उक्तं । ततुपपन्नं भवति ।
पाणिनीयसूत्र १,२।४२) कि.,२१४।२-११ रो.,६२-६३ (कात्यायन वार्तिक)तत्पुरुषः समानाधिकरणः कर्मधारयः इति चेत्समासैकार्थत्वातप्रसिद्धिः(वार्तिकान्त) । तत्पुरुषः समानाधिकरणः कर्मधारयः इति चेत्समासस्य एकार्थत्वात्सञ्ज्ञायाः अप्रसिद्धिः । एकः अयं अर्थः तत्पुरुषः नाम अनेकार्थाश्रयं च सामानाधिकरण्यं । (कात्यायन वार्तिक)सिद्धं तु पदसामानाधिकरण्यात्(वार्तिकान्त) । सिद्धं एतत। कथं । तत्पुरुषः समानाधिकरणपदः कर्मधारयसञ्ज्ञः भवति इति वक्तव्यं । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं तत्पुरुषः समानाधिकरणः कर्मधारयः इति चेत्समासैकार्थत्वातप्रसिद्धिः इति । न एषः दोषः । अयं तत्पुरुषः अस्ति प्राथमकल्पिकः यस्मिनैकपद्यं ऐकस्वर्यं एकविभक्तिकत्वं च । अस्ति तादर्थ्यात्ताच्छब्द्यं ; तत्पुरुषार्थानि पदानि तत्पुरुषः इति । तत्यः तादर्थ्यात्ताच्छब्द्यं तस्य इह ग्रहणं ।
पाणिनीयसूत्र १,२।४३।१) कि.,२१४।१३-२२ रो.,६३-६४ (कात्यायन वार्तिक)प्रथमानिर्दिष्टं समासे उपसजनं इति चेतनिर्देशात्प्रथमायाः समासे सञ्ज्ञाप्रसिद्धिः(वार्तिकान्त) ।प्रथमानिर्दिष्टं समासे उपसजनं इति चेतनिर्देशात्प्रथमायाः समासे सञ्ज्ञायाः अप्रसिद्धिः । न हि कष्टादीनां समासे प्रथमां पश्यामः । (कात्यायन वार्तिक)सिद्धं तु समासविधाने वचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । समासविधाने प्रथमानिर्दिष्टं उपसर्जनसञ्ज्ञं भवति इति वक्तव्यं । तत्तर्हि वक्तव्यं । (कात्यायन वार्तिक)न वा तादर्थ्यात्ताच्छब्द्यम्(वार्तिकान्त) । न वा वक्तव्यं । किं कारणं । तादर्थ्यात्ताच्छब्द्यं भवति। समासार्थं शास्त्रं समासः इति ।
पाणिनीयसूत्र १,२।४३।२) कि.,२१५।१-२१ रो.,६४-६७ (कात्यायन वार्तिक)यस्य विधौ प्रथमानिर्देशः ततः अन्यत्र अपि उपसर्जनसञ्ज्ञाप्रसङ्गः(वार्तिकान्त) । यस्य विधौ प्रथमानिर्देशः क्रियते ततः अन्यत्र अपि तस्य उपसर्जनसञ्ज्ञा प्राप्नोति : रज्ञः कुमारीं राजकुमारीं श्रितः । श्रितादिसमासे द्वितीयान्तं प्रथमानिर्दिष्टं । तस्य षष्ठीसमासे अपि उपसर्जनसञ्ज्ञा प्राप्नोति । (कात्यायन वार्तिक)सिद्धं तु यस्य विधौ तं प्रति इति वचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । यस्य विधौ यत्प्रथमानिर्दिष्टं तं प्रति ततुपसर्जनसञ्ज्ञं भवति इति वक्तव्यं । तत्तर्हि वक्तव्यं । न वक्तव्यं । उपसर्जनं इति महती सञ्ज्ञा क्रियते । सञ्ज्ञा च नाम यतः न लघीयः । कुतः एतत। लघ्वर्थं हि सञ्ज्ञाकरणं । तत्र महत्याः सञ्ज्ञायाः करणे एतत्प्रयोजनं अन्वर्थसञ्ज्ञा यथा विज्ञायेत । अप्रधानं उपसर्जनं इति । प्रधानं उपसर्जनं इति च सम्बन्धिशब्दौ एतौ । तत्र सम्बन्धातेतत्गन्तव्यं : यं प्रति यतप्रधानं तं प्रति ततुपसर्जनस्ञ्ज्ञं भवति इति । अथ यत्र द्वे षष्ठ्यन्ते कस्मात्तत्र प्रधानस्य उपसर्जनसञ्ज्ञा न भवति : राज्ञः पुरुषस्य राजपुरुषस्य इति । (कात्यायन वार्तिक)षष्ठ्यन्तयोः उपसर्जनत्वे उक्तम्(वार्तिकान्त) । किं उक्तं । षष्ठ्यन्तयोः समासे अर्थाभेदात्प्रधानस्य अपूर्वनिपातः इति । एवं न च इदं अकृतं भवेतुप्सर्जनं पूर्वं इति अर्थः च अभिन्नः इति कृत्वा प्रधानस्य पूर्वनिपातः न भविष्यति । यदि अपि तावतेततुपसर्जनकार्यं परिहृतं इदं अपरं प्राप्नोति । राज्ञः कुमार्याः राजकुमार्याः । गोस्त्रियोः उपसर्जनस्य इति ह्रस्वत्वं प्राप्नोति । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । परवत्लिङ्गं इति शब्दशब्दार्थौ इति । तत्र औपदेशिकस्य ह्रस्वत्वं । आतिदेशिकस्य श्रवणं भविष्यति ।
पाणिनीयसूत्र १,२।४४।१) कि.,२१५ २३-२१६।५ रो.,६७-६८ द्वितीयादीनां अपि अनेन उपसर्जनसञ्ज्ञा प्राप्नोति । तत्र कः दोषः । तत्र अपूर्वनिपाते इति प्रतिषेधः प्रसज्येत । न अप्रतिषेधात। न अयं प्रसज्यप्रतिषेधः : पूर्वनिपाते न इति । किं तर्हि । पर्युदासः अयं : यतन्यत्पूर्वनिपातातिति । पूर्वनिपाते अव्यापारः । यदि केन चित्प्राप्नोति तेन भविष्यति । पूर्वेण च प्राप्नोति । तेन भविष्यति । अप्राप्तेः वा । अथ वा अनन्तरा या प्राप्तिः सा प्रतिषिध्यते । कुतः एतत। अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति ।
पाणिनीयसूत्र १,२।४४।२) कि.,२१६।६-११ रो.,६८ (कात्यायन वार्तिक)एकविभक्तौ अषष्ठ्यन्तवचनम्(वार्तिकान्त) । एकविभक्तौ अषष्ठ्यन्तानां इति वक्तव्यं । इह मा भूतः अर्धं पिप्पल्याः अर्धपिप्पली इति । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । परवत्लिङ्गं इति शब्दशर्दार्थौ इति । तत्र औपदेशिकस्य ह्रस्वत्वं । आतिदेशिकस्य श्रवणं भविष्यति ।
पाणिनीयसूत्र १,२।४४।३) कि.,२१६।१२-१६ रो.,६८ कानि पुनः अस्य योगस्य प्रयोजनानि । (कात्यायन वार्तिक)प्रयोजनं द्विगुप्राप्तापन्नालम्पूर्वोपसर्गाः क्तार्थे(वार्तिकान्त) । द्विगुः : पञ्चभिः गोभिः क्रीतः पञ्चगुः । प्राप्तापन्न : प्राप्तः जिविकां प्राप्तजीविकः । आपन्नः जीविकां आपन्नजीविकः । अलम्पूर्व : अलं कुमार्यै अलङ्कुमारिः । उपसर्गाः क्तार्थे : निष्कौशाम्बिः निर्वाराणसिः ।
पाणिनीयसूत्र १,२।४५।१) कि.,२१७।२-१० रो.,६९-७१ अर्थवतिति व्यपदेशाय : वर्णानां च मा भूतिति । किं च स्यात। वनं , धनं इति नलोपः प्रातिपदिकान्तस्य इति नलोपः प्रसज्येत । अधातुः इति किमर्थं । अहन्वृत्रं इति । अधातुः इति शक्यं अकर्तुं । कस्मात्न भवति अहन्वृत्रं इति । आचार्यप्रवृत्तिः ज्ञापयति न धातोः प्रातिपदिकसञ्ज्ञा भवति इति यतयं सुपः धातुप्रातिपदिकयोः इति धातुग्रहणं करोति । न एततस्ति ज्ञापकं । प्रतिषिद्धार्थं एतत्स्यातः अपि काकः श्येनायते इति । अप्रत्ययः इति किमर्थं । काण्डे कुड्ये । अप्रत्ययः इति शक्यं अकर्तुं । कस्मात्न भवति काण्डे कुड्ये* इति । कृत्तद्धितग्रहणं नियमार्थं भविष्यति : कृत्तद्धितान्तस्य एव प्रत्ययान्तस्य प्रातिपदिकसञ्ज्ञा भवति न अन्यस्य इति ।
पाणिनीयसूत्र १,२।४५।२) कि.,२१७।११-२१९।९ रो.,७१-७७ (कात्यायन वार्तिक)अर्थवति अनेकपदप्रसङ्गः(वार्तिकान्त) । अर्थवति प्रातिपदिकसञ्ज्ञायां अनेकस्य अपि पदस्य प्रातिपदिकसञ्ज्ञा प्राप्नोति : दश दाडिमानि षटपूपाः कुण्डं अजाजिनं पललपिण्डः अधोरुकं एतत्कुमार्याः स्फैयकृतस्य पिता प्रतिशीनः इति । समुदायः अनर्थकः । (कात्यायन वार्तिक)समुदायः अनर्थकः इति चेतवयवार्थवत्त्वात्समुदायार्थवत्त्वं यथा लोके(वार्तिकान्त) । समुदायः अनर्थकः इति चेतवयवैः अर्थवद्भिः समुदायाः अपि अर्थवन्तः भवन्ति यथा लोके । तत्यथा लोके आढ्यं इदं नगरं , गोमतिदं नगरं इति उच्यते न च तत्र सर्वे आढ्याः भवन्ति सर्वे वा गोमन्तः । यथा लोके इति उच्यते लोके च अवयवाः एव अर्थवन्तः न समुदायः । आतः च अवयवाः एव अर्थवन्तः न समुदायः । यस्य हि तत्द्रव्यं भवति सः तेन कार्यं करोति यस्य च गावः सन्ति सः तासां क्षीरं घृतं च उपभुङ्क्ते । अन्यैः एतत्द्रष्टुं अपि अशक्यं । का तर्हि इयं वाचोयुक्तिः : आढ्यं इदं नगरं , गोमतिदं इति । एषा एषा वाचोयुक्तिः : इह तावताढ्यं इदं नगरं इति अकारः मत्वर्थीयः : आढ्याः अस्मिन्सन्ति इति ततिदं आढ्यं इति । गोमतिदं इति मत्वन्तात्मत्वर्थीयः लुप्यते । एवं अपि (कात्यायन वार्तिक)वाक्यप्रतिषेधः अर्थवत्त्वात्(वार्तिकान्त) । वाक्यस्य प्रातिपदिकस्ञ्ज्ञायाः प्रतिषेधः वक्तव्यः : देवदत्त गां अभ्याज शुक्लां । देवदत्त गां अभ्याज कृष्णां इति । किं कारणं । अर्थवत्त्वात। अर्थवत्हि एतत्वाक्यं भवति । न वै पदार्थातन्यस्य अर्थस्य उपलब्धिः भवति वाक्ये । (कात्यायन वार्तिक)पदार्थातन्यस्य अनुपलब्धिः इति चेत्पदार्थाभिसम्बन्धस्य उपलब्धिः(वार्तिकान्त) । पदार्थातन्यस्य अनुपलब्धिः इति चेतेवं उच्यते : पदार्थाभिसम्बन्धस्य उपलब्धिः भवति वाक्ये । इह देवदत्त इति उक्ते कर्ता निर्दिष्टः कर्म क्रियागुणौ च अनिर्दिष्टौ । गां इति उक्ते कर्म निर्दिष्टं कर्ता क्रियागुणौ च अनिर्दिष्टौ । अभ्याज इति उक्ते क्रिया निर्दिष्टा कर्तृकर्मणी गुणः च अनिर्दिष्टः । शुक्लां इति उक्ते गुणः निर्दिष्टः कर्तृकर्मणी क्रिया च अनिर्दिष्टा । इह इदानीं देवदत्त गां अभ्याज शुक्लां इति उक्ते सर्वं निर्दिष्टं भवति : देवदत्तः एव कर्ता न अन्यः । गौः एव कर्म न अन्यत। अभ्याजिः एव क्रिया न अन्या । शुक्लां एव न कृष्णां इति । एतेषां पदानां सामान्ये वर्तमानानां यद्विशेषे अवस्थानं सः वाक्यार्थः । (कात्यायन वार्तिक)तस्मात्प्रतिषेधः(वार्तिकान्त) । तस्मात्प्रतिषेधः वक्तव्यः । न वक्तव्यः । (कात्यायन वार्तिक)अर्थवत्समुदायानां समासग्रहणं नियमार्थम्(वार्तिकान्त) । अर्थवत्समुदायानां समासग्रहणं नियमार्थं भविष्यति : समासः एव अर्थवतां समुदायायानां प्रातिपदिकसञ्ज्ञः भवति न अन्यः इति । यदि नियमः क्रियते प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसञ्ज्ञा न प्राप्नोति : बहुपटवः , उच्चकैः इति । किं पुनः अत्र प्रातिपदिकसञ्ज्ञया प्रार्थ्यते । प्रातिपदिकातिति स्वाद्युत्पत्तिः यथा स्यात। न एषः दोषः । यथा एव अत्र अप्रातिपदिकत्वात्स्वाद्युत्पत्तिः न भवति एवं लुकपि न भविष्यति । तत्र या एव अन्तर्वर्तिनी विभक्तिः तस्याः एव श्रवणं भविष्यति । न एवं शक्यं । स्वरे हि दोषः स्यात। बहुपटवः इति एवं स्वरः प्रसज्येत बहुपटवः इति च इष्यते । पठिष्यति हि आचार्यः : चितः सप्रकृतेः बह्वकजर्थं इति । तस्यां पुनः लुप्तायं या अन्या विभक्तिः उत्पद्यते तस्याः प्रकृत्यनेकदेशत्वातन्तोदात्तत्वं न भविष्यति । एवं तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवति प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसञ्ज्ञा इति यतयं अप्रययः इति प्रतिषेधं शास्ति । सः च तदन्तप्रतिषेधः । सः तर्हि ज्ञापकार्थः प्रत्ययप्रतिषेधः वक्तव्यः । ननु च अयं प्राप्त्यर्थः अपि वक्तव्यः । न अर्थः प्राप्त्यर्थेन । कृत्तद्धितग्रहणं नियमार्थं भविष्यति : कृत्तद्धितान्तस्य एव प्रत्ययान्तस्य प्रातिपदिकसञ्ज्ञा भविष्यति न अन्यस्य प्रत्ययान्तस्य इति । सः एषः अनन्यार्थः प्रत्ययप्रतिषेधः वक्तव्यः प्रकृतिप्रत्ययसमुदायस्य वा प्रातिपदिकसञ्ज्ञा वक्तव्या । उभयं न वक्तव्यं । तुल्यजातीयस्य नियमः । कः च तुल्यजातीयः । यथाजातीयकानां समासः । कथञ्जातीयकानां समासः । सुबन्तानां । सुप्तिङ्समुदायस्य तर्हि प्रातिपदिकसञ्ज्ञा प्राप्नोति । सुप्तिङ्समुदायस्य प्रातिपदिकसञ्ज्ञा आरभ्यते : जहि कर्मणा बहुलं आभीक्ष्ण्ये कर्तारं च अभिदधाति इति । तत्नियमार्थं भविष्यति : एतस्य एव सुप्तिङ्समुदायस्य प्रातिपदिकसञ्ज्ञा भवति न अन्यस्य इति । तिङ्समुदायस्य तर्हि प्रातिपदिकसञ्ज्ञा प्राप्नोति । तिङ्समुदायस्य अपि प्रातिपदिकसञ्ज्ञा आरभ्यते : आख्यातं आख्यातेन क्रियासातत्ये इति । तत्नियमार्थं भविष्यति : एतस्य एव तिङ्समुदायस्य प्रातिपदिकसञ्ज्ञा भवति न अन्यस्य इति ।
पाणिनीयसूत्र १,२।४५।३) कि.,२१९।१०-२२०।८ रो.,७७-७९ (कात्यायन वार्तिक)अर्थवत्ता न उपपद्यते केवलेन अवचनात्(वार्तिकान्त) । अर्थवत्ता न उपपद्यते वृक्षशब्दस्य । किं कारणं । केवलेन अवचनात। न केवलेन वृक्षशब्देन अर्थः गम्यते । केन तर्हि । सप्रत्ययकेन । (कात्यायन वार्तिक)न वा प्रत्ययेन नित्यसम्बन्धात्केवलस्य अप्रयोगः(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । प्रत्ययेन नित्यसम्बन्धात। नित्यसम्बन्धौ एतौ अर्थौ प्रकृतिः प्रत्ययः इति । प्रत्ययेन नित्यसम्बन्धात्केवलस्य अप्रयोगः न भविष्यति । अन्यत्भवान्पृष्टः अन्यताचष्टे । आम्रान्पृष्टः कोविदारानाचष्टे । अर्थवत्ता न उपपद्यते केवलेन अवचनातिति भवानस्माभिः चोदितः केवलस्य अप्रयोगे हेतुं आह । एवं च किल नाम कृत्वा चोद्यते : समुदायस्य अर्थे प्रयोगातवयवानां अप्रसिद्धिः इति । (कात्यायन वार्तिक)सिद्धं तु अन्वयव्यतिरेकाभ्याम्(वार्तिकान्त) । सिद्धं एतत। कथं । अन्वयात्व्यतिरेकात्च । कः असौ अन्वयः व्यतिरेकः वा । इह वृक्षः इति उक्ते कः चित्शब्दः श्रूयते : वृक्षशब्दः अकारान्तः सकारान्तः च प्रत्ययः । अर्थः अपि कः चित्गम्यते : मूलस्कन्धफलपलाशवानेकत्वं च । वृक्षौ इति उक्ते कः चित्शब्दः हीयते कः चितुपजायते कः चितन्वयी : सकारः हीयते , औकारः उपजायते वृक्षशब्दः अकारान्तः अन्वयी । अर्थः अपि कः चित्हीयते कः चितुपजायते कः चितन्वयी : एकत्वं हीयते द्वित्वं उपजायते मूलस्कन्धफलपलाशवानन्वयी । ते मन्यामहे : यः शब्दः हीयते तस्य असौ अर्थः यः अर्थः हीयते । यः शब्दः उपजायते तस्य असौ अर्थः यः अर्थः उपजायते । यः शब्दः अन्वयी तस्य असौ अर्थः यः अर्थः अन्वयी। विषमः उपन्यासः । बहवः हि शब्दाः एकार्थाः भवन्ति । तत्यथा : इन्द्रः शक्रः पुरुहूतः पुरन्दरः , कन्दुः कोष्ठः कुशूलः इति । एकः च शब्दः बह्वर्थः । तत्यथा : अक्षाः पादाः माषाः इति । अतः किं न साधीयः अर्थवत्ता सिद्धा भवति । न ब्रूमः अर्थवत्ता न सिध्यति इति ।वर्णिता अर्थवत्ता अन्वयव्यतिरेकाभ्यां एव । तत्र कुतः एततः अयं प्रकृत्यर्थः अयं प्रत्ययार्थः इति न पुनः प्रकृतिः एव उभौ अर्थौ ब्रूयात्प्रत्ययः एव वा । सामान्यशब्दाः एते एवं स्युः । सामान्यशब्दाः च न अन्तरेण विशेषं प्रकरणं वा विशेषेषु अवतिष्ठन्ते । यतः तु नियोगतः वृक्षः इति उक्ते स्वभावतः कस्मिन्चिदर्थे प्रतीतिः उपजायते अतः मन्यामहे न इमे सामान्यशब्दाः इति । न चेत्सामान्यशब्दाः प्रकृतिः प्रकृत्यर्थे वर्तते प्रत्ययः प्रत्ययार्थे ।
पाणिनीयसूत्र १,२।४५।४) कि.,२२०।९-२४ रो.,७९-८० किं पुनः इमे वर्णाः अर्थवन्तः आहोस्वितनर्थकाः । (कात्यायन वार्तिक)वर्णस्य अर्थवदनर्थकत्वे उक्तम्(वार्तिकान्त) । किं उक्तं । अर्थवन्तः वर्णाः धातुप्रातिपदिकप्रत्ययनिपातानां एकवर्णानां अर्थदर्शनात। वर्णव्यत्यये च अर्थान्तरगमनात। वर्णानुपलब्धौ च अनर्थगतेः । सङ्घातार्थवत्त्वात्च । सङ्घातस्य ऐकार्थ्यात्सुबभावः वर्णात। अनर्थकाः तु प्रतिवर्णं अर्थानुपलब्धेः । वर्णव्यत्ययापायोपजनविकारेषु अर्थदर्शनातिति । तत्र इदं अपरिहृतं : सङ्घातार्थवत्त्वात्च इति । तस्य परिहारः । (कात्यायन वार्तिक)सङ्घातार्थवत्त्वात्च इति चेत्दृष्टः हिअतदर्थेन गुणेन गुणिनः अर्थभावः(वार्तिकान्त) । सङ्घातार्थवत्त्वात्च इति चेत्दृश्यते हि पुनः अतदर्थेन गुणेन गुणिनः अर्थभावः । तत्यथा । एकः तन्तुः त्वक्त्राणे असमर्थः तत्समुदायः च कम्बलः समर्थः । एकः तण्डुलः क्षुत्प्रतिघाते असमर्थः तत्समुदायः च वर्धतिकं समर्थः । एकः च बल्वजः बन्धने असमर्थः तत्समुदायः च रज्जुः समर्था भवति । विषमः उपन्यासः । भवति हि तत्र या च यावती च अर्थमात्रा । भवति हि किं चित्प्रति एकः तन्तुः त्वक्त्राणे समर्थः एकः च तण्डुलः क्षुत्प्रतिघाते समर्थः एकः च बल्वजः बन्धने समर्थः । इमे पुनः वर्णाः अत्यन्ताय एव अनर्थकाः । यथा तर्हि रथाङ्गानि विहृतानि प्रत्येकं व्रजिक्रियां प्रति असमर्थानि भवन्ति तत्समुदायः च रथः समर्थः एवं एषां वर्णानां समुदायाः अर्थवन्तः अवयवाः अनर्थकाः इति ।
पाणिनीयसूत्र १,२।४५।५) कि.,२२०।२५-२२१।१० रो.,८१-८२ (कात्यायन वार्तिक)निपातस्य अनर्थकस्य प्रातिपदिकत्वम्(वार्तिकान्त) । निपातस्य अनर्थकस्य प्रातिपदिकसञ्ज्ञा वक्तव्या । खञ्जति निखञ्जति लम्बते प्रलम्बते । किं पुनः अत्र प्रातिपदिकसञ्ज्ञया प्रार्थ्यते । प्रातिपदिकातिति स्वाद्युत्पत्तिः , सुबन्तं पदं इति पदसञ्ज्ञा , पदस्य पदातिति निघातः यथा स्यात। न एततस्ति प्रयोजनं । सत्यां अपि प्रातिपदिकसञ्ज्ञायां स्वाद्युत्पत्तिः न प्राप्नोति । किं कारणं । न हि प्रातिपदिकसञ्ज्ञायां एव स्वाद्युत्पत्तिः प्रतिबद्धा । किं तर्हि । एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते न च एषां एकत्वादयः सन्ति । न एषः दोषः । अविशेषेण उत्पद्यन्ते । उत्पन्नानां नियमः क्रियते । अथ वा प्रकृतार्थानपेक्ष्य नियमः । के च प्रकृताः । एकत्वादयः । एकस्मिनेव अर्थे एकवचनं न द्वयोः न बहुषु । द्वयोः एव द्विवचनं न एकस्मिन्न बहुषु । बहुषु एव अर्थेषु बहुवचनं न एकस्मिन्न द्वयोः इति । अथ वा आचार्यप्रवृत्तिः ज्ञापयति अनर्थकानां अपि एतेषां भवति अर्थवत्कृतं इति यतयं अधिपरी* अनर्थकौ इति अनर्थकयोः गत्युपसर्गसञ्जाबाधिकां कर्मप्रवचनीयसञ्ज्ञां शास्ति ।
पाणिनीयसूत्र १,२।४५।६) कि.,२२१।११-२२२।७ रो.,८२-८५ किं पुनः अयं पर्युदासः : यतन्यत्प्रत्ययाताहोस्वित्प्रसज्य अयं प्रतिषेधः : प्रत्ययः न इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)अप्रत्ययः इति चेत्तिबेकादेशे प्रतिषेधः अन्तवत्त्वात्(वार्तिकान्त) । अप्रत्ययः इति चेत्तिबेकादेशे प्रतिषेधः वक्तव्यः : काण्डे कुड्ये । किं कारणं । अन्तवत्त्वात। तिबतिपोः एकादेशः अतिपः अन्तवत्स्यात। अस्ति अन्यत्तिपः इति कृत्वा प्रातिपदिकसञ्ज्ञा प्राप्नोति । अस्तु तर्हि प्रसज्यप्रतिषेधः : प्रत्ययः न इति । (कात्यायन वार्तिक)न प्रत्ययः इति चेतूङेकादेशे प्रतिषेधः आदिवत्त्वात्(वार्तिकान्त) । न प्रत्ययः इति चेतूङेकादेशे प्रतिषेधः प्राप्नोति : ब्रह्मबन्धूः । किं कारणं । आदिवत्त्वात। प्रत्ययाप्रत्यययोः प्रत्ययस्य आदिवत्स्यात। तत्र प्रत्ययः न इति प्रतिषेधः प्राप्नोति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति उत्पद्यन्ते ऊङन्तात्स्वादयः इति यतयं न ऊङ्धात्वोः इति विभक्तिस्वरस्य प्रतिषेधं शाश्ति । अथ वा द्वे हि अत्र प्रातिपदिकसञ्ज्ञे : अवयवस्य अपि समुदायस्य अपि । तत्र अवयवस्य या प्रातिपदिकसञ्ज्ञा तया अन्तवद्भावात्स्वाद्युत्पत्तिः भविष्यति । (कात्यायन वार्तिक)सुब्लोपे च प्रत्ययलक्षणत्वात्(वार्तिकान्त) । सुब्लोपे च प्रत्ययलक्षणेन प्रतिषेधः प्राप्नोति : राजा तक्षा । प्रत्ययलक्षणेन प्रत्ययः न इति प्रतिषेधः प्राप्नोति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न प्रत्ययलक्षणेन प्रतिषेधः भवति इति यतयं न ङिसम्बुद्ध्योः इति प्रतिषेधं शास्ति । अथ वा पुनः अस्तु पर्युदासः । ननु च उक्तं : अप्रत्ययः इति चेत्तिबेकादेशे प्रतिषेधः अन्तवत्त्वातिति । प्रसज्यप्रतिषेधे अपि एषः दोषः । द्वे हि अत्र प्रातिपदिकसञ्ज्ञे : अवयवस्य अपि समुदायस्य अपि । गृह्यते च प्रातिपदिकाप्रातिपदिकयोः एकादेशः प्रातिपदिकग्रहणेन । तस्मातुभाभ्यां अपि वक्तव्यं स्यातः ह्रस्वः नपुंसके यत्तस्य इति । किं च नपुंसके । नपुंसकं यस्य गुणः । कस्य च नपुंसकं गुणः । प्रातिपदिकस्य ।
पाणिनीयसूत्र १,२।४६) कि.,२२२।९-११ रो.,८५ समासग्रहणं किमर्थं । (कात्यायन वार्तिक)समासग्रहणे उक्तम्(वार्तिकान्त) । किं उक्तं । अर्थवत्समुदायानां समासग्रहणं नियमार्थं इति ।
पाणिनीयसूत्र १,२।४७।१) कि.,२२२।१३-२२३।११ रो.,८५-८८ प्रातिपदिकग्रहणं किमर्थं । (कात्यायन वार्तिक)नपुंसकह्रस्वत्वे प्रातिपदिकग्रहणं तिब्निवृत्त्यर्थं (वार्तिकान्त)। नपुंसकह्रस्वत्वे प्रातिपदिकग्रहणं क्रियते तिब्निवृत्त्यर्थं । तिबन्तस्य ह्रस्वत्वं मा भूतः काण्डे कुड्ये । रमते ब्राह्मणकुलं । (कात्यायन वार्तिक)अव्ययप्रतिषेधः(वार्तिकान्त) । अव्ययानां प्रतिषेधः वक्तव्यः : दोषा ब्राह्मणकुलं दिवा ब्राह्मणकुलं इति । सः तर्हि वक्तव्यः । न वक्तव्यः । न अत्र अव्ययं नपुंसके वर्तते । किं तर्हि । अधिकरणं अत्र अव्ययं नपुंसकस्य । इह तर्हि प्राप्नोति : काण्डीभूतं वृषलकुलं , कुड्यीभूतं वृषलकुलं इति । (कात्यायन वार्तिक)न वा लिङ्गाभावात्(वार्तिकान्त) । न वा वक्तव्यं । किं कारणं । लिङ्गाभावात। अलिङ्गं अव्ययं । किं पुनः अयं अव्ययस्य एव परिहारः आहोस्वित्तिबन्तस्य अपि । तिबन्तस्य अपि इति आह । कथं । अव्ययं हि किं चित्विभक्त्यर्थप्रधानं किं चित्क्रियाप्रधानं । उच्चैः, नीचैः इति विभक्त्यर्थप्रधानं , हिरुक्पृथकिति क्रियाप्रधानं । तिबन्तं च अपि किं चित्विभक्त्यर्थप्रधानं किं चित्क्रियाप्रधानं । काण्डे कुड्ये* इति विभक्तर्थ्यप्रधानं , रमते ब्राह्मणकुलं इति क्रियाप्रधानं । न च एतयोः अर्थयोः लिङ्गसङ्ख्याभ्यां योगः अस्ति । अवश्यं च एततेवं विज्ञेयं । क्रियमाणे अपि हि प्रातिपदिकग्रहणे इह प्रसज्येत : काण्डे कुड्ये । द्वे हि अत्र प्रातिपदिकसञ्ज्ञे अवयवस्य अपि समुदायस्य अपि । गृह्यते च प्रातिपदिकाप्रातिपदिकयोः एकादेशः प्रातिपदिकग्रहणेन । तस्मातुभाभ्यां अपि वक्तव्यं स्यातः ह्रस्वः नपुंसके यत्तस्य इति । किं च नपुंसके । नपुंसकं यस्य गुणः । कस्य च नपुंसकं गुणः । प्रातिपदिकस्य ।
पाणिनीयसूत्र १,२।४७।२) कि.,२२३।१२-१६ रो.,८८ (कात्यायन वार्तिक)यञेकादेशदीर्घैत्त्वेषु प्रतिषेधः(वार्तिकान्त) । यञेकादेशदीर्घैत्त्वेषु प्रतिषेधः वक्तव्यः : युगवरत्राय युगवरत्रार्थं , युगवरत्रेभ्यः । (कात्यायन वार्तिक)यञेकादेशदीर्घैत्त्वेषु बहिरङ्गलक्षणत्वात्सिद्धम्(वार्तिकान्त) । बहिरङ्गाः एते विधयः । अन्तरङ्गं ह्रस्वत्वं । असिद्धं बहिरङ्गं अन्तरङ्गे ।
पाणिनीयसूत्र १,२।४८।१) कि.,२२३।१८-२१ रो.,८८-८९ (कात्यायन वार्तिक)उपसर्जनह्रस्वत्वे च(वार्तिकान्त) । उपसर्जनह्रस्वत्वे च । किं । यञेकादेशदीर्घैत्त्वेषु प्रतिषेधः वक्तव्यः : अतिखट्वाय अतिखट्वार्थं अतिखट्वेभ्यः । उपसर्जनह्रस्वत्वे च । किं । बहिरङ्गलक्षणत्वात्सिद्धं इति एव । बहिरङ्गाः एते विधयः । अन्तरङ्गं ह्रस्वत्वं । असिद्धं बहिरङ्गं अन्तरङ्गे ।
पाणिनीयसूत्र १,२।४८।२) कि.,२२३।२२-२२५।१४ रो.,८९-९४ (कात्यायन वार्तिक)गोटाङ्ग्रहणं कृन्निवृत्त्यर्थम्(वार्तिकान्त) । गोटाङ्ग्रहणं कर्तव्यं । किं इदं टाङिति । प्रत्याहारग्रहणं । क्व सन्निविष्टानां प्रत्याहारः । टापः प्रभृति आ ष्यङः ङकारात। किं प्रयोजनं । कृन्निवृत्त्यर्थं । कृत्स्त्रियाः धातुस्त्रियाः च ह्रस्वत्वं मा भूतिति : अतितन्त्रीः , अतिश्रीः , अतिलक्ष्मीः इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । स्त्रीग्रहणं स्वर्यते । तत्र स्वरितेन अधिकारगतिः भवति । स्त्रियां इति एवं प्रकृत्य ये विहिताः तेषां ग्रहणं विज्ञास्यते । स्वरितेन अधिकारगतिः भवति इति न दोषः भवति । यदि एवं प्रत्ययग्रहणं इदं भवति । तत्र प्रत्ययग्रहणे यस्मात्सः तदादेः ग्रहणं भवति इति इह न प्राप्नोति : अतिराजकुमारिः , अतिसेनानीकुमारिः इति । अस्त्रीप्रत्ययेन इति एवं तत। (कात्यायन वार्तिक)ईयसः बहुव्रीहौ पुंवद्वचनम्(वार्तिकान्त) । ईयसः बहुव्रीहौ पुंवद्भावः वक्तव्यः । बह्व्यः श्रेयस्यः अस्य बहुश्रेयसी विद्यमानश्रेयसी । (कात्यायन वार्तिक)पूर्वपदस्य च प्रतिषेधः गोसमासनिवृत्त्यर्थम्(वार्तिकान्त) । पूर्वपदस्य च प्रतिषेधः वक्तव्यः । किं प्रयोजनं । गोसमासनिवृत्त्यर्थं । गोनिवृत्त्यर्थं समासनिवृत्त्यर्थं च । गोनिवृत्त्यर्थं तावतः गोकुलं , गोक्षीरं , गोपालकः इति । समासनिवृत्त्यर्थं : राजकुमारीपुत्रः , सेनानीकुमारीपुत्रः इति । किं उच्यते समासनिवृत्त्यर्थं इति न पुनः असमासः अपि किं चित्पूर्वपदं यदर्थः प्रतिषेधः स्यात। स्त्र्यन्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति इति उच्यते न च अन्तरेण समासं स्त्र्यन्तं प्रातिपदिकं उपसर्जनं अस्ति । ननु च इदं अस्ति : खट्वापादः , मालापादः इति । एकादेशे कृते अन्तादिवद्भावात्प्राप्नोति । उभयतः आश्रये न अन्तादिवत। गोनिवृत्त्यर्थेन तावत्न अर्थः । गोन्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति इति उच्यते न च एतत्गोन्तं । ननु च एततपि व्यपदेशिवद्भावेन गोन्तं । व्यपदेशिवद्भावः अप्रातिपदिकेन । समासनिवृत्त्यर्थेन च अपि न अर्थः । स्त्र्यन्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति इति उच्यते । प्रधानं उपसर्जनं इति च सम्बन्धिशब्दौ एतौ । तत्र सम्बन्धातेतत्गन्तव्यं : यं प्रति यतप्रधानं तस्य चेत्सः अन्तः भवति इति । अवश्यं च एततेवं विज्ञेयं । उच्यमाने अपि हि प्रतिषेधे इह प्रसज्येत : पञ्च कुमार्यः प्रियाः अस्य पञ्चकुमारीप्रियः , दशकुमारीप्रियः इति । (कात्यायन वार्तिक)कपि च(वार्तिकान्त) । कपि च प्रतिषेधः वक्तव्यः : बहुकुमारीकः , बहुवृषलीकः । (कात्यायन वार्तिक)द्वन्द्वे च(वार्तिकान्त) । द्वन्द्वे च प्रतिषेधः वक्तव्यः : कुक्कुटमयूर्यौ । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । कपि तावतुक्तं : न कपि इति प्रतिषेधः इति । न एततस्ति उक्तं । के अणः इति या ह्रस्वप्राप्तिः तस्याः प्रतिषेधः । कुतः एतत। अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति । अवश्यं च एततेवं विज्ञेयं । यः हि मन्यते या च यावतीच ह्रस्वप्राप्तिः तस्याः सर्वस्याः प्रतिषेधः इति इह अपि तस्य प्रतिषेधः प्रसज्येत : प्रियं ग्रामणि ब्राह्मणकुलं अस्य प्रियग्रामणिकः । इदं तर्हि उक्तं : कपि कृते अनन्त्यत्वात्ह्रस्वत्वं न भविष्यति । इदं इह सम्प्रधार्यं : कप्क्रियतां ह्रस्वत्वं इति । किं अत्र कर्तव्यं । परत्वात्कप। अन्तरङ्गं ह्रस्वत्वं । अन्तरङ्गतरः कप। ननु च अयं कप्समासान्तः इचि उच्यते । तादर्थ्यात्ताच्छब्द्यं भविष्यति । येषां पदानां समासः न तावत्तेषां अन्यत्भवति । कपं तावत्प्रतीक्षते । द्वन्द्वे अपि उक्तं । किं उक्तं । परवत्लिङ्गं इति शब्दशब्दार्थौ इति । तत्र औपदेशिकस्य ह्रस्वत्वं आतिदेशिकस्य श्रवणं भविष्यति ।
पाणिनीयसूत्र १,२।४९) कि.,२२५।१६-२३ रो.,९५ (कात्यायन वार्तिक)तद्धितलुकि अवन्त्यादीनां प्रतिषेधः(वार्तिकान्त) । तद्धितलुकि अवन्त्यादीनां प्रतिषेधः वक्तव्यः : अवन्ती कुन्ती कुरूः । (कात्यायन वार्तिक)तद्धितलुकि अवन्त्यादीनां अप्रतिषेधः अलुक्परत्वात्(वार्तिकान्त) । तद्धितलुकि अवन्त्यादीनां अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । लुक्कस्मात्न भवति । अलुक्परत्वात। लुकि इति उच्यते । न च अत्र लुकं पश्यामः । लुकि इति न एषा परसप्तमी शक्या विज्ञातुं । न हि लुका पौर्वापर्यं अस्ति । का तर्हि । सत्सप्तमी : लुकि सति इति । सत्सप्तमी चेत्प्राप्नोति । एवं तर्हि इदं इह व्यपदेश्यं सताचार्यः न व्यपदिशति । किं । उपसर्जनस्य इति वर्तते । न च जातिः उपसर्जनं ।
पाणिनीयसूत्र १,२।५०) कि.,२२६।२-१८ रो.,९६-९८ (कात्यायन वार्तिक)इत्गोण्याः न इति वक्तव्यं (वार्तिकान्त)। गोण्याः न इति एव वक्तव्यं । न अर्थः इत्त्वेन । का रूपसिद्धिः : पञ्चगोणिः , दशगोणिः । (कात्यायन वार्तिक)ह्रस्वता हि विधीयते(वार्तिकान्त) । ह्रस्वत्वं अत्र विधीयते : गोस्त्रियोः उपसर्जनस्य इति । (कात्यायन वार्तिक)इति वा वचने तावत्(वार्तिकान्त) । इतिति वा उच्येत न इति वा कः नु अत्र विशेषः । (कात्यायन वार्तिक)मात्रार्थं वा कृतं भवेत्(वार्तिकान्त)। अथ वा मात्रार्थं इदं वक्तव्यं : गोणीमात्रं इदं गोणिः । अपरः आह :(कात्यायन वार्तिक) गोण्याः इत्त्वं प्रकरणात्(वार्तिकान्त) । अशिष्यं गोण्याः इत्त्वं । किं कारणं । प्रकरणात। प्रकृतं ह्रस्वत्वं । ह्रस्वः इति वर्तते । ननु सूच्याः । (कात्यायन वार्तिक)सूच्याद्यर्थं अथ अपि वा(वार्तिकान्त) । सूच्याद्यर्थं इदं द्रष्टव्यं : पञ्चसूचिः , दशसूचीः । इत्गोण्याः न इति वक्तव्यं ह्रस्वता हि विधीयते । इति वा वचने तावत। मात्रार्थं वा कृतं भवेत् । । गोण्याः इत्त्वं प्रकरणात। सूच्याद्यर्थं अथ अपि वा ।
पाणिनीयसूत्र १,२।५१।१) कि.,२२६।२०-२२७।१० रो.,९८-१०० व्यक्तिवचने इति किमर्थं । शिरीषाणां अदूरभवः ग्रामः शिरीषाः । तस्य ग्रामस्य वनं शिरीषवनं । किं च स्यात। विभाषा ओषधिवनस्पतिभ्यः इति णत्वं प्रसज्येत । अपरः आह : कटुबदर्याः अदूरभवः ग्रामः कटुबदरी । षष्ठी युक्तवद्भावेन मा भूतिति । अथ व्यक्तिवचने इति अपि उच्यमाने कस्मातेव अत्र न भवति । षष्ठी अपि हि वचनं । न इदं पारिभाषिकस्य वचनस्य ग्रहणं । किं तर्हि । अन्वर्थग्रहणं : उच्यते वचनं इति । एवं अपि षष्ठी प्राप्नोति । षष्ठी अपि हि उच्यते । लुपा उक्तत्वात्तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यं उक्तार्थानां अप्रयोगः इति । आतिदेशिकी तर्हि प्राप्नोति । एवं तर्हि (कात्यायन वार्तिक)प्राकपि वृत्तेः युक्तं वृत्तं च अपि(वार्तिकान्त) ।(कात्यायन वार्तिक) इह यावता युक्तं वक्तुः च कामचारः प्राक्वृत्तेः लिङ्गसङ्ख्ये ये(वार्तिकान्त) । प्राकपि वृत्तेः युक्तं वनस्पतिभिः नगरं वृत्तं च अपि युक्तं वनस्पतिभिः नगरं । वृत्ते च युक्तवद्भावः विधीयते । कामचारः च प्रयोक्तुः प्राक्वृत्तेः ये लिङ्गसङ्ख्ये ते* अतिदेष्टुं वृत्तस्य वा ये लिङ्गसङ्ख्ये । यावता कार्मचारः वृत्तस्य ये लिङ्गसङ्ख्ये ते* अतिदिश्येते न प्राक्वृत्तेः ये ।
पाणिनीयसूत्र १,२।५१।२) कि.,२२७।११-२६ रो.,१००-१०२ किमर्थं पुनः इदं उच्यते । (कात्यायन वार्तिक)अन्यत्र अभिधेयव्यक्तिवचनभावात्लुपि युक्तवदनुदेशः(वार्तिकान्त) । अन्यत्र अभिधेयवत्लिङ्गवचनानि भवन्ति । क्व अन्यत्र । लुकि : लवणः सुपः , लवणा यवागुः , लवणं शाकं इति । अन्यत्र अभिधेयवत्लिङ्गवचनानि भवन्ति लुकि। इह अपि अन्यत्र अभिधेयवत्लिङ्गवचनानि प्राप्नुवन्ति । इष्यन्ते च अभिधानवत्स्युः इति । तत्च अन्तरेण यत्नं न सिध्यति इति लुपि युक्तवदनुदेशः । एवमर्थं इदं उच्यते । अस्ति प्रयोजनं एतत। किं तर्हि इति । (कात्यायन वार्तिक)लुपः अदर्शनसञ्ज्ञित्वातर्थगतिः न उपपद्यते(वार्तिकान्त) । लुप्नाम इयं अदर्शनस्य सञ्ज्ञा क्रियते । न च अदर्शनस्य लिङ्गसङ्ख्ये शक्येते* अतिदेष्टुं । लुपः अदर्शनसञ्ज्ञित्वातर्थगतिः न उपपद्यते । (कात्यायन वार्तिक)न वा अदर्शनस्य अशक्यत्वातर्थगतिः साहचर्यात्(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । अदर्शनस्य अशक्यत्वात। अदर्शनस्य लिङ्गसङ्ख्ये* अशक्ये* अतिदेष्टुं इति कृत्वा अदर्शनसहचरितः यः अर्थः तस्य गतिः भविष्यति साहचर्यात। (कात्यायन वार्तिक)योगाभावात्च अन्यस्य(वार्तिकान्त) । अदर्शनेन च योगः न अस्ति इति कृत्वा अदर्शनसहचरितः यः अर्थः तस्य गतिः भविष्यति साहचर्यात।
पाणिनीयसूत्र १,२।५१।३) कि.,२२८।१-३ रो.,१०२ (कात्यायन वार्तिक)समासे उत्तरपदस्य बहुवचनस्य लुपः(वार्तिकान्त) । समासे उत्तरपदस्य बहुवचनस्य लुपः युक्तवद्भावः वक्तव्यः : मधुरापञ्चालाः । किं प्रयोजनं । नियमार्थं । समासे उत्तरपदस्य एव । क्व मा भूत। पञ्चालमधुरे* इति ।
पाणिनीयसूत्र १,२।५२।१) कि.,२२८।५-१० रो.,१०२-१०३ कथं इदं विज्ञायते : जातिः यत्विशेषणं इति आहोस्वित्जातेः यानि विशेषणानि इति । किं च अतः । यदि विज्ञायते जातिः यत्विशेषणं इति सिद्धं पञ्चालाः जनपदः इति । सुभिक्षः सम्पन्नपानीयः बहुमाल्यफलः इति न सिध्यति । अथ विज्ञायते जातेः यानि विशेषणानि इति सिद्धं सुभिक्षः सम्पन्नपानीयः बहुमाल्यफलः इति । पञ्चालाः जनपदः इति न सिध्यति । एवं तर्हि न एवं विज्ञायते जातिः यत्विशेषणं इति न अपि जातेः यानि विशेषणानि इति । कथं तर्हि । विशेषणानां युक्तवद्भावः भवति आ जातिप्रयोगात।
पाणिनीयसूत्र १,२।५२।२) कि.,२२८।११-२१ रो.,१०३-१०४ किमर्थं पुनः इदं उच्यते । (कात्यायन वार्तिक)विशेषणानां वचनं जातिनिवृत्त्यर्थम्(वार्तिकान्त) । जातिनिवृत्त्यर्थः अयं आरम्भः । किं उच्यते जातिनिवृत्त्यर्थः इति न पुनः विशेषणानां अपि युक्तवद्भावः यथा स्यातिति । (कात्यायन वार्तिक)समानाधिकरणत्वात्सिद्धम्(वार्तिकान्त) । समानाधिकरणत्वात्विशेषणानां युक्तवद्भावः भविष्यति । यदि एवं न अर्थः अनेन । लुपः अन्यत्र अपि जातेः युक्तवद्भावः न भवति । क्व अन्यत्र । बदरी सूक्ष्मकण्टका मधुरा वृक्षः इति । किं पुनः कारणं अन्यत्र अपि जातेः युक्तवद्भावः न भवति । आविष्टलिङ्गा जातिः यत्लिङ्गं उपादाय प्रवर्तते उत्पत्तिप्रभृति आ विनाशात्न तत्लिङ्गं जहाति । न तर्हि इदानीं अयं योगः वक्तव्यः । वक्तव्यः च । किं प्रयोजनं । इदं तत्र तत्र उच्यते गुणवचनानां शब्दानां आश्रयतः लिङ्गवचनानि भवन्ति इति । ततनेन क्रियते ।
पाणिनीयसूत्र १,२।५२।३) कि.,२२८।२२-२२९।५ रो.,१०४-१०५ (कात्यायन वार्तिक)हरीतक्यादिषु व्यक्तिः (वार्तिकान्त)। हरीतक्यादिषु व्यक्तिः भवति युक्तवद्भावेन : हरीतक्याः फलानि हरीतक्यः फलानि । (कात्यायन वार्तिक)खलतिकादिषु वचनम्(वार्तिकान्त) । खलतिकादिषु वचनं भवति युक्तवद्भावेन : खलतिकस्य पर्वतस्य अदूरभवानि वनानि खलतिकं वनानि । (कात्यायन वार्तिक)मनुष्यलुपि प्रतिषेधः(वार्तिकान्त) । मनुष्यलुपि प्रतिषेधः वक्तव्यः : चञ्चा अभिरूपः , वध्रिका दर्शनीयः ।
पाणिनीयसूत्र १,२।५३) कि.,२२९।७-८ रो.,१०६ किं याः एताः कृत्रिमाः टिघुभादिसञ्ज्ञाः तत्प्रामाण्यातशिष्यं । न इति आह । सञ्ज्ञानं सञ्ज्ञा ।
पाणिनीयसूत्र १,२।५८) कि.,२२९।१०-२३०।२१ रो.,१०६-१०९ इदं अयुक्तं वर्तते । किं अत्र अयुक्तं । बहवः ते अर्थाः । तत्र युक्तं बहुवचनं । तत्यतेकवचने शासितव्ये बहुवचनं शिष्यते एततयुक्तं । बहुषु एकवचनं इति नाम वक्तव्यं । अतः उत्तरं पठति : (कात्यायन वार्तिक)जात्याख्यायां सामान्याभिधानातैकार्थ्यं (वार्तिकान्त)। जात्याख्यायां सामान्याभिधानातैकार्थ्यं भविष्यति । यत्तत्व्रीहौ व्रीहित्वं यवे यवत्वं गार्ग्ये गार्ग्यत्वं ततेकं तच्च विवक्षितं । तस्य एकत्वातेकवचनं एव प्राप्नोति । इष्यते च बहुवचनं स्यातिति । तत्च अन्तरेण यत्नं न सिध्यति इति जात्याख्यायं एकस्मिन्बहुवचनं । एवमर्थं इदं उच्यते । अस्ति प्रयोजनं एतत। किं तर्हि इति । (कात्यायन वार्तिक)तत्र एकवचनादेशे उक्तम्(वार्तिकान्त) । किं उक्तं । व्रीहिभ्यः आगतः इति अत्र घेः ङिति इति गुणः प्राप्नोति इति । न एषः दोषः । (कात्यायन वार्तिक)अर्थातिदेशात्सिद्धं (वार्तिकान्त)। अर्थातिदेशः अयं । न इदं पारिभाषिकस्य वचनस्य ग्रहणं । किं तर्हि । अन्वर्थग्रहणं : उच्यते वचनं । बहूनां अर्थानां वचनं बहुवचनं इति । यावत्ब्रूयातेकः अर्थः बहुवत्भवति इति तावतेकस्मिन्बहुवचनं इति । (कात्यायन वार्तिक)सङ्ख्याप्रयोगे प्रतिषेधः (वार्तिकान्त)। सङ्ख्याप्रयोगे प्रतिषेधः वक्तव्यः । एकः व्रीहिः सम्पन्नः सुभिक्षं करोति । (कात्यायन वार्तिक)अस्मदः नामयुवप्रत्यययोः च (वार्तिकान्त)। अस्मदः नामप्रयोगे युवप्रत्ययप्रयोगे च प्रतिषेधः वक्तव्यः । नामप्रयोगे : अहं देवदत्तः ब्रवीमि । अहं यज्ञदत्तः ब्रवीमि । युवप्रत्ययप्रयोगे : अहं गार्ग्यायणः ब्रवीमि । अहं वात्स्यायनः ब्रवीमि । युवग्रहणेन नार्थः । अस्मदः नामप्रत्ययप्रयोगे न इति एव । इदं अपि सिद्धं भवति : अहं गार्ग्यः ब्रवीमि । अहं वात्स्यः ब्रवीमि । अपरः आह : अस्मदः सविशेषणस्य प्रयोगे न इति एव । इदं अपि सिद्धं भवति : अहं पटुः ब्रवीमि । अहं पण्डितः ब्रवीमि । (कात्यायन वार्तिक)अशिष्यं वा बहुवत्पृथक्त्त्वाभिधानात्(वार्तिकान्त) । अशिष्यः वा बहुवद्भावः । किं कारणं । पृथक्त्वाभिधानात। पृथक्त्वेन हि द्रव्याणि अभिधीयन्ते । बहवः ते अर्थाः । तत्र युक्तं बहुवचनं । किं उच्यते पृथक्त्वाभिधानातिति यावता इदानीं एव उक्तं : जात्याख्यायां सामान्याभिधानातैकार्थ्यं इति । (कात्यायन वार्तिक)जातिशब्देन हि द्रव्याभिधानं (वार्तिकान्त)। जातिशब्देन हि द्रव्यं अपि अभिधीयते जातिः अपि । कथं पुनः ज्ञायते जातिशब्देन द्रव्यं अपि अभिधीयते इति । एवं हि कः चित्महति गोमण्डले गोपालकं आसीनं पृच्छति : अस्ति अत्र कां चिद्गां पश्यसि इति । सः पश्यति : पश्यति च अयं गाः पृच्छति च कां चिदत्र गां पश्यसि इति । नूनं अस्य द्रव्यं विवक्षितं इति । तत्यदा द्रव्याभिधानं तदा बहुवचनं भविष्यति । यदा सामान्याभिधानं तदा एकवचनं भविष्यति ।
पाणिनीयसूत्र १,२।५९) कि.,२३०।२३-२३१।२ रो.,१०९-११० अयं अपि योगः शक्यः अवक्तुं । कथं अहं ब्रवीमि , आवां ब्रूवः , वयं ब्रूमः । इमानि इन्द्रियाणि कदा चित्स्वातन्त्र्येण विवक्षितानि भवन्ति । तत्यथा : इदं मे अक्षि सुष्ठु पश्यति । अयं मे कर्णः सुष्ठु शृणोति इति । कदा चित्पारतन्त्र्येण अनेन अक्ष्णा सुष्ठु पश्यामि । अनेन कर्णेन सुष्ठु शृणोमि इति । तत्यदा स्वातन्त्र्येण विवक्षा तदा बहुवचनं भविष्यति । यदा पारतन्त्र्येण तदा एकवचनद्विवचने भविष्यतः ।
पाणिनीयसूत्र १,२।६०) कि.,२३१।४-७ रो.,११० अयं अपि योगः शक्यः अवक्तुं । कथं उदिते पूर्वे फल्गुन्यौ , उदिताः पूर्वाः फल्गुन्यः , उदिते पूर्वे प्रोष्ठपदे , उदिताः पूर्वाः प्रोष्ठपदाः । फल्गुनीसम्पीपगते चन्द्रमसि फल्गुनीशब्दः वर्तते । बहवः ते अर्थाः । तत्र युक्तं बहुवचनं । यदा तयोः एव अभिधानं तदा द्विवचनं भविष्यति ।
पाणिनीयसूत्र १,२।६१-६२) कि.,२३१।१०-१२ रो.,११० इमौ अपि योगौ शक्यौ अवक्तुं । कथं । (कात्यायन वार्तिक)पुनर्वसुविशाखयोः सुपां सुलुक्पूर्वसवर्ण इति सिद्धम्(वार्तिकान्त) । पुनर्वसुविशाखयोः सुपां सुलुक्पूर्वसवर्ण इति एव सिद्धं ।
पाणिनीयसूत्र १,२।६३) कि.,२३१।१४-२३२।७ ऱो_११०-११३ तिष्यपुनर्वस्वोः इति किमर्थं । कृत्तिकारोहिण्यः । नक्षत्र इति किमर्थं । तिष्यः च माणवकः पुनर्वसू मणवकौ तिष्यपुनर्वसवः । अथ नक्षत्रे इति वर्तमाने पुनः नक्षत्रग्रहणं किमर्थं । अयं तिष्यपुनर्वसुशब्दः अस्ति एव ज्योतिषि वर्तते । अस्ति च कालवाची । तत्यथा : बहवः तिष्यपुनर्वसवः अतिक्रान्ताः । कतरेण तिष्येण गतः इति । तत्यः ज्योतिषि वर्तते तस्य इदं ग्रहणं । अथ वा नक्षत्रे इति वर्तमाने पुनः नक्षत्रग्रहणस्य एतत्प्रयोजनं : विदेशस्थं अपि तिष्यपुनर्वस्वोः कार्यं ततपि नक्षत्रस्य एव यथा स्यातः तिष्यपुष्ययोः नक्षत्राणि यलोपः वक्तव्यः इति नक्षत्रग्रहणं न कर्तव्यं भवति । अथ वा अथ वा नक्षत्रे इति वर्तमाने पुनः नक्षत्र ग्रहणस्य एतत्प्रयोजनं : तिष्यपुनर्वसुपर्यायवाचिनां अपि यथा स्यातः पुष्यपुनर्वसू सिध्यपुनर्वसू । अथ द्वन्द्वे इति किमर्थं । यः तिष्यः तौ पुनर्वसू येषां ते इमे तिष्यपुनर्वसवः उन्मुग्धाः । बहुवचनस्य इति किमर्थं । उदितं तिष्यपुनर्वसू । कथं च अत्र एकवचनं । जातिद्वन्द्वः एकवत्भवति इति । अप्राणिनां इति प्रतिषेधः प्राप्नोति । एवं तर्हि सिद्धे सति यत्बहुवचनग्रहणं करोति तत्ज्ञापयति आचार्यः : सर्वः द्वन्द्वः विभाषा एकवत्भवति इति । किं एतस्य ज्ञापने प्रयोजनं । बाभ्रवशालङ्कायनं बाभ्रवशालङ्कायनाः इति एतत्सिद्धं भवति । अथ वा न अत्र भवन्तः प्राणिनाः । प्राणाः एव अत्र भवन्तः ।
पाणिनीयसूत्र १,२।६४।१) कि.,२३३।२-१४ रो.,११४-११६ रूपग्रहणं किमर्थं । समानानां एकशेष एकविभक्तौ इति इयति उच्यमाने यत्र एव सर्वं समानं शब्दः अर्थः च तत्र एव स्यातः वृक्षाः , प्लक्षाः इति । इह न स्यातः अक्षाः ,। पादाः , माषाः इति । रूपग्रहणे पुनः क्रियमाणे न दोषः भवति । रूपं निमित्तत्वेन आश्रीयते श्रुतौ च रूपग्रहणं । अथ एकग्रहणं किमर्थं । सरूपाणां शेषः एकविभक्तौ इति इयति उच्यमाने द्विबह्वोः अपि शेषः प्रसज्येत । एकग्रहणे पुनः क्रियमाणे न दोषः भवति । अथ शेषग्रहणं किमर्थं । सरूपाणां एकः एकविभक्तौ इति इयति उच्यमाने आदेशः अयं विज्ञायेत । तत्र कः दोषः । अश्वः च अस्वः च अश्वौ : आन्तर्यतः द्व्युदात्तवतः स्थानिनः द्व्युदात्तवानादेशः प्रसज्येत । लोप्यलोपिता च न प्रकल्पेत । तत्र कः दोषः । गर्गाः , वत्साः , बिदाः , उर्वाः । अञ्यः बहुषु यञ्यः बहुषु इति उच्यमानः लुक्न प्राप्नोति । मा भूतेवं । अञन्तं यत्बहुषु यञन्तं यत्बहुषु इति एवं भविष्यति । न एवं शक्यं । इह हि दोषः स्यात। : काश्यपप्रतिकृतयः काश्यपाः इति । एकविभक्तौ इति किमर्थं । पयः पयः जरयति । वासः वासः छादयति । ब्राह्मणाभ्यां च कृतं ब्राह्मणाभ्यां च देहि इति ।
पाणिनीयसूत्र १,२।६४।२) कि.,२३३।१५-२३४।५ रो.,११७-११९ किमर्थं पुनः इदं उच्यते । (कात्यायन वार्तिक)प्रत्यर्थं शब्दनिवेशात्न एकेन अनेकस्य अभिधानं (वार्तिकान्त)। प्रत्यर्थं शब्दाः अभिनिविशन्ते । किं इदं प्रत्यर्थं इति । अर्थं अर्थं प्रति प्रत्यर्थं । प्रत्यर्थं शाब्दनिवेशातेतस्मात्कारणात्न एकेन शब्देन अनेकस्य अर्थस्य अभिधानं प्राप्नोति । तत्र कः दोषः । (कात्यायन वार्तिक)तत्र अनेकार्थाभिधाने अनेकशब्दत्वम्(वार्तिकान्त) । तत्र अनेकार्थाभिधाने अनेकशब्दत्वं प्राप्नोति । इष्यते च एकेन अपि अनेकस्य अभिधानं स्यातिति । तत्च अन्तरेण यत्नं न सिध्यति । (कात्यायन वार्तिक)तस्मातेकशेषः(वार्तिकान्त) । एवमर्थं इदं उच्यते । अस्ति प्रयोजनं एतत। किं तर्हि इति । किं इदं प्रत्यर्थं शब्दाः अभिनिवेशन्ते इति एतं दृष्टान्तं आस्थाय सरूपाणां एकशेषः आरभ्यते न पुनः अप्रत्यर्थं शब्दाः अभिनिविशन्ते इति एतं दृष्टान्तं आस्थाय विरूपाणां अनेकशेषः आरभ्यते । तत्र एतत्स्यातः लघीयसी सरूपनिवृत्तिरः गरीयसी विरूपप्रतिपत्तिः इति । तत्च न । लघीयसी विरूपप्रतिपत्तिः । किं कारणं । यत्र हि बहूनां सरूपाणां एकः शिष्यते तत्र अवरतः द्वयोः सरूपयोः निवृत्तिः वक्तव्या स्यात। एवं अपि एतस्मिन्सति किं चिताचार्यः सुकरतरकं मन्यते । सुकरतरकं च एकशेषारम्भं मन्यते ।
पाणिनीयसूत्र १,२।६४।३) कि.,२३४।६-२३८।१७ रो.,११९-१३३ किं पुनः अयं एकविभक्तौ एकशेषः भवति । एवं भवितुं अर्हति । (कात्यायन वार्तिक)एकविभक्तौ इति चेत्न अभावाद्विभक्तेः (वार्तिकान्त)। एकविभक्तौ इति चेत्तत्न । किं कारणं । अभावात्विभक्तेः । न हि समुदायात्परा विभक्तिः अस्ति । किं कारणं । अप्रातिपदिकत्वात। ननु च अर्थवत्प्रातिपदिकं इति प्रातिपदिकसञ्ज्ञा भविष्यति । नियमात्न प्राप्नोति । अर्थवत्समुदयानां समासग्रहणं नियमार्थं इति । यदि पुनः पृथक्सर्वेषां विभक्तिपराणां एकशेषः उच्येत । (कात्यायन वार्तिक)पृथक्सर्वेषां इति चेतेकशेषे पृथक्विभक्त्युपलब्धिः तदाश्रयत्वात्(वार्तिकान्त) । पृथक्सर्वेषां इति चेतेकशेषे पृथक्विभक्त्युपलब्धिः प्राप्नोति । किं उच्यते एकशेषे पृथक्विभक्त्युपलब्धिः इति यावता समयः कृतः : न केवला प्रकृतिः प्रयोक्तव्या न केवलः प्रत्ययः इति । तदाश्रयत्वात्प्राप्नोति । यत्र हि प्रकृतिनिमित्ता प्रत्ययनिवृत्तिः तत्र अप्रत्ययिकायाः प्रकृतेः प्रयोगः भवति अग्निचित्सोमसुतिति यथा । यत्र च प्रत्ययनिमित्ता प्रकृतिनिवृत्तिः तत्र अप्रकृतिकस्य प्रत्ययस्य प्रयोगः भवति अधुना , इयानिति यथा । अस्तु संयोगान्तलोपेन सिद्धं । कुतः नु खलु एतत्परयोः वृक्षशब्दयोः निवृत्तिः भविष्यति न पुनः पूर्वयोः इति । तत्र एतत्स्यातः पूर्वनिवृत्तवपि सत्यां संयोगादिलोपेन सिद्धं इति । न सिध्यति । तत्र अवरतः द्वयोः सकारयोः श्रवणं प्रसज्येत। यत्र च संयोगान्तलोपः न अस्ति तत्र च न सिध्यति । क्व च संयोगान्तलोपः न अस्ति । द्विवचनबहुवचनयोः । यदि पुनः समासे एकशेषः उच्येत । किं कृतं भवति । कः चित्वचनलोपः परिहृतः भवति । तत्तर्हि समासग्रहणं कर्तव्यं । न कर्तव्यं । प्रकृतं अनुवर्तते । क्व प्रकृतं । तिष्यपुनर्वस्वोः नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यं इति । (कात्यायन वार्तिक)समासे इति चेत्स्वरसमासान्तेषु दोषः(वार्तिकान्त) । समासे इति चेत्स्वरसमासान्तेषु दोषः भवति । स्वर : अश्वः च अश्वः च अश्वौ। समासान्तोदात्तत्वे कृते एकशेषः प्राप्नोति । इदं इह सम्प्रधार्यं : समासान्तोदात्तत्त्वं क्रियतां एकशेषः इति । किं अत्र कर्तव्यं । परत्वात्समासान्तोदात्तत्वं । समासान्तोदात्तत्वे च दोषः भवति । स्वर । समासान्त : ऋक्च ऋक्च ऋचौ । समासान्ते कृते असारूप्यातेकशेषः न प्राप्नोति । इदं इह सम्प्रधार्यं : समासान्तः क्रियतां एकशेषः इति । किं अत्र कर्तव्यं । परत्वात्समासान्तः । समासान्ते च दोषः भवति । (कात्यायन वार्तिक)अङ्गाश्रये च एकशेषवचनं (वार्तिकान्त)। अङ्गाश्रये च कार्ये एकशेषः वक्तव्यः । स्वसा च स्वसारौ च स्वसारः । अङ्गाश्रये कृते असारूप्यातेकशेषः न प्राप्नोति । इदं इह सम्प्रधार्यं : अङ्गाश्रयं क्रियतां एकशेषः इति । किं अत्र कर्तव्यं । परत्वातङ्गाश्रयं । (कात्यायन वार्तिक)तिङ्समासे तिङ्समासवचनम्(वार्तिकान्त) । तिङ्समासे तिङ्समासः वक्तव्यः । एकं तिङ्ग्रहणं अनर्थकं । समासे तिङ्समासः इति एव सिद्धं । न अनर्थकं । तिङ्समासे प्रकृते तिङ्समासः वक्तव्यः । (कात्यायन वार्तिक)तिङ्विधिप्रतिषेधः च(वार्तिकान्त) । तिङ्च कः चित्विधेयः कः चित्प्रतिषेध्यः । पचति च पचति च पचतः : तःशब्दः विधेयः तिशब्दः प्रतिषेध्यः । यदि पुनः असमासे एकशेषः उच्येत । (कात्यायन वार्तिक)असमासे वचनलोपः(वार्तिकान्त) । यदि असमासे वचनलोपः वक्तव्यः । ननु च उत्पतता एव वचनलोपं चोदिताः स्मः । द्विवचनबहुवचनविधिं द्वन्द्वप्रतिषेधं च वक्ष्यति तदर्थं पुनः चोद्यते । (कात्यायन वार्तिक)द्विवचनबहुवचनविधिः(वार्तिकान्त) । द्विवचनबहुवचनानि विधेयानि : वृक्षः च वृक्षः च वृक्षौ , वृक्षः च वृक्षः च वृक्षः च वृक्षाः इति । (कात्यायन वार्तिक)द्वन्द्वप्रतिषेधः च(वार्तिकान्त) । द्वन्द्वस्य च प्रतिषेधः वक्तव्यः : वृक्षः च वृक्षः च वृक्षौ , वृक्षः च वृक्षः च वृक्षः च वृक्षाः इति । चार्थे द्वन्द्वः इति द्वन्द्वः प्राप्नोति । न एषः दोषः । अनवकाशः एकशेषः द्वन्द्वं बाधिष्यते । सावकाशः एकशेषः । कः अवकाशः । तिङन्तानि अवकाशः । यदि पुनः पृथक्सर्वेषां विभक्त्यन्तानां एकशेषः उच्येत । किं कृतं भवति । कः चित्वचनलोपः परिहृतः भवति । (कात्यायन वार्तिक)विभक्त्यन्तानां एकशेषे (वार्तिकान्त)विभक्त्यन्तानां एकशेषे विभक्त्यन्तानां एव तु निवृत्तिः भवति । (कात्यायन वार्तिक)एकविभक्त्यन्तानां इति तु पृथग्विभक्तिप्रतिषेधार्थम्(वार्तिकान्त) । एकविभक्त्यन्तानां इति तु वक्तव्यं । किं प्रयोजनं । पृथग्विभक्तिप्रतिषेधार्थं । पृथग्विभक्त्यन्तानां मा भूतः ब्राह्मणाभ्यां च कृतं ब्राह्मणाभ्यां च देहि । (कात्यायन वार्तिक)न वा अर्थविप्रतिषेधात्युगपद्वचनाभावः(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । अर्थविप्रतिषेधात। विप्रतिषिद्धौ एतौ अर्थौ कर्ता संप्रदानं इति अशक्यौ युगपत्निर्देष्टुं । तयोः विप्रतिषिद्धत्वात्युगपद्वचनं न भविष्यति । (कात्यायन वार्तिक)अनेकार्थाश्रयः च पुनः एकशेषः(वार्तिकान्त) । अनेकं अर्थं सम्प्रत्याययिष्यामि इति एकशेषः आरभ्यते । (कात्यायन वार्तिक)तस्मात्न एकशब्दत्वम्(वार्तिकान्त) । तस्मातेकशब्दत्वं न भविष्यति । अयं तर्हि दोषः : कः चित्वचनलोपः द्विवचनबहुवचनविधिः द्वन्द्वप्रतिषेधः च इति । यदि पुनः प्रातिपदिकानां एकशेषः उच्येत । किं कृतं भवति । वचनलोपः परिहृतः भवति । (कात्यायन वार्तिक)प्रातिपदिकानां एकशेषे मातृमात्रोः प्रतिषेधः सरूपत्वात्(वार्तिकान्त)। प्रातिपदिकानां एकशेषे मातृमात्रोः प्रतिषेधः वक्तव्यः : माता च जनयित्री मातारौ च धान्यस्य मातृमातारः । किं कारणं । सरूपत्वात। सरूपाणि हि एतानि प्रातिपदिकानि । किं उच्यते प्रातिपदिकानां एकशेषे मातृमात्रोः प्रतिषेधः वक्तव्यः इति न पुनः यस्य अपि विभक्त्यन्तानां एकशेषः तेन अपि मातृमात्रोः प्रतिषेधः वक्तव्यः स्यात। तस्य अपि हि एतानि क्व चित्विभक्त्यन्तानि सरूपाणि : मातृभ्यां च मातृभ्यां च इति । अथ मतं एतत्विभक्त्यन्तानां सारूप्ये भवितव्यं एव एकशेषेण इति प्रातिपदिकानां एव एकशेषे दोषः भवति । एवं च कृत्वा चोद्यते । (कात्यायन वार्तिक)हरितहरिणश्येतश्येनरोहितरोहिणानां स्त्रियां उपसङ्ख्यानं (वार्तिकान्त)। हरितहरिणश्येतश्येनरोहितरोहिणानां स्त्रियां उपसङ्ख्यानं कर्तव्यं । हरितस्य स्त्री हरिणी हरिणस्य अपि हरिणी , हरिणी च हरिणी च हरिण्यौ । श्येतस्य स्त्री श्येनी श्येनस्य अपि श्येनी , श्येनी च श्येनी च श्येन्यौ । रोहितस्य स्त्री रोहिणी रोहिणस्य अपि रोहिणी , रोहिणी च रोहिणी च रोहिण्यौ । (कात्यायन वार्तिक)न वा पदस्य अर्थे प्रयोगात्(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । पदस्य अर्थे प्रयोगात। पदं अर्थे प्रयुज्यते विभक्त्यन्तं च पदं । रूपं च इह आश्रीयते । रूपनिर्ग्रहः च शब्दस्य न अन्तरेण लौकिकं प्रयोगं । तस्मिन्च लौकिके प्रयोगे सरूपाणि एतानि । अपरः आह : न वा पदस्य अर्थे प्रयोगात। न वा एषः पक्षः एव अस्ति प्रातिपदिकानां एकशेषः इति । किं काराणं । पदस्य अर्थे प्रयोगात। पदं अर्थे प्रयुज्यते विभक्त्यन्तं च पदं । रूपं च इह आश्रीयते रूपनिर्ग्रहः च शब्दस्य न अन्तरेण लौकिकं प्रयोगं । तस्मिन्च लौकिके प्रयोगे प्रातिपदिकानां प्रयोगः न अस्ति । अथ अनेन पक्षेण अर्थः स्यातः प्रातिपदिकानां एकशेषः इति । बाढं अर्थः । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । एतेन एव अभिहितं सूत्रेण सरूपाणां एकशेषः एकविभक्तौ इति । कथं । विभक्तिः सारूप्येण आश्रीयते । अनैमित्तिकः एकशेषः । एकविभक्तौ यानि सरूपाणि तेषां एकशेषः भवति । क्व । यत्र वा तत्र वा इति । अथ अनेन पक्षेण अर्थः स्यातः विभक्त्यन्तानां एकशेषः इति । बाढं अर्थः । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । एततपि एतेन एव अभिहितं सूत्रेण सरूपाणां एकशेषः एकविभक्तौ इति । कथं । न इदं पारिभाषिक्याः विभक्तेः ग्रहणं । किं तर्हि । अन्वर्थग्रहणं : विभागः विभक्तिः इति । एकविभागे यानि सरूपाणि तेषां एकशेषः भवति इति । ननु च उक्तं : कः चित्वचनलोपः द्विवचनबहुवचनविधिः द्वन्द्वप्रतिषेधः च इति । न एषः दोषः । यत्तावतुच्यते कः चित्वचनलोपः द्विवचनबहुवचनविधिःइति । सहविवक्षायां एकशेषः । युगपद्विवक्षायां एकशेषेण भवितव्यं । न तर्हि इदानीं इदं भवति : वृक्षः च वृक्षः च वृक्षौ , वृक्षः च वृक्षः च वृक्षः च वृक्षाः इति । न एतत्सहविवक्षायां भवति । अथ अपि निदर्शयितुं बुद्धिः एवं निदर्शयितव्यं : वृक्षौ च वृक्षौ च वृक्षौ , वृक्षाः च वृक्षाः च वृक्षाः च वृक्षाः इति । यतपि उच्यते द्वन्द्वप्रतिषेधः च वक्तव्यः इति । न एषः दोषः । अनवकाशः एकशेषः द्वन्द्वं बाधिष्यते । ननु च उक्तं सावकाशः एकशेषः । कः अवकाशः । तिङन्तानि अवकाशः इति । न तिङन्तानि एकशेषारम्भं प्रयोजयन्ति । किं काऋअणं । यथाजातीयकानां द्वितीयस्य पदस्य प्रयोगे सामर्थ्यं अस्ति तथाजातीयकानां एकशेषः । न च तिङन्तानां द्वितीयस्य पदस्य प्रयोगे सामर्थ्यं अस्ति । किं कारणं । एका हि क्रिया । एकेन उक्तत्वात्तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यं उक्तार्थानां अप्रयोगः इति । यदि तर्हि एका क्रिया द्विवचनबहुवचनानि न सिध्यन्ति : पचतः पचन्ति । न एतानि क्रियापेक्षाणि । किं तर्हि । साधनापेक्षाणि । अथ वा पुनः अस्तु एकविभक्तौ इति । ननु च उक्तं एकविभक्तौ इति चेत्न अभावात्विभक्तेः इति । न एषः दोषः । परिहृतं एततः अर्थवत्प्रातिपदिकं इति प्रातिपदिकसञ्ज्ञा भविष्यति इति । ननु च उक्तं नियमात्न प्राप्नोति अर्थवत्समुदायानां समासग्रहणं नियमार्थं इति । न एषः दोषः । तुल्यजातीयस्य नियमः । कः च तुल्यजातीयः । यथाजातीयकानां समासः । कथञ्जातीयकानां समासः । सुबन्तानां ।
पाणिनीयसूत्र १,२।६४।४) कि.,२३८।१८-२३९।११ रो.,१३३-१३६ (कात्यायन वार्तिक)सर्वत्र अपत्यादिषु उपसङ्ख्यानम्(वार्तिकान्त) । सर्वेषु पक्षेषु अपत्यादिषु उपसङ्ख्यानं कर्तव्यं : भिक्षाणां समूहः भैक्षं इति । सर्वत्र इति उच्यते प्रातिपदिकाणां च एकशेषे सिद्धं । अपत्यादिषु इति उच्यते बहवः च अपत्यादयः : गर्गस्य अपत्यं बहवः गर्गाः । एका प्रकृतिः बहवः च यञः । असारूप्यातेकशेषः न प्राप्नोति । ननु च यथा एव बहवः यञः एवं प्रकृतयः अपि बह्व्यः स्युः । न एवं शक्यं । इह हि दोषः स्यातः गर्गाः , वत्साः , बिदाः , उर्वाः इति । अञ्यः बहुषु यञ्यः बहुषु इति उच्यमानः लुक्न प्राप्नोति । मा भूतेवं । अञन्तं यत्बहुषु यञन्तं यत्बहुषु इति एवं भविष्यति । ननु च उक्तं : न एवं शक्यं । इह हि दोषः स्यातः काश्यपप्रतिकृतयः काश्यपाः इति । न एषः दोषः । लौकिकस्य तत्र गोत्रस्य ग्रहणं न च एतत्लौकिकं गोत्रं । अथ वा पुनः अस्तु एका प्रकृतिः बहवः च यञः । ननु च उक्तं : असारूप्यातेकशेषः न प्राप्नोति इति । (कात्यायन वार्तिक)सिद्धं तु समानार्थानां एकशेषवचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । समानार्थानां एकशेषः भवति इति वक्तव्यं । यदि समानार्थानां एकशेषः उच्यते कथं अक्षाः , पादाः , माषाः इति । (कात्यायन वार्तिक)नानार्थानां अपि सरूपाणाम्(वार्तिकान्त) । नानार्थानां अपि सरूपाणां एकशेषः वक्तव्यः । (कात्यायन वार्तिक)एकार्थानां अपि विरूपाणाम्(वार्तिकान्त) । एकार्थानां अपि विरूपाणां एकशेषः वक्तव्यः : वक्रदण्डः च कुटिलदण्डः च वक्रदण्डौ कुटिलदण्डाउ इति वा । (कात्यायन वार्तिक)स्वरभिन्नानां यस्य उत्तरस्वरविधिः(वार्तिकान्त) । स्वरभिन्नानां यस्य उत्तरस्वरविधिः तस्य एकशेषः वक्तव्यः । अक्षः च अक्षः च अक्षौ , मीमंसकः च मीमांसकः च मीमंसकौ ।
पाणिनीयसूत्र १,२।६४।५) कि.,२३९।१२-२४०।११ रो.,१३६-१३९ इह कस्मात्न भवति : एकः च एकः च , द्वौ च द्वौ च इति । (कात्यायन वार्तिक)सङ्ख्यायाः अर्थासम्प्रत्ययातन्यपदार्थत्वात्च अनेकशेषः(वार्तिकान्त) । सङ्ख्यायाः अर्थासम्प्रत्ययातेकशेषः न भविष्यति । न हि एकौ इति अनेन अर्थः गम्यते । अन्यपदार्थत्वात्च सङ्ख्यायाः एकशेषः न भविष्यति । एकः च एकः च इति अस्य द्वौ इति अर्थः । द्वौ च द्वौ च इति अस्य चत्वारः इति अर्थः । न एतौ स्तः परिहारौ । यत्तावतुच्यते सङ्ख्यायाः अर्थासम्प्रत्ययातिति । अर्थासम्प्रत्यये अपि एकशेषः भवति । तत्यथा । गार्ग्यः च गार्ग्यायणः च गार्ग्यौ । न च उच्यते वृद्धयुवानौ इति भवति च एकशेषः । यतपि उच्यते : अन्यपदार्थत्वात्च इति । अन्यपदार्थे अपि एकशेषः भवति । तत्यथा : विंशतिः च विंशतिः च विंशती इति । तयोः चत्वारिंशतिति अर्थः । एवं तर्हि न इमौ पृथक्परिहारौ । एकपरिहारः अयं : सङ्ख्यायाः अर्थासम्प्रत्ययातन्यपदार्थत्वात्च इति । यत्र हि अर्थासम्प्रत्ययः एव वा अन्यपदार्थता एव वा भवति तत्र एकशेषः गार्ग्यौ विंशती इति यथा । अथ वा न इमे एकशेषशब्दाः । यदि तर्हि न इमे एकशेषशब्दाः समुदायशब्दाः तर्हि भवन्ति । तत्र कः दोषः । एकवचनं प्राप्नोति । एकार्थाः हि समुदायाः भवन्ति । तत्यथा यूथं , शतं , वनं इति । सन्तु तर्हि एकशेषशब्दाः । किङ्कृतं सारूप्यं । अन्योन्यकृतं सारूप्यं । सन्ति पुनः के चितन्ये अपि शब्दाः येषां अन्योन्यकृतः भावः । सन्ति इति आह । तद्यथा माता पिता भ्राता इति । विषमः उपन्यासः । सकृतेते शब्दाः प्रवृत्ताः अपायेषु अपि वर्तन्ते । इह पुनः एकेन अपि अपाये न भवति चत्वारः इति । अन्यतिदानीं एततुच्यते सकृतेते शब्दाः प्रवृत्ताः अपायेषु अपि वर्तन्ते इति । यत्तु भवानस्मान्चोदयति सन्ति पुनः के चितन्ये अपि शब्दाः येषां अन्योन्यकृतः भावः इति तत्र एते अस्माभिः उपन्यस्ताः । तत्र एतत्भवानाह सकृतेते शब्दाः प्रवृत्ताः अपायेषु अपि वर्तन्ते इति । एतत्च वार्त्तं । एकैकः न उद्यन्तुं भारं शक्नोति यत्कथं तत्र । एकैकः कर्ता स्यात्सर्वे वा स्युः कथं युक्तं । । कारणं उद्यमनं चेत्न उद्यच्छति च अन्तरेण तत्तुल्यं । तस्मात्पृथक्पृथक्ते कर्तारः सव्यपेक्षाः तु । ।
पाणिनीयसूत्र १,२।६४।६) कि.,२४०।१२-१५ रो.,१४० (कात्यायन वार्तिक)प्रथममध्यमोत्तमानां एकशेषः सरूपत्वात्(वार्तिकान्त) । प्रथममध्यमोत्तमानां एकशेषः वक्तव्यः : पचति च पचसि च पचथः , पचसि च पचामि च पचावः , पचति च पचसि च पचामि च पचामः । किं पुनः कारणं न सिध्यति । असरूपत्वात।
पाणिनीयसूत्र १,२।६४।७) कि.,२४०।१६-२४२।९ रो.,१४०-१४४ (कात्यायन वार्तिक)द्विवचनबहुवचनाप्रसिद्धिः च एकार्थत्वात्(वार्तिकान्त)। द्विवचनबहुवचनयोः च अप्रसिद्धिः । किं कारणं । एकार्थत्वात। एकः अयं अवशिष्यते । तेन अनेन तदर्थेन भवितव्यं । किमर्थेन । यदर्थः एकः । किमर्थः च एकः । एकः एकार्थः । न ऐकार्थ्यं । न अयं एकार्थः । किं तर्हि । द्व्यर्थः बह्वर्थः च । (कात्यायन वार्तिक)न ऐकार्थ्यं इति चेतारम्भानर्थक्यम्(वार्तिकान्त) । न ऐकार्थ्यं इति चेतेकशेषारम्भः अनर्थकः स्यात। इह हि शब्दस्य स्वाभाविकी वा अनेकार्थता स्यात्वाचनिकी वा । तत्यदि तावत्स्वाभाविकी (कात्यायन वार्तिक)अशिष्यः एकशेषः एकेन उक्तत्वात्(वार्तिकान्त)। अशिष्यः एकशेषः । किं कारणं । एकेन उक्तत्वात्तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यं उक्तार्थानां अप्रयोगः इति । अथ वाचनिकी तत्वक्तव्यं : एकः अयं अविशिष्यते सः च द्व्यर्थः भवति बह्वर्थः च इति । न वक्तव्यं । सिद्धं एकशेषः इति एव । कथं पुनः एकः अयं अविशिष्यते इति अनेन द्व्यर्थता बह्वर्थता वा शक्या लब्धुं । तत्च एकशेषकृतं । न हि अन्तरेण तद्वाचिनः शब्दस्य प्रयोगं तस्य अर्थस्य गतिः भवति । पश्यामः च पुनः अन्तरेण अपि तद्वाचिनः शब्दस्य प्रयोगं तस्य अर्थस्य गतिः भवति इति अग्निचित्सोमसुतिति यथा । ते मन्यामहे : लोपकृतं एतत्येन अत्र अन्तरेण अपि तद्वाचिनः शब्दस्य प्रयोगं तस्य अर्थस्य गतिः भवतिति । एवं इह अपि एकशेषकृतं एतत्येन अत्र एकः अयं अवशिष्यते इति अनेन द्व्यर्थता बह्वर्थता वा भवति । उच्येत तर्हि न तु गम्येत । यः हि गां अश्वः इति ब्रूयातश्वं वा गौः इति न जातु चित्सम्प्रत्ययः स्यात। तेन अनेकार्थाभिधाने यत्नं कुर्वता अवश्यं लोकः पृष्ठतः अनुगन्तव्यः : केषु अर्थेषु लौकिकाः कान्शब्दान्प्रयुञ्जते इति । लोके च एकस्मिन्वृक्षः इति प्रयुञ्जते द्वयोः वृक्षौ इति बहुषु वृक्षाः इति । यदि तर्हि लोकः अवश्यं शब्देषु प्रमाणं किमर्थं एकशेषः आरभ्यते । अथ किमर्थं लोपः आरभ्यते । प्रत्ययलक्षणं आचार्यः प्रार्थयमानः लोपं आरभते । एकशेषारम्भे पुनः अस्य न किं चित्प्रयोजनं अस्ति । ननु च उक्तं : प्रत्यर्थं शब्दनिवेशात्न एकेन अनेकस्य अभिधानं इति । यदि च एकेन शब्देन अनेकस्य अर्थस्य अभिधानं स्यात्न प्रत्यर्थं शब्दनिवेशः कृतः स्यात। (कात्यायन वार्तिक)प्रत्यर्थं शब्दनिवेशातेकेन अनेकस्य अभिधानातप्रत्यर्थं इति चेत्ततपि प्रत्यर्थं एव(वार्तिकान्त) । प्रत्यर्थं शब्दनिवेशातेकेन अनेकस्याभिधानातप्रत्यर्थं इति चेतेवं उच्यते : यतपि एकेन अनेकस्य अभिधानं भवति ततपि प्रत्यर्थं एव । यतपि हि अर्थौ अर्थौ प्रति ततपि प्रत्यर्थं एव । यतपि हि अर्थानर्थान्प्रति ततपि प्रत्यर्थं एव । यावतां अभिधानं तावतां प्रयोगः न्याय्यः । यावतां अर्थानां अभिधानं भवति तावतां शब्दानां प्रयोगः इति एषः पक्षः न्याय्यः । (कात्यायन वार्तिक)यावतां अभिधानं तावतां प्रयोगः न्याय्यः इति चेतेकेन अपि अनेकस्य अभिधानम्(वार्तिकान्त) । यावतां अभिधानं तावतां प्रयोगः न्याय्यः इति चेतेवं उच्यते : एषः अपि न्याय्यः एव यतपि एकेन अपि अनेकस्य अभिधानं भवति । यदि तर्हि एकेन अनेकस्य अभिधानं भवति प्लक्षन्यग्रोधौ : एकेन उक्तत्वातपरस्य प्रयोगः अनुपपन्नः । एकेन उक्तत्वात्तस्य अर्थस्य अपरस्य प्रयोगेण न भवितव्यं । किं कारणं । उक्तार्थानां अप्रयोगः इति । (कात्यायन वार्तिक)एकेन उक्तत्वातपरस्य प्रयोगः अनुपपन्नः इति चेतनुक्तत्वात्प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः (वार्तिकान्त)। एकेन उक्तत्वातपरस्य प्रयोगः अनुपपन्नः इति चेतनुक्तः प्लक्षेण न्यग्रोधार्थः इति कृत्वा न्यग्रोधशब्दः प्रयुज्यते । कथं अनुक्तः यावता इदानीं एव उक्तं एकेन अपि अनेकस्य अभिधानं भवति इति । सरूपाणां एकेन अपि अनेकस्य अभिधानं भवति न विरूपाणां । किं पुनः कारणं सरूपाणां एकेन अपि अनेकस्य अभिधानं भवति न पुनः विरूपाणां । (कात्यायन वार्तिक)अभिधानं पुनः स्वाभाविकम्(वार्तिकान्त) । स्वाभाविकं अभिधानं । (कात्यायन वार्तिक)उभयदर्शनात्च(वार्तिकान्त) । उभयं खलु अपि दृश्यते : विरूपाणां अपि एकेन अनेकस्य अभिधानं भवति । तत्यथा : द्यवा ह क्षमा । द्यवा चितस्मै पृथिवी नमेते इति । विरूपाणां किल नाम एकेन अनेकस्य अभिधानं स्यात्किं पुनः सरूपाणां ।
पाणिनीयसूत्र १,२।६४।८) कि.,२४२।१०-२४४।७ रो.,१४४-१५० (कात्यायन वार्तिक)आकृत्यभिधानात्वा एकं विभक्तौ वाजप्यायनः(वार्तिकान्त) । आकृत्यभिधानात्वा एकं शब्दं विभक्तौ वाजप्यायनः आचार्यः न्याय्यं मन्यते : एका आकृतिः सा च अभिधीयते इति । कथं पुनः ज्ञायते एका आकृतिः सा च अभिधीयते इति । (कात्यायन वार्तिक)प्रख्याविशेषात्(वार्तिकान्त)। न हि गौः इति उक्ते विशेषः प्रख्यायते शुक्ला नीला कपिला कपोतिका इति । यदि अपि तावत्प्रख्याविशेषात्ज्ञायते एका आकृतिः इति कुतः तु एतत्सा अभिधीयते इति । (कात्यायन वार्तिक)अव्यपवर्गगतेः च(वार्तिकान्त) । अव्यपवर्गगतेः च मन्यामहे आकृतिः अभिधीयते इति । न हि गौः इति उक्ते व्यपवर्गः गम्यते शुक्ला नीला कपिला कपोतिका इति । (कात्यायन वार्तिक)ज्ञायते च एकोपदिष्टं (वार्तिकान्त)। ज्ञायते खलु अपि एकोपदिष्टं । गौः अस्य कदा चितुपदिष्टः भवति । सः तं अन्यस्मिन्देशे अन्यस्मिन्काले अन्यस्यां च वयोवस्थायां दृष्ट्वा जानाति अयं गौः इति । कः पुनः अस्य विशेषः प्रख्याविशेषातिति अतः । तस्य एव उपोद्बलकं एततः प्रख्याविशेषात्ज्ञायते च एकोपदिष्टं इति । (कात्यायन वार्तिक)धर्मशास्त्रं च तथा (वार्तिकान्त)। एवं च कृत्वा धर्मशास्त्रं प्रवृत्तं : ब्राह्मणः न हन्तव्यः । सुरा न पेया इति । ब्राह्मणमात्रं न हन्यते सुरामात्रं च न पीयते । यदि द्रव्यं पदार्थः स्यातेकं ब्राह्मणं अहत्वा एकां च सुरां अपीत्वा अन्यत्र कामचारः स्यात। कः पुनः अस्य विशेषः अव्यपवर्गगतेः च इति अतः । तस्य एव उपोद्बलकं एततः अव्यपवर्गगतेः च धर्मशास्त्रं च तथा इति । (कात्यायन वार्तिक)अस्ति च एकं अनेकाधिकरणस्थं युगपत्(वार्तिकान्त) । अस्ति खलु अपि एकं अनेकाधिकरणस्थं युगपतुपलभ्यते । किं । आदित्यः । तद्यथा एकः आदित्यः अनेकाधिकरणस्थः युगपतुपलभ्यते । विषमः उपन्यासः । न एकः द्रष्टा आदित्यं अनेकाधिकरणस्थं युगपतुपलभते । एवं तर्हि (कात्यायन वार्तिक)इतीन्द्रवत्विषयः (वार्तिकान्त)। तत्यथा एकः इन्द्रः अनेकस्मिन्क्रतुशते आहूतः युगपत्सर्वत्र भवति एवं आकृतिः अपि युगपत्सर्वत्र भविष्यति । अवश्यं च एततेवं विज्ञेयं एकं अनेकाधिकरणस्थं युगपतुपलभ्यते इति। (कात्यायन वार्तिक)न एकं अनेकाधिकरणस्थं युगपतिति चेत्तथा एकशेषे(वार्तिकान्त) । यः हि मन्यते न एकं अनेकाधिकरणस्थं युगपदुपलभ्यते इति एकशेषे तस्य दोषः स्यात। एकशेषे अपि न एकः वृक्षशब्दः अनेकं अर्थं युगपतभिदधीत । अवश्यं च एततेवं विज्ञेयं आकृतिः अभिधीयते इति । (कात्यायन वार्तिक)द्रव्याभिधाने हि आकृत्यसम्प्रत्ययः(वार्तिकान्त) । द्रव्याभिधाने सति आकृतेः असम्प्रत्ययः स्यात। तत्र कः दोषः । (कात्यायन वार्तिक)तत्र असर्वद्रव्यगतिः(वार्तिकान्त) । तत्र असर्वद्रव्यगतिः प्राप्नोति । असर्वद्रव्यगतौ कः दोषः । गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति : एकः शास्त्रोक्तं कुर्वीत अपरः अशास्त्रोक्तं । अशास्त्रोक्ते च क्रियमाणे विगुणं कर्म भवति । विगुणे च कर्मणि फलानवाप्तिः । ननु च यस्य अपि आकृतिः पदार्थः तस्य अपि यदि अनवयवेन चोद्यते न च अनुबध्यते विगुणं कर्म भवति । विगुणे च कर्मणि फलानवाप्तिः । एका आकृतिः इति च प्रतिज्ञा हीयेत । यत्च अस्य पक्षस्य उपादाने प्रयोजनं एकशेषः न वक्तव्यः इति सः च इदानीं वक्तव्यः भवति । एवं तर्हि अनवयवेन चोद्यते प्रत्येकं च परिसमाप्यते यथा आदित्यः । ननु च यस्य अपि द्रव्यं पदार्थः तस्य अपि अनवयवेन चोद्यते प्रत्येकं च परिसमाप्यते । एकशेषः त्वया वक्तव्यः । त्वया अपि तर्हि द्विवचनबहुवचनानि साध्यानि । (कात्यायन वार्तिक)चोदनायां च एकस्य उपाधिवृत्तेः(वार्तिकान्त) । चोदनायां च एकस्य उपाधिवृत्तेः मन्यामहे आकृतिः अभिधीयते इति । आग्नेयं अष्टाकपालं निर्वपेतः एकं निरुप्य द्वितीयस्तृतीयः च निरुप्यते । यदि च द्रव्यं पदार्थः स्यातेकं निरुप्य द्वितीयस्य तृतीयस्य च निर्वपणं न प्रकल्पेत । कः पुनः एतयोः जातिचोदनयोः विशेषः । एका निर्वृत्तेन अपरा निर्वर्त्येन ।
पाणिनीयसूत्र १,२।६४।९) कि.,२४४।८-२४५।५ रो.,१५०-१५२ (कात्यायन वार्तिक)द्रव्याभिधानं व्याडिः (वार्तिकान्त)। द्रव्याभिधानं व्याडिः आचार्यः न्याय्यं मन्यते : द्रव्यं अभिधीयते इति । (कात्यायन वार्तिक)तथा च लिङ्गवचनसिद्धिः(वार्तिकान्त) । एवं च कृत्वा लिङ्गवचनानि सिद्धानि भवन्ति : ब्राह्मणी ब्राह्मणः , ब्राह्मणौ ब्राह्मणाः इति । (कात्यायन वार्तिक)चोदनासु च तस्य आरम्भात्(वार्तिकान्त) । चोदनासु च तस्य आरम्भात्मन्यामहे द्रव्यं अभिधीयते इति । गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति : आकृतौ चोदितायां द्रव्ये आरम्भणालम्भनप्रोक्षणविशसनादीनि क्रियन्ते । (कात्यायन वार्तिक)न च एकं अनेकाधिकरणस्थं युगपत्(वार्तिकान्त) । न खलु अपि एकं अनेकाधिकरणस्थं युगपतुपलभ्यते । न हि एकः देवदत्तः युगपत्स्रुघ्ने भवति मथुरायां च । (कात्यायन वार्तिक)विनाशे प्रादुर्भावे च सर्वं तथा स्यात्(वार्तिकान्त) । किं । विनश्येत्च प्रादुः ष्यात्च । श्वा मृतः इति श्वा नाम लोके न प्रचरेत। गौः जातः इति सर्वं गोभूतं अनवकाशं स्यात। (कात्यायन वार्तिक)अस्ति च वैरूप्यम्(वार्तिकान्त) । अस्ति खलु अपि वैरूप्यं : गौः च गौः च खण्डः मुण्डः इति । (कात्यायन वार्तिक)तथा च विग्रहः(वार्तिकान्त) । एवं च कृत्वा विग्रहः उपपन्नः भवति : गौः च गौः च इति । (कात्यायन वार्तिक)व्यर्थेषु च मुक्तसंशयम्(वार्तिकान्त) । व्यर्थेषु च मुक्तसंशयं भवति । आकृतौ अपि पदार्थे एकशेषः वक्तव्यः : अक्षाः , पादाः , माषाः इति ।
पाणिनीयसूत्र १,२।६४।१०) कि.,२४५।६-२४७।१६ रो.,१५३-१५९ (कात्यायन वार्तिक)लिङ्गवचनसिद्धिः गुणस्य अनित्यत्वात्(वार्तिकान्त) । लिङ्गवचनानि सिद्धानि भवन्ति । कुतः । गुणस्य अनित्यत्वात। अनित्याः गुणाः अपायिनः उपायिनः च । किं ये एते शुक्लादयः । न इति आह । स्त्रीपुंनपुंसकानि सत्त्वगुणाः एकत्वद्वित्वबहुत्वानि च । कदा चिताकृतिः एकत्वेन युज्यते कदा चित्द्वित्वेन कदा चित्बहुत्वेन कदा चित्स्त्रीत्वेन कदा चित्पुंस्त्वेन कदाचित्नपुंसकत्वेन । भवेत्लिङ्गपरिहारः उपपन्नः वचनपरिहारः तु न उपपद्यते । यदि हि कदा चिताकृतिः एकत्वेन युज्यते कदा चित्द्वित्वेन कदा चित्बहुत्वेन एका आकृतिः इति प्रतिज्ञा हीयेत । यत्च अस्य पक्षस्य उपादाने प्रयोजनं उक्तं एकशेषः न वक्तव्यः इति सः च इदानीं वक्तव्यः भवति । एवं तर्हि लिङ्गवचनसिद्धिः गुणविवक्षानित्यत्वात। लिङ्गवचनानि सिद्धानि भवन्ति । कुतः । गुणविवक्षायाः अनित्यत्वात। अनित्या गुणविवक्षा । कदा चिताकृतिः एकत्वेन विवक्षिता भवति कदा चित्द्वित्वेन कदा चित्बहुत्वेन कदा चित्स्त्रीत्वेन कदा चित्पुंस्त्वेन कदा चित्नपुंसकत्वेन । भवेत्लिङ्गपरिहारः उपपन्नः वचनपरिहारः तु न उपपद्यते । यदि कदा चिताकृतिः एकत्वेन विवक्षिता भवति कदा चित्द्वित्वेन कदा चित्बहुत्वेन एका आकृतिः इति प्रतिज्ञा हीयेत । यत्च अस्य पक्षस्य उपादाने प्रयोजनं उक्तं एकशेषः न वक्तव्यः इति सः च इदानीं वक्तव्यः भवति । लिङ्गपरिहारः च अपि न उपपद्यते । किं कारणं । आविष्टलिङ्गा जातिः यत्लिङ्गं उपादाय प्रवर्तते उत्पत्तिप्रभृति आ विनाशात्तत्लिङ्गं न जहाति । तस्मात्न वैयाकरणैः शक्यं लौकिकं लिङ्गं आस्थातुं । अवश्यं कः चित्स्वकृतान्तः आस्थेयः । कः असौ स्वकृतान्तः । (कात्यायन वार्तिक)संस्त्यानप्रसवौ लिङ्गम्(वार्तिकान्त) । संस्त्यानप्रसवौ लिङ्गं आस्थेयौ । किं इदं संस्त्यानप्रसवौ इति । (कात्यायन वार्तिक)संस्त्याने स्त्यायतेः ड्रट्(वार्तिकान्त):(कात्यायन वार्तिक) स्त्री (वार्तिकान्त)।(कात्यायन वार्तिक) सूतेः सप्प्रसवे पुमान्(वार्तिकान्त) । ननु च लोके अपि स्त्यायतेः एव स्त्री सूतेः च पुमान। अधिकरणसाधना लोके स्त्री : स्त्यायति अस्यां गर्भः इति । कर्तृसाधनः च पुमानः सूते पुमानिति । इह पुनः उभयं भावसाधनं : स्त्यानं प्रवृत्तिः च । कस्य पुनः स्त्यानं स्त्री प्रवृत्तिः वा पुमान। गुणानां । केषां । शब्दस्पर्शरूपरसगन्धानां । सर्वाः च पुनः मूर्तयः एवमात्मिकाः संस्त्यानप्रसवगुणाः शब्दस्पर्शरूपरसगन्धवत्यः । यत्र अल्पीयांसः गुणाः तत्र अवरतः त्रयः : शब्दः स्पर्शः रूपं इति । रसगन्धौ न सर्वत्र । प्रवृत्तिः खलु अपि नित्या । न हि इह कः चितपि स्वस्मिनात्मनि मुहूर्तं अपि अवतिष्ठते । वर्धते यावतनेन वर्धितव्यं अपचयेन वा युज्यते । तत्च उभयं सर्वत्र । यदि उभयं सर्वत्र कुतः व्यवस्था । विवक्षातः। संस्त्यानविवक्षायां स्त्री प्रसवविवक्षायां पुमानुभयोः अपि अविवक्षायां नपुंसकं । तत्र लिङ्गवचनसिद्धिः गुणविवक्षानित्यत्वातिति लिङ्गपरिहारः उपपन्नः । वचनपरिहारः तु न उपपद्यते । वचनपरिहारः च अपि उपपन्नः । इदं तावतयं प्रष्टव्यः : अथ यस्य द्रव्यं पदार्थः कथं तस्य एकवचनद्विवचनबहुवचनानि भवन्ति इति । एवं सः वक्ष्यति : एकस्मिनेकवचनं द्वयोः द्विवचनं बहुषु बहुवचनं इति । यदि तस्य अपि वाचनिकानि न स्वाभाविकानि अहं अपि एवं वक्ष्यामि : एकस्मिनेकवचनं द्वयोः द्विवचनं बहुषु बहुवचनं इति । न हि आकृतिपदार्थिकस्य द्रव्यं न पदार्थः द्वव्यपदार्थिकस्य वा आकृतिः न पदार्थः । उभयोः उभयं पदार्थः । कस्य चित्तु किं चित्प्रधानभूतं किं चित्गुणभूतं । आकृतिपदार्थिकस्य आकृतिः प्रधानभूता द्रव्यं गुणभूतं । द्रव्यपदार्थिकस्य द्रव्यं प्रधानभूतं आकृतिः गुणभूता । (कात्यायन वार्तिक)गुणवचनवत्वा(वार्तिकान्त) । गुणवचनवत्वा लिङ्गवचनानि भविष्यन्ति । तत्यथा गुणवचनानां शब्दानां आश्रयतः लिङ्गवचनानि भवन्ति : शुक्लं वस्त्रं , शुक्ला शाटी शुक्लः कम्बलः , शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति । यतसौ द्रव्यं श्रितः भवति गुणः तस्य यत्लिङ्गं वचनं च तत्गुणस्य अपि भवति । एवं इह अपि यतसौ द्रव्यं श्रिता आकृतिः तस्य यत्लिङ्गं वचनं च तताकृतेः अपि भविष्यति । (कात्यायन वार्तिक)अधिकरणगतिः साहचर्यात्(वार्तिकान्त) । आकृतौ आरम्भणादीनां सम्भवः न अस्ति इति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि भविष्यन्ति । (कात्यायन वार्तिक)न च एकं अनेकाधिकरणस्थं युगपतिति आदित्यवत्विषयः(वार्तिकान्त) । न खलु अपि एकं अनेकाधिकरणस्थं युगपतुपलभ्यते इति आदित्यवत्विषयः भविष्यति । तत्यथा एकः आदित्यः अनेकाधिकरणस्थः युगपतुपलभ्यते । विषमः उपन्यासः । न एकः द्रष्टा अनेकाधिकरणस्थं आदित्यं युगपतुपलभते । एवं तर्हि इतीन्द्रवत्विषयः । तद्यथा एकः इन्द्रः अनेकस्मिन्क्रतुशते आहूतः युगपत्सर्वत्र भवति एवं आकृतिः युगपत्सर्वत्र भविष्यति । (कात्यायन वार्तिक)अविनाशः अनाश्रितत्वात्(वार्तिकान्त) । द्रव्यविनाशे आकृतेः अविनाशः । कुतः । अनाश्रितत्वात। अनाश्रिता आकृतिः द्रव्यं । किं उच्यते अनाश्रितत्वातिति यतिदानीं एव उक्तं अधिकरणगतिः साहचर्यातिति । एवं तर्हि अविनाशः अनैकात्म्यात। द्रव्यविनाशे आकृतेः अविनाशः । कुतः । अनैकात्म्यात। अनेकः आत्मा आकृतेः द्रव्यस्य च । तत्यथा वृक्षस्थः अवतानः वृक्षे छिन्ने अपि न विनश्यति । (कात्यायन वार्तिक)वैरूप्यविग्रहौ द्रव्यभेदात्(वार्तिकान्त)। वैरूप्यविग्रहौ अपि द्रव्यभेदात्भविष्यतः । (कात्यायन वार्तिक)व्यर्थेषु च सामान्यात्सिद्धम्(वार्तिकान्त) । विभिन्नार्थेषु च सामान्यात्सिद्धं सर्वं । अश्नोतेः अक्षः । पद्यतेः पादः । मिमीतेः माषः । तत्र क्रियासामान्यात्सिद्धं । अपरः तु आह । पुराकल्पे एततासीत्षोडश माषाः कार्षापणं षोडशफलाःच माषशम्बट्यः । तत्र संख्यासामान्यात्सिद्धं ।
पाणिनीयसूत्र १,२।६५) कि.,२४७।१८-२० रो.,१६० इह कस्मात्न भवति : अजः च बर्करः च , अश्वः च किशोरः च , उष्ट्रः च करभः च इति । तल्लक्षणः चेतेव विशेषः इति उच्यते न च अत्र तल्लक्षणः एव विशेषः । तल्लक्षणः एव विशेषः यत्समानायां आकृतौ शब्दभेदः ।
पाणिनीयसूत्र १,२।६६।१) कि.,२४७।२२-२४८।३ रो.,१६१ इदं सर्वेषु स्त्रीग्रहणेषु विचार्यते : स्त्रीग्रहणे स्त्रीप्रत्ययग्रहणं वा स्यात्स्त्र्यर्थग्रहणं वा स्त्रीशब्दग्रहणं वा इति । किं च अतः । यदि प्रत्ययग्रहणं वा शब्दग्रहणं वा गार्गी च गार्ग्यायणौ च गर्गाः : केन यशब्दः न श्रूयेत । अस्त्रियां इति हि लुकुच्यते । इह च गार्गी च गार्ग्यायणौ च गर्गान्पश्य : तस्मात्शसः नः पुंसि इति नत्वं न प्राप्नोति । अथ अर्थग्रहणं न दोषः भवति । यथा न दोषः तथा अस्तु
पाणिनीयसूत्र १,२।६६।२) कि.,२४८।४-६ रो.,१६१ इह कस्मात्न भवति : अजा च बर्करः च , वडवा च किशोरः च , उष्ट्री च करभः च इति । तल्लक्षणः चेतेव विशेषः इति उच्यते । न च अत्र तल्लक्षणः एव विशेषः । तल्लक्षणः एव विशेषः यत्समानायां आकृतौ शब्दभेदः ।
पाणिनीयसूत्र १,२।६७) कि.,२४८।८-१० रो.,१६२ इह कस्मात्न भवति : हंसः च वरटा च कच्छपः च डुली च , र्श्यः च रोहित्च इति । तल्लक्षणः चेतेव विशेषः इति उच्यते । न च अत्र तल्लक्षणः एव विशेषः । तल्लक्षणः एव विशेषः यत्समानायां आकृतौ शब्दभेदः ।
पाणिनीयसूत्र १,२।६८।१) कि.,२४८।१२-१८ रो.,१६२ किमर्थं इदं उच्यते न पुमान्स्त्रिया इति एव सिद्धं । न सिध्यति । तल्लक्षणः चेतेव विशेषः इति उच्यते । न च अत्र तल्लक्षणः एव विशेषः । तल्लक्षणः एव विशेषः यत्समानायां आकृतौ शब्दभेदः । एवं तर्हि सिद्धे सति यतिमं योगं शास्ति तत्ज्ञापयति आचार्यः : यत्र ऊर्ध्वं प्रकृतेः तल्लक्षणः एव विशेषः तत्र एकशेषः भवति इति । किं एतस्य ज्ञापने प्रयोजनं । हंसः च वरटा च , कच्छपः च डुली च , र्श्यः च रोहित्च इति अत्र एकशेषः न भवति । पूर्वयोः योगयोः भूयान्परिहारः । यावत्ब्रूयात्गोत्रं यूना इति तावत्वृद्धः यूना इति । पूर्वसूत्रे गोत्रस्य वृद्धं इति सञ्ज्ञा क्रियते ।
पाणिनीयसूत्र १,२।६८।२) कि.,२४८।१९-२४९।२० रो.,१६३-१६५ (कात्यायन वार्तिक)असरूपाणां युवस्थविरस्त्रीपुंसानां विशेषस्य अविवक्षितत्वात्सामान्यस्य च विवक्षितत्वात्सिद्धं (वार्तिकान्त)। असरूपाणां युवस्थविरस्त्रीपुंसानां विशेषः च अविवक्षितः सामान्यं च विवक्षितं । विशेषस्य अविवक्षितत्वात्सामान्यस्य च विवक्षितत्वात्सरूपाणां एकशेषः एकविभक्तौ इति एव सिद्धं । पुमान्स्त्रिया इह कस्मात्न भवति : ब्राह्मणवत्सा च ब्राह्मणीवत्सः च इति । (कात्यायन वार्तिक)ब्राह्मणवत्साब्राह्मणीवत्सयोः विभक्तिपरस्य विशेषवाचकत्वातनेकशेषः(वार्तिकान्त) । ब्राह्मणवत्साब्राह्मणीवत्सयोः लिङ्गस्य विभक्तिपरस्य विशेषवाचकत्वातेकशेषः न भविष्यति । यत्र लिङ्गं विभक्तिपरं एव विशेषवाचकं तत्र एकशेषः भवति । न अत्र लिङ्गं विभक्तिपरं एव विशेषवाचकं । यदि तर्हि यत्र लिङ्गं विभक्तिपरं एव विशेषवाचकं तत्र एकशेषः भवति इह न प्राप्नोति : कारकः च कारिका च कारकौ । न हि अत्र लिङ्गं विभक्तिपरं एव विशेषवाचकं । कथं पुनः इदं विज्ञायते : शब्दः या स्त्री तल्लक्षणः चेतेव विशेषः इति आहोस्वितर्थः या स्त्री तल्लक्षणः चेतेव विशेषः इति । किं च अतः । यदि विज्ञायते शब्दः या स्त्री तल्लक्षणः चेतेव विशेषः इति सिद्धं कारकः च कारिका च कारकौ । इदं तु न सिध्यति : गोमान्च गोमती च गोमन्तौ । अथ विज्ञायते अर्थः या स्त्री तल्लक्षणः चेतेव विशेषः इति सिद्धं गोमान्च गोमती च गोमन्तौ । इदं तु न सिध्यति : कारकः च कारिका च कारकौ । उभयथा अपि पटुः च पट्वी च पटू* इति एतत्न सिध्यति । एवं तर्हि न एवं विज्ञायते शब्दः या स्त्री तल्लक्षणः चेतेव विशेषः इति न अपि अर्थः या स्त्री तल्लक्षणः चेतेव विशेषः इति । कथं तर्हि । शब्दार्थौ या स्त्री तत्सद्भावेन च तल्लक्षणः विशेषः आश्रीयते । एवं च कृत्वा इह अपि प्राप्तिः : ब्राह्मणवत्सा च ब्राह्मणीवत्सः च इति । एवं तर्हि इदं इह व्यपदेश्यं सताचार्यः न व्यपदिशति । किं । ततिति अनुवर्तते । ततिति अनेन प्रकृतौ स्त्रीपुंसौ प्रतिनिर्दिश्येते । कौ च प्रकृतौ । प्रधाने । प्रधानं या शब्दस्त्री प्रधानं या अर्थस्त्री इति ।
पाणिनीयसूत्र १,२।६९) कि.,२४९।२२-२५०।१० रो.,१६६-१६७ अयं योगः शक्यः अवक्तुं । कथं शुक्लः च कम्बलः शुक्लं च वस्त्रं ततिदं शुक्लं , ते* इमे शुक्ले , शुक्लः च कम्बलः शुक्ला च बृहतिका शुक्लं च वस्त्रं ततिदं शुक्लं , तानि इमनि शुक्लानि । (कात्यायन वार्तिक)प्रधाने कार्यसम्प्रत्ययात्शेषः(वार्तिकान्त) । प्रधाने कार्यसम्प्रत्ययात्शेषः भविष्यति । किं च प्रधानं । नपुंसकं । कथं पुनः ज्ञायते नपुंसकं प्रधानं इति । एवं हि दृश्यते लोके : अनिर्ज्ञाते अर्थे गुणसन्देहे च नपुंसकलिङ्गं प्रयुज्यते । किं जातं इति उच्यते । द्वयं च एव हि जायते स्त्री वा पुमान्वा । तथा विदूरे अव्यक्तं आरूपं दृष्ट्वा वक्तारः भवन्ति महिषीरूपं इव ब्राह्मणीरूपं इव । प्रधाने कार्यसम्प्रत्ययात्नपुंसकस्य शेषः भविष्यति । इदं तर्हि प्रयोजनं : एकवत्च अस्य अन्यतरस्यां इति वक्ष्यामि इति । एततपि न अस्ति प्रयोजनं । (कात्यायन वार्तिक)आकृतिवाचित्वातेकवचनम्(वार्तिकान्त) । आकृतिवाचित्वातेकवचनं भविष्यति । यदा द्रव्याभिधानं तदा द्विवचनबहुवचने भविष्यतः ।
पाणिनीयसूत्र १,२।६८,७०-७१) कि.,२५०।१३-२५१।७ रो.,१६८-१६९ किमर्थं इदं उच्यते न पुमान्स्त्रिया इति एव सिद्धं । भ्रातृपुत्रपितृश्वशुराणां कारणात्द्रव्ये शब्दनिवेशः । भ्रातृपुत्रपितृश्वशुराणां कारणात्द्रव्ये शब्दनिवेशः भवति । (कात्यायन वार्तिक)भ्रातृपुत्रपितृश्वशुराणां कारणाद्द्रव्ये शब्दनिवेशः इति चेत्तुल्यकारणत्वात्सिद्धम्(वार्तिकान्त) । यदि तावत्बिभर्ति इति भ्राता स्वसरि अपि एतत्भवति । तथा यदि पुनाति प्रीणाति इति वा पुत्रः दुहितरि अपि एतत्भवति । तथा यदि पाति पालयति इति वा पिता मातरि अपि एतत्भवति । तथा यदि आशु आप्तव्यः श्वशुरः श्वश्र्वां अपि एतत्भवति । दर्शनं वै हेतुः । न हि स्वसरि भ्रातृशब्दः दृश्यते । (कात्यायन वार्तिक)दर्शनं हेतुः इति चेत्तुल्यम्(वार्तिकान्त) । दर्शनं हेतुः इति चेत्तुल्यं एतत्भवति । स्वसरि अपि भ्रातृशब्दः दृश्यतां । तुल्यं हि कारणं । न वै एषः लोके सम्प्रत्ययः । न हि लोके भ्राता आनीयतां इति उक्ते स्वसा आनीयते । (कात्यायन वार्तिक)तद्विषयं च(वार्तिकान्त) । तद्विषयं च एतत्द्रष्टव्यं भवति : स्वसरि भ्रातृत्वं । किंविषयं । एकशेषविषयं । युक्तं पुनः यत्नियतविषयाः शब्दाः स्युः । बाढं युक्तं । (कात्यायन वार्तिक)अन्यत्र अपि तद्विषयदर्शनात्(वार्तिकान्त) । अन्यत्र अपि तद्विषयाः शब्दाः दृश्यन्ते । तत्यथा : समाने रक्ते वर्णे गौः लोहितः इति भवति अश्वः शोणः इति । समाने च काले वर्णे गौः कृष्णः इति भवति अश्वः हेमः इति । समाने च शुक्ले वर्णे गौः श्वेतः इति भवति अश्वः कर्कः इति ।
पाणिनीयसूत्र १,२।७२।१) कि.,२५१।९-१४ रो.,१६९-१७० (कात्यायन वार्तिक)त्यदादितः शेषे पुन्नपुंसकतः लिङ्गवचनानि(वार्तिकान्त) । त्यदादितः शेषे पुन्नपुंसकतः लिङ्गवचनानि भवन्ति । सा च देवदत्तः च तौ सा च कुण्डे च तानि । (कात्यायन वार्तिक)अद्वन्द्वतत्पुरुषविशेषणानाम्(वार्तिकान्त) । अद्वन्द्वतत्पुरुषविशेषणानां इति वक्तव्यं । इह मा भूत। सः च कुक्कुटः सा च मयूरी कुक्कुटमयूर्यौ ते । अर्धं पिप्पल्याः ततर्धपिप्पली च सा अर्धपिप्पल्यौ ते ।
पाणिनीयसूत्र १,२।७२।२) कि.,२५१।१५-२५२।११ रो.,१७०-१७१ अयं अपि योगः शक्यः अवक्तुं । कथं । (कात्यायन वार्तिक)त्यदादीनां सामान्यार्थत्वात्(वार्तिकान्त) । त्यदादीनां सामान्यं अर्थः । आतः च सामान्यं । देवदत्ते अपि हि सः इति एतत्भवति यज्ञदत्ते अपि । त्यदादीनां सामान्यार्थत्वात्शेषः भविष्यति । इदं तर्हि प्रयोजनं : परस्य शेषं वक्ष्यामि इति । (कात्यायन वार्तिक)परस्य च उभयवाचित्वात्(वार्तिकान्त) । उभयवाचि परं । (कात्यायन वार्तिक)पूर्वशेषदर्शनात्च(वार्तिकान्त) । पूर्वस्य खलु अपि शेषः दृश्यते : सः च यः च तौ आनय , यौ आनय इति । इदं तर्हि प्रयोजनं :द्वन्द्वः मा भूतिति । एततपि न अस्ति प्रयोजनं । (कात्यायन वार्तिक)सामान्यविशेषवाचिनोः च द्वन्द्वाभावात्सिद्धं (वार्तिकान्त)। सामान्यविशेषवाचिनोः च द्वन्द्वः न भवति इति वक्तव्यं । यदि सामान्यविशेषवाचिनोः द्वन्द्वः न भवति इति उच्यते शूद्राभीरं , गोबलीवर्दं , तृणोलपं इति न सिध्यति । न एषः दोषः । इह तावत्शूद्राभीरं इति : आभीराः जात्यन्तराणि । गोबलीवर्दं इति : गावः उत्कालितपुंस्काः वाहाय च विक्रयाय च । स्त्रियः एव अवशिष्यन्ते । तृणोलपं इति : अपां उलपं इति नामधेयं । तत्तर्हि वक्तव्यं । न वक्तव्यं । सामान्येन उक्तत्वात्विशेषस्य प्रयोगः न भविष्यति । सामान्येन उक्तत्वात्तस्य अर्थस्य विशेषस्य प्रयोगेण न भवितव्यं । किं कारणं । उक्तार्थानां अप्रयोगः इति । न तर्हि इदानीं इदं भवति : तं ब्राह्मणं आनय गार्ग्यं इति । भवति यदा नियोगतः तस्य एव आनयनं भवति । एवं तर्हि येन एव खलु अपि हेतुना एतत्वाक्यं भवति तं ब्राह्मणं आनय गार्ग्यं इति तेन एव हेतुना वृत्तिः अपि प्राप्नोति । तस्मात्सामान्यविशेषवाचिनोः द्वन्द्वः न भवति इति वक्तव्यं ।
पाणिनीयसूत्र १,२।७३) कि.,२५२।१३-२३ रो.,१७२ अयं अपि योगः शक्यः अवक्तुं । कथं गावः इमाः चरन्ति , अजाः इमाः चरन्ति । गावः उत्कालितपुंस्काः वाहाय च विक्रयाय च । स्त्रियः एव अवशिष्यन्ते । इदं तर्हि प्रयोजनं : ग्राम्येषु इति वक्ष्यामि इति । इह मा भूतः न्यङ्कवः इमे , शूकराः इमे इति । कः पुनः अर्हति अग्राम्याणां पुंसः उत्कालयितुं ये ग्रहीतुं अशक्याः । कुतः एव वाहाय च विक्रयाय च । इदं तर्हि प्रयोजनं : पशुषु इति वक्ष्यामि इति । इह मा भूतः ब्राह्मणाः इमे , वृषलाः इमे । कः पुनः अर्हति अपशूनां पुंसः उत्कालयितुं ये अशक्याः वाहाय च विक्रयाय च । इदं तर्हि प्रयोजनं : सङ्घेषु इति वक्ष्यामि इति । इह मा भूतः एतौ गावः चरतः । कः पुनः अर्हति निर्ज्ञाते अर्थे अन्यथा प्रयोक्तुं । इदं तर्हि प्रयोजनं : अतरुणेषु इति वक्ष्यामि इति । इह मा भूतः उरणकाः इमे , बर्कराः इमे इति । कः पुनः अर्हति तरुणानां पुंसः उत्कालयितुं ये अशक्याः वाहाय च विक्रयाय च । अनेकशफेषु इति वक्तव्यं इह मा भूतः अश्वाः चरन्ति । गर्दभाः चरन्ति इति ।
पाणिनीयसूत्र १,३।१।१) कि.,२५३।२-२५४।१२ रो.,१७३-१७८ कुतः अयं वकारः । यदि तावत्संहितया निर्देशः क्रियते भ्वादयः इति भवितव्यं । अथ असंहितया भू-आदयः इति भवितव्यं । अतः उत्तरं पठति : (कात्यायन वार्तिक)भूवादीनां वकारः अयं मङ्गलार्थः प्रयुज्यते(वार्तिकान्त) । माङ्गलिकः आचार्यः महतः शास्त्रौघस्य मङ्गलार्थं वकारं आगमं प्रयुङ्क्ते । मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि हि शास्त्राणि प्रथन्ते वीरपुरुषाणि च भवन्ति आयुष्मत्पुरुषाणि च । अध्येतारः च सिद्धार्थाः यथा स्युः इति । अथ आदिग्रहणं किमर्थं । यदि तावत्पठ्यन्ते न अर्थः आदिग्रहणेन । अन्यत्र अपि हि अयं पठनादिग्रहणं न करोति । क्व अन्यत्र । मृडमृदगुधकुषक्लिशवदवसः क्त्वा इति । अथ न पठ्यन्ते नतरां अर्थः आदिग्रहणेन । न हि अपठिताः शक्याः आदिग्रहणेन विशेषयितुं । एवं तर्हि सिद्धे सति यतादिग्रहणं करोति तत्ज्ञापयति आचार्यः अस्ति च पाठः बाह्यः च सूत्रातिति । किं एतस्य ज्ञापने प्रयोजनं । पाठेन धातुसञ्ज्ञा इति एततुपपन्नं भवति । (कात्यायन वार्तिक)पाठेन धातुसञ्ज्ञायां समानशब्दप्रतिषेधः(वार्तिकान्त) । पाठेन धातुसञ्ज्ञायां समानशब्दानां प्रतिषेधः वक्तव्यः । या इति धातुः या इति आबन्तः । वा इति धातुः वा इति निपातः । नु इति धातुः नु इति प्रत्ययः च निपातः च । दिविति धातुः दिविति प्रातिपदिकं । किं च स्यात्यदि एतेषां अपि धातुसञ्ज्ञा स्यात। धातोः इति तव्यादीनां उत्पत्तिः प्रसज्येत । न एषः दोषः । साधने तव्यादयः विधीयन्ते साधनं च क्रियायाः । क्रियाभावात्साधनाभावः । साधनाभावात्सत्यां अपि धातुसञ्ज्ञायां तव्यादयः न भविष्यन्ति । इह तर्हि : याः पश्य : आतः धातोः इति लोपः प्रसज्येत । न एषः दोषः । अनापः इति एवं सः । अस्य तर्हि वाशब्दस्य निपातस्य अधातुः इति प्रातिपदिकसञ्ज्ञायाः प्रतिषेधः प्रसज्येत । अप्रातिपदिकत्वात्स्वाद्युत्पत्तिः न स्यात। न एषः दोषः । निपातस्य अनर्थकस्य प्रातिपदिकत्वं चोदितं । तत्र अनर्थकग्रहणं न करिष्यते : निपातः प्रातिपदिकं इति एव । इह तर्हि : त्रस्नू इति : अचि श्नुधातुभ्रुवां य्वोः इयङुवङौ इति उवङादेशः प्रसज्येत । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न प्रत्ययस्य उवङादेशः भवति इति यतयं तत्र श्नुग्रहणं करोति । अस्य तर्हि दिव्शब्दस्य अधातुः इति प्रातिपदिकसञ्ज्ञायाः प्रतिषेधः प्रसज्येत । अप्रातिपदिकत्वात्स्वाद्युत्पत्तिः न स्यात। न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति उत्पद्यन्ते दिव्शब्दात्स्वादयः इति यतयं दिवः सौ औत्त्वं शास्ति । न एततस्ति ज्ञापकं । अस्ति हि अन्यतेतस्य वचने प्रयोजनं । किं । दिव्शब्दः यत्प्रातिपदिकं तदर्थं एतत्स्यातः अक्षद्यूः इति । न वै अत्र इष्यते । अनिष्टं च प्राप्नोति इष्टं च न सिध्यति । एवं तर्हि अननुबन्धकग्रहणे न सानुबन्धकस्य इति एवं एतस्य न भविष्यति । एवं अपि अननुबन्धकः दिव्शब्दः न अस्ति इति कृत्वा सानुबन्धकस्य ग्रहणं विज्ञास्यते । (कात्यायन वार्तिक)परिमाणग्रहणं च(वार्तिकान्त) । परिमाणग्रहणं च कर्तव्यं । इयानवधिः धातुसञ्ज्ञः भवति इति वक्तव्यं कुतः हि एतत्भूशब्दः धातुसञ्ज्ञः भविष्यति न पुनः भ्वेध्शब्दः इति ।
पाणिनीयसूत्र १,३।१।२) कि.,२५४।१३-२५६।१७ रो.,१७९-१८५ यदि पुनः क्रियावचनः धातुः इति एतत्लक्षणं क्रियेत । का पुनः क्रिया । ईहा । का पुनः ईहा । चेष्टा । का पुनः चेष्टा । व्यापारः । सर्वथा भवान्शब्देन एव शब्दानाचष्टे । न किं चिदर्थजातं निदर्शयति : एवञ्जातीयिका क्रिया इति । क्रिया नाम इयं अत्यन्तापरिदृष्टा । अशक्या क्रिया पिण्डीभूता निदर्शयितुं यथा गर्भः निर्लुठितः । सा असौ अनुमानगम्या । कः असौ अनुमानः । इह सर्वेषु साधनेषु सन्निहितेषु कदा चित्पचति इति एतत्भवति कदाचित्न भवति । यस्मिन्साधने सन्निहिते पचति इति एतत्भवति सा नूनं क्रिया । अथ वा यया देवदत्तः इह भूत्वा पाटलिपुत्रे भवति सा नूनं क्रिया । कथं पुनः ज्ञायते क्रियावचनाः पचादयः इति । यतेषां करोतिना सामानाधिकरण्यं : किं करोति । पचति । किं करिष्यति । पक्ष्यति । किं अकार्षीत। अपाक्षीतिति । तत्र (कात्यायन वार्तिक)क्रियावचने उपसर्गप्रत्ययप्रतिषेधः(वार्तिकान्त) । क्रियावचने धातौ उपसर्गप्रत्यययोः प्रतिषेधः वक्तव्यः । पचति प्रपचति । किं पुनः कारणं प्राप्नोति । (कात्यायन वार्तिक)सङ्घातेन अर्थगतेः(वार्तिकान्त) । सङ्घातेन हि अर्थः गम्यते सप्रकृतिकेन सप्रत्ययकेन सोपसर्गेण च । (कात्यायन वार्तिक)अस्तिभवतिविद्यतीनां धातुत्वम्(वार्तिकान्त) । अस्तिभवतिविद्यतीनां धातुसञ्ज्ञा वक्तव्या । यथा हि भवता करोतिना पचादीनां सामानाधिकरण्यं निदर्शितं न तथा अस्त्यादीनां निदर्श्यते । न हि भवति किं करोति अस्ति इति । (कात्यायन वार्तिक)प्रत्ययार्थस्य अव्यतिरेकात्प्रकृत्यन्तरेषु(वार्तिकान्त) । प्रत्ययार्थस्य अव्यतिरेकात्प्रकृत्यन्तरेषु मन्यामहे धातुः एव क्रियां आह इति । पचति पठति : प्रकृत्यर्थः अन्यः च अन्यः च । प्रत्ययार्थः सः एव । (कात्यायन वार्तिक)धातोः च अर्थाभेदात्प्रत्ययान्तरेषु(वार्तिकान्त) । धातोः च अर्थाभेदात्प्रत्ययान्तरेषु मन्यामहे धातुः एव क्रियां आह इति । पक्ता पचनं पाकः इति : प्रत्ययार्थः अन्यः च अन्यः च भवति । प्रकृत्यर्थः सः एव। कथं पुनः ज्ञायते अयं प्रकृत्यर्थः अयं प्रत्ययार्थः इति । (कात्यायन वार्तिक)सिद्धं तु अन्वयव्यतिरेकाभ्याम्(वार्तिकान्त) । अन्वयात्व्यतिरेकात्च । कः असौ अन्वयः व्यतिरेकः वा । इह पचति इति उक्ते कः चित्शब्दः श्रूयते : पच्शब्दः चकारान्तः अतिशब्दः च प्रत्ययः । अर्थः अपि कः चित्गम्यते : विक्लित्तिः कर्तृत्वं एकत्वं च । पठति इति उक्ते कः चित्शब्दः हीयते कः चितुपजायते कः चितन्वयी : पच्शब्दः हीयते पठ्शब्दः उपजायते अतिशब्दः अन्वयी । अर्थः अपि कः चित्हीयते कः चितुपजायते कः चितन्वयी : विक्लित्तिः हीयते पठिक्रिया उपजायते कर्तृत्वं च एकत्वं च अन्वयी । ते मन्यामहे : यः शब्दः हीयते तस्य असौ अर्थः यः अर्थः हीयते । यः शब्दः उपजायते तस्य असौ अर्थः यः अर्थः उपजायते । यः शब्दः अन्वयी तस्य असौ अर्थः यः अर्थः अन्वयी । विषमः उपन्यासः । बहवः हि शब्दाः एकार्थाः भवन्ति । तत्यथा : इन्द्रः शक्रः पुरुहूतः पुरन्दरः , कन्दुः कोष्ठः कुशूलः इति । एकः च शब्दः बह्वर्थः । तत्यथा : अक्षाः पादाः माषाः इति । अतः किं न साधीयः अर्थवत्ता सिद्धा भवति । न अपि ब्रूमः अर्थवत्ता न सिध्यति इति ।वर्णिता अर्थवत्ता अन्वयव्यतिरेकाभ्यां एव । तत्र कुतः एततः अयं प्रकृत्यर्थः अयं प्रत्ययार्थः इति न पुनः प्रकृतिः एव उभौ अर्थौ ब्रूयात्प्रत्ययः एव वा । सामान्यशब्दाः एते एवं स्युः । सामान्यशब्दाः च न अन्तरेण प्रकरणं विशेषं वा विशेषेषु अवतिष्ठन्ते । यतः तु खलु नियोगतः पचति इति उक्ते स्वभावतः कस्मिन्चित्विशेषे पचतिशब्दः वर्तते अतः मन्यामहे न इमे सामान्यशब्दाः इति । न चेत्सामान्यशब्दाः प्रकृतिः प्रकृत्यर्थे वर्तते प्रत्ययः प्रत्ययार्थे । (कात्यायन वार्तिक)क्रियाविशेषकः उपसर्गः(वार्तिकान्त) । पचति इति क्रिया गम्यते । तां प्रः विशिनष्टि । यदि अपि तावतत्र एतत्शक्यते वक्तुं यत्र धातुः उपसर्गं व्यभिचरति यत्र न खलु तं व्यभिचरति तत्र कथं : अध्येति , अधीते इति । यदि अपि अत्र धातुः उपसर्गं न व्यभिचरति उपसर्गः तु धातुं व्यभिचरति । ते मन्यामहे : यः एव अस्य अधेः अन्यत्र अर्थः स इह अपि इति । कः पुनः अन्यत्र अधेः अर्थः । अधिः उपरिभावे वर्तते । इह तर्हि व्यक्तं अर्थान्तरं गम्यते : तिष्ठति प्रतिष्ठते इति । तिष्ठति इति व्रजिक्रियायाः निवृत्तिः प्रतिष्ठते इति व्रजिक्रिया गम्यते । ते मन्यामहे उपसर्गकृतं एतत्येन अत्र व्रजिक्रिया गम्यते । प्रः अयं दृष्टापचारः आदिकर्मणि वर्तते । न च इदं न अस्ति बह्वर्थाः अपि धातवः भवन्ति इति । तत्यथा : वपिः प्रकिरणे डृष्टः छेदने अपि वर्तते : केशश्मश्रु वपति इति । ईडिः स्तुतिचोदनायाच्ञासु दृष्टः प्रेरणे अपि वर्तते : अग्निः वै इतः वृष्टिं ईट्टे मरुतः अमुतः च्यावयन्ति इति । करोतिः अभूतप्रादुर्भावे दृष्टः निर्मलीकरणे अपि वर्तते : पृष्ठं कुरु पाचौ , कुरु । उन्मृदान इति गम्यते । निक्षेपणे च अपि वर्तते : कटे कुरु , घटे कुरु , अश्मानं इतः कुरु । स्थापय इति गम्यते । एवं इह अपि तिष्ठतिः एव व्रजिक्रियां आह तिष्ठतिः एव व्रजिक्रियायाः निवृत्तिं । अयं तर्हि दोषः : अस्तिभवतिविद्यतीनां धातुत्वं इति ।
पाणिनीयसूत्र १,३।१।३) कि.,२५६।१८-२५८।६ रो.,१८५-१९२ यदि पुनः भाववचनः धातुः इति एवं लक्षणं क्रियेत । कथं पुनः ज्ञायते भाववचनाः पचादयः इति । यतेषां भवतिना सामानाधिकरण्यं : भवति पचति , भवति पक्ष्यति , भवति अपाक्षीतिति । कः पुनः भावः । भवतेः स्वपदार्थः भवनं भावः इति । यदि भवतेः स्वपदार्थः भवनं भावः विप्रतिषिद्धानां धातुसञ्ज्ञा न प्राप्नोति : भेदः , छेदः । अन्यः हि भावः अन्यः हि अभावः । आतः च अन्यः भावः अन्यः अभावः इति । यः हि यस्य भावं इच्छति सः न तस्य अभावं यस्य च अभावं न तस्य भावं । पचादीनां च धातुसञ्ज्ञा न प्राप्नोति । यथा हि भवता क्रियावचने धातौ करोतिना पचादीनां सामानाधिकरण्यं निदर्शितं न तथा भाववचने धातौ निदर्श्यते । करोतिः पचाचीनां सर्वान्कालान्सर्वान्पुरुषान्सर्वाणि च वचनानि अनुवर्तते । भवतिः पुनः वर्तमानकालं च एव एकत्वं च । का तर्हि इयं वाचोयुक्तिः : भवति पचति , भवति पक्ष्यति , भवति अपाक्षीतिति । एषा एषा वाचोयुक्तिः : पचादयः क्रियाः भवतिक्रियायाः कर्त्र्यः भवन्ति इति । यदि अपि तावतत्र एतत्शक्यते वक्तुं यत्र अन्या च अन्या च क्रिया यत्र खलु सा एव क्रिया तत्र कथं : भवेतपि भवेत्, स्यातपि स्यातिति । अत्र अपि अन्यत्वं अस्ति । कुतः । कालभेदात्साधनभेदात्च । एकस्य अत्र भवतेः भवतिः साधनं सर्वकालः च प्रत्ययः । अपरस्य बाह्यं साधनं वर्तमानकालः च प्रत्ययः । यावता अत्र अपि अन्यत्वं अस्ति पचादयः च क्रियाः भवतिक्रियायाः कर्त्र्यः भवन्ति इति अस्तु अयं कर्तृसाधनः : भवति इति भावः इति । किं कृतं भवति । विप्रतिषिद्धानां धातुसञ्ज्ञा सिद्धा भवति । भवेत्विप्रतिषिद्धानां धातुसञ्ज्ञा सिद्धा स्यात्प्रातिपदिकानां अपि प्राप्नोति : वृक्षः , प्लक्षः इति । किं कारणं । एतानि अपि हि भवन्ति । एवं तर्हि कर्मसाधनः भविष्यति : भाव्यते यः सः भावः इति । क्रिया च एव हि भाव्यते स्वभावसिद्धं तु द्रव्यं । एवं अपि भवेत्केषां चित्न स्यात्यानि न भाव्यन्ते । ये तु एते सम्बन्धिशब्दाः तेषां प्राप्नोति : माता पिता भ्राता इति । सर्वथा वयं प्रातिपदिकपर्युदासात्न मुच्यामहे । पठिष्यति हि आचार्यः : भूवादिपाठः प्रातिपदिकाणपयत्यादिनिवृत्त्यर्थः इति । यावता पठिष्यति पचादयः च क्रियाः भवतिक्रियायाः कर्त्र्यः भवन्ति इति अस्तु अयं कर्तृसाधनः : भवति इति भावः । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । एतेन एव अभिहितं सूत्रेण भूवादयः धातवः इति । कथं । न इदं आदिग्रहणं । वदेः अयं औणादिकः इञ्कर्तृसाधनः : भुवं वदन्ति इति भूवादयः इति । (कात्यायन वार्तिक)भाववचने तदर्थप्रत्ययप्रतिषेधः(वार्तिकान्त) । भाववचने धातौ तदर्थस्य प्रत्ययस्य प्रतिषेधः वक्तव्यः : शिश्ये इति । किं च स्यात। अशिति इति आत्त्वं प्रसज्येत । तत्हि धातोः विहितं । (कात्यायन वार्तिक)इतरेतराश्रयं च प्रत्यये भाववचनत्वं तस्मात्च प्रत्ययः(वार्तिकान्त) । इतरेतराश्रयं च भवति । का इतरेतराश्रयता । प्रत्यये भाववचनत्वं तस्मात्च प्रत्ययः । उत्पन्ने हि प्रत्यये भाववचनत्वं गम्यते सः च तावत्भाववचनातुत्पन्नः । ततेततितरेतराश्रयं भवति । इतरेतराश्रयाणि च न प्रकल्पन्ते । (कात्यायन वार्तिक)सिद्धं तु नित्यशब्दत्वातनाश्रित्य भाववचनत्वं प्रत्ययः(वार्तिकान्त) । सिद्धं एतत। कथं । नित्याः शब्दाः । नित्येषु च शब्देषु अनाश्रित्य भाववचनत्वं प्रत्ययः उत्पद्यते । (कात्यायन वार्तिक)प्रथमभावग्रहणं च(वार्तिकान्त) । प्रथमभावग्रहणं च कर्तव्यं । प्रथमं यः भावं आह इति । कुतः पुनः प्राथम्यं । किं शब्दतः आहोस्वितर्थतः । किं च अतः । यदि शब्दतः सनादीनां धातुसञ्ज्ञा न प्राप्नोति : पुत्रीयति वस्त्रीयति इति । अथ अर्थतः सिद्धा सनादीनां धातुसञ्ज्ञा सः एव तु दोषः भवति : भाववचने तदर्थप्रत्ययप्रतिषेधः इति । एवं तर्हि न एव अर्थतः न एव शब्दतः । किं तर्हि । अभिधानतः । सुमध्यमे अभिधाने यः प्रथमं भावं आह।
पाणिनीयसूत्र १,३।१।४) कि.,२५८।७-२१ रो.,१९३-१९६ इह ये एव भाववचने धातौ दोषाः ते एव क्रियावचने अपि । तत्र ते एव परिहाराः । तत्र इदं अपरिहृतं : अस्तिभवतिविद्यतीनां धातुत्वं इति । तस्य परिहारः । कां पुनः क्रियां भवान्मत्वा आह अस्तिभवतिविद्यतीनां धातुसञ्ज्ञा न प्राप्नोति इति । किं यत्तत्देवदत्तः कंसपात्र्यां पाणिना ओदनं भुङ्क्ते इति । न ब्रूमः कारकाणि क्रिया इति । किं तर्हि । कारकाणां प्रवृत्तिविशेषः क्रिया । अन्यथा च कारकाणि शुष्कौदने प्रवर्तन्ते अन्यथा च मांसौदने । यदि एवं सिद्धा अस्तिभवतिविद्यतीनां धातुसञ्ज्ञा । अन्यथा हि कारकाणि अस्तौ प्रवर्तन्ते अन्यथा हि म्रियतौ । षट्भावविकाराः इति ह स्म आह भगवान्वार्ष्यायणिः : जायते अस्ति विपरिणमते वर्धते अपक्षीयते विनश्यति इति । सर्वथा स्थितः इति अत्र धातुसञ्ज्ञा न प्राप्नोति । बाह्यः हि एभ्यः तिष्ठतिः । एवं तर्हि क्रियायाः क्रिया निवर्तिका भवति द्रव्यं द्रव्यस्य निवर्तकं । एवं हि कः चित्कं चित्पृच्छति । किमवस्थः देवदत्तस्य व्याधिः इति । सः आह : वर्धते इति । अपरः आह : अपक्षीयते इति । अपरः आह : स्थितः इति । स्थितः इति उक्ते वर्धतेः च अपक्षीयतेः च निवृत्तिः भवति । अथ वा न अन्तरेण क्रियां भूतभविष्यद्वर्तमानाः कालाः व्यज्यन्ते । अस्त्यादिभिः च अपि भूतभविष्यद्वर्तमानाः कालाः व्यज्यन्ते । अथ वा न अन्यत्प्र्ष्टेन अन्यताख्येयं । तेन न भविष्यति किं करोति अस्ति इति ।
पाणिनीयसूत्र १,३।१।५) कि.,२५८।२२-२५९।१४ रो.,१९६-१९८ अथ यदि एव क्रियावचनः धातुः इति एषः पक्षः अथ अपि भाववचनः धातुः किं गतं एततियता सूत्रेण आहोस्वितन्यतरस्मिन्पक्षे भूयः सूत्रं कर्तव्यं । गतं इति आह । कथं । अयं आदिशब्दः अस्ति एव व्यवस्थायां वर्तते । तत्यथा : देवदत्तादीन्समुपविष्टानाह : देवदत्तादयः आनीयन्तां इति । ते उत्थाप्य आनीयन्ते । अस्ति प्रकारे वर्तते । तत्यथा : देवदत्तादयः आढ्याः अभिरूपाः दर्शनीयाः पक्षवन्तः । देवदत्तप्रकाराः इति गम्यते । प्रत्येकं च आदिशब्दः परिसमाप्यते । भ्वादयः इति च वादयः इति च । तत्यदा तावत्क्रियावचनः धातुः इति एषः पक्षः तदा भू इति अत्र यः आदिशब्दः सः व्यवस्थायां वर्तते वा इति अत्र यः आदिशब्दः सः प्रकारे । भू इति एवमादयः वा इति एवम्प्रकाराः इति । यदा तु भाववचनः धातुः इति एषः पक्षः तदा वा इति अत्र यः आदिशब्दः सः व्यवस्थायां भू इति अत्र यः आदिशब्दः सः प्रकारे । वा इति एवमादयः भू इति एवम्प्रकाराः इति । यदि तर्हि लक्षणं क्रियते न इदानीं पाठः कर्तव्यः । कर्तव्यः च । किं प्रयोजनं । (कात्यायन वार्तिक)भूवादिपाठः प्रातिपदिकाणपयत्यादिनिवृत्त्यर्थः(वार्तिकान्त) । भूवादिपाठः कर्तव्यः । किं प्रयोजनं । प्रातिपदिकाणपयत्यादिनिवृत्त्यर्थः । प्रातिपदिकनिवृत्त्यर्थः आणपयत्यादिनिवृत्त्यर्थः च । के पुनः आणपयत्यादयः । आणपयति वट्टति वड्ढति इति । (कात्यायन वार्तिक)स्वरानुबन्धज्ञापनाय च(वार्तिकान्त) । स्वरानुबन्धज्ञापनाय च पाठः कर्तव्यः : स्वराननुबन्धान्च ज्ञास्यामि इति । न हि अन्तरेण पाथं स्वराः अनुबन्धाः वा शक्याः विज्ञातुं । ये तु एते न्याय्यविकरणाः उदात्ताः अननुबन्धकाः पठ्यन्ते एतेषां पाठः शक्यः अकर्तुं । एतेषां अपि अवश्यं आणपयत्यादिनिवृत्त्यर्थः पाठः कर्तव्यः । न कर्तव्यः । शिष्टप्रयोगाताणपयत्यादीनां निवृत्तिः भविष्यति । सः च अवश्यं शिष्टप्रयोगः उपास्यः ये अपि पठ्यन्ते तेषां अपि विपर्यासनिवृत्त्यर्थः । लोके हि कृष्यर्थे कसिं प्रयुञ्जते दृश्यर्थे च दिशिं ।
पाणिनीयसूत्र १,३।२।१) कि.,२५९।१६-२३ रो.,१९८-१९९ उपदेशे इति किमर्थं । अभ्रे आÁ अपः : उद्देशे यः अनुनासिकः तस्य मा भूतिति । कः पुनः उद्देशोपदेशयोः विशेषः । प्रत्यक्षं आख्यानं उपदेशः , गुणैः प्रापणं उद्देशः । प्रत्यक्षं तावताख्यानं उपदेशः । तत्यथा : अगोज्ञाय कः चित्गां सख्थनि कर्णे वा गृहीत्वा उपदिशति : अयं गौः इति । सः प्रत्यक्षं आख्यातं आह : उपदिष्टः मे गौः इति । गुणैः प्रापणं उद्देशः । तत्यथा : कः चित्कं चिताह : देवदत्तं मे भवानुद्दिशतु इति । सः इहस्थः पाटलिपुत्रस्थं देवदत्तं उद्दिशति : अङ्गदी कुण्डली किरीटी व्यूढोरस्कः वृत्तबाहुः लोहिताक्षः तुङ्गनासः चित्राभरणः ईदृशः देवदत्तः इति । सः गुणैः प्राप्यमाणं आह : उद्दिष्टः मे देवदत्तः इति ।
पाणिनीयसूत्र १,३।२।२) कि.,२५९।२४-२६१।३ रो.,१९९-२०२ (कात्यायन वार्तिक)इत्सञ्ज्ञायां सर्वप्रसङ्गः अविशेषात्(वार्तिकान्त) । इत्सञ्ज्ञायां सर्वप्रसङ्गः । सर्वस्य अनुनासिकस्य इत्सञ्ज्ञा प्राप्नोति । अस्य अपि प्राप्नोति : अभ्रे आÁ अपः । किं कारणं । अविशेषात। न हि कः चित्विशेषः : उपादीयते एवञ्जातीयकस्य अनुनासिकस्य इत्सञ्ज्ञा भवति इति । अनुपादीयमाने विशेषे सर्वप्रसङ्गः । किं उच्यते अनुपादीयमाने विशेषे इति । कथं न नाम उपादीयते यदा उपदेशे इति उच्यते । लक्षणेन हि उपदेशः । सङ्कीर्णौ उद्देशोपदेशौ । प्रत्यक्षं आख्यानं उद्देशः गुणैः च प्रापणं उपदेशः । प्रत्यक्षं तावताख्यानं उद्देशः । तत्यथा : कः चित्कं चिताह : अनुवाकं मे भवानुद्दिशतु इति । सः तस्मै आचष्टे : इषेत्वकं अधीष्व । शन्नोदेवीयं अधीष्व इति । सः प्रत्यक्षं आख्यातं आह : उद्दिष्टः मे अनुवाकः । तं अध्येष्ये इति । गुणैः च प्रापणं उपदेशः । तत्यथा : कः चित्कं चिताह : ग्रामन्तरं गमिष्यामि । पन्थानं मे भवानुपदिशतु इति । सः तस्मै आचष्टे : अमुष्मिनवकाशे हस्तदक्षिणः ग्रहीतव्यः , अमुष्मिन्हस्तवामः इति । सः गुणैः प्राप्यमाणं आह : उपदिष्टः मे पन्थाः इति । एवं एतौ सङ्कीर्णौ उद्देशोपदेशौ । एवं तर्हि इत्कार्याभावातित्सञ्ज्ञा न भविष्यति । ननु च लोपः एव इत्कार्यं स्यात। अकार्यं लोपः । इह हि शब्दस्य द्व्यर्थः उपदेशः । कार्यार्थः वा भवति उपदेशः श्रवणार्थः वा । कार्यं च इह न अस्ति । कार्ये च असति यदि श्रवणं अपि न स्यातुपदेशः अनर्थकः स्यात। इदं अस्ति इत्कार्यं : अभ्रे आÁ अटितः : अनन्तरलक्षणायां इत्सञ्ज्ञायां सत्यां आदितः च इति इट्प्रतिषेधः प्रसज्येत । (कात्यायन वार्तिक)सिद्धं तु उपदेशने अनुनासिकवचनात्(वार्तिकान्त) । सिद्धं एतत्कथं । उपदेशने यः अनुनासिकः सः इत्सञ्ज्ञः भवति इति वक्तव्यं । किं पुनः उपदेशनं । शास्त्रं । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं इत्सञ्ज्ञायां सर्वप्रसङ्गः अविशेषातिति । न एषः दोषः । उपदेशः इति घञयं करणसाधनः । न सिध्यति । परत्वात्ल्युट्प्राप्नोति । न ब्रूमः अकर्तरि च कारके सञ्ज्ञायां इति । किं तर्हि । हलः च इति । तत्र अपि सञ्ज्ञायां इति वर्तते । न च एषा सञ्ज्ञा । प्रायवचनातसञ्ज्ञायां अपि भविष्यति । प्रायवचनात्सञ्ज्ञायां एव स्यात्वा न वा । न हि उपाधेः उपाधिः भवति विशेषणस्य वा विशेषणं । यदि न उपाधेः उपाधिः भवति विशेषणस्य वा विशेषणं कल्याण्यादीनां इनङ्कुलटायाः वा इनङ्विभाषा न प्राप्नोति । इनङेव अत्र प्रधानं । विहितः प्रत्ययः प्रकृतः च अनुवर्तते । इह तर्हि : वाकिनादीनां कुक्च पुत्रातन्यतरस्यां इति कुक्विभाषा न प्राप्नोति । अत्र अपि कुकेव प्रधानं । विहितः प्रत्ययः प्रकृतः च अनुवर्तते । एवं न च इदं अकृतं भवति न उपाधेः उपाधिः भवति विशेषणस्य वा विशेषणं इति न च कः चित्दोषः भवति । एवं च कृत्वा घञ्न प्राप्नोति । एवं तर्हि कृत्यल्युटः बहुलं इति एवं अत्र घञ्भविष्यति ।
पाणिनीयसूत्र १,३।३।१) कि.,२६१।५-१५ रो.,२०२-२०३ (कात्यायन वार्तिक)हलन्त्ये सर्व्प्रसङ्गः सर्वान्त्यत्वात्(वार्तिकान्त) । हलन्त्ये सर्व्प्रसङ्गः । सर्वस्य हलः इत्सञ्ज्ञा प्राप्नोति । किं कारणं । सर्वान्त्यत्वात। सर्वः हि हल्तं तं अवधिं प्रति अन्त्यः भवति । (कात्यायन वार्तिक)सिद्धं तु व्यवसितान्त्यत्वात्(वार्तिकान्त) । सिद्धं एतत। कथं । व्यवसितान्त्यत्वात। व्यवसितान्त्यः हलित्सञ्ज्ञः भवति इति वक्तव्यं । के पुनः व्यवसिताः । धातुप्रातिपदिकप्रत्ययनिपातागमादेशाः । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं हलन्त्ये सर्व्प्रसङ्गः सर्वान्त्यत्वातिति । न एषः दोषः । आह अयं हलन्त्यं इत्सञ्ज्ञं भवति इति । सर्वः च हल्तं तं अवधिं प्रति अन्त्यः भवति । तत्र प्रकर्षगतिः विज्ञास्यते : साधीयः यः अन्त्यः इति । कः च साधीयः । यः व्यवसितान्त्यः । अथ वा सापेक्षः अयं निर्देशः क्रियते । न च अन्यत्किं चितपेक्ष्यं अस्ति । ते व्यवसितं एव अपेक्षिष्यामहे ।
पाणिनीयसूत्र १,३।३।२) कि.,२६१।१६-२६२।३ रो.,२०३-२०५ (कात्यायन वार्तिक)लकारस्य अनुबन्धाज्ञापितत्वात्हल्ग्रहणाप्रसिद्धिः(वार्तिकान्त) । लकारस्य अनुबन्धत्वेन अज्ञापितत्वात्हल्ग्रहणाप्रसिद्धिः । हलन्त्यं इत्सञ्ज्ञं भवति इति उच्यते । लकारस्य एव तावतित्सञ्ज्ञा न प्राप्नोति । (कात्यायन वार्तिक)सिद्धं तु लकारनिर्देशात्(वार्तिकान्त) । सिद्धं एतत। कथं । लकारनिर्देशः कर्तव्यः । हलन्त्यं इत्सञ्ज्ञं भवति लकारः च इति वक्तव्यं । (कात्यायन वार्तिक)एकशेषनिर्देशात्वा(वार्तिकान्त) । अथ वा एकशेषनिर्देशः अयं । हल्च हल्च हल। हलन्त्यं इत्सञ्ज्ञं भवति इति । अथ वा ल्कारस्य एव इदं गुणभूतस्य ग्रहणं । तत्र उपदेशे अचनुनासिक इतिति इत्सञ्ज्ञा भविष्यति । अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति लकारस्य इत्सञ्ज्ञा इति यतयं णलं लितं करोति ।
पाणिनीयसूत्र १,३।३।३) कि.,२६२।४-१७ रो.,२०५-२०७ (कात्यायन वार्तिक)प्रातिपदिकप्रतिषेधः अकृत्तद्धिते(वार्तिकान्त) । अकृत्तद्धितान्तस्य प्रातिपदिकस्य प्रतिषेधः वक्तव्यः । उदश्वित्शक्र्टिति । अकृत्तद्धितान्तस्य इति किमर्थं । कुम्भकारः नगरकारः औपगवः कापटवः । (कात्यायन वार्तिक)इदर्थाभावात्सिद्धम्(वार्तिकान्त) । इत्कार्याभावातत्र इत्सञ्ज्ञ न भविष्यति । इदं अस्ति इत्कार्यं तित्स्वरितं इति स्वरितत्वं यथा स्यात। न एततस्ति । प्रत्ययग्रहणं तत्र चोदयिष्यति । इदं तर्हि : राजा तक्षा । ञ्निति आद्युदात्तत्वं यथा स्यात। ञ्निति इति उच्यते । तत्र व्यपवर्गाभावात्न भविष्यति । इदं तर्हि स्वः । उपोत्तमं रिति एषः स्वरः यथा स्यात। स्वरितकरणसामर्थ्यात्न भविष्यति । न्यङ्स्वरौ स्व्रितौ इति । इह तर्हि अन्तः । उत्तमशब्दः त्रिप्रभृतिषु वर्तते । न च अत्र त्रिप्रभृतयः सन्ति । इह तर्हि सनुतः । उपोत्तमं रिति इति एषः स्वरः यथा स्यात। अन्तोदात्तनिपातनं करिष्यते । सः च निपातस्वरः रित्स्वरस्य बाधकः भविष्यति । एतत्च अत्र युक्तं यतित्कार्याभावातित्सञ्ज्ञा न स्यात। यत्र इत्कार्यं भवति भवति तत्र इत्सञ्ज्ञा । तत्यथा आगस्त्यकौण्डिन्ययोः अगस्तिकुण्डिनच।
पाणिनीयसूत्र १,३।४) कि.,२६२।१९-२६३।९ रो.,२०७-२०९ (कात्यायन वार्तिक)विभक्तौ तवर्गप्रतिषेधः अतद्धिते(वार्तिकान्त) । विभक्तौ तवर्गप्रतिषेधः अतद्धिते इति वक्तव्यं । इह मा भूत। किमः अत्क्वे प्रेप्सन्दीप्यसे क्व अर्धमासाः इति । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । आचार्यप्रवृत्तिः ज्ञापायति न विभक्तौ तद्धिते प्रतिषेधः भवति इति यतयं इदमः थमुः इति मकारस्ये इत्सञ्ज्ञापरित्राणार्थं उकारं अनुबन्धं करोति । यदि एतत्ज्ञाप्यते इदानीं इति अत्र अपि प्राप्नोति । इत्कार्याभावातत्र इत्सञ्ज्ञा न भविष्यति । इदं अस्ति इत्कार्यं मितचः अन्त्यात्परः इति अचां अन्त्यात्परः यथा स्यात। इश्भावे कृते न अस्ति विशेषः मितचः अन्त्यात्परः इति वा परत्वे प्रत्ययः परः इति वा । सः एव तावतिश्भावः न प्राप्नोति । किं कारणं । प्राक्दिशः प्रत्ययेषु इति उच्यते । कः पुनः अर्हति इश्भावं प्राग्दिशः प्रत्ययेषु वक्तुं । किं तर्हि । प्राक्दिशः अर्थेषु इश्भावः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः प्रत्ययोत्पत्तिः । एवं तर्हि तदः अपि अयं वक्तव्यः । तदः च मितचः अन्त्यात्परत्वेन न सिध्यति । ननु च अत्र अपि अत्वे कृते न अस्ति विशेषः मितचः अन्त्यात्परः इति वा परत्वे प्रत्ययः परः इति वा । तत्हि अत्त्वं न प्राप्नोति । किं कारणं । विभक्तौ इति उच्यते । एवं तर्हि यकारान्तः दानीं करिष्यते । किं यकारः न श्रूयते । लुप्तनिर्दिष्टः यकारः ।
पाणिनीयसूत्र १,३।७।१) कि.,२६३।११-१८ रो.,२०९ (कात्यायन वार्तिक)चुञ्चुप्चणपोः चकारप्रतिषेधः(वार्तिकान्त) । चुञ्चुप्चणपोः चकारस्य प्रतिषेधः वक्तव्यः । केशचुञ्चुः केशचणः । (कात्यायन वार्तिक)इत्कार्याभावात्सिद्धम्(वार्तिकान्त) । इत्कार्याभावातत्र इत्सञ्ज्ञा न भविष्यति । इदं अस्ति इत्कार्यं चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वं यथा स्यात। पित्करणं इदानीं किमर्थं स्यात। (कात्यायन वार्तिक)पित्करणं किमर्थं इति चेत्पर्यायार्थम्(वार्तिकान्त) । पित्करणं किमर्थं इति चेत्पर्यायार्थं एतत्स्यात। एवं तर्हि यकारादी चुञ्चुप्चणपौ । किं यकारः न श्रूयते । लुप्तनिर्दिष्टः यकारः ।
पाणिनीयसूत्र १,३।७।२) कि.,२६३।१९-२६४।१० रो.,२१०-२११ (कात्यायन वार्तिक)इरः उपसङ्ख्यानम्(वार्तिकान्त) । इरः उपसङ्ख्यानं कर्तव्यं : रुधिरः अरुधत्, अरौत्सीत। अवयवग्रहणात्सिद्धं । रेफस्य अत्र हलन्त्यं इति इत्सञ्ज्ञा भविष्यति इकारस्य उपदेशे अचनुनासिकः इति । (कात्यायन वार्तिक)अवयवग्रहणातिति चेतिदिद्विधिप्रसङ्गः(वार्तिकान्त) । अवयवग्रहणातिति चेतिदिद्विधिप्रसङ्गः प्राप्नोति । भेत्ता छेत्ता । इदितः नुं धातोः इति नुं प्राप्नोति । यदि पुनः अयं इदिद्विधिः कुम्भीधान्यन्यायेन विज्ञायेत । तत्यथा । कुम्भीधान्यः श्रोत्रियः इति उच्यते । यस्य कुम्भ्यां एव धान्यं सः कुम्भीधान्यः । यस्य पुनः कुम्भ्यां च अन्यत्र च न असौ कुम्भीधान्यः । न अयं इदिद्विधिः कुम्भीधान्यन्यायेन शक्यः विज्ञातुं । इह हि दोषः स्यात। टुनदि नन्दथुः इति । एवं तर्हि न एवं विज्ञायते इकारः इत्यस्य सः अयं इदित्तस्य इदितः इति । कथं तर्हि । इकारः एव इतिदितिदिदन्तस्य इति । अथ वा ®कारस्य एव इदं इर्त्वभूतस्य ग्रहणं । तत्र उपदेशे अचनुनासिकः इतिति इत्सञ्ज्ञा भविष्यति । अथ वा आचार्यप्रवृत्तिः ज्ञापयति न एवञ्जातीयकानां इदिद्विधिः भवति इति यतयं इरितः कान्चित्नुमनुषक्तान्पठति । उबुन्दिर्निशामने । स्कन्दिर्गतिशोषणयोः । अथ वा आचार्यप्रवृत्तिः ज्ञापयति इर्शब्दस्य इत्सञ्ज्ञा भवति इति यतयं इरितः वा इति आह । अथ वा अन्ते इति वर्तते ।
पाणिनीयसूत्र १,३।९।१) कि.,२६४।१२-२० रो.,२११-२१२ तस्यग्रहणं किमर्थं । इत्सञ्ज्ञकः प्रतिनिर्दिश्यते । न एततस्ति प्रयोजनं । प्रकृतं इतिति वर्तते । क्व प्रकृतं । उपदेशे अचनुनासिकः इतिति । तत्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन च इह अर्थः । अर्थात्विभक्तिविपरिणामः भविष्यति । तत्यथा । उच्चानि देवदत्तस्य गृहाणि । आमन्त्रयस्व एनं । देवदत्तं इति गम्यते । देवदत्तस्य गावः अश्वाः हिरण्यं इति । आढ्यः वैधवेयः । देवदत्तः इति गम्यते । पुरस्तात्षष्ठीनिर्दिष्टं सतर्थात्द्वितीयानिर्दिष्टं प्रथमानिर्दिष्टं च भवति । एवं इह अपि पुरस्तात्प्रथमानिर्दिष्टं सतर्थात्षष्ठीनिर्दिष्टं भविष्यति । इदं तर्हि प्रयोजनं । ये अनेकालः इत्सञ्ज्ञाः तेषां लोपः सर्वादेशः यथा स्यात। अथ क्रियमाणे अपि च तस्यग्रहणे कथं इव लोपः सर्वादेशः लभ्यः । लभ्यः इति आह । कुतः । वचनप्रामाण्यात। तस्यग्रहणसामर्थ्यात।
पाणिनीयसूत्र १,३।९।२) कि.,२६४।२१-२६५।१७ रो.,२१२-२१४ (कात्यायन वार्तिक)इतः लोपे णल्क्त्वानिष्ठासु उपसङ्ख्यानं इत्प्रतिषेधात्(वार्तिकान्त) । इतः लोपे णल्क्त्वानिष्ठासु उपसङ्ख्यानं कर्तव्यं । णल। अहं पपच । क्त्वा । देवित्वा सेवित्वा । निष्ठा । शयितः शयितवान। किं पुनः कारणं न सिध्यति । इत्प्रतिषेधात। प्रतिषिध्यते अत्र इत्सञ्ज्ञा । णलुत्तमः णित्वा भवति । क्त्वा सेट्न कित्भवति । निष्ठा सेट्न कित्भवति इति । (कात्यायन वार्तिक)सिद्धं तु णलादीनां ग्रहणप्रतिषेधात्(वार्तिकान्त)। सिद्धं एतत। कथं । णलादीनां ग्रहणानि प्रतिषिधन्ते । णलुत्तमः वा णिद्ग्रहणेन गृह्यते । क्त्वा सेट्न किद्ग्रहणेन गृह्यते । निष्ठा सेट्न किद्ग्रहणेन गृह्यते इति । (कात्यायन वार्तिक)निर्दिष्टलोपात्वा(वार्तिकान्त) । निर्दिष्टलोपात्वा सिद्धं एव । अथ वा निर्दिष्टस्य अयं लोपः क्रियते । तस्मात्सिद्धं एतत। (कात्यायन वार्तिक)तत्र तुस्मानां प्रतिषेधः(वार्तिकान्त) । तत्र तुस्मानां प्रतिषेधः वक्तव्यः । तस्मात्तस्मिन्यस्मात्यस्मिन्वृक्षाः प्लक्षाः अचिनवं असुनवं अकरवं । (कात्यायन वार्तिक)न वा उच्चारणसामर्थ्यात्(वार्तिकान्त) । न वा वक्तव्यः । किं कारणं । उच्चारणसामर्थ्यातत्र लोपः न भविष्यति । (कात्यायन वार्तिक)अनुबन्धलोपे भावाभावयोः विप्रतिषेधातप्रसिद्धिः (वार्तिकान्त)। अनुबन्धलोपे भावाभावयोः विरोधातप्रसिद्धिः । न ज्ञायते केन अभिप्रायेण प्रसजति केन निवृत्तिं करोति इति । (कात्यायन वार्तिक)सिद्धं तु अपवादन्यायेन(वार्तिकान्त) । सिद्धं एतत। कथं । अपवादन्यायेन । किं पुनः इह तथा यथा उत्सर्गापवादौ । (कात्यायन वार्तिक)भावः हि कार्याऋथः नन्यार्थः लोपः(वार्तिकान्त) । कार्यं करिष्यामि इति अनुबन्धः आसज्यते कार्यादन्यन्मा भूतिति लोपः ।
पाणिनीयसूत्र १,३।९।३) कि.,२६५।१८-२६७।६ रो.,२१४-२१७ अथ यस्य अनुबन्धः आसज्यते किं सः तस्य एकान्तः भवति आहोस्वितनेकान्तः । (कात्यायन वार्तिक)एकान्तः तत्र उपलब्धेः(वार्तिकान्त) । एकान्तः इति आह । कुतः । तत्र उपलब्धेः । तत्रस्थः हि असौ उपलभ्यते । तत्यथा वृक्षस्था शाखा वृक्षैकान्ता उपलभ्यते । (कात्यायन वार्तिक)तत्र असरूपसर्वादेशदाप्प्रतिषेधे पृथक्त्वनिर्देशः अनाकारान्तत्वात्(वार्तिकान्त) । तत्र असरूपविधौ दोषः भवति । कर्मणि अणातः अनुपसर्गे कः इति । कण्विषये अणपि प्राप्नोति । सर्वादेशे च दोषः भवति । दिवः औत्सर्वादेशः प्राप्नोति । दाप्प्रतिषेधे पृथक्त्वनिर्देशः कर्तव्यः । अदाब्दैपौ इति वक्तव्यं । किं पुनः कारणं न सिध्यति । अनाकारान्तत्वात। ननु च आत्त्वे कृते भविष्यति । तत्हि आत्त्वं न प्राप्नोति । किं कारणं । अनेजन्तत्वात। अस्तु तर्हि अनेकान्तः । (कात्यायन वार्तिक)अनेकान्ते वृत्तिविशेषः(वार्तिकान्त) । यदि अनेकान्तः वृत्तिविशेषः न सिध्यति । किति णिति इति कार्याणि न सिध्यन्ति । किं हि सः तस्य इत्भवति येन इत्कृतं स्यात। एवं तर्हि अनन्तरः । (कात्यायन वार्तिक)अनन्तरः इति चेत्पूर्वपरयोः इत्कृतप्रसङ्गः(वार्तिकान्त) । अनन्तरः इति चेत्पूर्वपरयोः इत्कृतं प्राप्नोति । वुञ्छण। (कात्यायन वार्तिक)सिद्धं तु व्यवसितपाठात्(वार्तिकान्त) । सिद्धं एतत। कथं । व्यवसितपाठः कर्तव्यः । वुञ्छण। सः च अवश्यं व्यवसितपाठः कर्तव्यः । (कात्यायन वार्तिक)इतरथा हि एकान्ते अपि सन्देहः(वार्तिकान्त) । अक्रियमाणे व्यवसितपाठे एकान्ते अपि सन्देहः स्यात। तत्र न ज्ञायते किं अयं पूर्वस्य भवति आहोस्वित्परस्य इति । सन्देहमात्रं एतत्भवति । सर्वसन्देहेषु च इदं उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहातलक्षणं इति । पूर्वस्य इति व्याख्यास्यमः । (कात्यायन वार्तिक)वृत्तात्वा(वार्तिकान्त) । वृत्तात्वा पुनः सिद्धं एतत। वृद्धिमन्तं आद्युदात्तं दृष्ट्वा ञितिति व्यवसेयं । अन्तोदात्तं दृष्ट्वा कितिति । युक्तं पुनः यत्वृत्तिनिमित्तकः अनुबन्धः स्यात्न अनुबन्धनिमित्तकेन नाम वृत्तेन भवितव्यं । वृत्तिनिमित्तकः एव अनुबन्धः । वृत्तिज्ञः हि आचार्यः अनुबन्धानासजति । उभयं इदं अनुबन्धेषु उक्तं एकान्ताः अनेकान्ताः इति । किं अत्र न्याय्यं । एकान्ताः इति न्याय्यं । कुतः एतत। अत्र हि हेतुः व्यपदिष्टः । यत्च नाम सहेतुकं तत्न्याय्यं । ननु च उक्तं तत्र असरूपसर्वादेशदाप्प्रतिषेधे पृथक्त्वनिर्देशः अनाकारान्तत्वातिति । असरूपविधौ तावत्न दोषः । आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतं असारूप्यं भवति इति यतयं ददातिदधात्योः विभाषा इति विभाषा शं शास्ति । यतपि उक्तं सर्वादेशे इति । अत्र अपि आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतं अनेकाल्त्वं भवति इति यतयं शित्सर्वस्य इति आह । यतपि उक्तं दाप्प्रतिषेधे पृथक्त्वनिर्देशः कर्तव्यः इति । न कर्तव्यः । आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतं अनेजन्तत्वं भवति इति यतयं उदीचां माङः व्यतीहारे इति मेङः सानुबन्धकस्य आत्त्वभूतस्य ग्रहणं करोति ।
पाणिनीयसूत्र १,३।१०।१) कि.,२६७।८-१३ रो.,२१८ किं इह उदाहरणं । इकः यणचि । दधि अत्र मधु अत्र । न एततस्ति । स्थाने अन्तरतमेन अपि एतत्सिद्धं । कुतः आन्तर्यं । तालुस्थानस्य तालुस्थानः ओष्ठस्थानस्य ओष्ठस्थानः भविष्यति इति । इदं तर्हि । तस्थस्थमिपां ताम्तम्तामः इति । ननु च एततपि स्थाने अन्तरतमेन एव सिद्धं । कुतः आन्तर्यं । एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बह्वर्थः भविष्यति इति । इदं तर्हि तूदीशलात्रुअवर्मतीकूचवारात्ढक्छण्ढञ्यकः इति ।
पाणिनीयसूत्र १,३।१०।२) कि.,२६७।१४-२६८।२ रो.,२१८-२२० किमर्थं पुनः इदं उच्यते । (कात्यायन वार्तिक)सञ्ज्ञासमासनिर्देशात्सर्वप्रसङ्गः अनुदेशस्य यथासङ्ख्यवचनं नियमार्थं (वार्तिकान्त)। सञ्ज्ञया समासैः च निर्देशाः क्रियन्ते । सञ्ज्ञया तावत। परस्मैपदानां णलतुसुस्थलथुसणल्वमाः इति । समासैः । तूदीशलातुरवर्मतीकूचवारात्ढक्छण्ढञ्यकः इति । सञ्ज्ञासमासनिर्देशात्सर्वप्रसङ्गः अनुदेशस्य यथासङ्ख्यवचनं नियमार्थं । सर्वस्य उद्देशस्य सर्वः अनुदेशः प्राप्नोति । इष्यते च समसङ्ख्यं यथा स्यातिति । तत्च अन्तरेण यत्नं न सिध्यति इति तत्र यथासङ्ख्यवचनं नियमार्थं । एवमर्थं इदं उच्यते । किं पुनः कारणं सञ्ज्ञया समासैः च निर्देशाः क्रियन्ते । (कात्यायन वार्तिक)सञ्ज्ञासमासनिर्देशः ल्पृथक्विभक्तिसञ्ज्ञ्यनुच्चारणार्थः (वार्तिकान्त)। सञ्ज्ञया समासैः च निर्देशाः क्रियन्तेपृथक्विभक्तीः सञ्ज्ञिनः च मा उच्चिचीरं इति । (कात्यायन वार्तिक)प्रकरणे च सर्वसम्प्रत्ययार्थः(वार्तिकान्त) । प्रकरणे च सर्वेषां सम्प्रत्ययः यथा स्यात। विदः लटः वा इति ।
पाणिनीयसूत्र १,३।१०।३) कि.,२६८।३-२७१।१७ रो.,२२०-२२७ किं पुनः शब्दतः साम्ये सङ्ख्यातानुदेशः भवति आहोस्वितर्थतः । कः च अत्र विशेषः । (कात्यायन वार्तिक)सङ्ख्यासाम्यं शब्दतः चेत्णलादयः परस्मैपदानां डारौरसः प्रथमस्य अयवायावः एचः इति अनिर्देशः(वार्तिकान्त) । अगमकः निर्देशः अनिर्देशः । परस्मैपदानां णलतुसुस्थलथुसणल्वमाः इति णलादयः बहवः परस्मैपदानां इति एकः शब्दः । वैषम्यात्सङ्ख्यातानुदेशः न प्राप्नोति । डारौरसः प्रथमस्य । डारौरसः बहवः प्रथमस्य इति एकः शब्दः । वैषम्यात्सङ्ख्यातानुदेशः न प्राप्नोति । एचः अयवायावः । अयवायावः बहवः एचः इति एकः शब्दः । वैषम्यात्सङ्ख्यातानुदेशः न प्राप्नोति । अस्तु तर्हि अर्थतः । अर्थतः चेत्(कात्यायन वार्तिक)लृलुटोर्नन्द्यरीहणसिन्धुतक्षशिलादिषु दोषः(वार्तिकान्त) । लृलुटोर्नन्द्यरीहणसिन्धुतक्षशिलादिषु दोषः भवति । स्यतासीलृलुटोः । स्यतासी द्वौ लृलुटोः इति अस्य त्रयः अर्थाः । वैषम्यात्सङ्ख्यातानुदेशः न प्राप्नोति । नन्दिग्रहिपचादिभ्यः ल्युणिन्यचः । नन्द्यादयः बहवः ल्युणिन्यचः त्रयः । वैषम्यात्सङ्ख्यातानुदेशः न प्राप्नोति । अरीहणादयः बहवः वुञादयः सप्तदश । वैषम्यात्सङ्ख्यातानुदेशः न प्राप्नोति । सिन्धुतक्षशिलादिभ्यः अणञौ । सिन्धुतक्षशिलादयः बहवः अणञौ द्वौ । वैषम्यात्सङ्ख्यातानुदेशः न प्राप्नोति । (कात्यायन वार्तिक)आत्मनेपदविधिनिष्ठासार्वधातुकद्विग्रहणेषु(वार्तिकान्त) । आत्मनेपदविधिनिष्ठासार्वधातुकद्विग्रहणेषु च दोषः भवति । आत्मनेपदविधिः च न सिध्यति । अनुदात्तङितः आत्मनेपदं । अनुदात्तङितौ द्वौ आत्मनेपदं इति अस्य द्वौ अर्थौ । तत्र सङ्ख्यातानुदेशः प्राप्नोति । निष्ठा । रदाभ्यां निष्ठातः नः पूर्वस्य च दः इति । रेफदकारौ द्वौ निष्ठा इति अस्य द्वौ अर्थौ । तत्र सङ्ख्यातानुदेशः प्राप्नोति । सार्वधातुकद्विग्रहणेषु च दोषः भवति । श्नसोः अल्लोपः श्नमस्ती द्वौ सार्वधातुकं इति अस्य द्वौ अर्थौ । तत्र सङ्ख्यातानुदेशः प्राप्नोति । (कात्यायन वार्तिक)एङः पूर्वत्वे प्रतिषेधः(वार्तिकान्त) । एङः पूर्वत्वे प्रतिषेधः वक्तव्यः । एङः पदान्तातति ङसिङसोः च । ङसिङसौ द्वौ एङिति अस्य द्वौ अर्थौ । तत्र सङ्ख्यातानुदेशः प्राप्नोति । अस्तु तर्हि शब्दतः । ननु च उक्तं सङ्ख्यासाम्यं शब्दतः चेत्णलादयः परस्मैपदानां डारौरसः प्रथमस्य अयवायावः एचः इति अनिर्देशः इति । न एषः दोषाः । स्थाने अन्तरतमः इति अनेन व्यवस्था भविष्यति । कुतः आन्तर्यं । एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बह्वर्थः । संवृतावर्णस्य संवृतावर्णः विवृतावर्णस्य विवृतावर्णः । (कात्यायन वार्तिक)अतिप्रसङ्गः गुणवृद्धिप्रतिषेधे क्ङिति(वार्तिकान्त) । अतिप्रसङ्गः भवति गुणवृद्धिप्रतिषेधे क्ङिति । गुणवृद्धी द्वे क्ङितौ द्वौ । तत्र सङ्ख्यातानुदेशः प्राप्नोति । न एषः दोषः । गकारः अपि अत्र निर्दिश्यते । तत्गकारग्रहणं अपि कर्तव्यं । न कर्तव्यं । क्रियते न्यासे एव । ककारे गकारः चर्त्वभूतः निर्दिश्यते । गिति किति ङिति इति । (कात्यायन वार्तिक)उदि कूले रुजिवहोः(वार्तिकान्त) । उदिकूले द्वे रुजिवहौ द्वौ । तत्र सङ्ख्यातानुदेशः प्राप्नोति । न एषः दोषः । न उदिः उपपदं । किं तर्हि । विशेषणं रुजिवहोः । उत्पूर्वाभ्यां रुजिवहिभ्यां कूले उपपदे इति । (कात्यायन वार्तिक)तच्छीलादिषु धातुत्रिग्रहणेषु(वार्तिकान्त) । तच्छीलादिषु धातुत्रिग्रहणेषु दोषः भवति । विदिभिदिच्छिदेः कुरच। विदिभिदिच्छिदयः त्रयः तच्छीलादयः त्रयः । तत्र सङ्ख्यातानुदेशः प्राप्नोति । (कात्यायन वार्तिक)घञादिषु द्विग्रहणेषु(वार्तिकान्त) । घञादिषु द्विग्रहणेषु दोषः भवति । निरभ्योः पूल्वोः । निरभी द्वौ पूल्वौ द्वौ । तत्र सङ्ख्यातानुदेशः प्राप्नोति । न एषः दोषः । इष्यते च अत्र सङ्ख्यातानुदेशः : निष्पावः , अभिलावः इति । एवं तर्हि अकर्तरि च कारके भावे च इति द्वौ पूल्वौ च द्वौ । तत्र सङ्ख्यातानुदेशः प्राप्नोति । (कात्यायन वार्तिक)अवे त्®स्त्रोः करणाधिकरणयोः(वार्तिकान्त) । त्®स्त्रौ द्वौ करणाधिकरणे द्वे । तत्र सङ्ख्यातानुदेशः प्राप्नोति । (कात्यायन वार्तिक)कर्तृकर्मणोः च भूकृञोः(वार्तिकान्त) । कर्तृकर्मणी द्वे भूकृञौ द्वौ । तत्र सङ्ख्यातानुदेशः प्राप्नोति । (कात्यायन वार्तिक)अनवक्ल्प्त्यमर्षयोः अकिंवृत्ते अपि(वार्तिकान्त) । अनवक्ल्प्त्यमर्षौ द्वौ किंवृत्ताकिंवृत्ते द्वे । तत्र सङ्ख्यातानुदेशः प्राप्नोति । (कात्यायन वार्तिक)कृभ्वोः क्त्वाणमुलौ(वार्तिकान्त) । कृभ्वौ द्वौ क्त्वाणमुलौ द्वौ । तत्र सङ्ख्यातानुदेशः प्राप्नोति । (कात्यायन वार्तिक)अधीयानविदुषोः छन्दोब्राह्मणानि(वार्तिकान्त) । छन्दोब्राह्मणानि इति द्वे अधीते वेद इति च द्वौ । तत्र सङ्ख्यातानुदेशः प्राप्नोति । (कात्यायन वार्तिक)रोपधेतोः पथिदूतयोः(वार्तिकान्त) । रोपधेतोः प्राचां तत्गच्छति पथिदूतयोः । रोपधेतौ द्वौ पथिदूतौ द्वौ । तत्र सङ्ख्यातानुदेशः प्राप्नोति । (कात्यायन वार्तिक)तत्र भवतः तस्य व्याख्यानः क्रतुयज्ञेभ्यः(वार्तिकान्त) । तत्र भवतस्तस्यव्याख्यानौ द्वौ क्रतुयज्ञौ द्वौ । तत्र सङ्ख्यातानुदेशः प्राप्नोति । (कात्यायन वार्तिक)सङ्घादिषु अञ्प्रभृतयः(वार्तिकान्त) षङ्घादिषु अञ्प्रभृतयः सङ्ख्यातानुदेशेन न सिध्यन्ति । न एषः दोषः । घोषग्रहणं अत्र कर्तव्यं । (कात्यायन वार्तिक)वेशोयशाअदेः भगात्यल्खौ(वार्तिकान्त) । वेशोयशाअदी द्वौ यल्खौ द्वौ । तत्र सङ्ख्यातानुदेशः प्राप्नोति । (कात्यायन वार्तिक)ङसिङसोः ख्यत्यात्परस्य(वार्तिकान्त) । ङसिङसौ द्वौ ख्यत्यौ द्वौ । तत्र सङ्ख्यातानुदेशः प्राप्नोति । (कात्यायन वार्तिक)न वा समानयोगवचनात्(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । समानयोगवचनात। समानयोगे सङ्ख्यातानुदेशं वक्ष्यामि । (कात्यायन वार्तिक)तस्य दोषः विदः लटः वा(वार्तिकान्त) । तस्य एतस्य लक्षणस्य दोषः विदः लटः वा इति सङ्ख्यातानुदेशः न प्राप्नोति । (कात्यायन वार्तिक)ध्माधेत्टोः नाडीमुष्ट्योः च(वार्तिकान्त) । ध्माधेत्टोः नाडीमुष्ट्योः च सङ्ख्यातानुदेशः न प्राप्नोति । (कात्यायन वार्तिक)खलगोरथातिनित्रकट्यचः च(वार्तिकान्त) । सङ्ख्यातानुदेशः न प्राप्नोति । (कात्यायन वार्तिक)सिन्ध्वपकराभ्यां कनणञौ च(वार्तिकान्त) । सङ्ख्यातानुदेशः न प्राप्नोति । (कात्यायन वार्तिक)युष्मदस्मदोः च आदेशाः(वार्तिकान्त) । युष्मदस्मदोः च आदेशाः सङ्ख्यातानुदेशेन न सिध्यन्ति । तस्मात्यस्मिन्पक्षे अल्पीयांसः दोषाः तां आस्थाय प्रतिविधेयं दोषेषु । अथ वा एवं वक्ष्यामि । यथासङ्ख्यं अनुदेशः समानां स्वरितेन । ततः अधिकारः । अधिकारः च भवति स्वरितेन इति । एवं अपि स्वरितं दृष्ट्वा सन्देहः स्यात। न ज्ञायते किं अयं समसङ्ख्यार्थः आहोस्वितधिकारार्थः इति । सन्देहमात्रं एतत्भवति । सर्वसन्देहेषु च इदं उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहातलक्षणं इति समसङ्ख्यार्थः इति व्याख्यास्यामः ।
पाणिनीयसूत्र १,३।११।१) कि.,२७१।१९-२७२।१० रो.,२२८-२२९ किमर्थं इदं उच्यते । (कात्यायन वार्तिक)अधिकारः प्रतियोगं तस्य अनिर्देशार्थः(वार्तिकान्त) । अधिकारः क्रियते प्रतियोगं तस्य अनिर्देशार्थः इति । किं इदं प्रतियोगं इति । योगं योगं प्रति प्रतियोगं । योगे योगे तस्य ग्रहणं मा कार्षं इति । किं गतं एततियता सूत्रेण । गतं इति आह । कुतः । लोकतः । तत्यथा लोके अधिकृतः असौ ग्रामे अधिकृतः असौ नगरे इति उच्यते यः यत्र व्यापारं गच्छति । शब्देन च अपि अधिकृतेन कः अन्यः व्यापारः शक्यः अवगन्तुं अन्यततः योगे योगे उपस्थानात। (कात्यायन वार्तिक)न वा निर्दिश्यमानाधिकृतत्वात्यथा लोके(वार्तिकान्त) । न वा एतत्प्रयोजनं । किं कारणं । निर्दिश्यमानाधिकृतत्वात्यथा लोके । निर्दिश्यमानं अधिकृतं गम्यते । तत्यथा । देवदत्ताय गौः दीयतां यज्ञदत्ताय विष्णुमित्राय इति । गौः इति गम्यते । एवं इह अपि पदरुजविशस्पृशः घञ्सृ स्थिरे भावे । घञिति गम्यते । (कात्यायन वार्तिक)अन्यनिर्देशः तु निवर्तकः तस्मात्परिभाषा(वार्तिकान्त) । अन्यनिर्देशः तु लोके निवर्तकः भवति । तत्यथा । देवदत्ताय गौः दीयतां यज्ञदत्ताय कम्बलः विष्णुमित्राय च इति । कम्बलः गोनिवर्तकः भवति । एवं इह अपि अभिविधौ भावे इनुण्घञः निवर्तकः स्यात। तस्मात्परिभाषा कर्तव्या ।
पाणिनीयसूत्र १,३।११।२) कि.,२७२।११-२७३।५ रो.,२२९-२३० (कात्यायन वार्तिक)अधिकारपरिमाणाज्ञानं तु(वार्तिकान्त) । अधिकारपरिमाणाज्ञानं तु भवति । न ज्ञायते कियन्तं अवधिं अधिकारः अनुवर्तते इति । (कात्यायन वार्तिक)अधिकारपरिमाणज्ञानार्थं तु(वार्तिकान्त) । अधिकारपरिमाणज्ञानार्थं एव तर्हि अयं योगः वक्तव्यः । अधिकारपरिमाणं ज्ञास्यामि इति । कथं पुनः स्वरितेन अधिकारः इति अनेन अधिकारपरिमाणं शक्यं विज्ञातुं । एवं वक्ष्यामि स्वरिते न अधिकारः इति । स्वरितं दृष्ट्वा अधिकारः न भवति इति । केन इदानीं अधिकारः भविष्यति । लौकिकः अधिकारः । (कात्यायन वार्तिक)न अधिकारः इति चेतुक्तम्(वार्तिकान्त) । किं उक्तं । अन्यनिर्देशः तु निवर्तकः तस्मात्परिभाषा इति । अधिकारार्थं एव तर्हि अयं योगः वक्तव्यः । ननु च उक्तं अधिकारपरिमाणाज्ञानं तु इति । (कात्यायन वार्तिक)यावतिथः अलनुबन्धः तावतः योगानिति वचनात्सिद्धम्(वार्तिकान्त) । यावतिथः अलनुबध्यते तावतः योगानधिकारः अनुवर्तते इति वक्तव्यं । अथ इदानीं यत्र अल्पीयांसः अलः भूयसः च योगानधिकारः अनुवर्तते कथं तत्र कर्तव्यं । (कात्यायन वार्तिक)भूयसि प्राग्वचनम्(वार्तिकान्त) । भूयसि प्राग्वचनं कर्तव्यं । प्राकमुतः इति वक्तव्यं । तत्तर्हि वक्तव्यं । न वक्तव्यं । सन्देहमात्रं एतत्भवति । सर्वसन्देहेषु च इदं उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहातलक्षणं इति । प्राकमुतः इति व्याख्यास्यामः । यदि एवं न अर्थः अनेन । केन इदानीं अधिकारः भविष्यति । लौकिकः अधिकारः । ननु च उक्तं न अधिकारः इति चेतुक्तं । किं उक्तं । अन्यनिर्देशः तु निवर्तकः तस्मात्परिभाषा । सन्देहमात्रं एतत्भवति । सर्वसन्देहेषु च इदं उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहातलक्षणं इति । इनुण्घञिति सन्देहे घञिति व्याख्यास्यामः ।
पाणिनीयसूत्र १,३।११।३) कि.,२७३।६-२५ रो.,२३०-२३२ न तर्हि इदानीं अयं योगः वक्तव्यः । वक्तव्यः च । किं प्रयोजनं । स्वरितेन अधिकारगतिः यथा विज्ञायेत , अधिकं कार्यं , अधिकः कारः । अधिकारगतिः : गोस्त्रियोः उपसर्जनं इति अत्र गोटाङ्ग्रहणं चोदितं । तत्न कर्तव्यं भवति । स्त्रीग्रहणं स्वरयिष्यते । स्वरितेन अधिकारगतिः भवति इति स्त्रियां इति एवं प्रकृत्य ये प्रत्ययाः विहिताः तेषां ग्रहणं विज्ञास्यते । तत्र स्वरितेन अधिकारगतिः भवति इति न दोषः भवति । अधिकं कार्यं : अपादानं आचार्यः किं न्याय्यं मन्यते । यत्र प्राप्य निवृत्तिः । तेन इह एव स्यातः ग्रामातागच्छति । नगरातागच्छति । साङ्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति अत्र न स्यात। स्वरितेन अधिकरं कार्यं भवति इति अत्र अपि सिद्धं भवति । तथा अधिकरणं आचार्यः किं न्याय्यं मन्यते । यत्र कृत्स्नः आधारात्मा व्याप्तः भवति । तेन इह एव स्यातः तिलेषु तैलं । दध्नि सर्पिः इति । गङ्गायां गावः । कूपे गर्गकुलं इति अत्र न स्यात। स्वरितेन अधिकरं कार्यं भवति इति अत्र अपि सिद्धं भवति । अधिकं कार्यं । अधिकः कारः : पूर्वविप्रतिषेधाः न पठितव्याः भवन्ति । गुणवृद्ध्यौत्त्वतृज्वद्भावेभ्यः नुं पूर्वविप्रतिषिद्धं नुमचिरतृज्वद्भावेभ्यः नुटिति । नुम्नुटौ स्वरयिष्येते । तत्र स्वरितेन अधिकः कारः भवति इति नुम्नुटौ भविष्यतः । कथं पुनः अधिकः कारः इति अनेन पूर्वविप्रतिषेधाः शक्य न पठितुं । लोकतः । तत्यथा लोके अधिकं अयं कारं करोति इति उच्यते यः अयं दुर्बलः सन्बलवद्भिः सह भारं वहति । एवं इह अपि अधिकं अयं कारं करोति इति उच्यते यः अयं पूर्वः सन्परं बाधते । अधिकारगतिः स्त्र्यर्था विशेषाय अधिकं कार्यं । अथ यः अन्यः अधिकः कारः पूर्वविप्रतिषेधार्थः सः ।
पाणिनीयसूत्र १,३।१२।१) कि.,२७४।२-११ रो.,२३३ विकरणेभ्यः प्रतिषेधः वक्तव्यः । चिनुतः सुनुतः लुनीतः पुनीतः । ङितः इति आत्मनेपदं प्राप्नोति । न एषः दोषः । न एवं विज्ञायते ङकारः इतस्य सः अयं ङित्ङितः इति । कथं तर्हि । ङकारः एव इत्ङित्ङितः । अथ वा उपदेशे इति वर्तते । अथ वा उक्तं एतत्सिद्धं तु पूर्वस्य कार्यातिदेशातिति । सर्वथा चङङ्भ्यां प्राप्नोति । एवं तर्हि धातोः इति वर्तते । क्व प्रकृतं । भूवादयः धातवः इति । तत्वै प्रथमानिर्दिष्टं पञ्चमीनिर्दिष्टेन च इह अर्थः । अर्थात्विभक्तिविपरिणामः भविष्यति । तत्यथा । उच्चानि देवदत्तस्य गृहाणि । आमन्त्रयस्व एनं । देवदत्तं इति गम्यते । देवदत्तस्य गावः अश्वाः हिरण्यं इति । आढ्यः वैधवेयः । देवदत्तः इति गम्यते । पुरस्तात्षष्ठीनिर्दिष्टं सतर्थात्द्वितीयानिर्दिष्टं प्रथमानिर्दिष्टं च भवति । एवं इह अपि पुरस्तात्प्रथमानिर्दिष्टं सतर्थात्पञ्चमीनिर्दिष्टं भविष्यति ।
पाणिनीयसूत्र १,३।१२।२) कि.,२७४।११-२७५।१५ रो.,२३३-२३७ किमर्थं पुनः इदं उच्यते । (कात्यायन वार्तिक)आत्मनेपदवचनं नियमार्थम्(वार्तिकान्त) । नियमार्थः अयं आरम्भः । किं उच्यते नियमार्थः अयं इति न पुनः विध्यर्थः अपि स्यात। (कात्यायन वार्तिक)लविधानात्विहितम्(वार्तिकान्त) । लविधानात्हि आत्मनेपदं परस्मैपदं च विहितं । अस्ति प्रयोजनं एतत। किं तर्हि इति । विकरणैः तु व्यवहितत्वात्नियमः न प्राप्नोति । इदं इह सम्प्रधार्यं । विकरणाः क्रियन्तां नियमः इति । किं अत्र कर्तव्यं । परत्वात्विकरणाः । नित्याः खलु अपि विकरणाः । कृते अपि नियमे प्राप्नुवन्ति अकृते अपि प्राप्नुवन्ति । नित्यत्वात्परत्वात्च विकरणेषु कृतेषु विकरणैः व्यवहितत्वात्नियमः न प्राप्नोति । न एषः दोषः । अनवकाशः नियमः । सावकाशः । कः अवकाशः । ये एते लुग्विकरणाः श्लुविकरणाः लिङ्लिटौ च । यदि पुनः इयं परिभाषा विज्ञायेत । किं कृतं भवति । कार्यकालं सञ्ज्ञापरिभाषं यत्र कार्यं तत्र द्रष्टव्यं । लस्य तिबादयः भवन्ति इति उपस्थितं इदं भवति अनुदात्तङितः आत्मनेपदं शेषात्कर्तरि परस्मैपदं इति । एवं अपि इतरेतराश्रयं भवति । का इतरेतराश्रयता । अभिनिर्वृत्तानां लस्य स्थाने तिबादीनां आत्मनेपदपरस्मैपदसञ्ज्ञया भवितव्यं सञ्ज्ञया च तिबादयः भाव्यन्ते । ततितरेतराश्रयं भवति । इतरेतराश्रयाणि कार्याणि च न प्रकल्पन्ते । परस्मैपदेषु तावत्न इतरेतराश्रयं भवति । परस्मैपदानुक्रमणं न करिष्यते । अवश्यं कर्तव्यं अनुपराभ्यां कृञः इति एवमर्थं । ननु च एततपि आत्मनेपदानुक्रमणे एव करिष्ये । स्वरितञितः कर्त्रभिप्रये क्रियाफले आत्मनेपदं भवति कर्तरि । अनुपराभ्यां कृञः न इति । आत्मनेपदेषु च अपि न इतरेतराश्रयं भवति । कथं । भाविनी सञ्ज्ञा विज्ञास्यते सूत्रशाटकवत। तत्यथा : कः चित्कं चित्तन्तुवायं आह : अस्य सूत्रस्य शाटकं वय इति । सः पश्यति । यदि शाटकः न वातव्यः अथ वातव्यः न शाटकः । शाटकः वातव्यः इति विप्रतिषिद्धम। भाविनी खलु अस्य सञ्ज्ञा अभिप्रेता । सः मन्ये वातव्यः यस्मिनुते शाटकः इति एतत्भवति इति । एवं इह अपि सः लस्य स्थाने कर्तव्यः ल्यस्य अभिनिर्वृत्तस्य आत्मनेपदं इति एषा सञ्ज्ञा भविष्यति । अथ वा पुनः अस्तु नियमः । ननु च उत्कं विकरणैः तु व्यवहितत्वात्नियमः न प्राप्नोति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति विकरणेभ्यः नियमः बलीयानिति यतयं विकरणविधौ आत्मनेपदपरस्मैपदानि आश्रयति । पुषादिद्युताद्ल्र्दितः परस्मैपदेषु आत्मनेपदेषु अन्यतरस्यां इति । न एततस्ति ज्ञापकं । अभिनिर्वृत्तानि हि लस्य स्थाने आत्मनेपदानि परस्मैपदानि च । यत्तर्हि अनुपसर्गात्वा इति विभाषां शास्ति ।
पाणिनीयसूत्र १,३।१२।३) कि.,२७५।१६-२७७।१८ रो.,२३७-२४४ किं पुनः अयं प्रत्ययनियमः : अनुदात्तङितः एव आत्मनेपदं भवति , भावकर्मणोः एव आत्मनेपदं भवति इति । आहोस्वित्प्रकृत्यर्थनियमः : अनुदात्तङितः आत्मनेपदं एव , भावकर्मणोः आत्मनेपदं एव । कः च अत्र विशेषः । (कात्यायन वार्तिक)तत्र प्रत्ययनियमे शेषवचनं परस्मैपदस्य अनिवृत्तत्वात्(वार्तिकान्त) । तत्र प्रत्ययनियमे शेषग्रहणं कर्तव्यं परस्मैपदनियमार्थं । शेषात्कर्तरि परस्मैपदं इति । किं कारणं । परस्मैपदस्य अनिवृत्तत्वात। प्रत्ययाः नियताः प्रकृत्यर्थौ अनियतौ । तत्र परस्मैपदं प्राप्नोति । तत्र शेषग्रहणं कर्तव्यं परस्मैपदनियमार्थं । शेषातेव परस्मैपदं भवति न अन्यतः इति । (कात्यायन वार्तिक)क्यषः आत्मनेपदवचनं तस्य अन्यत्र नियमात्(वार्तिकान्त) । क्यषः आत्मनेपदं वक्तव्यं । लोहितायति लोहितायते । किं पुनः कारणं न सिध्यति । तस्य अन्यत्र नियमात। तत्हि अन्यत्र नियम्यते । उच्यते च न च प्राप्नोति । तत्वचनात्भविष्यति । अस्तु तर्हि प्रकृत्यर्थनियमः । (कात्यायन वार्तिक)प्रकृत्यर्थनियमे अन्याभावः(वार्तिकान्त) । प्रकृत्यर्थनियमे अन्येषां प्रत्ययानां अभावः । अनुदात्तङितः तृजादयः न प्राप्नुवन्ति । न एषः दोषः । अनवकाशाः तृजादयः उच्यन्ते च । ते वचनात्भविष्यन्ति । सावकाशाः तृजादयः । कः अवकाशः । परस्मैपदिनः अवकाशः । तत्र अपि नियमात्न प्राप्नुवन्ति । तव्यादयः तर्हि भावकर्मणोः नियमात्न प्राप्नुवन्ति । तव्यादयः अपि अनवकाशाः । ते वचनात्भविष्यन्ति । चिण्तर्हि भावकर्मणोः नियमात्न प्राप्नोति । चिणपि वचनात्भविष्यति । घञ्तर्हि भावकर्मणोः नियमात्न प्राप्नोति । तत्र अपि प्रकृतं कर्मग्रहणं । क्व प्रकृतं । अण्कर्मणि च इति । तत्वै तत्र उपपदविशेषणं अभिधेयविशेषणेन च इह अर्थः । न च अन्यार्थं प्रकृतं अन्यार्थं भवति । न खलु अपि अन्यत्प्रकृतं अनुवर्तनातन्यत्भवति । न हि गोधा सर्पन्ती सर्पणातहिः भवति । यत्तावतुच्यते न च अन्यार्थं प्रकृतं अन्यार्थं भवति इति अन्यार्थं अपि प्रकृतं अन्यार्थं भवति टत्यथा । शाल्यर्थं कुल्याः प्रणीयन्ते ताभ्यः च पाणीयं पीयते उपश्पृश्यते च शालयः च भाव्यन्ते । यदपि उच्यते न खलु अपि अन्यत्प्रकृतं अनुवर्तनातन्यत्भवति । न हि गोधा सर्पन्ती सर्पणातहिः भवति इति । भवेत्द्रव्येषु एततेवं स्यात। शब्दः तु खलु येन येन विशेषेण अभिसम्बध्यते तस्य तस्य विशेषकः भवति । (कात्यायन वार्तिक)शेषवचनं च(वार्तिकान्त) । शेषग्रहणं च कर्तव्यं । शेषात्कर्तरि परस्मैपदं इति । किं प्रयोजनं । शेषनियमार्थं । प्रकृतर्थौ नियतौ । प्रत्ययाः अनियताः । ते शेषे अपि प्राप्नुवन्ति । तत्र शेषग्रहणं कर्तव्यं । शेषात्कर्तरि परस्मैपदं एव न अन्यतिति । (कात्यायन वार्तिक)कर्तरि च आत्मनेपदविषये परस्मैपदप्रतिषेधार्थम्(वार्तिकान्त) । कर्तरि च आत्मनेपदविषये परस्मैपदप्रतिषेधार्थं द्वितीयं शेषग्रहणं कर्तव्यं । शेषात्शेषे इति वक्तव्यं । इह मा भूत। भिद्यते कुशूलः स्वयं एव इति । कतरस्मिन्पक्षे अयं दोषः । प्रकृत्यर्थनियमे । प्रकृत्यर्थनियमे तावत्न दोषः । प्रकृत्यर्थौ नियतौ । प्रत्ययाः अनियताः । तत्र न अर्थः कर्तृग्रहणेन कर्तृग्रहणात्च दोषः । प्रत्ययनियमे तर्हि अयं दोषः । प्रत्ययाः नियताः । प्रकृत्यर्थौ अनियतौ । तत्र कर्तृग्रहणं कर्तव्यं भावकर्मणोः निवृत्त्यर्थं । कर्तृग्रहणात्च एषः दोषः । प्रकृत्यर्थनियमे शेषग्रहणं शक्यं अकर्तुं । कथं । प्रकृतयर्थौ नियतौ । प्रत्ययाः अनियताः । ततः वक्ष्यामि परस्मैपदं भवति इति । तत्नियमार्थं भविष्यति । यत्र परस्मैपदं च अन्यत्च प्राप्नोति तत्र परस्मैपदं एव भवति इति । तत्तर्हि प्रत्ययनियमे द्वितीयं शेषग्रहणं कर्तव्यं । न कर्तव्यं । योगविभागः करिष्यते । अनुदात्तङितः आत्मनेपदं । ततः भावकर्मणोः । ततः कर्तरि । कर्तरि च आत्मनेपदं भवति भावकर्मणोः । ततः कर्क्मव्यतिहारे । कर्तरि इति एव । भावकर्मणोः इति निवृत्तं । यथा एव तर्हि कर्मणि कर्तरि भवति एवं भावे अपि कर्तरि प्राप्नोति । एति जीवन्तं आनन्दः । न अस्य किं चित्रुजति इति । द्वितीयः योगविभागः करिष्यते । अनुदात्तङितः आत्मनेपदं । ततः भावे । ततः कर्मणि । कर्मणि च आत्मनेपदं भवति । ततः कर्तरि । कर्तरि च आत्मनेपदं भवति । कर्मणि इति अनुवर्तते । भावे इति निवृत्तं । ततः कर्मव्यतिहारे । कर्तरि इति एव । कर्मणि इति निवृत्तं । एवं अपि शेषग्रहणं कर्तव्यं अनुपराभ्यां कृञः इति एवमर्थं । इह मा भूतनुक्रियते स्वयं एव । पराक्रियते स्वयं एव । ननु च एततपि योगविभागातेव सिद्धं । न सिध्यति । अनन्तरा या प्राप्तिः सा योगविभागेन शक्या बाधितुं । कुतः एतत। अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति । परा प्राप्तिः अप्रतिषिद्धा । तया भविष्यति । ननु च इयं प्राप्तिः पूर्वां प्राप्तिं बाधते । न उत्सहते प्रतिषिद्धा सती बाधितुं । एवं तर्हि कर्तरि कर्मव्यतिहारे इति अत्र कर्तृग्रहणं प्रत्याख्यायते । तत्प्रकृतं उत्तरत्र अनुवर्तिष्यते । शेषात्कर्तरि कर्तरि इति । किमर्थं इदं कर्तरि कर्तरि इति । कर्ता एव यः कर्ता तत्र यथा स्यात। कर्ता च अन्यः च यः कर्ता तत्र मा भूतिति । ततः अनुपराभ्यां कृञः । कर्तरि कर्तरि इति एव ।
पाणिनीयसूत्र १,३।१४।१) कि.,२७७।२०-२७८।६ रो.,२४४-२४५ क्रियाव्यतिर्हारे इति वक्तव्यं । कर्मव्यतिर्हारे इति उच्यमाने इह प्रसज्येत देवदत्तस्य धान्यं व्यतिलुनन्ति इति इह च न स्यात्व्यतिलुनते व्यतिपुनते इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । क्रियां हि लोके कर्म इति उपचरन्ति । कां क्रियां करिष्यसि । किं कर्म करिष्यसि इति । एवं अपि कर्तव्यं । कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति । क्रिया अपि कृत्रिमं कर्म । न सिध्यति । कर्तुः ईप्सिततमं कर्म इति उच्यते । कथं च क्रिया नाम क्रियेप्सिततमा स्यात। क्रिया अपि क्रियेप्सिततमा भवति । कया क्रियया । सम्पश्यतिक्रियया प्रार्थयतिक्रियया अध्यवस्यतिक्रियया वा । इह यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सलः बुद्ध्या तावत्कं चितर्थं सम्पश्यति । सन्दृष्टे प्रार्थना प्रार्थिते अध्यवसायः अध्यवसाये आरम्भः आरम्भे निर्वृत्तिः निर्वृत्तौ फलावप्तिः । एवं क्रिया अपि कृत्रिमं कर्म । एवं अपि उभयोः कृत्रिमाकृत्रिमयोः उभयगतिः प्रसज्येत । तस्मात्क्रियाव्यतिहारे इति वक्तव्यं । न वक्तव्यं । इह कर्तरि व्यतिहारे इति इयता सिद्धं । सः अयं एवं सिद्धे सति यत्कर्मग्रहणं करोति तस्य एतत्प्रयोजनं क्रियाव्यतिहारे यथा स्यात्कर्मव्यतिहारे मा भूतिति ।
पाणिनीयसूत्र १,३।१४।२) कि.,२७८।७-२१ रो.,२४६ अथ कर्तृग्रहणं किमर्थं । (कात्यायन वार्तिक)कर्मव्यतिहारादिषु कर्तृग्रहणं भावकर्मनिवृत्त्यर्थम्(वार्तिकान्त) । कर्मव्यतिहारादिषु कर्तृग्रहणं क्रियते भावकर्मणोः अनेन आत्मनेपदं मा भूतिति । (कात्यायन वार्तिक)इतरथा हि तत्र प्रतिषेधे भावकर्मणोः प्रतिषेधः(वार्तिकान्त) । अक्रियमाणे कर्तृग्रहणे भावकर्मणोः अपि आत्मनेपदं प्रसज्येत । तत्र कः दोषः । तत्र प्रतिषेधे भावकर्मणोः प्रतिषेधः । तत्र कः दोषः । तत्र प्रतिषेधे भावकर्मणोः अपि अनेन आत्मनेपदस्य प्रतिषेधः प्रसज्येत । व्यतिगम्यन्ते ग्रामाः व्यतिहन्यन्ते दस्यवः इति । (कात्यायन वार्तिक)न वा अनन्तरस्य प्रतिषेधात्(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । अनन्तरस्य प्रतिषेधात। अनन्तरं यतात्मनेपदविधानं तस्य प्रतिषेधात। कुतः एतत। अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति । पूर्वा प्राप्तिः अप्रतिषिद्धा तया भविष्यति । ननु च इयं प्राप्तिः पूर्वां प्राप्तिं बाधते । न उत्सहते प्रतिषिद्धा सती बाधितुं । उत्तरार्थं तर्हि कर्तृग्रहणं कर्तव्यं । न कर्तव्यं । क्रियते तत्र एव शेषात्कर्तरि परस्मैपदं इति । द्वितीयं कर्तृग्रहणं कर्तव्यं । किं प्रयोजनं । कर्ता एव यः कर्ता तत्र यथा स्यात। कर्त च अन्यः च यः कर्ता तत्र मा भूतिति ।
पाणिनीयसूत्र १,३।१५) कि.,२७८।२३-२७९।३ रो.,२४७ (कात्यायन वार्तिक)प्रतिषेधे हसादीनां उपसङ्ख्यानम्(वार्तिकान्त) । प्रतिषेधे हसादीनां उपसङ्ख्यानं कर्तव्यं । व्यतिहसन्ति वयतिजल्पन्ति व्यतिपठन्ति । (कात्यायन वार्तिक)हरिवह्योः अप्रतिषेधः(वार्तिकान्त) । हरिवह्योः अप्रतिषेधः भवति इति वक्तव्यं । सम्प्रहरन्ते राजानः । संविवहन्ते गर्गैः इति । न वहिः गत्यर्थः । देशान्तरप्रापणक्रियः वहिः ।
पाणिनीयसूत्र १,३।१६) कि.,२७९।५ रो.,२४८ (कात्यायन वार्तिक)प्ररस्परोपपदात्च(वार्तिकान्त) । प्ररस्परोपपदात्च इति वक्तव्यं । परस्परस्य व्यतिलुनन्ति । परस्परस्य व्यतिपुनन्ति ।
पाणिनीयसूत्र १,३।१९) कि.,२७९।९-१३ रो.,२४८-२४९ उपसर्गग्रहणं कर्तव्यं । परा जयति सेना इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । यदि अपि तावतयं पराशब्दः दृष्टापचारः उपसर्गः च अनुपसर्गः च अयं तु खलु विशब्दः अदृष्टापचारः उपसर्गः एव । तस्य अस्य कः द्वितीयः सहायः भवितुं अर्हति अन्यततः उपसर्गात। तत्यथा अस्य गोः द्वितीयेन अर्थः इति गौः एव उपादीयते न अश्वः न गर्दभः ।
पाणिनीयसूत्र १,३।२०) कि.,२७९।१५-२३ रो.,२४९-२५० (कात्यायन वार्तिक)आङः दः अव्यसनक्रियस्य(वार्तिकान्त) । आङः दः अव्यसनक्रियस्य इति वक्तव्यं । इह अपि यथा स्यात। विपादिकां व्याददाति । कूलं व्याददाति इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । इह आङः दः अनास्ये इति इयता सिद्धं । सः अयं एवं सिद्धे सति यत्विहरणग्रहणं करोति तस्य एतत्प्रयोजनं आस्यविहरणसमानक्रियातपि यथा स्यात। यथाजातीयका च आस्यविहरणक्रिया तथाजातीयका अत्र अपि । (कात्यायन वार्तिक)स्वाङ्गकर्मात्च(वार्तिकान्त) । स्वाङ्गकर्मात्च इति वक्तव्यं । इह मा भूत। व्याददते पिपीलिकाः पतङ्गमुखं इति ।
पाणिनीयसूत्र १,३।२१) कि.,२८०।२-२० रो.,२५१-२५३ उपसर्गग्रहणं कर्तव्यं । इह मा भूत। अनु क्रीडति माणवकं । (कात्यायन वार्तिक)समः अकूजने(वार्तिकान्त) । समः अकूजने इति वक्तव्यं । इह मा भूत। सङ्क्रीडन्ति शकटानि । (कात्यायन वार्तिक)आगमेः क्षमायाम्(वार्तिकान्त) । आगमेः क्षमायां उपसङ्ख्यनं कर्तव्यं । आगमयस्व तावत्माणव्क । (कात्यायन वार्तिक)शिक्षेः जिज्ञासायाम्(वार्तिकान्त) । शिक्षेः जिज्ञासायां उपसङ्ख्यनं कर्तव्यं । विद्यासु शिक्षते । धनुषि शिक्षते । (कात्यायन वार्तिक)किरतेः हर्षजीविकाकुलायकरणेषु(वार्तिकान्त) । किरतेः हर्षजीविकाकुलायकरणेषु उपसङ्ख्यनं कर्तव्यं । अपस्किरते वृषभः हृष्टः । अपस्किरते कुक्कुटः भक्षार्थी । अपस्किरते श्वा आश्रयार्थी । (कात्यायन वार्तिक)हरतेः गतताच्छील्ये(वार्तिकान्त) । हरतेः गतताच्छील्ये उपसङ्ख्यनं कर्तव्यं । पैतृकं अश्वाः अनुहरन्ते । मातृकं गावः अनुहरन्ते । (कात्यायन वार्तिक)आङि नुप्रच्छ्योः(वार्तिकान्त) । आङि नुप्रच्छ्योः उपसङ्ख्यनं कर्तव्यं । आनुते शृगालः । आपृच्छते गुरुं । (कात्यायन वार्तिक)आशिषि नाथः(वार्तिकान्त) । आशिषि नाथः उपसङ्ख्यनं कर्तव्यं । सर्पिषः नाथते । मधुनः नाथते । (कात्यायन वार्तिक)शपः उपलम्भने(वार्तिकान्त) । शपः उपलम्भने उपसङ्ख्यनं कर्तव्यं । देवदत्ताय शपते । यज्ञदत्ताय शपते ।
पाणिनीयसूत्र १,३।२२) कि.,२८०।२२-२४ रो.,२५३ (कात्यायन वार्तिक)आङः स्थः प्रतिज्ञाने(वार्तिकान्त) । आङः स्थः प्रतिज्ञाने इति वक्तव्यं । अस्तिं सकारं आतिष्ठते । आगमौ गुणवृद्धी आतिष्ठते । विकारौ गुणवृद्धी आतिष्ठते ।
पाणिनीयसूत्र १,३।२४) कि.,२८१।२-३ रो.,२५३ (कात्यायन वार्तिक)उदः ईहायाम्(वार्तिकान्त) । उदः ईहायां इति वक्तव्यं । इह मा भूत। उत्तिष्ठति सेना इति ।
पाणिनीयसूत्र १,३।२५) कि., २८१।५-१७ रो.,२५४ (कात्यायन वार्तिक)उपात्पूजासङ्गतकरणयोः(वार्तिकान्त) । उपात्पूजासङ्गतकरणयोः इति वक्तव्यं । आदित्यं उपतिष्ठते । चन्द्रमसं उपतिष्ठते । सङ्गतकरणे । रथिकानुपतिष्ठते । अश्वारोहानुपतिष्ठते । बहूनां अपि अचित्तानां एकः भवति चित्तवान। पश्य वानरसैन्ये अस्मिन्यतर्कं उपतिष्ठते । मा एवं मंस्थाः सचित्तः अयं एषः अपि यथा वयं । एततपि अस्य कापेयं यतर्कं उपतिष्ठति । अपरः आह : (कात्यायन वार्तिक)उपात्देवपूजासङ्गतकरणमित्रकरणपथिषु (वार्तिकान्त)इति वक्तव्यं । सङ्गतकरणे उदाहृतं । मित्रकरणे । रथिकानुपतिष्ठते । अश्वारोहानुपतिष्ठते । पथि। अयं पन्थाः स्रुघ्नं उपतिष्ठते । अयं पन्थाः साकेतं उपतिष्थते । (कात्यायन वार्तिक)वा लिप्सायाम्(वार्तिकान्त) । वा लिप्सायां इति वक्तव्यं । भिक्षुकः ब्राह्मणकुलं उपतिष्ठते । भिक्षुकः ब्राह्मणकुलं उपतिष्ठति वा ।
पाणिनीयसूत्र १,३।२७) कि.,२८१।१९-२८२।५ रो.,२५५-२५६ अकर्मकातिति एव । उत्तपति सुवर्णं सुवर्णकारः । (कात्यायन वार्तिक)स्वाङ्गकर्मकात्च(वार्तिकान्त) । स्वाङ्गकर्मकात्च इति वक्तव्यं । उत्तपते पाणी । वितपते पाणी । उत्तपते पृष्ठं । वितपते पृष्ठं । अथ उद्भिभ्यां इति अत्र किं प्रत्युदाह्रियते । निष्टप्यते इति । किं पुनः कारणं आत्मनेपदं एव उदाह्रियते न परस्मैपदं प्रत्युदाहार्यं स्यात। तपिः अयं अकर्मकः । अकर्मकाः च अपि सोपसर्गाः सकर्मकाः भवन्ति । न च अन्तरेण कर्मकर्तारं सकर्मकाः अकर्मकाः भवन्ति । यतुच्यते न च अन्तरेण कर्मकर्तारं सकर्मकाः अकर्मकाः भवन्ति इति अन्तरेण अपि कर्मकर्तारं सकर्मकाः अकर्मकाः भवन्ति । तत्यथा । नदीवहति इति अकर्मकः । भारं वहति इति सकर्मकः । तस्मात्निष्टपति इति प्रत्युदाहर्तव्यं ।
पाणिनीयसूत्र १,३।२८) कि.,२८२।७-९ रो.,२५६ अकर्मकातिति एव । आयच्छति रज्जुं कूपात। आहन्ति वृषलं पादेन । (कात्यायन वार्तिक)स्वाङ्गकर्मकात्च(वार्तिकान्त) । स्वाङ्गकर्मकात्च इति वक्तव्यं । आयच्छते पाणी । आहते उदरं इति ।
पाणिनीयसूत्र १,३।२९) कि.,२८२।११-१८ रो.,२५६-२५७ (कात्यायन वार्तिक)समः गम्यादिषु विदिप्रच्छिस्वरतीनां उपसङ्ख्यानम्(वार्तिकान्त) । समः गम्यादिषु विदिप्रच्छिस्वरतीनां उपसङ्ख्यानं कर्तव्यं । संवित्ते सम्पृच्छते संस्वरते । (कात्यायन वार्तिक)अर्तिश्रुदृशिभ्यः च(वार्तिकान्त) । अर्तिश्रुदृशिभ्यः च इति वक्तव्यं । म समृत मा समृषातां मा समृषत । अर्ति । श्रु । संश्र्णुते । दृशि । सम्पश्यते । (कात्यायन वार्तिक)उपसर्गातस्यत्यूह्योः वावचनम्(वार्तिकान्त) । उपसर्गातस्त्यूह्योः वा इति वक्तव्यं । निरस्यति निरस्यते । समूहति समूहते ।
पाणिनीयसूत्र १,३।४०) कि.,२८२।२०-२१ रो.,२५७ (कात्यायन वार्तिक)ज्योतिषां उद्गमने(वार्तिकान्त)। ज्योतिषां उद्गमने इति वक्तव्यं । इह मा भूत। आक्रामति धूमः हर्म्यतलं इति ।
पाणिनीयसूत्र १,३।४८) कि.,२८३।२-११ रो.,२५७-२५८ व्यक्तवाचां इति किमर्थं । वरतनु सम्प्रवदन्ति कुक्कुटाः । व्यक्तवाचां इति उच्यमाने अपि अत्र प्राप्नोति । एते अपि हि व्यक्तवाचः । आतः च व्यक्तवाचः कुक्कुटेन उदिते उच्यते कुक्कुटः वदति इति । एवं तर्हि व्यक्तवाचां इति उच्यते । सर्वे एव हि व्यक्तवाचः । तत्र प्रकर्षगतिः विज्ञास्यते । साधीयः ये व्यक्तवाचः इति । के च साधीयः । येषां वाचि अकारादयः वर्णाः व्यज्यन्ते । न च एतेषां वाचि अकारादयः वर्णाः व्यज्यन्ते । एतेषां अपि वाचि अकारादयः वर्णाः व्यज्यन्ते । आतः च व्यज्यन्ते एवं हि आहुः कुक्कुटाः कुक्कुटिति । न एवं ते आहुः । अनुकरणं एतत्तेषां । अथ वा न एवं विज्ञायते व्यक्ता वाक्येषां ते इमे व्यक्तवाचः इति । कथं तर्हि । व्यक्ता वाचि वर्णाः येषां ते इमे व्यक्तवाचः इति ।
पाणिनीयसूत्र १,३।५१) कि.,२८३।१३-१५ रो.,२५८ (कात्यायन वार्तिक)अवाद्ग्रः गिरतेः(वार्तिकान्त) । अवाद्ग्रः इति अत्र गिरतेः इति वक्तव्यं । गृणातेः मा भूत। तत्तर्हि वक्तव्यं । न वक्तव्यं प्रयोगाभावात। अवात्ग्रः इति उच्यते न च आपूर्वस्य गृणातेः प्रयोगः अस्ति ।
पाणिनीयसूत्र १,३।५४) कि.,२८३।१७-२२ रो.,२५८-२५९ तृतीयायुक्तातिति किमर्थं । उभौ लोकौ चञ्चरसि इमं च अमुं च देवल । तृतीयायुक्तातिति उच्यमाने अपि अत्र प्राप्नोति । अत्र अपि हि तृतीयया योगः । एवं तर्हि तृतीयायुक्तातिति उच्यते सर्वत्र च तृतीयया योगः । तत्र प्रकर्षगतिः विज्ञास्यते : साधीयः यत्र तृतीयया योगः इति । क्व च साधीयः । यत्र तृतीयया योगः श्रूयते ।
पाणिनीयसूत्र १,३।५५) कि.,२८४।२-८ रो.,२५९-२६० सा चेत्तृतीया चतुर्थ्यर्थे इति उच्यते । कथं नाम तृतीया चतुर्थ्यर्थे स्यात। एवं तर्हि अशिष्टव्यवहारे अनेन तृतीया च विधीयते आत्मनेपदं च । दास्या सम्प्रयच्छते । वृषल्या सम्प्रच्छते । यः हि शिष्टव्यवहारः ब्राह्मणीभ्यः सम्प्रयच्छति इति एव तत्र भवितव्यं । यदि एवं न अर्थः अनेन योगेन । केन इदानीं तृतीया भविष्यति आत्मनेपदं च । (कात्यायन वार्तिक)सहयुक्ते तृतीया स्यात्व्यतिहारे तङः विधिः(वार्तिकान्त) । सहयुक्ते अप्रधाने इति एव तृतीया भविष्यति । कर्तरि कर्मव्यतिहारे इति आत्मनेपदं ।
पाणिनीयसूत्र १,३।५६) कि.,२८४।१०-१२ रो.,२६० इह कस्मात्न भवति । स्वं शाटकान्तं उपयच्छति इति । अस्वं यदा स्वं करोति तदा भवितव्यं । यदि एवं स्वीकरणे इति प्राप्नोति । विचित्राः तद्धितवृत्तयः । न अतः तद्धितः उत्पद्यते ।
पाणिनीयसूत्र १,३।५८) कि.,२८४।१४-२८५।२ रो.,२६०-२६१ (कात्यायन वार्तिक)अनोः ज्ञः प्रतिषेधे सकर्मकवचनम्(वार्तिकान्त) । अनोः ज्ञः प्रतिषेधे सकर्मकग्रहणं कर्तव्यं । इह म भूत। औषधस्य अनुजिज्ञासते इति । (कात्यायन वार्तिक)न वा अकर्मकस्य उत्तरेण विधानात्(वार्तिकान्त) । न वा कर्तव्यं । किं कारणं । अकर्मकस्य उत्तरेण विधानात। अकर्मकात्जनातेः उत्तरेण योगेन आत्मनेपदं विधीयते पूर्ववत्सनः इति । (कात्यायन वार्तिक)प्रतिषेधः पूर्वस्य च(वार्तिकान्त) । पूर्वस्य च अयं प्रतिषेधः । सः च सकर्मकार्थः आरम्भः । कथं पुनः ज्ञायते पूर्वय्स अयं प्रतिषेधः इति । अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति । कथं पुनः ज्ञायते सकर्मकार्थः आरम्भः इति । अकर्मकात्जानातेः सनः आत्मनेपदवचने प्रयोजनं न अस्ति इति कृत्वा सकर्मकार्थः विज्ञायते ।
पाणिनीयसूत्र १,३।६०।१) कि.,२८५।४-२१ रो.,२६१-२६३ (कात्यायन वार्तिक)शदेः शितः परस्मैपदाश्रयत्वातात्मनेपदाभावः(वार्तिकान्त) । शदेः शितः परस्मैपदाश्रयत्वातात्मनेपदस्य अभावः । शीयते शीयेते शीयन्ते । किं च भोः शदेः शित्परस्मैपदेषु इति उच्यते । न खलु परस्मैपदेषु इति उच्यते परस्मैपदेषु तु विज्ञायते । कथं अनुदात्तङितः आत्मनेपदं भावकर्मणोः आत्मनेपदं इति एतौ द्वौ योगौ उक्त्वा शेषात्कर्तरि परस्मैपदं उच्यते । एवं न च परस्मैपदेषु उच्यते परस्मैपदेषु च विज्ञायते । कः पुनः अर्हति एतौ द्वौ योगौ उक्त्वा शेषात्कर्तरि परस्मैपदं वक्तुं । किं तर्हि । अविशेषेण सर्वं आत्मनेपदप्रकरणं अनुक्रम्य शेषात्कर्तरि परस्मैपदं इति उच्यते । एवं अपि परस्मैपदाश्रयः भवति । कथं । इदं तावदयं प्रष्टव्यः । यदि इदं न उच्येत किं इह स्यातिति । परस्मैपदं इति आह । परस्मैपदं इति चेत्परस्मैपदाश्रयः भवति । (कात्यायन वार्तिक)सिद्धं तु लडादीनां आत्मनेपदवचनम्(वार्तिकान्त) । सिद्धं एतत। कथं । शदेः लडादीनां आत्मनेपदं भवति इति वक्तव्यं । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं शदेः शितः परस्मैपदाश्रयत्वातात्मनेपदाभावः इति । न एषः दोषः । शितः इति न एषा पञ्चमी । का तर्हि । सम्बन्धषष्ठी । शितः यः शदिः । कः च शितः शदिः । प्रकृतिः । शदेः शित्प्रकृतेः इति । अथ वा आह अयं शदेः शितः इति न च शदिः शितस्ति । ते एवं विज्ञास्यामः शदेः शिद्विषयातिति । अथ वा यदि अपि तावतेततन्यत्र भवति विकरणेभ्यः नियमः बलीयानिति इह एतत्न अस्ति । विकरणः हि इह आश्रीयते शितः इति ।
पाणिनीयसूत्र १,३।६०।२) कि.,२८५।२२-२८७।५ रो.,२६३-२६८ (कात्यायन वार्तिक)उपसर्गपूर्वनियमे अड्व्यवाये उपसङ्ख्यानम्(वार्तिकान्त) । उपसर्गपूर्वस्य नियमे अड्व्यवाये उपसङ्ख्यानं कर्तव्यं । न्यविशत व्यक्रीणीत । किं पुनः कारणात्न सिध्यति । अटा व्यवहितत्वात। ननु च अयं अट्धातुभक्तः धातुग्रहणेन ग्रहीष्यते । न सिध्यति । अङ्गस्य हि अटुच्यते विकरणान्तं च अङ्गं । सः असौ सङ्घातभक्तः न शक्यः धातुग्रहणेन ग्रहीतुं । एवं तर्हि इदं इह सम्प्रधार्यं : अट्क्रियतां विकरणः इति । किं अत्र कर्तव्यं । परत्वातटागमः । नित्याः विकरणाः । कृते अपि अटि प्राप्नुवन्ति अकृते अपि प्राप्नुवन्ति । अटपि नित्यः । कृतेषु अपि विकरणेषु प्राप्नोति अकृतेषु अपि प्राप्नोति । अनित्यः अट। अन्यस्य कृतेषु विकरणेषु प्राप्नोति अन्यस्य अकृतेषु । शब्दान्तरस्य च प्राप्नुवन्विधिः अनित्यः भवति । एवं तर्हि इदं इह सम्प्रधार्यं । अट्क्रियतां लादेशः इति । किं अत्र कर्तव्यं । परत्वातटागमः । नित्यः लादेशः । कृते अपि अटि प्राप्नोति अकृते अपि प्राप्नोति । नित्यत्वात्लादेशस्य आत्मनेपदे एव अडागमः भविष्यति । (कात्यायन वार्तिक)नित्यत्वात्लादेशस्य आत्मनेपदे अटागमः इति चेतटः नित्यनिमित्तत्वातात्मनेपदाभावः(वार्तिकान्त) । नित्यत्वात्लादेशस्य आत्मनेपदे एव अडागमः इति चेतेवं उच्यते । अटपि नित्यनिमित्तः । कृते अपि लदेशे प्राप्नोति अकृते अपि प्राप्नोति । अटः नित्यनिमित्तत्वातात्मनेपदाभावः । (कात्यायन वार्तिक)तस्मातुपसङ्ख्यानम्(वार्तिकान्त) । तस्मातुपसङ्ख्यानं कर्तव्यं । न कर्तव्यं । अन्तरङ्गः तर्हि लादेशः । न एतत्विवदामहे अन्तरङ्गः न अन्तरङ्गः इति । अस्तु अयं नित्यः अन्तरङ्गः च । अत्र खलु लादेशे कृते त्रीणि कार्याणि युगपत्प्राप्नुवन्ति : विकरणाः अटागमः नियमः इति । तत्यदि सर्वतः नियमः लभ्येत कृतं स्यात। तत्तु न लभ्यं । अथ अपि विकरणातटिति अट्लभ्येत एवं अपि कृतं स्यात। तत्तु न लभ्यं । किं कारणं । आङ्गात्पूर्वं विकरणाः एषितव्याः तरतः , तरन्ति इति एवमर्थं । अडाड्भ्यां अपि अन्यताङ्गं पूर्वं एषितव्यं उपार्च्छति इति एवमर्थं । तत्र हि आटि कृते साट्कस्य ऋच्छिभावः प्राप्नोति । ननु च ऋच्छिभावे कृते शब्दान्तरस्य अकृतः आटिति कृत्वा पुनः आट्भविष्यति । पुनः ऋच्छिभावः पुनः आटिति चक्रकं अव्यवस्था प्राप्नोति । न एषः दोषः । यत्तावतुच्यते आङ्गात्पूर्वं विकरणाः एषितव्याः तरतः तरन्ति इति एवमर्थं इति । भवेत्सिद्धं यत्र विकरणाः नित्याः आङ्गं अनित्यं तत्र आङ्गात्पूर्वं विकरणाः स्युः । यत्र तु खलु उभयं नित्यं परत्वात्तत्र आङ्गं तावत्भवति । यतपि उच्यते अडाड्भ्यां अपि अन्यताङ्गं पूर्वं एषितव्यं उपार्च्छति इति एवमर्थं इति । अस्तु अत्र आट। आटि कृते साट्कस्य ऋच्छिभावे कृते शब्दान्तरस्य अकृतः आटिति कृत्वा पुनः आट्भविष्यति । ननु च उक्तं पुनः ऋच्छिभावः पुनः आटिति चक्रकं अव्यवस्था प्राप्नोति । न एषः दोषः । चक्रकेषु इष्टतः व्यवस्था । अथ वा नेः इति न एषा पञ्चमी । का तर्हि । विशेषणषष्ठी । नेः यः विशिः । कः च नेः विशिः । विशेष्यः । व्यवहितः च अपि शक्यते विशेषयितुं । अथ वा निः अपि पदं विशिः अपि पदं ।पदविधिः च समर्थामां । व्यवहिते अपि सामर्थ्यं भवति ।
पाणिनीयसूत्र १,३।६२।१) कि.,२८७।७-१५ रो.,२६८-२६९ किं इदं पूर्वग्रहणं सनपेक्षं । प्राक्सनः येभ्यः आत्मनेपदं उक्तं तेभ्यः सनन्तेभ्यः अपि भवति इति । आहोस्वित्योगापेक्षं । प्राकेतस्मात्योगात्येभ्यः आत्मनेपदं उक्तं तेभ्यः सनन्तेभ्यः आत्मनेपदं भवति इति । किं च अतः । यदि सनपेक्षं निमित्तं अविशेषितं भवति । पूर्ववत्सनः न ज्ञायते किमन्तात्भवितव्यं । अथ योगापेक्षं उत्तरत्र विधिः न प्रकल्पते । बुभुक्षते उपयुयुक्षते इति । यथा इच्छसि तथा अस्तु । अस्तु तावत्सनपेक्षं । ननु च उक्तं निमित्तं अविशेषितं भवति । निमित्तं च विशेषितं । कथं । सनं एव अत्र निमित्तत्वेन अपेक्षिष्यामहे । पूर्ववत्सनः आत्मनेपदं भवति । कुतः सनः इति । अथ वा पुनः अस्तु योगापेक्षं । ननु च उक्तं उत्तरत्र विधिः न प्रकल्पते । विधिः च प्रक्ल्प्तः । कथं । उत्तरत्र अपि पूर्ववत्सनः इति एव अनुवर्तिष्यते ।
पाणिनीयसूत्र १,३।६२।२) कि.,२८७।१६-२८८।१७ रो.,२६९-२७१ किमर्थं पुनः इदं उच्यते । (कात्यायन वार्तिक)पूर्ववत्सनः इति शदिम्रियत्यर्थम्(वार्तिकान्त) । शदिम्रियत्यर्थः अयं आरम्भः । शदिम्रियतिभ्यां सनन्ताभ्यां आत्मनेपदं मा भूतिति । (कात्यायन वार्तिक)इतरथा हि ताभ्यां सनन्ताभ्यां आत्मनेपदप्रतिषेधः(वार्तिकान्त) । इतरथा हि अनुच्यमाने अस्मिन्ताभ्यां सनन्ताभ्यां आत्मनेपदस्य प्रतिषेधः वक्तव्यः स्यात। शिशित्सति मुमूर्षति । कथं पुनः पूर्ववत्सनः इति अनेन शदिम्रियतिभ्यां सनन्ताभ्यां आत्मनेपदस्य प्रतिषेधः शक्यः विज्ञातुं । वतिनिर्देशः अयं कामचारः च वतिनिर्देशे वाक्यशेषं समर्थयितुं । तत्यथा : उशीनरवत्मद्रेषु यवाः । सन्ति न सन्ति इति । मातृवतस्याः कलाः । सन्ति न सन्ति । एवं इह अपि पूर्ववत्भवति न भवति इति । न भवति इति वाक्यशेषं समर्थयिष्यामहे । यथा पूर्वयोगयोः सनन्ताभ्यां आत्मनेपदं न भवति एवं इह अपि शदिम्रियतिभ्यां सनन्ताभ्यां आत्मनेपदं न भवति इति । यदि तर्हि शदिम्रियत्यर्थः अयं आरम्भः विधिः न प्रकल्पते । आसिसिषते शिशयिषते । अथ विध्यर्थः शदिम्रियतिभ्यां सनन्ताभ्यां आत्मनेपदं प्राप्नोति । यथा इच्छसि तथा अस्तु । अस्तु तावत्प्रतिषेधार्थः । ननु च उक्तं विधिः न प्रकल्पते इति । विधिः च प्रक्ल्प्तः । कथं । एततेव ज्ञापयति सनन्तातात्मनेपदं भवति इति यतयं शदिम्रियतिभ्यां सनन्ताभ्यां आत्मनेपदस्य प्रतिषेधं शास्ति । अथ वा पुनः अस्तु विध्यर्थः । ननु च उक्तं शदिम्रियतिभ्यां सनन्ताभ्यां आत्मनेपदं प्राप्नोति इति । न एषः दोषः । प्रकृतं सनः न इति अनुवर्तिष्यते । क्व प्रकृतं । ज्ञाश्रुस्मृदृशां सनः न अनोः ज्ञः । सकर्मकात्सनः न । प्रत्याङ्भ्यां श्रुवः सनः न । शदेः शितः सनः न । म्रियतेः लुङ्लिङोः च सनः न इति । इह इदानीं पूर्ववत्सनः इति सनः इति वर्तते न इति निवृत्तं । एवं च कृत्वा सः अपि अदोषः भवति यतुक्तं निमित्तं अविशेषितं भवति इति । न एव वा पुनः अत्र शदिम्रियतिभ्यां सनन्ताभ्यां आत्मनेपदं प्राप्नोति । किं कारणं । शदेः शितः इति उच्यते न च शदिः एव आत्मनेपदस्य निमित्तं । किं तर्हि । शितपि निमित्तं । अथ अपि शदिः एव शित्परः तु निमित्तं । न च अयं सन्परः शित्परः भवति । यत्र तर्हि शित्न आश्रीयते म्रियतेः लुङ्लिङोः च इति । अत्र अपि न म्रियतिः एव आत्मनेपदस्य निमित्तं । किं तर्हि । लुङ्लिङौ अपि निमित्तं । अथ अपि म्रियतिः एव लुङ्लिङ्परः तु निमित्तं । न च अयं सन्परः लुङ्लिङ्परः भवति ।
पाणिनीयसूत्र १,३।६२।३) कि.,२८८।१८-२८९।८ रो.,२७१-२७२ किं पुनः पूर्वस्य यतात्मनेपददर्शनं तत्सनन्तस्य अपि अतिदिश्यते । एवं भवितुं अर्हति । (कात्यायन वार्तिक)पूर्वस्य आत्मनेपददर्शनात्सनन्तातात्मनेपदभावः इति चेत्गुपादिषु अप्रसिद्धिः(वार्तिकान्त) । पूर्वस्य आत्मनेपददर्शनात्सनन्तातात्मनेपदभावः इति चेत्गुपादिषु अप्रसिद्धिः । गुपादीनां न प्राप्नोति । जुगुप्सते मीमांसते इति । न हि एतेभ्यः प्राक्सनः आत्मनेपदं न अपि परस्मैपदं पश्यामः । (कात्यायन वार्तिक)सिद्धं तु पूर्वस्य लिङ्गातिदेशात्(वार्तिकान्त) । सिद्धं एतत। कथं । पूर्वस्य यतात्मनेपदलिङ्गं तत्सनन्तस्य अपि अतिदिश्यते । (कात्यायन वार्तिक)कृञादिषु तु लिङ्गप्रतिषेधः(वार्तिकान्त) । कृञादिषु तु लिङ्गप्रतिषेधः वक्तव्यः । अनुचिकीर्षति पराचिकीर्षति इति । अस्तु तर्हि प्राक्सनः येभ्यः आत्मनेपदं दृष्टं तेभ्यः सनन्तेभ्यः अपि बह्वति इति । ननु च उक्तं पूर्वस्य आत्मनेपददर्शनात्सनन्तातात्मनेपदभावः इति चेत्गुपादिषु अप्रसिद्धिः इति । न एषः दोषः । अनुबन्धकरणसामर्थ्यात्भविष्यति । अथ वा अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति । तत्यथा गोः सक्थनि कर्णे वा कृतं लिङ्गं समुदायस्य विशेषकं भवति । यदि अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति जुगुप्सयति मीमांसायति इति अत्र अपि प्राप्नोति । न एषः दोषः । अवयवे कृतं लिङ्गं कस्य समुदायस्य विशेषकं भवति । यं समुदायं यः अवयवः न व्यभिचरति । सनं च न व्यभिचरति । णिचं पुनः व्यभिचरति । तत्यथा गोः सक्थनि कर्णे वा कृतं लिङ्गं गोः एव विशेषकं भवति न गोमण्डलस्य ।
पाणिनीयसूत्र १,३।६२।४) कि.,२८९।९-२१ रो.,२७३ (कात्यायन वार्तिक)प्रत्ययग्रहणं णिजर्थम्(वार्तिकान्त) । प्रत्ययस्य ग्रहणं कर्तव्यं । पूर्ववत्प्रत्ययातिति वक्तव्यं । किं प्रयोजनं । णिजर्थं । णिजन्तातपि यथा स्यातिति । आकुस्मयते विकुस्मयते हृणीयते महीयते इति। तत्र कः दोषः । (कात्यायन वार्तिक)तत्र हेतुमण्णिचः प्रतिषेधः(वार्तिकान्त) । तत्र हेतुमण्णिचः प्रतिषेधः वक्तव्यः । आसयति शाययति । सूत्रं च भिद्यते । यथान्यासं एव अस्तु । कथं आकुस्मयते विकुस्मयते हृणीयते महीयते इति। अनुबन्धकरणसामर्थ्यात्भविष्यति । अथ वा अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति । तत्यथा गोः सक्थनि कर्णे वा कृतं लिङ्गं समुदायस्य विशेषकं भवति । यदि अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति हृणीययति महीययति अत्र अपि प्राप्नोति । अवयवे कृतं लिङ्गं कस्य समुदायस्य विशेषकं भवति । यं समुदायं यः अवयवः न व्यभिचरति । यकं च न व्यभिचरति । णिचं तु व्यभिचरति । तत्यथा गोः सक्थनि कर्णे वा कृतं लिङ्गं गोः एव विशेषकं भवति न गोमण्डलस्य ।
पाणिनीयसूत्र १,३।६३) कि.,२८९।२३-२९०।६ रो.,२७४ कृञ्ग्रहणं किमर्थं । इह मा भूत। ईहामास ईहामासतुः ईहामासुः । कथं च अत्र अस्तेः अनुप्रयोगः भवति । प्रत्याहारग्रहणं तत्र विज्ञायते । कथं पुनः ज्ञायते तत्र प्रत्याहारग्रहणं इति । इह कृञ्ग्रहणात। इह कस्मात्प्रत्याहारग्रहणं न भवति । इह एव कृञ्ग्रहणात। अथ इह कस्मात्न भवति । उदुम्भां चकार उदुब्जां चकार । ननु च आम्प्रत्ययवतिति उच्यते न च अत्र आम्प्रत्ययातात्मनेपदं पश्यामः । न ब्रूमः अनेन इति । किं तर्हि । स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति इति । न एषः दोषः । इह नियमार्थं भविष्यति । आम्प्रत्ययवतेव इति । यदि नियमार्थं विधिः न प्रकल्पते । ईहां चक्रे ऊहां चक्रे इति । विधिः च प्रक्ल्प्तः । कथं पूर्ववतिति वर्तते । आम्प्रत्ययवत्पूर्ववत्च इति ।
पाणिनीयसूत्र १,३।६४) कि.,२९०।८-९ रो.,२७५ स्वराद्युपसृष्टातिति वक्तव्यं । उद्युङ्क्ते अनुयुङ्क्ते । अपरः आह : स्वराद्यन्तोपसृष्टातिति वक्तयं । प्रयुङ्क्ते नियुङ्क्ते निनियुङ्क्ते ।
पाणिनीयसूत्र १,३।६५) कि.,२९०।११-१३ रो.,२७५ किमर्थं विदेशस्थस्य ग्रहणं क्रियते न समः गमादिषु एव उच्येत । (कात्यायन वार्तिक)समः क्ष्णुवः सकर्मकार्थम्(वार्तिकान्त) । सकर्मकार्थः अयं आरम्भः । अकर्मकातिति हि तत्र अनुवर्तते ।
पाणिनीयसूत्र १,३।६६) कि.,२९०।१५-१७ रो.,२७५ अनवनकौटिल्ययोः इति वक्तव्यं । इह अपि यथा स्यात। प्रभुजति वाससी निभुजति जानुशिरसी इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । यस्य भुजेः अवनं अनवनं च अर्थः तस्य ग्रहणं । न च अस्य भुजेः अवनं अनवनं च अर्थः ।
पाणिनीयसूत्र १,३।६७।१) कि.,२९०।१९-२९२।८ रो.,२७६-२८४ (कात्यायन वार्तिक)णेः आत्मनेपदविधाने अण्यन्तस्य कर्मणः तत्र उपलब्धिः(वार्तिकान्त) ।णेः आत्मनेपदविधाने अण्यन्तस्य यत्कर्म यदा ण्यन्ते ततेव कर्म भवति तदा आत्मनेपदं भवति इति वक्तव्यं । (कात्यायन वार्तिक)इतरथा हि सर्वप्रसङ्गः(वार्तिकान्त) । इतरथा हि सर्वत्र प्रसङ्गः स्यात। इह अपि प्रसज्येत : आरोहन्ति हस्तिनं हस्तिपकाः । आरोहमाणः हस्तीस्थलं आरोहयति मनुष्यान। तत्तर्हि वक्तव्यं । न वक्तव्यं । कस्मात्न भवति : आरोहन्ति हस्तिनं हस्तिपकाः । आरोहमाणः हस्तीस्थलं आरोहयति मनुष्यानिति । एवं वक्ष्यामि । णेः आत्मनेपदं भवति । ततः अणौ यत्कर्म णौ चेत। अण्यन्ते यत्कर्म णौ यदि ततेव कर्म भवति । ततः सः कर्ता । कर्ता चेत्सः भवति णौ इति । यदि एवं कर्मकार्यं भवति । तत्र कर्मकर्तृत्वात्सिद्धं । (कात्यायन वार्तिक)कर्मकर्तृत्वात्सिद्धं इति चेत्यक्चिणोः निवृत्त्यर्थं वचनम्(वार्तिकान्त) । कर्मकर्तृत्वात्सिद्धं इति चेत्यक्चिणोः निवृत्त्यर्थं इदं वक्तव्यं । कर्मापदिष्टौ यक्चिणौ मा भूतां इति । (कात्यायन वार्तिक)न वा यक्चिणोः प्रतिषेधात्(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । यक्चिणोः प्रतिषेधात। प्रतिषिध्येते अत्र यक्चिणौ । यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञां उपसङ्ख्यानं इति । यः तर्हि न हेतुमण्णिच्तदर्थं इदं वक्तव्यं । तस्य कर्मापदिष्टौ यक्चिणौ मा भूतां इति : उत्पुच्छयते पुच्छं स्वयं एव । उदपुप्पुच्छत पुच्छं स्वयं एव । अत्र अपि यथा भारद्वाजीयाः पठन्ति तथा भवितव्यं प्रतिषेधेन : यक्चिणोः प्रतिषेधे णिश्रिग्रन्थिब्रूञात्मनेपदाकर्मकाणां उप्सङ्ख्यानं इति । सः च अवश्यं प्रतिषेधः आश्रयितव्यः । (कात्यायन वार्तिक)इतरथा हि यत्र नियमः ततः अन्यत्र प्रतिषेधः(वार्तिकान्त) । अनुच्यमाने हि एतस्मिन्यत्र नियमः ततः अन्यत्र तेन यक्चिणोः प्रतिषेधः वक्तव्यः स्यात। गणयति गणं गोपालकः । गणयति गणः स्वयं एव । (कात्यायन वार्तिक)आत्मनेपदस्य च(वार्तिकान्त) । आत्मनेपदस्य च प्रतिषेधः वक्तव्यः : गणयति गणः स्वयं एव । (कात्यायन वार्तिक)आत्मनेपदप्रतिषेधार्थं तु(वार्तिकान्त) । आत्मनेपदप्रतिषेधार्थं इदं वक्तव्यं । गणयति गणः स्वयं एव । इष्यते एव अत्र आत्मनेपदं । किं इष्यते एव आहोस्वित्प्राप्नोति अपि । इष्यते च प्राप्नोति च । कथं । अणौ इत्कस्य इदं णेः ग्रहणं । यमात्णेः प्राक्कर्म कर्ता वा विद्यते । न च एतस्मात्णेः प्राक्कर्म कर्ता वा विद्यते । इदं तर्हि प्रयोजनं : अनाध्याने इति वक्ष्यामि इति । इह मा भूत। स्मरति वनगुल्मस्य कोकिलः । स्मरयति एनं वनगुल्मः स्वयं एव । एततपि न अस्ति प्रयोजनं । कर्मापदिष्टाः विधयः कर्मस्थभावकानां कर्मस्थक्रियाणां भवन्ति कर्तृस्थभावकः च अयं । एवं तर्हि सिद्धे सति यतनाध्याने इति प्रतिषेधं शास्ति तत्ज्ञापयति आचार्यः भवति एवञ्जातीयकानां आत्मनेपदं इति । किं एतस्य ज्ञापने प्रयोजनं । पश्यन्ति भृत्याः राजानं । दर्शयते भृत्यान्राजा । दर्शयते भृत्यैः राजा । अत्र आत्मनेपदं सिद्धं भवति ।
पाणिनीयसूत्र १,३।६७।२) कि.,२९२।९-१६ रो.,२८५ (कात्यायन वार्तिक)आत्मनः कर्मत्वे प्रतिषेधः(वार्तिकान्त) । आत्मनः कर्मत्वे प्रतिषेधः वक्तव्यः । हन्ति आत्मानं । घातयति आत्मा इति । सः तर्हि वक्तव्यः । (कात्यायन वार्तिक)न वा ण्यन्ते अन्यस्य कर्तृत्वात्(वार्तिकान्त) । न वा वक्तव्यः । किं कारणं । ण्यन्ते अन्यस्य कर्तृत्वात। अन्यतत्र अण्यन्ते कर्म अन्यः ण्यन्तस्य कर्ता । कथं । द्वौ आत्मनौ अन्तरात्मा शरीरात्मा च । अन्तरात्मा तत्कर्म करोति येन शरीरात्मा सुखदुःखे अनुभवति । शरीरात्मा तत्कर्म करोति येन अन्तरात्मा सुखदुःखे अनुभवति इति ।
पाणिनीयसूत्र १,३।७२) कि.,२९२।१८-२९३।९ रो.,२८६-२९० स्वरितञितः इति किमर्थं । याति वाति द्राति प्साति । स्वरितञितः इति शक्यं अकर्तुं । कस्मात्न भवति याति वाति द्राति प्साति इति । कर्त्रभिप्राये क्रियाफले इति उच्यते सर्वेषां च कर्त्रभिप्रायं क्रियाफलं अस्ति । ते एवं विज्ञास्यामः । येषां कर्त्रभिप्रायं अकर्त्रभिप्रयं च क्रियाफलं अस्ति तेभ्यः आत्मनेपदं भवति इति । न च एतेषां कर्त्रभिप्रायं अकर्त्रभिप्रयं च क्रियाफलं अस्ति । तथाजातीयकाः खलु आचार्येण स्वरितञितः पठिताः येषां कर्त्रभिप्रायं अकर्त्रभिप्रयं च क्रियाफलं अस्ति । अथ अभिप्रायग्रहणं किमर्थं । स्वरितञितः कर्त्राये क्रियाफले इति इयति उच्यमाने यं एव सम्प्रति एति क्रियाफलं तत्र एव स्यात। लूञ्लुनीते पूञ्पुनीते । इह न स्यात। यज्यजते वप्वपते । अभिप्रयग्रहणे पुनः क्रियमाणे न दोषः भवति । अभिः आभिमुख्ये वर्तते प्र आदिकर्मणि । तेन यं च अभिप्रैति यं च अभिप्रैष्यति यं च अभिप्रागात्तत्र सर्वत्र आभिमुख्यमात्रे सिद्धं भवति । कर्त्रभिप्राये क्रियाफले इति किमर्थं । पचन्ति भक्तकाराः । कुर्वन्ति कर्मकाराः । यजन्ति याजकाः । कर्त्रभिप्राये क्रियाफले इति उच्यमाने अपि अत्र प्राप्नोति । अत्र अपि हि क्रियाफलं कर्तारं अभिप्रैति । याजकाः यजन्ति गाः लप्स्यामहे इति । कर्मकराः कुर्वन्ति पादिकं अहः लप्स्यामहे इति । एवं तर्हि कर्त्रभिप्रये क्रियाफले इति उच्यते सर्वत्र च कर्तारं क्रियाफलं अभिप्रैति । तत्र प्रकर्षगतिः विज्ञास्यते । साधीयः यत्र कर्तारं क्रियाफलं अभिप्रैति इति । न च अन्तरेण यजिं यजिफलं वपिं व वपिफलं लभन्ते । याजकाः पुनः अन्तरेण अपि यजिं गाः लभन्ते भृतकाः च पादिकं इति ।
पाणिनीयसूत्र १,३।७८) कि.,२९३।११-२५ रो.,२९१-२९२ (कात्यायन वार्तिक)शेषवचनं पञ्चम्या चेतर्थे प्रतिषेधः(वार्तिकान्त) । शेषवचनं पञ्चम्या चेतर्थे प्रतिषेधः वक्तव्यः । भिद्यते कुशूलः स्वयं एव । छिद्यते रज्जुः स्वयं एव । एवं तर्हि शेषे इति वक्ष्यामि । (कात्यायन वार्तिक)सप्तम्या चेत्प्रकृतेः (वार्तिकान्त)। सप्तम्या चेत्प्रकृतेः प्रतिषेधः वक्तव्यः । आस्ते शेते च्यवन्ते प्लवन्ते । (कात्यायन वार्तिक)सिद्धं तु उभयनिर्देशात्(वार्तिकान्त) । सिद्धं एतत। कथं । उभयनिर्देशः कर्तव्यः । शेषात्शेषे इति वक्तव्यं । कर्तृग्रहणं इदानीं किमर्थं स्यात। (कात्यायन वार्तिक)कर्तृग्रहणं अनुपराद्यर्थम्(वार्तिकान्त) । अनुपराद्यर्थं एतत्स्यात। इह मा भूत। अनुक्रियते स्वयं एव । पराक्रियते स्वयं एव इति । सिध्यति । सुत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं शेषवचनं पञ्चम्या चेतर्थे प्रतिषेधः इति । न एषः दोषः । कर्तरि कर्मव्यतिहारे इति अत्र कर्तृग्रहणं प्रत्याख्यायते । तत्प्रकृतं इह अनुवर्तिष्यते । शेषात्कर्तरि कर्तरि इति । किं इदं कर्तरि कर्तरि इति । कर्ता एव यः कर्ता तत्र यथा स्यात। कर्ता च अन्यः च यः कर्ता तत्र मा भूतिति ।
पाणिनीयसूत्र १,३।७९) कि.,२९४।२-१९ रो.,२९२-२९३ किमर्थं इदं उच्यते । (कात्यायन वार्तिक)परस्मैपदप्रतिषेधात्कृञादिषु विधानम्(वार्तिकान्त) । परस्मैपदप्रतिषेधात्कृञादिषु परस्मैपदं विधीयते । प्रतिषिध्यते तत्र परस्मैपदं स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति इति । अस्ति प्रयोजनं एतत। किं तर्हि इति । (कात्यायन वार्तिक)तत्र आत्मनेपदप्रतिषेधः अप्रतिषिद्धत्वात्(वार्तिकान्त) । तत्र आत्मनेपदस्य प्रतिषेधः वक्तव्यः । किं कारणं । अप्रतिषिद्धत्वात। न हि आत्मनेपदं प्रतिषिध्यते । किं तर्हि । परस्मैपदं अनेन विधीयते । (कात्यायन वार्तिक)न वा द्युतादिभ्यः वावचनात्(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । द्युतादिभ्यः वावचनात। यतयं द्युतादिभ्यः वावचनं करोति तत्ज्ञापयति आचार्यः न परस्मैपदविषये आत्मनेपदं भवति इति । (कात्यायन वार्तिक)आत्मनेपदनियमे वा प्रतिषेधः(वार्तिकान्त) । आत्मनेपदनियमे वा प्रतिषेधः वक्तव्यः । स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति कर्तरि । अनुपराभ्यां कृञः न इति । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं तत्र आत्मनेपदप्रतिषेधः अप्रतिषिद्धत्वातिति । परिहृतं एतत्न वा द्युतादिभ्यः वावचनात। अथ वा इदं तावतयं प्रष्टव्यः । स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति इति परस्मैपदं कस्मात्न भवति । आत्मनेपदेन बाध्यते । यथा एव तर्हि आत्मनेपदेन परस्मैपदं बाध्यते एवं परस्मैपदेन आत्मनेपदं बाधिष्यते ।
पाणिनीयसूत्र १,३।८६) कि.,२९४।२१ रो.,२९४ बुधादिषु ये अकर्मकाः तेषां ग्रहणं किमर्थं । सकर्मकार्थं अचित्तवत्कर्तृकार्थं वा ।
पाणिनीयसूत्र १,३।८८) कि.,२९४।२३-२९५।१० रो.,२९४-२९५ (कात्यायन वार्तिक)अणौ अकर्मकातिति चुरादिणिचः ण्यन्तात्परस्मैपदवचनम्(वार्तिकान्त) । अणौ अकर्मकातिति चुरादिणिचः ण्यन्तात्परस्मैपदं वक्तव्यं । इह अपि यथा स्यातः चेतयमाणं प्रयोजयति चेतयति इति । यदि तर्हि अत्र अपि इष्यते अणिग्रहणं इदानीं किमर्थं स्यात। अकर्मकग्रहणं अण्यन्तविशेषणं यथा विज्ञायेत । अथ अक्रियमाणे अणिग्रहणं कस्य अकर्मक्ग्रहणं विशेषणं स्यात। णेः इति वर्तते । ण्यन्तविशेषणं । तत्र कः दोषः । इह एव स्यातः चेतयमानं प्रयोजयति चेतयति इति । इह न स्यातः आसयति शाययति इति । (कात्यायन वार्तिक)सिद्धं तु अतस्मिन्णौ इति वचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । अतस्मिन्णौ यः अकर्मकः तत्र इति वक्तव्यं । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं अणवकर्मकातिति चुरादिणिचः ण्यन्तात्परस्मैपदवचनं इति । न एषः दोषः । अणौ इति कस्य इदं णेः ग्रहणं । यस्माण्णेः प्राक्कर्म कर्ता वा विद्यते । न च एतस्माण्णेअः प्राक्कर्म कर्ता वा विद्यते ।
पाणिनीयसूत्र १,३।८९) कि.,२९५।१३-१४ रो.,२९५-२९६ (कात्यायन वार्तिक)पादिषु धेटः उपसङ्ख्यानम्(वार्तिकान्त) । पादिषु धेटः उपसङ्ख्यानं कर्तव्यं । धापयते शिशुमेक समीची ।
पाणिनीयसूत्र १,३।९३) कि.,२९५।१६-१९ रो.,२९६। किमर्थः चकारः । स्यसनोः इति एततनुकृष्यते । यदि तर्हि न अन्तरेण चकारं अनुङ्र्त्तिः भवति द्युद्भ्यः लुङि इति अत्र अपि चकारः कर्तव्यः विभाषा इति अनुकर्षणार्थः । अथ इदानीं अन्तरेण अपि चकारं अनुवृत्तिः भवति इह अपि न अर्थः चकारेण । एवं सर्वे चकाराः प्रत्याख्यायन्ते।
पाणिनीयसूत्र १,४।१।१) कि.,२९६।२-१० रो.,२९७-२९८ किमर्थं इदं उच्यते । अन्यत्र सञ्ज्ञासमावेशान्नियमार्थं वचनं । अन्यत्र सञ्ज्ञासमावेशः भवति । क्वान्यत्र । लोके व्याकरणे च । लोके तावत। इन्द्रः शक्रः पुरुहूतः पुरन्दरः । कन्दुः कोष्ठः कुशूलः इति । एकस्य द्रव्यस्य बह्व्यः सञ्ज्ञाः भवन्ति । व्याकरणे अपि कर्तव्यं हर्तव्यं इति अत्र प्रत्ययकृत्कृत्यसञ्ज्ञानां समावेशः भवति । पाञ्चालः वैदेहः वैदर्भः इति अत्र प्रत्ययतद्धिततद्राजसञ्ज्ञानां समावेशः भवति । अन्यत्र सञ्ज्ञासमावेशातेतस्मात्कारणाता कडारातपि सञ्ज्ञानां समावेशः प्राप्नोति । इष्यते च एका एव सञ्ज्ञा स्यातिति । तत्च अन्तरेण यत्नं न सिध्यति इति नियमार्थं वचनं । एवमर्थं इदं उच्यते । अस्ति प्रयोजनं एतत। किं तर्हि इति ।
पाणिनीयसूत्र १,४।१।२) कि.,२९६।११-२९९।२० रो.,२९८-३०८ कथं त्वेतत्सूत्रं पठितव्यं । किं आ कडारातेका सञ्ज्ञा इति आहोस्वित्प्राक्कडारात्परं कार्यं इति । कुतः पुनः अयं सन्देहः । उभयथा हि आचार्येण शिष्याः सूत्रं प्रतिपादिताः : केचिता कडारातेका सञ्ज्ञा इति , केचित्प्राक्कडारात्परं कार्यं इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)तत्र एकसञ्ज्ञाधिकारे तद्वचनं (वार्तिकान्त)। तत्र एकसञ्ज्ञाधिकारे तत्वक्तव्यं । किं । एका सञ्ज्ञा भवति इति । ननु च यस्य अपि परङ्कार्यत्वं तेन अपि परग्रहणं कर्तव्यं । परार्थं मम भविष्यति । विप्रतिषेधे च इति । मम अपि तर्हि एकग्रहणं परार्थं भविष्यति । सरूपाणां एकशेषः एकविभक्तौ इति । सञ्ज्ञाधिकारः च अयं । तत्र किं अन्यत्शक्यं विज्ञातुं अन्यततः सञ्ज्ञायाः । तत्र एतावत्वाच्यं । आ कडारातेका । किं । एका सञ्ज्ञा भवति इति । (कात्यायन वार्तिक)अङ्गसञ्ज्ञया भपदसञ्ज्ञयोः असमावेशः(वार्तिकान्त) । अण्गसञ्ज्ञया भपदसञ्ज्ञयोः समावेशः न प्राप्नोति । सार्पिष्कः बार्हिष्कः याजुष्कः धानुष्कः । बाभ्रव्यः माण्डव्य इति । अनवकाशे भपदसञ्ज्ञे अङ्गसञ्ज्ञां बाधेयातां । परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः । यस्य पुनः परङ्कार्यत्वं नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः । कथं । पूर्वे तस्य भपदसञ्ज्ञे परा अङ्गसञ्ज्ञा । कथं । एवं स वक्ष्यति । यस्मात्प्रत्ययविधिः तदादि सुप्तिङन्तं पदं नः क्ये सिति च । स्वादिषु असर्वनामस्थाने यचि भं । तस्य अन्ते प्रत्यये अङ्गमिति । तत्र आरम्भसामर्थ्याच्च भपदसञ्ज्ञे परङ्कार्यत्वात्च अङ्गसञ्ज्ञा भविष्यति । ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि अङ्गसञ्ज्ञापूर्विके भपदसञ्ज्ञे । कथं ।अनुवृत्तिः क्रियते । पर्यायः प्रसज्येत। एका सञ्ज्ञा इति वचनात्न अस्ति यौगपद्येन संभवः । (कात्यायन वार्तिक)कर्मधारयत्वे तत्पुरुषग्रहणं (वार्तिकान्त)। कर्मधारयत्वे तत्पुरुषग्रहणं कर्तव्यं । तत्पुरुषः समानाधिकरणः कर्मधारयः इति । एकसञ्ज्ञाधिकारः इति चोदितं । अक्रियमाणे हि अनवकाशा कर्मधारयसञ्ज्ञा तत्पुरुषसञ्ज्ञां बाधेत । परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः । यस्य पुनः परङ्कार्यत्वं नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः । कथं । पूर्वा तस्य कर्मधारयसञ्ज्ञा परा तत्पुरुषसञ्ज्ञा । कथं । एवं स वक्ष्यति । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन कर्मधारयः इति । एवं सर्वं कर्मधारयप्रकरणं अनुक्रम्य तस्य अन्ते श्रितादिः तत्पुरुषः इति । तत्र आरम्भसामर्थ्यात्च कर्मधारयसञ्ज्ञा परङ्कार्यत्वात्च तत्पुरुषसञ्ज्ञा भविष्यति । ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि तत्पुरुषसञ्ज्ञापूर्विका कर्मधारयसञ्ज्ञा । कथं । अनुवृत्तिः क्रियते । पर्यायः प्रसज्येत । एका सञ्ज्ञा इति वचनात्न अस्ति यौगपद्येन सम्भवः । (कात्यायन वार्तिक)तत्पुरुषत्वे द्विगुचग्रहणम्(वार्तिकान्त) । तत्पुरुषत्वे द्विगुचग्रहणं कर्तव्यं । तत्पुरुषः द्विगुः च इति चकारः कर्तव्यः । अक्रियमाणे हि चकारे अनवकाशा द्विगुसञ्ज्ञा तत्पुरुषसञ्ज्ञां बाधेत । परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः । यस्य पुनः परङ्कार्यत्वं नियमानुपप्पतेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः । कथं । पूर्वा तस्य द्विगुसञ्ज्ञा परा तत्पुरुषसञ्ज्ञा। कथं । एवं स वक्ष्यति । तद्धितार्थोत्तरपदसमाहारे च सङ्ख्यापूर्वः द्विगुः इति । एवं सर्वं द्विगुप्रकरणं अनुक्रम्य तस्य अन्ते श्रितादिः तत्पुरुषः इति । तत्र आरम्भसामर्थ्यात्च द्विगुसञ्ज्ञा परङ्कार्यत्वात्च तत्पुरुषसञ्ज्ञा भविष्यति । ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि तत्पुरुषसञ्ज्ञापूर्विका द्विगुसञ्ज्ञा । कथं । अनुवृत्तिः क्रियते । पर्यायः प्रसज्येत । एका सञ्ज्ञा इति वचनात्न अस्ति यौगपद्येन संभवः । (कात्यायन वार्तिक)गतिदिवःकर्महेतुमत्सु चग्रहणम्(वार्तिकान्त) । गतिदिवःकर्महेतुमत्सु चग्रहणं कर्तव्यं । उपसर्गाः क्रियायोगे गतिश्च इति चकारः कर्तव्यः । अक्रियमाणे हि चकारे अनवकाशः पसर्गसञ्ज्ञा गतिसञ्ज्ञां बाधेत । परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः । यस्य पुनः परङ्कार्यत्वं नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः । कथं । पूर्वा तस्य उपसर्गसञ्ज्ञा परा गतिसञ्ज्ञा । अत्र आरम्भसामर्थ्यात्च उपसर्गसञ्ज्ञा परङ्कार्यत्वात्च गतिसञ्ज्ञा भविष्यति । ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य उपसर्गसञ्ज्ञापूर्विका गतिसञ्ज्ञा । कथं । अनुवृत्तिः क्रियते । पर्यायः प्रसज्येत । एका सञ्ज्ञा इति वचनात्न अस्ति यौगपद्येन संभवः । गतिसञ्ज्ञा अपि अनवकाशा सा वचनात्भविष्यति । सावकाशा गतिसञ्ज्ञा । कः अवकाशः । ऊर्यादीनि अवकाशः । प्रादीनां या गतिसञ्ज्ञा सा अनवकाशा । गति । दिवः कर्म । साधकतमं करणं दिवः कर्म च इति चकारः कर्तव्यः । अक्रियमाणे हि चकारे अनवकाशा कर्मसञ्ज्ञा करणसञ्ज्ञां बाधेत । परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः । यस्य पुनः परङ्कार्यत्वं नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः । कथं । पूर्वा तस्य कर्मसञ्ज्ञा परा करणसञ्ज्ञा । कथं । एवं स वक्ष्यति । दिवः साधकतमं कर्म । ततः करणं । करणसञ्ज्ञां च भवति साधकतमं । दिव इति निवृत्तं । तत्र आरम्भसामर्थ्यात्च कर्मसञ्ज्ञा परङ्कार्यत्वात्च करणसञ्ज्ञा भविष्यति । ननु च यस्य अपि एकसञ्ज्ञाधिकारःतस्य अपि करणसञ्ज्ञापूर्विका कर्मसञ्ज्ञा । कथं । अनुवृत्तिः क्रियते । पर्यायः प्रसज्येत । एका सञ्ज्ञा इति वचनात्न अस्ति यौगपद्येन संभवः । दिवः कर्म । हेतुमत। स्वतन्त्रः कर्ता तत्प्रयोजको हेतुः च इति चकारः कर्तव्यः । अक्रियमाणे हि चकारे अनवकाशा हेतुसञ्ज्ञा कर्तृसञ्ज्ञां बाधेत । परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः । यस्य पुनः परङ्कार्यत्वं नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोर्भावः सिद्धः । कथं । पूर्वा तस्य हेतुसञ्ज्ञा परा कर्तृसञ्ज्ञा । कथं । एवं स वक्ष्यति । स्वतन्त्रः प्रयोजकः हेतुः इति । ततः कर्ता । कर्तृसञ्ज्ञः च भवति स्वतन्त्रः । प्रयोजकः इति निवृत्तं । तत्र आरम्भसामर्थ्यात्च हेतुसञ्ज्ञा परङ्कार्यत्वात्च कर्तृसञ्ज्ञा भविष्यति । ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि कर्तृसञ्ज्ञापूर्विका हेतुसञ्ज्ञा । कथं । अनुवृत्तिः क्रियते । पर्यायः प्रसज्येत । एका सञ्ज्ञा इति वचनात्न अस्ति यौगपद्येन संभवः । (कात्यायन वार्तिक)गुरुलघुसञ्ज्ञे नदीघिसञ्ज्ञे(वार्तिकान्त) । गुरुलघुसञ्ज्ञे नदीघिसञ्ज्ञे बाधेयातां । गार्गिबन्धुः वात्सीबन्धुः वैत्रं विविनिय्य । परवचने हि नियमानुपत्तेः उभयसञ्ज्ञाभावः । यस्य पुनः परङ्कार्यत्वं नियमानुपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः । कथं । पूर्वे तस्य नदीघिसञ्ज्ञे परे गुरुलघुसञ्ज्ञे । तत्र आरम्भसामर्थ्यात्च नदीघिसञ्ज्ञे परङ्कार्यत्वात्च गुरुलघुसञ्ज्ञे भविष्यतः । ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि नदीघिसंघिसञ्ज्ञापूर्विके गुरुलघुसञ्ज्ञे । कथं । अनुवृत्तिः क्रियते । पर्यायः प्रसज्येत । एका सञ्ज्ञा इति वचनात्न अस्ति यौगपद्येन सम्भवः । (कात्यायन वार्तिक)परस्मैपदसञ्ज्ञां पुरुषसञ्ज्ञा (वार्तिकान्त)। परस्मैपदसञ्ज्ञां पुरुषसञ्ज्ञा बाधेत । परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः । यस्य पुनः परङ्कार्यत्वं नियमानुपपत्तेः तस्योभयोः सञ्ज्ञयोः भावः सिद्धः । कथं । पूर्वा तस्य पुरुषसञ्ज्ञा परा परस्मैपदसञ्ज्ञा । कथं । एवं स वक्ष्यति । तिङः त्रीणि त्रीणि प्रथममध्योत्तमाः इति । एवं सर्वं पुरुषनियमं अनुक्रम्य तस्य अन्ते लः परस्मैपदं इति । तत्र आरम्भसामार्थ्यात्च पुरुषसञ्ज्ञा परङ्कार्यत्वात्च परस्मैपदसञ्ज्ञा भविष्यति । ननु च यस्य अपि एकसञ्ज्ञाधिकरः तस्य अपि परस्मैपदसञ्ज्ञापूर्विका पुरुषसञ्ज्ञा । कथं । अनुवृत्तिः क्रियते । पर्यायः प्रसज्येत। एका सञ्ज्ञा इति वचनात्न अस्ति यौगपद्येन सम्भवः । परस्मैपदसञ्ज्ञा अपि अनवकाशा सा वचनात्भविष्यति । सावकाशा परस्मैपदसञ्ज्ञा । कः अवकाशः । शतृक्वसू अवकाशः ।
पाणिनीयसूत्र १,४।१।३) कि.,२९९।२१-३०१।२० रो.,३०८-३१३ (कात्यायन वार्तिक)परवचने सिति पदं भं । (वार्तिकान्त)परवचने सिति पदं भसञ्ज्ञमपि प्राप्नोति । अयं ते योनिः ऋत्वियः । प्रजं विन्दाम ऋत्विजयां । आरम्भसामर्थ्यात्च पदसञ्ज्ञा परङ्कार्यत्वात्च भसञ्ज्ञा प्राप्नोति । (कात्यायन वार्तिक)गतिबुद्ध्यादीनां ण्यन्तानां कर्म कर्तृसञ्ज्ञम्(वार्तिकान्त) । गतिबुद्ध्यादीआं ण्यन्तानां कर्म कर्तृसञ्ज्ञं अपि प्राप्नोति । आरम्भसामर्थ्यात्च कर्मसञ्ज्ञा पदसञ्ज्ञा परङ्कार्यत्वात्च कर्तृसञ्ज्ञा प्राप्नोति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न कर्मसञ्ज्ञायां कर्तृसञ्ज्ञा भवति इति यतयं हृक्रोः अन्यतरस्यां इति अन्तरस्याङ्ग्रहणं करोति । (कात्यायन वार्तिक)शेषवचनं च घिसञ्ज्ञानिवृत्त्यर्थम्(वार्तिकान्त) । शेषग्रहणं च कर्तव्यं । शेषः घि असखि इति । किं प्रयोजनं । घिसाञ्ज्ञानिवृत्त्यर्थं । नदीसञ्ज्ञायां घिसञ्ज्ञा मा भूतिति । शकट्यै पद्धत्यै बुद्धयै धेन्वै । इतरथा हि परङ्कार्यत्वात्च घिसञ्ज्ञा आरम्भसामर्थ्यात्च ङिति ह्रस्वः च इति नदीसञ्ज्ञा । (कात्यायन वार्तिक)न वा असम्भवात्(वार्तिकान्त) । न वा असम्भवात। न वा कर्तव्यं । नदीसञ्ज्ञायां घिसञ्ज्ञा कस्मात्न भवति । असम्भवात। कः असौ असम्भवः । (कात्यायन वार्तिक)ह्रस्वलक्षणा हि नदीसञ्ज्ञा घिसञ्ज्ञायां च गुणः(वार्तिकान्त) । ह्रस्वलक्षणा हि नदीसञ्ज्ञा घिसञ्ज्ञायां च गुणेन भवितव्यं । (कात्यायन वार्तिक)तत्र वचनप्रामाण्यात्नदीसञ्ज्ञायां घिसञ्ज्ञाभावः(वार्तिकान्त) । तत्र वचनप्रामाण्यात्नदीसञ्ज्ञायां घिसञ्ज्ञा न भविष्यति । किं कारणं । आश्रयाभावात। (कात्यायन वार्तिक)आश्रयाभावात्नदीसञ्ज्ञायां घिसञ्ज्ञानिवृत्तिः इति चेत्यणादेशाभावः(वार्तिकान्त) । आश्रयाभावात्नदीसञ्ज्ञायां घिसञ्ज्ञानिवृत्तिः इति चेतेवं उच्यते यणादेशः अपि न प्राप्नोति । न एषः दोषः । (कात्यायन वार्तिक)नद्याश्रयत्वात्यणादेशस्य ह्रस्वस्य नदीसञ्ज्ञाभावः(वार्तिकान्त) । नद्याश्रयः यणादेशः । यदा नदीसञ्ज्ञया घिसञ्ज्ञा बाधिता तत उत्तरकालं यणादेशेन भवितव्यं । नद्याश्रयत्वात्यणादेशस्य ह्रस्वस्य नदीसञ्ज्ञा भविष्यति । (कात्यायन वार्तिक)बहुव्रीह्यर्थं तु (वार्तिकान्त)। बह्व्रीहिप्रतिषेधार्थं तु शेषग्रहणं कर्तव्यं । शेषः बवुव्रीहिः इति । किं प्रयोजनं । (कात्यायन वार्तिक)प्रयोजनमव्ययीभावोपमानद्विगुकृल्लोपेषु (वार्तिकान्त)। अव्ययीभावे । उन्मत्तगङ्गं लोहितगङ्गं । उपमाने । शस्त्रीश्यामा कुमुदश्येनी । द्विगु । पञ्चगवं दशगवं । कृल्लोपे । निष्कौशाम्बिः निर्वाराणसिः । (कात्यायन वार्तिक)तत्र शेषवचनात्दोषः सङ्ख्यासमानाधिकरणञ्समासेषु बहुव्रीहिप्रतिषेधः(वार्तिकान्त) । तत्र शेषवचनात्दोषः भवति । सङ्ख्यासमानाधिकरणञ्समासेषु बहुव्रीहेः प्रतिषेधः प्राप्नोति । सङ्ख्या । द्वीरावतीकः देशः त्रीरावतीकः देशः । समानाधिकरण । वीर्पुरुषकः ग्रामः । नञ्समासे । अब्राह्मणकः देशः अवृषलकः देशः । (कात्यायन वार्तिक)कृल्लोपे च शेषवचनात्प्रादिभिः न बहुव्रीहिः(वार्तिकान्त) । कृल्लोपे च शेषवचनात्प्रादिभिः न प्राप्नोति । प्रपतितपर्णः प्रपर्णकः प्रपतितपलाशः प्रपलाशकः इति । अथ एकसञ्ज्ञाधिकारे कथं सिध्यति । एकसञ्ज्ञाधिकारे विप्रतिषेधाद्बहुव्रीहिः । एकसञ्ज्ञाधिकारे विप्रतिषेधात्बहुव्रीहिः भविष्यति । (कात्यायन वार्तिक)एकसञ्ज्ञाधिकारे विप्रतिषेधात्बहुव्रीहिः इति चेत्क्तार्थे प्रतिषेधः(वार्तिकान्त) । एकसञ्ज्ञाधिकारे विप्रतिषेधात्बहुव्रीहिः इति चेत्क्तार्थे प्रतिषेधः वक्तव्यः । निष्कौशाम्बिः निर्वाराणसिः । तत्पुरुषः अत्र बाधकः भविष्यति । (कात्यायन वार्तिक)तत्पुरुषः इति चेतन्यत्र क्तार्थात्प्रतिषेधः (वार्तिकान्त)। तत्पुरुषः इति चेतन्यत्र क्तार्थात्प्रतिषेधः वक्तव्यः । प्रपतितपर्णः प्रपर्णकः प्रतितत्पलाशः प्रपलाशकः इति । (कात्यायन वार्तिक)सिद्धं तु प्रादीनां क्तार्थे तत्पुरुषवचनात्(वार्तिकान्त) । सिद्धमेतत। कथं । प्रादीनां क्तार्थे तत्पुरुषः भवति इति वक्तव्यं ।
पाणिनीयसूत्र १,४।१।४) कि.,३०१।२१-३०३।१४ रो.,३१३-३१७ कानि पुनः अस्य योगस्य प्रयोजनानि । (कात्यायन वार्तिक)प्रयोजनं ह्रस्वसञ्ज्ञां दीर्घप्लुतौ(वार्तिकान्त) । ह्रस्वसञ्ज्ञां दीर्घप्लुतसञ्ज्ञे बाधेते । (कात्यायन वार्तिक)तिङ्सार्वधातुकं लिङ्लिटोः आर्धधातुकम्(वार्तिकान्त) । तिङः सार्वधातुकसञ्ज्ञां लिङ्लिटोःआर्धधातुसञ्ज्ञा बाधते । (कात्यायन वार्तिक)अपत्यं वृद्धं युवा(वार्तिकान्त) । अपत्यं वृद्धं यवुसञ्ज्ञा बाधते । (कात्यायन वार्तिक)घिं नदी(वार्तिकान्त) । घिसञ्ज्ञां नदीसञ्ज्ञा बाधते । (कात्यायन वार्तिक)लघु गुरु(वार्तिकान्त) । लघुसञ्ज्ञां गुरुसञ्ज्ञा बाधते । (कात्यायन वार्तिक)पदं भम्(वार्तिकान्त) । पदसञ्ज्ञां भसञ्ज्ञा बाधते । (कात्यायन वार्तिक)अपादाद्नं उत्तराणि धनुषा विध्यति कंसपात्र्यां भुङ्क्ते गां दोग्धि धनुः विध्यति इति(वार्तिकान्त) । अपादानसञ्ज्ञां उत्तराणि कारकाणि बाधन्ते । क्व । धनुषा विध्यति । कंसपात्र्यां भुङ्क्ते । गां दोग्धि । धनुः विध्यति । धनुषा विध्यति इति अपाययुक्तत्वात्च ध्रुवमपाये अपादानं इति अपादानसञ्ज्ञा प्राप्नोति साधकतमं करणं इति च करणसञ्ज्ञा । करणसञ्ज्ञा परा सा भवति । कंसपात्र्यां भुङ्क्ते इति अत्र अपायुक्तत्वात्च ध्रुवमपाये अपादानमिति अपादानसञ्ज्ञा प्राप्नोति आधारः अधिकरणं इति च अधिकरणसञ्ज्ञा । अधिकरणसञ्ज्ञा परा सा भवति । गां दोग्धि इति अत्र अपायुक्तत्वात्च अपादानसञ्ज्ञा प्राप्नोति कर्तुरीप्सिततमं कर्म । इति च कर्मसञ्ज्ञा । कर्मसञ्ज्ञा परा सा भवति । धनुः विध्यति इति अत्र अपाययुक्तत्वात्च अपादानसञ्ज्ञा प्राप्नोति स्वतन्त्रः कर्ता इति च । कर्तृसञ्ज्ञा परा सा भवति । (कात्यायन वार्तिक)क्रुधद्रुहोः उप्सृष्टयोः कर्म संप्रदानं (वार्तिकान्त)। क्रुधद्रुहोः उप्सृष्टयोः कर्मसञ्ज्ञा संप्रदानसञ्ज्ञां बाधते । (कात्यायन वार्तिक)करणं पराणि साधु असिः छिनत्ति(वार्तिकान्त) । करणसञ्ज्ञां पराणि आणि बाधन्ते । क्व । धनुः विध्यति । असिः छिनत्ति इति । (कात्यायन वार्तिक)अधिकरणं कर्म गेहं प्रविशति (वार्तिकान्त)। अधिकरणसञ्ज्ञां कर्मसञ्ज्ञा बाधते । क्व । गेहं प्रविशति इति । (कात्यायन वार्तिक)अधिकरणं कर्ता स्थाली पचति(वार्तिकान्त) । अधिकरणसञ्ज्ञां कर्मसञ्ज्ञा बाधते । क्व । स्थाली पचति इति । (कात्यायन वार्तिक)अध्युपसृष्टं कर्म (वार्तिकान्त)। अध्युपसृष्टं कर्म अधिकरणसञ्ज्ञां बाधते । (कात्यायन वार्तिक)गत्युपसर्गसञ्ज्ञे कर्मप्रवचनीयसञ्ज्ञा(वार्तिकान्त) । गत्युपसर्गसञ्ज्ञे कर्मप्रवचनीयसञ्ज्ञा बाधते । (कात्यायन वार्तिक)परस्मैपदं आत्मनेपदं (वार्तिकान्त)। परस्मैपदसञ्ज्ञां आत्मनेपदसञ्ज्ञा बाधते । (कात्यायन वार्तिक)समाससञ्ज्ञाः च(वार्तिकान्त) । समाससञ्ज्ञाः च याः याः पराः अनवकाशाः च ताः ताः पूर्वाः सावकाशाः च बाधन्ते ।
पाणिनीयसूत्र १,४।१।५) कि.,३०३।१५-३०४।९ रो.,३१७-३१९ (कात्यायन वार्तिक)अर्थवत्प्रातिपदिकं (वार्तिकान्त)। अर्थवत्प्रातिपदिकसञ्ज्ञं भवति । (कात्यायन वार्तिक)गुणवचनं च(वार्तिकान्त) । गुणवचनसञ्ज्ञं च भवति अर्थवत। (कात्यायन वार्तिक)समासकृत्तद्धिताव्ययसर्वनाम असर्वलिङ्गा जातिः(वार्तिकान्त) । ४१ । ।समास । समाससञ्ज्ञा च वक्तव्या । कृत। कृत्सञ्ज्ञा च वक्तव्या । तद्धित । तद्धितसञ्ज्ञा च वक्तव्या । अव्यय । अव्ययसञ्ज्ञा च वक्तव्या । सर्वनाम । सर्वनामसञ्ज्ञा च वक्तव्या । असर्वलिङ्गा जातिः इति एतत्च वक्तव्यं । (कात्यायन वार्तिक)सङ्ख्या(वार्तिकान्त) । सङ्ख्यासञ्ज्ञा च वक्तव्या । (कात्यायन वार्तिक)डु च(वार्तिकान्त) । डुसञ्ज्ञा च वक्तव्या । का पुनः डुसञ्ज्ञा । षट्सञ्ज्ञा । (कात्यायन वार्तिक)एकद्रव्योपनिवेशिनी सञ्ज्ञा(वार्तिकान्त) । एकद्रव्योपनिवेशिनी सञ्ज्ञा इति एतत्च वक्तव्यं । किमर्थं इदमुच्यते । यथान्यासे एव भूयिष्ठाः सञ्ज्ञाः क्रियन्ते । सन्ति च एव अत्र काः चितपूर्वाः सञ्ज्ञाः । अपि च एतेन आनुपूर्व्येण सन्निविष्टानां बाधनं यथा स्यात। गुणवचनसञ्ज्ञायाः च एताभिः बाधनं यथा स्यातिति ।
पाणिनीयसूत्र १,४।२।१) कि.,३०४।११-३०६।१० रो.,३१९-३२५ विप्रतिषेधः इति कः अयं शब्दः । विप्रतिपूर्वात्सिद्धेः कर्मव्यतिहारे कर्मव्यतिहारे घञ। इतरेतरप्रतिषेधः विप्रतिषेधः । अन्योन्यप्रतिषेधः विप्रतिषेधः । कः पुनः विप्रतिषेधः । (कात्यायन वार्तिक)द्वौ प्रसङ्गौ अन्यार्थौ एकस्मिन्सः विप्रतिषेधः(वार्तिकान्त) । द्वौ प्रसण्गौ यदा अन्यार्थौ भवतः एकस्मिन्च युगपत्प्राप्त्नुतः सः विप्रतिषेधः । क्व पुनः अन्यार्थौ क्व च एकस्मिन्युगपत्प्राप्नुतः । वृक्षाभ्यां , वृक्षेषु इति अन्यार्थौ वृक्षेभ्यः इति अत्र युगपत्प्राप्नुतः । किं च स्यात। (कात्यायन वार्तिक)एकस्मिन्युगपदसम्भवात्पूर्वपरप्राप्तेः उभयप्रसङ्गः(वार्तिकान्त) । एकस्मिन्युगपदसम्भवात्पूर्वस्याः च परस्याः च प्राप्तेः उभयप्रसङ्गः । इदं विप्रतिषिद्धं यतुच्यते एकस्मिन्युगपदसम्भवात्पूर्वपरप्राप्तेः उभयप्रसङ्गः इति । कथं हि एकस्मिन्च नाम युगपदसम्भवः स्यात्पूर्वस्याः च परस्याःच प्राप्तेः उभयप्रसङ्गः च स्यात। न एतत्विप्रतिषिद्धं । यतुच्यते एकस्मिन्युगपदसम्भवातिति कार्ययोः युगपदसम्भवः शास्त्रयोः उभयप्रसङ्गः । (कात्यायन वार्तिक)तृजादिभिः तुल्यं (वार्तिकान्त)। तृजादिभिः तुल्यं पर्यायः प्राप्नोति । तत्यथा तृजादयः पर्यायेण भवन्ति । किं पुनः कारणं तृजादयः पर्यायेण भवन्ति । (कात्यायन वार्तिक)अनवयप्रसङ्गात्प्रतिपदं विधेः च(वार्तिकान्त) । अनवयवेन प्रसज्यन्ते प्रतिपदं च विधीयन्ते । (कात्यायन वार्तिक)अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात्(वार्तिकान्त) । अप्रतिपत्तिः वा पुनः उभयोः शास्त्रयोः स्यात। किं कारणं । तुल्यबलत्वात। तुल्यबले हि उभे शास्त्रे । तत्यथा । द्वयोः तुल्यबलयोः एकः प्रेष्यः भवति । सः तयोः पर्यायेण कार्यं करोति । यदा तं उभौ युगपत्प्रेषयतः नानादिक्षु च कार्ये भवतः तदा यदि असौ अविरोधार्थी भवति ततः उभयोः न करोति । किं पुनः कारणं उभयोः न करोति । यौगपद्यासम्भवात। न अस्ति यौगपद्येन सम्भवः । (कात्यायन वार्तिक)तत्र प्रतिपत्त्यर्थं वचनम्(वार्तिकान्त) । तत्र प्रतिपत्त्यर्थं इदं वक्तव्यं । (कात्यायन वार्तिक)तव्यदादीनां तु अप्रसिद्धिः । (वार्तिकान्त)तव्यदादीनां तु कार्यस्य अप्रसिद्धिः । न हि किं चित्तव्यदादिषु नियमकारि शास्त्रं आरभ्यते येन तव्यदादयः स्युः । यः च भवता हेतुः व्यपदिष्टः अप्रतिपत्तिः वा उभयोः तुल्यबलत्वातिति तुल्यः स तव्यदादिषु । न एषः दोषः । अनवकाशाः तव्यदादयः उच्यन्ते च । ते वचनात्भविष्यन्ति । यः च भवता हेतुः व्यपदिष्टः तृजादिभिः तुल्यं पर्यायः प्राप्नोति इति तुल्यः स तव्यदादिषु । एतावतिह सूत्रं विप्रतिषेधे परं इति । पठिष्यति हि आचार्यः सकृद्गतौ विर्प्रतिषेधे यत्बाधितं तत्बाधितं एव इति । पुनः च पठिष्यति पुनः प्रसङ्गविज्ञानात्सिद्धं इति । किं पुनः इयता सूत्रेण उभयं लभ्यं । लभ्यं इति आह । कथं । इह भवता द्वौ हेतू व्यपदिष्टौ । तृजादिभिः तुल्यं पर्यायः प्राप्नोति इति च अप्रतिपत्तिः वा उभयोः तुल्यबलत्वातिति च । तत्यदा तावतेषः हेतुः तृजादिभिः तुल्यं पर्यायः प्राप्नोति इति तदा विप्रतिषेढे परं इति अनेन किं क्रियते । नियमः । विप्रतिषेधे परं एव भवति इति । तदा एततुपपन्नं भवति सकृद्गतौ विप्रतिषेधे यत्बाधितं तत्बाधितं एव इति । यदा तु एषः हेतुः अप्रतिपत्तिः वा उभयोः तुल्यबलत्वातिति तदा विप्रतिषेधे परं इति अनेन किं क्रियते । द्वारं । विप्रतिषेधे परं तावत्भवति तस्मिन्क्र्टे यदि पूर्वं अपि प्राप्नोति ततपि भवति । तदा एततुपपन्नं भवति पुनःप्रसङ्गविज्ञानात्सिद्धं इति । विप्रतिषेधे परं इति उक्त्वा अङ्गाधिकारे पूर्वं इति वक्तव्यं । किं कृतं भवति । पूर्वविप्रतिषेधाः न पठितव्याः भवन्ति । गुणवृद्ध्यौत्वतृज्वद्भावेभ्यः नुं पूर्वविप्रतिषिद्धं । नुमचिरतृज्वद्भावेभ्यः नुटिति । कथं ये परविप्रतिषेधाः । इत्त्वोत्त्वाभ्यां गुणवृद्धी भवतः विप्रतिषेधेन इति । सूत्रं च भिद्यते । यथान्यासं एव अस्तु । कथं ये पूर्वविप्रतिषेधाः । विप्रतिषेधे परं इति एव सिद्धं । कथं । परशब्दः अयं बह्वर्थः । अस्ति एव व्यवस्थायां वर्तते । तत्यथा पूर्वः परः इति । अस्ति अन्यार्थे वर्तते । परपुत्रः परभार्या । अन्यपुत्रः अन्यभार्या इति गम्यते । अस्ति प्राधान्ये वर्तते । तत्यथा परं इयं ब्राह्माणी अस्मिन्कुटुम्बे । प्रधानं इति गम्यते । अस्ति इष्टवाची परशब्दः । तत्यथा । परं धाम गतः इति । इष्टं धाम इति गम्यते । तत्यः इष्टवाची परशब्दः तस्य इदं ग्रहणं । विप्रतिषेधे परं यतिष्टं तत्भवति ।
पाणिनीयसूत्र १,४।२।२) कि.,३०६।११-३०९।२३ रो.,३२५-३३५ (कात्यायन वार्तिक)अन्तरङ्गं च(वार्तिकान्त) । अन्तरङ्गं च बलीयः भवति इति वक्तव्यं । किं प्रयोजनं । (कात्यायन वार्तिक)प्रयोजनं यणेकादेशेत्त्वोत्त्वानि गुणवृद्धिद्विर्वचनाल्लोपस्वरेभ्यः(वार्तिकान्त) । गुणात्यणादेशः : स्योनः , स्योना । गुणः च प्राप्नोति यणादेः च । परत्वात्गुणः स्यात। यणादेशः भवत्यन्तरङ्गतः । वृद्धेः यणादेशः । द्यौकामिः स्यौकामिः । वृद्धिः च प्राप्नोति यणादेः च । परत्वात्वृद्धिः स्यात। यणादेशः भवति अन्तरङ्गतः । द्विर्वचनात्यणादेशः । दुद्यूषति सुस्यूषति । द्विर्वचनं च प्राप्नोति यणादेः च । नित्यत्वात्द्विर्वचनं स्यात। यणादेशः भवति अन्तरङ्गतः । अल्लोपस्य च यणादेशस्य च न अस्ति सम्प्रधारणा । स्वरात्यणादेशः । द्यौकामिः स्यौकामिः । स्वरः च प्राप्नोति यणादेः च । परत्वात्स्वरः स्यात। यणादेशः भवति अन्तरङ्गतः । गुणातेकादेशः । काद्रवेयः मन्त्रं अपश्यत। गुणः च प्राप्नोति एकादेशः च । परत्वात्गुणः स्यात। एकादेशः भवति अन्तरङ्गतः । वृद्धेः एकादेशः । वैक्ष्माणिः सौस्थितिः । वृद्धिः च प्राप्नोति एकादेशः च । परत्वात्वृद्धिः स्यात। एकादेशः भवति अन्तरङ्गतः । द्विर्वचनातेकादेशः । ज्ञाया ओदनः ज्ञौदनः । ज्ञौदनं इच्छति ज्ञौदनीयति । ज्ञौदनीयतेः सन्जुज्ञौदनीयिषति । द्विर्वचनं च प्राप्नोति एकादेशः च । नित्यत्वात्द्विर्वचनं स्यात। एकादेशः भवति अन्तरङ्गतः । अल्लोपातेकादेशः । शुना शुने । अल्लोपः च प्राप्नोति एकादेशः च । परत्वातल्लोपः स्यात। एकादेशः भवति अन्तरङ्गतः । न एततस्ति प्रयोजनं । न अस्ति अत्र विशेषः अल्लोपेन वा निवृत्तौ सत्यां पूर्वत्वेन वा । अयं अस्ति विशेषः । अल्लोपेन निवृत्तौ सत्यां उदात्तनिवृत्तिस्वरः प्रसज्येत । न अत्र उदात्तनिवृत्तिस्वरः प्राप्नोति । किं कारणं । न गोश्वन्साववर्ण इति प्रतिषेधात। न एषः उदात्तनिवृत्तिस्वरस्य प्रतिषेधः । कस्य तर्हि । तृतीयादिस्वरस्य । यत्र तर्हि तृतीयादिस्वरः न अस्ति । शुनः पश्य इति । एवं तर्हि न लाक्षणिकस्य प्रतिषेधं शिष्मः । किं तर्हि । येन केन चित्लक्षणेन प्राप्तस्य विभक्तिस्वरस्य प्रतिषेधः । यत्र तर्हि विभक्तिः न अस्ति । बह्हुशुनी इति । यदि पुनः अयं उदात्तनिवृत्तिस्वरस्य अपि प्रतिषेधः विज्ञायेत । न एवं शक्यं । इह अपि प्रसज्येत : कुमारी इति । एवं तर्हि आचार्यप्रवृत्तिः ज्ञापयति नोदात्तनिवृत्तिस्वरः शुनि अवतरति इति यतयं श्वन्शब्दं गौरादिषु पठति । अन्तोदात्तार्थं यत्नं करोति । सिद्धं हि स्यान्ङीपा एव । स्वरातेकादेकादेशः । सौत्थितिः वैक्ष्माणिः । स्वरः च प्राप्नोति एकादेशः च । परत्वात्स्वरः स्यात। एकादेशः भवति अन्तरङ्गतः । गुणस्य च इत्त्वोत्त्वयोः च न अस्ति सम्प्रधारणा । वृद्धेः इत्त्वोत्त्वे । स्तौर्णिः पौर्तिः । वृद्धिः च प्राप्नोति इत्त्वोत्त्वे च । परत्वात्वृद्धिः स्यात। इत्त्वोत्त्वे भवतः अन्तरङ्गतः । द्विर्वचनातित्त्वोत्त्वे । आतेस्तीर्यते आपोपूर्यते । द्विर्वचनं च प्राप्नोति इत्त्वोत्त्वे च । नित्यत्वात्द्विर्वचनं स्यात। इत्त्वोत्त्वे भवतः अन्तरङ्गतः । अल्लोपस्य च इत्त्वोत्त्वयोः च न अस्ति सम्प्रधारणा । स्वरे नास्ति विशेषः । (कात्यायन वार्तिक)इण्ङिशीनां आत्गुणः सवर्णदीर्घत्वात्(वार्तिकान्त) । इण्ङिशीनां आत्गुणः सवर्णदीर्घत्वात्प्रयोजनं । अयजे इन्द्रं अवपे इन्द्रं । वृक्षे इन्द्रं प्लक्षे इन्द्रं । ये इन्द्रं ते इन्द्रं । आत्गुणः च प्राप्नोति सवर्णदीर्घत्वं च । परत्वात्सवरणदीर्घत्वं स्यात। आत्गुणः भवति अन्तरङ्गतः । (कात्यायन वार्तिक)न वा सवर्णदीर्घत्वस्य अनवकाशत्वात्(वार्तिकान्त) । न वा एततन्तरङ्गेण अपि सिध्यति । किं कारणं । सवर्णदीर्घत्वस्य अनवकाशत्वात। अनवकाशं सवर्णदीर्घत्वं आत्गुणं बाधेत । न एततन्तरङ्गे अस्ति अनवकाशं परं इति । इह अपि स्योनः , स्योना इति शक्यं वक्तुं न वा परत्वात्गुणस्य इति । (कात्यायन वार्तिक)ऊङापोः एकादेशः ईत्वलोपाभ्याम्(वार्तिकान्त) । ऊङापोः एकादेशः ईत्वलोपाभ्यां भवति अन्तरङ्गतः प्रयोजनं । ईत्वातेकादेशः । खट्वीयति मालीयति । ईत्वं च प्राप्नोति एकादेशः च । परत्वातीत्वं स्यात। एकादेशः भवति अन्तरङ्गतः । लोपातेकादेशः । कामण्डलेयः भाद्रबाहेयः । लोपः च प्राप्नोति एकादेशः च । परत्वात्लोपः स्यात। एकादेशः भवति अन्तरङ्गतः । अथ किमर्थं ईत्वलोपाभ्यां इति उच्यते न लोपेत्वाभ्यामिति एव उच्येत । सङ्ख्यातानुदेशः मा भूतिति । आपः अपि एकादेशः लोपे प्रयोजयति । चौडिः बालाकिः । (कात्यायन वार्तिक)आत्त्वनपुंसकोपसर्जनह्रस्वत्वानि अयवायावेकादेशतुग्विधिभ्यः (वार्तिकान्त)। आत्त्वनपुंसकोपसर्जनह्रस्वत्वानि अयवायावेकादेशतुग्विधिभ्यः भवन्ति अन्तरङ्गतः । वेञ्वानीयं शो शानीयं ग्लै ग्लानीयं म्लै म्लानीयं ग्लाच्छत्त्रं च्लाच्छत्रं । आत्त्वं च प्राप्नोति एते च विधयः । परत्वातेते विधयः स्युः । आत्त्वं भवति अन्तरङ्गतः । नपुंसकोपसर्जनह्रस्वत्वं च प्रयोजनं । अतिरि अत्र अतिनु अत्र अतिरिच्छत्त्रं अतिनुच्छत्रं आराशस्त्रि इदं धानाशष्कुलि इदं निष्कौशाम्बि इदं निर्वाराणसि इदं निष्कौशाम्बिच्छत्रं निर्वाराणासिच्छत्रं । नपुंसकोपसर्जनह्रस्वत्वं च प्राप्नोति एते च विधयः । परत्वातेते विधयः स्युः । नपुंसकोपसर्जनह्रस्वत्वं भवति अन्तरङ्गतः । (कात्यायन वार्तिक)तुक्यणेकादेशगुणवृद्ध्यौत्त्वदीर्घत्वेत्वमुमेत्त्त्वरीविधिभ्यः(वार्तिकान्त) । यणेकादेशगुणवृद्ध्यौत्त्वदीर्घत्वेत्वमुमेत्त्त्वरीविधिभ्यः तुक्भवति अन्तरङ्गतः । यणादेशात। अग्निचितत्र सोमसुतत्र । एकादेशात। अग्निचितिदं सोमसुतुदकं । गुणात। अग्निचिते सोमसुते । वृद्धेः । प्रऋच्छकः प्रार्च्छकः । औत्त्वात। अग्निचिति सोमसुति । दीर्घत्वात। जगद्भ्यां जनगद्भ्यां । ईत्वात। जगत्यति जनगत्यति । मुमः । अग्निचिन्मन्यः सोमसुन्मन्यः । एत्वात। जगद्भ्यः जनगद्भ्यः । रीविधेः । सुकृत्यति पापक्र्ट्यति । अनङानङ्भ्यां च इति वक्तव्यं । सुकृत्सुकृत्द्दुष्क्र्टौ । तुक्च प्राप्नोति एते च विधयः । परत्वातेते विधयः स्युः । तुक्भवति अन्तरङ्गतः । (कात्यायन वार्तिक)इयङादेशः गुणात्(वार्तिकान्त) । इयङादेशः गुणात्भवति अन्तरङ्गतः प्रयोजनं । धियति रियति । इयङादेशः च प्राप्नोति गुणः च । परत्वात्गुणः स्यात। इयङादेशः भवति अन्तरण्गतः । उवङादेशः च इति वक्तव्यं । प्रादुद्रुवत्प्रासुस्रुवत। (कात्यायन वार्तिक)श्वेः सम्प्रसारणपूर्वत्वं यणादेशात्(वार्तिकान्त) । श्वेः सम्प्रसारणपूर्वत्वं यणादेशात्भवति अन्तरण्गतः प्रयोजनं । शुशुवतुः शुशुवुः । पूर्वत्वं च प्राप्नोति यणादेशः च । परत्वात्यणादेशः स्यात। पूर्वत्वं भवति अन्तरण्गतः । (कात्यायन वार्तिक)ह्वः आकारलोपात्(वार्तिकान्त) । ह्वः आकारलोपात्पूर्वत्वं भवति अन्तरङ्गतः प्रयोजनं । जुहुवतुः जुहुवुः । पूर्वत्वं च प्राप्नोति आकारलोपः च परत्वाताकारलोपः स्यात। पूर्वत्वं भवति अन्तरङ्गतः । (कात्यायन वार्तिक)स्वरः लोपात्(वार्तिकान्त) । स्वरः लोपात्भवति अन्तरङ्गतः प्रयोजनं । औपगवी सौदामनी । स्वरः च प्राप्नोति लोपः च । परत्वात्लोपः स्यात। स्वरः भवति अन्तरङ्गतः । (कात्यायन वार्तिक)प्रत्ययविधिः एकादेशात्(वार्तिकान्त) । प्रत्ययविधिः एकादेशात्भवति अन्तरङ्गतः प्रयोजनं । अग्निः इन्द्रः वायुः उदकं । प्रत्ययविधिः च प्राप्नोति एकादेशः च । परत्वातेकादेशः स्यात। । प्रत्ययविधिः भवति अन्तरङ्गतः । यणादेशात्च इति वक्तव्यं । अग्निः अत्र वायुः अत्र । (कात्यायन वार्तिक)लादेशः वर्णविधेः (वार्तिकान्त)। लादेशः वर्णविधेः भवति अन्तरङ्गतः प्रयोजनं । पचतु अत्र पठ्तु अत्र । लादेशः च प्राप्नोति यणादेशः च ।परत्वात्यणादेशः स्यात। लादेशः भवति अन्तरङ्गतः । (कात्यायन वार्तिक)तत्पुरुषान्तोदात्तत्वं पूर्वपदप्रकृतिस्वरात्(वार्तिकान्त) । तत्पुरुषान्तोदात्तत्वं पूर्वपदप्रकृतिस्वरात्भवति अन्तरङ्गतः प्रयोजनं । पूर्वशालाप्रियः अपरशालाप्रियः टत्पुरुषान्तोदात्तत्वं च प्राप्नोति पूर्वपदप्रकृतिस्वरत्वं च । परत्वात्पूर्वपदप्रकृतिस्वरत्वं स्यात। तत्पुरुषान्तोदात्तत्वं भवति अन्तरङ्गतः । एतानि अस्याः परिभाषायाः प्रयोजनानि यदर्थं एषा परिभाषा कर्तव्या ।
पाणिनीयसूत्र १,४।२।३) कि.,३०९।२३-३११।११ रो.,३३५-३३९ यदि सन्ति प्रयोजनानि इति एषा परिभाषा क्रियते ननु च इयं अपि कर्तव्या असिद्धं बहिरङ्गलक्षणं अन्तरङ्गलक्षणे इति । किं प्रयोजनं । पचावेदं पचामेदं । असिद्धत्वात्बहिरङ्गलक्षणस्य गुणस्य अन्तरण्गलक्षणं ऐत्वं मा भूतिति । उभे तर्हि कर्तव्ये । न इति आह । अनया एव सिद्धं । इह अपि स्योनः स्योना इति असिद्धत्वात्बहिरङ्गलक्षणस्य गुणस्य अन्तरङ्गलक्षणः यणादेशो भविष्यति । यदि असिद्धं बहिरङ्गलक्षणं अन्तरङ्गलक्षणे इति उच्यते अक्षद्यूः हिरण्यद्यूः असिद्धत्वातसिद्धत्वात्बहिरङ्गलक्षणस्य ऊठः अन्तरङ्गलक्षणः यणादेशः न प्राप्नोति । न एषः दोषः । असिद्धं बहिरङ्गलक्षणं अन्तरङ्गलक्षणे इति उक्त्वा ततः वक्ष्यामि न अजानन्तर्ये बहिष्ट्वप्रक्ल्प्तिः इति । सा तर्हि एषा परिभाषा कर्तव्या । न कर्तव्या । आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाषा इति यतयं षत्वतुकोः असिद्धः इति आह । इयं तर्हि परिभाषा कर्तव्या असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षणे इति । एषा च न कर्तव्या । आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाषा इति यतयं वाहः ऊठिति ऊठं शास्ति । (कात्यायन वार्तिक)तस्य दोषः पूर्वपदोत्तरपदयोः वृद्धिस्वरौ एकादेशात्(वार्तिकान्त) । तस्य एतस्य लक्षणस्य दोषः पूर्वपदोत्तरपदयोः वृद्धिस्वरौ एकादेशातन्तरङ्गतः अभिनिर्वृत्तात्न प्राप्नुतः । पूर्वैषुकामशमः अपरैषुकामशमः गुडोदकं तिलोदकं । उदके अकेवले इति पूर्वोत्तरपदयोः व्यपवर्गाभावात्न स्यात। न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति पूर्वोत्तरपदयोः तावत्कार्यं भवति न एकादेशः इति यतयं न इन्द्रस्य परस्य इति प्रतिषेधं शास्ति । कथं कृत्वा ज्ञापकं । इन्द्रे द्वौ अचौ । तत्र एकः यस्य ईति च इति लोपेन ह्रियते अपरः एकादेशेन । ततः अनच्कः इन्द्रः सम्पन्नः । तत्र कः प्रसङ्गः वृद्धेः । पश्यति तु आचार्यः पूर्वपदोत्तरपद्योः तावत्कार्यं भवति न एकादेशः इति ततः न इन्द्रस्य परस्य इति प्रतिषेधं शास्ति । (कात्यायन वार्तिक)यणादेशातियुवौ (वार्तिकान्त)। यणादेशातियुवौ अन्तरङ्गतः अभिनिर्वृत्तात्न प्राप्नुतः । वैयाकरणः सौवश्वः इति । लक्षणं हि भवति य्वोः वृद्धिप्रसङ्गे इयुवौ भवतः इति । न एषः दोषः । अनवकाशौ इयुवौ । अचि इति उच्यते । किं पुनः कारणं अचि ति उच्यते । इह मा भूतां । ऐतिकायनः औपगवः इति । स्तां अत्र इयुवौ लोपः व्योः वलि इति लोपः भविष्यति । यत्र तर्हि लोपः न अस्ति । प्रैयमेधः प्रैयम्गवः इति । (कात्यायन वार्तिक)उसि पररूपात्च(वार्तिकान्त) । उसि पररूपात्च अन्तरङ्गतः अभिनिर्वृत्तातियादेशः न प्राप्नोति । पचेयुः यजेयुः । न एषः दोषः । न एवं विज्ञायते या इति एतस्य इय्भवति इति । कथं तर्हि । यासिति एतस्य इय्भवति इति । (कात्यायन वार्तिक)लुक्लोपयणयवायावेकादेशेभ्यः(वार्तिकान्त) । लोपयणयवायावेकादेशेभ्यः लुक्बलीयानिति वक्तव्यं । लोपात। गोमान्प्रियः अस्य गोमत्प्रियः यवमत्प्रियः । गोमानिव आचरति गोमत्यते यवमत्यते । यणादेशात। ग्रामण्यः कुलं ग्रामणिकुलं सेनान्यः कुलं सेनानिकुलं । अयवायावेकादेशेभ्यः । गवे हितं गोहितं रायः कुलं रैकुलं नावः कुलं नौकुलं वृकाद्भयं वृकभयं । लुक्च प्राप्नोति एते च विधयः । परत्वातेते विधयः स्युः । लुक्बलीयानिति वक्तव्यं लुक्यथा स्यात।
पाणिनीयसूत्र १,४।३।१) कि.,३१२।२-३१३।२३ रो.,३४०-३४४ यू इति किमर्थं । खट्वा माला । किं च स्यात। खट्वाबन्धुः मालाबन्धुः । नदी बन्धुनि इति एषः स्वरः प्रसज्येत । इह च बहुखट्वकः इति नद्यृतः च इति नित्यः कप्प्रसज्येत । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न आपः नदीसञ्ज्ञा भवति इति यतयं ङेः आं नद्याम्नीभ्यः इति पृथकाब्ग्रहणं करोति । इह तर्हि मात्रे मातुः इति आट्नद्याः इति आट्प्रसज्येत । किं पुनः इदं दीर्घयोः ग्रहणं आहोस्विद्ह्रस्वयोः । किं चातः । यदि दीर्घयोः ग्रहणं यू इति निर्देशः न उपपद्यते । दीर्घात्हि पूर्वसवर्णः प्रतिषिध्यते । उत्तरत्र च विशेषणं न प्रकल्पेत यू ह्रस्वौ इति । यदि यू न ह्रस्वौ । अथ ह्रस्वौ न यू । यू ह्रस्वौ चेति विप्रतिषिद्धं । अथ ह्रस्वयोः हे शकटे अत्र अपि प्रसज्येत । न एषः दोषः । अवश्यं अत्र विभाषा नदीसञ्ज्ञा एषितव्या । उभयं हि इष्यते : हे शकटि हे शकटे इति । इह तर्हि शकटिबन्धुः इति नदी बन्धुनि इति एषः स्वरः प्रसज्येत । इह च बहुशकटिः इति नद्यृतः चेति नित्यः कप्प्रसज्येत । न एषः दोषः । ङिति ह्रस्वः च इति अयं नियमार्थः भविष्यति । ङिति एव यू ह्रस्वौ नदीसञ्ज्ञौ भवतः न न्यत्र इति । कैमर्थक्यात्नियमः भवति । विधेयं न अस्ति इति कृत्वा । इह च अस्ति विधेयं । किं । नित्या नदीसञ्ज्ञा प्राप्ता सा विभाषा विधेया । तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः । अथ अयं नित्यः योगः स्यात्प्रकल्पेत नियमः । बाढं प्रकल्पेत । नित्यः तर्थि भविष्यति । तत्कथं । योगविभागः करिष्यते । इदं अस्ति । यू स्त्र्याख्यौ नदी न इयङुवङ्स्थानौ अस्त्री वामि । ततः ङिति । ङिति च इयङुवङ्स्थानौ यू वा अस्त्री नदीसञ्ज्ञौ न भवतः । ततः ह्रस्वौ । ह्रस्वौ च यू स्त्र्याख्यौ ङिति नदीसञ्ज्ञौ भवतः । इयङुवङ्स्थानौ वा न इति च निवृत्तं । यदि एवं शकटये अत्र गुणः न प्राप्नोति । द्वितीयः योगविभागः करिष्यते । शेषग्रहणं न करिष्यते । कथं । इदं अस्ति । यू स्त्र्याख्यौ नदी न इयङुवङ्स्थानौ अस्त्री वामि । ततः ङिति । ङिति च इयङुवङ्स्थानौ यू वा अस्त्री नदीसञ्ज्ञौ न भवतः । ततः ह्रस्वौ । ह्रस्वौ च यू स्त्र्याख्यौ ङिति नदीसञ्ज्ञौ भवतः । ततः ह्रस्वौ । ह्रस्वौ च यू स्त्र्याख्यौ ङिति नदीसञ्ज्ञौ भवतः । इयङुवङ्स्थानौ वा न इति च निवृत्तं । ततः घि । घिसञ्ज्ञौ च भवतः स्त्र्याख्यौ यू ह्रस्वौ ङिति । ततः असखि । सखिवर्जितौ च यू ह्रस्वौ घिसञ्ज्ञौ भवतः । स्त्र्याख्यौ ङिति इति च निवृत्तं । यदि तर्हि शेषग्रहणं न क्रियते न अर्थः एकेन अपि योगविभागेन । अविशेषेण नदीसञ्ज्ञा उत्सर्गः । तस्याः ह्रस्वयोः घिसञ्ज्ञा बाधिका । तस्यां नित्यायां प्राप्तायां ङिति विभाषा आरभ्यते । अथ वा पुनः अस्तु दीर्घयोः । ननु च उक्तं निर्देशः न उपपद्यते । दीर्घात्हि पूर्वसवर्णः प्रतिषिध्यते । वा छन्दसि इति एवं भविष्यति । छन्दसि इति उच्यते न च इदं छन्दः । छन्दोवत्सूत्राणि भवन्ति इति । यतपि उच्यते उत्तरत्र विशेषेणं न प्रकल्पेत यू ह्रस्वौ इति । यदि यू न ह्रस्वौ अथ ह्रस्वौ न यू । यू ह्रस्वौ इति विप्रतिषिद्धं इति । न एतत्विप्रतिषिद्धं । आह अयं यू ह्रस्वौ इति । यदि यू न ह्रस्वौ । अथ ह्रस्वौ न यू । ते एवं विज्ञास्यामः य्वोः यौ ह्रस्वौ इति । कौ च य्वोः ह्रस्वौ । सवर्णौ । अथ स्त्र्याख्यौ इति कः अयं शब्दः । स्त्रियं आचक्षाते स्त्र्याख्यौ । यदि एवं स्त्र्याख्यायौ इति प्राप्नोति । अनुपसर्गे हि कः विधीयते । न तर्हि इदानीं इदं भवति यस्मिन्दश सहस्राणि पुत्रे जाते गवां ददौ । ब्राह्मणेभ्यः प्रियाख्येभ्यः सः अयं उञ्छेन जीवति । छन्दोवत्कवयः कुर्वन्ति । न हि एषा इष्टिः । एवं तर्हि कर्मसाधनः भविष्यति : स्त्रियां आख्यायेते स्त्र्याख्यौ । यदि कर्मसाधनः कृत्स्त्रियाः धातुस्त्रियाः च न सिध्यति । तन्त्र्यै लक्ष्म्यै श्रियै भ्रुवै । एवं तर्हि बहुव्रीहिः भविष्यति । स्त्रियां आख्या अनयोः स्त्र्याख्यौ । एवं अपि कृत्स्त्रियाः धातुस्त्रियाः च न सिध्यति । तन्त्र्यै लक्ष्म्यै श्रियै भ्रुवै । एवं तर्हि विच्भविष्यति । अथ वा पुनः अस्तु कः एव । स्त्रियं आचक्षाते स्त्र्याख्यौ इति । ननु च उक्तं स्त्र्याख्यायौ इति प्राप्नोति । अनुपसर्गे हि कः विधीयते । मूलविभुजादिपाठात्कः भविष्यति । एवं च कृत्वा सः अपि अदोषः भवति यतुक्तं यस्मिन्दश सहस्राणि पुत्रे जाते गवां ददौ । ब्राह्मणेभ्यः प्रियाख्येभ्यः सः अयं उञ्छेन जीवति ।
पाणिनीयसूत्र १,४।३।२) कि.,३१३।२३-३१५।३ रो.,३४५-३४९ अथ आख्याग्रहणं किमर्थं । (कात्यायन वार्तिक)नदीसञ्ज्ञायां आख्याग्रहणं स्त्रीविषयार्थं (वार्तिकान्त)। नदीसञ्ज्ञायां आख्याग्रहणं स्त्रीविषयार्थं । स्त्रीविषयौ एव यौ नित्यं तयोः एव नदीसञ्ज्ञा यथा स्यात। इह मा भूत्ग्रामण्ये सेनान्ये स्त्रियै इति । (कात्यायन वार्तिक)प्रथमलिङ्गग्रहणं च(वार्तिकान्त) । प्रथमलिङ्गग्रहणं च कर्तव्यं । प्रथमलिङ्गे यौ स्त्र्याखौ इति वक्तव्यं । किं प्रयोजनं । (कात्यायन वार्तिक)प्रयोजनं क्विब्लुप्समासाः (वार्तिकान्त)। कुमार्यै ब्राह्मणाय । लुप। खरकुट्यै ब्राह्मणाय । अतितन्त्र्यै ब्राह्मणाय अतिलक्ष्म्यै ब्राह्मणाय । तत्तर्हि वक्तव्यं । न वक्तव्यं । अवयवस्त्रीविषयत्वात्सिद्धं । अवयवः अत्र स्त्रीविषयः तदाश्रया नदीसञ्ज्ञा भविष्यति । (कात्यायन वार्तिक)अवयवस्त्रीविषयत्वात्सिद्धं इति चेतियङुवङ्स्थानप्रतिषेधे यण्स्थानप्रतिषेधप्रसङ्गः अवयवस्य इयङुवङ्स्थानत्वात्(वार्तिकान्त) । अवयवस्त्रीविषयत्वात्सिद्धं इति चेतियङुवङ्स्थानप्रतिषेधे यण्स्थानयोः अपि य्वोः प्रतिषेधः प्रसज्येत । आध्यै प्रध्यै ब्राह्मण्यै । किं कारणं । अवयवस्य इयङुवङ्स्थानत्वात। अवयवः अत्र इयङुवङ्स्थानः । (कात्यायन वार्तिक)सिद्धं त्वङ्गरूपग्रहणात्यस्य अङ्गस्य इयुवौ तत्प्रतिषेधात्(वार्तिकान्त) । सिद्धं एतत। कथं । अङ्गरूपं गृह्यते । यस्य अङ्गस्य इयुवौ भवतः तस्य इदं ग्रहणं । न च एतस्य अङ्गस्य इयुवौ भवतः । (कात्यायन वार्तिक)ह्रस्वेयुव्स्थानप्रवृत्तौ च स्त्रीवचने(वार्तिकान्त) । ह्रस्वौ च इयुव्स्थानौ च प्रवृत्तौ च प्राक्च प्रवृत्तेः स्त्रीवचनौ एव नदीसञ्ज्ञौ भवतः इति वक्तव्यं । शकट्यै अतिशकट्यै ब्रामणाण्यै । क्व मा भूत। शकटये अतिशकटये ब्राह्मणाय । धेन्वै अतिधेन्वै ब्राह्मण्यै । क्व मा भूत। धेनवे अतिधेनवे ब्राह्मणाय । श्रियै अतिश्रियै ब्राह्मण्यै । क्व मा भूत। श्रिये अतिश्रिये ब्राह्मणाय । भ्रुवै अतिभ्रुवै ब्राह्मण्यै । क्व मा भूत। भ्रुवे अतिभ्रुवे ब्राह्मणाय । अपरः आह : ह्रस्वौ च इयुव्स्थानौ च प्रवृत्तौ अपि स्त्रीवचनौ एव नदीसञ्ज्ञौ भवतः इति वक्तव्यं : शकट्यै , अतिशकट्यै ब्रामणाण्यै । क्व मा भूत। शकटये अतिशकटये ब्राह्मणाय । धेन्वै अतिधेन्वै ब्राह्मण्यै । क्व मा भूत। धेनवे अतिधेनवे ब्राह्मणाय । श्रियै अतिश्रियै ब्राह्मण्यै । क्व मा भूत। श्रिये अतिश्रिये ब्राह्मणाय । भ्रुवै अतिभ्रुवै ब्राह्मण्यै । क्व मा भूत। भ्रुवे अतिभ्रुवे ब्राह्मणाय । किमर्थं पुनः इदं उच्यते । प्रथमलिङ्गग्रहणं चोदितं । तत्द्वेष्यं विजानीयातः सर्वं एतत्विकल्पते इति । तताचार्यः सुहृत्भूत्वा अन्वाचष्टे ह्रस्वौ च इयुव्स्थानौ च प्रवृत्तौ च प्राक्च प्रवृत्तेः स्त्रीवचनौ एव इति ।
पाणिनीयसूत्र १,४।९) कि.,३१५।५-१५ रो.,३४९-३५० योगविभागः कर्तव्यः । षष्थीयुक्तः छन्दसि । षष्थीयुक्तः पतिशब्दः छन्दसि घिसञ्ज्ञः भवति । ततः वा । वा छन्दसि सर्वे विधयो भवति । सुपां व्यत्ययः । तिङां व्यत्ययः । वर्णव्यत्ययः । लिङ्गव्यत्ययः । कालव्यत्ययः । पुरुषव्यत्ययः । आत्मनेपदव्यत्ययः । परस्मैपदव्यत्ययः । सुपां व्यत्ययः । युक्त मात असीत्धुरि दक्षिणायाः । दक्षिणायां इति प्राप्ते । तिङां व्यत्ययः । चषलं ये अश्वयूपय तक्षति । तक्षन्ति इति प्राप्ते । वर्णव्यत्ययः । त्रिष्टुभौजः शुभितं उग्रवीरं । सुहितमिति प्राप्ते । लिङ्गव्यत्ययः । मधोः गृह्णाति मधोः तृप्ताः इव आसते । मधुनः इति प्राप्ते । कालव्यत्ययः । श्वः अग्नीनाधास्यमानेन श्वः सोमेन यक्षमाणेन । श्वः आधाता श्वः यष्टा इति प्राप्ते । पुरुषव्यत्ययः । अधा सः वीरैः दशभिः वियूयाः । वियूयातिति प्राप्ते । आत्मनेपदव्यत्ययः । ब्रह्मचारिणं इच्छते । इच्छति इति प्राप्ते । परस्मैपदव्यत्ययः । प्रतीपं अन्यः ऊर्मिः युध्यति । अन्वीपं अन्यः ऊर्मिः युध्यति । युध्यते इति प्राप्ते ।
पाणिनीयसूत्र १,४।१३।१) कि.,३१५।१७-३१७।४ रो.,३५१-३५६ यस्मातिति व्यपदेशाय । अथ प्रत्ययग्रहणं किमर्थं । यस्मात्विधिः तदादि प्रत्यये अङ्गं इति इयति उच्यमाने स्त्री इयती स्त्रीयति इति अत्र अपि प्रसज्येत । प्रत्ययग्रहणे पुनः क्रियमाणे न दोषः भवति । अथ विधिग्रहणं किमर्थं । यस्मात्प्रत्ययः तदादि प्रत्यये अङ्गं इति इयति उच्यमाने दधि अधुना मधु अधुना अत्रापि प्रसज्येत । विधिग्रहणेण पुनः क्रियमाणे न दोषः भवति । ततेतत्प्रत्ययग्रहणेन विधिग्रहणेन च समुदितेन क्रियते सन्नियोगः । यस्मात्यः प्रत्ययः विधीयते तदादि तस्मिनङ्गसञ्ज्ञं भवति इति । अथ तदादिग्रहणं किमर्थं । (कात्यायन वार्तिक)अङ्गसञ्ज्ञायां तदादिवचनं स्यादिनुमर्थं (वार्तिकान्त)। अङ्गसञ्ज्ञायां तदादिग्रहणं क्रियते स्याद्यर्थं नुमर्थं च । स्याद्यर्थं तावत। करिष्यावः करिष्यामः । नुमर्थं । कुण्डानि वनानि । (कात्यायन वार्तिक)मित्सुटोः उपसम्ख्यानम्(वार्तिकान्त) । मित्वतः सुड्वतः च पसम्ख्यानं कर्तव्यं । मित्वतः । भिनत्ति छिनत्ति अभिनतच्छिनत। सुड्वतः । सञ्चरकस्तु सञ्चस्करुः । किं पुनः कारणं न सिध्यति । सुटः बहिरङ्गत्वात। बहिरङ्गः सुट। अन्तरङ्गः गुणः । असिद्धं बहिरङ्गं अन्तरङ्गे । वक्ष्यति एतत्संयोगादेः गुणविधाने संयोगोपधग्रहणं कृञर्थं । यदि संयोगोपधग्रहणं क्रियते न अर्थः संयोगादिग्रहणेन । इह अपि सस्वरतुः सस्वरुः इति संयोगोपधस्य इति एव सिद्धं । भवेतेवमर्थेन न अर्थः । इदं तु न सिध्यति सञ्चकरतुः सञ्चस्करुः । किं पुनः कारणं न सिध्यति । इह तस्य वा ग्रहणं भवति तदादेः वा न चेदं तत्न अपि तदादि । (कात्यायन वार्तिक)सिद्धं तु तदाद्यादिवचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । तदाद्यादि अङ्गसञ्ज्ञं भवति इति वक्तव्यं । किं इदं तदाद्यादि इति । तस्य आदिः तदादिः , तदादिः आदिः यस्य तदिदं तदाद्यादि इति । सः तर्हि तथा निर्देशः कर्तव्यः । न कर्तव्यः । उत्तरपदलोपः अत्र द्रष्टव्यः । तत्यथा : उष्ट्रमुखं इव मुखं अस्य उष्ट्रमुखः , खरमुखः , एवं तदाद्यादि तदादि इति । (कात्यायन वार्तिक)तदेकदेशविज्ञानात्वा सिद्धं (वार्तिकान्त)। तदेकदेशविज्ञानात्वा सिद्धं एतत। तदेकदेशभूतं तद्ग्रहणेन गृह्यते। तद्यथा । गङ्गा यमुना देवदत्ता इति । अनेका नदी गङ्गां यमुनां च प्रविष्टा गङ्गायमुनाग्रहणेन गृह्यते । तथा देवदत्तास्थः गर्भः देवदत्ताग्रहणेन गृह्यते । विषमः उपन्यासः । इह के चित्शब्दाः अक्तपरिमाणानां अर्थानां वाचकाः भवन्ति ये एते सङ्ख्याशब्दाः परिमाणशब्दाः च । पञ्च सप्त इति : एकेन अपि अपाये न भवन्ति । द्रोणः खारी आढकं इति : नैवा अधिके भवन्ति न च न्यूने । के चित्यावतेव तत्भवति तावतेव आहुः ये एते जातिशब्दाः गुणशब्दाः च । तैलं घृतं इति : खार्यां अपि भवन्ति द्रोणे अपि । शुक्लः नीलः कृष्णः इति : हिमवति अपि भवति वटकणिकामात्रे अपि द्रव्ये । अङ्गसञ्ज्ञा च अपि अक्तपरिमाणानां क्रियते । सा केन अधिकस्य स्यात। एवं तर्हि आचार्यप्रवृत्तिः ज्ञापयति तदेकदेशभूतं तद्ग्रहणेन गृह्यते इति यतयं न इदमदसोः अकोः इति सककारयोः प्रतिषेधं शास्ति । कथं कृत्वा ज्ञापकं । इदमदसोः कार्यं उच्यमानं कः प्रसङ्गो यत्सककारयोः स्यात। पश्यति तु आचार्यः तदेकदेशभूतं तद्ग्रहणेन गृह्यते इति ततः सककारयोः प्रतिषेधं शास्ति ।
पाणिनीयसूत्र १,४।१३।२) कि.,३१७।५-३१८।४ रो.,३५६-३५९ अथ द्वितीयं प्रत्ययग्रहणं किमर्थं । (कात्यायन वार्तिक)प्रत्ययग्रहणं पदादौ अप्रसङ्गार्थम्(वार्तिकान्त) । प्रत्ययग्रहणं क्रियते पदादौ अङ्गसञ्ज्ञा मा भूतिति । किं च स्यात। स्त्र्यर्थं , श्र्यर्थं , भ्वर्थं : अङ्गस्य इति इयङुवङौ स्यातां । (कात्यायन वार्तिक)परिमाणार्थं च(वार्तिकान्त) । परिमाणार्थं च द्वितीयं प्रत्ययग्रहणं क्रियते । यस्मात्प्रत्ययविधिः तदादि अङ्गं इति इयति उच्यमाने दाशतयस्य अपि अङ्गसञ्ज्ञा प्रसज्येत । तत्तर्हि कर्तव्यं । न कर्तव्यं । केन इदानीं अङ्गकार्यं भविष्यति । प्रत्यये इति प्रकृत्य अङ्गकार्यं अध्येष्ये । प्रत्यये इति प्रकृत्य अङ्गकार्यं अधीषे प्राकरोतुपैहिष्ट उपसर्गात्पूर्वौ अडाटौ प्राप्नुतः । (कात्यायन वार्तिक)सिद्धं तु प्रत्ययग्रहणे यस्मात्सः तदादितदन्तविज्ञानात्(वार्तिकान्त) । सिद्धं एतत। कथं । प्रत्ययग्रहणे यस्मात्सः प्रत्ययः विहितः तदादेः तदन्तस्य च ग्रहणं भवति इति एषा परिभाषा कर्तव्या । कः पुनः अत्र विशेषः एषा परिभाषा क्रियेत प्रत्ययग्रहणं वा । अवश्यं एषा परिभाषा कर्तव्या । बहूनि एतस्याः परिभाषायाः प्रयोजनानि । (कात्यायन वार्तिक)प्रयोजनं धातुप्रातिपदिकप्रत्ययसमासतद्धितविधिस्वराः(वार्तिकान्त) । धातु । देवदत्तः चिकीर्षति । सङ्घातस्य धातुसञ्ज्ञा प्राप्नोति । प्रातिपदिक । देवदत्तः गार्ग्यः । सङ्घातस्य प्रातिपदिकसञ्ज्ञा प्राप्नोति । प्रत्यय । महान्तं पुत्रं इच्छति । सम्घातात्प्रत्ययोत्पत्तिः प्राप्नोति । समास । ऋद्धस्य राज्ञः पुरुषः । सम्घातस्य समाससञ्ज्ञा प्राप्नोति । तद्धितविधि । देवदत्तः गार्ग्यायणः । सम्घातात्तद्धितोत्पत्तिः प्राप्नोति । स्वर । देवदत्तः गार्ग्यः । सम्घात्स्य ञ्नित्यादिः नित्यं इति आद्युदात्तत्वं प्राप्नोति । प्रत्ययग्रहणे यस्मात्स तदादेः तदन्तस्य ग्रहणं भवति इति न दोषः भवति । सा तर्हि एषा परिभाषा कर्तव्या । न कर्तव्या । एवं वक्ष्यामि : यस्मात्प्रत्ययविधिः तदादि प्रत्यये गृह्यमाणे गृह्यते । ततः अङ्गं । अङ्गसञ्ज्ञं च भवति यस्मा त्प्रत्ययविधिः तदादि प्रत्यये ।
पाणिनीयसूत्र १,४।१३।३) कि.,३१८।५-१८ रो.,३५९-३६० यदि प्रत्ययग्रहणे यस्मात्सः तदादेः ग्रहणं भवति इति उच्यते अवतपेनकुलस्थितं ते एततुदकेविशीर्णं ते एतत्सगतिकेन सनकुलेन च समासः न प्राप्नोति । एवं तर्हि प्रत्ययग्रहणे यस्मात्सः तदादेः ग्रहणं भवति इति उक्त्वा ततः वक्ष्यामि : (कात्यायन वार्तिक)कृद्ग्रहणे गतिकारकपूर्वस्य अपि(वार्तिकान्त) । कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणं भवति ति एषा परिभाषा कर्तव्या । कानि एतस्याः परिभाषायाः प्रयोजनानि । (कात्यायन वार्तिक)प्रयोजनं समासतद्धितविधिस्वराः(वार्तिकान्त) । समास । अवतपेनकुलस्थितं ते एततुदकेविशीर्णं ते एतत्सगतिकेन सनकुलेन च समासः सिद्धः भवति । समास । तद्धितविधि । साङ्कूटिनं व्यावक्रोशी । सम्घातात्तद्धितोपत्तिः सिद्धा भवति । तद्धितविधि । स्वर । दूरातागतः दूरादागतः इति । अन्तः थाथघञ्क्ताजबित्रकाणां इति एषः स्वरः सिद्धः भवति । कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणं भवति इति न दोषः भवति । सा तर्हि एषा परिभाषा कर्तव्या । न कर्तव्या । आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाष इति यतयं गतिः अनन्तरः इति अनन्तरग्रहणं करोति ।
पाणिनीयसूत्र १,४।१४) कि.,३१८।२०-३१९।६ रो.,३६१-३६२ अन्तग्रहणं किमर्थं न सुप्तिङ्पदं इति एव उच्यते । केन इदानीं तदन्तानां भविष्यति । तदन्तविधिना । अतः उत्तरं पठति । (कात्यायन वार्तिक)पदसञ्ज्ञायां अन्तवचनं अन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थम्(वार्तिकान्त) । पदसञ्ज्ञायां अन्तग्रहणं क्रियते ज्ञापकार्थं । किं ज्ञाप्यं । एतत्ज्ञापयति आचार्यः अन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिः न भवति इति । किं एतस्य ज्ञापने प्रयोजनं । तरप्तमौ घः । तरप्तमबन्तस्य घसञ्ज्ञा न भवति । किं च स्यात। कुमारी गौरितरा । घादिषु नद्याः ह्रस्वः भवति इति ह्रस्वत्वं प्रसज्येत । यदि एतत्ज्ञाप्यते सनाद्यन्ताः धातवः इति अन्तग्रहणं कर्तव्यं । कृत्तद्धितसमासाः च इति अन्तग्रहणं कर्तव्यं । इदं तृतीयं ज्ञापकार्थं । द्वे तावत्क्रियेते न्यासे एव । यतपि उच्यते कृत्तद्धितसमासाः च इति अन्तग्रहणं कर्तव्यं इति । न कर्तव्यं । अर्थवतिति वर्तते कृत्तद्धान्तं च एव अर्थवत्न केवलाः कृतः तद्धिताः वा ।
पाणिनीयसूत्र १,४।१५) कि.,३१९।८-९ रो.,३६३ किमर्थं इदं उच्यते न सुबन्तं पदं इति एव सिद्धं । नियमार्थः अयमारम्भः । नान्तमेव क्ये पदसञ्ज्ञं भवति न अन्यत। क्व मा भूत। वाच्यति स्रुच्यति ।
पाणिनीयसूत्र १,४।१७) कि.,३१९।११-२२ रो.,३६३-३६४ असर्वनामस्थाने इति उच्यते । तत्र ते राजा तक्षा असर्वनामस्थाने इति पदसञ्ज्ञायाः प्रतिषेधः प्रसज्येत । न अप्रतिषेधात। न अयं प्रसज्यप्रतिषेधः सर्वनामस्थाने न इति । किं तर्हि । पर्युदासः अयं यतन्यत्सर्वनामस्थानातिति । सर्वनामस्थाने अव्यापारः । यदि केन चित्प्राप्नोति तेन भविष्यति । पूर्वेण च प्राप्नोति । अप्राप्तेः वा । अथ वा अनन्तरा या प्राप्तिः सा प्रतिषिध्यते । कुतः एतत। अन्तरस्य विधिः वा भवति प्रतिषेधः वा इति । पूर्वा प्राप्तिः अप्रतिषिद्धा तया भविष्यति । ननु च इयं प्राप्तिः पूर्वां प्राप्तिं बाधते । न उत्सहते प्रतिषिद्धा सती बाधितुं । अथ वा योगविभागः करिष्यते । स्वादिषु पूर्वं पदसञ्ज्ञं भवति । ततः सर्वनामस्थाने अयचिपूर्वं पदसञ्ज्ञं भवति । ततो भं । भसञ्ज्ञं च भवति यजादौ असर्वनामस्थाने इति । यदि तर्हि सौ अपि पदं भवति एचः प्लुतविकारे पदान्तग्रहणं चोदितं इह मा भूत्भद्रं करोषि गौः इति तस्मिन्क्रियमाणे अपि प्राप्नोति । वाक्यपदयोः अन्त्यस्य इति एवं तत। भुवद्वद्भ्यः धारयद्भ्यः एतयोः पदसञ्ज्ञा वक्तव्या । भुवद्वद्भ्यः धारयद्वद्भ्यः ।
पाणिनीयसूत्र १,४।१८) कि.,३२०।२-१४ रो.,३६५-३६६ (कात्यायन वार्तिक)भसञ्ज्ञायां उत्तरपदलोपे षषः प्रतिषेधः(वार्तिकान्त) । भसञ्ज्ञायां उत्तरपदलोपे षषः प्रतिषेधः वक्तव्यः । अनुकम्पितः षडड्गुलिः षडिकः । (कात्यायन वार्तिक)सिद्धं अचः स्थानिवत्त्वात्(वार्तिकान्त) । सिद्धं एतत। कथं । अचः स्थानिवद्भावात्भसञ्ज्ञा न भविष्यति । इह अपि तर्हि प्राप्नोति । वागाशीर्दत्तः वाचिकः इति । वक्ष्यति एततः सिद्धं एकाक्षरपूर्वपदानां उत्तरपदलोपवचनातिति । इह अपि तर्हि प्राप्नोति षडड्गुलिः षडिकः इति । वक्ष्यति एततः षषः ठाजादिवचनात्सिद्धं इति । (कात्यायन वार्तिक)नभोङ्गिरोमनुषां वति उपसम्ख्यानम्(वार्तिकान्त) । नभोङ्गिरोमनुषां वति उपसम्ख्यानं कर्तव्यं । नभस्वतङ्गिरस्वत्मनुष्वत। (कात्यायन वार्तिक)वृषण्वस्वश्वयोः(वार्तिकान्त) । वृषणिति एतस्य वस्वशयोः भसञ्ज्ञा वक्तव्या । वृषण्वसुः वृषणश्वस्य यत्शिरः वृषणश्वस्य मेने ।
पाणिनीयसूत्र १,४।१९) कि.,३२०।१६-२१ रो.,३६६-३६७ अर्थग्रहणं किमर्थं न तसौ मतौ इति एव उच्येत । तसौ मतौ इति इयति उच्यमाने इहैव स्यात्पयस्वान्यशस्वान। इह न स्यात्पयस्वी यशस्वी । अर्थग्रहणे पुनः क्रियमाणे मतुपि च सिद्धं भवति यः च न्यः तेन समानार्थः तस्मिन्च । यदि अर्थग्रहणं क्रियते पयस्वान्यशस्वानत्र न प्राप्नोति । किं कारणं । न हि मतुप्मत्वर्थे वर्तते । मतुपपि मत्वर्थे वर्तते । तत्यथा देवदत्तशालायां ब्राह्मणा आनीयन्तां इति उक्ते यदि देवदत्तः पि ब्राह्मणः भवति सः अपि आनीयते ।
पाणिनीयसूत्र १,४।२०) कि.,३२०।२३ रो.,३६७ उभयसञ्ज्ञान्यपि इति वक्तव्यं । सः सुष्ठुभा सः ऋक्वता गणेन ।
पाणिनीयसूत्र १,४।२१।१) कि.,३२१।२-२७ रो.,३६८-३७२ बहुषु बहुवचनं इति उच्यते । केषु बहुषु । अर्थेषु । यदि एवं वृक्षः प्लक्षः अत्र अपि प्राप्नोति । बहवः ते अर्थाः मूलं स्कन्धः फलं पलाशं इति । एवं तर्हि एकवचनं द्विवचनं बहुवचनमिति शब्दसञ्ज्ञाः एताः । येषु अर्थेषु स्वादयः विधीयन्ते तेषु बहुषु । केषु च अर्थेषु स्वादयः विधीयन्ते । कर्मादिषु । न वै कर्मादयः विभक्त्यर्थाः । के तर्हि । एकत्वादयः । एकत्वादिषु अपि वै विभक्यर्थेषु अवश्यं कर्मादयः निमित्तत्वेन उपादेयाः । कर्मणः एकत्वे कर्मणः द्वित्वे कर्मणः बहुत्वे इति । सः तर्हि तथा निर्देशः कर्तव्यः । न हि अन्तरेण भावप्रत्ययं गुणप्रधानः भवति निर्देशः । इह च : इति एके मन्यन्ते , ततेके मन्यन्ते इति परत्वातेकवचनं प्राप्नोति । बहुषु बहुवचनं इति एषः योगः परः करिष्यते । सूत्रविपर्यासः कृतः भवति । इह च : बहुः ओदनः , बहुः सूपः इति परत्वात्बहुवचनं प्राप्नोति । न एषः दोषः । यत्तावतुच्यते न हि अन्तरेण भावप्रययं गुणप्रधानः भवति निर्देशः इति तन्न । अन्तरेण अपि भावप्रत्ययं गुणप्रधानः भवति निर्देशः । कथं । इह कदा चित्गुणः गुणिविशेषकः भवति । तत्यथा पटः शुक्लः इति । कदा चित्च गुणिना गुणः व्य्पदिश्यते । पठस्य शुक्लः इति । तत्यदा तावत्गुणः गुणिविशेषकः भवति पटः शुक्लः इति तदा सामानाधिकरण्यं गुणगुणिनोः । तदा न अन्तरेण भावप्रत्ययं गुणप्रधानः भवति निर्देशः । यदा तु गुणिना गुणः व्यपदिश्यते पटस्य शुक्लः इति स्वप्रधानः तदा गुणः भवति । तदा द्रव्ये षष्ठी । तदा अन्तरेण भावप्रत्ययं गुअणप्रधानः भवति निर्देशः । न च इह वयं एकत्वादिभिः कर्मादीन्विशेषयिष्यामः । किं तर्हि । कर्मादिभिः एकत्वादीन्विशेषयिष्यामः । कथं । एकस्मिनेकवचनं । कस्यैकस्मिन। कर्मणः । द्वयोः द्विवचनं । कयोः द्वयोः । कर्मणोः । बहुषु बहुवचनं । केषां बहुषु । कर्मणां इति । कथं बहुषु बहुवचनमिति । एततेव ज्ञापयति आचार्यः नानाधिकरणवाची यः बहुशब्दः तस्य इदं ग्रहणं न वैपुल्यवाचिनः इति । किं एतस्य ज्ञापने प्रयोजनं । यतुक्तं बहुः ओदनः बहुः सूपः इति परत्वात्बहुवचनं प्राप्नोति इति स दोषः न भवति । यतप्युच्यते इति एके मन्यन्ते ततेके मन्यन्त इति परत्वातेकवचनं प्राप्नोति इति न एषः दोषः । एकशब्दः अयं बह्वर्थः । अस्ति एव सम्ख्यावाची । तत्यथा एकः द्वौ बहवः इति । अस्ति असहायवाची । तत्यथा एकाग्नयः एकहलानि एकाकिभिः क्षुद्रकैः जितं इति । अस्ति अन्यार्थे वर्तते । तत्यथा सधमादः द्युम्नः एकाः ताः । अन्याः इति अर्थः । तत्यः अन्यार्थे वर्तते तस्य एषः प्रयोगः ।
पाणिनीयसूत्र १,४।२१।२) कि.,३२२।१-२५ रो.,३७२-३७५ किमर्थं पुनः इदं उच्यते । (कात्यायन वार्तिक)सुप्तिङां अविशेषविधानात्दृष्तविप्रयोगत्वात्च नियमार्थं वचनं (वार्तिकान्त)। सुपः अविशेषेण प्रातिपदिकमात्रात्विधीयन्ते । तिङः अविशेषेण धातुमात्रात्विधीयन्ते । तत्र एतत्स्यात्यदि अप्यविशेषेण विधीयन्ते न एव विप्रयोगः लक्ष्यते इति । दृष्टविप्रयोगत्वात्च । दृश्यते खलु अपि विप्रयोगः । तद्यथा : अक्षीणि मे दर्शनीयानि , पादाः मे सुकुमाराः इति । सुप्तिङोः अविशेषविधानात्दृष्टविप्रयोगत्वात्च व्यतिकरः प्राप्नोति । इष्यते च अव्यतिकरः स्यातिति । तत्च अन्तरेण यत्नं न सिध्यति इति नियमार्थं वचनं । एवमर्थं इदं उच्यते । अथ एतस्मिन्नियमार्थे सति किं पुनः अयं प्रत्ययनियमः : एकस्मिनेव एकवचनं , द्वयोः एव द्विवचनं , बहुषु एव बहुवचनं इति । आहोस्वितर्थनियमः : एकस्मिनेकवचनं एव , द्वयोः द्विवचनं एव , बहुषु बहुवचनं एव इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)तत्र प्रत्ययनियमे अव्ययानां पदसञ्ज्ञाभावः असुबन्तत्वात्(वार्तिकान्त) । तत्र प्रत्ययनियमे अव्ययानां पदसञ्ज्ञा न प्राप्नोति । उच्चैः नीचैः इति । किं कारणं । असुबन्तत्वात। (कात्यायन वार्तिक)अर्थनियमे सिद्धम्(वार्तिकान्त) । अर्थनियमे सिद्धं भवति । अस्तु अर्थनियमः । अथ वा पुनः अस्तु प्रत्ययनियमः । ननु च उक्तं : तत्र प्रत्ययनियमे अव्ययानां पदसञ्ज्ञाभावः असुबन्तत्वातिति । न एषः दोषः । (कात्यायन वार्तिक)सुपां कर्मादयः अपि अर्थाः सङ्ख्या च एव तथा तिङां (वार्तिकान्त)। सुपां सङ्ख्या च एव अर्थः कर्मादयः च । तथा तिङां । (कात्यायन वार्तिक)प्रसिद्धः नियमः तत्र(वार्तिकान्त) । प्रसिद्धः तत्र नियमः । (कात्यायन वार्तिक)नियमः प्रकृतेषु वा(वार्तिकान्त) । अथ वा प्रकृतानर्थानपेक्ष्य नियमः । के च प्रकृताः । एकत्वादयः । एकस्मिनेव एकवचनं न द्वयोः न बहुषु । द्वयोः एव द्विवचनं नैकस्मिन्न बहुषु । बहुषु एव बहुवचनं न द्वयोः न एकस्मिनिति । अथ वा आचार्यप्रवृत्तिः ज्ञापयति उत्पद्यन्ते अव्ययेभ्यः स्वादयः इति यतयं अव्ययाताप्सुपः इति अव्ययात्लुकं शास्ति ।
पाणिनीयसूत्र १,४।२३।१) कि.,३२३।२-३२४।५ रो.,३७६-३७९ किं इदं कारके इति । सञ्ज्ञानिर्देशः । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । इह हि व्याकरणे ये वा एते लोके प्रतीतपदार्थकाः शब्दाः तैः निर्देशाः क्रियन्ते पशुः अपत्यं देवता इति याः वा एताः कृत्रिमाः टिघुघभसञ्ज्ञाः ताभिः । न च अयं लोके ध्रुवादीनां प्रतीतपदार्थकः शब्दः न खलु अपि कृत्रिमा सञ्ज्ञा अन्यत्र अविधानात। सञ्ज्ञाधिकारः च अयं । तत्र किं अन्यत्शक्यं विज्ञातुं अन्यततः सञ्ज्ञायाः । (कात्यायन वार्तिक)कारके इति सञ्ज्ञानिर्देशः चेत्सञ्ज्ञिनः अपि निर्देशः(वार्तिकान्त) । कारके इति सञ्ज्ञानिर्देशः चेत्सञ्ज्ञिनः अपि निर्देशः कर्तव्यः । साधकं निर्वर्तकं कारकसञ्ज्ञं भवति इति वक्तव्यं । (कात्यायन वार्तिक)इतरथा हि अनिष्टप्रसङ्गः ग्रामस्य समीपातागच्छति इति अकारकस्य (वार्तिकान्त)। इतरथा हि अनिष्टं प्रसज्येत । अकारकस्य अपि अपादादनसञ्ज्ञा प्रसज्येत । क्व । ग्रामस्य समीपातागच्छति इति । न एषः दोषः । न अत्र ग्रामः अपाययुक्तः । किं तर्हि । समीपं । यदा च ग्रामः अपाययुक्तः भवति भवति तदा अपादानसञ्ज्ञा । तत्यथा ग्रामातागच्छति इति । (कात्यायन वार्तिक)कर्मसञ्ज्ञाप्रसङ्गः अकथितस्य ब्राह्मणस्य पुत्रं पन्थानं पृच्छति इति(वार्तिकान्त) । कर्मसञ्ज्ञा च प्राप्नोति अकथितस्य। क्व । ब्राह्मणस्य पुत्रं पन्थानं पृच्छति इति । न एषः दोषः । अयं अकथितशब्दः अस्ति एव सङ्कीर्तिते वर्तते । तत्यथा कः चित्कं चित्सञ्चक्ष्य आह असौ अत्र अकथितः । असंकीर्तितः इति गम्यते । अस्ति अप्राधान्ये वर्तते । तत्यथा अकथितः असौ ग्रामे अकथितः असौ नगरे इति उच्यते यः यत्र अप्रधानः भवति । तत्यदा अप्राधान्ये अकथित्शब्दः वर्तते तदा एषः दोषः कर्मसञ्ज्ञाप्रसङ्गः अकथितस्य ब्राह्मणस्य पुत्रं पन्थानं पृच्छति इति । (कात्यायन वार्तिक)अपादानं च वृक्षस्य पर्णं पतति इति(वार्तिकान्त) । अपादानसञ्ज्ञा च प्राप्नोति । क्व । वृक्षस्य पर्णं पतति । कुड्यस्य पिण्डः पतति इति । (कात्यायन वार्तिक)ना वा अपायस्याविवक्षितत्वात्(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । अपायस्य अविवक्षितत्वात। न अत्र अपायः विवक्षितः । किं तर्हि । सम्बन्धः । यदा च अपायः विवक्षितः भवति भवति तदा अपादानसञ्ज्ञा । तत्यथा । वृक्षात्पर्णं पतति इति । सम्बन्धस्तु तदा न विवक्षितः भवति । न ज्ञायते कङ्कस्य वा कुररस्य वा इति ।
पाणिनीयसूत्र १,४।२३।२) कि.,३२४।६-३२६।१७ रो.,३७९-३८६ अयं तर्हि दोषः कर्मसञ्ज्ञाप्रसङ्गः च अकथितस्य ब्राह्मणस्य पुत्रं पन्थानं पृच्छति इति । न एषः दोषः । कारकः इति महती सञ्ज्ञा क्रियते । सञ्ज्ञा च नाम यतः न लघीयः । कुतः एतत। लघ्वर्थं हि सञ्ज्ञाकारणं । तत्र महत्याः सञ्ज्ञायाः करणे एतत्प्रयोजनं अन्वर्थसञ्ज्ञा यथा विज्ञायेत । करोति इति कारकं इति । (कात्यायन वार्तिक)अन्वर्थं इति चेतकर्तरि कर्तृशब्दानुपपत्तिः (वार्तिकान्त)। अन्वर्थं इति चेतकर्तरि कर्तृशब्दः न उपपद्यते । करणं कारकं अधिकरणं कारकं इति । (कात्यायन वार्तिक)सिद्धं तु प्रतिकारकं क्रियाभेदात्पचादीनां करणाधिकरणयोः कर्तृभावः(वार्तिकान्त) । सिद्धः करणाधिकरणयोः कर्तृभावः । कुतः । प्रतिकारकं क्रियाभेदात्पचादीनां । पचादीनां हि प्रतिकारकं क्रिया भिद्यते । किं इदं प्रतिकारकं इति । कारकं कारकं प्रति प्रतिकारकं । कः असौ प्रतिकारकं क्रियाभेदः पचादीनां । (कात्यायन वार्तिक)अधिश्रयणोदकासेचनतण्डुलावपनैधोपदकर्षणिक्रियाः प्रधानस्य कर्तुः पाकः(वार्तिकान्त) । अधिश्रयणोदकासेचनतण्डुलावपनैधोपकर्षणादिक्रियाः कुर्वनेव देवदत्तः पचति इति उच्यते । तत्र तदा पचिः वर्तते । एषः प्रधानकर्तुः पाकः । एतत्प्रधानकर्तुः कर्तृत्वं । (कात्यायन वार्तिक)द्रोणं पचति आढकं पचति ति सम्भवनक्रिया धारणक्रिया च अधिकरणस्य पाकः(वार्तिकान्त) । द्रोणं पचति आढकं पचति इति सम्भवनक्रियां धारणक्रियां च कुर्वती स्थाली पचति इति उचत्ये । तत्र तदा पचिः वर्तते । एषः धिकरणस्य पाकः । एततधिकरणस्य कर्तृत्वं । (कात्यायन वार्तिक)एधाः पक्ष्यन्ति आ विक्लित्तेः ज्वलिष्यन्ति इति ज्वल्वनक्रिया करणस्य पाकः(वार्तिकान्त) । एधाः पक्ष्यन्ति आ विक्लित्तेः ज्वलिष्यन्ति इति कुर्वन्ति काष्ठानि पचन्ति इति उच्यन्ते । तत्र तदा पचिः वर्तते । एषः करणस्य पाकः ।एतत्करणस्य कर्तृत्वं । (कात्यायन वार्तिक)उद्यमननिपातनानि कर्तुः छिदिक्रिया(वार्तिकान्त) । उद्यमननिपातनानि कुर्वन्देवदत्तः छिनत्ति इति उच्यते । तत्र तदा छिदिः वर्तते । एषः प्रधानकर्तुः छेदः । एतत्प्रधानकर्तुः कर्तृत्वं । (कात्यायन वार्तिक)यत्तत्न तृणेन तत्परशोः छेदनं (वार्तिकान्त)। यत्तत्समाने उद्यमने निपातने च परशुना छिद्यते न तृणेन तत्परशोः छेदनं । अवश्यं च एततेवं विज्ञेयं । (कात्यायन वार्तिक)इतरथा हि असितृणयोः छेदने अविशेषः स्यात्(वार्तिकान्त) । यः हि मन्यत उद्यमननिपातनातेव एतत्भवति छिनत्ति इति असितृणयोः छेदने न तस्य विशेषः स्यात। यतसिना छिद्यते तृणेन अपि तत्छिद्येत । (कात्यायन वार्तिक)अपादानादीनां तु अप्रसिद्धिः(वार्तिकान्त) । अपादानादीनां कर्तृत्वस्य अप्रसिद्धिः । यथा हि भवता करणाधिकरणयोः कर्तृत्वं निर्दर्शितं न तथा अपादानादीनां कर्तृत्वं निदर्श्यते । (कात्यायन वार्तिक)न वा स्वतन्त्रपरतन्त्रत्वात्तयोः पर्यायेण वचनं वचनाश्रया च सञ्ज्ञा(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । स्वतन्त्रपरतन्त्रत्वात। सर्वत्र एव अत्र स्वातन्त्र्यं पारतन्त्र्यं च विवक्षितं । तयोः पर्यायेण वचनं । तयोः स्वातन्त्र्यपारतन्त्र्ययोः पर्यायेण वचनं भविष्यति । वचनाश्रया च सञ्ज्ञा भविष्यति । तत्यथा । बलाहकात्विद्योतते । बलाहके विद्योतते । बलाहकः विद्योतते इति । किं तर्हि उच्यते अपादानादीनां तु अप्रसिद्धिः इति । एवं तर्हि न ब्रूमः अपादानादीनां कर्तृत्वस्य अप्रसिद्धिः इति । पर्याप्तं करणाधिकरणयोः कर्तृत्वं निदर्शितं अपादानीनां कर्तृत्वनिर्दर्शनाय । पर्याप्तः ह्येकः पुलाकः स्थाल्याः निर्दर्शनाय । किं तर्हि । सञ्ज्ञायाः अप्रसिद्धिः । यावता सर्वत्र एव अत्र स्वातन्त्र्यं विद्यते पारतन्त्र्यं च तत्र परत्वात्कर्तृसञ्ज्ञा एव प्राप्नोति । अत्र अपि न वा स्वतन्त्र्यपरतन्त्रत्वात्तयोः पर्यायेण वचनं वचनाश्रया च सञ्ज्ञा इति एव । यथा पुनः इदं स्थाल्याः स्वातन्त्र्यं निदर्शितं सम्भवनक्रियां धारणक्रियां च कुर्वती स्थाली स्वतन्त्रा इति क्व इदानीं परतन्त्रा स्यात। यत्तत्प्रक्षालनं परिवर्तनं वा । न वै एवमर्थं स्थाली उपादियते प्रक्षालनं परिवर्तनं च करिष्यामि इति । कथं तर्हि । सम्भवनक्रियां धारणक्रियां च करिष्यति इति । तत्र च सौ स्वतन्त्रा । क्व इदानीं परतन्त्रा । एवं तर्हि स्थालीस्थे यत्ने कथ्यमाने स्थाली स्वतन्त्रा कर्तृस्थे यत्ने कथ्यमाने परतन्त्रा । ननु च भोः कर्तृस्थे अपि वै यत्ने कथ्यमाने स्थाली सम्भवनक्रियां धारणक्रियां च करोति । तत्र असौ स्वतन्त्रा । क्व इदानीं परतन्त्रा । एवं तर्हि प्रधानेन समवाये स्थाली परतन्त्रा व्यवाये स्वतन्त्रा । तत्यथा अमात्यादीनां राज्ञा सह समवाये पारतन्त्र्यं व्यवाये स्वातन्त्र्यं । किं पुनः प्रधानं । कर्ता ।कथं पुनः ज्ञायते कर्ता प्रधानं इति । यत्सर्वेषु साधनेषु सम्निहितेषु कर्ता प्रवर्तयिता भवति । ननु च भोः प्रधानेन अपि वै समवाये स्थाल्याः अनेनार्थः अधिकरणं कारकं इति । न हि कारकं इति अनेन अधिकरणत्वं उक्तं अधिकरणमिति वा कारकत्वं । उभौ च अन्योन्यविशेषकौ भवतः । कथं । एकद्रव्यसमवायित्वात। तत्यथा गार्ग्यः देवदत्तः इति । न हि गार्ग्यः इति अनेन देवदत्तत्वं उक्तं देवदत्तः इति अनेन वा गार्ग्यत्वं । उभौ च अन्योन्यविशेषकौ भवतः एकद्रव्यसमवायित्वात। एवं तर्हि सामान्यभूता क्रिया वर्तते तस्याः निर्वर्तकं कारकं । अथ वा यावत्ब्रूयात्क्रियायामिति तावत्कारके इति । एवं च कृत्वा निर्देशः उपपन्नः भवति कारके इति । इतरथा हि कारकेषु इति ब्रूयात।
पाणिनीयसूत्र १,४।२४।१) कि.,३२६।१९-१९-३२७।२१ रो.,३८७-३९२ ध्रुवं इति किमर्थं । ग्रामातागच्छति शकटेन । न एततस्ति । करणसञ्ज्ञा अत्र बाधिका भविष्यति । इदं तर्हि ग्रामातागच्छन्कंसपात्र्यां पाणिना ओदनं भुङ्क्ते इति । अत्र अपि अधिकरणसञ्ज्ञा बाधिका भविष्यति । इदं तर्हि वृक्षस्य पर्णं पतति । कुड्यस्य पिण्डः पतिति इति । (कात्यायन वार्तिक)जुगुप्साविरामप्रमादार्थानां उपसम्ख्यानं (वार्तिकान्त)। जुगुप्साविरामप्रमादार्थानां उपसम्ख्यानं कर्तव्यं । जुगुप्सा । अधर्मात्जुगुप्सते। अधर्मात्बीभत्सते । विराम । धर्मात्विरमति। धर्मात्निवर्तते । प्रमाद । धर्मात्प्रमाद्यति । धर्मात्मुह्यति । इह च उपसम्ख्यानं कर्तव्यं । साम्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति । तत्तर्हि इदं वक्तव्यं । न वक्तव्यं । इह तावतधर्मात्जुगुप्सते अधर्मात्बीभत्सते इति । यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति दुःखः अधर्मः न अनेन कृत्यं अस्ति इति । सः बुद्ध्या सम्प्राप्य निवर्तते । तत्र ध्रुवमपाये अपादानं इति एव सिद्धं । इह च धर्मात्विरमति धर्मात्निवर्तते इति धर्मात्प्रमाद्यति धर्मात्मुह्यति इति । यः एषः मनुष्यः सम्भिन्नबुद्धिः भवति सः पश्यति न इदं किं चित्धर्मः नाम न एनं करिष्यामि इति । सः बुद्ध्या सम्प्राप्य निवर्तते । तत्र ध्रुवमपाये अपादानं इति एव सिद्धं । इह च साम्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति । यः तैः साम्यं गतवान्भवति सः एतत्प्रयुङ्क्ते । (कात्यायन वार्तिक)गतियुक्तेषु अपादानसञ्ज्ञा न पपद्यते अध्रुवत्वात्(वार्तिकान्त)। गतियुक्तेषु अपादानसञ्ज्ञा न उपपद्यते । अश्वात्त्रस्तात्पतितः । रथात्प्रवीतात्पतितः । सार्थात्गच्छतः हीनः इति । किं कारणं । अध्रुवत्वात। (कात्यायन वार्तिक)न वा अध्रौव्यस्य अविविक्षितत्वात्(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । अध्रौव्यस्य अविवक्षितत्वात। न अत्र अध्रौव्यं विवक्षितं । किं तर्हि । ध्रौव्यं । इह तावतश्वात्त्रस्तात्पतितः इति । यत्तदश्वे अश्वत्वं आशुगामित्वं तत्ध्रुवं तत्च विवक्षितं । रथात्प्रवीतात्पतितः इति यत्तत्रथे रथत्वं रमन्ते अस्मिन्रथः इति तत्ध्रुवं तत्च विवक्षितं । सार्थात्गच्छतः हीनः इति यत्तत्सार्थे सार्थत्वं सहार्थीभावः तत्ध्रुवं तत्च विवक्षिक्तं । यदि अपि तावतत्र एतत्शक्यते वक्तुं ये तु एते अत्यन्तगतियुक्ताः तत्र कथं । धावतः पतितः । त्वरमाणात्पतितः इति । अत्र अपि न वा अध्रौव्यस्य अविवक्षितत्वातिति एव सिद्धं । कथं पुनः सतः नाम अविवक्षा स्यात। सतः अपि अविवक्षा भवति । तत्यथा अलोमिका एडका । अनुदरा कन्य इति । असतः च विवक्षा भवति । समुद्रः कुण्डिका । विन्ध्यः वर्धितकं इति ।
पाणिनीयसूत्र १,४।२४।२) कि.,३२७।२३-३२८।३ रो.,३९२-३९३ अयं योगः शक्यः अवक्तुं । कथं वृकेभ्यः बिभेति दस्युभ्यः बिभेति चौरेभ्यः त्रायते दस्युभ्यः त्रायते इति । इह तावत्वृकेभ्यः बिभेति दस्युभ्यः बिभेति इति । यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति यदि मां वृकाः पश्यन्ति ध्रुवः मे मृत्युः इति । सः बुद्ध्या सम्प्राप्य निवर्तते । तत्र ध्रुवं अपाये अपादानं इति एव सिद्धं । इह चौरेभ्यः त्रायते दस्युभ्यः त्रायते इति । यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति यदि इमं पश्यन्ति ध्रुवं अस्य वधबन्धपरिक्लेशाः इति । सः बुद्ध्या सम्प्राप्य निवर्तते । तत्र ध्रुवं अपाये अपादानं इति एव सिद्धं ।
पाणिनीयसूत्र १,४।२६) कि.,३२८।५-८ रो.,३९३ अयं अपि योगः शक्यः अवक्तुं । कथं अध्ययनात्पराजयते इति । यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति दुःखं अध्ययनं दुर्धरं च गुरवः च दुरुपचाराः इति । सः बुद्ध्या सम्प्राप्य निवर्तते । तत्र ध्रुवं अपाये अपादानं इति एव सिद्धं ।
पाणिनीयसूत्र १,४।२७) कि.,३२८।१०-२४ रो.,३९३-३९५ किं उदाहरणं । माषेभ्यः गाः वारयति । भवेद्यस्य माषाः न गावः तस्य माषाः ईप्सिताः स्युः । यस्य तु खलु गावः न माषाः कथं तस्य माषाः ईप्सिताः स्युः । तस्य अपि माषाः एव ईप्सिताः । आतः च ईप्सिताः यवेभ्यः गाः वारयति । इह कूपातन्धं वारयति इति कूपे अपादानसञ्ज्ञा न प्राप्नोति । न हि तस्य कूपः ईप्सितः । कः तर्हि । अन्धः । तस्य अपि कूपः एव ईप्सितः । पश्यति अयं अन्धः कूपं मा प्रापतिति । अथ वा यथा एव अस्य अन्यत्र अपश्यतः ईप्सा एवं कूपे अपि । इह अग्नेः माणवकं वारयति इति माणवके अपादानसञ्ज्ञा प्राप्नोति । कर्मसञ्ज्ञात्र बाधिका भविष्यति । अग्नौ अपि तर्हि बाधिका स्यात। तस्मात्वक्तव्यं कर्मणः यतीप्सितं इति ईप्सितेप्सितं इति वा । (कात्यायन वार्तिक)वारणर्थेषु कर्मग्रहणानर्थक्यं कर्तुः ईप्सिततमं कर्म इति वचनात्(वार्तिकान्त) । वारणार्थेषु कर्मग्रहणं अनर्थकं । किं कारणं । कर्तुः ईप्सिततमं कर्म इति वचनात। कर्तुः ईप्सिततमं कर्म इति एव सिद्धं । अयं अपि योगः शक्यः अवक्तुं । कथं माषेभ्यः गाः वारयति इति । पश्यति अयं यदि इमाः गावः तत्र गच्छन्ति ध्रुवं सस्यविनाशः सस्यविनाशे अधर्मः च एव राजभयं च । सः बुद्ध्या सम्प्राप्य निवर्तते । तत्र ध्रुवं अपाये अपादानं इति एव सिद्धं ।
पाणिनीयसूत्र १,४।२८) कि.,३२९।२-४ रो.,३९६ अयं अपि योगः शक्यः अवक्तुं । कथं उपाध्यायातन्तर्धत्ते इति । पश्यति अयं यदि मां उपाध्यायः पश्यति ध्रुवं प्रेषणं उपालम्भः वा इति । सः बुद्ध्या सम्प्राप्य निवर्तते । तत्र ध्रुवं अपाये अपादानं इति एव सिद्धं ।
पाणिनीयसूत्र १,४।२९) कि.,३२९।६-२२ रो.,३९६-३९८ उपयोगे इति किमर्थं । नटस्य शृणोति । ग्रन्थिकस्य शृणोति । उपयोगे इति उच्यमाने अपि अत्र प्राप्नोति । एषः अपि हि उपयोगः । आतः च उपयोगः यतारम्भकाः रङ्गं गच्छन्ति नटस्य श्रोष्यामः , ग्रन्थिकस्य श्रोष्यामः इति । एवं तर्हि उपयोगे इति उच्यते सर्वः च उपयोगः । तत्र प्रकर्षगतिः विज्ञास्यते : साधीयः यः उपयोगः इति । कः च साधीयः । यः ग्रन्थार्थयोः । अथ वा उपयोगः कः भवितुं अर्हति । यः नियमपूर्वकः । तत्यथा उपयुक्ताः माणवकाः इति उच्यन्ते ये एते नियमपूर्वकं अधीतवन्तः भवन्ति । किं पुनः आख्याता अनुपयोगे कारकं आहोस्वितकारकं । कः च अत्र विशेषः । (कात्यायन वार्तिक)आख्याता अनुपयोगे कारकं इति चेतकथित्वात्कर्मसञ्ज्ञाप्रसङ्गः (वार्तिकान्त)। आख्याता अनुपयोगे कारकं इति चेतकथित्वात्कर्मसञ्ज्ञा प्राप्नोति । अस्तु तर्हि अकारकं । (कात्यायन वार्तिक)अकारकं इति चेतुपयोगवचनानर्थक्यम्(वार्तिकान्त) । यदि अकारकं उपयोगवचनं अनर्थकं । अस्तु तर्हि कारकं । ननु च उक्तं आख्याता अनुपयोगे कारकं इति चेतकथितत्वात्कर्मसञ्ज्ञाप्रसङ्गः इति । न एषः दोषः । परिगणनं तत्र क्रियते । दुहियाचिरुधिप्रच्छिभिक्षिचिञां इति । अयं अपि योगः शक्यः अवक्तुं । कथं उपाध्यायातधीते इति । अपक्रामति तस्मात्तदध्ययनं । यदि अपक्रामति किं न अत्यन्ताय अपक्रामति । सत्ततत्वात। अथ वा ज्योतिर्वत्ज्ञानानि भवन्ति ।
पाणिनीयसूत्र १,४।३०) कि.,३२९।२४-३३०।२ रो.,३९९ अयं अपि योगः शक्यः अवक्तुं । कथं गोमयात्वृश्चिकः जायते । गोलोमाविलोमभ्यः दुर्वाः जायन्ते इति । अपक्रामन्ति ताः तेभ्यः । यदि अपक्रामति किं न अत्यन्ताय अपक्रामति । सन्ततत्वात। अथ वा अन्याः चन्याः च प्रादुर्भवन्ति ।
पाणिनीयसूत्र १,४।३१) कि.,३३०।४-६ रो.,३९९ अयं अपि योगः शक्यः अवक्तुं । कथं हिमवतः गङ्गा प्रभवति इति । अपक्रामन्ति ताः तस्मातापः । यदि अपक्रामति किं न अत्यन्ताय अपक्रामति । सन्ततत्वात। अथ वा अन्याः चन्याः च प्रादुर्भवन्ति ।
पाणिनीयसूत्र १,४।३२।१) कि.,३३०।८-१७ रो.,४००-४०१ कर्मग्रहणं किमर्थं । यं अभिप्रैति सः सम्प्रदानं इति इयति उच्यमाने कर्मणः एव सम्प्रदानसञ्ज्ञा प्रसज्येत । कर्मग्रहणे पुनः क्रियमाणे न दोषः भवति । कर्म निमित्तत्वेन आश्रीयते । अथ यम्सग्रहणं किमर्थं । कर्मणा अभिप्रैति सम्प्रदानं इति इयति उच्यमाने अभिप्रयतः एव सम्प्रदानसञ्ज्ञा प्रसज्येत । यम्सग्रहणे पुनः क्रियमाणे न दोषः भवति । यम्सग्रहणातभिप्रयतः सम्प्रदानसञ्ज्ञा निर्भज्यते । अथ अभिप्रग्रहणं किमर्थं । कर्मणा यं एति स सम्प्रदानं इति इयति उच्यमाने यं एव सम्प्रत्येति तत्र एव स्यात। उपाध्यायाय गां ददाति इति । इह न स्यात। उपाध्यायाय गां अदात। उपाध्यायाय गां दास्यति इति । अभिप्रग्रहणे पुनः क्रियमाणे न दोषः भवति । अभिः आभिमुख्ये वर्तते प्रशब्दः आदिकर्मणि । तेन यं च अभिप्रैति यं च अभिप्रैष्यति यं च अभिप्रागादाभिमुख्यमात्रे सर्वत्र सिद्धं भवति ।
पाणिनीयसूत्र १,४।३२।२) कि.,३३०।१८-३३१।४ रो.,४०१-४०३ क्रियाग्रहणं अपि कर्तव्यं । इह अपि यथा स्यात। श्राद्धाय निगर्हते । युद्धाय सन्नह्यते । पत्ये शेते इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । कथं । क्रियां हि लोके कर्म इति उपचरन्ति । कां क्रियां करिष्यसि । किं कर्म करिष्यसि इति । एवं अपि कर्तव्यं । कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति । क्रिया अपि कृत्रिमं कर्म । न सिध्यति । कर्तुः ईप्सिततमं कर्म इति उच्यते कथं च नाम क्रियया क्रिया ईप्सिततमा स्यात। क्रिया अपि क्रियया ईप्सिततमा भवति । कया क्रियया । सन्दर्शनक्रियया वा प्रार्थयतिक्रियया वा अध्यवस्यतिक्रियया वा । इह यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः बुद्ध्या तावत्कम्चिदर्थं सम्पश्यति सन्दृष्टे प्रार्थना प्रार्थनायां अधवसायः अध्यवसाये आरम्भः आरम्भे निर्वृत्तिः निर्वृत्तौ फलावाप्तिः । एवं क्रिया अपि कृत्रिमं कर्म । एवं अपि कर्मणः करणसञ्ज्ञा वक्तव्या सम्प्रदानस्य च कर्मसञ्ज्ञा । पशुना रुद्रं यजते । पशुं रुद्राय ददाति इति अर्थः । अग्नौ किल पशुः प्रक्षिप्यते तत्रुद्राय पह्रियते इति ।
पाणिनीयसूत्र १,४।३७) कि.,३३१।६-९ रो.,४०३-४०४ किमेते एकार्थाः आहोस्वित्नानार्थाः । किं च अतः । यदि एकार्थाः किमर्थं पृथक्निर्दिश्यन्ते । अथ नानार्थाः कथं कुपिना शक्यन्ते विशेषयितुं । एवं तर्हि नानार्थाः कुपौ तु एषां सामान्यं अस्ति । न हि अकुपितः क्रुध्यते न वा अकुपितः द्रुह्यति न वा अकुपितः ईर्ष्यति न वा अकुपितः असूयति ।
पाणिनीयसूत्र १,४।४२) कि.,३३१।११-३३२।३ रो.,४०४-४०६ तमग्रहणं किमर्थं न साधकं करणं इति एव उच्येत षाधकं करणं इति इयति उच्यमाने सर्वेषां कारकाणां करणसञ्ज्ञा प्रसज्येत । सर्वाणि हि कारकाणि साधकानि । तमग्रहणे पुनः क्रियमाणे न दोषः भवति । न एततस्ति प्रयोजनं । पूर्वाः तावत्सञ्ज्ञाः अपवादत्वात्बाधिकाः भविष्यन्ति पराः परत्वात्च अनवकाशत्वात्च । इह तर्हि धनुषा विध्यति अपाययुक्तत्वात्च अपादानसञ्ज्ञा साधकत्वात्च करणसञ्ज्ञा प्राप्नोति । तमग्रहणे पुनः क्रियमाणे न दोषः भवति । एवं तर्हि लोकतः एतत्सिद्धं । तत्यथा । लोके अभिरूपाय उदकमानेयं अभिरूपाय कन्या देया इति न च अनभिरूपे प्रवृत्तिः अस्ति । तत्र अभिरूपतमाय इति गम्यते । एवं इह अपि साधकं करणं इति उच्यते सर्वाणि च कारकाणि साधकानि न च असाधके प्रवृत्तिः अस्ति । तत्र साधकतमं इति विज्ञास्यते । एवं तर्हि सिद्धे सति यत्तमग्रहणं करोति तत्ज्ञापयति आचार्यः कारकसञ्ज्ञायां तरतमयोगः न भवति इति । किं एतस्य ज्ञापने प्रयोजनं । अपादानं आचार्यः किं न्याय्यं मन्यते । यत्र सम्प्राप्य निवृत्तिः । तेन इह एव स्यात्ग्रामातागच्छति नगरातागच्छति इति । साङ्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति अत्र न स्यात। कारकसञ्ज्ञायां तरतमयोगः न भवति इति अत्र अपि सिद्धं भवति । तथा आधारं आचार्यः किं न्याय्यं मन्यते । यत्र कृत्स्नः आधारात्मा व्याप्तः भवति । तेन इह एव स्यात्तिलेषु तैलं दध्नि सर्पिः इति । गङ्गायां गावः कूपे गर्गर्कुलं इति अत्र न स्यात। कारकसञ्ज्ञायां तरतमयोगः न भवति इति अत्र अपि सिद्धं भवति ।
पाणिनीयसूत्र १,४।४८) कि.,३३२।५-८ रो.,४०६-४०७ (कात्यायन वार्तिक)वसेः अश्यर्थस्य प्रतिषेधः (वार्तिकान्त)। वसेः अश्यर्थस्य प्रतिषेधः वक्तव्यः । ग्राम उपवसति इति । सः तर्हि वक्तव्यः । न वक्तव्यः । न अत्र उपपूर्वस्य वसेः ग्रामः अधिकरणं । कस्य तर्हि । अनुपसर्गस्य । ग्रामे असौ वसन्त्रिरात्रं उपवसति इति ।
पाणिनीयसूत्र १,४।४९।१) कि.,३३२।१०-१३ रो.,४०७ तमग्रहणं किमर्थं । कर्तुः ईप्सितं कर्म इति इयति उच्यमाने इहः अग्नेः माणवकं वारयति इति माणवके अपादानसञ्ज्ञा प्रसज्येत । न एषः दोषः । कर्मसञ्ज्ञा तत्र बाधिका भविष्यति । अग्नौ अपि तर्हि बाधिका स्यात। इह पुनः तमग्रहणे क्रियमाणे ततुपपन्नं भवति यतुक्तं वारणार्थेषु कर्मग्रहणानर्थक्यं कर्तुः ईप्सिततमं कर्म इति वचनातिति ।
पाणिनीयसूत्र १,४।४९।२) कि.,३३२।१४-२५ रो.,४०८-४०९ इह उच्यते ओदनं पचति इति । यदि ओदनः पच्येत द्रव्यान्तरम भिनिर्वर्तेत । न एषः दोषः । तादर्थ्यात्ताच्छब्द्यं भविष्यति । ओदनार्थाः तण्डुलाः ओदनः इति । अथ इह कथं भवितव्यं तण्डुलानोदनं पचति इति आहोस्वित्तण्डुलानां ओदनं पचति इति । उभ्यथा अपि भवितव्यं । कथं । इह हि तण्डुलानोदनं पचति इति द्व्यर्थः पचिः । तण्डुलान्पचनोदनं निर्वर्तयति इति । इह इदनीं तण्डुलानां ओदनं पचति इति द्व्यर्थः च एव पचिः विकारयोगे च षष्ठी । तण्डुलविकारं ओदनं निर्वर्तयति इति । इह कः चित्कं चिदामन्त्रयते सिद्धं भुज्यतां इति । सः आमन्त्रयमाणः आह प्रभूतं भुक्तं अस्माभिः इति । आमन्त्रयमाणः आह दधि खलु भविष्यति पयः खलु भविष्यति । आमन्त्र्यमाणः आह दध्ना खलु भुञ्जीय पयसा खलु भुञ्जीय इति । अत्र कर्मसञ्ज्ञा प्राप्नोति । तत्हि तस्य ईप्सिततमं भवति । तस्य अपि ओदनः एव एव ईप्सिततमः न तु गुणेषु अस्य अनुरोधः । तत्यथा भुञ्जीय अहं ओदनं यदि मृदुविशदः स्यातिति एवं इह अपि दधिगुणं ओदनं भुञ्जीय पयोगुणमोदनं भुञ्जीय इति ।
पाणिनीयसूत्र १,४।४९।३) कि.,३३३।१-११ रो.,४१०-४११ (कात्यायन वार्तिक)ईप्सितस्य कर्मसञ्ज्ञायां निर्वृत्तस्य कारकत्वे कर्मसञ्ज्ञाप्रसङ्गः क्रियेप्सितत्वात्(वार्तिकान्त) । ईप्सितस्य कर्मसञ्ज्ञायां निर्वृत्तस्य कारकत्वे कर्मसञ्ज्ञा न प्राप्नोति । गुडं भक्षयति इति । किं कारणं । क्रियेप्सितत्वात। क्रिया तस्य ईप्सिता । (कात्यायन वार्तिक)न वा उभयेप्सितत्वात्(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । उभयेप्सितत्वात। उभयं तस्य ईप्सितं । आतः च उभयं यस्य हि गुडभक्षणे बुद्धिः प्रसक्ता भवति न असौ लोष्टं भक्षयित्वा कृती भवति । यदि अपि तावतत्र एतत्शक्यते वक्तुं ये तु एते राजकर्मिणः मनुष्याः तेषां कः चित्कं चिताह कटं कुरु इति । स आह न अहं कटं करिष्यामि घटः मया आहृतः इति । तस्य क्रियामात्रं ईप्सितं । यदि अपि तस्य क्रियामात्रं ईप्सितं यः तु असौ प्रेषयति तस्य उभयं ईप्सितं इति ।
पाणिनीयसूत्र १,४।५०) कि.,३३३।१३-२३ रो.,४११-४१२ किं उदाहरणं । विषं भक्षयति इति । न एततस्ति । पूर्वेण अपि एतत्सिध्यति । न सिध्यति । कर्तुः ईप्सिततमं कर्म इति उच्यते कस्य च नाम विषभक्षणं ईप्सितं स्यात। विषभक्षणं अपि कस्य चितीप्सितं भवति । कथं । इह यः एषः मनुष्यः दुःखार्तः भवति सः अन्यानि दुःखानि अनुनिशम्य विषभक्षणं एव ज्यायः मन्यते । आतः च ईप्सितं यत्तत्भक्षयति । यत्तर्थि अन्यत्करिष्यामि इति अन्यत्करोति ततुदाहरणं । किं पुनः तत। ग्रामान्तरं अयं गच्छन्चौरान्पश्यति अहिं लङ्घयति कण्टकान्मृद्नाति । इह ईप्सितस्य अपि कर्मसञ्ज्ञा आरभ्यते अनीप्सितस्य अपि । यतिदानीं न एव ईप्सितमं न अपि अनीप्सितं तत्र कथं भवितव्यं । ग्रामान्तरं अयं गच्छन्वृक्षमूलानि उपसर्पति कुड्यमूलानि उपसर्पति इति । अत्र अपि सिद्धं । कथं । अनीप्सितं इति न अयं प्रसज्यप्रतिषेधः ईप्सितं न इति । किं तर्हि । पर्युदासः अयं यतन्यतीप्सितात्ततनीप्सितं इति । अन्यत्च एततीप्सितात्यत्न एव ईप्सितं न अपि अनीप्सितं इति ।
पाणिनीयसूत्र १,४।५१।१) कि.,३३३।२५-३३४।१५ रो.,४१३-४१८ केन अकथितं । अपादानादिभिः विशेषकथाभिः । किं उदाहरणं । (कात्यायन वार्तिक)दुहियाचिरुधिप्रछिभिक्षिचिञां उपयोगनिमित्तं अपूर्वविधौ ब्रुविशासिगुणेन च यत्सचते ततकीर्तितं आचरितं कविना(वार्तिकान्त) । दुहि : गां दोग्धि पयः । न एततस्ति । कथिता अत्र पूर्वा अपादन्सञ्ज्ञा । दुहि । याचि : इदं तर्हि पौरवं गां याचते इति । न एततस्ति । कथिता अत्र पूर्वा अपादन्सञ्ज्ञा । न याचनातेव अपायः भवति । याचितः असौ यदि ददाति ततः अपायेन युज्यते । याचि । रुधि : अन्ववरुणद्धि गां व्रजं । न एततस्ति । कथिता अत्र पूर्वा अधिकरणसञ्ज्ञा । रुधि । प्रच्छि : माणवकं पन्थानं पृच्छति । न एततस्ति । कथिता अत्र पूर्वा अपादानसञ्ज्ञा । न प्रश्नातेव अपायः भवति । पृष्तः असौ यदि आचाष्टे ततः अपायेन युज्यते । प्रच्छि। भिक्षि : पौरवं गां भिक्षते । न एततस्ति । कथिता अत्र पूर्वा अपादानसञ्ज्ञा । न भिक्षणातेव अपायः भवति । भिक्षितः असौ यदि ददाति ततः अपायेन युज्यते । भिक्षि । चिञः वृक्षं अवचिनोति फलानि । न एततस्ति । कथिता अत्र पूर्वा अपादानसञ्ज्ञा । ब्रुविशासिगुणेन च यत्सचते ततकीर्तितं आचरितं कविना । ब्रुविशासिगुणेन च यत्सचते सम्बध्यते तत्च दाहरणं । किं पुनः तत। पुत्रं ब्रूते धर्मं । पुत्रं अनुशास्ति धर्मं इति । न एततस्ति । कथिता अत्र पूर्वा सम्प्रदानसञ्ज्ञा । तस्मात्त्रीणि एव उदाहरणानि । पौरवं गां याचते । माणवकं पन्थानं पृच्छति । पौरवं गां भिक्षते इति ।
पाणिनीयसूत्र १,४।५१।२) कि.,३३४।१६-३३५।२८ रो.,४१८-४२४ अथ ये धातूनां द्विकर्मकाः तेषां किं कथिते लादयः भवन्ति आहोस्वितकथिते । कथिते लादयः । कथिते लादिभिः अभिहिते गुणम्कर्मणि का कर्तव्या ।(कात्यायन वार्तिक) कथिते लादयः चेत्स्युः षष्टःईं कुर्यात्तदा गुणे(वार्तिकान्त) । कथिते लादयः चेत्स्युः षष्ठी गुणकर्मणि तदा कर्तव्या । दुह्यते गोः पयः । याच्यते पौरवस्य कम्बलः इति । कथं । (कात्यायन वार्तिक)अकारकं ह्यकथितत्वात्(वार्तिकान्त) । अकारकं हि एतत्भवति । किं कारणं । अकथितत्वात। (कात्यायन वार्तिक)कारकं चेत्तु न अकथा(वार्तिकान्त) । अथ कारकं न अकथितं । अथ कारके सति का कर्तव्या । (कात्यायन वार्तिक)कारकं चेत्विजानीयात्यां यां मन्येत सा भवेत्(वार्तिकान्त) । कारकं चेत्विजानातीयात्या या प्राप्नोति सा कर्तव्या । दुह्यते गोः पयः । याच्यते पौरवात्कम्बलः इति । (कात्यायन वार्तिक)कथिते अभिहिते त्वविधिः त्वमतिः गुणकर्मणि लादिविधिः सपरे(वार्तिकान्त) । कथिते लादिभिः अभिहिते त्वविधिः एषः भवति । किं इदं त्वविधिः इति । तव विधिः त्वविधिः । त्वमतिः । किमिदं त्वमतिः इति । तव मतिः त्वमतिः । न एवं अन्ये मन्यन्ते । कथं तर्हि अन्ये मन्यन्ते । गुणकर्मणि लादिविधिः सपरे । गुणकर्मणि लादिविधियः भवन्ति सह परेण योगेन । गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणां अणिकर्ता सः णौ इति । (कात्यायन वार्तिक)ध्रुवचेष्टितयुक्तिषु च अपि अगुणे ततनल्पमतेः वचनं स्मरत (वार्तिकान्त)। ध्रुवयुक्तिषु चेष्टितयुक्तिषु च अपि अगुणे कर्मणि लादयः भवन्ति । ततनल्प्मतेः आचार्यस्य वचनं स्मर्यतां । अपरः आह : (कात्यायन वार्तिक)प्रधानकर्मणि आख्येये लादीनाहुः द्विकर्मणां (वार्तिकान्त)। प्रधानकर्मणि अभिधेये द्विकर्मणां धातूनां कर्मणि लादयः भवन्ति इति वक्तव्यं । अजां नयति ग्रामं । अजा नीयते ग्रामं । अजा नीता ग्रामं इति । (कात्यायन वार्तिक)अप्रधाने दुहादीनां (वार्तिकान्त)। अप्रधाने दुहादीनां कर्मणि लादयः भवन्ति इति वक्तव्यं । दुह्यते गौः पयः । (कात्यायन वार्तिक)ण्यन्ते कर्तुः च कर्मणः(वार्तिकान्त) । लादयः भवन्ति इति वक्तव्यं । गम्यते देवदत्तः ग्रामं यज्ञदत्तेन । के पुनः धातूनां द्विकर्मकाः । (कात्यायन वार्तिक)नीवह्योः हरतेः च अपि गत्यर्थानां तथा एव च द्विकर्मकेषु ग्रहणं द्रष्टव्यं इति निश्चयः(वार्तिकान्त) । अजां नयति ग्रामं । भारं वहति ग्रामं । भारं हरति ग्रामं । गत्यर्थानां । गमयति देवदत्तं ग्रामं । यापयति देवदत्तं ग्रामं । (कात्यायन वार्तिक)सिद्धं वा अपो अन्यकर्मणः । (वार्तिकान्त)सिद्धं वा पुनः एतत्भवति । कुतः । अन्यकर्मणः । अन्यस्य अत्र अजा कर्म अन्यस्य ग्रामः । अजां असौ गृहीत्वा ग्रामं नयति । (कात्यायन वार्तिक)अन्यकर्म इति चेत्ब्रूयात्लादीनां अविधिः भवेत्(वार्तिकान्त)। अन्यकर्म इति चेत्ब्रूयात्लादीनां अविधिः अयं भवेत। अजा नीयते ग्रामं इति । परसाधने उत्पद्यमानेन लेन अजायाः अभिधानं न प्राप्नोति ।
पाणिनीयसूत्र १,४।५१।३) कि.,३३६।१-१७ रो.,४२५-४२८ (कात्यायन वार्तिक)कालभावाध्वगन्तव्याः कर्मसञ्ज्ञा हि अर्कर्मणाम्(वार्तिकान्त) । कालभावाध्वगन्तव्याः अकर्मकाणां धातूनां कर्मसञ्ज्ञाः भवन्ति इति वक्तव्यं । काल । मासं आस्ते । मासं स्वपिति । भाव । गोदोहं आस्ते । गोदोहं स्वपिति । अध्वगन्तव्य । क्रोशं आस्ते । क्रोशं स्वपिति । देशः च अकर्मणां कर्मसञ्ज्ञः भवति इति वक्तव्यं । कुरून्स्वपिति । पञ्चालान्स्वपिति । (कात्यायन वार्तिक)विपरीतं तु यत्कर्म तत्कल्म कवयः विदुः (वार्तिकान्त)। किमिदं कल्म इति । अपरिसमाप्तं कर्म कल्म । न वा अस्मिन्सर्वाणि कर्मकार्याणि क्रियन्ते । किं तर्हि । द्वितीया एव । (कात्यायन वार्तिक)यस्मिन्तु कर्मणि उपजायते अन्यत्धात्वर्थयोगा अपि च यत्र षष्ठी तत्कर्म कल्म इति च कल्म न उक्तं धातोः हि वृत्तिः न रलत्वतः अस्ति । एतेन कर्मसञ्ज्ञा सर्वा सिद्धा भवति कथितेन । तत्र ईप्सितस्य किं स्यात्प्रयोजनं कर्मसञ्ज्ञायाः । यत्तु कथितं पुरस्तातीप्सिततयुक्तं च तस्य सिद्ध्यर्थं । ईप्सितं एव तु यत्स्यात्तस्य भविष्यति कथितेन । (वार्तिकान्त)अथ इह कथं भवितव्यं । नेता अश्वस्य स्रुघ्नं इति आहोस्वित्नेता अश्वस्य स्रुघ्नस्य इति । उभयथा गोणिकापुत्रः ।
पाणिनीयसूत्र १,४।५२।१) कि.,३३६।१९-३३७।१३ रो.,४२९-४३१ शब्दकर्म इति कथं इदं विज्ञायते । शब्दः येषां क्रिया इति आहोस्वित्शब्दः येषां कर्म इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)शब्दकर्मनिर्देशे शब्दक्रियाणां इति चेत्ह्वयत्यादीनां प्रतिषेधः (वार्तिकान्त)। शब्दकर्मनिर्देशे शब्दक्रियाणामिति चेद्ह्वयदादीनां प्रतिषेधः वक्तव्यः । के पुनः ह्वयतादयः । ह्वयति क्रन्दति शब्दायते । ह्वयति देवदत्तः । ह्वाययति देवदत्तेन । क्रन्दति देवदत्तः । क्रन्दयति देवदत्तेन । शब्दायते देवदत्तः । शब्दाययति देवदत्तेन इति । (कात्यायन वार्तिक)शृणोत्यादीनां च उपसम्ख्यानं अशब्दक्रियत्वात्(वार्तिकान्त) । शृणोत्यादीनां च उपसम्ख्यानं कर्तव्यं । के पुनः शृणोत्यादयः । शृणोति विजानाति उपलभते । शृणोति देवदत्तः । श्रावयति देवदत्तं । विजानाति देवदत्तः । विज्ञापयति देवदत्तं । उपलभते देवदत्तः । उपलम्भयति देवदत्तं । किं पुनः कारणं न सिध्यति । अशब्दक्रियत्वाद। अस्तु तर्हि शब्दः येषां कर्म इति । (कात्यायन वार्तिक)शब्दकर्मणः इति चेत्जल्पतिप्रभृतीनां उपसम्ख्यानं (वार्तिकान्त)। शब्दकर्मण इति चेत्जल्पतिप्रभृतीनामुपसङ्ख्यानं कर्तव्यं । के पुनः जल्पतिप्रभृअतयः । जल्पति विलपति आभाषते । जल्पति देवदत्तः । जल्पयति देवदत्तं । विलपति देवदत्तः । विलापयति देवदत्तं । आभाषते देवदत्तः ।आभाषयति देवदत्तं । (कात्यायन वार्तिक)दृशेः सर्वत्र(वार्तिकान्त) । दृशेः सर्वत्र उपसङ्ख्यानं कर्तव्यं । पश्यति रूपतर्कः कार्षापणं । दर्शयति रूपतर्कं कार्षापणं ।
पाणिनीयसूत्र १,४।५२।२) कि.,३३७।१४-२७ रो.,४३१-४३२ (कात्यायन वार्तिक)अदिखादिनीवहीनां प्रतिषेधः । (वार्तिकान्त)अदिखादिनीवहीनां प्रतिषेधः वक्तव्यः । अत्ति देवदत्तः । आदयते देवदत्तेन । अपरः आह : सर्वं एव प्रत्यवसानकार्यं अदेः न भवति इति वक्तव्यं , परस्मैपदं अपि । इदं एकं इष्यते : क्तः अधिकरणे च द्रौव्यगतिप्रत्यवसानार्थेभ्यः : इदं एषां जग्धं । खादि । खादति देवदत्तः । खादयति देवदत्तेन । नी । नयति देवदत्तः । नाययति देवदत्तेन । वहेरनियन्तृकर्तृकस्य । (कात्यायन वार्तिक)वहेः अनियन्तृकर्तृकस्य इति वक्तव्यम्(वार्तिकान्त) । वहति भारं देवदत्तः । वाहयति भारं देवदत्तेन । अनियन्तृकर्तृकस्य इति किमर्थं । वहन्ति यवान्बलीवर्दाः । वाहयन्ति बलीवर्दान्यवान। (कात्यायन वार्तिक)भक्षेः अहिंसार्थस्य(वार्तिकान्त) । भक्षेः अहिम्सार्थस्य इति वक्तव्यं । भक्षयति पिण्डीं देवदत्तः । भक्षयति पिण्डीं देवदत्तेन । अहिम्सार्थस्य इति किमर्थं । भक्षयन्ति यवान्बलीवर्दाः । भक्षयन्ति बलीवर्दान्यवान।
पाणिनीयसूत्र १,४।५२।३) कि.,३३८।१-९ रो.,४३२-४३५ (कात्यायन वार्तिक)अकर्मकग्रहणे कालकर्मकाणां उपसङ्ख्यानम्(वार्तिकान्त) । अकर्मकग्रहणे कालकर्मकाणां उपसङ्ख्यानं कर्तव्यं । मासं आस्ते देवदत्तः । मासं आसयति देवदत्तं । मासं शेते देवदत्तः । मासं शाययति देवदत्तं । (कात्यायन वार्तिक)सिद्धं तु कालकर्मकाणां अकर्मकवद्वचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । कालकर्मकाः अकर्मकवत्भवन्ति इति वक्तव्यं । तत्तर्हि वक्तव्यं । न वक्तव्यं । अकर्मकाणां इति उच्यते न च के चित्कदा चित्कालभावाध्वभिः अकर्मकाः । ते एवं विज्ञास्यामः । क्व चित्ये अकर्मकाः इति । अथ वा येन कर्मणा सकर्म्काः च अकर्मकाः च भवन्ति तेन अकर्मकाणां । न च एतेन कर्मणा कः चितपि अकर्मकः । अथ वा यत्कर्म भवति न च भवति तेन कर्मकाणां । न च एतत्कर्म क्व चितपि न भवति ।
पाणिनीयसूत्र १,४।५३) कि.,३३८।११-१५ रो.,४३५ (कात्यायन वार्तिक)हृक्रोः वावचने अभिवादिदृश्योः आत्मनेपदे उपसङ्ख्यानम्(वार्तिकान्त) । हृक्रोर्वावचने अभिवादिदृशोः आत्मनेपदे उपसङ्ख्यानं कर्तव्यं । अभिवदति गुरुं देवदत्तः । अभिवादयते गुरुं देवदत्तं । अभिवादयते गुरुं देवदत्तेन । पश्यन्ति भृत्याः राजानं । दर्शयते भृत्यान्राजा । दर्शयते भृत्यैः राजा । कथं च अत्र आत्मनेपदं । एकस्य णेः अणौ इ ति अपरस्य णिचः च इति ।
पाणिनीयसूत्र १,४।५४।१) कि.,३३८।१७-२० रो.,४३५-४३६ किं यस्य स्वं तन्त्रं सः स्वतन्त्रः । किं च अतः । तन्तुवाये प्राप्नोति । न एषः दोषः । अयं तन्त्रशब्दः अस्ति एव विताने वर्तते । तत्यथा : आस्तीर्णं तन्त्रं । प्रेतं तन्त्रं । वितानः इति गम्यते । अस्ति प्राधान्ये वर्तते । तत्यथा स्वतन्त्रः असौ ब्राह्मणः इति उच्यते । स्वप्रधानः इति गम्यते । तत्यः प्राधान्ये वर्तते तन्त्रशब्दः तस्य इदं ग्रहणं ।
पाणिनीयसूत्र १,४।५४।२) कि.,३३८।२१-३३९।९ रो., ४३६-४३८ (कात्यायन वार्तिक)स्वतन्त्रस्य कर्तृसञ्ज्ञायां हेतुमति उपसङ्ख्यानं अस्वत्रन्त्वात्(वार्तिकान्त) । स्वतन्त्रस्य कर्तृसञ्ज्ञायां हेतुमति उपसङ्ख्यानं कर्तव्यं । पाचयति ओदनं देवदत्तः यज्ञदत्तेन इति । किं पुनः कारणं न सिध्यति । अस्वतन्त्रत्वात। (कात्यायन वार्तिक)न वा स्वात्रन्त्र्यातितरथा हि अकुर्वति अपि कारयति इति स्यात्(वार्तिकान्त) । न वा कर्तव्यं । किं कारणं । स्वातन्त्र्यात। स्वतन्त्रः असौ भवति । इतरथा हि अकुर्वति अपि कारयति इति स्यात। यः हि मन्यते न असौ स्वतन्त्रः अकुर्वति अपि तस्य कारयति इति एतत्स्यात। न अकुर्वति इति चेत्स्वतन्त्रः । न चेतकुर्वति तस्मिन्कारयति इति एतत्भवति स्वतन्त्रः असौ भवति । शक्यं तावतनेन उपसम्ख्यानं कुर्वता वक्तुं कुर्वन्स्वतन्त्रः अकुर्वन्न इति । साधीयः ज्ञापकं भवति । प्रेषिते च किल अयं क्रियां च अक्रियां च दृष्ट्वा अध्यवस्यति कुर्वन्स्वतन्त्रः अकुर्वन्न इति । यदि च प्रेषितः असौ न करोति स्वतन्त्रः असौ भवति इति ।
पाणिनीयसूत्र १,४।५५) कि.,३३९।११-२१ रो.,४३८-४३९ (कात्यायन वार्तिक)प्रैषे अस्वतन्त्रप्रयोजकत्वात्हेतुसञ्ज्ञाप्रसिद्धिः(वार्तिकान्त) । प्रैषे अस्वतन्त्रप्रयोजकत्वात्हेतुसञ्ज्ञायाः अप्रसिद्धिः । स्वतन्त्रप्रयोजकः हेतुसञ्ज्ञः भवति इति उच्यते । न च असौ स्वतन्त्रं प्रयोजयति । स्वतन्त्रत्वात्सिद्धं । सिद्धं एतत। कथं । स्वतन्त्रत्वात। स्वतन्त्रं असौ प्रयोजयति । (कात्यायन वार्तिक)स्वतन्त्रत्वात्सिद्धं इति चेत्स्वतन्त्रपरतन्त्रत्वं विप्रतिषिद्दं । (वार्तिकान्त)यदि स्वतन्त्रः न प्रयोज्यः अथ प्रयोज्यः न स्वतन्त्रः प्रयोज्यः स्वतन्त्रः च इति विप्रतिषिद्धं । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । एकं तावतुक्तं न वा स्वात्रन्त्र्यातितरथा हि अकुर्वति अपि कारयति इति स्यातिति । अपरं उक्तं । न वा सामान्यकृतत्वात्हेतुतः हि अविशिष्टं स्वतन्त्रप्रयोजकत्वातप्रयोजकः इति चेत्मुक्तमसम्शयेन तुल्यं इति ।
पाणिनीयसूत्र १,४।५६) कि.,३४०।२-२५ रो.,४४०-४४२ किमर्थं रेफाधिकः ईश्वरशब्दः गृह्यते । (कात्यायन वार्तिक)रीश्वरात्वीश्वरात्मा भूत्(वार्तिकान्त) । रीश्वरातिति उच्यते वीश्वरात्मा भूत। शकि णमुल्कमुलौ ईश्वरे तोसुन्कसुनौ इति । न एततस्ति प्रयोजनं । आचार्यप्रवृत्तिः ज्ञापयति अनन्तरः यः ईश्वरशब्दः तस्य ग्रहणं इति यतयं कृत्मेजन्तः इति कृतः मान्तस्य एजन्तस्य च अव्ययसञ्ज्ञां शास्ति । (कात्यायन वार्तिक)कृत्मेजन्तः परः अपि सः(वार्तिकान्त) । परः अपि एतस्मात्कृत्मान्तः एजन्तः च अस्ति । तदर्थं एतत्स्यात। यत्तर्हि अव्ययीभावस्य अव्ययसञ्ज्ञां शास्ति तत्ज्ञापयति आचार्यः नन्तरः यः ईश्वरशब्दः तस्य ग्रहणं इति । (कात्यायन वार्तिक)समासेषु अव्ययीभावः(वार्तिकान्त) । समासस्य एतत्ज्ञापकं स्यात। अव्ययीभावः एव समासः अव्ययसञ्ज्ञः भवति न अन्यः इति । एवं तर्हि लोकतः एतत्सिद्धं । तत्यथा लोके आ वनान्ताता उदकान्तात्प्रियं पान्थमनुव्रजेतिति यः एव प्रथमः वनान्तः उदकान्तः च ततः नुव्रजति । (कात्यायन वार्तिक)लौकिकं च अतिवर्तते(वार्तिकान्त) । द्वितीयं च तृतीयं च वनान्तं उदकान्तं वा अनुव्रजति । तस्मात्रेफादिकः ईश्वरशब्दः ग्रहीतव्यः । अथ प्राग्वचनं किमर्थं । (कात्यायन वार्तिक)प्राग्वचनं सञ्ज्ञानिवृत्त्यर्थम्(वार्तिकान्त) । प्राग्वचनं क्रियते निपातसञ्ज्ञायाः अनिवृत्तिः यथा स्यात। अक्रियमाणे हि प्राग्वचने अनवकाशाः गत्युपसर्गकर्मप्रवचनीयसञ्ज्ञाः निपातसञ्ज्ञां बाधेरन। ताः मा बाधिषत इति प्राग्वचनं क्रियते । अथ क्रियमाणे अपि प्राग्वचने यावता अनवकाशाः एताः सञ्ज्ञाः कस्मातेव न बाधन्ते । क्रियमाणे हि प्राग्वचने सत्यां निपातसञ्ज्ञायां एताः अवयवसञ्ज्ञाः आरभ्यन्ते । तत्र वचनात्समावेशः भवति ।
पाणिनीयसूत्र १,४।५७) कि.,३४१।२-९ रो.,४४२-४४४ अयं सत्त्वशब्दः अस्ति एव द्रव्यपदार्थकः । तत्यथा सत्त्वं अयं ब्राह्मणः सत्त्वमियं ब्राह्मणी इति । अस्ति क्रियापदार्थकः । सद्भावः सत्त्वं इति । कस्य इदं ग्रहणं । द्रव्यपदार्थकस्य । कुतः एतत। एवं हि कृत्वा विधिः च सिद्धः भवति प्रतिषेधः च । किं पुनः अयं पर्युदासः । यतन्यत्सत्त्ववचनातिति । आहोस्वित्प्रसज्य अयं प्रतिषेधः । सत्त्ववचने न इति । किं च अतः । यदि पर्युदासः विप्रः इति अत्र अपि प्राप्नोति । क्रियाद्रव्यवचनः अयं सम्घातो द्रव्यातन्यश्च विधिना आश्रीयते । अस्ति च प्रादिभिः सामान्यं इति कृत्वा तदन्तविधिना निपातसञ्ज्ञा प्राप्नोति । अथ प्रसज्यप्रतिषेधः न दोषः भवति । यथा न दोषः तथा अस्तु ।
पाणिनीयसूत्र १,४।५८-५९।१) कि.,३४१।११-१८ रो.,४४४ (कात्यायन वार्तिक)प्रादयः इति योगविभागः(वार्तिकान्त) । प्रादयः इति योगविभागः कर्तव्यः । प्रादयः सत्त्ववचनाः निपातसञ्ज्ञाः भवन्ति । ततः उपसर्गाः क्रियायोगे इति । किमर्थः योगविभागः । (कात्यायन वार्तिक)निपातसञ्ज्ञार्थः(वार्तिकान्त) । निपातसञ्ज्ञा यथा स्यात। (कात्यायन वार्तिक)एकयोगे हि निपातसञ्ज्ञाभावः (वार्तिकान्त)। एकयोगे हि सति निपातसञ्ज्ञाया अभावः स्यात। यस्मिनेव विशेषे गत्युपसर्गकर्मप्रवचनीयसञ्ज्ञाः तस्मिनेव विशेषे निपातसञ्ज्ञा स्यात।
पाणिनीयसूत्र १,४।५८-५९।२) कि.,३४१।१९-२३ रो.,४४५ (कात्यायन वार्तिक)मरुच्छब्दस्य उप्सङ्ख्यानम्(वार्तिकान्त) । मरुच्छब्दस्य उप्सङ्ख्यानं कर्तव्यं । मरुद्दत्तो मरुत्यः । अच उपसर्गातिति तत्त्वं यथा स्यात। (कात्यायन वार्तिक)श्रच्छब्दस्य उपसम्ख्यानम्(वार्तिकान्त) । श्रच्छब्दस्य उपसम्ख्यानं कर्तव्यं । श्रद्धा ।
पाणिनीयसूत्र १,४।६०।१) कि.,३४२।२-६ रो.,४४६ (कात्यायन वार्तिक)कारिकाशब्दस्य(वार्तिकान्त) । कारिकाशब्दस्य उपसङ्ख्यानं कर्तव्यं । कारिकाकृत्य । (कात्यायन वार्तिक)पुनश्चनसौ छन्दसि(वार्तिकान्त) । पुनश्चनसौ छन्दसि गतिसञ्ज्ञौ भवतः इति वक्तव्यं । पुनरुत्स्यूतं वासः देयं । पुनर्निष्कृतः रथः । उशिक्दूतः चनोहितः ।
पाणिनीयसूत्र १,४।६०।२) कि.,३४२।७-३४३।८ रो.,४४६-४४८ (कात्यायन वार्तिक)गत्युपसर्गसञ्ज्ञाः क्रियायोगे यत्क्रियायुक्ताः तं प्रति इति वचनम्(वार्तिकान्त) । गत्युपसर्गसञ्ज्ञाः क्रियायोगे यत्क्रियायुक्ताः तं प्रति गत्युपसर्गसञ्ज्ञाः भवन्ति इति वक्तव्यं । किं प्रयोजनं । प्रयोजनं घञ्षट्वणत्वे । घञ। प्रवृद्धः भावः प्रभावः । अनुपसर्गे इति प्रतिषेधः मा भूत। षत्वं । विगताः सेचकाः अस्मात्ग्रामात्विसेचकः ग्रामः । उपसर्गातिति षत्वं मा भूत। णत्वं । प्रगताः नायकाः अस्मात्ग्रामात्प्रनायकः ग्रामः । उपसर्गादिति णत्वं मा भूत। (कात्यायन वार्तिक)वृद्धिविधौ च धातुग्रहणानर्थक्यं (वार्तिकान्त)। वृद्धिविधौ च धातुग्रहणं अनर्थकं । उपसर्गातृति धातौ इति । तत्र धातुग्रहणस्य एतत्प्रयोजनं इह मा भूत्प्रर्षभं वनं इति । क्रियमाणे च अपि धातुग्रहणे प्रर्च्छक इति अत्र प्राप्नोति । यत्क्रियायुक्ताः तं प्रति इति वचनात्न भवति । वद्विध्नभावाबीत्त्वस्वाङ्गादिस्वरणत्वेषु दोषः भवति । वद्विधि। यतुद्वतः निवतः यासि बप्सत। वद्विधि । नस्भाव । प्रणसं मुखं उन्नसं मुखं । नस्भाव । अबीत्त्व ।प्रेपं परेपं । अबित्त्व । स्वाङ्गादिस्वर । प्रस्फिक्प्रोदरः । स्वाङ्गादिस्वर । णत्व । प्र णः शूद्रः प्र णः आचार्यः प्र णः राजा प्र णः वृत्रहा । उपसर्गातिति एते विधयः न प्राप्नुवन्ति । (कात्यायन वार्तिक)वद्विधिनस्भावबीत्त्वस्वाङ्गदिस्वरणत्वेषु वचनप्रामाण्यात्सिद्धम्(वार्तिकान्त) । अनवकाशाः एते विधयः । ते वचनप्रामाण्यात्भविष्यन्ति । (कात्यायन वार्तिक)सुदुरोः प्रतिषेधः नुम्विधितत्वषत्वणत्वेषु(वार्तिकान्त) । सुदुरोः प्रतिषेधः नुम्विधितत्वषत्वणत्वेषु वक्तव्यः । नुम्विधि : सुलभं दुर्लभं । उपसर्गातिति नुं मा भूतिति । न सुदुर्भ्यां केवलाभ्यां । इति एतत्न वक्तव्यं भवति । न एततस्ति प्रयोजनं । क्रियते एतत्न्यासे एव । तत्वं । सुदत्तं । अचः उपसर्गात्तः इति तत्वं मा भूतिति । षत्वं । सुसिक्तं घटशतेन सुस्तुतं श्लोकशतेन । उपसर्गातिति षत्वं मा भूतिति । सुः पूजायां इति एतत्न वक्तव्यं भवति । न एततस्ति प्रयोजनं । क्रियत एतत्न्यासे एव । णत्वं । दुर्नयं दुर्नीतमिति । उपसर्गातिति णत्वं मा भूतिति ।
पाणिनीयसूत्र १,४।६१) कि.,३४३।१०-१२ रो.,४४९ कृभ्वस्तियोगे इति वक्तव्यं । इह एव यथा स्यात। ऊरीकृत्य ऊरीभूय । इह मा भूत। ऊरी पक्त्वा । तत्तर्हि वक्तव्यं । न वक्तव्यं । क्रियायोगे इति अनुवर्तते न च अन्यया क्रियया ऊर्यादिच्विडाचां योगः अस्ति ।
पाणिनीयसूत्र १,४।६२।१) कि.,३४३।१४-२२ रो.,४४९-४५० कथं इदं विज्ञायते । इतेः परं इतिपरं न इतिपरं अनितिपरं इति आहोस्वितितिः परो यस्मात्ततिदं इतिपरं न इतिपरं अनितिपरमिति । किं च अतः । यदि विज्ञायत इतेः परं इतिपरं न इतिपरं अनितिपरं इति खाटिति कृत्वा निरष्ठीवतिति अत्र प्राप्नोति । अथ इतिः परो यस्मात्ततिदं इतिपरं न इतिपरं अनितिपरमिति श्रौषट्वौषटिति कृत्वा निरष्ठीवतिति अत्र प्राप्नोति । अस्तु तावतितिः परो यस्मात्ततिदं इतिपरं न इतिपरं अनितिपरमिति । ननु च उक्तं श्रौषट्वौषटिति कृत्वा निरष्ठीवतिति अत्र प्राप्नोति इति । न एषः दोषः । इदं तावतयं प्रष्टव्यः । अथ इह ते प्राक्धातोः इति कथं गतिमात्रस्य पूर्वप्रयोगः भवति । उपोद्धरति इति । गत्याकृतिः प्रतिनिर्दिश्यते । इह अपि तर्हि अनुकरणाकृतिः निर्दिश्यते ।
पाणिनीयसूत्र १,४।६२।२) कि.,३४३।२३-३४४। ३ रो.,४५० किमर्थं इदं उच्यते । (कात्यायन वार्तिक)अनुकरणस्य इतिकरणपरत्वप्रतिषेधः अनिष्टशब्दनिवृत्त्यर्थः(वार्तिकान्त) । अनुकरणस्य इतिकरणपरत्वप्रतिषेधः उच्यते । किं प्रयोजनं । अनिष्टशब्दनिवृत्त्यर्थः । अनिष्ठशब्दता मा भूतिति । इदं विचारयिष्यति तेप्राग्धातुवचनं प्रयोगनियमार्थं वा स्यात्सञ्ज्ञानियमार्थं वा इति । तत्यदा प्रयोगनियमार्थं तदा अनिष्ठशब्दनिवृत्त्यर्थं इदं वक्तव्यं । यदा हि सञ्ज्ञानियमार्थं तदा न दोषः भवति ।
पाणिनीयसूत्र १,४।६३) कि.,३४४।५-१० रो.,४५०-४५१ इदं अतिबहु क्रियते आदरे अनादरे सतसतिति । आदारे सतिति एव सिद्धं । कथं असत्कृत्य इति । तदन्तिविधिना भविष्यति । केन इदानीं अनादरे भविष्यति । नञा आदरप्रतिषेधं विज्ञास्यामः । नादरे अनादरे इति । न एवं शक्यं । आदरप्रसङ्गे एव हि स्यात। अनादरप्रसङ्गे न स्यात। अनादरग्रहणे पुनः क्रियमाणे बहुव्रीहिः अयं विज्ञायते । अविद्यमानादरे अनादरे इति । तस्मातनादरग्रहणं कर्तव्यं । असतः तु तदन्तविधिना सिद्धं ।
पाणिनीयसूत्र १,४।६५) कि.,३४४। १२-१४ रो.,४५२ (कात्यायन वार्तिक)अन्तःशब्दस्य आङ्किविधिसमासणत्वेषु पसङ्ख्यानम्(वार्तिकान्त) । अन्तःशब्दस्य आङ्किविधिसमासणत्वेषु पसङ्ख्यानं कर्तव्यं । अङ। अन्तर्धा । किविधिः । अन्तर्धिः । समासः । अन्तर्हत्य । णत्वं । अन्तर्हण्यात्गोभ्यो गाः ।
पाणिनीयसूत्र १,४।७४) कि.,३४४।१६-३४५।७ रो.,४५२-४५३ (कात्यायन वार्तिक)साक्षात्प्रभृतिषु च्व्यर्थग्रहणम्(वार्तिकान्त) । साक्षात्प्रभृतिषु च्व्यर्थग्रहणं कर्तव्यं । असाक्षात्साक्षात्कृत्वा साक्षात्कृत्य । यदा हि साक्षातेव किं चित्क्रियते तदा मा भूतिति । (कात्यायन वार्तिक)मकारान्तत्वं च गतिसञ्ज्ञासन्नियुक्तम्(वार्तिकान्त) । मकारान्तत्वं च गतिसञ्ज्ञासन्नियोगेन वक्तव्यं । लवणङ्कृत्य । (कात्यायन वार्तिक)तत्र च्विप्रतिषेधः(वार्तिकान्त) । तत्र च्व्यन्तस्य प्रतिषेधः वक्तव्यः । लवणीकृत्य । (कात्यायन वार्तिक)न वा पूर्वेण कृतत्वात्(वार्तिकान्त) ण वा वक्तव्यं । किं कारणं । पूर्वेण कृतत्वात। अस्तु अनेन विभाषा । पूर्वेण नित्यः भविष्यति । इदं तर्हि प्रयोजनं । मकारान्तत्वं च गतिसञ्ज्ञासन्नियुक्तं इति उक्तं । तत्च्व्यन्तस्य मा भूतिति । एततपि न अस्ति प्रयोजनं । लवणशब्दस्य अयं विभाषा लवणम्शब्द आदेशः क्रियते । यदि च लवणी शब्दस्य अपि विभाषा लवणम्शब्दः आदेशः भवति न किं चिद्दुष्यति । त्रैशब्द्यं च ह साध्यं । । तच्च एवं सति सिद्धं भवति इति ।
पाणिनीयसूत्र १,४।८०) कि.,३४५।९-३४६।१४ रो.,४५३-४५६ किमिदं प्राग्धातुवचनं प्रयोगनियमार्थं : एते प्राकेव धातोः प्रयोक्तव्याः । आहोस्वित्सञ्ज्ञानियमार्थं : एते प्राक्च अक्प्राक्च प्रयोक्तव्याः , प्राक्प्रयुज्यमानानां गतिसञ्ज्ञा भवति इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)प्राग्धातुवचनं प्रयोगनियमार्थं इति चेतनुकरणस्य इतिकरणपरप्रतिषेधः अनिष्टशब्दनिवृत्त्यर्थः(वार्तिकान्त) । प्राग्धातुवचनं प्रयोगनियमार्थं इति चेतनुकरणस्य इतिकरणपरप्रतिषेधः वक्तव्यः । किं प्रयोजनं । अनिष्टशब्दनिवृत्त्यर्थः । अनिष्टशबता मा भूतिति । (कात्यायन वार्तिक)छन्दसि परव्यवहितवचनं च(वार्तिकान्त) । छन्दसि परे अपि व्यवहिताः च इति वक्तव्यं । (कात्यायन वार्तिक)सञ्ज्ञानियमे सिद्धम्(वार्तिकान्त) । सञ्ज्ञानियमे सिद्धं एतत्भवति । अस्तु तर्हि सञ्ज्ञानियमः । (कात्यायन वार्तिक)उभयोः अनर्थकं वचनं अनिष्टादर्शनात्(वार्तिकान्त) । उभयोः अपि पक्षयोः वचनमनर्थकं । किं कारणं । अनिष्टादर्शनात। न हि कः चित्प्रपचति इति प्रयोक्तव्ये पचतिप्र इति प्रयुङ्क्ते । यदि च अनिष्टं दृश्येत ततः यत्नार्हं स्यात। (कात्यायन वार्तिक)उपसर्जनसन्निपाते तु पूर्वपरव्यवस्थार्थम्(वार्तिकान्त) । उपसर्जनसन्निपाते तु पूर्वपरव्यवस्थार्थं एतत्वक्तव्यं । ऋषभं कूलमुद्रुजं ऋषभं कूलमुद्वहं । अत्र गतेः प्राक्धातोः प्रयोगः यथा स्यात। यदि उपसर्जनसन्निपाते पूर्वपरव्यवस्थार्थं इदं उच्यते सुकटम्कराणि वीरणानि इति अत्र गतेः प्राक्धातोः प्रयोगः प्राप्नोति । आचार्यप्रवृत्तिः ज्ञापयति न अत्र गतेः प्राक्प्रयोगः भवति इति यतयं ईषद्दुःसुषु कृच्छ्राकृच्छार्थेषु खलिति खकारं अनुबन्धं करोति । कथं कृत्वा ज्ञापकं । खित्करणे एतत्प्रयोजनं खिति इति मुं यथा स्यातिति । यदि च अत्र गतेः प्राक्प्रयोगः स्यात्खित्करणं अनर्थकं स्यात। अस्तु अत्र मुं । अनव्ययस्य इति प्रतिषेधः भविष्यति । पश्यति तु आचार्यः न अत्र गतेः प्राक्धतोः प्रयोगः भवति इति ततः खकारं अनुबन्धं करोति । न एततस्ति ज्ञापकं । यदि अपि अत्र गतेः प्राक्प्रयोगः स्यात्स्यातेवात्र मुमागमः । कथं । कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणं भवति इति । तस्मात्न अर्थः एवमर्थेन प्राग्धातुवचनेन । कथं ऋषभं कूलमुद्रुजं ऋषभं कूलमुद्वहं । न एषः दोषः । न एषः उदिः उपपदं । किं तर्हि । विशेषणं । उदि कूले रुजिवहोः । उत्पूर्वाभ्यां रुजिवहिभ्यां कूले उपपदे इति ।
पाणिनीयसूत्र १,४।८३) कि.,३४६।१६-१८ रो.,४५६-४५७ किमर्थं महती सञ्ज्ञा क्रियते । अन्वर्थसञ्ज्ञा यथा विज्ञायेत । कर्म प्रोक्तवन्तः कर्मप्रवचनीयाः इति । के पुनः कर्म प्रोक्तवन्तः । ये सम्प्रति क्रियां न आहुः । के च सम्प्रति क्रियां न आहुः । ये अप्रयुज्यमानस्य क्रियां आहुः ते कर्मप्रवचनीयाः ।
पाणिनीयसूत्र १,४।८४) कि.,३४६।२०-३४७।२१ रो.,४५८-४६० किमर्थं इदं उच्यते । कर्मप्रवचनीयसञ्ज्ञा यथा स्यात। गत्युपसर्गसञ्ज्ञे मा भूतां इति । किं च स्यात। शाकल्यस्य सम्हितां अनु प्रावर्षतः गतिः गतौ इति निघातः प्रसज्येत । यदि एवं वेः अपि कर्मप्रवचनीयसञ्ज्ञा वक्तव्या । वेः अपि निघातः न इष्यते : प्रादेशं प्रादेशं विपरिलिखति । अस्ति अत्र विशेषः । न अत्र वेः लिखिं प्रति क्रियायोगः । किं तर्हि । अप्रयुज्यमानं । प्रादेशं प्रादेशं विमाय परिलिखति इति । यदि एवं अनोः अपि कर्मप्रवचनीयसञ्ज्ञया न अर्थः । अनोः अपि हि न वृषिं प्रति क्रियायोगः । किं तर्हि अप्रयुज्यमानं । शाकल्येन सुकृतां सम्हितां अनुविशम्य देवः प्रावर्षत। इदं तर्हि प्रयोजनं द्वितीया यथा स्यात्कर्मप्रवचनीययुक्ते द्वितीया इति । अतः उत्तरं पठति । (कात्यायन वार्तिक)अनुर्लक्षणेवचनानर्थक्यं सामान्यकृतत्वात्(वार्तिकान्त) । अनुर्लक्षणेवचनार्थक्यं । किं कारणं । सामान्यकृतत्वात। सामान्येन एव अत्र कर्मप्रवचनीयसञ्ज्ञा भविष्यति लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः इति । (कात्यायन वार्तिक)हेत्वर्थं तु वचनम्(वार्तिकान्त) । हेत्वर्थं इदं वक्तव्यं । हेतुः शाकल्यस्य सम्हिता वर्षस्य न लक्षणं । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । लक्षणं हि नाम सः भवति येन पुनः पुनः लक्ष्यते न यः सकृदपि निमित्तत्वाय कल्पते । सकृत्च असौ शाकल्येन सुकृतां सम्हितां अनुशिम्य देवः प्रावर्षत। सः तर्हि तथा । निर्देशः कर्तव्यः अनुः हेतौ इति । अथ इदानीं लक्षणेन हेतुः अपि व्याप्तः न अर्थः अनेन । लक्षणेन हेतुः अपि व्याप्तः । न हि अवश्यं ततेव लक्षणं भवति येन पुनः पुनः लक्ष्यते । किं तर्हि । यत्सकृतपि निमित्त्वाय कल्पते ततपि लक्षणं भवति । तत्यथा अपि भवान्कमण्डुलपाणिं छात्रं अद्रक्षीतिति । सकृतासौ कमण्डलुपाणिः छात्रः दृष्टः तस्य ततेव लक्षणं भवति । ततेव तर्हि प्रयोजनं द्वितीया यथा स्यात्कर्मप्रवचनीययुक्ते द्वितीया इति । एततपि न अस्ति प्रयोजनं । सिद्धा अत्र द्वितीया कर्मप्रवचनीययुक्ते इति एव । न सिध्यति । परत्वात्हेतुत्वाश्रया तृतीया प्राप्नोति ।
पाणिनीयसूत्र १,४।८९) कि.,३४७।२३-२५ रो.,४६१ आङ्मर्यादाभिविध्योः इति वक्तव्यं । इह अपि यथा स्याताकुमारं यशः पाणिनेः इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । मर्यादावचने इति एव सिद्धं । एषा अस्य यशसः मर्यादा ।
पाणिनीयसूत्र १,४।९०) कि.,३४८।२-६ रो.,४६१-४६२ कस्य लक्षणदयः अर्थाः निर्दिश्यन्ते । वृक्षादीनां । किमर्थं पुनः इदं उच्यते । कर्मप्रवचनीयसञ्ज्ञा यथा स्यात। गत्युपसर्गसञ्ज्ञे मा भूतां इति । न एततस्ति प्रयोजनं । यत्क्रियायुक्ताः तं प्रति गत्युपसर्गसञ्ज्ञे भवतः न च वृक्षादीन्प्रति क्रियायोगः । इदं तर्हि प्रयोजनं द्वितीया यथा स्यात्कर्मप्रवचनीययुक्ते द्वितीया इति । वृक्षं प्रति विद्योतते । वृक्षमनु विद्योतते इति ।
पाणिनीयसूत्र १,४।९३) कि.,३४८।८-२० रो.,४६२-४६४ किमर्थं अधिपर्योः अनर्थकयोः कर्मप्रवचनीयसञ्ज्ञा उच्यते । कर्मप्रवचनीयसञ्ज्ञा यथा स्यात। गत्युपसर्गसञ्ज्ञे मा भूतां इति । न एततस्ति प्रयोजनं । यत्क्रियायुक्ताः तं प्रति गत्युपसर्गसञ्ज्ञे भवतः अनर्थकौ च इमौ । इदं तर्हि प्रयोजनं पञ्चमी यथा स्यात्पञ्चमी अपाङ्परिभिः इति । कुतः पर्यागम्यत इति । सिद्धा अत्र पञ्चमी अपादाने इति एव । आतः च अपादानपञ्चमी एषा । यत्र अपि अधिशब्देन योगे पञ्चमी न विधीयते तत्र अपि श्रूयते । कुतः अध्यागम्यत इति । एवं तर्हि सिद्धे सति यतनर्थकयोः गत्युपसर्गसञ्ज्ञाबाधिकां कर्मप्रवचनीयसञ्ज्ञां शास्ति तत्ज्ञापयति आचार्यः अनर्थकानां अपि एषां भवति अर्थवत्कृतं इति । किं एतस्य ज्ञापने प्रयोजनं । निपातस्य अनर्थकस्य प्रातिपदिकत्वं चोदितं । तत्न वक्तव्यं भवति । अथ वा न एव इमौ अनर्थकौ । किं तर्हि अनर्थकौ इति उच्यते । अनर्थान्तर्वाचिनौ अनर्थकौ । धातुना उक्तां क्रियां आहतुः । तदविशिष्टं भवति यथा शङ्खे पयः । यदि एवं धातुना उक्तत्वात्तस्यार्थस्य उपसर्गप्रयोगो न प्राप्नोति उक्तार्थानां अप्रयोगः इति । उक्तार्थानामपि प्रयोगः दृश्यते । तत्यथा अपूपौ द्वौ आनय । ब्राह्मणौ द्वौ अनय इति ।
पाणिनीयसूत्र १,४।९६) कि.,३४८।२२-३४९। ४ रो.,४६४-४६५ इह कस्मात्न भवति । सर्पिषः अपि स्यात। गोमूत्रस्य अपि स्यात। किं च स्यात। द्वितीया अपि प्रसज्येत कर्मप्रवचनीययुक्ते द्वितीया इति । न एषः दोषः । न इमे अप्यर्थाः निर्दिश्यन्ते । किं तर्हि । परपदार्थाः इमे निर्दिश्यन्ते । एतेषु अर्थेषु यत्पदं वर्तते तत्प्रति अपिः कर्मप्रवचनीयसञ्ज्ञः भवति इति । अथ वा यतत्र कर्मप्रवचनीययुक्तं न अदः प्रयुज्यते । किं पुनः तत। बिन्दुः । बिन्दोः तर्हि कस्मात्न भवति । उपपदविभक्तेः कारकविभक्तिः बलीयसी इति प्रथमा भविष्यति इति ।
पाणिनीयसूत्र १,४।९७) कि.,३४९।६-९ रो.,४६६ (कात्यायन वार्तिक)अधिरीश्वरवचने उक्तम्(वार्तिकान्त) । किं उक्तं । यस्य च ईश्वरवचनं इति कर्तृनिर्देशः चेतवचनात्सिद्धं । प्रथमानुपपत्तिः तु । स्ववचनात्सिद्धं इति । अधिः स्वं प्रति कर्मप्रवचनीयसञ्ज्ञः भवति इति वक्तव्यं ।
पाणिनीयसूत्र १,४।९९) कि.,३४९।११-१९ रो.,४६६-४६७ (कात्यायन वार्तिक)लादेशे परस्मैपदग्रहणं पुरुषबाधितत्वात्(वार्तिकान्त) । लादेशे परस्मैपदग्रहणं कर्तव्यं । किं कारणं । पुरुषबाधितत्वात। (कात्यायन वार्तिक)इह वचने हि सञ्ज्ञाबाधनम्(वार्तिकान्त) । इह हि क्रियमाणे अनवकाशा पुरुषसञ्ज्ञा परस्मैपदसञ्ज्ञां बाधेत । परस्मैपदसञ्ज्ञा अपि अनवकाशा । सा वचनात्भविष्यति । सावकाशा परसमैपदसञ्ज्ञा । कः वकाशः । शतृक्क्वसू अवकाशः । (कात्यायन वार्तिक)सिचि वृद्धौ तु परस्मैपदग्रहणं ज्ञापकं पुरुषाबाधकत्वस्य(वार्तिकान्त) । यतयं सिचि वृद्धिः परस्मैपदेषु इति परस्मैपदग्रहणं करोति तत्ज्ञापयति आचार्यः न पुरुषसञ्ज्ञा परस्मैपदसञ्ज्ञां बाधते इति ।
पाणिनीयसूत्र १,४।१०१) कि.,३५०।२-२४ रो.,४६८-४६९ (कात्यायन वार्तिक)प्रथममध्यमोत्तमसञ्ज्ञायां आत्मनेपदग्रहणं समसङ्ख्यार्थं (वार्तिकान्त)। प्रथममध्यमोत्तमसञ्ज्ञायां आत्मनेपदग्रहणं कर्तव्यं । आत्मनेपदानां च प्रथममध्यमोत्तमसञ्ज्ञाः भवन्ति इति वक्तव्यं । किं प्रयोजनं । समसङ्ख्यार्थं । सङ्ख्यातानुदेशः यथा स्यात। अक्रियमाणे हि आत्मनेपदग्रहणे तिस्रः सञ्ज्ञाः षट्सञ्ज्ञिनः । वैषम्यात्सङ्ख्यातानुदेशः न प्राप्नोति । क्रियमाणे अपि च आत्मनेपदग्रहणे (कात्यायन वार्तिक)आनुपूर्व्यवचनं च(वार्तिकान्त) । आनुपूर्व्यवचनं च कर्तव्यं । अक्रियमणे हि कस्य चितेव त्रिकस्य प्रथमसञ्ज्ञा स्यात्कस्य चितेव मध्यमसञ्ज्ञा कस्य चितेव उत्तमसञ्ज्ञा । (कात्यायन वार्तिक)न वैकशेषनिर्देशात्(वार्तिकान्त) । यत्तावतुच्यते आत्मनेपदग्रहणं कर्तव्यं समसङ्ख्यार्थं इति । तत्न कर्तव्यं । सञ्ज्ञाः अपि षतेव निर्दिश्यन्ते । कथं । एकशेषनिर्देसात। एकशेषनिर्देशः अयं । अथ एतस्मिनेकशेषनिर्देशे सति किं अयं कृतैकशेषाणां द्वन्द्वः । प्रथमः च प्रथमः च प्रथमौ मध्यमः च मध्यमः च मध्यमौ उत्तमः च उत्तमः च उत्तमौ प्रथमौ च मध्यमौ च उत्तमौ च प्रथममध्यमोत्तमाः इति । आहोस्वित्कृतद्वन्द्वानां एकशेषः । प्रथमौ च मध्यमः च उत्तमः च प्रथममध्यमोत्तमाः । प्रथममध्यमोत्त्तमाः च प्रथममध्यमोत्तमाः च प्रथममध्यमोत्तमाः इति । किं च अतः । यदि कृतैकेशेषाणां द्वन्द्वः प्रथममध्यमयोः प्रथमसञ्ज्ञा प्राप्नोति । उत्तमप्रथमयोः मध्यमसञ्ज्ञा प्राप्नोति । मध्यमोत्तमयोः उत्तमसञ्ज्ञा प्राप्नोति । अथ कृतद्वन्द्वानामेकशेषो न दोषः भवति । यथा न दोषः तथा अस्तु । किं पुनः अत्र न्याय्यं । उभयं इति आह । उभयं हि दृश्यते । तत्यथा । बहु शक्तिकिटकं बहूनि शक्तिकिटकानि बहु स्थालीपिठरं बहूनि स्थालीपिठराणि । यतपि उच्यते क्रियमाणे अपि आत्मनेपदग्रहणे आनुर्पूर्व्यवचनं कर्तव्यं इति । न कर्तव्यं । लोकतः एतत्सिद्धं । तत्यथा लोके विहव्यस्य द्वाभ्यां द्वाभ्यां अग्निः उप्स्थेयः इति । न च उच्यते आनुपूर्व्येण इति आनुपूर्व्येण च उपस्थीयत इति ।
पाणिनीयसूत्र १,४।१०४) कि.,३५१।२-१० रो.,४७०-४७१ त्रीणि त्रीणि इति अनुवर्तते उताहो न । किं च अतः । यदि अनुवर्तते अष्ठनः आ विभक्तौ इति आत्वं न प्राप्नोति । अथ निवृत्तं प्रथमयोः पूर्वसवर्णः इति अत्र प्रत्यययोः एव ग्रहणं प्राप्नोति । यथा इच्छसि तथा अस्तु । अस्तु तावतनुवर्तते इति । ननु च उक्तं अष्ठन आ विभक्तौ इति आत्वं न प्राप्नोति इति । वचनात्भविष्यति । अथ वा पुनः अस्तु निवृत्तं । ननु च उक्तं प्रथमयोः पूर्वसवर्णः इति अत्र प्रत्यययोः एव ग्रहणं प्राप्नोति इति । न एषः दोषः । अचि इति अनुवर्तते । न चाजादी प्रथमौ प्रत्ययौ स्तः । ननु च एवं विज्ञायते अजादी यौ प्रथमौ अजादीनां वा यौ प्रथमौ इति । यत्तर्हि तस्मात्शसः नः पुम्सि इति अनुक्रान्तं पूर्वसवर्णदीर्घं प्रतिनिर्दिशति तत्ज्ञापयति आचार्यः विभक्त्योः ग्रहणं इति । अथ वा वचनग्रहणं एव कुर्यात। औजसोः पूर्वसवर्णः इति ।
पाणिनीयसूत्र १,४।१०५,१०७-१०८।१) कि.,३५१।१३-३५३।२७ रो.,४७१-४७६ किमर्थं इदं उच्यते । (कात्यायन वार्तिक)युष्मदस्मच्छेषवचनं नियमार्थम्(वार्तिकान्त) । नियमार्थः अयं आरम्भः । अथ एतस्मिन्नियमार्थे विज्ञायमाने किं अयं उपपदनियमः युष्मदि मध्यमः एव अस्मदि उत्तमः एव आहोस्वित्पुरुषनियमः युष्मदि एव मध्यमः अस्मदि एव उत्तमः इति । किं च अतः । यदि पुरुषनियमः शेषग्रहणं कर्तव्यं शेषे प्रथमः इति । किं कारणं । मध्यमोत्तमौ नियतौ युष्मदस्मदी अनियते । तत्र प्रथमः अपि प्राप्नोति । तत्र शेषग्रहणं कर्तव्यं प्रथमनियमार्थं । शेषे एव प्रथमः भवति न अन्यत्र इति । अथ अपि उपपदनियमः एवं अपि शेषग्रहणं कर्तव्यं शेषे प्रथमः इति । युष्मदस्मदी नियते मध्यमोत्तमौ अनियतौ तौ शेषे अपि प्राप्नुतः । तत्र शेषग्रहणं कर्तव्यं शेषनियमार्थं । शेषे प्रथमः एव भवति न अन्यः इति । उपपदनियमे शेषग्रहणं शक्यं अकर्तुं । कथं । युष्मदस्मदी नियते मध्यमोत्तमौ अनियतौ तौ शेषे अपि प्राप्नुतः । ततः वक्ष्यामि प्रथमः भवति इति । तत्नियमार्थं भविष्यति । यत्र प्रथमः च अन्यः च प्राप्नोति तत्र प्रथमः भवति इति । (कात्यायन वार्तिक)तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वात्(वार्तिकान्त) । तत्र युष्मदस्मदन्येषु प्रथमस्य प्रतिषेधः वक्तव्यः । त्वं च देवदत्तः च पचथः । अहं च देवदत्तः च पचावः । किं कारणं । शेषत्वात। शेषे प्रथमः इति प्रथमः प्राप्नोति । (कात्यायन वार्तिक)सिद्धं तु युष्मदस्मदोः प्रतिषेधात्(वार्तिकान्त) । सिद्धं एतत। कथं । युष्मदस्मदोः प्रतिषेधात। शेषे प्रथमः युष्मदस्मदोः न इति वक्तव्यं । (कात्यायन वार्तिक)युष्मदि मध्यमातस्मदि उत्तमः प्रतिषेधेन(वार्तिकान्त) । युष्मदि मध्यमातस्मदि उत्तमः इति एतत्भवति विप्रतिषेधेन । युष्मदि मध्यमः इति अस्य अवकाशः त्वं पचसि । अस्मदि उत्तमः इति अस्य अवकाशः अहं पचामि । इह उभयं प्राप्नोति त्वं च अहं च पचावः । अस्मदि उत्तमः इति एतत्भवति विर्प्रतिषेधेन । सः तर्हि विप्रतिषेधः वक्त्वयः । न वक्तव्यः । त्यदादीनां यत्यत्परं तत्तत्शिष्यते इति एवं अस्मदः शेषः भविष्यति । तत्र अस्मदि उत्तमः इति एव सिद्धं । (कात्यायन वार्तिक)अनेकशेषभावार्थं तु (वार्तिकान्त)। अनेकशेषभावार्थं तु सः विप्रतिषेधः वक्तव्यः । यदा च एकशेषः न । कदा च एकशेषः न । सहविवक्षायां एकशेषः । यदा न सहविवक्षा तद एकशेषः न अस्ति । (कात्यायन वार्तिक)न वा युष्मदस्मदोः अनेकशेषभावात्तदधिकरणानां अपि अनेकशेषभावातविप्रतिषेधः(वार्तिकान्त) । न वा अर्थः विप्रतिषेधेन । किं कारणं । युष्मदस्मदोः अनेकशेषभावात्तदधिकरणानां अपि युष्मदस्मदधिकरणानां अपि एकशेषेन न भवितव्यं । त्वं च अहं च पचसि पचामि च इति । (कात्यायन वार्तिक)क्रियापृथक्त्वे च द्रव्यपृथक्त्वदर्शनं अनुमानं उत्तरत्र अनेकशेषभावस्य(वार्तिकान्त) । क्रियापृथक्त्वे च द्रव्यपृथक्त्वं दृश्यते । तत्यथा पचसि पचामि च त्वं च अहं च इति । ततनुमानं उत्तरयोः अपि क्रिययोः एकशेषः न भवति इति । एवं च कृत्वा सः पि अदोषः भवति यतुक्तं तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वातिति । तत्र अपि हि एवं भवितव्यं त्वं च देवदत्तः च पचसि पचति च । अहं च देवदत्तः च पचामि पचति च इति । यत्तावतुच्यते न वा युष्मदस्मदोः अनेकशेषभावात्तदधिकरणानां अपि अनेकशेषभावातविप्रतिषेधः इति । दृश्यते हि युष्मदस्मदोः चानेकशेषः तदधिकरणानां च एकशेषः । तत्यथा त्वं च अहं च वृत्त्रहनुभौ सम्प्रयुज्यावहै इति । यतपि उच्यते क्रियापृथक्त्वे च द्रव्यपृथक्त्वदर्शनं अनुमानं उत्तरत्र अनेकशेषभावस्य इति । क्रियापृथक्त्वे खलु अपि द्रव्यैकशेषः भवति इति दृश्यते । तत्यथा अक्षाः भज्यन्तां भक्ष्यन्तां दीव्यन्तां इति । एवं च कृत्वा सः अपि दोषो भवति यतुक्तं तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वातिति । न एषः दोषः । परिहृतं एतत्सिद्धं तु युष्मदस्मदोः प्रतिषेधातिति । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । शेषे प्रथमः विधीयते । न हि शेषः च अन्यः च शेषग्रहणेन गृह्यते । भवेत्प्रथमः न स्यान। मध्यमोत्तमौ अपि न प्राप्नुतः । किं कारणं । युष्मदस्मदोः उपपदयोः मध्यमोत्तमौ उच्येते । न च युष्मदस्मदी अन्यः च युष्मदस्मद्ग्रहणेन गृह्यते । यतत्र युष्मत्यत्च अस्मत्तत्तदाश्रयौ मध्यमोत्तमौ भविष्यतः । यथा एव तर्हि यतत्र युष्मत्यत्च स्मत्तदाश्रयौ मध्यमोत्तमौ भवतः एवं यः अत्र शेषः तदाश्रयः प्रथमः प्राप्नोति । एवं तर्हि शेषे उपपदे प्रथमः विधीयते । उपोच्चारि पदं उपपदं । यत्च अत्र उपोच्चारि न सः शेषः यः च शेषः न ततुपोच्चारि । भवेत्प्रथमः न स्यात। मध्यमोत्तमौ अपि न प्राप्नुतः । किं कारणं । युष्मदस्मदोः उपपदयोः मध्यमोत्तमौ उच्येते । उपोच्चारि पदं उपपदं । यत्च अत्र उपोच्चारि न ते युष्मदस्मदी ये च युष्मदस्मदी न ततुपोच्चारि । एवं तर्हि शेषेण सामानाधिकरण्ये प्रथमः विधीयते । न च अत्र शेषेण एव सामानाधिकरण्यं । भवेत्प्रथमः न स्यात। मध्यमोत्तमौ अपि न प्राप्नुतः । किं कारणं । युष्मदस्मद्भ्यां सामानाधिकरण्ये मध्यमोत्तमौ उच्येते न च अत्र युष्मदस्मद्भ्यां एव सामानाधिकरण्यं । एवं तर्हि त्यदादीनि सर्वैः नित्यं इति एवं अत्र युष्मदस्मदोः शेषः भविष्यति । तत्र युष्मदि मध्यमः अस्मदि उत्तमः इति एव सिद्धं । न सिध्यति । स्थानिनि अपि इति प्रथमः प्राप्नोति । त्यदादीनां खलु अपि यत्यत्परं तत्तत्शिष्यते इति यदा भवतः शेषः तदा प्रथमः प्राप्नोति ।
पाणिनीयसूत्र १,४।१०५,१०७-१०८।२) कि.,३५३।२७-३५४। १५ रो.,४७७-४७८ युष्मदि मध्यमः अस्मदि उत्तमः इति एव उच्यते। तौ इह न प्राप्नुतः : परमत्वं पचसि । परमाहं पचामि इति । तदन्तविधिना भविष्यति । इह अपि तर्हि तदन्तविधिना प्राप्नुतः : अतित्वं पचति । अत्यहं पचति इति । ये च अपि एते समानाधिकरणवृत्तयः तद्धिताः तत्र च मध्यमोत्तमौ न प्राप्नुतः : त्वत्तरः पचसि मत्तरः पचामि इति । त्वद्रूपः पचसि मद्रूपः पचामि इति । त्वत्कल्पः पचसि । मत्कल्पः पचामि इति। एवं तर्हि युष्मद्वति अस्मद्वति इति एवं भविष्यति । इह अपि तर्हि प्राप्नुतः : अतित्वं पचति । अत्यहं पचति इति । एवं तर्हि युष्मदि साधने अस्मदि साधने इति एवं भविष्यति । एवं च कृत्वा सः अपि अदोषः भवति यतुक्तं तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वातिति । अथ वा प्रथमः उत्सर्गः करिष्यते । तस्य युष्मदस्मदोः उपपदयोः मध्यमोत्तमौ अपवादौ भविष्यतः । तत्र युष्मद्गन्धः च अस्मद्गन्धः च अस्ति इति कृत्वा मध्यमोत्तमौ भविष्यतः । अथ इह कथं भवितव्यं । अत्वं त्वं सम्पद्यते त्वद्भवति मद्भवति इति । आहोस्वित्त्वद्भवसि मद्भवामि इति । त्वद्भवति मद्भवति इति एवं भवितव्यं । मध्यमोत्तमौ कस्मात्न भवतः । गौणमुख्ययोः मुख्ये सम्प्रत्ययः भवति । तत्यथा । गौः अनुबन्ध्यः अजः अग्नीष्होमीयः इति न बाहीकः अनुबध्यते । कथं तर्हि बाहीके वृद्ध्यात्त्वे भवतः । गौः तिष्ठति । गां आनय इति । अर्थाश्रये एततेवं भवति । यत्हि शब्दाश्रयं शब्दमात्रे तत्भवति । शब्दाश्रये च वृद्ध्यात्त्वे ।
पाणिनीयसूत्र १,४।१०९) कि.,३५४।१७-३५६।१३ रो.,४७८-४८४ (कात्यायन वार्तिक)परः सन्निकर्षः सम्हिता चेतद्रुतायां असंहितं (वार्तिकान्त)। परः सन्निकर्षः संहिता चेतद्रुतायां वृत्तौ संहितासञ्ज्ञा न प्राप्नोति । द्रुतायां एव हि परः सन्निकर्षो वर्णानां न अद्रुतायां । (कात्यायन वार्तिक)तुल्यः सम्निकर्षः(वार्तिकान्त) । तुल्यः सम्निकर्षः वर्णानां द्रुतमध्यमविलिम्बितासु वृत्तिषु । किङ्कृतः तर्थि विशेषः । (कात्यायन वार्तिक)वर्णकालभूयस्त्वं तु (वार्तिकान्त)। वर्णानां तु कालभूयस्त्वं । तत्यथा । हस्तिमशकयोः तुल्यः सन्निकर्षः प्राणिभूयस्त्वं तु । यदि एवं (कात्यायन वार्तिक)द्रुतायां तपरकरणे मध्यमविलिम्बितयोः उपसङ्ख्यानं कालभेदात्(वार्तिकान्त) । द्रुतायां तपरकरणे मध्यमविलिम्बितयोः उपसङ्ख्यानं कर्तव्यं । किं कारणं । कालभेदात। ये द्रुतायां वृत्तौ वर्णाः त्रिभागाधिकाः ते मध्यमायां ये मध्यमायां वृत्तौ वर्णाः त्रिभागाधिकास्ते विलिम्बितायां । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । सिद्धं तु अवस्थिताः वर्णाः वक्तुः चिराचिरवचनात्वृत्तयः विशिष्यन्ते इति । अथ वा शब्दाविरामः संहिता इति एतत्लक्षणं करिष्यते । (कात्यायन वार्तिक)शब्दाविरामे प्रतिवर्णं अवसानम्(वार्तिकान्त) । शब्दाविरामे प्रतिवर्णं अवसानसञ्ज्ञा प्राप्नोति । किं इदं प्रतिवर्णं इति । वर्णं वर्णं प्रति प्रतिवर्णं । येन एव यत्नेन एकः वर्णः उच्च्यार्यते विच्छिन्ने वर्णे उपसंहृत्य तं अन्यं उपादाय द्वितीयः प्रयुज्यते तथा तृतीयः तथा चतुर्थः । एवं तर्हि अनवकाशा संहितासञ्ज्ञा अवसानसञ्ज्ञां बाधिष्यते । अथ वा अवसानसञ्ज्ञायां प्रकर्षगतिः विज्ञास्यते : साधीयः यः विरामः इति । कः च साधीयः । यः शब्दार्थयोः विरामः । अथ वा ह्रादाविरामः संहा इति एतत्लक्षणं करिष्यते । (कात्यायन वार्तिक)ह्रादाविरामे स्पर्शाघोषसंयोगे असन्निधानातसंहितम्(वार्तिकान्त) । ह्रादाविरामे स्पर्शानां अघोषाणां संयोगे असम्निधानात्संहितासञ्ज्ञा न प्राप्नोति । कुक्कुटः पिप्पका पित्तं इति । किं उच्यते संयोगे इति । अथ यत्र एकः पचति इति एकः पूर्वपरयोः ह्रादेन प्रच्छाद्यते । तद्यथा । द्वयोः रक्तयोः वस्त्रयोः मध्ये शुक्लं वस्त्रं तद्गुणं उपलभ्यते । बदरपिटके रिक्तकः लोहकंसः तद्गुणः उपलभ्यते । (कात्यायन वार्तिक)एकेन तुल्यः सन्निधिः(वार्तिकान्त) । यथा एकः वर्णः ह्रादेन प्रच्छाद्यते एवं अनेकः अपि । अथ वा पौर्वापर्यं अकालव्यपेतं संहिता इति एतत्लक्षणं करिष्यते। (कात्यायन वार्तिक)पौर्वापर्यं अकालव्यपेतं संहिता चेत्पूर्वापराभावातसंहितं (वार्तिकान्त)। पौर्वापर्यं अकालव्यपेतं संहिता चेत्पूर्वापराभावात्संहितासञ्ज्ञा न प्राप्नोति । न हि वर्णानां पौर्वापर्यं अस्ति । किं कारणं । (कात्यायन वार्तिक)एकैकवर्णवर्तित्वात्वाचः उच्चरितप्रध्वंसित्वात्च वर्णानाम्(वार्तिकान्त) । एकैकवर्णवर्तिनी वाक। न द्वौ युगपतुच्चारयति । गौः इति यावत्गकारे वाक्वर्तते न औकारे न विसर्जनीये । यावतौकारे न गकारे न विसर्जनीये । यावत्विसर्जनीये न गकारे न औकारे । उच्चरितप्रध्वंसित्वात। उच्चरितप्रध्वंसिनः खलु अपि वर्णाः । उच्चरितः प्रध्वस्तः । अथ अपरः प्रयुज्यते । न वर्णः वर्णस्य सहायः । एवं तर्हि (कात्यायन वार्तिक)बुद्धौ कृत्वा सर्वाः चेष्ठाः कर्ता धीरः तत्वन्नीतिः शब्देन अर्थान्वाच्यान्दृष्ट्वा बुद्धौ कुर्यात्पौर्वापर्यं (वार्तिकान्त)। बुद्धिविषयं एव शब्दानां पौर्वापर्यं । इह यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति असमिनर्थे अयं शब्दः प्रयोक्त्वयः स्मिन्तावत्शब्दे अयं तावत्वर्णः ततः अयं ततः अयं इति ।
पाणिनीयसूत्र १,४।११०) कि.,३५६।१५-३५८।८ रो.,४८४-४८८ इदं विचार्यते अभावः अवसानलक्षणं स्याद्विरामः वा इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)अभावे अवसानलक्षणे उपर्यभाववचनं (वार्तिकान्त)। अभावेआवसानलक्षणे उपर्यभावग्रहणं कर्तव्यं । उपरि यः अभावः इति वक्तव्यं । पुरस्तातपि हि शब्दस्य अभावः तत्र मा भूतिति । किं च स्यात। रसः रथः । खरवसानयोर्विसर्जनीयः इति विसर्जनीयः प्रसज्येत । अस्तु तर्हि विरामः । (कात्यायन वार्तिक)विरामे विरामवचनम्(वार्तिकान्त) । यस्य विरामः विरामग्रहणं तेन कर्तव्यं । ननु च यस्य अपि अभावः तेन अपि अभावग्रहणं कर्तव्यं । परार्थं मम भविष्यति । अभावः लोपः । ततः अवसानं च इति । मम अपि तर्हि विरामग्रहणं परार्थं भविष्यति । विरामः लोपः अवसानं च इति । उपरि यः विरामः इति वक्तव्यं । पुरस्तातपि शब्दस्य विरामः तत्र मा भूतिति । किं च स्यात। रसः रथः । खरवसानयोर्विसर्जनीयः इति विसर्जनीयः प्रसज्येत । आरम्भपूर्वकः मम विरामः । अथ वा न इदं अवसानलक्षणं विचार्यते । किं तर्हि । सञ्ज्ञी । अभावः वसानसञ्ज्ञी स्यात्विरामः वा इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)अभावे अवसानसञ्ज्ञिनि उपर्यभाववचनम्(वार्तिकान्त) । अभावे अवसानसञ्ज्ञिन्युपर्यभावग्रहणं कर्तव्यं । उपरि यः भावः इति वक्तव्यं । पुरस्तातपि हि शब्दस्य अभावः तत्र मा भूतिति । किं च स्यात। रसः रथः । खरवसानयोर्विसर्जनीयः इति विसर्जनीयः प्रसज्येत । अस्तु तर्हि विरामः अवासनं । (कात्यायन वार्तिक)विरामे विरामवचनम्(वार्तिकान्त) । यस्य विरामः तेन विरामग्रहणं कर्तव्यं । ननु च यस्य अपि अभावः तेन अपि अभावग्रहणं कर्तव्यं । परार्थं मम भविष्यति । अभावः लोपः । ततः अवसानं च इति । मम अपि तर्हि विरामग्रहणं परार्थं भविष्यति । विरामः लोपः अवसानं च इति । उपरि यः विरामः इति वक्तव्यं । ननु च यस्य अपि अभावः तेन अपि अभावग्रहणं कर्तव्यं । परार्थं मम भविष्यति । अभावः लोपः । ततः अवसानं च इति । मम अपि तर्हि विरामग्रहणं परार्थं भविष्यति । विरामः लोपः अवसानं च इति । उपरि यः विरामः इति वक्तव्यं । ननु च उक्तं आरम्भपूर्वकः इति । न अवश्यं अयं रमिः प्रवृत्तौ एव वर्तते । किं तर्हि । अप्रवृत्तौ अपि । तत्यथा । उपरतानि अस्मिन्कुले व्रतानि । उपरतः स्वाध्यायः इति । न च तत्र स्वाध्यायः भूतपूर्वः भवति न अपि व्रतानि । (कात्यायन वार्तिक)भावाविरामभावित्वात्शब्दस्य वसानलक्षणं न(वार्तिकान्त) । भावाविरामभावित्वात्शब्दस्य अवसानलक्षणं न उपपद्यते । किं इदं भावाविरामभावित्वातिति । भावस्य अविरामः भावाविरामः भावाविरामेण भवति इति भावाविरामभावी भावाविरामभाविनः भावो भावाविरामभावित्वं । अपरः आह । भावभावित्वादविरामभावित्वात्च शब्दस्य अवसानलक्षणं न उपपद्यते इति । (कात्यायन वार्तिक)तत्परः इति वा वर्णस्य अवसानं (वार्तिकान्त)। विरामपरः वर्णः वसानसञ्ज्ञः भवति इति वक्तव्यं । (कात्यायन वार्तिक)वर्णः अन्त्यः वा अवसानम्(वार्तिकान्त) । अथ वा व्यक्तं एव पठितव्यं अन्त्यः वर्णः वसानसञ्ज्ञः भवति इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । (कात्यायन वार्तिक)संहितावसानयोः लोकविदितत्वात्सिद्धम्(वार्तिकान्त) । सम्हिता अवसानं इति लोकविदितौ एतौ अर्थौ । एवं हि कः चित्कं चिदधीयानं आह : शन्नोदेवीयं सम्हितया अधीष्व इति । सः तत्र परमसन्निकर्षं अधीते । अपरः आह : केन वस्यसि इति । सः आह : अकारेण इकारेण उकारेण इति । एवं एतौ लोकविदिततौ अर्थौ । तयोः लोकविदितत्वात्सिद्धं इति ।
.
अध्याय ३
(पाणिनीयसूत्र ३,१।१) कि.,१।२-३।१३ रो.,३-१२ अधिकारेण इयं प्रत्ययसञ्ज्ञा क्रियते । सा प्रकृत्युपपदोपाधीनां अपि प्राप्नोति । तस्याः प्रतिषेधः वक्तव्यः । प्रकृति । गुप्तिज्किभ्यः सन। उपपद । स्तम्बकर्णयोः रमजपोः । उपाधि । हरतेः दृतिनाथयोः पशौ । एतेषां प्रतिषेधः वक्तव्यः । किं च स्यात्यदि एतेषां अपि प्रत्ययसञ्ज्ञा स्यात। परत्वं आद्युदात्तत्वं अङ्गसञ्ज्ञा इति एते विधयः प्रसज्येरन। अतः उत्तरं पठति । (कात्यायन वार्तिक)प्रत्ययाधिकारे प्रकृत्युपपदोपाधीनां अप्रतिषेधः(वार्तिकान्त) । अधिकारेण अपि प्रत्ययसञ्ज्ञायां सत्यां प्रकृत्युपपदोपाधीनां अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । प्रत्ययसञ्ज्ञा कस्मात्न भवति । (कात्यायन वार्तिक)निमित्तस्य निमित्तिकार्यार्थत्वातन्यत्र अपि(वार्तिकान्त) । निमित्तानि हि निमित्तिकार्यार्थानि भवन्ति । किं पुनः निमित्तं कः वा निमित्ती । प्रकृत्युपपओपाधयः निमित्तं प्रत्ययः निमित्ती । अन्यत्र अपि च एषः न्यायः दृष्टः । क्व अन्यत्र । लोके । तत्यथा । बहुषु आसीनेषु कः चित्कं चित्पृच्छति । कतमः देवदत्तः । कतरः यज्ञदत्तः इति । सः तस्मै आचष्टे । यः अश्वे यः पीठे इति उक्ते निमित्तस्य निमित्तिकार्यार्थत्वातध्यवस्यति अयं देवदत्तः अयं यज्ञ्दत्त इति । न इदानीं अश्वस्य पीठस्य वा देवदत्तः इति सञ्ज्ञा भवति । किं पुनः निमित्तं कः वा निमित्ती । निर्ज्ञातः अर्थः निमित्तं अनिर्ज्ञातार्थः निमित्ती । इह च प्रत्ययः अनिर्ज्ञातः प्रकृत्युपपदोपाधयः निर्ज्ञाताः । क्व । धातूपदेशे प्रातिपदिकोपदेशे च । ते निर्ज्ञाताः निमित्तत्वेन उपादीयन्ते । (कात्यायन वार्तिक)प्रधाने कार्यसम्प्रत्ययात्वा सिद्धं (वार्तिकान्त)। अथ वा प्रधाने कार्यसम्प्रत्ययः भविष्यति । किं च प्रधानं । प्रत्ययः । तत्यथा । बहुषु यात्सु कः चित्कं चित्पृच्छति । कः याति इति । सः आह राजा इति । राजा इति उक्ते प्रधाने कार्यसम्प्रत्ययात्यः पृच्छति यः च आचष्टे उभयोः सम्प्रत्ययः भवति । किङ्कृतं पुनः प्राधान्यं । अर्थकृतं । यथा पुनः लोके अर्थकृतं प्राधान्यं शब्दस्य इदानीं किङ्कृतं प्राधान्यं । शब्दस्य अपूर्वोपदेशः प्राधान्यं । यस्य अपूर्वोपदेशः सः प्रधानं । प्रकृत्युपपदोपाधयः च उपदिष्टाः । क्व । धातूपदेशे प्रातिपदिकोपदेशे च । यदि एव निमित्तस्य निमित्तिकार्यार्थत्वातथ अपि प्रधाने कार्यसम्प्रत्ययात्प्रकृत्युपपदोपाधीनां न भवति विकारागमानां तु प्राप्नोति । हनः त च । त्रपुजतुनोः षुकिति । एतेषां हि अपूर्वोपदेशात्प्राधान्यं । निमित्तिनः च एते । (कात्यायन वार्तिक)विकारागमेषु च परविज्ञानात्(वार्तिकान्त) । विकारागमेषु च परविज्ञानात्प्रत्ययसञ्ज्ञा न भविष्यति । प्रत्ययः परः बह्वति इति उच्यते । न च विकारागमाः परे सम्भवन्ति । किं पुनः कारणं समाने अपूर्वोपदेशे प्रत्ययः परः विकारागमाः न परे । (कात्यायन वार्तिक)षष्ठीनिर्दिष्टस्य च तद्युक्तत्वात्(वार्तिकान्त) । षष्ठीनिर्दिष्तं विकारागमयुक्तं पञ्चमीनिर्द्ष्टात्च प्रत्ययः विधीयते । (कात्यायन वार्तिक)प्रत्ययविधानानुपपत्तिः तु(वार्तिकान्त) । प्रत्ययविधिः तु न उपपप्द्यते । क्व । यत्र विकारागमाः विधीयन्ते । हनः त च । तर्पुजतुनोः षुक। किं पुनः कारणं न सिध्यति । विकारागमयुक्तत्वातपञ्चमीनिर्दिष्टत्वात्च । (कात्यायन वार्तिक)तस्मात्तत्र पञ्चमीनिर्देशात्सिद्धम्(वार्तिकान्त) । तस्मात्तत्र पञ्चमीनिर्देशः कर्तव्यः । न कर्तव्यः । इह तावत्हनः ते इति । धातोः इति वर्तते। इह त्रपुजतुनोः षुकिति । प्रातिपदिकातिति वर्तते । यदि एवं हनः त च धातोः क्यप्भवति इति धातुमात्रात्क्यप्प्राप्नोति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न धातुमात्रात्क्यप्भवति इति यतयं एतिस्तुशस्वृदृजुषः क्यपिति परिगणनं करोति । अथ वा हन्तिं एव अत्र धातुग्रहणेन अभिसम्भन्त्स्यामः । हनः तः भवति । धातोः क्यप्भवति । कस्मात। हन्तेः इति । (कात्यायन वार्तिक)अर्थाश्रयत्वात्वा(वार्तिकान्त) । अथ वा अर्थाश्रयः प्रत्ययविधिः । यः तं अर्थं सम्प्रत्याययति सः प्रत्ययः । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । प्रत्ययः इति महती सञ्ज्ञा क्रियते । सञ्ज्ञा च नाम यतः न लघीयः । कुतः एतत। लघ्वर्थं हि सञ्ज्ञाकरणं । तत्र महत्याः सञ्ज्ञायाः करणे एतत्प्रयोजनं अन्वर्थसञ्ज्ञा यथा विज्ञायेत । प्रत्याययिति इति प्रत्ययः । यदि प्रत्याययिति इति प्रत्ययः अविकादीनां प्रत्ययसञ्ज्ञा न प्राप्नोति । न हि ते किं चित्प्रत्याययन्ति । एवं तर्हि प्रत्याय्यते प्रत्ययः इति । एवं अपि सनादीनां न प्राप्नोति । एवं तरि उभयसाधनः अयं कर्तृसाधनः कर्मसाधनः च । एवं अपि कुतः एतत्समाने अपूर्वोपदेशे त्रापुषं जातुषं इति अत्र अकारः तं अर्थं सम्प्रत्याययति न पुनः षकारः इति । अन्यत्र अपि अकारेण तस्य अर्थस्य वचनात्मन्यामहे अकारः तं अर्थं सम्प्रत्याययतिन षकारः इति । क्व अन्यत्र । बिल्वादिभ्यः अण। बैल्वः ।
(पाणिनीयसूत्र ३,१।२) कि.,३।१५-६।२ रो.,१२-१९ किमर्थं इदं उच्यते । परः यथा स्यात। पूर्वः मा भूतिति । न एततस्ति प्रयोजनं । यं इच्छति पूर्वं आह तं : विभाषा सुपः बहुच्पुरस्तात्तु इति । मध्ये तर्हि मा भूतिति । मध्ये अपि यं इच्छति आह तं : अव्ययसर्वनाम्नां अकच्प्राक्टेः इति । यः इदानीं अन्यः प्रत्ययः शेषः सः अन्तरेण वचनं परः एव भविष्यति इति ना अर्थः परवचनेन । एवं अपि येषां एव प्रत्ययानां देशः नियम्यते ते एव नियतदेशाः स्युः । यः इदानीं अनियतदेशः सः कदा चित्पूर्वः कदा चित्परः कदा चित्मध्ये स्यात। तत्यथा मातुः वत्सः कदा चितग्रतः कदा चित्पृष्ठतः कदा चित्पार्श्वतः भवति । परः एव यथा स्यातिति एवमर्थं परवचनं । (कात्यायन वार्तिक)परवचनं अनर्थकं पञ्चमीनिर्दिष्टत्वात्परस्य(वार्तिकान्त) । परग्रहणं अनर्थकं । किं कारणं । पञ्चमीनिर्दिष्टत्वात्परस्य कार्यं उच्यते । तत्यथा द्व्यन्तरुपसर्गेभ्यः अपः ईत। विषमः उपन्यासः । सतः तत्र परस्य कार्यं उच्यते । इह इदानीं कस्य सतः परस्य कार्यं भवितुं अर्हति । इह अपि सतः एव। कथं । परत्वं स्वाभाविकं । अथ वाचनिके परत्वे सति अर्थः स्यात्परग्रहणेन । वाचनिके च न अर्थः । एतत्हि तस्य परस्य कार्यं यतसौ परः स्यात। अथ वा यतस्य परस्य सतः सञ्ज्ञा स्यात। यत्र तर्हि पञ्चमी न अस्ति तदर्थं अयं योगः वक्तव्यः । क्व च पञ्चमी न अस्ति । यत्र विकारागमाः शिष्यन्ते । क्व च विकारागमाः शिष्यन्ते । हनः त च । त्रपुजतुनोः षुकिति । (कात्यायन वार्तिक)विकारागमेषु च उक्तम्(वार्तिकान्त) । किं उक्तं । प्रत्ययविधानानुपपत्तिः तु । तस्मात्तत्र पञ्चमीनिर्देशात्सिद्धं इति । (कात्यायन वार्तिक)अत्यन्तापरदृष्टानां वा परभूतलोपार्थम्(वार्तिकान्त) । अत्यन्तापरदृष्टानां तर्हि परभूतलोपार्थं परग्रहणं कर्तव्यं । ये एते अत्यन्तापरदृष्टाः क्विबादयः लुप्यन्ते तेषां परभूतानां लोपः यथा स्यात। अपरभूतानां मा भूत। किं पुनः अत्यन्तापरदृष्टानां परभूतलोपवचने प्रयोजनं । किति णिति इति कार्याणि यथा स्युः इति । एततपि न अस्ति प्रयोजनं । आचार्यप्रवृत्तिः ज्ञापयति अत्यन्तापरदृष्टाः परभूताः लुप्यन्ते इति यतयं तेषु कादीननुबन्धानासजति । कथं कृत्वा ज्ञापकं । अनुबन्धासञ्जने एतत्प्रयोजनं किति णिति इति कार्याणि यथा स्युः इति । यदि च अत्र अत्यन्तापरदृष्टाः परभूताः लुप्यन्तेततः अनुबन्धासञ्जनं अर्थवत्भवति । (कात्यायन वार्तिक)प्रयोगनियमार्थं वा(वार्तिकान्त) । प्रयोगनियमार्थं तर्हि परग्रहणं कर्तव्यं । परभूतानां प्रयोगः यथा स्यात। अपरभूतानां मा भूतिति । अस्ति पुनः किं चितनिष्टं यदर्थः नियमः स्यात। अस्ति इति आह । (कात्यायन वार्तिक)प्रकृतेः अर्थाभिधाने प्रत्ययादर्शनात्(वार्तिकान्त)। प्रकृतेः अर्थाभिधाने अप्रत्ययिकाः दृश्यन्ते । क्व सः देवदत्तः क्व सः यज्ञ्दत्तः बभ्रुः मण्डुः लमकः इति । बाभ्रव्यः माण्डव्यः लामकायनः इति प्रयोक्तव्ये बभ्रुः मण्डुः लमकः इति प्रयुज्यते । (कात्यायन वार्तिक)द्वयसजादीनां च केवलदृष्टत्वात्(वार्तिकान्त) । द्वयसजादीनां च केवलानां प्रयोगः दृश्यते । किं अस्य द्वयसं । किं अस्य मात्रं । का अद्य तिथी इति । द्वयसजादयः वै वृत्तिजसदृशाः अवृत्तिजाः यथा बहुः तथा । (कात्यायन वार्तिक)वावचने च अनुत्पत्त्यर्थं (वार्तिकान्त)। वावचने च अनुत्पत्त्यर्थं परग्रहणं कर्तव्यं । वा वचनेन अनुत्पत्तिः यथा स्यात। अथ क्रियमाणे अपि वै परग्रहणे कथं इव वावचनेन अनुत्पत्तिः लभ्या । क्रियमाणे परग्रहणे वावचनेन वा परः इति एततभिसम्बध्यते । अक्रियमाणे पुनः परग्रहणे वावचनेन किं अन्यत्शक्यं अभिसम्बन्धुं अन्यततः सञ्ज्ञायाः । न च सञ्ज्ञायाः भावाभावौ इष्येते । (कात्यायन वार्तिक)वावचने च उक्तम्(वार्तिकान्त) । किं उक्तं । वावचनानर्थक्यं च तत्र नित्यत्वात्सनः इति । प्रयोगनियमार्थं एव तर्हि परग्रहणं कर्तव्यं । अथ एतस्मिन्प्रयोगनियमे सति किं अयं प्रत्ययहियमः । प्रकृतिपरः एव प्रत्ययः प्रयोक्तव्यः अप्रकृतिपरः न इति । आहोस्वित्प्रकृतिनियमः । प्रत्ययपरा एव प्रकृतिः प्रयोक्तव्या अप्रत्यया न इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)तत्र प्रत्ययनियमे प्र्कृतिनियमाभावः(वार्तिकान्त) । तत्र प्रत्ययनियमे सति प्र्कृतिनियमः न प्राप्नोति । अप्रत्ययिकायाः प्रकृतेः प्रयोगः प्राप्नोति । क्व सः देवदत्तः क्व सः यज्ञ्दत्तः बभ्रुः मण्डुः लमकः इति । अस्तु तर्हि प्रकृतिनियमः । (कात्यायन वार्तिक)प्रकृतिनियमे प्रत्ययानियमः(वार्तिकान्त) । प्रकृतिनियमे सति प्रत्ययस्य नियमः न प्राप्नोति । किं अस्य द्वयसं । किं अस्य मात्रं । का अद्य तिथी इति । अप्रकृतिकस्य प्रत्ययस्य प्रयोगः प्राप्नोति । (कात्यायन वार्तिक)सिद्धं तु उभयनियमात्(वार्तिकान्त) । सिद्धं एतत। कथं । उभयनियमात। उभयनियमः अयं । प्रकृतिपरः एव प्रत्ययः प्रयोक्तव्यः प्रत्ययपरा एव च प्रकृतिः इति । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । परग्रहणसामर्थ्यात। अन्तरेण अपि परग्रहणं स्यातयं परः । परः एव यथा स्यातिति एवमर्थं परग्रहणं ।
(पाणिनीयसूत्र ३,१।३।१) कि.,६।४-१४ रो.,२०-२१ किमर्थं इदं उच्यते । आद्युदात्तः यथा स्यात। अन्तोदात्तः मा भूतिति । न एततस्ति प्रयोजनं । यं इच्छति अन्तोदात्तं करोति तत्र चकारं अनुबन्धं आह च चितः अन्तः उदात्तः इति । मध्योदात्तः तर्हि मा भूतिति । मद्योदात्तं यं इच्छति तत्र रेफं अनुबन्धं करोति आह च उपोत्तमं रिति इति । अनुदात्तः तर्हि मा भूतिति । अनुदात्तं अपि यं इच्छति तत्र पकारं अनुबन्धं करोति आह च अनुदात्तौ सुप्पितौ इति । स्वरितः तर्हि मा भूतिति । स्वरितं अपि यं इच्छति करोति तत्र तकारं अनुबन्धं आह च तित्स्वरितं इति । यः इदानीं अतः अन्यः प्रत्ययः शेषः सः अन्तरेण अपि वचनं आद्युदात्तः एव भविष्यति इति न अर्थः आद्युदात्तवचनेन । एवं अपि येषां एव प्रत्ययानां स्वरः नियम्यते ते एव नियतस्वराः स्युः । यः इदानीं अनियतस्वरः सः कदा चिताद्युदात्तः कदा चितन्तोदात्तः कदा चित्मध्योदात्तः कदा चितनुदात्तः कचा चित्स्वरितः स्यात। आद्युदात्तः एव यथा स्यातिति एवं अर्थं इदं उच्यते ।
(पाणिनीयसूत्र ३,१।३।२) कि.,६।१५-९।१४ रो.,२१-२७ अथ किमर्थं प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वं उच्यते अनुदात्तत्वं च न यत्र एव अन्यः स्वरः तत्र एव अयं उच्येत । ञ्निति आदिः नित्यं प्रत्ययस्य च । अदुपदेशात्लसार्वधातुकं अनुदात्तं सुप्पितौ च इति । तत्र अयं अपि अर्थः द्विः आद्युदात्तग्रहणं द्विः च अनुदात्तग्रहणं न कर्तव्यं भवति । प्रकृतं अनुवर्तते । अतः उत्तरं पठति : (कात्यायन वार्तिक)आद्युदात्तत्वस्य प्रत्ययसञ्ज्ञासन्नियोगे प्रयोजनं यस्य सञ्ज्ञाकरणं तस्य आद्युदात्तार्थम्(वार्तिकान्त) । आद्युदात्तत्वस्य प्रत्ययसञ्ज्ञासन्नियोगकरणे एतत्प्रयोजनं यस्य सञ्ज्ञाकरणं तस्य आद्युदात्तत्वं यथा स्यात। (कात्यायन वार्तिक)असन्नियोगे हि यस्मात्सः तदादेः आद्युदात्तत्वं तदन्तस्य च अनुदात्तत्वम्(वार्तिकान्त) । अक्रियमाणे हि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे प्रत्ययग्रहणे यस्मात्सः तदादेः ग्रहणं भवति इति तदादेः आद्युदात्तत्वं प्रसज्येत तदन्तस्य च अनुदात्तत्वं । अथ क्रियमाणे अपि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे अनुदात्तत्वे च कस्मातेव तदादेः आद्युदात्तत्वं न भवति तदन्तस्य च अनुदात्तत्वं । उत्पन्नः प्रत्ययः प्रत्ययाश्रयाणां कार्याणां निमित्तं भवति न उत्पद्यमानः । तत्यथा घटः कृतः घटाश्रयाणां कार्याणां निमित्तं भवति न क्रियमाणः । (कात्यायन वार्तिक)न वा प्रकृतेः आद्युदात्तवचनं ज्ञापकं तदादेः अग्रहणस्य(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । यतयं ञ्निति आदिः नित्यं इति प्रकृतेः आद्युदात्तत्वं शास्ति तत्ज्ञापयति आचार्यः न तदादेः आद्युदात्तत्वं भवति इति । तदन्तस्य तर्हि अनुदात्तत्वं प्राप्नोति । (कात्यायन वार्तिक)प्रकृतिस्वरस्य च विधानसामर्थ्यात्प्रत्ययस्वराभावः (वार्तिकान्त)। यतयं धातोः अन्तः प्रातिपदिकस्य अन्तः इति प्रकृतेः अन्तोदात्तत्वं शास्ति तत्ज्ञापयति आचार्यः न तदन्तस्य अनुदात्तत्वं भवति इति । कथं कृत्वा ज्ञापकं । यत्र हि अनुदात्तःप्रत्ययः प्रकृतिस्वरः तत्प्रयोजयति । (कात्यायन वार्तिक)आगमानुदात्तार्थं वा(वार्तिकान्त) । आगमानुदात्तार्थं तर्हि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वं उच्यते । प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे कृते आगमाः अनुदात्ताः यथा स्युः इति । (कात्यायन वार्तिक)न वा आगमस्य अनुदात्तवचनात्(वार्तिकान्त) । न वा एततपि प्रयोजनं अस्ति । किं कारणं । आगमस्य अनुदात्तवचनात। आगमाः अनुदात्ताः भवन्ति इति वक्ष्यामि । के पुनः आगमाः अनुदात्तत्वं प्रयोजयन्ति । इट। लविता । इट्तावत्न प्रयोजयति । इदं इह सम्प्रधार्यं । इट्क्रियतां आद्युदात्तत्वं इति । किं अत्र कर्तव्यं । परत्वातिडागमः । नित्यं आद्युदात्तत्वं । कृते अपि इटि प्राप्नोति अकृते अपि प्राप्नोति । इटपि नित्यः । कृते अपि आद्युदात्तत्वे प्राप्नोति अकृते अपि प्राप्नोति । अनित्यः इट। अन्यथास्वरस्य कृते आद्युदात्तत्वे प्रप्नोति अन्यथास्वरस्य अकृते । स्वरभिन्नस्य च प्राप्नुवन्विधिः अनित्यः भवति । आद्युदात्तत्वं अपि अनित्यं । अन्यस्य कृते इटि प्राप्नोति अन्यस्य अकृते । शब्दान्तरस्य च प्राप्नुवन्विधिः अनित्यः भवति । उभयोः अनित्ययोः परत्वातिडागमः । अन्तरङ्गं तर्हि आद्युदात्तत्वं । का अन्तरङ्गता । उत्पत्तिसन्नियोगेन आद्युदात्तत्वं उच्यते । उत्पन्ने प्रत्यये प्रकृतिप्रत्ययौ आश्रित्य अङ्गस्य इडागमः । आद्युदात्तत्वं अपि न अन्तरङ्गं यावता प्रत्यये आश्रीयमाणे प्रकृतिः अपि आश्रिता भवति । अन्तरङ्गं एव आद्युदात्तत्वं । कथं । इदानीं एव हि उक्तं न प्रत्ययस्वरविधौ तदादिविधिः भवति इति । सीयुट्तर्हि प्रयोजयति । (कात्यायन वार्तिक)अवचने हि सीयुडादेः आद्युदात्तत्वं (वार्तिकान्त)। अक्रियमाणे हि आगमानुदात्तत्वे क्रियमाणे अपि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे सीयुडादेः लिङः आद्युदात्तत्वं प्रसज्येत । लविषीय पविषीय । तत्तर्हि वक्तव्यं आगमाः अनुदात्ताः भवन्ति इति । न वक्तव्यं । आचार्यप्रवृत्तिः ज्ञापयति आगमाः अनुदात्ताः भवन्ति इति यतयं यासुट्परसमैपदेषु उदात्तः ङित्च इति आह । न एततस्ति ज्ञापकं वक्ष्यति एतत। यासुटः ङिद्वचनं पिदर्थं उदात्तवचनं च इति । शक्यं अनेन वक्तुं : यासुट्परस्मैपदेषु भवति अपित्च लिङ्भवति इति । सः अयं एवं लघीयसा न्यासेन सिद्धे सति यत्गरीयांसं यत्नं आरभते तत्ज्ञपयति आचार्यः आगमाः अनुदात्ताः भवन्ति इति । शक्यं इदं लब्धुं । यदि एव वचनातथ अपि ज्ञापकातागमाः अनुदात्ताः भवन्ति । आगमैः तु व्यवहितत्वाताद्युदात्तत्वं न प्राप्नोति । आगमाः अविद्यमानवत्भवन्ति इति वक्ष्यामि । यदि आगमाः अविद्यमानवत्भवन्ति इति उच्यते लविता अवादेशः न प्राप्नोति । स्वरविधौ इति वक्ष्यामि । एवं अपि लविता उदात्तातनुदात्तस्य स्वरितः इति स्वरितः न प्राप्नोति । षाष्ठिके स्वरे इति वक्ष्यामि । एवं अपि शिक्षितः निष्ठा च द्व्यचनातितेषः स्वरः प्राप्नोति । प्रत्ययस्वरविधौ इति वक्ष्यामि । तत्तर्हि वक्तव्यं अविद्यमानवत्भवन्ति इति । न वक्तव्यं । आचार्यप्रवृत्तिः ज्ञापयति आगमाः अविद्यमानवत्भवन्ति इति यतयं यासुट्परसमैपदेषु उदात्तः ङित्च इति आह । न एततस्ति ज्ञापकं । वक्ष्यति एतत। यासुटः ङिद्वचनं पिदर्थं उदात्तवचनं च इति । शक्यं अनेन वक्तुं । यासुट्परस्मैपदेषु भवति अपित्च लिङ्भवति इति । सः अयं एवं लघीयसा न्यासेन सिद्धे सति यत्गरीयांसं यत्नं आरभते तत्ज्ञपयति आचार्यः आगमाः अविद्यमानवत्भवन्ति इति । (कात्यायन वार्तिक)आद्युदात्तस्य वा लोपार्थम्(वार्तिकान्त) । आद्युदात्तस्य तर्हि लोपार्थं प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वं उच्यते । प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे कृते उदात्तनिवृत्तिस्वरः सिद्धः भवति : स्रौघ्नी माथुरी । अत्र हि परत्वात्लोपः प्रत्यय्स्वरं बाधेत । (कात्यायन वार्तिक)न वा बहिरङ्गलक्षणत्वात्(वार्तिकान्त) । न वा एतत्प्रयोजयति । किं कारणं । बहिरङ्गलक्षणत्वात। बहिरङ्गलक्षणः लोपः अन्तरङ्गलक्षणः स्वरः । असिद्धं बहिरङ्गं अन्तरङ्गे । अवश्यं च एषा परिभाषा आश्रयितव्या । (कात्यायन वार्तिक)अवचने हि ञिन्नित्कित्सु अतिप्रसङ्गः(वार्तिकान्त) । अनाश्रीयमाणायां अस्यां परिभाषायां क्रियमाणे अपि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वेञिन्नित्कित्सु अतिप्रसङ्गः स्यात। औत्सी कंसिकी आत्रेयी इति । अत्र हि परत्वात्लोपः ञिन्नित्कित्स्वरान्बाधेत । न एषः दोषः । ञिन्नित्कित्स्वराः प्रत्यय्स्वरापवादाः । न च अपवादविषये उत्सर्गः भिनिविशते । पूर्वं हि अपवादाः अभिनिविशन्ते पश्चातुत्सर्गः । प्रकल्प्य वा अपवादविषयं ततः उत्सर्गः अभिनिविशते । न तावतत्र कदा चित्प्रत्ययाद्युदात्तत्वं भवति । अपवादान्ञिन्नित्कित्स्वरान्प्रतीक्षते । कंसिक्यां भूयानपहारः । अन्यस्य अत्र उदात्तत्वं अन्यस्य लोपः । आदेः उदात्तत्वं अन्त्यस्य लोपः । इदं तर्हि आत्रेयी इति । अत्र हि परत्वात्लोपः कित्स्वरं बाधेत । तस्मातेषा परिभाषा आश्रयितव्या । एतस्यां च सत्यां शक्यं प्रत्ययसन्नियोगेन आद्युदात्तत्वं अवक्तुं ।
(पाणिनीयसूत्र ३,१।३।३) कि.,९।१५-१०।२० रो.,२७-३० (कात्यायन वार्तिक)प्रत्ययाद्युदात्तत्वात्धातोः अन्तः(वार्तिकान्त) । प्रत्ययाद्युदात्तत्वात्धातोः अन्तः इति एतत्भवति विप्रतिषेधेन । प्रत्ययाद्युदात्तत्वस्य अवकाशः यत्र अनुदात्ता प्रकृतिः । समत्वं सिमत्वं । धातोः अन्तः इति अस्य अवकाशः यत्र अनुदात्तः प्रत्ययः । पचति पठति । इह उभयं प्राप्नोति । गोपायति धपायति । धातोः अन्तः इति एतत्भवति विप्रतिषेधेन। (कात्यायन वार्तिक)पित्स्वरात्तित्स्वरः टापि (वार्तिकान्त)। पित्स्वरात्तित्स्वरः टापि भवति विप्रतिषेधेन । पित्स्वरस्य अवकाशः । पचति पठति । तित्स्वरस्य अवकाशः । कार्यं हार्यं । इह उभयं प्राप्नोति । कार्या हार्या । तित्स्वरः भवति विप्रतिषेधेन । (कात्यायन वार्तिक)चित्स्वरः चापि पित्स्वरात्(वार्तिकान्त)। चित्स्वरः चापि पित्स्वरात्भवति विप्रतिषेधेन । चित्स्वरस्य अवकाशः । चलनः चोपनः । पित्स्वरस्य सः एव । इह उभयं प्राप्नोति । आम्बष्ठ्या सौवीर्या । चित्स्वरः भवति विप्रतिषेधेन । (कात्यायन वार्तिक)न वा आद्युतात्तस्य प्रत्ययसञ्ज्ञासन्नियोगात्(वार्तिकान्त)। न वा अर्थः विप्रतिषेधेन । किं कारणं । आद्युतात्तस्य प्रत्ययसञ्ज्ञासन्नियोगात। प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे कृते सतिशिष्टत्वात्धातुस्वरः भविष्यति । अयं च अपि अयुक्तः विप्रतिषेधः पित्स्वरस्य तित्स्वरस्य च । किं कारणं । (कात्यायन वार्तिक)टापि स्वरितेनैकादेशः(वार्तिकान्त) । टापि स्वरितेन एकादेशः भवति । इदं इह सम्प्रधार्यं । स्वरितत्वं क्रियतां एकादेशः इति । किं अत्र कर्तव्यं । परत्वात्स्वरितत्वं । नित्यः एकादेशः । कृते अपि स्वरितत्वे प्राप्नोति अकृते अपि प्राप्नोति । । स्वरितत्वं अपि नित्यं । कृते अपि एकादेशे प्राप्नोति अकृते अपि । अनित्यं स्वरितत्वं । अन्यस्य कृते एकादेशे प्राप्नोति अन्यस्य अकृते । शब्दान्तरस्य च प्राप्नुवन्विधिः अनित्यः भवति । एकादेशः अपि अनित्यः । अन्यथास्वरस्य कृते स्वरितत्वे प्राप्नोति अन्यथास्वरस्य अकृते । स्वरभिन्नस्य च प्राप्नुवन्विधिः अनित्यः भवति । अन्तरङ्गः तर्हि एकादेशः । का अन्तरङ्गता । वर्णौ आश्रित्य एकादेशः पदस्य स्वरितत्वं । स्वरितत्वं अपि अन्तरङ्गं । कथं । वक्ष्यति एतत। पदग्रहणं परिमाणार्थं इति । उभयोः अन्तरङ्गयोः परत्वात्स्वरितत्वं । स्वरितत्वे कृते आन्तर्यतः स्वरिदानुदात्तयोः स्वरितः भविष्यति । अयं च अपि अयुक्तः विप्रतिषेधः पित्स्वरस्य चित्स्वरस्य च । किं कारणं । (कात्यायन वार्तिक)चापि चित्करणात्(वार्तिकान्त) । चापि चित्करणसामर्थ्यातन्तोदात्तत्वं भविष्यति ।
(पाणिनीयसूत्र ३,१।५) कि.,१०।२२-११।९ रो.,३०-३१ गुपादिषु अनुबन्धकरणं किमर्थं । (कात्यायन वार्तिक)गुपादिषु अनुबन्धकरणं आत्मनेपदार्थं (वार्तिकान्त)। गुपादिषु अनुबन्धाः क्रियन्ते आत्मनेपदं यथा स्यात। क्रियमाणेषु अपि अनुबन्धेषु आत्मनेपदं न एव प्राप्नोति । किं कारणं । सना व्यवहितत्वात। पूर्ववत्सनः इति एवं भविष्यति । पूर्ववत्सनः इति उच्यते । न चे एतेभ्यः प्राक्सनः आत्मनेपदं न अपि परस्मैपदं पश्यामः । एवं तर्हि अनुबन्धकरणसामर्थ्यात्भविष्यति । अथ वा अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भविष्यति । तत्यथा गोः सक्थनि कर्णे वा कृतं लिङ्गं गोः विशेषकं भवति । यदि अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति जुगुप्सयति मीमांसयति इति अत्र अपि प्राप्नोति । अवयवे कृतं लिङ्गं कस्य समुदायस्य विशेषकं भवति । यं समुदायं यः अवयवः न व्यभिचरति । सनं च न व्हभिचरति । णिचं पुनः व्यभिचरति । तत्यथा तत्यथा गोः सक्थनि कर्णे वा कृतं लिङ्गं गोः विशेषकं भवति न गोमण्डलस्य ।
(पाणिनीयसूत्र ३,१।६) कि.,११।११-२५ रो.,३१-३२ (कात्यायन वार्तिक)अभ्यासदीर्घत्वे अवर्णस्य दीर्घप्रसङ्गः(वार्तिकान्त) । अभ्यासदीर्घत्वे अवर्णस्य दीर्घत्वं प्राप्नोति । मीमांसते । ननु चे इत्त्वे कृते दीर्घत्वं भविष्यति । कथं पुनः उत्पत्तिसन्नियोगेन दीर्घत्वं उच्यमानं इत्त्वं प्रतीक्षते । अथ कथं अभ्यासं प्रतीक्षते । वचनातभ्यासं प्रतीक्षते । इत्त्वं पुनः न प्रतीक्षते । (कात्यायन वार्तिक)न वा अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात्(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात। अभ्यासविकारेषु अपवादाः उत्सर्गान्न बाधन्ते इति एवं दीर्घत्वं उच्यमानं इत्त्वं न बाधिष्यते । अथ वा मान्बधदान्शन्भ्यः ई च अभ्यासस्य इति वक्ष्यामि । एवं अपि हलादिशेषापवादः ईकारः प्राप्नोति । ई च अचः इति वक्ष्यामि । अथ वा मान्बधदान्शन्भ्यः दीर्घः च इतः अभ्यासस्य इति वक्ष्यामि । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं अभ्यासदीर्घत्वे अवर्णस्य दीर्घप्रसङ्गः इति । परिहृतं एतत्न वा अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वातिति । अथ वा न एवं विज्ञायते दीर्घः च अभ्यासस्य इति । कथं तर्हि । दीर्घः च आभ्यासस्य इति । किं इदं आभ्यासस्य इति । अभ्यासविकारः आभ्यासः तस्य इति ।
(पाणिनीयसूत्र ३,१।७।१) कि.,१२-१४।७ रो.,३३-३९ धातोः इति किमर्थं । प्रकर्तुं ऐच्छत्प्राचिकीर्षत। सोपसर्गात्मा भूत। (कात्यायन वार्तिक)कर्मग्रहणात्सन्विधौ धातुग्रहणानर्थक्यम्(वार्तिकान्त) । कर्मग्रहणात्सन्विधौ धातुग्रहणं अनर्थकं । कर्मणः समानकर्तृकातिच्छायां वा सम्भवति इति एव धातोः उत्पत्तिः भविष्यति । सोपर्सर्गं वै कर्म । ततः उत्पत्तिः प्राप्नोति । (कात्यायन वार्तिक)सोपसर्गं कर्म इति चेत्कर्मविशेषकत्वातुपसर्गस्य अनुपसर्गं कर्म(वार्तिकान्त) । सोपसर्गं कर्म इति चेत्कर्मविशेषकः उपसर्गः । अनुपसर्गं हि कर्म । अवश्यं च एततेवं विज्ञेयं अनुपसर्गं कर्म इति । (कात्यायन वार्तिक)सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानं अकर्मत्वात्(वार्तिकान्त) । यः हि मन्यते सोपसर्गं कर्म इति क्रियमाणे अपि तस्य धातुग्रहणे सनः अविधिः स्यात। किं कारणं । अकर्मत्वात। इदं तर्हि प्रयोजनं । सुबन्तातुत्पत्तिः मा भूत। (कात्यायन वार्तिक)सुबन्तात्च अप्रसङ्गः क्यजादीनां अपवादत्वात्(वार्तिकान्त) । सुबन्तात्च सनः अप्रसङ्गः । किं कारणं । क्यजादीनां अपवादत्वात। सुबन्तात्क्यजादयः विधीयन्ते । ते अपवादत्वात्बाधकाः भविष्यन्ति । (कात्यायन वार्तिक)अनभिधानात्वा(वार्तिकान्त) । अथ वा अनभिधानात्सुबन्तातुत्पत्तिः न भविष्यति । न हि सुबन्तातुत्पद्यमानेन सना इच्छाया अभिधानं स्यात। अनभिधानात्ततः उत्पत्तिः न भविष्यति । इयं तावतगतिका गतिः यतुच्यते अनभिधानातिति । यतपि उच्यते सुबन्तात्च अप्रसङ्गः क्यजादीनां अपवादत्वातिति । भवेत्कस्मात्चितप्रसङ्गः स्यातात्मेच्छायां । परेच्छायां तु प्राप्नोति : राज्ञः पुत्रं इच्छति इति । एवं तर्हि इदं इह व्यपदेश्यं सताचार्यः न व्यपदिशति । किं । समानकर्तृकातिति उच्यते । न च सुबन्तस्य समानः कर्ता अस्ति । एवं अपि भवेत्कस्मात्चितप्रसङ्गः यस्य कर्ता न अस्ति । इह तु प्राप्नोति : आसितुं इच्छति शयितुं इच्छति । इच्छायां अर्थे सन्विधीयते इच्छार्थेषु च तुमुन। तत्र तुमुना उक्ततत्वात्तस्य अर्थस्य सन्न भविष्यति । एवं अपि इह प्राप्नोति : आसनं इच्छति शयनं इच्छति इति । इह यः विशेषः उपाधिः वा उपादीयते द्योत्ये तस्मिन्तेन भवितव्यं । यः च इह अर्थः गम्यते आसितुं इच्छति शयितुं इच्छति स्वयं तां क्रियां कर्तुं इच्छति इति न असौ इह गम्यते आसनं इच्छति शयनं इच्छति इति । अन्यस्य अपि आसनं इच्छति इति एषः अपि अर्थः गम्यते । अवश्यं च एततेवं विज्ञेयं । यः हि मन्यते अद्योत्ये तस्मिन्तेन भवितव्यं इति क्रियमाणे अपि तस्य धातुग्रहणे इह प्रसज्येत : सङ्गतं इच्छति देवदत्तः यज्ञदत्तेन इति । (कात्यायन वार्तिक)कर्मसमानकर्तृकग्रहणानर्थक्यं च इच्छाभिधाने प्रत्ययविधानात्(वार्तिकान्त) । कर्मसमानकर्तृकग्रहणं च अनर्थकं । किं कारणं । इच्छाभिधाने प्रत्ययविधानात। इच्छायां अभिधेयायां सन्विधीयते । (कात्यायन वार्तिक)अकर्मणः हि असमानकर्तृकात्वा अनभिधानं (वार्तिकान्त)। इच्छायां अभिधेयायां सन्विधीयते । न च अकर्मणः असमानकर्तृकात्वा उत्पद्यमानेन सना इच्छाया अभिधानं स्यात। अनभिधानात्ततः उत्पत्तिः न भविष्यति । (कात्यायन वार्तिक)अङ्गपरिमाणार्थं तु(वार्तिकान्त) । अङ्गपरिमाणार्थं तर्हि अन्यतरत्कर्तव्यं कर्मग्रहणं धातुग्रहणं वा । अङ्गपरिमाणं ज्ञास्यामि इति । किं पुनः अत्र ज्यायः । धातुग्रहणं एव ज्यायः । अङ्गपरिमाणं च एव विज्ञातं भवति । अपि च धातोः विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञः भवति इति सनः आर्धधातुकसञ्ज्ञा सिद्धा भवति । यत्च अपि एततुक्तं कर्मग्रहणात्सन्विधौ धातुग्रहणानर्थक्यं सोपसर्गं कर्म इति चेत्कर्मविशेषकत्वातुपसर्गस्य अनुपसर्गं कर्म सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानं अकर्मत्वातिति स्वपक्षः अनेन वर्णितः । युक्तं इह द्रष्टव्यं किं न्याय्यं कर्म इति । एतत्च अत्र युक्तं यत्सोपसर्गं कर्म स्यात। ननु च उक्तं सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानं अकर्मत्वातिति । न एषः दोषः । कर्मणः इति न एषा धातुसमानाधिकरणा पञ्चमी । कर्मणः धातोः इति । किं तर्हि । अवयवयोगा एषा षष्ठी । कर्मणः यः धातुः अवयवः । यदि अवयवयोगा एषा षष्ठीकेवलातुत्पत्तिः न प्राप्नोति । चिकीर्षति जिहीर्षति इति । एषः अपि व्यपदेशिवद्भावेन कर्मणः धातुः अवयः भवति । कामं तर्हि अनेन एव हेतुना क्यचपि कर्तव्यः । महान्तं पुत्रं इच्छति । कर्मणः यत्सुबन्तं अवययः इति । न कर्तव्यः । असामर्थ्यात्न भविष्यति । कथं असामर्थ्यं । सापेक्षं असमर्थं भवति इति । (कात्यायन वार्तिक)वावचनानर्थक्यं च तत्र नित्यत्वात्सनः(वार्तिकान्त) । वावचनं च अनर्थकं । किं कारणं । तत्र नित्यत्वात्सनः । इह हि द्वौ पक्षौ वृत्तिपक्षः अवृत्तिपक्षः च । स्वभावतः च एतत्भवति वाक्यं च प्रत्ययः च । तत्र स्वाभाविके वृत्तिविषये नित्ये प्रत्यये प्राप्ते वावचनेन किं अन्यत्शक्यं अभिसम्बन्धुं अन्यततः सञ्ज्ञायाः । न च सञ्ज्ञायाः भावाभावौ इष्येते । तस्मात्न अर्थः वावचनेन ।
(पाणिनीयसूत्र ३,१।७।२) कि.,१४।८-१५।४ रो.,३९-४२ (कात्यायन वार्तिक)तुमुनन्तात्वा तस्य च लुग्वचनम्(वार्तिकान्त) । तुमुनन्तात्वा सन्वक्तव्यः तस्य च तुमुनः लुक्वक्तव्यः । कर्तुं इच्छति चिकीर्षति । (कात्यायन वार्तिक)लिङुत्तमात्वा(वार्तिकान्त) । लिङुत्तमात्वा सन्वक्तव्यः तस्य च लिङः लुक्वक्तव्यः । कुर्यां इति इच्छति चिकीर्षति । (कात्यायन वार्तिक)आशङ्कायां अचेतनेषु उपसङ्ख्यानम्(वार्तिकान्त) । आशङ्कायां अचेतनेषु उपसङ्ख्यानं कर्तव्यं । अश्मा लुलुठिषते । कूलं पिपतिषति इति । किं पुनः कारणं न सिध्यति । एवं मन्यते । चेतनावतः एतत्भवति इच्छा इति । कूलं च अचेतनं । अचेतनग्रहणेन न अर्थः । आशङ्कायां इति एव । इदं अपि सिद्धं भवति । श्वा मुमूर्षति । (कात्यायन वार्तिक)न वा तुल्यकारणत्वातिच्छयाः हि प्रवृत्तितः उपलब्धिः(वार्तिकान्त) । न वा कर्तव्यं । किं कारणं । तुल्यकारणत्वात। तुल्यं हि कारणं चेतनावति देवदत्ते कूले च अचेतने । किं कारणं । इच्छयाः हि प्रवृत्तितः उपलब्धिः । इच्छयाः हि प्रवृत्तितः उपलब्धिः भवति । यः अपि असु कटं चिकीर्षुः भवति न असौ आघोषयति । कटं करिष्यामि इति । किं तर्हि । सन्नद्धं रज्जुकीलक्पूलपाणिं दृष्ट्वा ततः इच्छा गम्यते । कूलस्य अपि पिपतिषतः लोष्टाः शीर्यन्ते भिदा जायन्ते देशात्देशान्तरं उपसङ्क्रामति । श्वानः खलु अपि मुमूर्षवः एकान्तशीलाः शूनाक्षाः च भवन्ति । (कात्यायन वार्तिक)उपमानात्वा सिद्धम्(वार्तिकान्त) । उपमानात्वा सिद्धं एतत। कथं । लुलुठिषते इव लुलुठिषते । पिपतिषति इव पिपतिषति । न तिङन्तेन उपमानं अस्ति । एवं तर्हि इच्छा इव इच्छा । (कात्यायन वार्तिक)सर्वस्य वा चेतनावत्त्वात्(वार्तिकान्त) । अथ वा सर्वं चेतनावत। एवं हि आह । कंसकाः सर्पन्ति । शिरीषः अधः स्वपिति । सुवर्चला आदित्यं अनु पर्येति । आस्कन्द कपिलक इति उक्ते तृणं आस्कन्दति । अयस्कान्तं अयः सङ्क्रामति । ऋषिः पठति श्र्णोत ग्रावाणः ।
(पाणिनीयसूत्र ३,१।७।३) कि.,१५। ५-२३ रो.,४२-४५ इमे इषवः बहवः पठ्यन्ते । तत्र न ज्ञायते कस्य अयं अर्थे सन्विधीयते इति । इषेः छत्वभाविनः । यदि एवं कर्तुं अन्विच्छति कर्तुं अन्वेषणा अत्र अपि प्राप्नोति । एवं तर्हि यस्य स्त्रियां इच्छा इति एतत्रूपं निपात्यते । कस्य च एतत्निपात्यते । कान्तिकर्मणः । अथ इह ग्रामं गन्तुं इच्छति इति कस्य किं कर्म । इषेः उभे कर्मणी । यदि एवं ग्रामं गन्तुं इच्छति ग्रामाय गन्तुं इच्छति इति गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ न प्राप्नुतः । एवं तर्हि गमेः ग्रामः कर्म इषेः गमिः कर्म । एवं अपि इष्यते ग्रामः गन्तुं इति परसाधने उत्पद्यमानेन लेन ग्रामस्य अभिधानं न प्राप्नोति । एवं तर्हि गमेः ग्रामः कर्म इषेः उभे कर्मणी । अथ सनन्तात्सना भवितव्यं : चिकीर्षितुं इच्छति जिहीर्षितुं इच्छति इति । न भवितव्यं । किं कारणं । अर्थगत्यर्थः शब्दप्रयोगः । अर्थं सम्प्रत्याययिष्यामि इति शब्दः प्रयुज्यते । तत्र एकेन उक्तत्वात्तस्य अर्थस्य अपरस्य प्रयोगेण न भवितव्यं । किं कारणं । उक्तार्थानां अप्रयोगः । न तर्हि इदानीं इदं भवति : एषितुं इच्छति एषिषिषति इति । अस्ति अत्र विशेषः । एकस्य अत्र इषेः इषिः साधनं वर्तमानकालः च प्रत्ययः । अपरस्य बाह्यं साधनं सर्वकालः च प्रत्ययः । इह अपि तर्हि एकस्य इषेः करोतिविषिष्टः इषिः साधनं वर्तमानकालः च प्रत्ययः । अपरस्य बाह्यं साधनं सर्वकालः च प्रत्ययः । येन एव खलु अपि हेतुना एतत्वाक्यं भवति चिकीर्षितुं इच्छति जिहीर्षितुं इच्छति इति तेन एव हेतुना वृत्तिः अपि प्राप्नोति । तस्मात्सनन्तात्सनः प्रतिषेधः वक्तव्यः । तं च अपि ब्रुवता इषिसनः इति वक्तव्यं । भवति हि जुगुप्सिषते मीमांसिषते इति । (कात्यायन वार्तिक)शैषिकात्मतुबर्थीयात्शैषिकः मतुबर्थिकः सरूपः प्रत्ययः न इष्टः । सनन्तात्न सनिष्यते(वार्तिकान्त) ।
(पाणिनीयसूत्र ३,१।८।१) कि.,१६।२-१७।१२ रो.,४५-४८ किमर्थः चकारः । स्वरार्थः । चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वं यथा स्यात। न एततस्ति प्रयोजनं । एकाचयं । तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन । प्रत्ययस्वरेण एव सिद्धं । विशेषणार्थः तर्हि । क्व विशेषणार्थेन अर्थः । अस्य च्वौ क्यचि च इति । क्ये च इति उच्यमाने अपि काकः श्येनायते अत्र अपि प्रसय्जेत । न एततस्ति । तदनुबन्धकग्रहणे अतदनुबन्धकस्य ग्रहणं न इति एवं एतस्य न भविष्यति । सामान्यग्रहणाविघातार्थः तर्हि । क्व च सामान्यग्रहणाविघातार्थेन अर्थः । नः क्ये इति । अथ आत्मन्ग्रहणं किमर्थं । आत्मेच्छायां यथा स्यात। परेच्छायां मा भूतिति । राज्ञः पुत्रं इच्छति इति । क्रियमाणे अपि आत्मग्रहणे परेच्छायां प्राप्नोति । किं कारणं । आत्मनः इति इयं कर्तरि षष्ठी । इच्छा इति अकारः भावे । सः यदि एव आत्मनः इच्छा अथ अपि परस्य आत्मेच्छा एव असौ भवति । न आत्मग्रहणेन इच्छा अभिसम्बध्यते । किं तर्हि । सुबन्तं अभिसम्बध्यते । आत्मनः यत्सुबन्तं इति । यदि आत्मग्रहणं क्रियते छन्दसि परेच्छायां न प्राप्नोति । म त्वा वृकाः अघायवः विदन। तस्मात्न अर्थः आत्मग्रहणेन । इह कस्मात्न भवति : राज्ञः पुत्रं इच्छति इति । असामर्थ्यात। कथं असामर्थ्यं । सापेक्षं असमर्थं भवति इति । छन्दसि अपि तर्हि न प्राप्नोति । म त्वा वृकाः अघायवः विदन। अस्ति अत्र विशेषः । अन्तरेण अपि अत्र तृतीयस्य पदस्य प्रयोगं परेच्छा गम्यते । कथं पुनः अन्तरेण अपि अत्र तृतीयस्य पदस्य प्रयोगं परेच्छा गम्यते । ते च एव वृकाः एवमात्मकः हिंस्राः । कः च आत्मनः अघं एषितुं अर्हति । अतः अन्तरेण अपि अत्र तृतीयस्य पदस्य प्रयोगं परेच्छा गम्यते । यथा एव तर्हि छन्दसि अघशब्दात्परेच्छायां ख्यच्भवति एवं भाषायां अपि प्राप्नोति । अघं इच्छति इति । तस्मातात्मग्रहणं कर्तव्यं । छन्दसि कथं । आचार्यप्रवृत्तिः ज्ञापयति भवति छन्दसि अघशब्दात्परेच्छायां क्यचिति यतयं अश्वाघस्यातिति क्यचि प्रत्कृते ईत्वबाधनार्थं आकारं शास्ति । अथ सुब्ग्रहणं किमर्थं । सुबन्तातुत्पत्तिः यथ स्यात। प्रातिपदिकात्मा भूतिति । न एततस्ति प्रयोजनं । न अस्ति अत्र विशेषः सुबन्तातुत्पत्तौ सत्यां प्रातिपदिकात्वा अयं अस्ति विशेषः । सुबन्तातुत्पत्तौ सत्यां पदसञ्ज्ञा सिद्धा भवति । प्रातिपदिकातुत्पत्तौ सत्यां पदसञ्ज्ञा न प्राप्नोति । ननु च प्रातिपदिकातुत्पत्तौ सत्यां पदसञ्ज्ञा सिद्धा । कथं । आरभ्यते नः क्ये इति । तत्च अवश्यं कर्तव्यं सुबन्तातुत्पत्तौ सत्यां नियमार्थं । ततेव प्रातिपदिकातुत्पत्तौ सत्यां विध्यर्थं भविष्यति । इदं तर्हि प्रयोजनं । सुबन्तातुत्पत्तिः यथ स्यात। धातोः मा भूतिति । एततपि न अस्ति प्रयोजनं । धातोः सन्विधीयते । सः बाधकः भविष्यति । अनवकाशाः हि विधयः बाधकाः भवन्ति सावकाशः च सन। कः अवकाशः । परेच्छा । न परेच्छायां सना भवितव्यं । किं कारणं । समानकर्तृकातिति उच्यते । यावत्च इह आत्मग्रहणं तावत्तत्र समानकर्तृकग्रहणं । इदं तर्हि प्रयोजनं । सुबन्तातुत्पत्तिः यथ स्यात। वाक्यात्मात्भूतिति । महान्तं पुत्रं इच्छति इति । न वा भवति महापुत्रीयति इति । भवति यदा एतत्वाक्यं भवति । महान्पुत्रः महापुत्रः । महापुत्रं इच्छति महापुत्रीयति इति । यदा तु एतत्वाक्यं भवति महान्तं पुत्रं इच्छति इति तदा न भवितव्यं तदा च प्राप्नोति । तदा मा भूतिति ।
(पाणिनीयसूत्र ३,१।८।२) कि.,१७।१२-१८।१५ रो.,४८-५० अथ क्रियमाणे अपि सुब्ग्रहणे कस्मातेव अत्र न भवति । सुबन्तं हि एतत्वाक्यं । न एतत्सुबन्तं । कथं । प्रत्ययग्रहणे यस्मात्तदादेः ग्रहणं भवति इति । अथ यतत्र सुबन्तं तस्मातुत्पत्तिः कस्मात्न भवति । (कात्यायन वार्तिक)समानाधिकरणानां सर्वत्र अवृत्तिः अयोगातेकेन(वार्तिकान्त) । समानाधिकरणानां सर्वत्र एव वृत्तिः न भवति । क्व सर्वत्र । समासविधौ प्रत्ययविधौ । समासविधौ तावत। ऋद्धस्य राज्ञः पुरुषः । महत्कष्टं श्रितः इति । प्रत्ययविधौ । ऋद्धस्य उपगोः अपत्यं । महान्तं पुत्रं इच्छति । इति । किं पुनः कारणं समानाधिकरणानां सर्वत्र वृत्तिः न भवति । अयोगातेकेन । न हि एकेन पदेन योगः भवति । इह तावतृद्धस्य राज्ञः पुरुषः इति षष्ठ्यन्तेन सुबन्तेन सामर्थ्ये सति समासः विधीयते । यत्च अत्र षष्थ्यन्तं न तस्य सुबन्तेन सामर्थ्यं । यस्य च सामर्थ्यं न तत्षष्ठ्यन्तं । वाक्यं तत। ऋद्धस्य उपगोः अपत्यं इति च । षष्ठीसमर्थातपत्येन योगे प्रत्ययः विधीयते । यत्च अत्र षष्टःईसमर्थं न तस्य अपतत्येन योगः यस्य च अप्तत्येन योगः न तत्षष्ठ्यन्तं । वाक्यं तत। समानाधिकरणानां इति उच्यते । अथ व्यधिकरणानां कथं । राज्ञः पुत्रं इच्छति इति । एवं तर्हि इदं पठितव्यं । सविशेषणानां सर्वत्र अवृत्तिः अयोगातेकेन । (कात्यायन वार्तिक)द्वितीयानुपपत्तिः तु(वार्तिकान्त) । द्वितीया तु न उपपद्यते । महान्तं पुत्रं इच्छति इति । किं कारणं । न पुत्रः इषिकर्म । यदि पुत्रः न इषिकर्म न च अवश्यं द्वितीया एव । किं तर्हि । सर्वाः द्वितीयादयः विभक्तयः । महता पुत्रेण कृतं । महते पुत्राय देहि । महः पुत्रातानय । महतः पुत्रस्य स्वं । महति पुत्रे निधेहि । तस्मात्न एवं शक्यं वक्तुं न पुत्रः इषिकर्म इति । पुत्र एव इषिकर्म । तत्सामानाधिकरण्यात्द्वितीयादयः भविष्यन्ति । वृत्तिः तर्हि कस्मात्न भवति । सविशेषणानां वृत्तिः न वृत्तस्य वा विशेषणं न प्रयुज्यते इति वक्तव्यं । यदि सविशेषणानां वृत्तिः न वृत्तस्य वा विशेषणं न प्रयुज्यते इति उच्यते मुण्डयति माणवकं इति अत्र वृत्तिः न प्राप्नोति । अमुण्डादीनां इति वक्तव्यं । तत्तर्हि वक्तव्यं सविशेषणानां वृत्तिः न वृत्तस्य वा विशेषणं न प्रयुज्यते अमुण्डादीनां इति । न वक्तव्यं । वृत्तिः कस्मात्न भवति महान्तं पुत्रं इच्छति इति । अगमकत्वात। इह समानार्थेन वाक्येन भवितव्यं प्रत्ययान्तेन च । यः च इह अर्थः वाक्येन गम्यते महान्तं पुत्रं इच्छति इति न असौ जातु चित्प्रत्ययान्तेन गम्यते महान्तं पुत्रीयति इति । एतस्मात्हेतोः ब्रूमः अगमकत्वातिति । न ब्रूमः अपशब्दः स्यातिति । यत्र च गमकत्वं भवति तत्र वृत्तिः । तत्यथा मुण्डयति माणवकं इति ।
(पाणिनीयसूत्र ३,१।८।३) कि.,१८।१६-१९।१७ रो.,५०-५५ अथ अस्य क्यजन्तस्य कानि साधनानि भवन्ति । भावः कर्ता च । अथ कर्म । न अस्ति कर्म । ननु च अयं इषिः सकर्मकः यस्य अयं अर्थे क्यच्विधीयते । अभिहितं तत्कर्म अन्तर्भूतं धात्वर्थः सम्पन्नः । न च इदानीं अन्यत्कर्म अस्ति येन सकर्मकः स्यात। कथं तर्हि अयं सकर्मकः भवति अपुत्रं पुत्रं इव आचरति पुत्रीयति माणवकं इति । अस्ति अत्र विशेषः । द्वे हि अत्र कर्मणी उपमानकर्म उपमेयकर्म च । उपमानकर्म अन्तर्भूतं । उपमेयेन कर्मणा सकर्मकः भवति । तत्यथा । अपि काकः श्येनायते इति अत्र द्वौ कर्तारौ उपमानकर्ता च उपमेयकर्ता च। उपमानकर्ता अन्तर्भूतः । उपेमेयकर्त्रा सक्र्तृकः भवति । अयं तर्हि कथं सकर्मकः भवति । मुण्डयति माणवकं इति । अत्र अपि द्वे कर्मणी सामान्यकर्म विशेषकर्म च । सामान्यकर्म अन्तर्भूतं । विशेषकर्मणा सकर्मकः भवति । ननु च वृत्त्या एव अत्र न भवितव्यं । किं कारणं । असामर्थ्यात। कथं असामर्थ्यं । सापेक्षं असमर्थं भवति इति । न एषः दोषः । न अत्र उभौ करोतियुक्तौ मुण्डः माणवकः च । न हि माणवकः क्रियते । यदा च उभौ करोतियुक्तौ भवतः न भवति तदा वृत्तिः । तत्यथा बलीवर्दं करोति मुण्डं च एनं करोति इति । कामं तर्हि अनेन एव हेतुना क्यचपि कर्तव्यः माणवकं मुण्डं इच्छति इति । न उभौ इषियुक्तौ इति । न कर्तव्यः । उभौ अत्र इषियुक्तौ मुण्डः माणवकः च । कथं । न हि असौ मौण्ड्यमात्रेण सन्तोषं करोति । माणवकस्थं असौ मौण्ड्यं इच्छति । इह अपि तर्हि न प्राप्नोति मुण्डयति माणवकं इति । अत्र अपि हि उभौ करोतियुक्त मुण्डः माणवकः च । न हि असौ मौण्ड्यमात्रेण सन्तोषं करोति । माणवकस्थं असु मौण्ड्यं निर्वर्तयति । एवं तर्हि मुण्डादयः गुअणवचनाः । गुणवचनाः च सापेक्षाः । वचनात्सापेक्षाणां अपि वृत्तिः भविष्यति । अथ वा धातवः एव मुण्डादयः । न न एव हि अर्थाः आदिश्यन्ते क्रियावचनता च गम्यते । अथ वा न इदं उभयं युगपत्भवति वाक्यं च प्रत्ययः च । यदा वाक्यं न तदा प्रत्ययः । यदा प्रत्ययः सामान्येन तदा वृत्तिः । तत्र अव्श्यं विशेषार्थिना विशेषः अनुप्रयोक्तव्यः । मुण्डयति । कं । माणवकं इति । मुण्डविशिष्टेन वा करोतिन तं आप्तुं इच्छति । अथ वा उक्तं एतत। न अत्र व्यापारः अनुगन्तव्यः इति । गमक्त्वातिह वृत्तिः भविष्यति । मुण्डयति माणवकं इति । अथ इह क्यचा भवितव्यं । इष्टः पुत्रः । इष्यते पुत्रः इति । के चित्तावताहुः न भवितव्यं इत। किं कारणं । स्वशब्देन उक्तत्वातिति । अपरे आहुः : भवितव्यं इति । किं कारणं । धात्वर्थे अयं क्यच्विधीयते । सः च धात्वर्थः केन चितेव शब्देन निर्देष्टव्यः इति । इहभवन्तः तु आहुः न भवितव्यं इति । किं कारणं । इह समानार्थेन वाक्येन भवितव्यं प्रत्ययान्तेन च । यः च इह अर्थः वाक्येन गम्यते इष्टः पुत्रः इष्यते पुत्रः इति न असौ जातु चित्प्रत्ययान्तेन गम्यते ।
(पाणिनीयसूत्र ३,१।८।४) कि.,१९।१८-२३ रो.,५५-५६ (कात्यायन वार्तिक)क्यचि मान्ताव्ययप्रतिषेधः(वार्तिकान्त) । क्यचि मान्ताव्ययानां प्रतिषेधः वक्तव्यः । इह मात्भूत। इदं इच्छति । किं इच्छति । उच्चैः इच्छति । नीचैः इच्छति । (कात्यायन वार्तिक)गोसमानाक्षरनान्तातिति एके(वार्तिकान्त) । गां इच्छति गव्यति । समानाक्षरात। दधीयति मधति कर्त्रीयति हर्त्रीयति । नान्तात। राजीयति तक्षीयति ।
(पाणिनीयसूत्र ३,१।९) कि.,१९।२५-२०।१५ रो.,५६-५७ किमर्थः चकारः । स्वरार्थः । चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वं यथा स्यात। न एततस्ति प्रयोजनं । धातुस्वरेण अपि एतत्सिद्धं । ककारस्य तर्हि इत्सञ्ज्ञापरित्राणार्थः आदितः चकारः कर्तव्यः । अतः उत्तरं पठति । (कात्यायन वार्तिक)काम्यचः चित्करणानर्थक्यं कस्य इदर्थाभावात्(वार्तिकान्त) । काम्यचः चित्करणं अनर्थकं । ककारस्य तर्हि इत्सञ्ज्ञा कस्मात्न भवति । इदर्थाभावात। इत्कार्याभावातत्र इत्सञ्ज्ञा न भविष्यति । ननु च लोपः एव इत्कार्यं । अकार्यं लोपः । इह हि शब्दस्य कार्यार्थः वा भवति उपदेशः श्रवणार्थः वा । कर्यं च इह न अस्ति । कार्ये असति यदि श्रवणं अपि न स्यातुपदेशः अनर्थकः स्यात। इदं तर्हि इत्कार्यं । अग्निचित्कम्यति । किति इति गुणप्रतिषेधः यथा स्यात। न एततस्ति प्रयोजनं । सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः उच्यते । धातोः च विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञां लभते । न च अयं धातोः विधीयते । इदं तर्हि । उपयट्काम्यति । किति इति सम्प्रसारणं यथा स्यात॥ एततपि न अस्ति प्रयोजनं । यजादिभिः अत्र कितं विशेषयिष्यामः । यजादीनां यः कितिति । कः च यजादीनां कित। यजादिभ्यः यः विहितः इति । अथ अपि कथं चितित्कार्यं स्यात। एवं अपि न दोषः । क्रियते न्यासे एव द्विचकारकः निर्देशः । सुपः आत्मनः क्यच्च्काम्यत्च इति । अथ वा छान्दसं एतत। दृष्टानुविधिः छन्दसि भवति । न च अत्र सम्प्रसारणं दृश्यते ।
(पाणिनीयसूत्र ३,१।१०) कि.,२०।१७-१९ रो.।५७ (कात्यायन वार्तिक)अधिकरणात्च(वार्तिकान्त) । अधिकरणात्च इति वक्तव्यं । प्रासादयति कुट्यां कुटीयति प्रासादे इति अत्र अपि यथा स्यात।
(पाणिनीयसूत्र ३,१।११।१) कि.,२०।२१-७ रो.,५८ सलोपसन्नियोगेन अयं क्यङ्विधीयते । तेन यत्र एव सलोपः तत्र एव स्यात। पयायते । इह न स्यात। अपि काकः श्येनायते । न एषः दोषः । प्रधान्शिष्टः क्यङ। अन्वाचयशिष्टः सलोपः । यत्र च सकारं पश्यसि इति । तत्यथ । कः चितुक्तः ग्रामे भिक्षां चर देवदत्तं च आनय इति । सः ग्रामे भिक्षां चरति । यदि देवदत्तं पश्यति तं अपि आनयति । (कात्यायन वार्तिक)सलोपः वा(वार्तिकान्त) । सलोपः वा इति वक्तव्यं । पयायते पयस्यते । (कात्यायन वार्तिक)ओजोप्सरसोः नित्यम्(वार्तिकान्त) । ओजोप्सरसोः नित्यं सलोपः वक्तव्यः । ओजायमानं यः अहिं जघान । अप्सरायते । अप्रः आह सलोपः अप्सरसः एव । पयस्यते इति एव भवितव्यं इति । कथं ओजायमानं यः अहिं जघन इति । छान्दसः प्रयोगः । छन्दसि च दृष्टानुविधिः विधीयते ।
(पाणिनीयसूत्र ३,१।११।२) कि.,२१।८-१८ रो.,५८-५९ (कात्यायन वार्तिक)आचारे गल्भक्लीबहोडेभ्यः क्विप्वा(वार्तिकान्त) । आचारे गल्भक्लीबहोडेभ्यः क्विप्वा वक्तव्यः । अवगल्भते अवगल्भायते । क्लीब । विक्लीबते विक्लीबायते । क्लीब । होड । विहोडते विहोडायते । किं प्रयोजनं । क्रियावचनता यथा स्यात। न एततस्ति प्रयोजनं । धातवः एव गल्भादयः । न च एव हि अर्थाः आदिश्यन्ते क्रियावचनता च गम्यते । इदं तर्हि प्रयोजनं । अवगल्भा विक्लीबा विहोडा । अ प्रत्ययातिति अकारः यथा स्यात। मा भूतेवं । गुरोः च हलः इति एवं भविष्यति । इदं तर्हि । अवगल्भां चक्रे । विक्लीबां चक्रे । विहोडां चक्रे । कास्प्रत्ययातां अमन्त्रे इति आं यथा स्यात। अपरः आह : सर्वप्रातिपदिकेभ्यः आचारे क्विप्वक्तव्यः अश्वति गर्दभति इति एवमर्थं । न तर्हि इदानीं गल्भाद्यनुक्रमणं कर्तव्यं । कर्तव्यं च । किं प्रयोजनं । आत्मनेपदार्थं अनुबन्धानासङ्क्ष्यामि इति । गल्भ क्लीब होड ।
(पाणिनीयसूत्र ३,१।१२।१) कि.,२१।२०-२२ रो.,६० हलः लोपसन्नियोगेन अयं क्यङ्विधीयते । तेन यत्र एव हलः लोपः तत्र एव प्रसज्येत । न एषः दोषः । प्रधानशिष्टः क्यङ। अन्वाचयशिष्टः हलः लोपः । यत्र च हलं पश्यसि इति ।
(पाणिनीयसूत्र ३,१।१२।२) कि.,२१।२३-२२।१७ रो.,६०-६१ (कात्यायन वार्तिक)भृशादिषु अभूततद्भावग्रहणम्(वार्तिकान्त) । भृशादिषु अभूततद्भावग्रहणं कर्तव्यं । इह मा भूत। क्व दिवा भृशाः भवन्ति इति । (कात्यायन वार्तिक)च्विप्रतिषेधानर्थक्यं च भवत्यर्थे क्यङ्वचनात्(वार्तिकान्त)। च्विप्रतिषेधः च अनर्थकः । किं कारणं । भवत्यर्थे क्यङ्वचनात। भवत्यर्थे हि क्यङ्विधीयते । (कात्यायन वार्तिक)भवतियोगे च्विविधानं (वार्तिकान्त)। भवतिना योगे च्विः विधीयते । तत्र च्विना उक्तत्वात्तस्य अर्थस्य क्यङ्न भविष्यति । डाजन्तातपि तर्हि न प्राप्नोति । पटपटायते । डाचपि हि भवतिना योगे विधीयते । भवत्यर्थे क्यष। (कात्यायन वार्तिक)डाचि वचनप्रामाण्यात्(वार्तिकान्त) । डाचि वचनप्रामाण्यात्भविष्यति । किं वचनप्रामाण्यं । लोहितादिडाज्भ्यः क्यषिति । इह किं चितक्रियमाणं चोद्यते किं चित्क्रियमाणं प्रत्याख्यायते । सः सूत्रभेदः कृतः भवति । यथान्यासं एव अस्तु । ननु च उक्तं इह कस्मात्न भवति क्व दिवा भृशाः भवन्ति इति । नञिवयुक्तं अन्यसदृशाधिकरणे तथा हि अर्थगतिः । नञ्युक्तं इवयुक्तं व यत्किं चितिह दृश्यते तत्र अन्यस्मिन्तत्सदृशे कार्यं विज्ञायते । तथा हि अर्थः गम्यते । अब्राह्मणं आनय इति उक्ते ब्राह्मणसदृशः आनीयते । न असौ लोष्टं आनीय कृती भवति । एवं इह अपि अच्वेः इति च्विप्रतिषेधातन्यस्मिनच्व्यन्ते च्विसदृशे कार्यं विज्ञास्यते । किं च अतः अन्यतद्व्यन्तं च्विसदृसं । अभूततद्भावः ।
(पाणिनीयसूत्र ३,१।१२।३) कि.,२२।१८-२३।२० रो.,६१-६४ इह काः चित्प्रकृतयः सोपसर्गाः पठ्यन्ते : अभिमनस्, सुमनस्, उन्मनस्, दुर्मनस। तत्र विचार्यते : भृशादिषु उपसर्गः प्रत्ययार्थविशेषणं वा स्यातः अभिभवतौ सुभवतौ उद्भवतौ दुर्भवतौ इति । प्रकृत्यर्थविशेषणं वा । अभिमनस्शब्दात्सुमनस्शब्दातुन्मनस्शब्दात्दुर्मनस्शब्दातिति । युक्तं पुनः इदं विचारयतुं । ननु तेन असन्दिग्धेन प्रकृत्यर्थविशेषणं भवितव्यं यावता प्राक्प्रकृतेः पठ्यन्ते । यदि हि प्रत्ययार्थविशेषणं स्यात्प्राक्भवतेः पठ्येरन। न इमे शक्याः प्राक्भवतेः पठितुं । एवं विशिष्टे हि प्रत्ययाऋथे भृशादिमात्रातुत्पत्तिः प्रसज्येत । तस्मात्न एवं शक्यं कर्तुं । न चेतेवं जायते विचारणा । कः च अत्र विशेषः । (कात्यायन वार्तिक)भृशादिषु उपसर्गः प्रत्ययार्थविशेषणं इति चेत्स्वरे दोषः(वार्तिकान्त) । भृशादिषु उपसर्गः प्रत्ययार्थविशेषणं इति चेत्स्वरे दोषः भवति । अभिमनायते । तिङतिङः इति निघातः प्रसज्यते । अस्तु तर्हि प्रकृत्यर्थविशेषणं । (कात्यायन वार्तिक)सोपसर्गातिति चेतटि दोषः (वार्तिकान्त)। सोपसर्गातिति चेतटि दोषः भवति । स्वमनयत इति । अत्यल्पं इदं उच्यते : अटि दोषः भवति इति । अड्ल्यव्द्विर्वचनेषु इति वक्तव्यं । अटि : उदाहृतं । ल्यपि : सुमनाय्य । द्विर्वचने : अभिमिमनायिषते । न एषः दोषः । अवश्यं सङ्ग्रामयतेः सोपसर्गातुत्पत्तिः वक्तव्या असङ्ग्रामयत शूरः इति एवमर्थं । तत्नियमार्थं भविष्यति । सङ्ग्रामयतेः एव सोपसर्गात्न अन्यस्मात्सोपसर्गातिति । यदि नियमः क्रियते स्वरः न सिध्यति । एवं तर्हि भृशादिषु उपसर्गस्य पराङ्गवद्भावं वक्ष्यामि । यदि पराङ्गवद्भावः उच्यते अड्ल्यव्द्विर्वचनानि न सिध्यन्ति । स्वरविधौ इति वक्ष्यामि । एवं च कृत्वा अस्तु प्रत्ययार्थविशेषणं । ननु च उक्तं भृशादिषु उपसर्गः प्रत्ययार्थविशेषणं इति चेत्स्वरे दोषः इति । स्वरे पराङ्गवद्भावेन परिहृतं । अयं तर्हि प्रत्ययार्थविशेषणे सति दोषः । क्यङा उक्तत्वात्तस्य अर्थस्य उपसर्गस्य प्रयोगः न प्राप्नोति । किं कारणं । उक्तार्थानां अप्रयोगः इति । तत्यथा । अपि काकः श्येनायते इति क्यङा उक्तत्वाताचारार्थस्य आङः प्रयोगः न भवति । अस्ति अत्र विशेषः । एकेन अत्र विशिष्टे प्रत्ययार्थे प्रत्ययः उत्पद्यते इह पुनः अनेकेन । तत्र मनायते इति उक्ते सन्देहः स्यातभिभवतौ सुभवतौ दुर्भवतौ इति । तत्र असन्देहार्थं उपसर्गः प्रयुज्यते । यत्र तर्हि एकेन । उत्पुच्छयते । अत्र अपि अनेकेन । पुच्छातुदसने पुच्छात्व्यसने पुच्छात्पर्यसने इति ।
(पाणिनीयसूत्र ३,१।१३।१) कि.,२३।२२-२४।१९ रो.,६४-६६ किमर्थः ककारः । क्ङिति इति गुणप्रतिषेधः यथा स्यात। न एततस्ति प्रयोजनं । सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः उच्यते । धातोः च विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञां लभते । न च अयं धातोः विधीयते । लोहितादीनि प्रातिपदिकानि । सामान्यग्रहणार्थः तर्हि । क्व सामान्यग्रहणेन अर्थः । नः क्ये इति । न अयं नान्तात्विधीयते । इह तर्हि । यस्य हलः क्यस्य विभाषा इति । न अयं हलन्तात्विधीयते । इह तर्हि । आपत्ययस्य च तद्धिते अनाति क्यच्व्योः च इति । न अयं आपत्यात्विधीयते । इह तर्हि । क्यात्छन्दसि इति । यात्छन्दसि इति एतावत्वक्तव्यं चरण्यूः तुरण्युः भुरण्युः इति एवमर्थं । इदं तर्हि प्रयोजनं । यत्ततकृत्यकारे इति दीर्घत्वं तत्र क्ङिद्ग्रहणं अनुवर्तते । ततिह अपि यथा स्यात। लोहितायते । किं पुनः कारणं तत्र क्ङिद्ग्रहणं अनुवर्तते । इह मा भूत। उरुया धृष्णुया इति । यदि क्ङिद्ग्रहणं अनुवर्तते ¡त्र्यं इति पितुः रीङ्भावः न प्राप्नोति । रीङ्भावे क्ङिद्ग्रहणं निवर्तिष्यते । यदि निवर्तते कथं असूया वसूया च यमामहे । असूयतेः असूया वसूयतेः वसूया । अथ वा छान्दसं एतत। दृष्टानुविधिः च छन्दसि भवति इति । यदि छान्दसत्वं हेतुः न अर्थः क्ङिद्ग्रहणेन अनुवर्तमानेन । कस्मात्न भवति उरुया धृष्णुया इति । छान्दसत्वात। अथ वा अस्तु अत्र दीर्घत्वं । छान्दसं ह्रस्वत्वं भविष्यति । तत्यथा उपगायन्तु मां पत्नयः गर्भिणयः युवतयः इति । अथ किमर्थः षकारः । विशेषणार्थः । क्व विशेषणार्थेन अर्थः । वा क्यषः इति । वा यातिति हि उच्यमाने अतः अपि प्रसज्येत । न एततसि प्रयोजनं । परस्मैपदं इति उच्यते । न च अतः परस्मैपदं न अपि आत्मनेपदं पश्यामः । सामान्यग्रहणाविघातार्थः तर्हि भविष्यति । क्व सामान्यग्रहणाविघातार्थेन अर्थः । क्यात्छन्दसि इति । यात्छन्दसि इति एवं वक्तव्यं चरण्यूः तुरण्युः भुरण्युः इति एवमर्थं ।
(पाणिनीयसूत्र ३,१।१३।२) कि.,२४।२०-२५ रो.,६६ (कात्यायन वार्तिक)लोहितडाज्भ्यः क्यष्वचनम्(वार्तिकान्त) । लोहितडाज्भ्यः क्यष्वक्तव्यः । लोहितायति लोहितायते पटपटायति पटपटायते । अथ अन्यानि लोहितादीनि । (कात्यायन वार्तिक)भृशादिषु इतराणि(वार्तिकान्त) । भृशादिषु इतराणि पठितव्यानि । किं प्रयोजनं । ङितः इति आत्मनेपदं यथा स्यातिति ।
(पाणिनीयसूत्र ३,१।१४) कि.,२१५।२-११ रो.,६७-६८ कष्टाय इति किं निपात्यते । कष्टशब्दात्चतुर्थीसमर्थात्क्रमणे अनार्जवे क्य्ङ्निपात्यते । कष्टाय कर्मणे क्रामति कष्टायते । अत्यल्पं इदं उच्यते : कष्टाय इति । (कात्यायन वार्तिक)सत्त्रकक्षकष्टगहनेभ्यः कण्वचिकीर्षायाम्(वार्तिकान्त) । सत्त्रकक्षकष्टगहनेभ्यः कण्वचिकीर्षायां इति वक्तव्यं । सत्त्रायते । सत्त्र। ककष। कक्षायते । कष्ट । कष्टायते । कष्ट । गहन । गहनायते । अपरः आहः। सत्त्रादिभ्यः चतुर्थ्यन्तेभ्यः क्रमणे अनार्जवे क्यङ्वक्तव्यः । एतानि एव उदाहरणानि । सत्त्रादिभ्यः इति किमर्थं । कुटिलाय क्रामति अनुवाकाय । चतुर्थ्यन्तेभ्यः इति किमर्थं । अजः कष्टं क्रामति । तत्तर्हि वक्तव्यं । न वक्तव्यं । न एतत्प्रत्ययान्तनिपातनं । किं तर्हि । तादर्थ्ये एषा चतुर्थी । कष्टाय यत्प्रातिपदिकं । कष्टार्थे यत्प्रातिपदिकं इति ।
(पाणिनीयसूत्र ३,१।१५) कि.,२५।१३-२० रो.,६८ रोमन्थे इति उच्यते । कः रोमन्थः नाम । उद्गीर्णस्य वा अवगीर्णस्य वा मन्थः रोमन्थः इति । यदि एवं हनुचलने इति वक्तव्यं । इह मा भूत। कीटः रोमथं वर्तयति । तत्तर्हि वक्तव्यं । न वक्तव्यं । कस्मात्न भवति । कीटः रोमथं वर्तयति इति । अनभिधानात। (कात्यायन वार्तिक)तपसः परस्मैपदं च(वार्तिकान्त) । तपसः परस्मैपदं च इति वक्तव्यं । तपः चरति तपस्यति । कथं तपस्यते लोकजिगीषुः अग्नेः । छान्दसत्वात्भविष्यति ।
(पाणिनीयसूत्र ३,१।१६) कि.,२५।२२ रो.,६९ फेनात्च इति वक्तव्यं । फेनायते ।
(पाणिनीयसूत्र ३,१।१७) कि.,२६।२-८ रो.,६९ अटाट्ताशीकाकोटापोटासोटाप्रुष्टाप्लुष्टाग्रहणं कर्तव्यं । अटा । अटायते । अट्टा । अट्टायते । शीका । शीकायते । कोटा । कोटायते । पोटा । पोटायते । सोटा । सोटायते । प्रुष्टा । प्रुष्टयते । प्लुष्टा । प्लुष्टायते । (कात्यायन वार्तिक)सुदिनदुर्दिनाभ्यां च(वार्तिकान्त) । सुदिनदुर्दिनाभ्यां च इति वक्तव्यं । सुदिनायते । दुर्दिनायते । (कात्यायन वार्तिक)नीहारात्च(वार्तिकान्त) । नीहारात्च इति वक्तव्यं । नीहारायते ।
(पाणिनीयसूत्र ३,१।१८) कि.,२६।१०-१४ रो.,६९ कर्तृवेदनायां इति किमर्थं । इह मा भूत। सुखं वेदयते प्रसाधकः देवदत्तस्य । कर्तृवेदनायां इति उच्यमाने अपि अत्र प्राप्नोति । किं कारणं । कर्तुः इति इयं कर्तरि षष्ठी । वेदनायां इति च अनः भावे । सः यदि एव आत्मनः वेदयते अथ अपि परस्य कर्तृवेदना एव असौ भवति । न कर्तृग्रहणेन वेदना अभिसम्बध्यते । किं तर्हि । सुखादीनि अभिसम्बध्यन्ते । कर्तुः यानि सुखादीनि ।
(पाणिनीयसूत्र ३,१।१९।१) कि.,१६-२३ रो.,७० (कात्यायन वार्तिक)नमसः क्यचि द्वितीयानुपपत्तिः(वार्तिकान्त) । नमसः क्यचि द्वितीया न उपपद्यते । नमस्यति देवान। किं कारणं । नमःशब्देन योगे चतुर्थी विधीयते । सा प्राप्नोति । (कात्यायन वार्तिक)प्रकृत्यन्तरत्वात्सिद्धम्(वार्तिकान्त) । नमःशब्देन योगे चतुर्थी विधीयते नमस्यतिशब्दः च अयं । ननु च नमस्यतिशब्दे नमःशब्दः अस्ति । तेन योगे प्राप्नोति । न एषः दोषः । अर्थवतः नमःसाब्दस्य ग्रहणं । न च नमस्यतिशब्दे नमःशब्दः अर्थवान। अथ वा उपपदविभक्तेः कारकविभक्तिः बलीयसी इति द्वितीया भविष्यति ।
(पाणिनीयसूत्र ३,१।१९।२) कि.,२७।१-२२ रो.,७०-७२ (कात्यायन वार्तिक)क्यजादिषु प्रत्ययार्थनिर्देशः(वार्तिकान्त) । क्यजादिषु प्रत्ययार्थनिर्देशः कर्तव्यः । नमसः पूजायां । वरिवसः परिचर्यायां । चित्रङः आश्चर्ये । भाण्डात्समाचयने । चीवरातर्जने परिधाने वा । पुच्छातुदसने व्य्ससने च इति । किं प्रयोजनं । क्रियावचनता यथा स्यात। न एततस्ति प्रयोजनं । आचार्यप्रवृत्तिः ज्ञापयति क्रियावचनाः क्यजादयः इति यतयं सनाद्यन्ताः धातवः इति धातुसञ्ज्ञां शास्ति । धातुसञ्ज्ञावचने एतत्प्रयोजनं : धातोः इति तव्यदादीनां उत्पत्तिः यथा स्यात। यदि च अत्र क्रियावचनता न स्यात्धातुसञ्ज्ञावचनं अनर्थकं स्यात। सत्यां अपि धातुसञ्ज्ञायां तव्यदादयः न स्युः । किं कारणं । साधने ताव्यादयः विधीयन्ते साधनं च क्रियायाः । क्रियाभावात्साधनाभावः । साधनाभावात्सत्यां अपि धातुसञ्ज्ञायां तव्यदादयः न स्युः । पश्यति तु आचार्यः क्रियावचनाः क्यजादयः इति ततः सनाद्यन्ताः धातवः इति धातुसञ्ज्ञां शास्ति । ननु च इदं प्रयोजनं स्यात। परसाधने उत्पत्तिं वक्ष्यामि इति । न परसाधने उत्पत्त्या भवितव्यं । किं कारणं । साधनं इति सम्बन्धिशब्दः अयं । सम्बन्धिशब्दाः च पुनः एवमात्मकाः यतुत सम्बन्धिनं आक्षिपन्ति । तत्यथा । मातरि वर्तितत्व्यं , पितरि शुश्रूषितव्यं इति । न च उच्यते स्वस्यां मातरि स्वस्मिन्वा पितरि इति , सम्बन्धात्च एतत्गम्यते या यस्य माता यः च यस्य पिता इति । एवं इह अपि सम्बन्धातेतत्गन्तव्यं यस्य धातोः यत्साधनं इति । अथ वा धातवः एव क्यजादयः । न च एव हि अर्थाः आदिश्यन्ते । क्रियावचनता च गम्यते । कः खलु अपि पचादीनां क्रियावचनत्वे यत्नं करोति । येन एव खलु अपि हेतुना पचादयः क्रियावचनाः तेन एव क्यजादयः अपि । एवमर्थं आचार्यः चित्रयति । क्व चितर्थानादिशति क्व चित्न । एवं अपि अर्थादेशनं कर्तव्यं । कथं इमे अबुधाः बुध्येरनिति । अथ वा शक्यं आदेशनं अकर्तुं । कथं । करणे इति वर्तते । करणं च करोतेः करोतिः च क्रियासामान्ये वर्तते ।
(पाणिनीयसूत्र ३,१।२१) कि.,२७।२५-२८।११ रो.,७२-७४ इमौ हलिकली स्तः इकारान्तौ । अस्ति हलशब्दः कलशब्दः च अकारान्तः । कयोः इदं ग्रहणं । यौ इकारान्तौ तयोः अत्वं निपात्यते । किं प्रयोजनं । (कात्यायन वार्तिक)हलिकल्योः अत्वनिपातनं सन्वद्भावप्रतिषेधार्थम्(वार्तिकान्त) । हलिकल्योः अत्वनिपातनं क्रियते सन्वद्भावः मा भूतिति । अजहलतचकलत। न एततस्ति प्रयोजनं । इकारलोपे कृते अग्लोपिनां न इति प्रतिषेधः भविष्यति । वृद्धौ कृतायां लोपः । तत्न अग्लोपि अङ्गं भवति । इदं इह सम्प्रधार्यं । वृद्धिः क्रियतां अग्लोपः इति । किं अत्र कर्तव्यं । परत्वात्वृद्धिः । नित्यः लोपः । कृतायां अपि वृद्धौ प्राप्नोति अकृतायां अपि प्राप्नोति । अनित्यः लोपः । अन्यस्य कृतायां वृद्धौ प्राप्नोति अन्यस्य अकृतायां । शब्दान्तरस्य च प्राप्नुवन्विधिः अनित्यः भवति । वृद्धिः अपि अनित्या । अन्यस्य कृते लोपे प्राप्नोति अन्यस्य अकृते । शब्दान्तरस्य च प्राप्नुवन्विधिः अनित्यः भवति । उभयोः अनित्ययोः परत्वात्वृद्धिः । वृद्धौ कृतायां लोपः । तत्न अग्लोपि अङ्गं भवति । अत्वे पुनः सति वृद्धिः क्रियतां लोपः इति यदि अपि परत्वात्वृद्धिः वृद्धौ कृतायां अपि अकेव लुप्यते । तस्मात्सुष्ठु उच्यते हलिकल्योः अत्वनिपातनं सन्वद्भावप्रतिषेधार्थं ।
(पाणिनीयसूत्र ३,१।२२।१) कि.,२८।१३-१८ रो.।७४-७५ समभिहारः इति कः अयं शब्दः । समभिपूर्वात्हरतेः भावसाधनः घञ। समभिहरणं समभिहारः । तत्यथ पुष्पाभिहारः फलाभिहारः इति । विषमः उपन्यासः । बह्व्यः हि ताः सुमनसः । तत्र युक्तः समभिहारः । इह पुनः एका क्रिया । यदि अपि एका सामान्यक्रिया अवयवक्रियाः तु बह्व्यः अधिश्रयणोदकासेचनतण्डुलावपनैध्कोपकर्षण्क्रियाः । ताः कः चित्कार्त्स्न्येन करोति कः चितकार्त्स्न्येन । यः कार्त्स्न्येन करोति सः उच्यते पापच्यते इति । पुनः पुनः वा पचति पापच्यते इति ।
(पाणिनीयसूत्र ३,१।२२।२) कि.,२८।१९-२९।१२ रो.,७५-७६ अथ धातुग्रहणं किमर्थं । इह मा भूत्प्राटति भृशं इति । अतः उत्तरं पठति । (कात्यायन वार्तिक)यङ्विधौ धातुग्रहणे उक्तम्(वार्तिकान्त) । किं उक्तं । तत्र तावतुक्तं कर्मग्रहणात्सन्विधौ धातुग्रहणानर्थक्यं । सोपसर्गं कर्म इति चेत्कर्मविशेषकत्वातुपसर्गस्य अनुपसर्गं कर्म । सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानं अकर्मत्वातिति । एवं इह अपि क्रियासमभिहारग्रहणात्यङ्विधौ धातुग्रहणानर्थक्यं । सोपसर्गः क्रियासमभिहारः इति चेत्क्रियासमभिहारविशेषकत्वातुपसर्गस्य अनुपसर्गः क्रियासमभिहारः । सोपसर्गस्य हि क्रियासमहिभारत्वे धात्वधिकारे अपि यङः अविधानं अक्रियासमभिहारत्वातिति । अथ एकाज्झलादिग्रहणं किमर्थं । इह मा भूतः जागर्ति भृशं । ईक्षते भृशं । (कात्यायन वार्तिक)एकाज्झलादिग्रहणे च(वार्तिकान्त) । एकाज्झलादिग्रहणे च उक्तं । किं उक्तं । तत्र तावतुक्तं कर्मसमानकर्तृकग्रहणानर्थक्यं च इच्छाभिधाने प्रत्ययविधानात। अकर्मणः हि असमानकर्तृकात्वा अनभिधानं इति । इह अपि एकाज्झलादिग्रहणानर्थक्यं क्रियासमभिहारे यङ्वचनातनेकाचः अहलादेः हि अनभिधानं इति । तत्च अवश्यं अनभिदानं आश्रयितव्यं । क्रियमाणे अपि हि एकाज्झलादिग्रहणे यत्र एकाचः हलादेः च उत्पद्यमानेन यङा अर्थस्य अभिधानं न भवति न भवति तत्र उत्पत्तिः । तत्यथा । भृशं शोभते । भृशं रोचते । यत्र च अनेकाचः अहलादेः वो उत्पद्यमानेन यङा अर्थस्य अभिधानं भवति भवति तत्र उत्पत्तिः । तत्यथा । अटाट्यते अरार्यते अशाश्यते सोसूच्यते सोसूत्र्यते मोमूत्र्यते ।
(पाणिनीयसूत्र ३,१।२२।३) कि.,२९।१३-२१ रो.,७६-७७ (कात्यायन वार्तिक)ऊर्णोतेः च उपसङ्ख्यानम्(वार्तिकान्त) । ऊर्णोतेः च उपसङ्ख्यानं कर्तव्यं । प्रोर्णोनूयते । अत्यल्पं इदं उच्यते : ऊर्णोतेः इति । (कात्यायन वार्तिक)सूचिसूत्रिमूत्र्यट्यर्त्यश्यूर्णुग्रहणं यङ्विधौ अनेकाजहलाद्यर्थम्(वार्तिकान्त) । सूचिसूत्रिमूत्र्यट्यर्त्यश्यूर्णोतीनां ग्रहणं कर्तव्यं । किं प्रयोजनं । यङ्विधौ अनेकाजहलाद्यर्थं । सोसूच्यते सोसूत्र्यते मोमूत्र्यते अटाट्यते अरार्यते अशाश्यते प्रोर्णोनूयते । (कात्यायन वार्तिक)वाच्यः ऊर्णोर्णुवद्भावः यङ्प्रसिद्धिः प्रयोजनं । आमः च प्रतिषेधार्थं एकाचः च इडुपग्रहात्(वार्तिकान्त) ।
(पाणिनीयसूत्र ३,१।२२।४) कि.,२९।२२-३०।८ रो.,७७-७८ (कात्यायन वार्तिक)क्रियासमभिहारे यङः विप्रतिषेधेन लोड्विधानम्(वार्तिकान्त) । क्रियासमभिहारे लोट्भवति यङः विप्रतिषेधेन । क्रियासमभिहारे यङ्भवति इति अस्य अवकाशः धातुः यः एकाच्हलादिः क्रियासमभिहारे वर्तते अधातुसम्बन्धः : लोलूयते । लोटः अवकाशः धातुः यः अनेकाचहलादिः क्रियासमभिहारे वर्तते धातुसम्बन्धः : सः भवान्जागृहि जागृहि इति एव अयं जागर्ति । सः भवानीहस्व ईहस्व इति एव अयं ईहते । धातुः यः एकाच्हलादिः क्रियासमभिहारे वर्तते धातुसम्बन्धः च तस्मातुभयं प्राप्नोति : सः भवान्लुनीहि लुनीहि इति एव अयं लुनाति । लोट्भवति विप्रतिषेधेन । न तर्हि इदानीं इदं भवति : सः भवान्लोलूयस्व लोलूयस्व इति एव अयं लोलूयते । भवति च । (कात्यायन वार्तिक)न वा नानार्थत्वात। कर्तृकर्मणोः हि लविधानं क्रियाविशेषे स्वार्थे यङ्(वार्तिकान्त) । न वा अर्थः विप्रतिषेधेन । किं कारणं । नानार्थत्वात। का नानार्थता । कर्तृकर्मणोः हि लविधानं । कर्तृकर्मणोः हि लोट्विधीयते । क्रियाविशेषे स्वार्थे यङ। तत्र अन्तरङ्गत्वात्यङा भवितव्यं । न तर्हि इदं इदानीं भवति । सः भवान्लुनीहि लुनीहि इति एव अयं लुनाति । भवति च । विभाषा यङ। यदा न यङ्तदा लोट।
(पाणिनीयसूत्र ३,१।२४) कि.,३०।९-१४ रो.,७८-७९ (कात्यायन वार्तिक)उत्तरयोः विग्रहेण विशेषासम्प्रत्ययात्नित्यग्रहणानर्थक्यम्(वार्तिकान्त) । उत्तरयोः योगयोः विग्रहेण विशेषासम्प्रत्ययात्नित्यग्रहणानर्थक्यं । न हि कुटिलं क्रामति इति चङ्क्रम्यते इति गम्यते । अथे एतेभ्यः क्रियासमभिहारे यङा भवितव्यं । (कात्यायन वार्तिक)क्रियासमभिहारे च न एतेभ्यः(वार्तिकान्त) । क्रियासमभिहारे च न एतेभ्यः यङा भवितव्यं । भृशं जपति ब्राह्मणः । भृशं समिदः दहति इति एव।
(पाणिनीयसूत्र ३,१।२५) कि.,३०।१७-३१।५ रो.,७९-८० सत्याप इति किं निपात्यते । (कात्यायन वार्तिक)सत्यस्य कृञि आपुक्च (वार्तिकान्त)। सत्यस्य कृञि आपुक्च निपात्यते णिच्च । सत्यं करोति सत्यापयति । अत्यल्पं इदं उच्यते । (कात्यायन वार्तिक)णिविदौ अर्थवेदसत्यानां अपुक्च(वार्तिकान्त) । णिविदौ अर्थवेदसत्यानां अपुक्च इति वक्तव्यं । अर्थापयति वेदापयति सत्यापयति । यदि आपुक्क्रियते टिलोपः प्राप्नोति । एवं तर्हि पुक्करिष्यते । एवं अपि टिलोपः प्राप्नोति । एवं तर्हि आक्करिष्यते । एवं अपि टिलोपः प्राप्नोति । एवं तर्हि अक्करिष्यते । एवं अपि अनाकारान्तत्वात्पुक्न प्राप्नोति । एवं तर्हि अपुट्करिष्यते । अथ वा पुनः अस्तु आपुकेव । ननु च उक्तं । टिलोपः प्राप्नोति इति । आपुग्वचनसामर्थ्यात्न भविष्यति । अथ वा पुनः अस्तु पुकेव । ननु च उक्तं एवं अपि टिलोपः प्राप्नोति इति । पुग्वचनसामर्थ्यात्न भविष्यति । अथ वा पुनः अस्तु आकेव । ननु च उक्तं एवं अपि टिलोपः प्राप्नोति इति । आग्वचनसामर्थ्यात्न भविष्यति ।
(पाणिनीयसूत्र ३,१।२६।१) कि.,३१।७-३२।२६ रो.,८०-८६ कथं इदं विज्ञायते । हेतुमति अभिधेये णिच्भवति इति । आहोस्वित्हेतुमति यः धातुः वर्तते इति । युक्तं पुनः इदं विचारयितुं । ननु अनेन असन्दिग्धेन प्रत्ययार्थविशेषणेन भवितव्यं यावता हेतुमति इति उच्यते । यदि हि प्रकृतर्थविशेषणं स्यात्हेतुमतः इति एवं ब्रूयात। न एततस्ति । भवन्ति इह हि विषयसप्तम्यः अपि । तत्यथा । प्रमाणे यत्प्रातिपदिकं वर्तते स्त्रियां यत्प्रातिपदिकं वर्तते इति । एवं इह अपि हेतुमति अभिधेये णिच्भवति हेतुमति यः धातुः वर्तते इति जायते विचारणा । अत उत्तरं पठति । (कात्यायन वार्तिक)हेतुमति इति कारकोपादानं प्रत्ययार्थपरिग्रहार्थं यथा तनूकरणे तक्षः(वार्तिकान्त) । हेतुमति इति कारकं उपादीयते । किं प्रयोजनं । प्रत्ययार्थपरिग्रहार्थं । एवं सति प्रत्ययार्थः सुपरिगृहीतः भवति । यथा तनूकरणे तक्षः इति तनूकरणं उपादीयते । यदि तर्हि तद्वत्प्रकृत्यर्थविशेषणं भवति । प्रकृत्यर्थविशेषणं हि तत्तत्र विज्ञायते । तनूकरणक्रियायां तक्षः इति । अस्तु प्रकृत्यर्थविशेषणं । कः दोषः । इह हि उक्तः करोति प्रेषितः करोति इति णिच्प्राप्नोति । प्रत्ययार्थविशेषणे पुनः सति न एषः दोषः । स्वशब्देन उक्तत्वात्न भविष्यति । प्रकृत्यर्थविशेषणे अपि सति न एषः दोषः । यत्र न अन्तरेण शब्दं अर्थस्य गतिः भवति तत्र शब्दः प्रयुज्यते । यत्र हि अन्तरेण अपि शब्दं अर्थस्य गतिः भवति न तत्र शब्दः प्रयुज्यते । इह तर्हि पाचयति ओदनं देवदत्तः यज्ञदत्तेन इति उभयोः कर्त्रोः लेन अभिधानं प्राप्नोति । प्रत्ययार्थविशेषणे पुनः सति न दोषः । प्रधानकर्तरि लादयः भवन्ति इति प्रधानकर्ता लेन अभिधीयते । यः च अप्रधानं सिद्ध तत्र कर्तरि इति एव तृतीया । इह च गमितः ग्रामं देवदत्तः यज्ञदत्तनेअ इति अव्यतिरिक्तः गत्यर्थः इति कृत्वा गत्यर्थानां कर्तरि इति कर्तरि क्तः प्राप्नोति । इह च व्यतिभेदयन्ते व्यतिच्छेदयन्ते इति अव्यतिरिक्तः हिंसार्थः इति कृत्वा न गतिहिंसार्थेभ्यः इति प्रतिषेधः प्राप्नोति । अस्तु तर्हि प्रत्ययार्थविशेषणं । यदि प्रत्ययार्थविशेषणं पाचयति ओदनं देवदत्तः यज्ञदत्तेन इति प्रयोज्ये कर्तरि कर्मसञ्ज्ञा प्राप्नोति । भवति हि तस्य तस्मिनीप्सा । इह च ग्रामं गमयति ग्रामाय गमयति इति व्यतिरिक्तः गत्यर्थः इति कृत्वा गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ न प्राप्नुतः । इह च एधोदकस्य उपस्कारयति इति व्यतिरिक्तः करोत्यर्थः इति कृत्वा कृञः प्रतियत्ने इति षष्ठी न प्राप्नोति । इह च भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानां इति प्रयोज्ये कर्तरि षष्ठी न प्राप्नोति । इह च अभिषावयति परिषावयति इति व्यतिरिक्तः सुनोत्यर्थः इति कृत्वा उपसर्गात्सुनोत्यादीनां इति षत्वं न प्राप्नोति । न एषः दोषः । यत्तावतुच्यते पाचयति ओदनं देवदत्तः यज्ञदत्तेन इति प्रयोज्ये कर्तरि कर्मसञ्ज्ञा प्राप्नोति इति । गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणां अणि इति एतत्नियमार्थं भविष्यति । एतेषां एव अण्यन्तानां यः कर्ता सः णौ कर्मसञ्ज्ञः भवति न अन्येषां इति । यतपि उच्यते इह च ग्रामं गमयति ग्रामाय गमयति इति व्यतिरिक्तः गत्यर्थः इति कृत्वा गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ न प्राप्नुतः इति । न असौ एवं प्रेष्यते गच्छ ग्रामं इति । कथं तर्हि । साधनविशिष्टां असौ क्रियां प्रेष्यते । ग्रामं गच्छ । ग्रामाय गच्छ इति । यतपि उच्यते इह च एधोदकस्य उपस्कारयति इति व्यतिरिक्तः करोत्यर्थः इति कृत्वा कृञः प्रतियत्ने इति षष्ठी न प्राप्नोति इति । न असौ एवं प्रेष्यते उपस्कुरुष्व एधोदकस्य इति । कथं तर्हि । साधनविशिष्टां असौ क्रियां प्रेष्यते । एधोदकस्य उपस्कुरुष्व इति । यतपि उच्यते इह च भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानां इति प्रयोज्ये कर्तरि षष्ठी न प्राप्नोति इति । उक्तं तत्र कृद्ग्रहणस्य प्रयोजनं कर्तृभूतपूर्वमात्रे अपि षष्ठी यथा स्यातिति । यतपि उच्यते इह च अभिषावयति परिषावयति इति व्यतिरिक्तः सुनोत्यर्थः इति कृत्वा उपसर्गात्सुनोत्यादीनां इति षत्वं न प्राप्नोति इति । न असौ एवं प्रेष्यते सुनु अभि इति । कथं तर्हि उपसर्गविशिष्टां असौ क्रियां प्रेष्यते । अभिषुनु इति । युक्तं पुनः इदं विचारयितुं । ननु अनेन असन्दिग्धेन प्रत्ययार्थविशेषणेन भवितव्यं यावता व्यक्तं अर्थान्तरं गम्यते पचति पाचयति इति च । बाढं युक्तं । इह पचेः कः प्रधानार्थः । या असौ तण्डुलानां विक्लित्तिः । अथ इदानीं तदभिसन्धिपूर्वकं प्रेषणं अध्येषणं वा । युक्तं यत्सर्वं पच्यर्थः स्यात।
(पाणिनीयसूत्र ३,१।२६।२) कि.,३३।१-८ रो.,८७-८८ (कात्यायन वार्तिक)हेतुनिर्देशः च निमित्तमात्रं बिक्षादिषु दर्शनात्(वार्तिकान्त) । हेतुनिर्देशः च निमित्तमात्रं द्रष्टव्यं । यावत्ब्रूयात्निमित्तं कारणं इति ताव्त्हेतुः इति । किं प्रयोजनं । बिक्षादिषु दर्शनात। भिक्षादिषु हि णिच्दृश्यते । भिक्षाः वासयन्ति ।कारिषः अग्निः अध्यापयति इति । किं पुनः कारणं पारिभाषिके हेतौ न सिध्यति । एवं मन्यते । चेतनावतः एतत्भवति प्रेषणं अध्येषणं च इति । भिक्षाः च अचेतनाः । न एषः दोषः । न अवश्यं सः एव वासं प्रयोजयति यः आह उष्यतां इति । तूष्णीं आसीनः यः तत्समर्थानि आचरति सः अपि वासं प्रयोजयति । भिक्षाः च अपि प्रचुराः व्यञ्जनवत्यः लभ्यमानाः वासं प्रयोजयन्ति । तथा कारीषः अग्निः निर्वाते एकान्ते सुप्रज्वलितः अध्ययनं प्रयोजयति ।
(पाणिनीयसूत्र ३,१।२६।३) कि.,३३।९-२० रो.,८८-८९ इह कः चित्कं चिताह । पृच्छतु मा भवान। अनुयुङ्क्तां मा भवानिति । अत्र णिच्कस्मात्न भवति । अकर्तृत्वात। न हि असौ सम्प्रति पृच्छति । तूष्णीं आस्ते । किं च भोः वर्तमानकालायाः एव क्रियायाः कर्त्रा भवितव्यं न भूतभविष्यत्कालायाः । भूतभविष्यत्कालायाः अपि भवितव्यं । अभिसम्बन्धः तत्र क्रियते । इमां क्रियां अकार्षीत। इमां क्रियां करिष्यति इति । इह पुनः न कः चितभिसम्बन्धः क्रियते न च असौ सम्प्रति पृच्छति । तूष्णीं आस्ते । यदि तर्हि कर्ता न अस्ति कथं तर्हि कर्तृप्रत्ययेन लोटा अभिधीयते । अथं कथं अस्मिनपृच्छति अयं प्रच्छिः वर्तते । अभिसम्बन्धः तत्र क्रियते । इमां क्रियां कुरु इति । कर्त्रा अपि तर्हि अभिसम्बन्धः क्रियते । कथं । कर्ता च अस्याः क्रियायाः भव इति । एवं न च कर्ता कर्तृप्रत्ययेन च लोटा अभिधीयते । अथ अपि कथं चित्कर्ता स्यात। एवं अपि न दोषः । लोटा उक्तत्वात्प्रेषणस्य णिच्न भविष्यति । विधीयन्ते हि एतेषु अर्थेषु प्रैषादिषु लोडादयः । यत्र च द्वितीयः प्रयोज्यः अर्थः भवति भवति तत्र णिच। तत्यथा आसय शायय इति ।
(पाणिनीयसूत्र ३,१।२६।४) कि.,३३।२१-३४।७ रो.,८९-९० कृष्यादिषु च अनुत्पत्तिः । कृष्यादिषु च अनुत्पत्तिः वक्तव्या । एकान्ते तूष्णीं आसीनः उच्यते पञ्चभिः हलैः कृषति इति । तत्र भवितव्यं । पञ्चभिः हलैः कर्षयति इति । (कात्यायन वार्तिक)कृष्यादिषु च अनुत्पत्तिः नानाक्रियाणां कृष्यर्थत्वात्(वार्तिकान्त) । कृष्यादिषु च अनुत्पत्तिः सिद्धा । कुतः । नानाक्रियाणां कृष्यर्थत्वात। नानाक्रियाः कृषेः अर्थाः । न अवश्यं कृषिः विलेखने एव वर्तते । किं तर्हि। प्रतिविधाने अपि वर्तते । यतसौ भक्तबीजबलीवर्दैः प्रतिविधानं करोति सः कृष्यर्थः । आतः च प्रतिविधाने वर्तते । यदहः एव असौ न प्रतिविधत्ते तदहः तत्कर्म न प्रवर्तते । यज्यादिषु च अविपर्यासः । यज्यादिषु च अविपर्यासः वक्तव्यः । पुष्यमित्रः यजते । याजकाः याजयन्ति इति । तत्र भवितव्यं । पुष्यमित्रः याजयते । याजकाः यजन्ति इति । (कात्यायन वार्तिक)यज्यादिषु च अविपर्यासः नानाक्रियाणां यज्यर्थत्वात्(वार्तिकान्त) । यज्यादिषु च अविपर्यासः सिद्धः । कुतः । नानाक्रियाणां यज्यर्थत्वात। नानाक्रियाः यजेः अर्थाः । न अवश्यं यजिः हविष्प्रक्षेपणे एव वर्तते । किं तर्हि । त्यागे अपि वर्तते । अहो यजते इति उच्यते यः सुष्ठु त्यागं करोति । तं च पुष्यमित्रः करोति । याजकाः प्रयोजयन्ति ।
(पाणिनीयसूत्र ३,१।२६।५) कि.,३४।८-१३ रो.,९१-९२ (कात्यायन वार्तिक)तत्करोति इति उपसङ्ख्यानं सूत्रयत्याद्यर्थम्(वार्तिकान्त) । तत्करोति इति उपसङ्ख्यानं कर्तव्यं । किं प्रयोजनं । सूत्रयत्याद्यर्थं । सूत्रं करोति । सूत्रयति । इह व्याकरणस्य सूत्रं करोति । व्याकरणं सूत्रयति इति । वाक्ये षष्ठी उत्पन्ने च प्रत्यये द्वितीया । केन एततेवं भवति । यः असौ सूत्रव्याकरणयोः अभिसम्बन्धः सः उत्पन्ने प्रत्यये निवर्तते । अस्ति च करोतेः व्याकरणेन सामर्थ्यं इति कृत्वा द्वितीया भविष्यति ।
(पाणिनीयसूत्र ३,१।२६।६) कि.,३४।१४-३६।२१ रो.,९२-९७ (कात्यायन वार्तिक)आख्यानात्कृतः तताचष्टे इति कृल्लुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवत्च कारकं (वार्तिकान्त)। आख्यानात्कृदन्तात्तताचष्टे इति एतस्मिनर्थे कृल्लुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवत्च कारकं भवति इति वक्तव्यं । कंसवधं आचष्टे कंसं घातयति । बलिबन्धं आचष्टे बलिं बन्धयति । (कात्यायन वार्तिक)आख्यानात्च प्रतिषेधः(वार्तिकान्त) । आख्यानशब्दात्च प्रतिषेधः वक्तव्यः । आख्यानं आचष्टे । किं पुनः यानि एतानि सञ्ज्ञाभूतानि आख्यानानि ततः उत्पत्त्या भवितव्यं आहोस्वित्क्रियान्वाख्यानमात्रात। किं च अतः । यदि सञ्ज्ञाभूतेभ्यः इह न प्राप्नोति । राजागमनं आचष्टे ऋअजानं आगमयति । अथ क्रियान्वाख्यानमात्रात्न दोषः भवति । यथा न दोषः तथा अस्तु । (कात्यायन वार्तिक)दृश्यर्थानां च प्रवृत्तौ(वार्तिकान्त) । दृश्यर्थानां च प्रवृत्तौ कृदन्तात्णिच्वक्तयः तताचष्टे इति एतस्मिनर्थे कृल्लुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवत्च कारकं भवति इति । मृगरमणं आचष्टे मृगान्रमयति इति । दृश्यर्थानां इति किमर्थं । यदा हि ग्रामे मृगरमणं आचष्टे मृगरमणं आचष्टे इति एव तदा भवति इति । (कात्यायन वार्तिक)आङ्लोपः च कालात्यन्तसंयोगे मर्यादायाम्(वार्तिकान्त) । कालात्यन्तसंयोगे मर्यादयां कृदन्तात्णिच्वक्तयः तताचष्टे इति एतस्मिनर्थे आङ्लोपः च कृल्लुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवत्च कारकं भवति इति । आरात्रिम्विवासं आचष्टे रात्रिं विवासयति इति । (कात्यायन वार्तिक)चित्रीकरणे प्रापि(वार्तिकान्त) । चित्रीकरणे प्राप्यर्थे कृदन्तात्णिच्वक्तयः कृल्लुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवत्च कारकं भवति इति । उज्जयिन्याः प्रस्थितः माहिष्मत्यां सुर्योद्गमनं सम्भावयते सूर्यं उद्गमयति । (कात्यायन वार्तिक)नक्षत्रयोगे ज्ञि(वार्तिकान्त) । नक्षत्रयोगे जानात्यर्थे कृदन्तात्णिच्वक्तयः कृल्लुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवत्च कारकं भवति इति । पुष्ययोगं जानाति पुष्येण योजयति । मघाभिः योजयति । तत्तर्हि बहु वक्तव्यं । (कात्यायन वार्तिक)न वा सामान्यकृतत्वात्हेतुतः हि अविशिष्टम्(वार्तिकान्त) । न वा वक्तव्यं । किं कारणं । सामान्यकृतत्वात। सामान्येन एव अत्र णिच्भविष्यति । हेतुमति इति । किं कारणं । हेतुतः हि अविशिष्टं । हेतुतः हि अविशिष्टं भवति । तुल्या हि हेतुता देवदत्ते च आदित्ये च । न सिध्यति । स्वतन्त्रप्रयोजकः हेतुसञ्ज्ञः भवति इति उच्यते । न च असौ आदित्यं प्रयोजयति । (कात्यायन वार्तिक)स्वतन्त्रप्रयोजकत्वातप्रयोजकः इति चेत्मुक्तसंशयेन तुल्यम्(वार्तिकान्त) । यं भवान्स्वत्रन्त्रप्रयोजकं मुक्तसंशयं न्याय्यं मन्यते पाचयति ओदनं देवदत्तः यज्ञदत्तेन इति तेन एतत्तुल्यं । कथं । (कात्यायन वार्तिक)प्रवृत्तिः हि उभयत्र अनपेक्ष्य(वार्तिकान्त) । प्रवृत्तिः हि उभयत्र अनपेक्ष्य एव किं चित्भवति देवदत्ते च आदित्ये च । न इह कः चित्परः अनुग्रहीतव्यः इति प्रवर्तते । सर्वे इमे स्वभूत्यर्थं प्रवर्तन्ते । ये तावतेते गुरुशुश्रूषवः ते अपि स्वभूत्यर्थं एव प्रवर्तन्ते पारलौकिकं च नः भविष्यति इह च नः प्रीतः गुरुः अध्यापयिष्यति इति । तथा यतेतत्दासकर्मकरं नाम एते अपि स्वभूत्यर्थं एव प्रवर्तन्तेभक्तं चेलं च लप्स्यामहे परिभाषाः च न नः भविष्यन्ति इति । तथा ये एते शिल्पिनः नामे ते अपि स्वभूत्यर्थं एव प्रवर्तन्ते वेतनं च लप्स्यामहे मित्राणि च नः भविष्यन्ति इति । एवं एतेषु सर्वेषु स्वभूत्यर्थं प्रवर्तमानेषु (कात्यायन वार्तिक)कुर्वतः प्रयोजकः इति चेत्तुल्यम्(वार्तिकान्त) । यदि कः चित्कुर्वतः प्रयोजकः नाम भवति तेन एतत्तुल्यं । यदि तर्हि सर्वे इमे स्वभूत्यर्थं प्रवर्तन्तेकः प्रयोज्यार्थः । यतभिप्रायेषु सज्जन्ते । ईदृशौ वध्रौ कुरु । ईदृशौ पटुकौ कुरु । आदित्यः च अस्य अभिप्राये सज्जते । एषः तस्य अभिप्रायः । उज्जयिन्याः प्रस्थितः माहिष्मत्यां सुर्योद्गमनं सम्भावयेय इति । तं च अस्य अभिप्रायं आदित्यः निर्वर्तयति । भवेतिह वर्तमानकालता युक्ता । उज्जयिन्याः प्रस्थितः माहिष्मत्यां सुर्योद्गमनं सम्भावयते सूर्यं उद्गमयति इति । तत्रस्थस्य हि तस्य आदित्यः उदेति । इह तु कथं वर्तमानकालतां कंसं घातयति बलिं बन्धयति इति चिरहते कंसे चिरबद्धे च बलौ । अत्र अपि युक्ता । कथं । ये तावतेते शोभिकाः नाम एते प्रत्यक्षं कंसं घातयन्ति प्रत्यक्षं च बलिं बन्धयन्ति इति । चित्रेषु कथं । चित्रेषु अपि उद्गूर्णाः निपतिताः च प्रहाराः दृश्यन्ते कंसकर्षण्यः च । ग्रन्थिकेषु कथं यत्र शब्दगडुमात्रं लक्ष्यते । ते अपि हि तेषां उत्पत्तिप्रभृति आ विनाशातृद्धीः व्याचक्षाणाः सतः बुद्धिविषयान्प्रकाशयन्ति । आतः च सतः व्यामिश्राः हि दृश्यन्ते । के चित्कंसभक्ताः भवन्ति के चित्वासुदेवभक्ताः । वर्णान्यत्वं खलु अपि पुष्यन्ति । के चित्रक्तमुखाः भवन्ति के चित्कालमुखाः । त्रैकाल्यं खलु अपि लोके लक्ष्यते । गच्छ हन्यते कंसः । गच्छ घानिष्यते कंसः । किं गतेन हतः कंसः इति ।
(पाणिनीयसूत्र ३,१।२७) कि.,३७।२-३८।११ रो.,९७-१०१ किमर्थः ककारः । क्ङिति इति गुणप्रतिषेधः यथा स्यात। न एततस्ति प्रयोजनं । सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः उच्यते । धातोः च विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञां लभते । न च अयं धातोः विधीयते । कण्ड्वादीनि हि प्रातिपदिकानि । (कात्यायन वार्तिक)कण्ड्वादिभ्यः वावचनम्(वार्तिकान्त) । कण्ड्वादिभ्यः वा इति वक्तव्यं । (कात्यायन वार्तिक)अवचने हि नित्यप्रत्ययत्वम्(वार्तिकान्त) । अक्रियमाणे हि वावचने नित्यः प्रत्ययविधिः प्रसज्येत । तत्र कः दोषः । (कात्यायन वार्तिक)तत्र धातुविधितुक्प्रतिषेधः(वार्तिकान्त) । तत्र धातुविधेः तुकः च प्रतिषेधः वक्तव्यः स्यात। कण्ड्वौ कण्ड्वः । अचि श्नुधातुभ्रुवां य्वोः इयङुवङौ इति उवङदेशः प्रसज्येत । इह च कण्ड्वा कण्ड्वे न ऊङ्धात्वोः इति प्रतिषेधः प्रसज्येत । तुक्च प्रतिषेध्यः । वल्गुः मन्तुः इति । ह्रस्वस्य पिति कृति तुक्प्राप्नोति । (कात्यायन वार्तिक)ह्रस्वयलोपौ च वक्तव्यौ(वार्तिकान्त) । ह्रस्वयलोपौ च वक्तव्यौ स्यातां । वल्गुः मन्तुः इति । किमर्थं इदं न ह्रस्वः एव अयं । अन्तरङ्गत्वातकृद्यकारे इति दीर्घत्वं प्राप्नोति । यलोपः । यलोपः च वक्तव्यः । कण्डूः वल्गुः मन्तुः इति । किमर्थं इदं न वलि इति एव सिद्धं । वलि इति उच्यते । न च अत्र वलिं पश्यामः । ननु चल्क्विप्वलादिः । क्विब्लोपे कृते वलाद्यभावात्न प्राप्नोति । इदं इह सम्प्रधार्यं । क्विब्लोपः क्रियतां वलि लोपः इति । किं अत्र कर्तव्यं । परत्वात्क्विब्लोपः । नित्यः खलु अपि क्विब्लोपः । कृते अपि यलोपे प्राप्नोति अकृते अपि प्राप्नोति । नित्यत्वात्परत्वात्च क्विलोपे कृते वलाद्यभावात्न प्राप्नोति । एवं तर्हि प्रत्ययलक्षणेन भविष्यति । वर्णाश्रये न अस्ति प्रत्ययलक्षणं । अथ क्रियमाणे अपि वावचने यदा यगन्तात्क्विप्तदा एते दोषाः कस्मात्न भवन्ति । न एतेभ्यः तदा क्विप्द्रक्ष्यते । किं कारणं । अन्येभ्यः अपि दृश्यते इति उच्यते । न च एतेभ्यः तदा क्विप्दृश्यते । यथा एव तर्हि क्रियमाणे वावचने अन्येभ्यः अपि दृश्यते इति एवं अत्र क्विप्न भवति एवं अक्रियमाणे अपि न भविष्यति । अवश्यं एतेभ्यः तदा क्विपेषितव्यः । किं प्रयोजनं । एतानि रूपाणि यथा स्युः इति । तत्तर्हि वावचनं कर्तव्यं । न कर्तव्यं । उभयं कण्ड्वादीनि धातवः च प्रातिपदिकानि च । आतः च उभयं । कण्डूयति इति क्रियां कुर्वाणे प्रयुज्यते अस्ति मे कण्डूः इति वेदनामात्रस्य सान्निध्ये । अपरः आह : (कात्यायन वार्तिक)धातुप्रकरणात्धातुः कस्य आसञ्जनातपि । आह च अयं इमं दीर्घं । मन्ये धातुः विभाषितः (वार्तिकान्त)।
(पाणिनीयसूत्र ३,१।३०) कि.,३८।१३-४०।२ रो.,१०१-१०४ किमर्थः अयं णकारः । वृद्ध्यर्थः । ञ्णिति इति वृद्धिः यथा स्यात। क्रियमाणे अपि वै णकारे वृद्धिः न प्राप्नोति । किं कारणं । क्ङिति च इति प्रतिषेधात। णित्करणसामर्थ्यात्भविष्यति । अतः उत्तरं पठति । (कात्यायन वार्तिक)णिङि णित्करणस्य सावकाशत्वात्वृद्धिप्रतिषेधप्रसङ्गः(वार्तिकान्त) । णिङि णित्करणं सावकाशं । कः अवकाशः । सामान्यग्रहणार्थः णकारः । क्व सामान्यग्रहणार्थेन अर्थः । णेः अनिटि इति । णिङि णित्करणस्य सावकाशत्वात्वृद्धिप्रतिषेधः प्राप्नोति । ङित्करणं अपि तर्हि सावकाशं । कः अवकाशः । सामान्यग्रहणाविघातार्थः ङकारः । क्व सामान्यग्रहणाविघातार्थेन अर्थः । अत्र एव । शक्यः अत्र सामान्यग्रहणाविघातार्थः अन्यः अनुबन्धः आसङ्क्तुं । तत्र ङकारानुरोधात्वृद्धिप्रतिषेधः प्राप्नोति । अवशयं अत्र आत्मनेपदार्थः ङकारः अनुबन्धः आसङ्क्तव्यः ङितः इति आत्मनेपदं यथा स्यात। एवं उभयोः सावकशयोः प्रतिषेधबलीयस्त्वात्प्रतिषेधः प्राप्नोति । एवं तर्हि आचार्यप्रवृत्तिः ज्ञापयति न कमेः वृद्धिप्रतिषेधः भवति इति यतयं न कम्यमिचमां इति मित्सञ्ज्ञाया प्रतिषेधं शास्ति । (कात्यायन वार्तिक)मित्प्रतिषेधस्य च अर्थवत्त्वात्(वार्तिकान्त) । मित्प्रतिषेधस्य च अर्थवत्त्वात्प्रतिषेधः प्राप्नोति । अर्थवान्मित्प्रतिषेधः । कः अर्थः । णिङन्तस्य णिचि या वृद्धिः तस्याः ह्रस्वत्वं मा भूतिति । ननु एतस्याः अपि क्ङिति च इति प्रतिषेधेन भवितव्यं । न भवितव्यं । उक्तं एतत्क्ङिति प्रतिषेधे तन्निमित्तग्रहणं इति । एवं तर्हि न णिङन्तस्य णिचि या वृद्धिः तस्याः ह्रस्वत्वं प्राप्नोति । किं कारणं । णिङा व्यवहितत्वात। लोपे कृते न अस्ति व्यवधानं । स्थानिवद्भावात्व्यवधानं एव । णिङि एव तर्हि मा भूतिति । णिङि च न प्राप्नोति । किं कारणं । असिद्धं बहिरङ्गलक्षणं अन्तरङ्गलक्षणे इति । न एव वा पुनः णिङन्तस्य णिचि वृद्धिः प्राप्नोति । किं कारणं । णिङा व्यवहितत्वात। लोपे कृते न अस्ति व्यवधानं । स्थानिवद्भावात्व्यवधानं एव । इदं तर्हि प्रयोजनं । यत्तत्चिण्णमुलोः दीर्घः अन्यतरस्यां इति दीर्घत्वं तत्कमेः णिङि मा भूतिति । किं पुनः कारणं तत्र दीर्घः अन्यतरस्यां इति उच्यते । न ह्रस्वः अन्यतरस्यां इति एव उच्येत । यथाप्राप्तं च अपि कमेः ह्रस्वत्वं एव । तत्र अयं अपि अर्थः । ह्रस्वग्रहणं न कर्तव्यं भवति । प्रकृतं अनुवर्तते । क्व प्रकृतं । मितां ह्रस्वः इति । का रूपसिद्धिः : अशमि अशामि शमं शमं शामं शामं । वृद्ध्या सिद्धं । न सिध्यति । न सिध्यति । न उदात्तोपदेशस्य मान्तस्य अनाचमेः इति वृद्धिप्रतिषेधः प्राप्नोति । चिण्कृतोः सः प्रतिषेधः न णिचि । इदं तर्हि । अजनि अजानि जनं जनं जानं जानं । जनिवध्योः च इति वृद्धिप्रतिषेधः प्राप्नोति । सः अपि चिण्कृतोः एव । णिज्व्यवहितेषु तर्हि यङ्लोपे च उपसङ्ख्यानं कर्तव्यं स्यात। शमयन्तं प्रयोजितवानशमि अशामि शमं शमं शामं शामं । शंशमयतेः अशंसमि अशंशामि शंशमं शंशमं शंशामं शंशामं । किं पुनः कारणं न सिध्यति । चिण्णमुल्परे णौ मितां अङ्गानां ह्रस्वः भवति इति उच्यते । यः च अत्र णिः चिण्णमुल्परः न तस्मिन्मितङ्गं यस्मिन्च मितङ्गं न असौ णिः णमुल्परः । णिलोपे कृते चिण्णमुल्परः । स्थानिवद्भावात्न चिण्णमुल्परः । अथ दीर्घः अन्यतरस्यां इति उच्यमाने यावता स्थानिवद्भावः कथं एव एतत्सिध्यति । एततिदानीं दीर्घग्रहणस्य प्रयोजनं । दीर्घविधिं प्रति अजादेशः न स्थानिवतिति स्थानिवद्भावप्रतिषेधः सिद्धः भवति । यदा खलु अपि आयादयः आर्धधातुके वा भवन्ति तदा णिचि णिङ्न भवति । तदर्थं च मित्प्रतिषेधः स्यात। तस्मात्प्रतिषेधः प्राप्नोति । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । तद्धितकाम्योः इक्प्रकरणातिति ।
(पाणिनीयसूत्र ३,१।३१) कि.,४०।४-४१।१९ रो.,१०४-१०७ कथं इदं विज्ञायते । आयादिभ्यः यतार्धधातुकं तस्मिनवस्थिते वा आयादीनां निवृत्तिः भवति । आहोस्वितायादिप्रकृतेः यतार्धधातुकं तस्मिनवस्थिते वा आयादीनां उत्पत्तिः भवति इति । किं गतं एततियता सूत्रेणा आहोस्वितन्यतरस्मिन्पक्षे भूयः सूत्रं कर्तव्यं । गतं इति आह । कथं । यदा तावतायादिभ्यः यतार्धधातुकं तस्मिनवस्थिते वा आयादीनां निवृत्तिः भवति इति तदा अविशेषेण सर्वं आयादिप्रकरणं अनुक्रम्य आयादयः आर्धधातुके वा इति उच्यते । यदा अपि आयादिप्रकृतेः यतार्धधातुकं तस्मिनवस्थिते वा आयादीनां उत्पत्तिः भवति इति तदा एकं वाक्यं तत्च इदं च । गुपूधूपविच्छिपणिपनिभ्यः आयः आर्धधातुके वा । ऋतेः ईयङार्धधातुके वा । कमेः णिङार्धधातुके वा इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)आयादिभ्यः यतार्धधातुकं आयादिप्रकृतेः यतार्धधातुकं इति च उभयथा अनिष्टप्रसङ्गः (वार्तिकान्त)। आयादिभ्यः यतार्धधातुकं आयादिप्रकृतेः यतार्धधातुकं इति च उभयथा अनिष्टं प्राप्नोति । यदि विज्ञायते आयादिभ्यः यतार्धधातुकं तस्मिनवस्थिते वा आयादीनां निवृत्तिः भवति इति गुप्तिः जुगोप इति च इष्टं न सिध्यति इदं च अनिष्टं प्राप्नोति । गोपां चकार गोपा इति च । इदं तावतिष्टं सिद्धं भवति । गोपायां चकार गोपाय इति । अथ विज्ञायते आयादिप्रकृतेः यतार्धधातुकं तस्मिनवस्थिते वा आयादीनां उत्पत्तिः भवति इति गुप्तिः जुगोप इति च इष्टं सिद्धं भवति । इदं च अनिष्टं न प्राप्नोति । गोपायां चकार गोपाय इति । इदं तु इष्टं न सिध्यति । गोपयां चकार गोपाय इति । इदं तावतिष्टं सिध्यति । गोपयां चकार इति । कथं । अस्तु अत्र आयादिप्रकृतेः यतार्धधातुकं लिट। तस्मिनवस्थिते वा आयादयः । आं मध्ये पतिष्यति यथा विकरणाः तद्वत। इदं तर्हि इष्टं न सिध्यति गोपाया इति । (कात्यायन वार्तिक)सिद्धं तु सार्वधातुके नित्यवचनातनाश्रित्य वाविधानम्(वार्तिकान्त) । सिद्धं एतत। कथम। अविशेषेण आयादीनां वाविधानं उक्त्वा सार्वधातुके नित्यं इति वक्ष्यामि । (कात्यायन वार्तिक)स्यादिबलीयस्त्वं तु विप्रतिषेधेन तुल्यनिमित्तत्वात्(वार्तिकान्त) । स्यादिभिः तु आयादीनां बाधनं प्राप्नोति विप्रतिषेधेन । किं कारणं । तुल्यनिमित्तत्वात। तुल्यं निमित्तं स्यादीनां आयादीनां च । स्यादीनां अवकाशः करिष्यति हरिष्यति । आयादीनां अवकाशः गोपायति धूपायति । इह उभयं प्राप्नोति । गोपायिष्यति धूपायिष्यति इति । परत्वात्स्यादयः प्राप्नुवन्ति । (कात्यायन वार्तिक)न वा आयादिविधानस्य अनवकाशत्वात्(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । आयादिविधानस्य अनवकाशत्वात। अनवकाशाः आयादयः उच्यन्ते च । ते वचनात्भविष्यन्ति । ननु च इदानीं एव अवकाशः प्रक्¯प्तः गोपायति धूपायति इति । अत्र अपि शप्स्यादिः भवति । यदि अपि अत्र अपि भवति न तु अत्र अस्ति विशेषः सति वा शपि असति वा । अन्यतिदानीं एततुच्यते न अस्ति विशेषः इति । यत्तु ततुक्तं आयादीनां स्यादिभिः अव्याप्तः अवकाशः इत्स न अस्ति अवकाशः । अवश्यं खलु अपि अत्र शप्स्यादिः एषितव्यः । किं कारणं । गोपायन्ती धूपायन्ती इति : शप्श्यनोः नित्यं इति नुं यथा स्यातिति । यदि तर्हि अनवकाशाः आयादयः आयादिभिः स्यादीनां बाधनं प्राप्नोति । यथा पुनः अयं सूत्रेभेदेन परिहारः यदि पुनः शपि नित्यं इति उच्येत । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं आयादिभ्यः यतार्धधातुकं आयादिप्रकृतेः यतार्धधातुकं इति च उभयथा अनिष्टप्रसङ्गः इति । न एषः दोषः । आर्धधातुके इति न एषा परसप्तमी । का तर्हि । विषयसप्तमी । आर्धधातुकविषये इति । तत्र आर्धधातुकविषये आयादिप्रकृतेः आयादिषु कृतेषु यः यतः प्रत्ययः प्राप्नोति सः ततः भविष्यति ।
(पाणिनीयसूत्र ३,१।३२) कि.,४१।२१-४२।१२ रो.,१०७-१०९ अन्तग्रहणं किमर्थं न सनादयः धातवः इति एव उच्येत । केन इदानीं तदन्तानां भविष्यति । तदन्तविधिना । अतः उत्तरं पठति । (कात्यायन वार्तिक)सनादिषु अन्तग्रहणे उक्तम्(वार्तिकान्त) । किं उक्तं । पदसञ्ज्ञायां अन्तग्रहणं अन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थं इति । इदं च अपि प्रत्ययग्रहणं । अयं च अपि सञ्ज्ञाविधिः । किमर्थं पुनः इदं उच्यते न भूवादयः धातवः इति एव सिद्धं । न सिध्यति । पाठेन धातुसञ्ज्ञा क्रियते न च इमे तत्र पठ्यन्ते । कथं तर्हि अन्येषां अपठ्यमानानां धातुसञ्ज्ञा भवति : अस्तेः भूः । ब्रुवः वचिः । चक्षिङः ख्याञिति । यदि अपि एते तत्र न पठ्यन्ते प्रकृतयः तु एषां तत्र पठ्यन्ते । तत्र स्थानिवद्भावात्सिद्धं । इमे अपि तर्हि यदि अपि तत्र न पठ्यन्ते येषां तु अर्थाः आदिश्यन्ते ते तत्र पठ्यन्ते । तत्र स्थानिवद्भावात्सिद्धं । न सिध्यति । आदेशः स्थानिवत्भवति इति उच्यते । न च इमे आदेशाः । इमे अपि आदेशाः । कथं । आदिश्यते यः सः आदेशः । इमे च अपि आदिश्यन्ते । एवं अपि षष्ठीनिर्दिष्टस्य आदेशाः स्थानिवत्भवन्ति इति उच्यते । न चे इमे षष्ठीनिर्दिष्टस्य आदेशाः । षष्ठीग्रहणं निवर्तिष्यते । यदि निवर्तते अपवादे उत्सर्गकृतं प्राप्नोति । कर्मणि अणातः अनुपसर्गे कः इति के अपि अण्कृतं प्राप्नोति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न अपवादे उत्सर्गकृतं भवति इति यतयं श्यनादीन्कान्चित्शितः करोति । श्नं श्ना श्नुः इति।
(पाणिनीयसूत्र ३,१।३३) कि.,४२।१४-४३।९ रो.,१०९-१११ इमे विकरणाः पठ्यन्ते । तत्र न ज्ञायते कः उत्सर्गः कः अपवादः इति । तत्र वक्त्यं : अयं उत्सर्गः अयं अपवादः इति । इमे ब्रूमः । यकुत्सर्गः । अपवादः शब्दादिः स्यादयः च । यदि एवं अपवादविप्रतिषेधात्शबादिबाधनं । अपवाद्विप्रतिषेधात्शबादिभिः स्यादीनां बाधनं प्राप्नोति । शबादीनां अवकाशः पचति यजति । स्यादीनां अवकाशः पक्ष्यते यक्ष्यते । इह उभयं प्राप्नोति । पक्ष्यति यक्ष्यति । परत्वात्शबादयः प्राप्नुवन्ति । अपवादः नाम अनेकलक्षणप्रसङ्गः । अपवादः नाम भवति यत्र अनेकलक्षणप्रसङ्गः । तत्र भावकर्मणोः यक्विधीयते कर्तरि शप। कः प्रसङ्गः यत्भावकर्मणोः यकं कर्तरि शबादयः बाधेरन। एवं तर्हि यक्शपौ उत्सर्गौ । अपवादाः श्यनादय स्यादयः च । अपवादविप्रतिषेधात्श्यनादिबाधनं । अपवाद्विप्रतिषेधात्श्यनादिभिः स्यादीनां बाधनं प्राप्नोति । श्यनादीनां अवकाशः दीव्यति सीव्यति । स्यादीनां अवकाशः पक्ष्यति यक्ष्यति । इह उभयं प्राप्नोति । देविष्यति सेविष्यति । परत्वात्श्यनादयः प्राप्नुवन्ति । न एषः दोषः । शबादेशाः श्यनादयः करिष्यन्ते । शप्च स्यादिभिः बाध्यते । तत्र दिवादिभ्यः स्यादिविषये शपेव न अस्ति कुतः श्यनादयः । तत्तर्हि शपः ग्रहणं कर्तव्यं । न कर्तव्यं । प्रकृतं अनुवर्तते । क्व प्रकृतं । कर्तरि शपिति । तत्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन च इह अर्थः । दिवादिभ्यः इति एषा पञ्चमी शपिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मातिति उत्तरस्य इति । प्रत्ययविधिः अयं । न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति । न अयं प्रत्ययविधिः । विहितः प्रत्ययः । प्रकृतः च अनुवर्तते । अथ वा अनुवृत्तिः करिष्यते । सार्वधातुके यक्स्यतासी लृलुटोः च्लि लुङि च्लेः सिच्भवति । कर्तरि शप्स्यतासी लृलुटोः च्लि लुङि च्लेः सिच्भवति । दिवादिभ्यः श्यन्स्यतासी लृलुटोः च्लि लुङि च्लेः सिच्भवति । अथ वा अन्तरङ्गाः स्यादयः । का अन्तरङ्गता । लावस्थायां एव स्यादयः । सार्वधातुके श्यनादयः ।
(पाणिनीयसूत्र ३,१।३४।१) कि.,४३।११९-४४।९ रो.,१११-११२ (कात्यायन वार्तिक)सि(वार्तिकान्त)P(कात्यायन वार्तिक) उत्सर्गः छन्दसि(वार्तिकान्त) । सिपुत्सर्गः छन्दसि कर्तव्यः । (कात्यायन वार्तिक)सनाद्यन्ते नेषत्वाद्यर्थः(वार्तिकान्त) । सनाद्यन्ते च कर्तव्यः । किं प्रजोजनं । नेषत्वाद्यर्थः । इन्द्रः नः तेन नेषतु । गा वः नेष्टात। (कात्यायन वार्तिक)प्रकृत्यन्तरत्वात्सिद्धम्(वार्तिकान्त) । प्रकृत्यन्तरत्वात्सिद्धं एतत। प्र्कृत्यन्तरं नेषतिः । (कात्यायन वार्तिक)नेषतु नेष्टातिति दर्शनात्(वार्तिकान्त) । नेषतु नेष्टातिति दृश्यते ।
(पाणिनीयसूत्र ३,१।३४।२) कि.,४३।२०-४४।९ रो.,११२-११४ अथ किमर्थः पकारः । स्वरार्थः । अनुदात्तौ सुप्पितौ इति एषः स्वरः यथा स्यात। (कात्यायन वार्तिक)पित्करणानर्थक्यं च अनच्कत्वात्(वार्तिकान्त) । पित्करणं च अनर्थकं । किं कारणं । अनच्कत्वात। अनच्कः अयं । तत्र न अर्थः स्वरार्थेन पकारेण अनुबन्धेन । इटि कृते साच्कः भविष्यति । (कात्यायन वार्तिक)इटः अनुदात्तार्थं इति चेतागमानुदात्तत्वात्सिद्धं (वार्तिकान्त)। आगमानुदात्तत्वेन इटः अनुदात्तत्वं भविष्यति । एवं तर्हि सपयं कर्तव्यः । किं प्रयोजनं । यतेव यासिषीष्ठाः । एकाज्लक्षणः इट्प्रतिषेधः मा भूतिति । क्व अयं अकारः श्रूयते । न क्व चित्श्रूयते । लोपः अस्य भविष्यति अतः लोपः आर्धधातुके इति । यदि न क्व चित्श्रूयते न अर्थः स्वरार्थेन पकारेण अनुबन्धेन । एवं अपि कर्तव्यः एव । किं प्रयोजनं । अनुदात्तस्य लोपः यथा स्यात। उदात्तस्य मा भूतिति । किं च स्यात। उदात्तनिवृत्तिस्वरः प्रसज्येत । (कात्यायन वार्तिक)सि(वार्तिकान्त)P(कात्यायन वार्तिक) बहुलं छन्दसि णित्(वार्तिकान्त) । सिप्बहुलं छन्दसि णित्वक्तव्यः । सविता धर्मं दाविषत। प्र णः आयूंषि तारिषत।
(पाणिनीयसूत्र ३,१।३५) कि.,४४।११-१८ रो.,११४-११५ (कात्यायन वार्तिक)कास्ग्रहणे चकासः उपसङ्ख्यानम्(वार्तिकान्त) । कास्ग्रहणे चकासः उपसङ्ख्यानं कर्तव्यं । चकासां चकार । न कर्तव्यं । चकास्प्रतययातिति वक्ष्यामि । चकास्ग्रहणे कासः उपसङ्ख्यानं कर्तव्यं । कासां चक्रे । सूत्रं च भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं कास्ग्रहणे चकासः उपसङ्ख्यानं इति । न एषः दोषः । चकास्शब्दे कास्शब्दः अस्ति । तत्र कास्प्रत्ययातिति एव सिद्धं । न सिध्यति । किं कारणं । अर्थवतः कास्शब्दस्य ग्रहणं । न च चकास्शब्दे कास्शब्दः अर्थवान। एवं तर्हि कासि अनेकाचः इति वक्तव्यं । किं प्रयोजनं । चुलुम्पाद्यर्थं । चुलुम्पां चकार दरिद्रां चकार ।
(पाणिनीयसूत्र ३,१।३६।१) कि.,४४।२०-४६।९ रो.,११५-११९ (कात्यायन वार्तिक)गुरुमतः आम्विधाने लिण्निमित्तात्प्रतिषेधः(वार्तिकान्त) । गुरुमतः आम्विधाने लिण्निमित्तात्प्रतिषेधः वक्तव्यः । इयेष उवोष । गुणे कृते इजादेः च गुरुमतः अनृच्छः इति आं प्राप्नोति । गुरुमद्वचनं इदानीं किमर्थं स्यात। (कात्यायन वार्तिक)गुरुमद्वचनं किमर्थं इति चेत्णलि उत्तमे यजादिप्रतिषेधाऋथम्(वार्तिकान्त) । गुरुमद्वचनं किमर्थं इति चेत्णलि उत्तमे यजादीनां मा भूतिति । इयज अहं उवप अहं । (कात्यायन वार्तिक)उपदेशवचनात्सिद्धम्(वार्तिकान्त) । उपदेशे गुरुमतः इति वक्तव्यं । यदि उपदेशग्रहणं क्रियते उच्छेः आं वक्तव्यः । व्युच्छां चकार इति । (कात्यायन वार्तिक)ऋच्छिप्रतिषेधः ज्ञापकः उच्छेः आम्भावस्य(वार्तिकान्त) । यतयं अनृच्छः इति प्रतिषेधं शास्ति तत्ज्ञापयति आचार्यः तुग्निमित्ता यस्य गुरुमत्ता भवति तस्मातां इति । स तर्हि ज्ञापकार्थः ऋच्छिप्रतिषेधः वक्तव्यः । ननु च अवश्यं प्राप्त्यर्थः अपि वक्तव्यः । न अर्थः प्राप्त्यर्थेन । ऋच्छत्य्®तां इति ऋच्छेः लिटि गुणवचनं ज्ञापकं न ऋच्छेः लिटि आं भवति इति । न एततस्ति ज्ञापकं । अर्त्यर्थं एतत्स्यात। कथं पुनः ऋच्छेः लिटि गुणः उच्यमानः अर्त्यर्थः शक्यः विज्ञातुं । सामर्थ्यात। ऋच्छिः लिटि न अस्ति इति कृत्वा प्रकृत्यर्थं विज्ञायते । तत्यथा । तिष्ठतेः इत्जिघ्रतेः वा इति चङि तिष्ठतिजिघ्रती न स्तः इति कृत्वा प्रकृत्यर्थं विज्ञायते । किं पुनः अर्तेः गुणवचने प्रयोजनं । आरतुः आरुः एतत्रूपं यथा स्यात। किं पुनः कारणं न सिध्यति । द्विर्वचने कृते सवर्णदीर्घत्वे च यदि तावत्धातुग्रहणेन ग्रहणं ®कारान्तानां लिटि गुणः भवति इति गुणे कृते रपरते अरतुः अरुः इति एतत्रूपं प्रसज्येत । अथ अभ्यासग्रहणेन ग्रहणं उः अत्त्वं रपरत्वं हलादिशेषः अतः आदेः इति दीर्घत्वं आतः लोपः इटि च इति आकारलोपः अतुः उः इति वचनं एव श्रूयेत । गुण पुनः सति गुणे कृते रपरत्वे च द्विर्वचनं अतः आदेः इति दीर्घत्वं । ततः सिद्धं भवति यथा आटतुः आटुः इति । किं पुनः सवर्णदीर्घत्वं तावत्भवति न पुनः उः अत्त्वं । परत्वातुः अत्त्वेन भवितव्यं । अन्तरङ्गत्वात। अन्तरङ्गं सवर्णदीर्घत्वं । बहिरङ्गं उः अत्त्वं । का अन्तरङ्गता । वर्णौ आश्रित्य सवर्णदीर्घत्वं । अङ्गस्य उः अत्त्वं । उः अत्त्वं अपि अन्तरङ्गं । कथं । वक्ष्यति एतत। प्राकभ्यासविकारेभ्यः अङ्गाधिकारः इति । उभयोः अन्तरङ्गयोः परत्वातुः अत्त्वं । उः अत्त्वे कृते रपरत्वं हलादिशेषः अतः आदेः इति दीर्घत्वं परस्य रूपस्य यणादेशः । सिद्धं भवति आरतुः आरुः इति । अथ अपि कथं चितर्तेः लिटि गुणेन अर्थः स्यात। एवं अपि न दोषः । ऋच्छत्य्®तां इति ऋकारः अपि निर्दिश्यते । कथं । अयं । ऋच्छति ऋ ऋतां ऋच्छत्य्®तां इति । इह अपि तर्हि प्राप्नोति । चक्रतुः चक्रुः इति । संयोगादिग्रहणं नियमार्थं भविष्यति । संयोगादेः एव अकेवलस्य न अन्यस्य अकेवलस्य इति । ततेततन्तरेण अर्तेः लिटि गुणवचनं रूपं सिद्धं अन्तरेण च ऋच्छिग्रहणं अर्तेः लिटि गुणः सिद्धः । सः एषः अनन्यार्थः ऋच्छिप्रतिषेधः वक्तव्यः उच्छेः वा आं वक्तव्यः । उभयं न वक्तव्यं । उपदेशग्रहणं न करिष्यते । कस्मात्न भवति इयेष उवोष । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) ।किं उक्तं । सन्निपातलक्षणः विधिः अनिमित्तं तद्विघातस्य इति ।
(पाणिनीयसूत्र ३,१।३६।२) कि.,४६।१०-१५ रो.,११९-१२० (कात्यायन वार्तिक)ऊर्णोतेः च उपसङ्ख्यानम्(वार्तिकान्त) । ऊर्णोतेः च उपसङ्ख्यानं कर्तव्यं । प्रोर्णुनाव । न वक्तव्यं । (कात्यायन वार्तिक)वाच्यः ऊर्णोः णुवद्भावः । यङ्प्रसिद्धिः प्रयोजनं । आमः च प्रतिषेधार्थं । एकाचः च इडुपग्रहात्(वार्तिकान्त)। अथ वा उकारः अपि अत्र निर्दिश्यते । कथं । अविभक्तिकः निर्देशः । अनृच्छ उ अनृच्छो दयायासः च इति ।
(पाणिनीयसूत्र ३,१।३८) कि.,४६।१७-२१ रो.,१२० (कात्यायन वार्तिक)विदेः आं कित्(वार्तिकान्त) । विदेः आं कित्वक्तव्यः । विदां चकार । न वक्तव्यः । विदिः अकारान्तः । यदि अकारान्तः वेत्ति इति गुणः न सिध्यति । लिट्सन्नियोगेन । एवं अपि विवेद इति न सिध्यति । एवं तर्हि आम्सन्नियोगेन । भारद्वाजीयाः पठन्ति । (कात्यायन वार्तिक)विदेः आं कित्निपातनात्वा अगुणत्वम्(वार्तिकान्त) इति ।
(पाणिनीयसूत्र ३,१।३९) कि.,४६।२३-४७।२ रो.,१२०-१२१ श्लुवदतिदेशे किं प्रयोजनं । (कात्यायन वार्तिक)श्लुवदतिदेशे प्रयोजनं द्वित्वेत्त्वे(वार्तिकान्त) । बिभरां चकार ।
(पाणिनीयसूत्र ३,१।४०) कि.,४७।४-४८।२३ रो.,१२१-१२४ किमर्थं इदं उच्यते । अनुप्रयोगः यथा स्यात। न एततस्ति प्रयोजनं । आमन्तं अव्यक्तपदार्थकं । तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति । अतः उत्तरं पठति । (कात्यायन वार्तिक)कृञः अनुप्रयोगवचनं अस्तिभूप्रतिषेधार्थम्(वार्तिकान्त) । कृञः अनुप्रयोगवचनं क्रियते अस्तिभूप्रतिषेधार्थं । अस्तिभुवोः अनुप्रयोगः मा भूतिति । (कात्यायन वार्तिक)आत्मनेपदविध्यर्थं च(वार्तिकान्त) । आत्मनेपदविध्यर्थं च कृञः अनुप्रयोगवचनं क्रियते । आत्मनेपदं यथा स्यात। उच्यमाने अपि एतस्मिनवश्यं आत्मनेपदार्थः यत्नः कर्तव्यः । अस्तिभूप्रतिषेधार्थेन च अपि न अर्थः । (कात्यायन वार्तिक)इष्टः सर्वानुप्रयोगः(वार्तिकान्त) । सर्वेषां एव कृभ्वस्तीनां अनुप्रयोगः इष्यते । किं इष्यते एव आहोस्वित्प्राप्नोति अपि । इष्यते च प्राप्नोति च । कथं । कृञिति न एतत्धातुग्रहणं । किं तर्हि । प्रत्याहारग्रहणं । क्व सन्निविष्टानां प्रत्याहारः । कृभ्वस्तियोगे इति अतः प्रभृति आ कृञः ञकारात। (कात्यायन वार्तिक)सर्वानुप्रयोगः इति चेतशिष्यं अर्थाभावात्(वार्तिकान्त) । सर्वानुप्रयोगः इति चेतशिष्यं कृञः अनुप्रयोगवचनं । किं कारणं । अर्थाभावात। आमन्तं अव्यक्तपदार्थकं । तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति । इदं तर्हि प्रयोजनं । कृभ्वस्तीनां एव अनुप्रयोगः यथा स्यात्पचादीनां मा भूतिति । एततपि न अस्ति प्रयोजनं । (कात्यायन वार्तिक)अर्थाभावात्च अन्यस्य(वार्तिकान्त) । अर्थाभावात्च अन्यस्य सिद्धं । कृभ्वस्तयः क्रियासामान्यवाचिनः । क्रियाविशेषवाचिनः पचादयः । न च सामान्यवाचिनोः एव विशेषवाचिनोः एव व प्रयोगः भवति । तत्र विशेषवाचिनः उत्पत्तिः । सामान्यवाचिनः अनुप्रयोक्ष्यन्ते । (कात्यायन वार्तिक)लिट्परार्थं वा(वार्तिकान्त) । लिट्परार्थं तर्हि कृञः अनुप्रयोगवचनं क्रियते । लिट्परस्य एव अनुप्रयोगः यथा स्यात। अन्यपरस्य मा भूतिति । किम्परस्य पुनः प्राप्नोति । लट्परस्य । न लट्परस्य अनुप्रयोगेण भूतकालः विशेषितः स्यात। निष्ठापरस्य तर्हि । ननिष्ठापरस्य अनुप्रयोगेण पुरुषोपग्रहौ विशेइषितौ स्यातां । लुङ्परस्य तर्हि । न लुङ्परस्य अनुप्रयोगेण अनद्यतनः भूतकालः विशेषितः स्यात। लङ्परस्य तर्हि । न लङ्परस्य अनुप्रयोगेण अनद्यतनः परोक्षः कालः विशेषितः स्यात। अयं तर्हि भूते परोक्षे अनद्यतने लङ्विधीयते । हशश्वतोः लङ्च इति । तत्परस्य मा भूतिति । अततपि न अस्ति प्रयोजनं । एकस्याः आकृतेः चरितः प्रयोगः द्वितीयस्याः तृतीयस्याः च न भवति । तत्यथा गोषु स्वामि अश्वेषु च इति । न च भवति गोषु च अश्वानां च स्वामी इति । (कात्यायन वार्तिक)अर्थसमाप्तेः वा अनुप्रयोगः न स्यात्(वार्तिकान्त) । अर्थसमाप्तेः तर्हि अनुप्रयोगः न स्यात। आमन्तेन परिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः न स्यात। एततपि न अस्ति प्रयोजनं । इदानीं एव उक्तं आमन्तं अव्यक्तपदार्थकं । तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति इति । (कात्यायन वार्तिक)विपर्यासनिवृत्त्यर्थं वा(वार्तिकान्त) । विपर्यासनिवृत्त्यर्थं तर्हि कृञः अनुप्रयोगवचनं क्रियते । ईहां चक्रे । चक्रे ईहां इति मा भूत। (कात्यायन वार्तिक)व्यवहित्निवृत्त्यर्थं च(वार्तिकान्त) । व्यवहित्निवृत्त्यर्थं च कृञः अनुप्रयोगवचनं क्रियते । अन्वेव च अनुप्रयोगः यथा स्यात। ईहां चक्रे । व्यवहितस्य मा भूत। ईहां देवदत्तः चक्रे इति ।
(पाणिनीयसूत्र ३,१।४३) कि.,४९।२-५०।२८ रो.,१२५-१३० क्व अयं च्लिः श्रूयते । न क्व चित्श्रूयते । सिजादयः आदेशाः उच्यन्ते । यद्न क्व चित्श्रूयते किमर्थः तर्हि च्लुः उत्सर्गः क्रियते । न सिचुत्सर्गः एव कर्तव्यः । तस्य क्सादयः अपवादाः भविष्यन्ति । अत उत्तरं पठति । (कात्यायन वार्तिक)च्ल्युत्सर्गः सामान्यग्रहणार्थः(वार्तिकान्त) । च्लिः उत्सर्गः क्रियते सामान्यग्रहणार्थः । क्व सामान्यग्रहणार्थेन अर्थः । मन्त्र घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यः लेः इति । तत्र अवरतः त्रयाणां ग्रहणं कर्तव्यं स्यात। चङङोः सिचः च । (कात्यायन वार्तिक)क्सविधाने च अनिड्वचने च्लिसम्प्रत्ययार्थः (वार्तिकान्त)। क्सविधाने च अनिड्वचने च्लिसम्प्रत्ययार्थः च्लिः उत्सर्गः क्रियते । च्लेः अनिटः क्सः सिद्धः भवति । (कात्यायन वार्तिक)घस्¯भावे च(वार्तिकान्त) । घस्¯भावे च च्लवेव कृते लृदितः इति अङ्सिद्धः भवति । अथ चित्करणं किमर्थं । (कात्यायन वार्तिक)च्लेः चित्करणं विशेषणाऋथम्(वार्तिकान्त) । च्लेः चित्करणं क्रियते विशेषणार्थं । क्व विशेषणार्थेन अर्थः । च्लेः सिचिति । लेः सिचिति उच्यमाने लिङ्लिटोः अपि प्रसज्येत । न एततस्ति प्रयोजनं । लुङि इति उच्यते । न च लुङि लिङ्लिटौ भवतः । अथ इदित्करणं किमर्थं । (कात्यायन वार्तिक)इदित्करणं सामान्यग्रहणार्थं (वार्तिकान्त)। इदित्करणं क्रियते च सामान्यग्रहणार्थं । क्व सामान्यग्रहणार्थेन अर्थः । मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यः लेः इति आमः इति च । इकारे च इदानीं सामान्यग्रहणार्थे क्रियमाणे अवश्यं सामान्यग्रहणाविघातार्थः चकारः कर्तव्यः । क्व सामान्यग्रहणाविघातार्थेन अर्थः चकारेण । अत्र एव । यत्तावतुच्यते च्ल्युत्सर्गः सामान्यग्रहणार्थः इति । क्रियमाणे अपि वै च्ल्युत्सर्गे तानि एव त्रीणि ग्रहणानि भवन्ति । च्लु लुङि च्लेः सिच्लेः इति । यतेतत्लेः इति तत्परार्थं भविष्यति । कथं । यतेतत्गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु इति अत्र सिचः ग्रहणं एतत्लेः इति वक्ष्यामि । यदि लेः इति उच्यते धेटः चातुःशब्द्यं प्राप्नोति । अदधतधातधासीत। अदधातिति अपि प्राप्नोति । न चङः लुकि द्विर्वचनेन भवितव्यं । किं कारणं । चङि इति उच्यते । न च अत्र चङं पश्यामः । प्रत्ययलक्षणेन । न लुमता तस्मिनिति प्रत्ययलक्षणप्रतिषेधः । बहुवचने तर्हि चातुःशब्द्यं प्राप्नोति । अदधनधुः अधासिषुः । अधानिति अपि प्राप्नोति । न एषः दोषः । आतः इति जुस्भावः भविष्यति । न सिध्यति । सिज्ग्रहणं तत्र अनुवर्तते । सिज्ग्रहणं निवर्तिष्यते । यदि निवर्तते अभूवनिति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति । एवं तर्हि लुक्सिजपवादः विज्ञास्यते । यदि लुक्सिजपवादः विज्ञायते मा हि दातां मा हि धातां इति अत्र आदिः सिचः अन्यतरस्यां इति एषः स्वरः न प्राप्नोति । तस्मात्न एतत्शक्यं वक्तुं लुक्सिजपवादः इति । न चेतुच्यते अभूवनिति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति । तस्मातातः इति अत्र सिज्ग्रहणं अनुवर्त्यं । तस्मिन्च अनुवर्तमाने धेटः चातुःशब्द्यं प्राप्नोति । तस्मात्गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु इति अत्र सिचः ग्रहणं कर्तव्यं । तस्मिन्च क्रियमाणे तानि एव त्रीणि ग्रहणानि भवन्ति च्लि लुङि च्लेः सिच्लेः इति । यतपि उच्यते क्सविधाने च अनिड्वचने च्लिसम्प्रत्ययार्थः इति । धातुं एव अत्र अनिट्वेन विशेषयिष्यामः । धातोः अनिटः इति । कथं पुनः धातुः नाम अनिट्स्यात। धातुः एव अनिट। कथं । अनिमित्तं वा इटः अनिटः न वा तस्मातिटस्ति सः अयं अनिटिति । अथ धातौ विशेष्यमाणे क्व यः अनिटिति विशेषयिष्यसि । किं च अतः । यदि विज्ञायते निष्ठायां अनिटः इति भूयिष्ठेभ्यः प्राप्नोति । भूयिष्ठाः हि शलन्ताः इगुपधाः निष्ठायां अनिटः । अथ विज्ञायते लिटि यः अनिटिति न कुतः चित्प्राप्नोति । सर्वे हिस्शलन्ताः इगुपधाः लिटि सेटः । किं पुनः कारणं धातौ विशेष्यमाणे एतयोः विशेषयोः विशेषयिष्यते । न पुनः अत्र सामान्येन इटः विधिप्रतिषेधौ । क्व सामन्येन । वलादौ आर्धधातुके । यतपि उच्यते घस्¯भावे च इति । आर्धधातुकीयाः सामान्येन भवन्ति अनवस्थितेषु प्रत्ययेषु । तत्र आर्धधातुकसामान्ये घस्¯भावे कृते लृदितः इति अङ्भविष्यति ।
(पाणिनीयसूत्र ३,१।४४।१) कि.,५१।२-५२।८ रो.,१३०-१३२ किमर्थः चकारः । विशेषणार्थः । क्व विशेषणार्थेन अर्थः । सिचि वृद्धिः परस्मैपदेषु इति । सौ वृद्धिः इति उच्यमाने अग्निः वायुः इति अत्र अपि प्रसज्येत । न एततस्ति प्रयोजनं । परस्मैपदेषु इति उच्यते । न च अत्र परस्मैपदं पश्यामः । स्वरार्थः तर्हि । चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वं यथा स्यात। एततपि न अस्ति प्रयोजनं । अनच्कः अयं । तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन । इटि कृते साच्कः भविष्यति । तत्र प्रत्ययाद्युदात्तत्वेन इटः उदात्तत्वं भविष्यति । न सिध्यति । आगमाः अनुदात्ताः भवन्ति इति अनुदात्तत्वं प्राप्नोति । अतः उत्तरं पठति । (कात्यायन वार्तिक)सिचः चित्करणानर्थक्यं स्थानिवत्वात्(वार्तिकान्त) । सिचः चित्करणं नर्थयं । किं कारणं । स्थानिवत्वात। स्थानिवद्भावात्चित्भविष्यति । (कात्यायन वार्तिक)अर्थवत्तु चित्करणसामर्थ्यात्हि इटः उदात्तत्वम्(वार्तिकान्त) । अर्थवत्तु चित्करणं । कः अर्थः । चित्करणसामर्थ्यात्हि इटः उदात्तत्वं भविष्यति । न अप्राप्ते प्रत्ययस्वरे आगमानुदात्तत्वं आरभ्यते । तत्यथा एव प्रत्ययस्वरं बाधते एवं स्थानिवद्भावातपि या प्राप्तिः तां अपि बाधेत । (कात्यायन वार्तिक)तस्मात्चित्करणम्(वार्तिकान्त) । तस्मात्चकारः कर्तव्यः । अथ इदित्करणं किमर्थं । (कात्यायन वार्तिक)इदित्करणं नकारलोपाभावार्थम्(वार्तिकान्त) । इदित्करणं क्रियते नकारलोपः मा भूतिति । अमंस्त अमंस्थाः । अनिदितां हलः उपधायाः क्ङिति इति । (कात्यायन वार्तिक)न वा हन्तेः सिचः कित्करणं नकारलोपाभावस्य(वार्तिकान्त) । न वा एतत्प्रयोजनं अस्ति । किं कारणं । यतयं हनः सिचिति हन्तेः सिचः कित्त्वं शास्ति तत्ज्ञापयति आचार्यः न सिजन्तस्य नकार्लोपः भवति इति । न एततस्ति ज्ञापकं । अस्ति हि अन्यतेतस्य वचने प्रयोजनं । किं । सिचि एव नलोपः यथा स्यात। परस्मिन्निमित्ते मा भूतिति । कः पुनः अत्र विशेषः सिचि वा नलोपे सति परस्मिन्वा निमित्ते । अयं अस्ति विशेषः । सिचि नलोपे सति नलोपस्य असिद्धत्वातकारलोपः न भवति । परस्मिन्पुनः निमित्ते नलोपे सति अकारलोपः प्राप्नोति । समानाश्रयं असिद्धं व्याश्रयं च इदं । ननु च परस्मिनपि निमित्ते नलोपे सति अकारलोपः न भविष्यति । कथं । असिद्धं बहिरङ्गलक्षणं अन्तरङ्गलक्षणे इति टतेतत्हन्तेः सिचः कित्करणं ज्ञापकं एव न सिजन्तस्य नलोपः भवति इति । (कात्यायन वार्तिक)इदित्त्वात्वा स्थानिवत्त्वात्(वार्तिकान्त) । अथ अपि अनेन इदिता अर्थः स्यात। अयं आदेशः स्थानिवद्भावातिदित्भविष्यति।
(पाणिनीयसूत्र ३,१।४४।२) कि.,५२।९-५३।५ रो.,१३३-१३५ (कात्यायन वार्तिक)स्पृशमृशकृषतृपदृपः सिच्वा(वार्तिकान्त) । स्पृश्मृशकृषतृपदृपः सिच्वा इति वक्तव्यं । स्पृश । अस्पृक्षतस्प्राक्षीत। स्पृश । मृश । अमृक्षतम्राक्षीत। मृश । कृष । अकृक्षतक्राक्षीत। कृष । तृप । अतृपतत्राप्सीत। तृप । दृप । अदृपतद्रप्सीत। किं प्रयोजनं । सिच्यथा स्यात । अथ क्सः सिद्धः । सिद्धः शलः इगुपधातनिटः इति । सिचपि सिद्धः । कथं । च्लेः चित्करणं प्रत्याख्यायते । तत्र च्लौ एव झल्लक्षणे अमागमे कृते विहतनिमित्तत्वात्क्सः न भविष्यति । यदि एवं अन्त्यसय सिजादयः प्राप्नुवन्ति । सिद्धं तु सिचः यादित्वात। सिद्धं एतत। कथं । यादिः सिच्करिष्यते । सः अनेकाल्शित्सर्वस्य इति सर्वादेशः भविष्यति । किं न श्रूयते यकारः । लुप्तनिर्दिष्टः यकारः । चङङोः कथं । चङङोः प्रश्लिष्टनिर्देशात्सिद्धं । चङङोः अपि प्रश्लिष्टनिर्देशः अयं : च अङ्चङ अङङ। सः अनेकाल्शित्सर्वस्य इति सर्वादेशः भविष्यति । चिणः कथं । चिणः अनित्त्वात्सिद्धं । चिणः अनित्त्वात्सिद्धं । किं इदं अनित्त्वात। अन्त्यस्य अयं स्थाने भवन्न प्रत्ययः स्यात। असत्यायां प्रत्ययसञ्ज्ञयां इत्सञ्ज्ञा न। असत्यां इत्सञ्ज्ञायां लोपः न । असति लोपे अनेकाल। यदा अनेकाल्तदा सर्वादेशः । यदा सर्वादेशः तदा प्रययः । यदा प्रत्ययः तदा इत्सञ्ज्ञा । यदा इत्सञ्ज्ञा तदा लोपः । एवं च तत्र वार्त्तिककारस्य निर्णयः सप्रयोजनं चित्करणं इति । अपि च त्रैशब्द्यं न प्रकल्पते । अस्पृक्षतस्प्राक्षीतस्पार्क्षीतिति न सिध्यति । सिचि पुनः सति विभाषा सिच। सिचि अपि झल्लक्षणः अमागमः विभाषा । यस्य खलु अपि अमा निमित्तं न विहन्यते सः स्यातेव । तस्मात्सुष्ठु उच्यते स्पृश्मृशकृषतृपदृपः सिच्वा इति ।
(पाणिनीयसूत्र ३,१।४५) कि.,५३।७-२५ रो.,१३५-१३६ (कात्यायन वार्तिक)क्सविधाने इगुपधाभावः च्लेः गुणनिमित्तत्वात्(वार्तिकान्त) । क्सविधाने इगुपधाभावः । किं कारणं । च्लेः गुणनिमित्तत्वात। च्लिः गुणनिमित्तं । तत्र च्लौ एव गुणे कृते इगुपधातिति क्सः न प्राप्नोति । (कात्यायन वार्तिक)न वा क्सस्य अनवकाशत्वातपवादः गुणस्य(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । क्सस्य अनवकाशत्वात। अनवकाशः क्सः गुणं बाधिष्यते । (कात्यायन वार्तिक)अनिड्वचनं अविशेषणं च्लेः नित्यादिष्टत्वात्(वार्तिकान्त) । अनिड्वचनं अविशेषणं । किं कारणं । च्लेः नित्यादिष्टत्वात। नित्यादिष्टः च्लिः न क्व चित्श्रूयते । तत्र च्लेः अनिटः इति क्सः न प्राप्नोति । (कात्यायन वार्तिक)न वा क्सस्य सिजपवादत्वात्तस्य च अनिडाश्रयत्वातनिटि प्रसिद्धे क्सविद्धिः(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । क्सस्य सिजपवादत्वात। सिजपवादः क्सः । सः च अनिडाश्रयः । न च अपवादविषये उपसर्गः अभिनिविशते । पूर्वं हि अपवादाः अभिनिविशन्ते पश्चातुत्सर्गाः । प्रकल्प्य वा अपवादविषयं उत्सर्गः अभिनिविशते । तत्न तावतत्र कदा चित्सिच्भवति । अपवादं क्सं प्रतीक्षते । क्सस्य सिजपवादत्वात्तस्य च अनिडाश्रयत्वातनिट्त्वं प्रसिद्धं । अनिटि प्रसिद्धे क्सविद्धिः । अनिटि प्रसिद्धे क्सः भविष्यति । सिचिदानीं क्व भविष्यति । (कात्यायन वार्तिक)शेषे सिज्विधानम्(वार्तिकान्त) । शेषे सिज्विधानं भविष्यति । अकोषीतमोषीतिति ।
(पाणिनीयसूत्र ३,१।४६) कि.,५४।२-२४ रो.,१३६-१३८ किमर्थं इदं उच्यते । नियमार्थं । श्लिषः आलिङ्गने एव क्सः यथा स्यात। इह मा भूतः उपाश्लिषत्जतु च काष्ठं च । समाश्लिषत्ब्राह्मणकुलं इति । अतः उत्तरं पठति । (कात्यायन वार्तिक)श्लिषः आलिङ्गने नियमानुपपत्तिः विधेयभावात्(वार्तिकान्त) । श्लिषः आलिङ्गने नियमस्य अनुपपत्तिः । किं कारणं । विधेयभावात। कैमर्थक्यात्नियमः भवति । विधेयं न अस्ति इति कृत्वा । इह च अस्ति विधेयं । किं । पुषादिपाठातङ्प्राप्तः । तद्बाधनार्थः क्सः विधेयः । तत्र अपूर्वः विधिः अस्तु नियमः वा इति अपूर्वः एव विधिः स्यात्न नियमः । किं च स्यात्यदि अयं नियमः न स्यात। आत्मनेपदेषु आलिङ्गने च क्सः प्रसज्येत । यथा एव च क्सः अङं बाधते एवं चिणं अपि बाधेत । उपाश्लेषि कन्या देवदत्तेन इति । (कात्यायन वार्तिक)सिद्धं तु श्लिषः आलिङ्गने अचिण्विषये(वार्तिकान्त) । सिद्धं एतत। कथं । श्लिषः आलिङ्गने अचिण्विषये क्सः भवति इति वक्तव्यं । (कात्यायन वार्तिक)अङ्विधाने च श्लिषः अनालिङ्गने(वार्तिकान्त) । अङ्विधाने च श्लिषः अनालिङ्गने इति वक्तव्यं । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं श्लिषः आलिङ्गने नियमानुपपत्तिः विधेयभावातिति । न एषः दोषः । (कात्यायन वार्तिक)योगविभागात्सिद्धम्(वार्तिकान्त) । योगविभागः करिष्यते । श्लिषः । श्लिषः क्सः भवति । किमर्थं इदं । पुषादिपाठातङ्प्राप्नोति । तद्बाधनार्थं । ततः आलिङ्गने । आलिङ्गने च श्लिषः क्सः भवति । इदं इदानीं किमर्थं । नियमार्थं । श्लिषः आलिङ्गने एव । क्व मा भूत। उपाश्लिषत्जतु च काष्ठं च । समाश्लिषत्ब्राह्मणकुलं इति । यतपि उच्यते यथा एव च क्सः अङं बाधते एवं चिणं अपि बाधेत इति । पुरस्तातपवादाः अनन्तरान्विधीन्बाधन्ते न उत्तरानिति एवं क्सः अङं बाधिष्यते । चिणं न बाधिष्यते । अथ वा तत्र वक्ष्यति : चिण्ग्रहणस्य प्रयोजनं चिणेव यथा स्यात। यतन्यत्प्राप्नोति तत्मा भूतिति ।
(पाणिनीयसूत्र ३,१।४८) कि.,५५।२-१६ रो.,१३८-१३९ (कात्यायन वार्तिक)णिश्रिद्रुस्रुषु कमेः उपसङ्ख्यानं (वार्तिकान्त)। णिश्रिद्रुस्रुषु कमेः उपसङ्ख्यानं कर्तव्यं । नाकं इष्टमुखं यान्ति सुयुक्तैः वडवारथैः । अथ पत्काषीणः यान्ति ये अचीकमतभाषिणः । (कात्यायन वार्तिक)कर्मकर्तरि च(वार्तिकान्त) । कर्मकर्तरि च उपसङ्ख्यानं कर्तव्यं । कारयति कटं देवदत्तः । अचीकरत कटः स्वयं एव । उच्छ्रययति कटं देवदत्तः । औदशिश्रियत कटः स्वयं एव । (कात्यायन वार्तिक)न वा कर्मणि अविधानात्कर्तृत्वात्च कर्मकर्तुः सिद्धम्(वार्तिकान्त) । न वा कर्तव्यं । किं कारणं । कर्मणि अविधानात। न हि कः चित्कर्मणि विधीयते यः चङं बाधेत । कर्तृत्वात्च कर्मकर्तुः सिद्धं । अस्ति च कर्मकर्तरि कर्तृत्वं इति कृत्वा चङ्भविष्यति । ननु च अयं कर्मणि विधीयते । चिण्भावकर्मणोः इति । प्रतिषिध्येते तत्र यक्चिणौ । यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञां उपसङ्ख्यानं इति । यः तर्हि अहेतुमण्णिच। उदपुपुच्छत गौः स्वयं एव । अत्र अपि यथा भारद्वाजीयाः पठन्ति तथा भवितव्यं प्रतिषेधेन । यक्चिणोः प्रतिषेधे णिश्रिग्रन्थिब्रूञां आत्मनेपदाकर्मकाणां उपसङ्ख्यानं इति ।
(पाणिनीयसूत्र ३,१।५२) कि.,५५।१८-२४ रो.,१४० अस्यतिग्रहणं किमर्थं । (कात्यायन वार्तिक)अस्यतिग्रहणं आत्मनेपदार्थम्(वार्तिकान्त) । अस्यतिग्रहणं आत्मनेपदार्थं द्रष्टव्यं । किं उच्यते आत्मनेपदार्थं इति । न पुनः परस्मैपदार्थं अपि स्यात। पुषादित्वात। पुषादिपाठात्परस्मैपदेषु अङ्भविष्यति । (कात्यायन वार्तिक)कर्मकर्तरि च(वार्तिकान्त) । कर्मकर्तरि च उपसङ्ख्यानं कर्तव्यं । पर्यास्थेतां कुण्डले स्वयं एव । अत्र अपि न वा कर्मणि अविधानात्कर्तृत्वात्च कर्मकर्तुः सिद्धं इति एव ।
(पाणिनीयसूत्र ३,१।५८) कि.,५६।२-६ रो.,१४० इदं लुचिग्रहणं ग्लुञ्चिग्रहणं च क्रियते । अन्यतरत्शक्यं अकर्तुं । कथं । यदि तावत्ग्लुचिग्रहणं क्रियते ग्लुञ्चिग्रहणं न करिष्यते । तेन एव सिद्धं न्यग्लुचत्न्यग्लोचीत। इदं इदानीं ग्लुञ्चेः रूपं न्यग्लुञ्चीत। अथ ग्लुञ्चिग्रहणं क्रियते ग्लुचेः ग्रहणं न करिष्यते । तेन एव सिद्धं न्यग्लुचत्न्यग्लुञ्चीत। इदं इदानीं ग्लुचेः रूपं न्यग्लोचीत।
(पाणिनीयसूत्र ३,१।६०) कि.,५६।८-९ रो.,१४१ अयं तशब्दः अस्ति एव आत्मनेपदं अस्ति परस्मैपदं अस्ति एकवचनं अस्ति बहुवचनं । कस्य इदं ग्रहणं । यः पदेः अस्ति । कः च पदेः अस्ति । पदिः अयं आत्मनेपदी ।
(पाणिनीयसूत्र ३,१।६६) कि.,५६।११-१३ रो.,१४१ चिणिति वर्तमाने पुनः चिण्ग्रहणं किमर्थं । न इति एवं ततभूत। विध्यर्थं इदं । अथ वा वा इति एवं ततभूत। नित्यार्थं इदं । अथ वा चिणिति वर्तमाने पुनः चिण्ग्रहणस्य एतत्प्रयोजनं । चिणेव यथा स्यात। यतन्यत्प्राप्नोति तत्मा भूतिति ।
(पाणिनीयसूत्र ३,१।६७।१) कि.,५६।१५-५७।१७ रो.,१४१-१४६ इह पश्यामः कर्मणि द्विवचनबहुवचनानि उदाह्रियन्ते । पच्येते* ओदनौ , पच्यन्ते ओदनाः इति । भावे पुनः एकवचनं एव : आस्यते भवता , आस्यते भवद्भ्यां , आस्यते भवद्भिः इति । केन एततेवं भवति । कर्म अनेकं । तस्य अनेकत्वात्द्विवचनबहुवचनानि भवन्ति । भावः पुनः एकः एव । कथं तर्हि इह द्विवचनबहुवचनानि भवन्ति । पाकौ पाकाः इति । आश्रयभेदात। यतसौ द्रव्यं श्रितः भवति भावः तस्य भेदात्द्विवचनबहुवचनानि भवन्ति । इह अपि तर्हि यावन्तः तां क्रियां कुर्वन्ति सर्वे ते तस्याः आश्रया भवन्ति । तद्भेदात्द्विवचनबहुवचनानि प्राप्नुवन्ति । एवं तर्हि इदं तावतयं प्रष्टव्यः । किं अभिसमीक्ष्य एतत्प्रयुज्यते । पाकौ पाकाः इति । यदि तावत्पाकविशेषानभिसमीक्ष्य यः च ओदनस्य पाकः यः च गुडस्य यः च तिलानां बहवः ते शब्दाः सरूपाः च । तत्र युक्तं बहुवचनं एकशेषः च । तिङभिहिते च अपि तदा भावे बहुवचनं श्रूयते । तत्यथा : उष्टृआसिका आस्यन्ते । हतशायिकाः शय्यन्ते इति । अथ कालविशेषानभिसमीक्ष्य यः च अद्यतनः पाकः यः ह्यस्तनः यः श्वस्तनः ते अपि बहवः शब्दाः सरूपाः च । तत्र युक्तं बहुवचनं एकशेषः च । तिङभिहिते च अपि तदा भावे असारूप्यातेकशेषः न भवति । आसि आस्यते , आसिष्यते । अस्ति खलु अपि विशेषः कृदभिहितस्य भावस्य तिङभिहितस्य च । कृदभिहितः भावः द्रव्यवत्भवति । किं इदं द्रव्यवतिति । द्रव्यं क्रियया समवायं गच्छति । कं समवायं । द्रव्यं क्रियाभिनिर्वृत्तौ साधनत्वं उपैति । तद्वत्च अस्य भावस्य कृदभिहितस्य भवति । पाकः वर्तते इति । क्रियावत्न भवति । किं इदं क्रियावतिति । क्रिया क्रियया समवायं न गच्छति । पचति पठति इति । तद्वच्च अस्य कृतभिहितस्य न भवति । पाकः वर्तते इति । अस्ति खलु अपि विशेषः कृदभिहितस्य भावस्य तिङभिहितस्य च । तिङभिहितेन भावेन कालपुरुषोपग्रहाः अभिव्यज्यन्ते । कृदभिहितेन पुनः न व्यज्यन्ते । अस्ति खलु अपि विशेषः कृदभिहितस्य भावस्य तिङभिहितस्य च । तिङभिहितः भावः कर्त्रा सम्प्रयुज्यते। कृदभिहितः पुनः न सम्प्रयुज्यते । यावता किं चित्सामान्यं कः चित्विशेषः युक्तं यतयं अपि विशेषः स्यात्लिङ्गकृतः सङ्ख्याकृतः च इति ।
(पाणिनीयसूत्र ३,१।६७।२) कि.,५७।१८-५८।२३ रो.,१४६-१४९ इदं विचार्यते । भावकर्मकर्तारः सार्वधातुकार्थाः वा स्युः विकरणार्थाः वा इति । कथं च सार्वधातुकार्थः स्युः कथं वा विकरणार्थाः । भावकर्मवाचिनि सार्वधातुके यक्भवति कर्तृवाचिनि शर्वधातुके शप्भवति इति सार्वधातुकार्थाः । भावकर्मणोः यग्भवति सार्वधातुके कर्तरि शप्भवति सार्वधातुके इति विकरणार्थाः । कः च अत्र विशेषः । (कात्यायन वार्तिक)भावकर्मकर्तारः सार्वधातुकार्थाः चेतेकद्विबहुषु नियमानुपपत्तिः अतदर्थत्वात्(वार्तिकान्त) । भावकर्मकर्तारः सार्वधातुकार्थाः चेतेकद्विबहुषु नियमस्य अनुपपत्तिः । किं कारणं । अतदर्थत्वात। न हि तदानीं एकत्वादयः एव विभक्त्यर्थाः । किं तर्हि भावकर्मकर्तारः अपि । सन्तु तर्हि विकरणार्थाः । (कात्यायन वार्तिक)विकरणार्थाः इति चेत्कृता अभिहिते विकरणाभावः(वार्तिकान्त) । विकरणार्थाः इति चेत्कृता अभिहिते विकरणः न प्राप्नोति । धारयः पारयः इति । किं उच्यते कृता अभिहिते । न लेन अपि अभिधानं भवति । अशक्यं लेन अभिधानं आश्रयितुं । पक्षान्तरं इदं आस्थितं भावकर्मकर्तारः सार्वधातुकार्थाः वा स्युः विकरणार्थाः वा इति । यदि च लेन अपि अभिधानं स्यात्न इदं पक्षान्तरं स्यात। कथं अशक्यं यदा भवानेव आह लः कर्मणि च भावे च अकर्मकेभ्यः इति । एवं वक्ष्यामि । लः कर्मणः भावात्च अकर्मकेभ्यः । यस्मिन्तर्हि ले विकरणाः न श्रूयन्ते कः तत्र भावकर्मकर्त्®नभिधास्यति । क्व च न श्रूयन्ते । ये एते लुग्विकरणाः श्लुविकरणाः च । अत्र अपि उक्ते कर्तृत्वे लुक्भविष्यति । यस्मिन्तर्हि ले विकरणाः न एव उत्पद्यन्ते कः तत्र भावकर्मकर्त्®नभिधास्यति । क्व च न एव उत्पद्यन्ते । लिङ्लिटोः । तस्मात्न एतत्शक्यं वक्तुं । न लेन अभिधानं भवति इति । भवति चेतभिहिते विकरणाभावः एव । एवं तर्हि इदं स्यात। यदा भावकर्मणोः लः तदा कर्तरि विकरणाः । यदा कर्तरि लः तदा भावकर्मणोः विकरणाः । इदं अस्य यदि एव स्वाभाविकं अथ अपि वाचनिकं : प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः इति । न च अस्ति सम्भवः यतेकस्याः प्रकृतेः द्वयोः नानार्थयोः युगपतनुसहायीभावः स्यात। एवं च कृत्वा एकपक्षीभूतं इदं भवति : सार्वधातुकार्थाः एव इति । ननु च उक्तं भावकर्मकर्तारः सार्वधातुकार्थाः चेतेकद्विबहुषु नियमानुपपत्तिः अतदर्थत्वातिति । न एषः दोषः । (कात्यायन वार्तिक)सुपां कर्मादयः अपि अर्थाः सङ्ख्या च एव तथा तिङां (वार्तिकान्त)। सुपां सङ्ख्या च एव अर्थः कर्मादयः च । तथा तिङां । (कात्यायन वार्तिक)प्रसिद्धः नियमः तत्र(वार्तिकान्त) । प्रसिद्धः तत्र नियमः । (कात्यायन वार्तिक)नियमः प्रकृतेषु वा(वार्तिकान्त) । अथ वा प्रकृतानर्थानपेक्ष्य नियमः । के च प्रकृताः । एकत्वादयः । एकस्मिनेव एकवचनं न द्वयोः न बहुषु । द्वयोः एव द्विवचनं नैकस्मिन्न बहुषु । बहुषु एव बहुवचनं न द्वयोः न एकस्मिनिति ।
(पाणिनीयसूत्र ३,१।६७।३) कि.,५८।२४-६०।११ रो.,१४९-१५३ (कात्यायन वार्तिक)भावकर्मणोः यग्विधाने कर्मकर्तरि उपसङ्ख्यानं (वार्तिकान्त)। भावकर्मणोः यग्विधाने कर्मकर्तरि उपसङ्ख्यानं कर्तव्यं । पच्यते स्वयं एव । पठ्यते स्वयं एव । किं पुनः कारणं न सिध्यति । (कात्यायन वार्तिक)विप्रतिषेधात्हि शपः बलीयस्त्वं (वार्तिकान्त)। विप्रतिषेधात्हि शपः बलीयस्त्वं प्राप्नोति । शपः अवकाशः । पचति पठति । यकः अवकाशः । पच्यते ओदनः देवदत्तेन । पठ्यते विद्या देवदत्तेन । इह उभयं प्राप्नोति । पच्यते स्वयं एव । पठ्यते स्वयं एव । परत्वात्शप्प्राप्नोति । (कात्यायन वार्तिक)योगविभागात्सिद्धम्(वार्तिकान्त) । योगविभागः करिष्यते । चिण्भावकर्मणोः । सार्वधातुके यक्भावकर्मणोः । ततः कर्तरि । कर्तरि च यक्भवति भावकर्मणोः । यथा एव तर्हि कर्मणि कर्तरि यक्भवति एवं भावे कर्तरि प्राप्नोति । एति जीवन्तं आनन्दः । न अस्य किं चित्रुजति रोगः इति । द्वितीयः योगविभागः करिष्यते । चिण्भावे । ततः कर्मणि । कर्मणि च चिण्भवति । ततः सार्वधातुके यक्भवति भावे च कर्मणि च । ततः कर्तरि । कर्तरि च यक्भवति । कर्मणि इति अनुवर्तते । भावे इति निवृत्तं । ततः शप। शप्च भवति । कर्तरि इति एव । कर्मणि इति अपि निवृत्तं । एवं अपि उपसङ्ख्यानं कर्तव्यं । विप्रतिषेधात्हि श्यनः बलीयस्त्वं प्राप्नोति । श्यनः अवकाशः । दीव्यति सीव्यति । यकः अवकाशः । पच्यते ओदनः देवदत्तेन । पठ्यते विद्या देवदत्तेन । इह उभयं प्राप्नोति । दीव्यते स्वयं एव । सीव्यते स्वयं एव । परत्वात्श्यन्प्राप्नोति । ननु च एततपि योगविभागातेव सिद्धं । न सिध्यति । अनन्तरा या प्रप्तिः सा योगविभागेन शक्या बाधितुं । कुतः एतत। अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति । परा प्राप्तिः अप्रतिषिद्धा । तया प्राप्नोति । ननु च इयं प्राप्तिः परां प्राप्तिं बाधेत । न उत्सहते प्रतिषिद्धा सती बाधितुं । एवं तर्हि शबादेशाः श्यनादयः करिष्यन्ते । शप्च स्यादिभिः बाध्यते । तत्र दिवादिभ्यः यग्विषये शपेव न अस्ति कुतः श्यनादयः । तत्तर्हि शपः ग्रहणं कर्तव्यं । न कर्तव्यं । प्रकृतं अनुवर्तते । क्व प्रकृतं । कर्तरि शपिति । तत्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन च इह अर्थः । दिवादिभ्यः इति एषा पञ्चमी शपिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मातिति उत्तरस्य इति । प्रत्ययविधिः अयं । न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति । न अयं प्रत्ययविधिः । विहितः प्रत्ययः । प्रकृतः च अनुवर्तते । अथ वा (कात्यायन वार्तिक)भावकर्मणोः इति अनुवृत्त्या एव सिद्धे सति अनिवृत्तिः यकः भावाय(वार्तिकान्त) ।इह सार्वधातुके यकिति अन्तरेण भावकर्मणोः इति अनुवृत्तिं सिद्धं । सः अयं एवं सिद्धे सति यत्भावकर्मणोः इति अनुवर्तयति तस्य एतत्प्रयोजनं । कर्मकर्तरि अपि यथा स्यात। (कात्यायन वार्तिक)कर्तरि इति च योगविभागः श्यनः पूर्वविप्रतिषेधावचनाय(वार्तिकान्त) । कर्तरि इति योगविभागः कर्तव्यः श्यनः पूर्वविप्रतिषेधं मा वोचं इति । अथ वा कर्मवद्भाववचनसामर्थ्यात्यक्भविष्यति । अस्ति अन्यत्कर्मवद्भाववचने प्रयोजनं । किं । आत्मनेपदं यथा स्यात। वचनातात्मनेपदं भविष्यति । चिण्तर्हि यथा स्यात। चिणपि वचनात्भविष्यति । चिण्वद्भावः तर्हि यथा स्यात। न एकं प्रयोजनं योगारम्भं प्रयोजयति । तत्र कर्मवद्भाववचनसामर्थ्यात्यक्भविष्यति । अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति कर्मकर्तरि यकिति यतयं न दुहस्न्नुनमां यक्चिणौ इति यक्चिणोः प्रतिषेधं शास्ति ।
(पाणिनीयसूत्र ३,१।७१) कि.,६०।१३-१५ रो.,१५३ अनुपसर्गातिति किमर्थं । आयस्यति प्रयस्यति । अनुपसर्गातिति शक्यं अकर्तुं । कथं आयस्यति प्रयस्यति । संयसः च इति एतत्नियमार्थं भविष्यति । सम्पूर्वात्यसः न अन्यपूर्वातिति ।
(पाणिनीयसूत्र ३,१।७८) कि.,६०।१७-६१।१२ रो.,१५३-१५४ किमर्थः शकारः । सार्वधातुकाऋथः । शित्सार्वधातुकं इति सार्वधातुकसञ्ज्ञा । सार्वधातुकं अपितिति ङित्त्वं । ङिति इति गुणप्रतिषेधः यथा स्यात। भिनत्ति छिनत्ति इति । न एततस्ति प्रयोजनं । सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः उच्यते यस्मात्च प्रत्ययविधिः तदादि प्रत्यये अङ्गसञ्ज्ञं भवति । यस्मात्च अत्र प्रत्ययविधिः न तत्प्रत्यये परतः । यत्च प्रत्यये परतः न तस्मात्प्रत्ययविधिः । इदं तर्हि प्रयोजनं । आर्धधातुकसञ्ज्ञा मा भूतिति । किं च स्यात। वलादिलक्षणः इट्प्रसज्येत । एततपि न अस्ति प्रयोजनं । वलादेः आर्धधातुकस्य अङ्गस्य इटुच्यते । यस्मात्च प्रत्ययविधिः तदादि प्रत्यये अङ्गसञ्ज्ञं भवति । यस्मात्च अत्र प्रत्ययविधिः न तत्प्रत्यये परतः । यत्च प्रत्यये परतः न तस्मात्प्रत्ययविधिः । अतः उत्तरं पठति । (कात्यायन वार्तिक)श्नमि शित्करणं प्वादिह्रस्वार्थम्(वार्तिकान्त) । श्नमि शित्करणं क्रियते प्वादीनां शिति ह्रस्वत्वं यथा स्यात। पृणसि मृणसि इति । (कात्यायन वार्तिक)न(वार्तिकान्त) (कात्यायन वार्तिक)वा धात्वन्यत्वात्(वार्तिकान्त) । न वा कर्तव्यं । किं कारणं । धात्वन्यत्वात। धात्वन्तरं पृणिमृणी । यत्र भूम्यां वृणसे । न एषः श्नं । श्नः एतत्ह्रस्वत्वं । यदि श्नः ह्रस्वत्वं स्वरः न सिध्यति । वृणसे । अदुपदेशात्लसार्वधातुकं अनुदात्तं भवति इति एषः स्वरः न प्राप्नोति । तस्मात्श्नं एषः । यदि श्नं स्नसोः अल्लोपः इति लोपः प्राप्नोति । उपधायाः इति वर्तते । अनुपधात्वात्न भविष्यति । न सः शख्यः उपधायाः इति विज्ञातुं । इह हि दोषः स्यात। अङ्क्तः अञ्जन्ति । तस्मात्श्नः एव ह्रस्वत्वं । स्वरः कथं । (कात्यायन वार्तिक)बहुलं पित्सार्वधातुकं छन्दसि (वार्तिकान्त)। सार्वधातुकस्य भलुलं छन्दसि पित्त्वं वक्तव्यं । पितः च अपित्त्वं दृश्यते अपितः च पित्त्वं । पितः तावतपित्त्वं । मातरं प्रमिणीमि जनित्रीं । अपितः पित्त्वं । शृणोत ग्रावाणः । तत्तर्हि ह्रस्वत्वं वक्तव्यं । अवश्यं छन्दसि ह्रस्वत्वं वक्तव्यं उपगायन्तु मां पत्नयः गर्भिणयः युवतयः इति एवमर्थं । विशेषणाऋथः तर्हि । क्व विशेषणाऋथेन अर्थः । श्नात्नलोपः इति । नात्नलोपः इति उच्यमाने यज्ञानां यत्नानां इति अत्र अपि प्रसज्येत । दीर्घत्वे कृते न भविष्यति । इदं इह सम्प्रधार्यं । दीर्घत्वं क्रियतां नलोपः इति । किं अत्र कर्तव्यं । परत्वात्न लोपः स्यात। तस्मात्शकारः कर्तव्यः । अथ क्रियमाणे अपि शकारे इह कस्मात्न भवति । विश्नानां प्रश्नानां इति । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।
(पाणिनीयसूत्र ३,१।७९) कि.,६१।२४-६२।८ रो.,१५५-१५६ अथ किमर्थं करोतेः पृथग्ग्रहणं क्रियते न तनादिभ्यः इति एव उच्यते । अन्यानि तनोत्यादिकार्याणि मा भूवनिति । कानि । अनुनासिकलोपादीनि । दैवरक्ताः किंसुकाः । अनुनासिकाभावातेव अनुनासिकलोपः न भविष्यति । इदं तर्हि तनादिकार्यं मा भूत्तनादिभ्यः तथासोः इति । ननु च भवति एव अत्र ह्रस्वातङ्गातिति । तेन एव यथा स्यात। अनेन मा भूतिति । कः च अत्र विशेषः तेन वा सति अनेन वा । तेन सति सिज्लोपस्य असिद्धत्वात्चिण्वद्भावः सिद्धः भवति । अनेन पुनः सति चिण्वद्भावः न स्यात। अनेन अपि सति चिण्वद्भावः सिद्धः । कथं । विभाषा लुक। यदा न लुक्तदा तेन लोपः । तत्र सिज्लोपस्य असिद्धत्वात्चिण्वद्भावः सिद्धः भवति । (कात्यायन वार्तिक)तनादित्वात्कृञः सिद्धं सिज्लोपे च न दुष्यति । चिण्वद्भावे अत्र दोषः स्यात। सः अपि प्रोक्तः विभाषया(वार्तिकान्त) ।
(पाणिनीयसूत्र ३,१।८०) कि.,६२।१०-२२ रो.,१५६-१५७ क्व अयं अकारः श्रूयते । न क्व चित्श्रूयते । लोपः अस्य भवति अतः लोपः आर्धधातुके इति । यदि न क्व चित्श्रूयते किमर्थं अत्वं उच्यते न लोपः एव उच्यते । न एवं शक्यं । लोपे हि सति गुणः प्रसज्येत । ननु च लोपे अपि सति न धातुलोपे आर्धधातुके इति प्रतिषेधः भविष्यति । आर्धधातुकनिमित्ते लोपे सः प्रतिषेधः । न च एषः आर्धधातुकनिमित्तः लोपः । अपि च प्रत्याख्यायते सः योगः । तस्मिन्प्रत्याख्याते गुणः स्यातेव । तस्मातत्वं वक्तव्यं । अथ किमर्थं नुमनुषक्तयोः ग्रहणं क्रियते न धिविकृव्योः इति एव उच्यते । धिविकृव्योः इति उच्यमाने अत्वे कृते अनिष्टे देशे नुं प्रसज्येत । इदं इह सम्प्रधार्यं । अत्वं क्रियतां नुं इति । किं अत्र कर्तव्यं । परत्वात्नुमागमः । अन्तरङ्गं अत्वं । का अन्तरङ्गता । प्रत्ययोत्पत्तिसन्नियोगेन अत्वं उच्यते । उत्पन्नेप्रत्यये प्रकृतिप्रत्ययौ आश्रित्य अङ्गस्य नुमागमः । नुं अपि अन्तरङ्गः । कथं । वक्ष्यति एतत्नुम्विधौ उपदेशिवद्वचनं प्रत्ययविध्यर्थं इति । उभयोः अन्तरङ्गयोः परत्वात्नुमागमः । तस्मात्धिविकृव्योः इति वक्तव्यं ।
(पाणिनीयसूत्र ३,१।८३) कि.,६२।२४-६४।११ रो.,१५७-१६० किमर्थः शकारः । शित्सार्वधातुकं इति सार्वधातुकसञ्ज्ञा सार्वधातुकं अपितिति ङित्त्वं ङिति इति प्रतिषेधः यथा स्यात। कुषाण पुषाण इति । अतः उत्तरं पठति । (कात्यायन वार्तिक)श्नाविकारस्य शित्करणानर्थक्यं स्थानिवत्वात्(वार्तिकान्त) । श्नाविकारस्य शित्करणं अनर्थकं । किं कारणं । स्थानिवत्वात। शितः अयं आदेशः स्थानिवद्भावात्शित्भविष्यति । (कात्यायन वार्तिक)अर्थवत्तु ज्ञापकं सार्वधातुकादेशे अनुबन्धास्थानिवत्त्वस्य(वार्तिकान्त) । अर्थवत्तु श्नाविकारस्य शित्करणं । कः अर्थः । ज्ञापकार्थं । किं ज्ञाप्यं । एतत्ज्ञापयति आचार्यः सार्वधातुकादेशे अनुबन्धाः न स्थानिवत्भवन्ति इति । किं एतस्य ज्ञपने प्रयोजनं । (कात्यायन वार्तिक)प्रयोजनं हितातङोः अपित्त्वम्(वार्तिकान्त) । हेः पित्त्वं न प्रतिषेध्यं । पितः अयं आदेशः स्थानिवद्भावात्पित्स्यात। सार्वधातुकादेशे अनुबन्धाः न स्थानिवत्भवन्ति इति न अयं पित्भविष्यति । तातङि च ङकारः न उच्चार्यः भवति । पितः अयं आदेशः स्थानिवद्भावात्पित्स्यात। सार्वधातुकादेशे अनुबन्धाः न स्थानिवत्भवन्ति इति न अयं पित्भविष्यति । (कात्यायन वार्तिक)तबादिषु च अङित्त्वम्(वार्तिकान्त) । तबादिषु च अङित्त्वं प्रयोजनं । शृणोत ग्रावाणः । ङितः इमे आदेशाः स्थानिवद्भावात्ङितः स्युः । सार्वधातुकादेशे अनुबन्धाः न स्थानिवत्भवन्ति इति न इमे ङितः भवन्ति । (कात्यायन वार्तिक)तस्य दोषः मिपः आदेशे पिदभावः(वार्तिकान्त) । तस्य एतस्य लक्षणस्य दोषः मिपः आदेशे पितः अभावः । अचिनवं असुनवं अकरवं । पितः अयं आदेशः स्थानिवद्भावात्पित्स्यात। सार्वधातुकादेशे अनुबन्धाः न स्थानिवत्भवन्ति इति न अयं पित्स्यात। अत्यल्पं इदं उच्यते । तिप्सिब्मिपां आदेशाः इति वक्तव्यं । वेद वेत्थ । (कात्यायन वार्तिक)विदेः वसोः शित्त्वम्(वार्तिकान्त) । विदेः उत्तरस्य वसोः शित्त्वं वक्तव्यं । शितः अयं आदेशः स्थानिवद्भावात्पित्स्यात। सार्वधातुकादेशे अनुबन्धाः न स्थानिवत्भवन्ति इति न अयं शित्स्यात। (कात्यायन वार्तिक)कित्करणात्वा सिद्धं (वार्तिकान्त)। अथ वा अवश्यं अत्र सामान्यग्रहणाविघातार्थः ककारः अनुबन्धः कर्तव्यः । क्व सामान्यग्रहणाविघातार्थेन अर्थः । वसोः सम्प्रसारणं । तेन एव यत्नेन गुणः न भविष्यति । अस्य ज्ञापकस्य सन्ति दोषाः सन्ति प्रयोजनानि । समाः दोषाः भूयांसः वा । तस्मात्न अर्थः अनेन ज्ञापकेन । कथं यानि प्रयोजनानि । तानि क्रियन्ते न्यासे एव । एवं अपि भवेत्पित्करणसामर्थ्यात्पित्कृतं स्यात्ङित्करणसामर्थ्यात्ङित्कृतं । यत्तु खलु पिति ङित्कृतं प्राप्नोति ङिति च पित्कृतं केन तत्न स्यात। तस्मात्वक्तव्यं पित्न ङिद्वत्भवति ङित्च न पिद्वत्भवति इति । न वक्तव्यं । एवं वक्ष्यामि । सार्वधातुकं ङित्भवति पित्न । एवं तावत्पितः ङित्त्वं प्रतिषिद्धं । ततः असंयोगात्लिट्कित्भवति इति ङित्च पित्न भवति । एवं ङितः पित्त्वं प्रतिषिद्धं ।
(पाणिनीयसूत्र ३,१।८४) कि.,६४।१३-१५ रो.,१६० (कात्यायन वार्तिक)शायच्छन्दसि सर्वत्र(वार्तिकान्त) । शायच्छन्दसि सर्वत्र इति वक्तव्यं । क्व सर्वत्र । हौ च अहौ च । किं प्रयोजनं । महीअस्कभायत्यः अस्कभायतुद्गृभायत उन्मथायत इत्यर्थं ।
(पाणिनीयसूत्र ३,१।८५) कि.,६४।१७-६५।६ रो.,१६०-१६२ योगविभागः कर्तव्यः । व्यत्ययः भवति स्यादीनां इति । आण्डा शुष्णस्य भ्®दति । भिनत्ति इति प्राप्ते । सः च न मरति । मिर्यते इति प्राप्ते । ततः बहुलम। बहुलं छन्दसि विषये सर्वे विधयः भवन्ति इति । सुपां व्यत्ययः । तिङां व्यत्ययः । वर्णव्यत्ययः । लिङ्गव्यत्ययः । कालव्यत्ययः । पुरुषव्यत्ययः । आत्मनेपदव्यत्ययः । परस्मैपदव्यत्ययः । सुपां व्यत्ययः । युक्ता माता आसीत्धुरि दक्षिणायाः । दक्षिणायां इति प्राप्ते । तिङां व्यत्ययः । चषालं ये अश्वयूपाय तक्षति । तक्षन्ति इति प्राप्ते । वर्णव्यत्ययः । त्रिष्टुभौजः शुभितं उग्रवीरं । सुहितं इति प्राप्ते । लिङ्गव्यत्ययः । मधोः गृह्णाति । मधोः तृप्ताः इव आसते । मधुनः इति प्राप्ते । कालव्यत्ययः । श्वः अग्नीनाधास्यमानेन । श्वः सोमेन यक्ष्यमाणेन । आधाता यष्टा इति एवं प्राप्ते । पुरुषव्यत्ययः । अधा सः वीरैः दशभिः वियूयाः । वियूयातिति प्राप्ते । आत्मनेपदव्यत्ययः । ब्रह्म्नचारिणं इच्छते । इच्छति इति प्राप्ते । परस्मैपदव्यत्ययः । प्रतीपं अन्यः ऊर्मिः युध्यति । युध्यते इति प्राप्ते । (कात्यायन वार्तिक)सुप्तिङुपग्रहलिङ्गनराणां काल्हलच्स्वरकर्तृयङां च व्यत्ययं इच्छति शास्त्रकृतेषां । सः अपि च सिध्यति बाहुलकेन(वार्तिकान्त) ।
(पाणिनीयसूत्र ३,१।८६) कि.,६५।८-२० रो.,१६१-१६२ अयं आशिषि अङ्विधीयते । तस्य किं प्रयोजनं । (कात्यायन वार्तिक)आशिषि अङः प्रयोजनं स्थागागमिवचिविदयः(वार्तिकान्त) । स्था । उप स्थेषं वृषभं । स्था । गा । अञ्जसा सत्यं उप गेषं । गा । गमि । यज्ञेन प्रतिष्ठां गमेयं । गमि । वचि । मन्त्रं वोचेम अग्नये । वचि । विदि । विदेयं एनां मनसि प्रविष्टां । शकिरुहोः च इति वक्तव्यं । शकेम त्वा समिधं । अस्रवन्तीं आ रुहेम स्वस्तये । (कात्यायन वार्तिक)दृशोः अक्पितरं च दृशेयं मातरं च(वार्तिकान्त) । दृशोः अक्वक्तव्यः पितरं च दृशेयं मातरं च इति एवमर्थं । इह उपस्थेयाम इति आटपि वक्तव्यः । न हि अङा एव सिध्यति । न वक्तव्यः । सार्वधातुकत्वात्सलोपः आर्धधातुकत्वातेत्वं । द्तत्र उभयलिङ्गत्वात्सिद्धं ।
(पाणिनीयसूत्र ३,१।८७।१) कि.,६६।२-८ रो.,१६२-१६४ वत्करणं किमर्थं । स्वाश्रयं अपि यथा स्यात। भिद्यते कुशूलेन इति । अकर्मकाणां भावे लः भवति इति लः यथा स्यात। कर्मणा इति किमर्थं । करणाधिकरणाभ्यां तुल्यक्रियः कर्ता यः सः कर्मवत्मा भूत। साधु असिः छिनत्ति । साधु स्थाली पचति । तुल्यक्रियः इति किमर्थं । पचति ओदनं देवदत्तः । तुल्यक्रियः इति उच्यमाने अपि अत्र प्राप्नोति । अत्र अपि हि कर्मणा तुल्यक्रियः कर्ता । न तुल्यक्रियग्रहणेन समानक्रियत्वं अभिसम्बध्यते । किं तर्हि । यस्मिन्कर्मणि कर्तृभूते अपि तद्वत्क्रिय लक्ष्यते यथा कर्मणि सः कर्मणा तुल्यक्रियः कर्ता कर्मवत्भवति इति ।
(पाणिनीयसूत्र ३,१।८७।२) कि.,६६।९-६७।२ रो.,१६४-१६७ (कात्यायन वार्तिक)कर्मवतकर्मकस्य कर्ता(वार्तिकान्त) । अकर्मकस्य कर्ता कर्मवत्भवति इति वक्तव्यं । किं प्रयोजनं । सकर्मकस्य कर्ता कर्मवत्मा भूतिति । भिद्यमानः कुशूलः पात्राणि भिनत्ति । तथा (कात्यायन वार्तिक)कर्म दृष्टः चेत्समानधातौ(वार्तिकान्त) । कर्म दृष्टः चेत्समानधातौ इति वक्तव्यं । इह मा भूत। पचति ओदनं देवदत्तः । राध्यति ओधनः स्वयं एव । तथा (कात्यायन वार्तिक)कर्मस्थभावकानं कर्मस्थक्रियाणां च(वार्तिकान्त) । कर्मस्थभावकानं कर्मस्थक्रियाणां वा कर्ता कर्मवत्भवति इति वक्तव्यं । कर्तृस्थभावकानां कर्तृस्थक्रियाणां वा कर्ता कर्मवत्मा भूतिति । यत्तावतुच्यते अकर्मकस्य कर्ता कर्मवत्भवति इति वक्तव्यं इति । न वक्तव्यं । वक्ष्यति एतत। सकर्मकाणां प्रतिषेधः अन्योन्यं आश्लिष्यतः इति । यतपि उच्यते कर्म दृष्टः चेत्समानधातौ इति वक्तव्यं इति । न वक्तव्यं । धातोः इति वर्तते । धातोः कर्मणः कतुरः अयं कर्मवद्भावः अतिदिश्यते । तत्र सम्बन्धातेतत्गन्तव्यं यस्य धातोः यत्कर्म तस्य चेत्कर्ता स्यातिति । तत्यथा धातोः कर्मणि अण्भवति इति । तत्र सम्बन्धातेतत्गम्यते यस्य धातोः यत्कर्म इति । इह मा भूत। आहर कुम्भं करोति कटं इति । यतपि उच्यते कर्मस्थभावकानं कर्मस्थक्रियाणां वा कर्ता कर्मवत्भवति इति वक्तव्यं । कर्तृस्थभावकानां कर्तृस्थक्रियाणां वा कर्ता कर्मवत्मा भूतिति । न वक्तव्यं । कर्मस्थया क्रियया अयं कर्तारं उपमिमीते । न च कर्तृस्थभावकानां कर्तृस्थक्रियाणां वा कर्मणि क्रियायाः प्रवृत्तिः अस्ति ।
(पाणिनीयसूत्र ३,१।८७।३) कि.,६७।३-९ रो.,१६७ किं पुनः कर्मकर्तरि कर्माश्रयं एव भवति आहोस्वित्कर्त्राश्रयं अपि । किं च अतः । यदि कर्माश्रयं एव चङ्शप्कृद्विधयः न सिध्यन्ति । चङ। अचीकरत कटः स्वयं एव । शप। नमते दण्डः स्वयं एव । कृद्विधिः । भिदुरं काष्ठं स्वयं एव । अथ कर्त्राश्रयं अपि सिद्धं एतत्भवति । किं तर्हि इति । (कात्यायन वार्तिक)आत्मनेपदशबादिविधिप्रतिषेधः(वार्तिकान्त) । आत्मनेपदं विधेयं शबादीनां च प्रतिषेधः वक्तव्यः । उभयं क्रियते न्यासे एव ।
(पाणिनीयसूत्र ३,१।८७।४) कि.,६७।१०-६८२२७ रो.,१६८-१७१ किमर्थं पुनः इदं उच्यते । (कात्यायन वार्तिक)कर्मकर्तरि कर्तृत्वं स्वातन्त्र्यस्य विवक्षितत्वात्(वार्तिकान्त)। कर्मकर्तरि कर्तृत्वं अस्ति । कुतः । स्वातन्त्र्यस्य विवक्षितत्वात। स्वातन्त्र्येण एव अत्र कर्ता विवक्षितः । किं पुनः सतः स्वातन्त्र्यस्य विवक्षा आहोस्वित्विवक्षामात्रं । सतः इति आह । कथं ज्ञायते । भिद्यते कुशूलेन इति । न च अन्यः कर्ता दृश्यते क्रिया च उपलभ्यते । किं च भोः विग्रहवता एव क्रियायाः कर्त्रा भवितव्यं न पुनः वातातपकालाः अपि कर्तारः स्युः । भवेत्सिद्धं यदि वातातपकालानां अन्यतमः कर्ता स्यात। यः तु खलु निवाते निरभिवर्षे अचिरकालकृतः कुशूलः भिद्यते तस्य न अन्यः कर्ता भवति अन्यततः कुशूलात। यदि अपि तावतत्र एतत्शक्यते वक्तुं यत्र अन्यः कर्ता न अस्ति इह तु कथं न स्यात्लूयते केदारः स्वयं एव इति यत्र असु देवदत्तः दात्रहस्तः समन्ततः विपरिपतन्दृश्यते । अत्र अपि या असौ सुकरता नाम तस्याः न अन्यत्कर्ता भवति अन्यततः केदारात। अस्ति प्रयोजनं एतत। किं तर्हि इति । (कात्यायन वार्तिक)तत्र लान्तस्य कर्मवदनुदेशः(वार्तिकान्त) । तत्र लान्तस्य कर्मवदनुदेशः कर्तव्यः । लान्तस्य कर्ता कर्मवत्भवति इति वक्तव्यं । (कात्यायन वार्तिक)इतरथा हि कृत्यक्तखलर्थेषु प्रतिषेधः(वार्तिकान्त) । अक्रियमाणे हि लग्रहणे कृत्यक्तखलर्थेषु प्रतिषेधः वक्तव्यः स्यात। कृत्य । भेत्तव्यः कुशूलः इति कर्म । सः यदा स्वातन्त्र्येण विवक्षितः तदा अस्य कर्मवद्भावः स्यात। तस्य प्रतिषेधः वक्तव्यः । तस्मिन्प्रतिषिद्धि अकर्मकाणां भावे कृत्या भवन्ति इति भावे यथा स्यात। भेत्तव्यं कुशूलेन इति । क्त । भिन्नः कुशूलः इति कर्म । सः यदा स्वातन्त्र्येण विवक्षितः तदा अस्य कर्मवद्भावः स्यात। तस्य प्रतिषेधः वक्तव्यः । तस्मिन्प्रतिषिद्धि अकर्मकाणां भावे क्तः भवति इति भावे क्तः यथा स्यात। भिन्नं कुशूलेन । खलर्थः । ईषद्भेद्यः कुशूलः इति कर्म । सः यदा स्वातन्त्र्येण विवक्षितः तदा अस्य कर्मवद्भावः स्यात। तस्य प्रतिषेधः वक्तव्यः । तस्मिन्प्रतिषिद्धे अकर्मकाणां भावे खल्भवति इति भावे यथा स्यात। ईषद्भेद्यं कुशूलेन इति । तत्तर्हि लग्रहणं कर्तव्यं । न कर्तव्यं । क्रियते न्यासे एव । लिङि आशिषि अङिति द्विलकारकः निर्देशः । (कात्यायन वार्तिक)सिद्धं तु प्राकृतकर्मत्वात्(वार्तिकान्त) । सिद्धं एतत। कथं । प्राकृतकर्मत्वात। प्राकृतं एव एतत्कर्म यथा कटं करोति शकटं करोति । कथं पुनः ज्ञायते प्राकृतं एव एतत्कर्म इति । (कात्यायन वार्तिक)आत्मसंयोगे अकर्मकर्तुः कर्मदर्शनात्(वार्तिकान्त) । आत्मसंयोगे अकर्मकर्तुः कर्म दृश्यते । क्व । हन्ति आत्मानं । हन्यत आत्मना इति । विषमः उपन्यासः । हन्ति आत्मानं इति कर्म दृश्यते । कर्ता न दृश्यते । आत्मना हन्यते इति कर्ता दृश्यते । कर्म न दृश्यते । (कात्यायन वार्तिक)पदलोपः च(वार्तिकान्त) । पदलोपः च द्रष्टव्यः । हन्ति आत्मानं आत्मना । आत्मना हन्यते आत्मा इति । कः पुनः आत्मानं हन्ति कः वा आत्मना हन्यते । द्वौ आत्मानौ अन्तरात्मा शरीरात्मा च । अन्तरात्मा तत्कर्म करोति येन शरीरात्मा सुखदुःके अनुभवति । शरीरात्मा तत्कर्म करोति येन अन्तरात्मा सुखदुःके अनुभवति ।
(पाणिनीयसूत्र ३,१।८७।५) कि.,६८।२३-७०।७ रो.,१७२-१७६ (कात्यायन वार्तिक)सकर्मकाणां प्रतिषेधः अन्योन्यं आश्लिष्यतः इति(वार्तिकान्त) । सकर्मकाणां प्रतिषेधः वक्तव्यः । किं प्रयोजनं । अन्योन्यं आश्लिष्यतः । अन्योन्यं संस्पृशतः । अन्योन्यं गृह्णीतः इति । (कात्यायन वार्तिक)तपेः वा सकर्मकस्य वचनं नियमार्थम्(वार्तिकान्त) । तपेः वा सकर्मकस्य वचनं नियमार्थं भविष्यति । तपेः एव सकर्मकस्य न अन्यस्य सकर्मकस्य इति । तस्य तर्हि अन्यकर्मकस्य अपि प्राप्नोति । उत्तपति सुवर्णं सुवर्णकारः । उत्तप्यमानं सुवर्णं सुवर्णकारं उत्तपति । (कात्यायन वार्तिक)तस्य च तपःकर्मकस्य एव(वार्तिकान्त) । तस्य च तपःकर्मकस्य एव कर्ता कर्मवत्भवति न अन्यकर्मकस्य इति । किं इदं तपः इति । तपेः अयं औणादिकः अस्कारः भावसाधनः । कः प्रकृत्यर्थः कः प्रत्ययार्थः । सः एव सन्तपः । कथं पुनः सः एव नाम प्रकृत्यर्थः स्यात्सः एव प्रत्ययार्थः । सामान्यतपेः अवयवतपिः कर्म भवति । तत्यथा । सः एतान्पोषानपुष्यत्गोपोषं अश्वपोषं रैपोषं इति । सामान्यपुषेः अवयविपुषिः कर्म भवति । एवं इह अपि सामान्यतपेः अवयवतपिः कर्म भवति । (कात्यायन वार्तिक)दुहिपच्योः बहुलं सकर्मकयोः(वार्तिकान्त) । दुहिपच्योः सकर्मकयोः कर्ता बहुलं कर्मवत्भवति इति वक्तव्यं । दुग्धे गौः पयः । तस्मातुदुम्बरः सः लोहितं फलं पच्यते । बहुलवचनं किमर्थं । परस्मैपदार्थं । यदि एवं न अर्थः बहुलवचनेन । न हि परस्मैपदं इष्यते । (कात्यायन वार्तिक)सृजियुज्योः श्यन्तु(वार्तिकान्त) । सृजियुज्योः सकर्मकयोः कर्ता बहुलं कर्मवत्भवति इति वक्तव्यं । श्यन्तु भवति । सृजेः श्रद्धोपपन्ने कर्तरि कर्मवद्भावः वाच्यः चिणात्मनेपदार्थः । सृज्यते मालां । असर्जि मालां । यजेः तु न्याय्ये कर्मकर्तरि यकः अभावाय । युज्यते ब्रह्मचारी योगं । (कात्यायन वार्तिक)करणेन तुल्यक्रियः कर्ता बहुलम्(वार्तिकान्त) । करणेन तुल्यक्रियः कर्ता बहुलं कर्मवत्भवति इति वक्तव्यं । परिवारयन्ति कण्टकैः वृक्षं । परिवारयन्ते कण्टकाः वृक्षं इति । (कात्यायन वार्तिक)स्रवत्यादीनां प्रतिषेधः(वार्तिकान्त) । स्रवत्यादीनां प्रतिषेधः वक्तव्यः । स्रवति कुण्डिका उदकं । स्रवति कुण्डिकायाः उदकं । स्रवन्ति वलीकानि उदकं । स्रवति वलीकेभ्यः उदकं इति । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । तुल्यक्रियः इति उच्यते । क्रियान्तरं च अत्र गम्यते । इह तावत्स्रवति कुण्डिका उदकं इति । विसृजति इति गम्यते । स्रवति कुण्डिकायाः उदकं इति । निष्क्रामति इति गम्यते । स्रवन्ति वलीकानि उदकं इति । विसृजन्ति इति गम्यते । स्रवति वलीकेभ्यः उदकं इति । पतति इति गम्यते । (कात्यायन वार्तिक)भूषाकर्मकिरतिसनां च अन्यत्र आत्मनेपदात्(वार्तिकान्त) । भूषाकर्मकिरतिसनां च प्रतिषेधः वक्तव्यः अन्यत्र आत्मनेपदात। भूषयते कन्या स्वयं एव । अबुभूषत कन्या स्वयं एव । मण्डयते कन्या स्वयं एव । अममण्डत कन्या स्वयं एव । किरति । अवकिरते हस्ती स्वयं एव । अवाकीर्ष्ट हस्ती स्वयं एव । सन। चिकीर्षते कटः स्वयं एव । अचिकीर्षिष्ट कटः स्वयं एव ।
(पाणिनीयसूत्र ३,१।८९) कि.,७०।९-१५ रो.,१७६-१७७ (कात्यायन वार्तिक)यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञां उपसङ्ख्यानम्(वार्तिकान्त) । यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञां उपसङ्ख्यानं कर्तव्यं । णि । कारयते कटः स्वयं एव । अचीकरत कटः स्वयं एव । णि । श्रि । उच्छ्रयते दण्डः स्वयं एव । उदशिश्रियत दण्डः स्वयं एव । श्रि । ब्रूञ। ब्रूते कथा स्वयं एव । अवोचत कथा स्वयं एव । भारद्वाजीयाः पठन्ति । यक्चिणोः प्रतिषेधे णिश्रिग्रन्थिब्रूञात्मनेपदाकर्मकाणां उपसङ्ख्यानं इति ।
(पाणिनीयसूत्र ३,१।९०) कि.,७०।१७-७१।२३ रो.,१७७-१७९ (कात्यायन वार्तिक)कुषिरजोः श्यन्विधाने सार्वधातुकवचनम्(वार्तिकान्त) ।कुषिरजोः श्यन्विधाने सार्वधातुकग्रहणं कर्तव्यं । (कात्यायन वार्तिक)अवचने हि लिङ्लिटोः प्रतिषेधः(वार्तिकान्त) । अक्रियमाणे हि सार्वधातुकग्रहणे लिङ्लिटोः प्रतिषेधः वक्तव्यः स्यात। चुकुषे पादः स्वयं एव । ररञ्जे वस्त्रं स्वयं एव । कोषिषीष्ट पादः स्वयं एव । रङ्क्षीष्ट वस्त्रं स्वयं एव । क्रियमाणे अपि सार्वधातुकग्रहणे इह प्राप्नोति । कति इह कुष्णाणाः पादाः । श्यना च स्यादीनां बाधनं प्राप्नोति । कोषिष्यते पादः स्वयं एव । रङ्क्ष्यते वस्त्रं स्वयं एव । अकोषि पादः स्वयं एव । अरञ्जि वस्त्रं स्वयं एव । यत्तावतुच्यते सार्वधातुकग्रहणं कर्तव्यं इति । प्रकृतं अनुवर्तते । क्व प्रकृतं । सार्वधातुके यकिति । यदि ततनुवर्तते पूर्वस्मिन्योगे किं समुच्चयः । ले च सार्वधातुके च इति । आहोस्वित्लग्रहणं सार्वधातुकविशेषणं । किं च अतः । यदि समुच्चयः कति इह भिन्दानाः कुशूलाः इति अत्र अपि प्राप्नोति । अथ लग्रहणं सार्वधातुकविशेषणं लिङ्लिटोः न सिध्यति । बिभिदे कुशूलः स्वयं एव । भित्सीष्ट कुशूलः स्वयं एव इति । अस्तु लग्रहणं सार्वधातुकविशेषणं । ननु च उक्तं लिङ्लिटोः न सिध्यति इति । लिङ्लिड्ग्रहणं अपि प्रकृतं अनुवर्तते । क्व प्रकृतं । कास्प्रत्ययातां अमन्त्रे लिटि लिङि आशिषि आङिति । एवं च कृत्वा सः अपि अदोषः भवति यतुक्तं कति इह कुष्णाणाः पादाः इति प्राप्नोति । अत्र अपि लविशिष्टं सार्वधातुकग्रहणं अनुवर्तते । यतपि उच्यते श्यना च स्यादीनां बाधनं प्राप्नोति । यक्प्रतिषेधसम्बन्धेन श्यनं वक्ष्यामि । न दुहस्नुनमां यक्चिणौ । ततः कुषिरजोः प्राचां यक्चिणौ न भवतः । ततः श्यन्परस्मैपदं च इति । यथा एव तर्हि यकः विषये श्यन्भवति एवं चिणः अपि विषये प्राप्नोति । अकोषि पादः स्वयं एव । अरञ्जि वस्त्रं स्वयं एव इति । एवं तर्हि द्वितीयः योगविभागः करिष्यते । न दुहस्नुनमां चिण्भवति । ततः यक। यक्च न भवति दुहस्नुनमां । ततः कुषिरजोः प्राचां यक्न भवति । ततः श्यन्परस्मैपदं च । अथ वा अनुवृत्तिः करिष्यते । स्यतासी लृलुटोः । च्लि लुङि । च्लेः सिच्भवति । कर्तरि शप्स्यतासी लृलुटोः च्लि लुङि च्लेः सिच्भवति । कुषिरजोः प्राचां श्यन्परस्मैपदं च स्यतासी लृलुटोः च्लि लुङि च्लेः सिच्भवति इति । अथ वा अन्तरङ्गाः स्यादयः । का अन्तरङ्गता । लकारावस्थायां एव स्यादयः । सार्वधातुके श्यन।
(पाणिनीयसूत्र ३,१।९१।१) कि.,७१।२४-७४।४ रो.,१७९-१८३ आ कुतः अयं धात्वधिकारः । किं प्राक्लादेशाताहोस्विता तृतीयाध्यायपरिसमाप्तेः । (कात्यायन वार्तिक)धातुवधिकारः प्राक्लादेशात्(वार्तिकान्त) । प्राक्लादेशात्धात्वधिकारः । (कात्यायन वार्तिक)लादेशे हि व्यवहितत्वातप्रसिद्धिः(वार्तिकान्त) । अनुवर्तमाने हि लादेशे धात्वधिकारे व्यवहितव्ता अप्रसिद्धिः स्यात। किं च स्यात। (कात्यायन वार्तिक)आद्ये योगे न व्यवाये तिङः स्युः (वार्तिकान्त)। आद्ये योगे विकरणैः व्यवहितत्वात्तिङः न स्युः । पचति पठति । इदं इह सम्प्रधार्यं । विकरणाः क्रियन्तां आडेशाः इति । किं अत्र कर्तव्यं । परत्वातादेशाः । नित्याः विकरणाः । कृतेषु आदेशेषु प्राप्नुवन्ति अकृतेषु अपि प्राप्नुवन्ति । नित्यत्वात्विकरणेषु कृतेषु विकरणैः व्यवहितत्वातादेशाः न प्राप्नुवन्ति । अनवकाशः तर्हि आदेशाः । सावकाशाः आदेशाः । कः अवकाशः । ये एते लुग्विकरणाः श्लुविकरणाः च लिङ्लिटौ च । (कात्यायन वार्तिक)न स्यातेत्वं टेः टितां यत्विधत्ते(वार्तिकान्त) । यत्च टित्सञ्ज्ञानां एत्वं विधत्ते तत्च विकरणैः व्यवहितत्वात्न स्यात। (कात्यायन वार्तिक)एशः शित्त्वं (वार्तिकान्त)। एकारः च शित्कर्तव्यः । किं प्रयोजनं । शित्सर्वस्य इति सर्वादेशः यथा स्यात। अक्रियमाणे हि शकारे तस्मातिति उत्तरस्य आदेः इति तकारस्य एत्वे कृते द्वयोः एकारयोः श्रवणं प्रसज्येत । निवृत्ते पुनः लादेशे धात्वधिकारे अलः अन्त्यस्य विधयः भवन्ति इति एकारस्य एकार्वचनने प्रयोजनं न अस्ति इति कृत्वा अन्तरेण अपि शकारं सर्वादेशः भविष्यति । (कात्यायन वार्तिक)यत्च लोटः विधत्ते(वार्तिकान्त) । तत्च विकरणैः व्यवहितत्वात्न स्यात। किं पुनः तत। लोटः लङ्वतेः उः सेः हि अपित्च वा छन्दसि इति । (कात्यायन वार्तिक)यत्च अपि उक्तं लङ्लिङोः तत्च न स्यात्(वार्तिकान्त) । किं पुनः तत। नित्यं ङितः इतः च तस्थस्थमिपां ताम्तम्तामः लिङः सीयुट्यासुट्परस्मैपदेषु उदात्तः ङित्च इति । तस्मात्प्राक्लादेशात्धात्वधिकारः । यदि प्राक्लादेशात्धात्वधिकारः अकारः शित्कर्तव्यः । किं प्रयोजनं । शित्सर्वस्य इति सर्वादेशः यथा स्यात। अनुवर्तमाने पुनः लादेशे धात्वधिकारे तस्मातिति उत्तरस्य आदेः इति थकारस्य अत्वे कृते द्वयोः अकारयोः पररूपेण सिद्धं रूपं स्यात। पेच यूयं । चक्र यूयं इति । ननु च निवृत्ते अपि लादेशे धात्वधिकारे अलः अन्त्यस्य विधयः भवन्ति इति अकारस्य अकार्वचनने प्रयोजनं न अस्ति इति कृत्वा अन्तरेण अपि शकारं सर्वादेशः भविष्यति । अस्ति अन्यतकारस्य अकारवचने प्रयोजनं । किं । वक्ष्यति एतत्ततकारस्य अकारवचनं समसङ्ख्यार्थं इति । आर्धधातुकसञ्ज्ञायां धातुग्रहणं कर्तव्यं धातोः परस्य आर्धधातुकसञ्ज्ञा यथा स्यात। इह मा भूतः वृक्ष्त्वं वृक्षता इति । तस्मात्लादेशे धात्वधिकारः अनुवर्त्यः । ननु च उक्तं आद्ये योगे न व्यवाये तिङः स्युः इति । न एषः दोषः । आनुपूर्व्यात्सिद्धं एतत। न अत्र अकृतेषु आदेशेषु विकरणाः प्राप्नुवन्ति । किं कारणं । सार्वधातुके विकरणाः उच्यन्ते । न च अकृतेषु आदेशेषु सार्वधातुकत्वं भवति । ये तर्हि न एतस्मिन्विशेषे विधीयन्ते । के पुनः ते । स्यादयः । तत्र अपि विहितविशेषणं धातुग्रहणं । धातोः विहितस्य लस्य इति । यदि एवं विन्दति इति णलादयः प्राप्नुवन्ति । धातुना अत्र विहितं विशेषयिष्यामः विदिना च आनतर्यं । धातोः विहितस्य लस्य विदेः अनन्तरस्य इति । इह तर्हि अजक्षिष्यनजागैर्ष्यनिति अभ्यस्तात्झेः जुस्भवति इति जुस्भावः प्राप्नोति । अत्र अपि धातुना विहितं विशेषयिष्यामः अभ्यस्तेन आनन्तर्यं । धातोः विहितस्य अभस्तातनन्तरस्य इति । आतः इति अत्र कथं विशेषयिष्यसि । यदि तावत्धातुग्रहणं विहितविशेषणं आकारग्रहणं आनन्तर्यविशेषणं अलुननिति अत्र अपि प्राप्नोति । अथ आकारग्रहणं विहितविशेषणं धातुग्रहणं आनन्तर्यविशेषणं अपिबनिति अत्र अपि प्राप्नोति । अस्तु तर्हि धातुग्रहणं विहितविशेषणं आकारग्रहणं आनन्तर्यविशेषणं । ननु च उक्तं अलुननिति अत्र अपि प्राप्नोति इति । न एषः दोषः । लोपे कृते न भविष्यति । न अत्र लोपः प्राप्नोति । किं कारणं । ईत्वेन बाध्यते । न अत्र ईत्वं प्राप्नोति । किं कारणं । अन्तिभावेन बाध्यते । न अत्र अन्तिभावः प्राप्नोति । किं कारणं । जुस्भावेन बाध्यते । न अत्र जुस्भावः प्राप्नोति । किं कारणं । लोपेन बाध्यते । लोपः ईत्वेन ईत्वं अन्तिभावेन अन्तिभावः जुस्भावेन जुस्भावः लोपेन इति चक्रकं अव्यवस्था प्रसज्येत । न अस्ति चक्रकप्रसङ्गः । न हि अव्यवस्थाकारिणा शास्त्रेण भवितव्यं । शास्त्रेण नाम व्यवस्थाकारिणा भवितव्यं । न च अत्र हलादिना मुहूर्तं अपि शक्यं अवस्थातुं । तावति एव अन्तिभावेन भवितव्यं । अन्तिभावे कृते लोपः । लोपेन व्यवस्था भविष्यति । यतपि उच्यते एशः शित्त्वं इति । क्रियते न्यासे एव ।
(पाणिनीयसूत्र ३,१।९१।२) कि.,७४।५-७५।९ रो.,१८३-१८५ कानि पुनः अस्य योगस्य प्रयोजनानि । (कात्यायन वार्तिक)प्रयोजनं प्रातिपदिकप्रतिषेधः(वार्तिकान्त) । प्रातिपदिकप्रतिषेधः प्रयोजनं । धातोः तव्यादयः यथा स्युः । प्रातिपदिकात्मा भूवनिति । न एततस्ति प्रयोजनं । साधने ताव्यादयः विधीयन्ते साधनं च क्रियायाः । क्रियाभावात्साधनाभावः । साधनाभावातसति अपि धात्वधिकारे प्रातिपदिकात्तव्यादयः न भविष्यन्ति । (कात्यायन वार्तिक)स्वपादिषु(वार्तिकान्त) । स्वपादिषु तर्हि प्रयोजनं । स्वपिति । सुपति इति मा भूत। (कात्यायन वार्तिक)अङ्गसञ्ज्ञा च(वार्तिकान्त) । अङ्गसञ्ज्ञा च प्रयोजनं । यस्मात्प्रत्ययविधिः तदादि प्रत्यये अङ्गं इति धातोः अङ्गसञ्ज्ञा सिद्धा भवति । (कात्यायन वार्तिक)कृत्सञ्ज्ञा च(वार्तिकान्त) । कृत्सञ्ज्ञा च प्रयोजनं । धातुविहितस्य प्रत्ययस्य कृत्सञ्ज्ञा सिद्धा भवति । उपपदसञ्ज्ञा च। उपपदसञ्ज्ञा च प्रयोजनं । तत्र एतस्मिन्धात्वधिकारे सप्तमीनिर्दिष्टं उपपदस्ञ्ज्ञं भवति इति उपपदसञ्ज्ञा सिद्धा भवति । कृदुपपदसञ्ज्ञे तावन्न प्रयोजनं । अधिकारातपि एते सिद्धे । स्वपादिषु तर्हि अङ्गसञ्ज्ञा च प्रयोजनं । (कात्यायन वार्तिक)धातुग्रहणं अनर्थकं यङ्विधौ धात्वधिकारात्(वार्तिकान्त) । धातुग्रहणं अनर्थकं । किं कारणं । यङ्विधौ धात्वधिकारात। यङ्विधौ धातुग्रहणं प्रकृतं अनुवर्तते । तत्च अवश्यं अनुवर्त्यं । (कात्यायन वार्तिक)अनधिकारे हि अङ्गसञ्ज्ञाभावः(वार्तिकान्त) । अनधिकारे हि सति अङ्गसञ्ज्ञायाः अभावः स्यात। करिष्यति हरिष्यति इति । यद्ततनुवर्तते चूर्णचुरादिभ्यः णिच्भवति धातोः च इति धातुमात्रात्णिच्प्राप्नोति । (कात्यायन वार्तिक)हेतुमद्वचनं तु ज्ञापकं अन्यत्राभावस्य(वार्तिकान्त) । यतयं हेतुमति च इति आह तत्ज्ञापयति आचार्यः न धातुमात्रात्णिच्भवति इति । इह तर्हि कण्ड्वादिभ्यः यक्भवति धातोः च इति धातुमात्रात्यक्प्राप्नोति । (कात्यायन वार्तिक)कण्ड्वादिषु च व्यपदेशिवद्वचनात्(वार्तिकान्त) । यतयं कण्ड्वादिभ्यः यक्भवति इति आह तत्ज्ञापयति आचार्यः न धातुमात्रात्यक्भवति इति । अथ वा कण्ड्वादिभ्यः धातुग्रहणेन अभिसम्भन्त्स्यामः । कण्ड्वादिभ्यः धातुभ्यः इति ।
(पाणिनीयसूत्र ३,१।९२।१) कि.,७५।११-१८ रो.,१८५-१८६ स्थग्रहणं किमर्थं । तत्र उपपदं सप्तमी इति इयति उच्यमाने यत्र एव सप्तमी श्रूयते तत्र एव स्यातः स्तम्बेरमः कर्णेजपः । यत्र वा एतेन शब्देन निर्देशः क्रियते । सप्तम्यां जनेः डः इति । इह न स्यात। कुम्भकारः नगरकारः । स्थग्रहणे पुनः क्रियमाणे यत्र च सप्तमी श्रूयते य च न श्रूयते यत्र च एतेन शब्देन निर्देशः क्रियते यत्र च अन्येन सप्तमीस्थमात्रे सिद्धं भवति । अथ तत्रग्रहणं किमर्थं । (कात्यायन वार्तिक)तत्रग्रहणं विषयार्थम्(वार्तिकान्त) । विषयः प्रतिनिर्दिश्यते । तत्र एतस्मिन्धात्वधिकारे यत्सप्तमीनिर्दिष्टं ततुपपदसञ्ज्ञं भवति इति उपपदसञ्ज्ञा सिद्धा भवति ।
(पाणिनीयसूत्र ३,१।९२।२) कि.,७५।१९-७६।२६ रो.,१८७-१९० (कात्यायन वार्तिक)उपपदसञ्ज्ञायां समर्थवचनं (वार्तिकान्त)। उपपदसञ्ज्ञायां समर्थग्रहणं कर्तव्यं । समर्थं उपपदं प्रत्ययस्य इति वक्तव्यं । इह मा भूत। आहर कुम्भं । करोति कटं इति । क्रियमाणे च अपि समर्थग्रहणे महान्तं कुम्भं करोति इति अत्र अपि प्राप्नोति । न वा भवितव्यं महाकुम्भकारः इति । भवैतव्यं यदा एतत्वाक्यं भवति । महान्कुम्भः महाकुम्भः महाकुम्भं करोति इति महाकुम्भकारः । यदा तु एतत्वाक्यं भवति महान्तं कुम्भं करोति इति तदा न भवितव्यं । तदा च प्राप्नोति । तदा मा भूतिति । यत्तावतुच्यते समर्थग्रहणं कर्तव्यं इति । न कर्तव्यं । धातोः इति वर्तते । धातोः कर्मणि अण्भवति । तत्र सम्बन्धातेतत्गन्तव्यं । यस्य धातोः यत्कर्म इति । यतपि उच्यते क्रियमाणे च अपि समर्थग्रहणे महान्तं कुम्भं करोति इति अत्र अपि प्राप्नोति इति । उपपदं इति महतीइहं सञ्ज्ञा क्रियते । सञ्ज्ञा च नाम यतः न लघीयः । कुतः एतत। लघ्वर्थं हि सञ्ज्ञाकरणं । तत्र महत्याः सञ्ज्ञायाः करणे एतत्प्रयोजनं अन्वर्थसञ्ज्ञा यथा विज्ञायेत : उपोच्चारि पदं उपपदं । यत्च अत्र उपोच्चारि न तत्पदं यत्च पदं न ततुपोच्चारि । यावता च इदानीं पदगन्धः अस्ति पदविधिः अयं भवति । पदविधिः च समर्थानां भवति । तत्र असामार्थ्यान्न भविष्यति । अथ च्व्यन्ते उपपदे किं अणा भवितव्यं । अकुम्भं कुम्भं करोति कुम्भीकरोति मृदं इति । न भवितव्यं । किं कारणं । प्रकृतिविवक्षायां च्विः विधीयते । तत्सापेक्षं । सापेक्षं च असमर्थं भवति । न तर्हि इदानीं इदं भवति : इच्छामि अहं काशकटीकारं इति । इष्टं एव एतत्गोनर्दीयस्य । (कात्यायन वार्तिक)निमित्तोपादनं च(वार्तिकान्त) । निमित्तोपादनं च कर्तव्यं । निमित्तं उपपदं प्रत्ययस्य इति वक्तव्यं । (कात्यायन वार्तिक)अनुपादाने हि अनुपपदे प्रत्ययप्रसङ्गः(वार्तिकान्त) । अक्रियमाणे हि निमित्तोपादाने अनुपपदे अपि प्रसज्येत । निर्देशः इदानीं किमर्थः स्यात। (कात्यायन वार्तिक)निर्देशः सञ्ज्ञाकरणार्थः(वार्तिकान्त) । यदा उपपदे प्रत्ययः तदा उपपदसञ्ज्ञां वक्ष्यामि इति । तत्तर्हि निमित्तोपादनं कर्तव्यं । न कर्तव्यं । (कात्यायन वार्तिक)तत्रवचनं उपपदसन्नियोगार्थम्(वार्तिकान्त) । तत्रवचनं क्रियते । ततुपपदसन्नियोगार्थं भविष्यति । कर्मणि अण्विधीयते तत्र चेत्प्रत्ययः भवति इति । ननु च अन्यत्तत्रग्रहणस्य प्रयोजनं उक्तं । किं । तत्रग्रहणं विषयार्थं इति । अधिकारातपि एतत्सिद्धं ।
(पाणिनीयसूत्र ३,१।९३) कि.,७७।२-१७ रो.,१९०-१९२ अतिङिति किमर्थं । पचति करोति । अतिङिति शक्यं अकर्तुं । कस्मात्न भवति पचति करोति इति । धातोः परस्य कृत्सञ्ज्ञा । प्राक्च लादेशात्धात्वधिकारः । एवं अपि स्थानिवद्भावात्कृत्सञ्ज्ञ प्राप्नोति । यथा अतिङिति उच्यमाने यावता स्थानिवद्भावः कथं एव एतत्सिध्यति । प्रतिषेधवचनसामर्थ्यात। अथ वा तिङ्भाविनः लकारस्य कृत्सञ्ज्ञाप्रतिषेधः । किं च स्यात्यति अत्र कृत्सञ्ज्ञा स्यात। कृत्प्रातिपदिकं इति प्रातिपदिकसञ्ज्ञा स्यात। प्रातिपदिकातिति स्वाद्युत्पत्तिः प्रसज्येत । न एषः दोषः । एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते । ते च अत्र तिङोक्ताः एकत्वादयः इति कृत्वा उक्तार्थत्वात्न भविष्यन्ति । टाबादयः तर्हि तिङन्तात्मा भूवनिति । स्त्रियां टाबादयः विधीयन्ते । न च तिङन्तस्य स्त्रीत्वेन योगः अस्ति । अणादयः तर्हि तिङन्तात्मा भूवनिति । अपत्यादिषु अर्थेषु अणादयः विधीयन्ते । न च तिङन्तस्य अपत्यादिभिः योगः अस्ति । अथ अपि कथं चित्योगः स्यात। एवं अपि न दोषः । आचार्यप्रवृत्तिः ज्ञापयति न तिङन्तातणादयः भवन्ति इति यतयं क्व चित्तद्धितविधौ तिङ्ग्रहणं करोति । अतिशायने तमबिष्ठनौ तिङः च इति । इह तर्हि पचति पठति इति । ह्रस्वस्य पिति कृति तुक्भवति इति तुक्प्राप्नोति । धातोः इति वर्तते । एवं अपि चिकीर्षति इति अत्र प्राप्नोति । अत्र अपि शपा व्यवधानं । एकादेशे कृते न अस्ति व्यवधानं । एकादेशः पूर्वविधौ स्थानिवत्भवति इति स्थानिवद्भावात्व्यवधानं एव इति ।
(पाणिनीयसूत्र ३,१।९४।१) कि.,७८।२-७ रो.,१९२-१९३ कथं इदं विज्ञायते । स्त्रियां अभिधेयायां वा अस्रूपः न भवति इति आहोस्वित्स्त्रीप्रत्ययेषु इति । किं च अतः । यदि स्त्रियां अभिधेयायां इति लव्या लवितव्या अत्र वा असरूपः न प्राप्नोति । अथ विज्ञायते स्त्रीप्रत्ययेषु इति व्यावक्रोशी वयतिक्रुष्टिः इति न सिध्यति । एवं तर्हि न एवं विज्ञायते स्त्रियां अभिधेयायां न अपि स्त्रीप्रत्ययेषु इति । कथं तर्हि स्त्रीग्रहणं स्वरयिष्यते । तत्र स्वरितेन अधिकारगतिः भवति इति स्त्रियां इति अधिकृत्य ये प्रतयाः विहिताः तेषां प्रतिषेधः विज्ञास्यते ।
(पाणिनीयसूत्र ३,१।९४।२) कि.,७८।८-८०।१४ रो.,१९३-१९८ किमर्थं पुनः इदं उच्यते । (कात्यायन वार्तिक)असरूपस्य वावचनं उत्सर्गस्य बाधकविषये अनिवृत्त्यर्थम्(वार्तिकान्त) । असरूपस्य वावचनं क्रियते उत्सर्गस्य बाधकविषये अनिवृत्तिः यथा स्यात। तव्यत्तव्यानीयरः उत्सर्गाः । तेषां अजन्तात्यतपवादः । चेयं , चेतव्यं इति अपि यथा स्यात। न एततस्ति प्रयोजनं । अजन्तात्यत्विधीयते । हलन्तात्ण्यत्विधीयते । एतावन्तः च धातवः यतुत अजन्ताः हलन्ताः च । उच्यन्ते च तव्यादयः । ते वचनात्भविष्यन्ति । एवं तर्हि ण्वुल्तृचौ उत्सर्गौ । तयोः पचादिभ्यः अचपवादः । पचति इति पचः । पक्ता पाचकः इति अपि यथा स्यात। एततपि न अस्ति प्रयोजनं । वक्ष्यति एतत। अचपि सर्वधातुभ्यः वक्तव्यः इति । एवं तर्हि ण्वुल्तृजचः उत्सर्गाः तेषां इगुपधात्कः अपवादः । विक्षिपः विलिखः । विक्षेप्ता विक्षेपकः इति अपि यथा स्यात। अस्ति प्रयोजनं एतत। किं तर्हि इति । (कात्यायन वार्तिक)तत्र उत्पत्तिवाप्रसङ्गः यथा तद्धिते(वार्तिकान्त) । तत्र उत्पत्तिः विभाषा प्राप्नोति यथा तद्धिते । अस्तु । यदा विक्षिपः विलिखः इति एतत्न तदा विक्षेप्ता विक्षेपकः इति एतत्भविष्यति । यदि एतत्लभ्येत कृतं स्यात। तत्तु न लभ्यं । किं कारणं । यथा तद्धिते इति उच्यते । तद्दितेषु च सर्वं एव उत्सर्गापवादं विभाषा । उत्पद्यते वा न वा । (कात्यायन वार्तिक)सिद्धं तु असरूपस्य बाधकस्य वावचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । असरूपस्य बाधकस्य वावचनात। असरूपः बाधकः वा बाधकः भवति इति वक्तव्यं । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं तत्र उत्पत्तिवाप्रसङ्गः यथा तद्धिते इति । न एषः दोषः । अस्ति कारणं येन तद्धिते विभाषा उत्पत्तिः भवति । किं कारणं । प्रकृतिः तत्र प्रकृत्यर्थे वर्तते । अन्येन शब्देन प्रत्ययार्थः अभिधीयते । इह पुनः न केवला प्रकृतिः प्रकृत्यर्थे वर्तते न च अन्यः शब्दः अस्ति यः तं अर्थं अभिदधीत इति कृत्वा अनुत्पत्तिः न भविष्यति । अथ वा समयः कृतः । न केवला प्रकृतिः प्रयोक्तव्या न च केवलः प्रत्ययः इति । एतस्मात्समयातनुत्पत्तिः न भविष्यति । ननु च यः एव तस्य समयस्य कर्ता सः एव इदं अपि आह । यदि असौ तत्र प्रमाणं इह अपि प्रमाणं भवितुं अर्हति । प्रमाणं असौ तत्र च इह च । सामर्थ्यं तु इह द्रष्टव्यं प्रयोगे । न च अनुत्पत्तौ सामर्थ्यं अस्ति । तेन अनुत्पत्तिः न भविष्यति । कथं तर्हि तद्धितेषु अनुत्पत्तौ सामर्थ्यं भवति । अन्येन प्रत्ययेन सामर्थ्यं । केन । षष्ठ्या । अथ वा रूपवत्तां आश्रित्य वाविधिः उच्यते । न च अनुत्पत्तिः रूपवती । तेन अनुत्पत्तिः न भविष्यति । एवं अपि कुतः एततपवादः विभाषा भविष्यति न पुनः उत्सर्गः इति । न च एव अस्ति विशेषः यतपवादः विभाषा स्यातुत्सर्गः वा । अपि च सापेक्षः अयं निर्देशः क्रियते वा असरूपः इति । न च उत्सर्गवेलायां किं चितपेक्ष्यं अस्ति । अपवादवेलायां पुनः उत्सर्गः अपेक्ष्यते । तेन यः रूपवानन्यपूर्वकः बाधकः प्राप्नोति सः वा बाधकः भविष्यति । कः पुनः असौ । अपवादः । यदि यः रूपवानन्यपूर्वकः बाधकः प्राप्नोति सः वा बाधकः भवति इति उच्यते क्विबादिषु समावेशः न प्राप्नोति । ग्रामणीः ग्रामणायः इति । न हि एते रूपवन्तः । एते अपि रूपवन्तः । कस्यां अवस्थायां । उपदेशावस्थायां । यदि एवं (कात्यायन वार्तिक)अनुबन्धभिन्नेषु विभाषाप्रसङ्गः(वार्तिकान्त) । अनुबन्धभिन्नेषु विभाषा प्राप्नोति । कर्मणि अणातः अनुपसर्गे कः इति कविषये अणपि प्राप्नोति । (कात्यायन वार्तिक)सिद्धं अनुबन्धस्य अनेकान्तत्वात्(वार्तिकान्त) । सिद्धं एतत। कथं । अनुबन्धस्य अनेकान्तत्वात। अनेकान्ताः अनुबन्धाः । अथ वा प्रयोगे असरूपाणां वाविधिः न्याय्यः । (कात्यायन वार्तिक)प्रयोगे चेत्लादेशेषु प्रतिषेधः(वार्तिकान्त) । प्रयोगे चेत्लादेशेषु प्रतिषेधः वक्तव्यः । ह्यः अपचतिति अत्र लुङपि प्राप्नोति । श्वः पक्ता इति अत्र लृटपि प्राप्नोति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न लादेशेषु वा असरूपः भवति इति यतयं हशश्वतोः लङ्च इति आह । अथ वा प्रयोगे असरूपाणां वाविधौ न सर्वं इष्टं सङ्गृहीतं इति कृत्वा द्वितीयः प्रयोगः उपास्यते । कः असौ । उपदेशः नाम । उपदेशे च एते सरूपाः । ननु च उक्तं अनुबन्धभिन्नेषु विभाषाप्रसङ्गः इति । परिहृतं एतत। कथं । सिद्धं अनुबन्धस्य अनेकान्तत्वात। अथ एकान्ते दोषः एव । एकान्ते च न दोषः । आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतं असारूप्यं भवति इति यतयं ददादिदधात्योः विभाषा शं शास्ति । अथ वा असरूपः बाधकः वा बाधकः भवति इति उच्यते । अपवादः नाम अनुबन्धभिन्नः वा भवति रूपान्यत्वेन वा । तेन अनेन अवश्यं किं चित्त्याज्यं किं चित्तु सङ्ग्रहीतव्यं । तत्यतनुबन्धकृतं असारूप्यं तत्न आश्रयिष्यामः यत्तु रूपान्यत्वेन असारूप्यं तताश्रयिष्यामः । अथ वा असरूपः बाधकः वा बाधकः भवति इति उच्यते सर्वः च असरूपः । तत्र प्रकर्षगतिः विज्ञास्यते : साधीयः यः असरूपः इति । कः च साधीयः । यः प्रयोगे च प्राक्च प्रयोगात। अथ वा असरूपः बाधकः वा बाधकः भवति इति उच्यते । न च एवं कः चितपि सरूपः । ते एवं विज्ञास्यामः : क्वत्चित्ये असरूपाः । अनुबन्धभिन्नाः च प्रयोगे सरूपाः ।
(पाणिनीयसूत्र ३,१।९४।३) कि.,८०।१५-२६ रो.,१९९-२०० अथ कथं इदं विज्ञायते अस्त्रियां इति । किं स्त्रियां न भवति आहोस्वित्प्राक्स्त्रियाः भवति इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)स्त्रियां प्रतिषेधे क्तल्युट्तुमुन्खलर्थेषु विभाषाप्रसङ्गः(वार्तिकान्त) । स्त्रियां प्रतिषेधे क्तल्युट्तुमुन्खलर्थेषु विभाषा प्राप्नोति । क्त । हसितं छात्रस्य्स्शोभनं । घञपि प्राप्नोति । ल्युट। हसनं छात्रस्य्स्शोभनं । घञपि प्राप्नोति । तुमुन। इच्छति भोक्तुं । लिङ्लोटौ अपि प्राप्नुतः । खलर्थः । ईषत्पानः सोमः भवता । खलपि प्राप्नोति । एवं तर्हि स्त्रियाः प्राकिति वक्ष्यामि । (कात्यायन वार्तिक)स्त्रियाः प्राकिति चेत्क्त्वायां वावचनं (वार्तिकान्त)। स्त्रियाः प्राकिति चेत्क्त्वायां वावचनं कर्तव्यं । आसित्वा भुङ्क्ते । आस्यते भोक्तुं इति अपि यथा स्यात। (कात्यायन वार्तिक)कालादिषु तुमुनि(वार्तिकान्त) । कालादिषु तुमुनि वावचनं कर्तव्यं । कालः भोक्तुं । कालः भोजनस्य इति अपि यथा स्यात।
(पाणिनीयसूत्र ३,१।९४।४) कि.,८१।१-६ रो.,२०० (कात्यायन वार्तिक)अर्हे तृज्विधानम्(वार्तिकान्त) । अर्हे तृच्विधेयः । इमे अर्हे कृत्याः विधीयन्ते । ते विशेषविहिताः सामान्यविहितं तृचं बाधेरन। न एषः दोषः । भावकर्मणोः कृत्याः विधीयन्ते कर्तरि तृच। कः प्रसङ्गः यत्भावकर्मणोः कृत्याः कर्तरि तृचं बाधेरन। एवं तर्हि अर्हे कृत्यतृज्विधानं । अर्हे कृत्यतृचः विधेयाः । अयं अर्हे लिङ्विधीयते । सः विशेषविहितः सामान्यविहितान्कृत्यतृचः बाधेत ।
(पाणिनीयसूत्र ३,१।९५) कि.,८१।८-१४ रो.,२०० (कात्यायन वार्तिक)कृत्यसञ्ज्ञायां प्राङ्ण्वुल्वचनम्(वार्तिकान्त) । कृत्यसञ्ज्ञायां प्राक्ण्वुलः इति वक्तव्यं । किं प्रयोजनं । ण्वुलः कृत्यसञ्ज्ञा मा भूत। (कात्यायन वार्तिक)अर्हे कृत्यत्र्ज्वचनं तु ज्ञापकं प्राङ्ण्वुलवनानर्थ्यस्य(वार्तिकान्त) । यतयं अर्हे कृत्यतृचः च इति तृज्ग्रहणं करोति तत्ज्ञापयति आचार्यः प्राक्ण्वुलः कृत्यसञ्ज्ञा भवति इति । एवं अपि ण्वुलः कृत्यसञ्ज्ञा प्राप्नोति । योगापेक्षं ज्ञापकं ।
(पाणिनीयसूत्र ३,१।९६) कि.,८१।१६-२२ रो.,२०१ (कात्यायन वार्तिक)केलिमरः उपसङ्ख्यानम्(वार्तिकान्त) । केलिमरः उपसङ्ख्यानं कर्तव्यं । पचेलिमाः माषाः । पक्तव्याः । भिदेलिमाः सरलाः । भेत्तव्याः । (कात्यायन वार्तिक)वसेः तव्यत्कर्तरि णित्च(वार्तिकान्त) । वसेः तव्यत्कर्तरि वक्तव्यः । णित्च असौ भवति इति वक्तव्यं । वसति इति वास्तव्यः । (कात्यायन वार्तिक)तद्धितः वा (वार्तिकान्त)। तद्धितः वा पुनः एषः भविष्यति । वास्तुनि भवः वास्तव्यः ।
(पाणिनीयसूत्र ३,१।९७।१) कि.,८२।२-१० रो.,२०२-२०३ अज्ग्रहणं किमर्थं । अजन्तात्यथा स्यात। हलन्तात्मा भूतिति । न एततस्ति प्रयोजनं । हलन्तात्ण्यत्विधीयते । सः बाधकः भविष्यति । यथा एव तर्हि ण्यत्यतं बाधते एवं तव्यादीनपि बाधेत । अज्ग्रहणे पुनः क्रियमाणे अजन्तात्यत्विधीयते हलन्तात्ण्यत। एतावन्तः च धातवः यतुत अजन्ताः हलन्ताः च । उच्यन्ते च तव्यादयः । ते वचनात्भविष्यन्ति । न एततस्ति प्रयोजनं । वासरूपेण तव्यादयः भविष्यन्ति । इदं तर्हि प्रयोजनं । अजन्तभूतपूर्वमात्रातपि यथा स्यात। लव्यं पव्यं । आर्धधातुकसामान्ये गुणे कृते यि प्रत्ययसामान्ये च वान्तादेशे कृते हलन्तातिति ण्यत्प्राप्नोति । तथा दित्स्यं धित्स्यं । आर्धधातुकसामान्ये अकारलोपे कृते हलन्तातिति ण्यत्प्राप्नोति । अज्ग्रहणसामर्थ्यात्यतेव भवति ।
(पाणिनीयसूत्र ३,१।९७।२) कि.,८२।११-२२ रो.,२०२-२०३ (कात्यायन वार्तिक)यति जातेः उपसङ्ख्यानम्(वार्तिकान्त) । यति जातेः उपसङ्ख्यानं कर्तव्यं । जन्यं वत्सेन । अत्यल्पं इदं उच्यते । तकिशसिचतियतिजनीनां उपसङ्ख्यानं इति वक्तव्यं । तकि तक्यं : शसि शस्यं । यति यत्यं : जनि : जन्यं । (कात्यायन वार्तिक)हनः वा वध च(वार्तिकान्त) । हनः वा यत्वक्तव्यः वध इति अयं च आदेशः वक्तव्यः । वध्यः घात्यः । (कात्यायन वार्तिक)तद्धितः वा(वार्तिकान्त) । तद्धितः वा पुनः एषः भविष्यति । वधं अर्हति वध्यः । यदि तद्धितः समासः न प्राप्नोति : असिवध्यः , मुसलवध्यः इति । यदि पुनः सति साधनं कृता इति वा पादहारकाद्यर्थं इति समासः सिद्धः भवति । यदि पुनः असिवधशब्दातुत्पत्तिः स्यात। असिवधं अर्हति इति । न एवं शक्यं । स्वरे हि दोषः स्यात। असिवध्यः एवं स्वरः प्रसज्येत । असिवध्यः इति च इष्यते ।
(पाणिनीयसूत्र ३,१।१००) कि.,८३।२-४ रो.,२०३ (कात्यायन वार्तिक)अनुपसर्गात्चरेः आङि च अगुरौ(वार्तिकान्त) । अनुपसर्गात्चरेः इति अत्र आङि च अगुरौ इति वक्तव्यं । आचर्यः देशः । अगुरौ इति किमर्थं । आचार्यः उपनयमानः ।
(पाणिनीयसूत्र ३,१।१०३) कि.,८३।६-७ रो.,२०३ (कात्यायन वार्तिक)स्वामिनि अन्तोदात्तत्वं च(वार्तिकान्त) । स्वामिनि अन्तोदात्तत्वं च वक्तव्यं । आर्यः स्वामी ।
(पाणिनीयसूत्र ३,१।१०५) कि.,८३।९-१६ रो.,२०४-२०५ सङ्गतं इति किं प्रत्युदाह्रियते । अजरः कम्बलः । अजरिता कम्बलः इति । किं पुनः कारणं कर्तृसाधनः प्रत्युदाह्रियते । न भावसाधनः प्रत्युदाहार्यः । एवं तर्हि (कात्यायन वार्तिक)अजर्यं कर्तरि(वार्तिकान्त) । अजर्यं कर्तरि इति वक्तव्यं । तत्तर्हि वक्तव्यं । न वक्तव्यं । गत्यर्थानां क्तः कर्तरि विधीयते । तेन योगातजर्यं कर्तरि भविष्यति । गत्यर्थानां वै क्तः कर्मणि अपि विधीयते । तेन योगातजर्यं कर्मणि अपि प्राप्नोति । जीर्यतिः अकर्मकः । भावे तर्हि प्राप्नोति । सङ्गतग्रहणं इदानीं किमर्थं स्यात। कर्तृविशेषणं सङ्गतग्रहणं । सङ्गतं चेत्कर्तृ भवति इति । तत्यथा हृषेः लोमसु इति लोमानि चेत्कर्त्®णि भवन्ति ।
(पाणिनीयसूत्र ३,१।१०६) कि.,८३।१८-८४।२ (कात्यायन वार्तिक)वदः सुपि अनुपसर्गग्रहणम्(वार्तिकान्त) । वदः सुपि अनुपसर्गग्रहणं कर्तव्यं । इह मा भूत। प्रवाद्यं अपवाद्यं इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । अनुपसर्गे इति वर्तते । एवं तर्हि अन्वाचष्टे अनुपसर्गे इति वर्तते । न एततन्वाख्येयं अधिकाराः अनुवर्तन्ते इति । एषः एव न्यायः यतुत अधिकाराः अनुवर्तेरनिति ।
(पाणिनीयसूत्र ३,१।१०७) कि.,८४।४-८ रो.,२०५-२०६ भावग्रहणं किमर्थं । कर्मणि मा भूतिति । न एततस्ति प्रयोजनं । भवतिः अयं अकर्मः । अकर्मकाः अपि वै धातवः सोपसर्गाः सकर्मकाः भवन्ति । तेन अनुभव्यं आमन्त्रणं इति अत्र अपि प्राप्नोति । एततपि न अस्ति प्रयोजनं । अनुपसर्गे इति वर्तते । उत्तरार्थं तर्हि भावग्रहणं कर्तव्यं । हनः त च भावे यथा स्यात। श्वहत्या वर्तते । क्व मा भूत। श्वघात्यः वृषालः इति ।
(पाणिनीयसूत्र ३,१।१०८) कि.,८४।१०-१३ रो.,२०६ (कात्यायन वार्तिक)हनः तः चित्स्त्रियां छन्दसि(वार्तिकान्त) । हनः तः च इति अत्र चित्स्त्रियां छन्दसि वक्तव्यः । तां भ्रूणहत्यां निगृह्य अनुचरणं । अस्यै त्वां भ्रूणहत्यायै चतुर्थं प्रतिगृहाण । स्त्रियां इति किमर्थं । आघ्नते दस्युहत्याय । छन्दसि इति किमर्थं । दस्युहत्या श्वहत्या वर्तते ।
(पाणिनीयसूत्र ३,१।१०९) कि.,८४।१५-८५।५ रो.,२०६-२०७ क्यपिति वर्तमाने पुनः क्यब्ग्रहणं किमर्थं । क्यपेव यथा स्यात। अन्यत्यत्प्राप्नोति तत्मा भूतिति । किं च अन्यत्प्राप्नोति । ण्यत। ओः आवश्यके ण्यतः स्तोतेः क्यप्पूर्वविप्रतिषिद्धं इति वक्ष्यति । सः पूर्वविप्रतिषेधः न पठितव्यः भवति । अथ वा हनः तः चित्स्त्रियां छन्दसि चोदितः । सः न वक्तव्यः भवति । (कात्यायन वार्तिक)क्यब्विधौ वृञ्ग्रहणं (वार्तिकान्त)। क्यब्विधौ वृञ्ग्रहणं कर्तव्यं । इह मा भूत। वार्याः ऋत्विजः इति । (कात्यायन वार्तिक)अञ्जेः च उपसङ्ख्यानं सञ्ज्ञायाम्(वार्तिकान्त) । सञ्ज्ञायां अञ्जेः च उपसङ्ख्यानं कर्तव्यं । आज्यं । यदि क्यप्वृद्धिः न प्राप्नोति । तस्मात्ण्यतेषः । यदि ण्यतुपधालोपः न प्राप्नोति । तस्मात्क्यपेषः । ननु च उक्तं वृद्धिः न प्राप्नोति इति । आङ्पूर्वस्य एषः प्रयोगः भविष्यति । यदि एवं अवग्रहः प्राप्नोति । न लक्षणेन पदकाराः अनुवर्त्याः । पद्कारैः नाम लक्षणं अनुवर्त्यं । यथालक्षणं पदं कर्तव्यं ।
(पाणिनीयसूत्र ३,१।१११) कि.,८५।७-१० रो.,२०७-२०८ दीर्घोच्चारणं किमर्थं न इ च खनः इति एव उच्येत । का रूपसिद्धिः : खेयं । आद्गुणेन सिद्धं । न सिध्यति । षत्वतुकोः असिद्धः एकादेशः इति एकादेशस्य असिद्धत्वात्तुक्प्रसज्येत । न एततस्ति । पदान्तपदाद्योः एकादेशः असिद्धः । न च एषः पदान्तपदाद्योः एकादेशः । तस्माति च खनः इति एव वक्तव्यं ।
(पाणिनीयसूत्र ३,१।११२) कि.,८५।१२-८६।१४ रो.,२०८-२१० असञ्ज्ञायां इति किमर्थं । भार्या । (कात्यायन वार्तिक)भृञः सञ्ज्ञाप्रतिषेधे स्त्रियां अप्रतिषेधः अन्येन विहितत्वात्(वार्तिकान्त) । भृञः सञ्ज्ञाप्रतिषेधे स्त्रियां अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । किं कारणं । अन्येन विहितत्वात। अन्येन लक्षणेन स्त्रियां क्यप्विधीयते । सञ्ज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः इति । प्रतिषेधः इदानीं किमर्थः स्यात। (कात्यायन वार्तिक)प्रतिषेधः किमर्थः इति चेतस्त्रीसञ्ज्ञाप्रतिषेधार्थः(वार्तिकान्त) । प्रतिषेधः किमर्थः इति चेतस्त्रीसञ्ज्ञा अस्ति तदर्थः प्रतिषेधः स्यात। भार्याः नाम क्षत्रियाः । (कात्यायन वार्तिक)सिद्धं तु स्त्रियां सञ्ज्ञाप्रतिषेधात्(वार्तिकान्त) । सिद्धं एतत। कथं । स्त्रियां सञ्ज्ञाप्रतिषेधः वक्तव्यः । सञ्ज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः ततः न स्त्रियां भृञः इति । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं भृञः सञ्ज्ञाप्रतिषेधे स्त्रियां अप्रतिषेधः अन्येन विहितत्वातिति । न एषः दोषः । भावे इति तत्र अनुवर्तते । कर्मसाधनः च अयं । अथ वा ये एते सञ्ज्ञायां विधीयन्ते तेषु न एवं विज्ञायते सञ्ज्ञायां अभिधेयायां इति । किं तर्हि । प्रत्ययान्तेन चेत्सञ्ज्ञा गम्यते इति । अपरः आह : (कात्यायन वार्तिक)सञ्ज्ञायां पुंसि दृष्टत्वात्न ते भार्या प्रसिध्यति(वार्तिकान्त) । सञ्ज्ञायां पुंसि दृष्टत्वात्तव भार्याशब्दः न सिध्यति । (कात्यायन वार्तिक)स्त्रियां भावाधिकारः अस्ति तेन भार्या प्रसिध्यति(वार्तिकान्त) । भावे इति तत्र वर्तते । कर्मसाधनः च अयं । (कात्यायन वार्तिक)अथ वा बहुलं कृत्याः सञ्ज्ञायां इति तत्स्मृतम्(वार्तिकान्त) । अथ वा कृत्यल्युटः बहुलं इति एवं अत्र अपि ण्यत्भविष्यति । (कात्यायन वार्तिक)यथा यत्यं जन्यं यथा भित्तिः तथा एव सा(वार्तिकान्त) । (कात्यायन वार्तिक)समः च बहुलम्(वार्तिकान्त) । समः च बहुलं उपसङ्ख्यानं कर्तव्यं । सम्भृत्याः एव सम्भाराः । सम्भार्याः एव सम्भाराः ।
(पाणिनीयसूत्र ३,१।११४) कि.,८६।१६-२५ रो.,२१० (कात्यायन वार्तिक)सूर्यरुच्याव्यथ्याः कर्तरि(वार्तिकान्त) । सूर्य रुचि अव्यथ्य इति कर्तरि निपात्यन्ते । किं निपात्यते । सूर्यः । (कात्यायन वार्तिक)सूसर्तिभ्यां सर्तेः उत्वं सुवतेः वा रुडागमः (वार्तिकान्त)। सरणात्वा सुवति वा कर्मणि इति सूर्यः । रुच्य । रोचते असौ रुच्यः । न व्यथथे अव्यथ्यः । (कात्यायन वार्तिक)कुप्यं सञ्ज्ञायाम्(वार्तिकान्त) । कुप्यं सञ्ज्ञायां इति वक्तव्यं । गोप्यं अन्यत। (कात्यायन वार्तिक)कृष्टपच्यस्य अन्तोदात्तत्वं च कर्मकर्तरि च(वार्तिकान्त) । कृष्टपच्यस्य अन्तोदात्तत्वं च कर्मकर्तरि च इति वक्तव्यं । कृष्टे पच्यन्ते स्वयं एव । कृष्टपच्याः च मे अकृष्टपच्याः च मे । यः हि कृष्टे पक्तव्यः क्ष्टपाक्यः स भवति ।
(पाणिनीयसूत्र ३,१।११८) कि.,८७।२-४ रो.,२११ (कात्यायन वार्तिक)प्रत्यपिभ्यां ग्रहेः छन्दसि(वार्तिकान्त) । प्रत्यपिभ्यां ग्रहेः छन्दसि इति वक्तव्यं । मत्तस्य न प्रतिगृह्यं । अनृतं हि मत्तः भवति । तस्मात्न अपिगृह्यं । प्रतिग्राह्यं अपिग्राह्यं इति एव अन्यत्र ।
(पाणिनीयसूत्र ३,१।१२२) कि.,८७।६-११ रो.,२११-२१२ कस्य अयं अनुबन्धः । प्रधानस्य । यदि प्रधानस्य अमावस्या एवं स्वरः प्रसज्येत । अमावस्या इति च इष्यते । तथा अमावास्याग्रहणेन अमावस्याग्रहणं न प्राप्नोति । एवं तर्हि निपातनस्य । यदि तर्हि निपातनानि अपि एवञ्जातीयकानि भवन्ति श्रोत्रियन्छन्दः अधीते इति व्यपवर्गाभावात्ञ्निति इति आद्युदात्तत्वं न प्राप्नोति । एवं तर्हि (कात्यायन वार्तिक)अमावसोः अहं ण्यतोः निपातयामि अवृद्धितां । तथा एकवृत्तिता तयोः स्वरः च मे प्रसिध्यति(वार्तिकान्त) ।
(पाणिनीयसूत्र ३,१।१२३) कि.,८७।१५-८८।४ रो.,२१२-२१३ निष्टर्क्य इति किं निपात्यते । निष्टर्क्ये कृतेः आद्यन्तविपर्ययः छन्दसि कृताद्यर्थः । यथा कृतेः तर्कुः कसेः सिकताः हिंसेः सिंहः । अपरः आह : (कात्यायन वार्तिक)निष्टर्क्ये व्यत्ययं विद्यात्निसः षत्वं निपातनात। ण्यतायादेशः इति एतौ उपचाय्ये निपातितौ (वार्तिकान्त)। निष्टर्क्यं चिन्वीत पशुकामः । (कात्यायन वार्तिक)ण्यतेकस्मात्चतुर्भ्यः क्य(वार्तिकान्त)P(कात्यायन वार्तिक) चतुर्भ्यः यतः विधिः । ण्यतेकस्मात्यशब्दः च द्वौ क्यपौ ण्यद्विधिः चतुः (वार्तिकान्त)। ण्यतेकस्मात। निष्टर्क्यः । चतुर्भ्यः क्यप। देवहूयः प्रणीयः उन्नीयः उच्छिष्यः । चतुर्भ्यः च यतः विधिः । मर्यः स्तर्या ध्वर्यः खन्यः । ण्यतेकस्मात। खान्यः । यशब्दः च । देवयज्या । द्वौ क्यपौ । आपृच्छ्यः प्रतिषीव्यः । ण्यद्विधिः चतुः । ब्रह्मवाद्यः भाव्यः स्ताव्यः उपचाय्यपृडं । उपपूर्वात्चिनोतेः आयादेशः निपात्यते । न हि ण्यता एव सिध्यति । हिरण्ये इति वक्तव्यं । उपचेयपृडं एव अन्यत्र ।
(पाणिनीयसूत्र ३,१।१२४) कि.,८८।६-११ रो.,२१३ (कात्यायन वार्तिक)पाणौ सृजेः ण्यद्विधिः(वार्तिकान्त) । पाणौ सृजेः ण्यत्विधेयः । पाणिसर्ग्या रज्जुः । (कात्यायन वार्तिक)समवपूर्वात्च(वार्तिकान्त) । समवपूर्वात्च इति वक्तव्यं । समवसर्ग्यः । (कात्यायन वार्तिक)लपिदमिभ्यां च(वार्तिकान्त)। लपिदमिभ्यां च इति वक्तव्यं । अपलप्यं अवदाम्यं ।
(पाणिनीयसूत्र ३,१।१२५।१) कि.,८८।१६-२० रो.,२१४ कथं इदं विज्ञायते । आवश्यके उपपदे आहोस्वित्ध्योत्ये इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)आवश्यके उपपदे इति चेत्द्योत्ये उपसङ्ख्यानम्(वार्तिकान्त) । आवश्यके उपपदे इति चेत्द्योत्ये उपसङ्ख्यानं कर्तव्यं । लाव्यं पाव्यं । अस्तु तर्हि द्योत्ये । (कात्यायन वार्तिक)द्योत्ये इति चेत्स्वरसमासानुपपत्तिः(वार्तिकान्त) । द्योत्ये इति चेत्स्वरसमासानुपपत्तिः । आवश्यलाव्यं आवश्यपाव्यं । न एषः दोषः । मयूरव्यंसकादित्वात्समासः विश्पष्टादिवत्स्वरः भविष्यति ।
(पाणिनीयसूत्र ३,१।१२५।२) कि.,८८।२१-८९।४ रो.,२१४ (कात्यायन वार्तिक)ओः आवश्यके ण्यतः स्तौतेः क्य(वार्तिकान्त)P(कात्यायन वार्तिक) पूर्वविप्रतिषिद्धं (वार्तिकान्त)। ओः आवश्यके ण्यतः स्तौतेः क्यप्भवति पूर्वविप्रतिष्धेन । ओः आवश्यके ण्यत्भवति इति अस्य अवकाशः । अवश्यलाव्यं अवश्यपाव्यं । क्यपः अवकाशः । स्तुत्यः । इह उभयं प्राप्नोति । अवश्यस्तुत्यः । क्यप्भवति पूर्वविप्रतिष्धेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । उक्तं तत्र क्यपिति वर्तमाने पुनः क्यब्ग्रहणस्य प्रयोजनं क्यपेव यथा स्यात। अन्यत्यत्प्राप्नोति तत्मा भूतिति ।
(पाणिनीयसूत्र ३,१।१२७) कि.,८९।६-८ रो.,२१५ दक्षिणाग्नौ इति वक्तव्यं । आनेयः अन्यः । (कात्यायन वार्तिक)आनाय्यः अनित्यः इति चेत्दक्षिणाग्नौ कृतं भवेत। एकयोनौ तु तं विद्यात। आनेयः हि अन्यथा भवेत्(वार्तिकान्त) ।
(पाणिनीयसूत्र ३,१।१२९) कि.,८९।११-१३ रो.,२१५ पाय्यनिकाय्ययोः किं निपात्यते । (कात्यायन वार्तिक)पाय्यनिकाय्ययोः आदिपत्वकत्वनिपातनं (वार्तिकान्त)। पाय्यनिकाय्ययोः आदिपत्वं आदिकत्वं च निपात्यते । मेयं निचेयं इति एव अन्यत्र ।
(पाणिनीयसूत्र ३,१।१३०) कि.,८९।१५-१६ रो.,२१५ (कात्यायन वार्तिक)कुण्डपाय्ये यद्विधिः(वार्तिकान्त) । कुण्डपाय्ये यत्विधेयः । कुण्डपाय्यः क्रतुः ।
(पाणिनीयसूत्र ३,१।१३१) कि.,८९।१८-९०।९ रो.,२१५-२१६ (कात्यायन वार्तिक)समूह्यः इति अनर्थकं वचनं सामान्येन कृतत्वात्(वार्तिकान्त) । समूह्यः इति वचनं अनर्थकं । किं कारणं । सामान्येन कृतत्वात। सामान्येन एव ण्यत्भविष्यति : ऋहलोः ण्यतिति । वह्यर्थं तर्हि निपातनं कर्तव्यं । वहेः ण्यत्यथा स्यात। (कात्यायन वार्तिक)वह्यर्थं इति चेतूहेः तदर्थत्वात्सिद्धम्(वार्तिकान्त) । ऊहिः अपि वह्यर्थे वर्तते । कथं पुनः अन्यः नाम अन्यस्य अर्थे वर्तते । कथं ऊहिः वह्यर्थे वर्तते । बह्वर्थाः अपि धातवः भवन्ति इति । अस्ति पुनः क्व चितन्यत्र अपि ऊहिः वह्यर्थे वर्तते । अस्ति इति आह । (कात्यायन वार्तिक)ऊहिविग्रहात्च ब्राह्मणे सिद्धं (वार्तिकान्त)। ऊहिविग्रहात्च ब्राह्मणे सिद्धं एतत। समूह्यं चिन्वीत पशुकामः । पशवः वै पुरीषं । पशूनेव अस्मै तत्समूहति ।
(पाणिनीयसूत्र ३,१।१३२) कि.,९०।११-१२ रो.,२१६ (कात्यायन वार्तिक)अग्निचित्या भावे अन्तोदात्तः(वार्तिकान्त) । अग्निचित्या इति भावे अन्तोदात्तः । अग्निचयनं एव अग्निचित्या ।
(पाणिनीयसूत्र ३,१।१३३।१) कि.,९०।१४-२२ रो.,२१६-२१७ किमर्थः चकारः । स्वरार्थः । चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वं यथा स्यात। न एततस्ति प्रयोजनं । एकाचयं । तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन । प्रत्ययस्वरेण एव सिद्धं । विशेषणार्थः तर्हि । क्व विशेषणार्थेन अर्थः : अप्तृन्तृचिति । तृ इति उच्यमाने मातरौ मातरः पितरौ पितरः अत्र अपि प्रसज्येत । स्वसृनप्तृग्रहणं नियमाऋथं भविष्यति । एतयोः एव योनिसम्बन्धयोः न अन्येषां योनिसम्बन्धानां इति । सामान्यग्रहणाविघातार्थः तर्हि । क्व सामान्यग्रहणाविघातार्थेन अर्थः । अत्र एव । यतेतत्तृन्तृचोः ग्रहणं एतत्तृ इति वक्ष्यामि । यदि तृ इचि उच्यते मातरौ मातरः पितरौ पितरः अत्र अपि प्रसज्येत । स्वसृनप्तृग्रहणं नियमाऋथं भविष्यति : एतयोः एव योनिसम्बन्धयोः न अन्येषां योनिसम्बन्धानां इति ।
(पाणिनीयसूत्र ३,१।१३३।२) कि.,९१।१-११ रो.,२१७ (कात्यायन वार्तिक)ण्वुलि सकर्मकग्रहणम्(वार्तिकान्त) । ण्वुलि सकर्मकग्रहणं कर्तव्यं । इह मा भूत। आसिता शयिता इति । (कात्यायन वार्तिक)न वा धातुमात्रात्दर्शनात्ण्वुलः (वार्तिकान्त)। न वा वक्तव्यं । किं कारणं । धातुमात्रात्ण्वुल्दृश्यते । इमे अस्य आसकाः इमे । अस्य शायकाः । उत्थिताः आसका वैश्रवणस्य इति । (कात्यायन वार्तिक)तृजादिषु वर्तमानकालोपादानं अध्यायकवेदाध्यायकार्थम्(वार्तिकान्त) । तृजादिषु वर्तमानकालोपादानं कर्तव्यं । किं कारणं । अध्यायकवेदाध्यायकार्थं । अध्यायकः वेदाध्यायः । अधीतवति अध्येष्यमाणे वा मा भूत। (कात्यायन वार्तिक)न वा कालमात्रे दर्शनातन्येषाम्(वार्तिकान्त) । न वा वक्तव्यं । किं कारणं । कालमात्रे दर्शनातन्येषां । कालमात्रे हि अन्ये प्रत्ययाः दृश्यन्ते । चर्चापारः शमनीपारः ।
(पाणिनीयसूत्र ३,१।१३४) कि.,९१।१३-१८ रो.,२१७-२१८ (कात्यायन वार्तिक)अचपि सर्वधातुभ्यः(वार्तिकान्त) । अचपि सर्वधातुभ्यः वक्तव्यः । इह अपि यथा स्यात। भवः शर्वः । न तर्हि इदानीं इदं पचाद्यनुक्रमणं कर्तव्यं । कर्तव्यं च । किं प्रयोजनं । (कात्यायन वार्तिक)पचाद्यनुक्रमणं अनुबन्धासञ्जार्थं अपवादबाधनार्थं च(वार्तिकान्त) । अनुबन्धासञ्जनार्थं तावत। नदट्नदी चोरट्चोरी । अपवादबाधनार्थं । जारभरा श्वपचा इति ।
(पाणिनीयसूत्र ३,१।१३५) कि.,९१।२०-९२।३ रो.,२१८ (कात्यायन वार्तिक)इगुपधेभ्यः उपसर्गे कविधिः मेषाद्यर्थः(वार्तिकान्त) ।इगुपधेभ्यः उपसर्गे कः विधेयः । किं प्रयोजनं । मेषाद्यर्थः । मेषः देवः सेवः । (कात्यायन वार्तिक)न वा बुधादीनां दर्शनातनुपसर्गे अपि(वार्तिकान्त) । न वा वक्तव्यः । किं कारणं । बुधादीनां अनुपसर्गे अपि कः दृश्यते । बुधः भिदः युधः सिवः इति । कथं मेषः देवः सेवः इति । पचाचिषु पाठः करिष्यते ।
(पाणिनीयसूत्र ३,१।१३७) कि.,९२।५-८ रो.,२१८ (कात्यायन वार्तिक)जिघ्रः सञ्ज्ञायां प्रतिषेधः(वार्तिकान्त) । जिघ्रः सञ्ज्ञायां प्रतिषेधः वक्तव्यः । व्याजिघ्रति इति व्याघ्रः । इह के चित्शस्य एव प्रतिषेधं आहुः के चित्जिघ्रभावस्य । किं पुनः अत्र न्याय्यं । शस्य एव प्रतिषेधः न्याय्यः । जिघ्रभावे हि प्रतिषिद्धे केन शे आकारलोपः स्यात।
(पाणिनीयसूत्र ३,१।१३८) कि.,९२।११-१५ रो.,२१८-२१९ (कात्यायन वार्तिक)अनुपसर्गात्नौ लिम्पेः(वार्तिकान्त) । अनुपसर्गात्नौ लिम्पेः इति वक्तव्यं । निलिम्पाः नाम देवाः । (कात्यायन वार्तिक)गवि च विन्देः सञ्ज्ञायाम्(वार्तिकान्त) । गवि च उपपदे विन्देः सञ्ज्ञायां उपसङ्ख्यानं कर्तव्यं । गोविन्दः इति । अत्यल्पं इदं उच्यते : गवि इति । गवादिषु इति वक्तव्यं । गोविन्दः अरविन्दः ।
(पाणिनीयसूत्र ३,१।१४०) कि.,९२।१७-१८ रो.,२१९ (कात्यायन वार्तिक)तनोतेः णः उपसङ्ख्यानं (वार्तिकान्त)। तनोतेः णः उपसङ्ख्यानं कर्तव्यं । अवतनोति इति अवतानः ।
(पाणिनीयसूत्र ३,१।१४५) कि.,९२।२० रो.,२१९ नृतिखनिरञ्जिभ्यः इति वक्तव्यं । इह मा भूत। ह्वायकः इति ।
(पाणिनीयसूत्र ३,१।१४९) कि.,९३।२-४ रो.,२१९ (कात्यायन वार्तिक)प्रुसृल्वः साधुकारिणि वुन्विधानम्(वार्तिकान्त) । प्रुसृल्वः साधुकारिणि वुन्विधेयः । सकृतपि यः सुष्ठु करोति तत्र यथा स्यात। बहुशः यः दुष्ठु करोति तत्र मा भूत।
(पाणिनीयसूत्र ३,२।१।१) कि.,९४।२-१५ रो.,२२०-२२१ कर्मणि निर्वर्त्यमाणविक्रियमाणे इति वक्तत्व्यं । इह मा भूत। आदित्यं पश्यति । हिववन्तं श्र्णोति । ग्रामं गच्छति इति । (कात्यायन वार्तिक)कर्मणि निर्वर्त्यमाणविक्रियमाणे चेत्वेदाध्यायादीनां उपसङ्ख्यानम्(वार्तिकान्त) । कर्मणि निर्वर्त्यमाणविक्रियमाणे चेत्वेदाध्यायादीनां उपसङ्ख्यानं कर्तव्यं । वेदाध्यायः चर्चापारः शमनीपारः । (कात्यायन वार्तिक)यत्र च नियुक्तः (वार्तिकान्त)। यत्र च नियुक्तः तत्र उपसङ्ख्यानं कर्तत्व्यं । छत्रधारः द्वारपालः । (कात्यायन वार्तिक)हृग्रहिनीवहिभ्यः च(वार्तिकान्त) । हृग्रहिनीवहिभ्यः च इति वक्तव्यं । हृ । भारहारः । ग्रहि । कमण्डलुग्राहः । नी। उष्ट्रप्रणायः । वहि । भारवाहः । (कात्यायन वार्तिक)अपरिगणनं वा(वार्तिकान्त) । न वा अर्थः परिगणनेन । कस्मात्न भवति : आदित्यं पश्यति , हिमवन्तं श्र्णोति । ग्रामं गच्छति इति । (कात्यायन वार्तिक)अनभिधानात्(वार्तिकान्त) । अनभिधानातेव न भविष्यति ।
(पाणिनीयसूत्र ३,२।१।२) कि.,९४।१६-९५।१५ रो.,२२१-२२३ (कात्यायन वार्तिक)अकारातनुपपदात्कर्मोपपदः विप्रतिषेधेन(वार्तिकान्त) । अकारातनुपपदात्कर्मोपपदः भवति विप्रतिषेधेन । अनुपपदस्य अवकाशः पचति इति पचः । कर्मोपपदस्य अवकाशः कुम्भकारः नगरकारः । ओदनपाचे उभयं प्राप्नोति । कर्मोपदः भवति विप्रतिषेधेन । अनुपपदस्य अवकाशः विक्षिपः विलिखः । कर्मोपपदस्य सः एव । काष्ठभेदे उभयं प्राप्नोति । कर्मोपदः भवति विप्रतिषेधेन । अनुपपदस्य अवकाशः जानाति इति ज्ञः । कर्मोपपदस्य सः एव । अर्थज्ञे उभयं प्राप्नोति । कर्मोपदः भवति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । अनुपपदः तृतीयः । ण्वुल्तृजचः । तेषां णः । णस्य कः । सः यथा एव कः णं बाधते एवं कर्मोपपदं अपि बाधेत । कर्मोपपदः अपि तृतीयः । ण्वुल्तृजचः । तेषां अण। अणः कः । उभयोः तृतीययोः युक्तः विप्रतिषेधः । अनुपपदस्य अवकाशः लिम्पति इति लिम्पः । कर्मोपपदस्य सः एव । कुड्यलेपे उभयं प्राप्नोति । कर्मोपदः भवति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । अनुपपदः तृतीयः । ण्वुल्तृजचः । तेषां कः । कस्य कः । सः यथा एव शः कं बाधते एवं कर्मोपपदं अपि बाधेत । का तर्हि गतिः । मध्ये अपवादाः पूर्वान्विधीन्बाधन्ते इति एवं शः कं बाधिष्यते । कर्मोपपदं न बाधिष्यते । अनुपपदस्य अवकाशः सुग्लः सुम्लः । कर्मोपपदस्य सः एव । वडवासन्दाये उभयं प्राप्नोति । कर्मोपदः भवति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । अनुपपदः तृतीयः । ण्वुल्तृजचः । तेषां णः । णस्य कः । सः यथा एव कः णं बाधते एवं कर्मोपपदं अपि बाधेत । का तर्हि गतिः । पुरस्तादपवादाः अनन्तराञ्विधीन्बाधन्ते इति एवं अयं कः णं बाधिष्यते । कर्मोपपदं न बाधिष्यते ।
(पाणिनीयसूत्र ३,२।१।३) कि.,९५।१६-९६।११ रो.,२२३-२२५ (कात्यायन वार्तिक)शीलिकामिभक्ष्याचरिभ्यः णः पूर्वपदप्रकृतिस्वरत्वं च(वार्तिकान्त) । शीलिकामिभक्ष्याचरिभ्यः णः वक्तव्यः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यं । शीलि । मांसशीलः मांसशीला । शीलि । कामि । मांसकामः मांसकामा । कामि । भक्षि । मांसभक्षः मांसभक्षा । भक्षि आचरि । कल्याणाचारः कल्याणाचारा । (कात्यायन वार्तिक)ईक्षिक्षमिभ्यां च (वार्तिकान्त)। ईक्षिक्षमिभ्यां च इति वक्तव्यं । सुखप्रतीक्षः सुखप्रतीक्षा । कल्याणक्षमः कल्याणक्षमा । किमर्थं इदं उच्यते । पूर्वपदप्रकृत्स्वरत्वं च वक्ष्यामि ईकारः च मा भूतिति । न एततस्ति प्रयोजनं । इह यः मांसं भक्षयति मांसं तस्य भक्षः भवति । यः असौ भक्षयतेः अच्तदन्तेन बहुव्रीहिः । एवं तर्हि सिद्धे सति यत्कर्मोपपदं णं शास्ति तत्ज्ञापयति आचार्यः समाने अर्थे केवलं विग्रहभेदात्यत्र कर्मोपपदः च प्राप्नोति बहुव्रीहिः च कर्मोपपदः तत्र भवति इति । किं एतस्य ज्ञापने प्रयोजनं । काण्डलावः । काण्डानि लावः अस्य इति बहुव्रीहिः न भवति । भवति तु बहुर्वीहिः अपि । मांसे कामः अस्य मांसकामः मांसकामकः इति वा । (कात्यायन वार्तिक)न तु अम्भोभिगमा(वार्तिकान्त) । न तु इदं भवति अम्भः अभिगमः अस्याः इति । किं तर्हि । अम्भोभिगामी इति एव भवति । काण्डलावे अपि च विग्रहाभावात्न ज्ञापकस्य प्रयोजनं भवति इति । न एषः अस्ति विग्रहः काण्डानि लावः अस्य इति । (कात्यायन वार्तिक)आन्नादाय इति च कृतां व्यत्ययः छन्दसि(वार्तिकान्त) । आन्नादाय इति च कृतां व्यत्ययः छन्दसि द्रष्टव्यः । अन्नादाय अन्नपतये । ये आहुतिं अन्नादीं कृत्वा ।
(पाणिनीयसूत्र ३,२।३) कि.,९६।१३-९७।२७ रो.,२२५-२२८ (कात्यायन वार्तिक)कविधौ सर्वत्र प्रसारणिभ्यः डः(वार्तिकान्त) । कविधौ सर्वत्र प्रसारणिभ्यः डः वक्तव्यः । ब्रह्मज्यः । किं उच्यते सर्वत्र इति । अन्यत्र अपि न अवश्यं इह एव । ह्व अन्यत्र । आह्वः प्रह्वः इति । (कात्यायन वार्तिक)के हि सम्प्रसारणप्रसङ्गः(वार्तिकान्त) । के हि सति सम्प्रसारणं प्रसज्येत । सम्प्रसारणे कृते सम्प्रसारणपूर्वत्वे च उवङादेशे आहुवः इति एतत्रूपं स्यात। सः तर्हि वक्तव्यः । न वक्तव्यः । अस्तु अत्र सम्प्रसारणं । सम्प्रसारणे कृते आकारलोपः । तस्य स्थानिवद्भावातुवङादेशः न भविष्यति । पूर्वत्वे कृते प्राप्नोति । एवं तर्हि इदं इह सम्प्रधार्यं । आकारलोपः क्रियतां पूर्वत्वं इति । किं अत्र कर्तव्यं । परत्वाताकारलोपः । न सिध्यति । अन्तरङ्गत्वात्पूर्वत्वं प्राप्नोति । एवं तर्हि वार्णाताङ्गं बलीयः भवति इति आकारलोपः भविष्यति । एवं तर्हि इदं इह सम्प्रधार्यं । आकारलोपः क्रियतां सम्प्रसारणं इति । किं अत्र कर्तव्यं । परत्वाताकारलोपः । नित्यं सम्प्रसारणं । कृते अपि आकारलोपे प्राप्नोति अकृते अपि प्राप्नोति । आकारलोपः अपि नित्यः । कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि प्राप्नोति । अनित्यः आकारलोपः । न हि कृते सम्प्रसारणे प्राप्नोति । अन्तरङ्गं हि पूर्वत्वं भाधते । यस्य लक्षणान्तरेण निमित्तं विहन्यते न ततनित्यं । न च सम्प्रसारणं एव आकारलोपस्य निमित्तं हन्ति । अवश्यं लक्षणान्तरं पूर्वत्वं प्रतीक्ष्यं । उभयोः नित्ययोः परत्वाताकारलोपः । आकारलोपे कृते सम्प्रसारणं । सम्प्रसारणे कृते यणादेशे सिद्धं रूपं आह्वः प्रह्वः इति । एवं अपि न सिध्यति । यः अनादिष्टादचः पूर्वः तस्य विधिं प्रति स्थानिवद्भावः । आदिष्टात्च एषः अचः पूर्वः भवति । एवं तर्हि आकारलोपस्य असिद्धत्वातुवङादेशः न भविष्यति । इह अपि तर्हि आकारलोपस्य असिद्धत्वातुवङादेशः न स्यात। जुहुवतुः झुहुवुः इति । अस्ति अत्र विशेषः । अकृते अत्र आत्त्वे पूर्वत्वं भवति । इदं इह सम्प्रधार्यं आत्त्वं क्रियतां पूर्वत्वं इति । किं अत्र कर्तव्यं । परत्वात्पूर्वत्वं । न सिध्यति । अन्तरङ्गत्वातात्त्वं प्राप्नोति । एवं तर्हि इदं इह सम्प्रधार्यं । आत्त्वं क्रियतां सम्प्रसारणं इति । किं अत्र कर्तव्यं । परत्वातात्त्वं । नित्यं सम्प्रसारणं । कृते अपि आत्त्वे प्राप्नोति अकृते अपि । आत्त्वं अपि नित्यं । कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि प्राप्नोति । अनित्यं आत्त्वं । न हि सम्प्रसारणे कृते प्राप्नोति । परत्वात्पूर्वत्वेन एव भवितव्यं । यस्य लक्षणान्तरेण निमित्तं विहन्यते न ततनित्यं । न च सम्प्रसारणं एव आत्त्वस्य निमित्तं विहन्ति । अवश्यं लक्षणान्तरं पूर्वत्वं प्रतीक्ष्यं । उभयोः नित्ययोः परत्वातात्त्त्वे कृते सम्प्रसारणं । एवं तर्हि पूर्वत्वे योगविभागः करिष्यते । सम्प्रसारणात्परः पूर्वः भवति । तत एङः । एङः च सम्प्रसारणात्पूर्वः भवति । किमर्थं इदं । अकृते आत्त्वे पूर्वत्वं यथा स्यात। ततः पदान्तातति । एङः इति एव । इह अपि तर्हि अकृते आत्त्वे पूर्वत्वं स्यात। आह्वः प्रह्वः इति । अस्ति अत्र विशेषः । आकारान्तलक्षणः कविधिः । तेन अनेन अवश्यं आत्त्वं प्रतीक्ष्यं । लिट्पुनः अविशेषेण धातुमात्रात्विधीयते । (कात्यायन वार्तिक)नित्यं प्रसारणं । ह्वः यण। वार्णाताङ्गं न पूर्वत्वं । यः अनादिष्टातचः पूर्वः तत्कार्ये स्थानिवत्त्वं हि प्रोवाच भगवान्कात्यः । तेन असिद्धिः यणः ते । आतः कः । लिट्न । एङः पूर्वः । सिद्धः आह्वः तथा सति (वार्तिकान्त)।
(पाणिनीयसूत्र ३,२।४) कि.,९८।२-१२ रो.,२२९ (कात्यायन वार्तिक)सुपि स्थः भावे च(वार्तिकान्त) । सुपि स्थः इति अत्र भावे च इति वक्तव्यं । इह अपि यथा स्यात। आखूत्थः वर्तते । श्येनोत्थः शलभोत्थः । तत्तर्हि वक्तव्यं । न वक्तव्यं । (कात्यायन वार्तिक)योगविभागात्सिद्धम्(वार्तिकान्त) । योगविभागः करिष्यते । आतः अनुपसर्गे कः भवति । ततः सुपि । सुपि च अतः कः भवति । कच्छेन पिबति कच्छपः । कटाहेन पिबति कटाहः । द्वाभ्यां पिबति द्विपः । ततः स्थः । स्थः च कः भवति सुपि इति । किमर्थं इदं । भावे यथा स्यात। कुतः नु खल्वु एतत्भावे भविष्यति न पुनः कर्मादिषु कारकेषु इति । योगविभागातयं कर्तुः अपकृष्यते । न च अन्यस्मिनर्थे आदिश्यते । अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति इति स्वार्थे भविष्यन्ति । तत्यथा गुप्तिज्किद्भ्यः सन्यावादिभ्यः कन। सः असौ स्वार्थे भवन्भावे भविष्यति ।
(पाणिनीयसूत्र ३,२।५) कि.,९८।१४-२० रो.,२३० (कात्यायन वार्तिक)तुन्दशोकयोः परिमृजापनुदोः आलस्यसुखाहरणयोः(वार्तिकान्त) । तुन्दशोकयोः परिमृजापनुदोः इति अत्र आलस्यसुखाहरणयोः इति वक्तव्यं । तुन्दपरिमृजः अलसः । शोकापनुदः पुत्रः जातः । यः हि तुन्दं परिमार्ष्टि तुन्दपरिमार्जः सः भवति । यः च शोकं अपनुदति शोकापनोदः सः भवति । (कात्यायन वार्तिक)कप्रकरणे मूलिअविभुजादिभ्यः उपसङ्ख्यानम्(वार्तिकान्त) । कप्रकरणे मूलिअविभुजादिभ्यः उपसङ्ख्यानं कर्तव्यं । मूलविभुजः रथः । नखमुचानि धनूंषि । काकगुहाः तिलाः । सरसीरुहं कुमुदं ।
(पाणिनीयसूत्र ३,२।८) कि.,९९।२-८ रो.,२३०-२३१ (कात्यायन वार्तिक)सुरासीध्वोः पिबतेः(वार्तिकान्त) । सुरासीध्वोः पिबतेः इति वक्तव्यं । इह मा भूत। क्षीरपा ब्राह्मणी इति । पिबतेः इति किमर्थं । या हि सुरां पाति सुरापा सा भवति । (कात्यायन वार्तिक)बहुलं तणि(वार्तिकान्त) । बहुलं तणि इति वक्तव्यं । किं इदं तणि इति । सञ्ज्ञाछन्दसोः ग्रहणं । या ब्राह्मणी सुरापी भवति न एनां देवाः पतिलोकं नयन्ति । या ब्राह्मणी सुरापा भवति न एनां देवाः पतिलोकं नयन्ति ।
(पाणिनीयसूत्र ३,२।९) कि.,९९।१०-१८ रो.,२३१ (कात्यायन वार्तिक)अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुःषु घ्रहेः उपसङ्ख्यानम्(वार्तिकान्त) । अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुःषु घ्रहेः उपसङ्ख्यानं कर्तव्यं । शक्तिग्रहः । शक्ति । लाङ्गल । लाङ्गलग्रहः । लाङ्गल । आङ्कुश । आङ्कुशग्रहः । आङ्कुश । यष्टि । यष्टिग्रहः । यष्टि । तोमर । तोमरग्रहः । तोमर । घट । घटग्रहः । घट । घटी । घटीग्रहः । घटी । धनुस। धनुर्ग्रहः । धनुस। (कात्यायन वार्तिक)सूत्रे च धार्यर्थे(वार्तिकान्त) । सूत्रे च धार्यर्थे ग्रहेः उपसङ्ख्यानं । सूत्रग्रहः । धार्यर्थे इति किमर्थं । यः हि सूत्रं गृह्णाति सूत्रग्राहण्सः भवति ।
(पाणिनीयसूत्र ३,२।१३) कि.,९९।२०-२२ रो.,२३१ (कात्यायन वार्तिक)स्तम्बकर्णयोः हस्तिसूचकयोः(वार्तिकान्त) । स्तम्बकर्णयोः इति अत्र हस्तिसूचकयोः इति वक्तव्यं । स्तम्बेरमः हस्ती । कर्णेजपः सूचकः । सम्बे रन्ता कर्णे जपिता इति एव अन्यत्र ।
(पाणिनीयसूत्र ३,२।१४) कि.,१००।२-९ रो.,२३१-२३२ धातुग्रहणं किमर्थं । (कात्यायन वार्तिक)शमि सञ्ज्ञयां धातुग्रहणं कृञः हेत्वादिषु टप्रतिषेधार्थम्(वार्तिकान्त) । शमि सञ्ज्ञयां धातुग्रहणं क्रियते कृञः हेत्वादिषु टः मा भूतिति । शमि सञ्ज्ञयां अच्भवति इति अस्य अवकाशः शम्वदः शम्भवः । टस्य अवकाशः श्राद्धकरः पिण्डकरः । शङ्करा नाम परिव्राजिका । शङ्करा शकुनिका तच्छिला च । तस्यां उभयं प्राप्नोति । परत्वात्टः स्यात। धातुग्रहणसामर्थ्यातचेव भवति । कुणरवाडवः तु आह । न एषा शङ्करा । शङ्गरा एषा । गृणातिः शब्दकर्मा । तस्य एषः प्रयोगः ।
(पाणिनीयसूत्र ३,२।१५) कि.,१००।११-२१ रो.,२३२-२३३ (कात्यायन वार्तिक)अधिकरणे शेतेः पार्श्वादिषु उपसङ्ख्यानम्(वार्तिकान्त)। अधिकरणे शेतेः पार्श्वादिषु उपसङ्ख्यानं कर्तव्यं । पार्श्वशयः पृष्ठशयः उदरशयः । (कात्यायन वार्तिक)दिग्धसहपूर्वात्च(वार्तिकान्त) । दिद्घसहपूर्वात्च इति वक्तव्यं । दिग्धसहशयः । (कात्यायन वार्तिक)उत्तानादिषु कर्तृषु(वार्तिकान्त) । उत्तानादिषु कर्तृषु इति वक्तव्यं । उत्तानशयः अवमूर्धशयः । (कात्यायन वार्तिक)गिरौ डः छन्दसि(वार्तिकान्त) । गिरौ उपपदे डः छन्दसि वक्तव्यः । गिरौ शेते गिरिशः । (कात्यायन वार्तिक)तद्धितः वा(वार्तिकान्त) । तद्धितः वा पुनः एषः भवति । गिरौ शेते गिरिशः इति ।
(पाणिनीयसूत्र ३,२।१६) कि.,१०१।२-६ रो.,२३३ इह कस्मात्न भवति । कुरून्चरति । पञ्चालान्चरति इति । अधिकरणे इति वर्तते । ननु च कर्मणि इति अपि वर्तते । तत्र कुतः एतत। अधिकरणे भविष्यति न पुनः कर्मणि इति । (कात्यायन वार्तिक)चरेः भिक्षाग्रहणं ज्ञपकं कर्मणि अप्रसङ्गः (वार्तिकान्त)। यतयं भिक्षासेनादायेषु च इति चरेः भिक्षाग्रहणं करोति तत्ज्ञापयति आचार्यः न भवति कर्मणि इति ।
(पाणिनीयसूत्र ३,२।२१) कि.,१०१।९-११ रो.,२३४ (कात्यायन वार्तिक)किंयत्तद्बहुषु कृञः अज्विधानम्(वार्तिकान्त) । किंयत्तद्बहुषु कृञः अज्विधानं कर्तव्यं । किङ्करा । किं । यत। यत्करा । यत। तत। तत्करा । तत। बहु । बहुकरा ।
(पाणिनीयसूत्र ३,२।२४) कि.,१०१।१३-१४ रो.,२३४ (कात्यायन वार्तिक)स्तम्बशकृतोः व्रीहिवत्सयोः(वार्तिकान्त) । व्रीहिवत्सयोः इति वक्तव्यं । स्तम्बकरिः व्रीहिः । शकृत्करिः वत्सः ।
(पाणिनीयसूत्र ३,२।२६) कि.,१०१।१६-१०२।३ रो.,२३४-२३५ आत्मम्भरिः इति किं निपात्यते । आत्मनः मुं भृञः च इन्प्रत्ययः । अत्यल्पं इदं उच्यते । (कात्यायन वार्तिक)भृञः कुक्ष्यात्मनोः मुं च(वार्तिकान्त) । भृञः कुक्ष्यात्मनोः मुं च इति वक्तव्यं । कुक्षिम्भरः । आत्मम्भरिः चरति यूथं असेवमानः ।
(पाणिनीयसूत्र ३,२।२८) कि.,१०२।५-८ रो.,२३५ (कात्यायन वार्तिक)खश्प्रकरणे वातसुनीतिलशर्धेषु अजधेट्तुदजहातिभ्यः (वार्तिकान्त)। खश्प्रकरणे वातसुनीतिलशर्धेषु अजधेट्तुदजहातिभ्यः इति वक्तव्यं । वातमजाः मृगाः । वात । शुनी । शुनीन्धयः । शुनी । तिल । तिलन्द्तुदः । तिल । शर्ध । शर्धञ्जहाः माषाः ।
(पाणिनीयसूत्र ३,२।२९) कि.,१०२।१०-१७ रो.,२३५-२३६ (कात्यायन वार्तिक)स्तने धेटः(वार्तिकान्त) । स्तने धेटः इति वक्तव्यं । स्तनन्धयः । ततः (कात्यायन वार्तिक)मुष्टौ ध्मः च(वार्तिकान्त) । मुष्टौ ध्मः च धेटः च इति वक्तव्यं । मुष्टिन्धमः मुष्टिधयः । अतयल्पं इदं उच्यते । नासिकानाडीमुष्टिघटीखारीषु इति वक्तव्यं । नासिकन्धमः नासिकन्धयः । नासिक । नाडी । नाडिन्धमः नाडिन्धयः । नाडी । मुष्टि । मुष्टिन्धमः मुष्टिधयः । मुष्टि । घटी । घटिन्धमः घटिन्धयः । घटी । खारी । खारिन्धमः खारिन्धयः । खारी ।
(पाणिनीयसूत्र ३,२।३८) कि.,१०२।१९-१०३॥४ रो.,२३६ (कात्यायन वार्तिक)खच्प्रकरणे गमेः सुपि उपसङ्ख्यानम्(वार्तिकान्त) । खच्प्रकरणे गमेः सुपि उपसङ्ख्यानं । मितङ्गमः । मितङ्गमा हस्तिनी । (कात्यायन वार्तिक)विहायसः विह च(वार्तिकान्त) । विहायसः विह इति अयं आदेशः वक्तव्यः । खच्च । विहङ्गमः । (कात्यायन वार्तिक)खच्च डित्वा(वार्तिकान्त) । खच्च डित्वा वक्तव्यः । विहङ्गः । (कात्यायन वार्तिक)डे च(वार्तिकान्त) । डे च विहायसः विह इति अयं आदेशः वक्तव्यः । विहगः ।
(पाणिनीयसूत्र ३,२।४८) कि.,१०३।६-१५ रो.,२३६-२३७ (कात्यायन वार्तिक)डप्रकरणे सर्वत्रपन्नयोः उपसङ्ख्यानम्(वार्तिकान्त) । डप्रकरणे सर्वत्रपन्नयोः उपसङ्ख्यानं कर्तव्यं । सर्वत्रगः पन्नगः । (कात्यायन वार्तिक)उरसः लोपः च(वार्तिकान्त) । उरसः लोपः च वक्तव्यः । उरगः । (कात्यायन वार्तिक)सुदुरोः अधिकरणे(वार्तिकान्त) । सुदुरोः अधिकरणे डः वक्तव्यः । सुगः दुर्गः । (कात्यायन वार्तिक)निसः देशे(वार्तिकान्त) । निसः देशे डः वक्तव्यः । निर्गः । अपर आह । (कात्यायन वार्तिक)डप्रकरणे अन्येषु अपि दृश्यते(वार्तिकान्त) । डप्रकरणे अन्येषु अपि दृश्यते इति वक्तव्यं । ततः स्त्र्यगारगः । अश्नुते यावतन्नाय ग्रामगः । ध्वंसते गुरुतल्पगः ।
(पाणिनीयसूत्र ३,२।४९) कि.,१०३।१७-१०४।३ रो.,२३७ (कात्यायन वार्तिक)दारौ आहनः अणन्त्यस्य च टः सञ्ज्ञायाम्(वार्तिकान्त) । दारौ उपपदे आङ्पूर्वात्हन्तेः अण्वक्तव्यः अन्त्यस्य च टः वक्तव्यः । दार्वाघाटः ते वनस्पतीनां । (कात्यायन वार्तिक)चारौ वा(वार्तिकान्त) । चारौ उपपदे आङ्पूर्वात्हन्तेः अण्वक्तव्यः अन्त्यस्य च टः वा वक्तव्यः । चार्वाघाटः चार्वाघातः । (कात्यायन वार्तिक)कर्मणि समि च(वार्तिकान्त) । कर्मणि उपपदे सपूर्वात्हन्तेः अण्वक्तव्यः अन्त्यस्य च टः वा वक्तव्यः । वर्णसङ्घाटः वर्णसङ्घातः पदसङ्घाटः पदसङ्घातः ।
(पाणिनीयसूत्र ३,२।५२) कि.,१०४।५-१२ रो.,२३७-२३८ कथं इदं विज्ञायते । लक्षणे कर्तरि इति आहोस्वित्लक्षणवति कर्तरि इति । किं च अतः । यदि विज्ञायते लक्षणे कर्तरि इति सिद्धं जायाघ्नः तिलकालकः पतिघ्नी पाणिलेखा इति । जायाघ्नः तिलकालकः पतिघ्नी पाणिरेखा इति । जायाघ्नः ब्राह्मणः पतिघ्नी व्र्षली इति न सिध्यति । अथ विज्ञायते लक्षणवति कर्तरि इति सिद्धं जायाघ्नः ब्राह्मणः पतिघ्नी व्र्षली इति । जायाघ्नः तिलकालकः पतिघ्नी पाणिलेखा इति न सिध्यति । अस्तु लक्षणे कर्तरि इति । कथं जायाघ्नः , ब्राह्मणः पतिघ्नी व्र्षली इति । अकारः मत्वर्थीयः । जायाघ्नः अस्मिनस्ति इति सः अयं जायाघ्नः । पतिघ्नीवृषली इति न सिध्यति । अस्तु तर्हि लक्षणवति कर्तरि इति । कथं जायाघ्नः तिलकालकः पतिघ्नी पाणिलेखा इति । अमनुष्यकर्तृके इति एवं भविष्यति ।
(पाणिनीयसूत्र ३,२।५३) कि.,१०४।१४-१७ रो.,२३८ अप्रणिकर्तृके इति वक्तव्यं । इह मा भूत। नगरघातः हस्ती । यदि अप्रणिकर्तृके इति उच्यते शशघ्नी शकुनिः इति न सिध्यति । अस्तु तर्हि अमनुष्यकर्तृके इति एव । कथं नगरघातः हस्ती । कृत्यल्युटः बहुलं इति एवं अत्र अण्भविष्यति ।
(पाणिनीयसूत्र ३,२।५५) कि.,१०४।१९-२० रो.,२३८ (कात्यायन वार्तिक)राजघे उपसङ्ख्यानम्(वार्तिकान्त) । राजघे उपसङ्ख्यानं कर्तव्यं । राजघः ।
(पाणिनीयसूत्र ३,२।५६) कि.,१०५।३-२० रो.,२३८-२४० (कात्यायन वार्तिक)ख्युनि च्विप्रतिषेधानर्थक्यं ल्युट्ख्य्नोः अविशेषात्(वार्तिकान्त) । ख्युनि च्विप्रतिषेधः अनर्थकः । किं कारणं । ल्युट्ख्य्नोः अविशेषात। ख्युना मुक्ते ल्युटा भवितव्यं । न च अस्ति विशेषः च्व्यन्ते उपपदे ल्युटः ख्युनः वा । ततेव रूपं सः एव स्वरः । अयं अस्ति विशेषः । ल्युटि सति ईकारेण भवितव्यं । ख्युनि सति न भवितव्यं । ख्युनि अपि सति भवतव्यं । एवं हि सौनागाः पठन्ति । नञ्स्नञीक्ख्युंस्तरुणतलुनानां उपसङ्ख्यानं इति । अयं तर्हि विशेषः । ख्युनि सति नित्यसमासेन भवितव्यं । उपपदसमासः हि नित्यसमासः इति । ल्युटि सति न भवितव्यं । ल्युटि अपि भवितव्यं । गतिसमासः अपि हि नित्यसमासः । च्य्वन्तं च गतिसञ्ज्ञं भवति । मुमर्थं तर्हि प्रतिषेधः वक्तव्यः । ख्युनि सति मुमा भवितव्यं । ल्युति सति न भवितव्यं । (कात्यायन वार्तिक)मुमर्थं इति चेत्न अव्ययत्वात्(वार्तिकान्त) । मुमर्थं इति चेत्तत्न । किं कारणं । अव्ययत्वात। अनव्ययस्य मुं उच्यते । च्व्यन्तं च अव्ययसञ्ज्ञं । (कात्यायन वार्तिक)उत्तरार्थं तु(वार्तिकान्त) । उत्तरार्थं तर्हि प्रतिषेधः वक्तव्यः । कर्तरि भुवः खिष्णुच्खुकञौ अच्वौ इति एव । आढ्यीभविता । अथ इदानीं अनेन मुक्ते ताच्छीलिलः इष्णुच्विधीयते । सः अत्र कस्मात्न भवति । रूढिशब्दप्रकाराः तच्छीलिकाः । न च रूडःइशब्दाः गतिभिः विशेष्यन्ते । न हि भवति प्रदेवदत्तः इति ।
(पाणिनीयसूत्र ३,२।५७) कि.,१०५।२२-१०६।११ रो.,२४०-२४१ किमर्थं खिष्णुचिकारादिः क्रियते न क्स्नुः इति एव उच्येत । तत्र अयं अपि अर्थः । स्वरार्थः चकारः न कर्तव्यः भवति । केन इदानीं इकारादित्वं क्रियते । (कात्यायन वार्तिक)इष्णुचः इकारादित्वं उदात्तत्वात्कृतं भुवः(वार्तिकान्त) । भवतेः उदात्तत्वातिकारादित्वं भविष्यति । इदं तर्हि प्रयोजनं । खितयं क्रियते । तत्र चर्त्वे कृते स्यात। कित्वा खित्वा इति । सन्देहमात्रं एतत्भवति । सर्वसन्देहेषु च इदं उपतिष्ठते । व्याख्यानतः विशेषप्रतिपत्तिः । न हि सन्देहातलक्षणं इति । खितिति व्याख्यास्यामः । (कात्यायन वार्तिक)नञः तु स्वरसिद्ध्यर्थं इकारादित्वं इष्णुचः(वार्तिकान्त) । इदं तर्हि प्रयोजनं । कृत्योकेष्णुच्चार्वादयः च इति एषः स्वरः यथा स्यात। एततपि न अस्ति प्रयोजनं । अयं अपि इटि कृते षत्वे च इष्णुच्भविष्यति । न सिध्यति । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति । अथ वा असिद्धं खलु अपि षत्वं । षत्वस्य असिद्धत्वातिस्नुचेव भवति । (कात्यायन वार्तिक)इष्णुचः इकारादित्वं उदात्तत्वात्कृतं भुवः । नञः तु स्वरसिद्ध्यर्थं इकारादित्वं इष्णुचः(वार्तिकान्त) ।
(पाणिनीयसूत्र ३,२।५८) कि.,१०६।१३-१९ रो.,२४१-२४२ किमर्थः नकारः । ञ्निति इति आद्युदात्तत्वं यथा स्यात। न एततस्ति प्रयोजनं । एकाचः अयं विधीयते । तत्र न अर्थः स्वरार्थेन नकारेण अनुबन्धेन । धातुस्वरेण एव सिद्धं । यः तर्हि अनेकाच। दधृकिति । वक्ष्यति एतत्धृषेः द्विर्वचनं अन्तोदात्तत्वं च निपात्यते इति । विशेषणार्थः तर्हि । क्व विशेषनार्थेन अर्थः । क्विन्प्रत्ययस्य कुः इति । क्विप्रत्ययस्य कुः इति उच्यमाने सन्देहः स्यात। क्विः वा एषः प्रत्ययः क्विप्वा इति । सन्देहमात्रं एतत्भवति । सर्वसन्देहेषु च इदं उपतिष्ठते । व्याख्यानतः विशेषप्रतिपत्तिः । न हि सन्देहातलक्षणं इति । क्क्विप्रत्ययस्य इति व्याख्यास्यामः ।
(पाणिनीयसूत्र ३,२।५९) कि.,१०६।२१-२३ रो.,२४२ दधृकिति किं निपात्यते । (कात्यायन वार्तिक)धृषेः द्विर्वचनं अन्तोदात्तत्वं च(वार्तिकान्त) । धृषेः द्विर्वचनं अन्तोदात्तत्वं च निपात्यते ।
(पाणिनीयसूत्र ३,२।६०।१) कि.,१०७।२-५ रो.,२४२ किमर्थः ञकारः । स्वरार्थः । ञ्निति इति आद्युदात्तत्वं यथा स्यात। न एततस्ति प्रयोजनं । नकारेण अपि एषः स्वरः सिद्धः । विशेषणार्थः तर्हि भविष्यति । क्व विशेषणार्थेन अर्थः । कञ्क्वरपिति । कन्क्वरपिति उच्यामाने याचितिका अत्र अपि प्रसज्येत ॥
(पाणिनीयसूत्र ३,२।६०।२) कि.,१०७।६-१५ रो.,२४२-२४३ (कात्यायन वार्तिक)दृशेः समानान्ययोः च उपसङ्ख्यानम्(वार्तिकान्त) । दृशेः समानान्ययोः च उपसङ्ख्यानं कर्तव्यं । सदृक्सदृशः अन्यादृकन्यादृशः । (कात्यायन वार्तिक)कृदर्थानुपपत्तिः तु(वार्तिकान्त) । कृदर्थः तु न उपपद्यते । दृशेः कर्तरि प्राप्नोति । (कात्यायन वार्तिक)इवार्थे तु तद्धितः(वार्तिकान्त) । इवार्थे अयं तद्धितः द्रष्टव्यः । सः इव अयं तादृक। अन्य इव अयं अन्यादृक। अथ वा युक्तः एव अत्र कृदर्थः । कर्मकर्ता अयं । तं इव इमं पश्यन्ति जनाः । सः अयं सः इव दृश्यमानः तं इव आत्मानं पश्यति । तादृक। अन्यं इव इमं पश्यन्ति जनाः । सः अयं अन्यः इव दृश्यमानः अन्यं इव आत्मानं पश्यति । अन्यादृकिति ।
(पाणिनीयसूत्र ३,२।६१) कि.,१०७।१८-२१ रो.,२४३-२४४ (कात्यायन वार्तिक)सदादिषु सुब्ग्रहणम्(वार्तिकान्त) । सदादिषु सुब्ग्रहणं कर्तव्यं । होता वेदिषत। अतिथिः चुरोणसत। न तर्हि इदानीं उपसर्गे अपि इति वक्तव्यं । वक्तव्यं च । किं प्रयोजनं । ज्ञापकार्थं । किं ज्ञाप्यं । एतत्ज्ञापयति आचार्यः । अन्यत्र सुब्ग्रहणे उपसर्गग्रहणं न भवति इति । किं एतस्य ज्ञापने प्रयोजनं । वदः सुपि अनुपसर्गग्रहणं चोदितं । तत्न वक्तव्यं भवति ।
(पाणिनीयसूत्र ३,२।६८-६९) कि.,१०८।२-६ रो.,२४४ किमर्थं इदं उच्यते न अदः अनन्ने इति एव सिद्धं । न सिध्यति । छन्दसि इति एततनुवर्तते । भाषार्थः अयं आरम्भः । पूर्वस्मिनेव योगे छन्दोग्रहणं निवृत्तं । तत्च अवश्यं निवर्त्यं अमातिति एवमर्थं । अतः उत्तरं पठति । (कात्यायन वार्तिक)अदः अनन्ने क्रव्येग्रहणं वासरूपनिवृत्त्यर्थम्(वार्तिकान्त) । अदः अनन्ने क्रव्येग्रहणं क्रियते वासरूपः मा भूत।
(पाणिनीयसूत्र ३,२।७१) कि.,१०८।८-१८ रो.,२४५-२४६ (कात्यायन वार्तिक)श्वेतवहादीनां डस्(वार्तिकान्त) । श्वेतवहादीनां डस्वक्तव्यः । श्वेतवाः इन्द्रः । (कात्यायन वार्तिक)पदस्य च(वार्तिकान्त) । पदस्य च इति वक्तव्यं । इह मा भूत। श्वेतवाहौ श्वेतवाहः । किं प्रयोजनं । (कात्यायन वार्तिक)र्वर्थम्(वार्तिकान्त) । रुः यथा स्यात। क्रियते र्वर्थं निपातनं । अवयाः श्वेतवाः पुरोडाः च इति । आतः च र्वर्थं । उक्थशस्शब्दस्य सामान्येन रुः सिद्धः । न तस्य निपातनं क्रियते । तत्न वक्तव्यं । अवश्यं तत्वक्तव्यं दीर्घार्थं । न एततस्ति प्रयोजनं । सिद्धं अत्र दीर्घत्वं अत्वसन्तस्य च अधातोः इति । यत्र तेन न सिध्यति तदर्थं । क्व च तेन न सिध्यति । सम्बुद्धौ । हे श्वेतवाः इति । न तर्हि इदानीं डस्वक्तव्यः । वक्तव्यः च । किं प्रयोजनं । उत्तराऋथं । श्वेतवोभ्यां श्वेतवोभिः ।
(पाणिनीयसूत्र ३,२।७७) कि.,१०८।२०-१०९।३ रो.,२४६ किमर्थं स्थः कक्विपौ उच्येते न क्विप्सिद्धः अन्येभ्यः अपि दृश्यते इति कः च आतः अनुपसर्गे कः इति । न सिध्यति । विशेष्विहितः कः सामान्यविहितं क्विपं बाधते। वासरूपेण क्विपपि भविष्यति । इदं तर्हि शंस्थः शंस्थाः । उक्तं एतत। शमि सञ्ज्ञायां धातुग्रहणं कृञः हेत्वादिषु टप्रतिषेधार्थं इति । सः यथा एव अच्टं बाधते एवं कक्विपौ अपि बाधेत ।
(पाणिनीयसूत्र ३,२।७८) कि.,१०९।५-१० रो.,२४७ सुपि इति वर्तमाने पुनः सुब्ग्रहणं किमर्थं । अनुपसर्गे इति एवं ततभूत। इदं सुब्मात्रे यथा स्यात। प्रत्यासारिण्यः उदासारिण्यः । (कात्यायन वार्तिक)णिन्विधौ साधुकारिणि उपसङ्ख्यानम्(वार्तिकान्त) । णिन्विधौ साधुकारिणि उपसङ्ख्यानं कर्तव्यं । साधुकारी साधुदायी । (कात्यायन वार्तिक)ब्रह्मणि वदः(वार्तिकान्त) । ब्रह्मणि वदः उपसङ्ख्यानं कर्तव्यं । ब्रह्मवादिनः वदन्ति ।
(पाणिनीयसूत्र ३,२।८०) कि.,१०९।१२-२० रो.,२४७-२४८ किं उदाहरणं । अश्राद्धभोजी । किं यः अश्राद्धं भुङ्क्ते सः अश्राद्धभोजी । किं च अतः । यदा असौ अश्राद्धं न भुङ्क्ते तदा अस्य व्रतलोपः स्यात। तत्यथा : स्थायी यदा न तिष्थति तदा अस्य व्रतलोपः भवति । एवं तर्हि णिन्यन्तेन समासः भविष्यति : न श्राद्धभोजी अश्राद्धभोजी । न एवं शक्यं । स्वरे हि दोषः स्यात। अश्राद्धभोजी इति एवं स्वरः प्रसज्येत । अश्राद्धभोजी इति च इष्यते । एवं तर्हि नञः एव अयं भुजिप्रतिषेधवाचिनः श्राद्धशब्देन असमर्थसमासः : न भोजी श्राद्धस्य इति । सः तर्हि असमर्थसमासः वक्तव्यः । यदि अपि वक्तव्यः अथ वा एतर्हि बहूनि प्रयोजनानि । कानि । असूर्यम्पश्यानि मुखानि । अपूर्वगेयाः श्लोकाः । अश्राद्धभोजी ब्राह्मणः । सुटनपुंसकस्य इति ।
(पाणिनीयसूत्र ३,२।८३) कि.,१०९।२२-११०।१६ रो.,२४८-२५० आत्मग्रहणं किमर्थं । परमाने मा भूत। क्रियमाणे अपि आत्मग्रहणे परमाने प्राप्नोति । किं कारणं । आत्मनः इति इयं कर्तरि षष्ठी मानः इति अकारः भावे । सः यदि एव आत्मानं मन्यते अथ अपि परं आत्मनः एव असौ मानः भवति । न एषः दोषः । आत्मनः इति कर्मणि षष्ठी । कथं । कर्तृकर्मणोः कृति इति । ननु च कर्तरि अपि वै एतेन एव विधीयते । तत्र कुतः एतत्कर्मणि भविष्यति न पुनः कर्तरि इति । एवं तर्हि (कात्यायन वार्तिक)कर्मकर्तरि च(वार्तिकान्त) । कर्मकर्तरि च इति वक्तव्यं । तत्तर्हि वक्तव्यं । न वक्तव्यं । आत्मनः इति कर्मणि षष्ठी । कथं । कर्तृकर्मणोः कृति इति । ननु च उक्तं कर्तरि अपि वै एतेन एव विधीयते । तत्र कुतः एतत्कर्मणि भविष्यति न पुनः कर्तरि इति । आत्मग्रहणसामर्थ्यात्कर्मणि विज्ञास्यते । एवं अपि कर्मकर्तृग्रहणं कर्तव्यं कर्मापदिष्टः यक्यथा स्यात्श्यन्मा भूतिति । कः च अत्र विशेषः यकः वा श्यनः वा । यकि सति अन्तोदात्तत्वेन भवितयं श्यनि सति आद्युदात्तत्वेन । श्यनि अपि सति अन्तोदात्तत्वेन एव भवितव्यं । कथं । खशः स्वरः श्यनः स्वरं बाधिष्यते । सति शिष्टत्वात्श्यनः स्वरः प्राप्नोति । आचार्यप्रवृत्तिः ज्ञापयति सति शिष्टः अपि विकरणस्वरः सार्वधातुकस्वरं न बाधते इति यतयं तासेः परस्य लसार्वधातुकस्य अनुदात्तत्वं शास्ति । लसार्वधातुके एतत्ज्ञापकं स्यात। न इति आह । अविशेषेण ज्ञापकं ।
(पाणिनीयसूत्र ३,२।८४) कि.,१११।२-११२।४ रो.,२५०-२५४ भूते इति उच्यते । कस्मिन्भूते । काले । न वै कालाधिकारः अस्ति । एवं तर्हि धातोः इति वर्तते । धातौ भूते । धातुः वै शब्दः । न च शब्दस्य भूतभविष्यद्वर्तमानतायां सम्भवः अस्ति । शब्दे असम्भवातर्थे कार्यं विज्ञास्यते । कः पुनः धात्वर्थः । क्रिया । क्रियायां भूतायां । यदि एवं (कात्यायन वार्तिक)निष्ठायां इतरेतराश्रयत्वातप्रसिद्धिः(वार्तिकान्त) । निष्ठायां इतरेतराश्रयत्वातप्रसिद्धिः । का इतरेतराश्रयता । भूतकालेन शब्देन निर्देशः क्रियते । निर्देशोत्तरकालं च भूतकालता । ततेततितरेतराश्रयं भवति । इतरेतराश्रयाणि च न प्रकल्पन्ते । (कात्यायन वार्तिक)अव्ययनिर्देशात्सिद्धम्(वार्तिकान्त) । अव्ययवता शब्देन निर्देशः करिष्यते । अवर्तमाने अभविष्यति इति । सः तर्हि अव्ययवता शब्देन निर्देशः कर्तव्यः । न कर्तव्यः । अव्ययं एषः भूतेशब्दः न भवतेः निष्ठा । कथं अव्ययत्वं । विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा । निपातं अव्ययं इति अवययसञ्ज्ञा । अथ अपि भवतेः निष्ठा एवं अपि अवययं एव । कथं न व्येति इति अव्ययं । क्व पुनः न व्येति । एतौ कालविशेषौ वर्तमानभविष्यन्तौ । स्वभावतः भूते एव वर्तते । यदि तत्रि न व्येति इति अव्ययं । (कात्यायन वार्तिक)न वा तद्विधानस्य अन्यत्र अभावात्(वार्तिकान्त) । न वा भूताधिकारेण अर्थः । किं कारणं । तद्विधानस्य अन्यत्र अभावात। ये अपि एते इतः उत्तरं प्रत्ययाः शिष्यन्ते एते अपि एतौ कालविशेषौ न वियन्ति वर्तमानभविष्यन्तौ । स्वभावतः एव ते भूते एव वर्तन्ते । अतः उत्तरं पठति । (कात्यायन वार्तिक)भूताधिकारस्य प्रयोजनं कुमारघाती शीर्षघाती आखुहा बिडालः सुत्वानः सुनवन्तः सुषुपुषः अनेहाः अग्निं आदधानस्य(वार्तिकान्त) । कुमारघाती शीर्षघाती इति भविष्यद्वर्तमानार्थः भूतनिवृत्त्यर्थः । आखुहा बिडालः इति भविष्यद्वर्तमानार्थः । इतरथा हि ब्रह्मादिषु नियमः त्रिषु कालेषु निवर्तकः स्यात। सुत्वानः सुन्वन्तः । यज्ञसंयोगे ङ्वनिपः त्रिषु कालेषु शता अपवादः मा भूत। सुषुपुषः । नजिङ्सर्वकालपवादः मा भूत। अनेहाः इति वर्तमानकालः एव । अन्यत्र अनाहन्ता । आदधानस्य । कानचः चानश्ताच्छीलादिषु सर्वकालापवादः मा भूत। अग्निं आदधानस्य । आदधानस्य इति एव अन्यत्र ।
(पाणिनीयसूत्र ३,२।८७) कि.,११२।६-१५ रो.,२५४-२५५ किमर्थं ब्रह्मादिषु हन्तेः क्विप्विधीयते । न क्विप्च अन्येभ्यः अपि दृश्यते इति एव सिद्धं । (कात्यायन वार्तिक)ब्रह्मादिषु हन्तेः क्विब्वचनं नियमार्थं (वार्तिकान्त)। नियमार्थः अयं आरम्भः । ब्रह्मादिषु एव हन्तेः क्विप्यथा स्यात। किं अविशेषेण । न इति आह ।उपपदविशेषे एतस्मिन्च विशेषे । अथ ब्रह्मादिषु हन्तेः णिनिना भवितव्यं । न भवितव्यं । किं कारणं । उभयतः नियमात। उभयतः नियमः अयं । ब्रह्मादिषु एव हन्तेः क्विप्भवति । क्विपेव च ब्रह्मादिषु इति । (कात्यायन वार्तिक)तथा च उत्तरस्य नियमाऋथम्(वार्तिकान्त) । एवं च कृत्वा उत्तरस्य योगस्य वचनार्थः उपपन्नः भवति । बहुलं छन्दसि इति । यः मातृहा पितृहा भ्रातृहा । न च भवति । अमित्रघातः ।
(पाणिनीयसूत्र ३,२।९३) कि.,११२।१७-१८ रो.,२५५ (कात्यायन वार्तिक)कर्मणि कुत्सिते(वार्तिकान्त) । कर्मणि कुत्सिते इति वक्तव्यं । इह मा भूत। धान्यविक्रायः ।
(पाणिनीयसूत्र ३,२।१०१) कि.,११२।२०-२१ रो.,२५६ अन्येभ्यः अपि दृश्यते इति वक्तव्यं , इह अपि यथा स्यात। आखा उत्खा परिखा ।
(पाणिनीयसूत्र ३,२।१०२।१) कि.,११३।२-२२ रो.,२५६-२५७ (कात्यायन वार्तिक)निष्ठायां इतरेतराश्रयत्वातप्रसिद्धिः(वार्तिकान्त) । निष्ठायां इतरेतराश्रयत्वातप्रसिद्धिः । का इतरेतराश्रयता । सतोः क्तक्तवत्वोः सञ्ज्ञया भवितव्यं सञ्ज्ञया च क्तक्तवतू भाव्येते । ततेततितरेतराश्रयं भवति । इतरेतराश्रयाणि च न प्रकल्पन्ते । (कात्यायन वार्तिक)द्विः वा क्तक्तव्तुग्रहणम्(वार्तिकान्त) । द्विः वा क्तक्तव्तुग्रहणं कर्तव्यं । क्तक्तव्तू भूते । क्तक्तवतू निष्ठा इति । यदि पुनः इह एव निष्ठासञ्ज्ञा अपि उच्येत : क्तक्तव्तू भूते । ततः निष्ठा । निष्ठासञ्ज्ञौ च क्तक्तव्तू भवतः इति । किं कृतं भवति । द्विः वा क्तक्तव्तुग्रहणं न कर्तव्यं भवति । एवं अपि तौ इति वक्तव्यं स्यात। वक्ष्यति हि एतत। तौ सतिति वचनं असंसर्गार्थं इति । असंसक्तयोः भूतेन कालेन निष्ठासञ्ज्ञा यथा स्यात। ञिमिदा मिन्नः ञिक्ष्विदा क्ष्विन्नः । यदि पुनः अदृष्टश्रुतौ एव क्तक्तवतू गृहीत्वा निष्ठासञ्ज्ञा उच्येत । न एवं शक्यं । दृष्टश्रुतयोः न स्यात। ञिमिदा मिन्नः । तस्मात्न एवं शक्यं । न चेतेवं द्विः वा क्तक्तव्तुग्रहणं कर्तव्यं इतरेतराश्रयं वा भवति । न एषः दोषः । इतरेतराश्रयमात्रं एतत्भवति । सर्वाणि च इतरेतराश्रयाणि एकत्वेन परिहृतानि सिद्धं तु नित्यशब्दत्वातिति । न इदं तुल्यं अन्यैः इतरेतराश्रयैः । न हि सञ्ज्ञा नित्या । एवं तर्हि भाविनी सञ्ज्ञा विज्ञास्यते । तत्यथा : कः चित्कं चित्तन्तुवायं आह : अस्य सूत्रस्य शाटकं वय इति । सः पश्यति । यदि शाटकः न वातव्यः अथ वातव्यः न शाटकः । शाटकः वातव्यः इति विप्रतिषिद्धम। भाविनी खलु अस्य सञ्ज्ञा अभिप्रेता । सः मन्ये वातव्यः यस्मिनुते शाटकः इति एतत्भवति इति । एवं इह अपि तौ भूते काले भवतः ययोः अभिनिर्वृतयोः निष्ठा इति एषा सञ्ज्ञा भविष्यति ।
(पाणिनीयसूत्र ३,२।१०२।२) कि.,११३।२४-११४।१५ रो.,२५८-२५९ (कात्यायन वार्तिक)आदिकर्मणि निष्ठा(वार्तिकान्त) । आदिकर्मणि निष्ठा वक्तव्या । प्रकृतः कटं देवदत्तः । किं पुनः कारणं न सिध्यति । (कात्यायन वार्तिक)यत्वा भवन्त्यर्थे(वार्तिकान्त) । यत्वा भवन्त्यर्थे भाष्यते । प्रकृतः कटं देवदत्तः । प्रकरोति कटं देवदत्तः इति । (कात्यायन वार्तिक)न्याय्या तु आद्यपवर्गात्(वार्तिकान्त) । न्याय्या तु एषा भूतकालता । कुतः । आद्यपवर्गात। आदिः अत्र अपवृक्तः । एषः च नाम न्याय्यः भूतकालः यत्र किं चितपवृक्तं दृश्यते । (कात्यायन वार्तिक)वा च अद्यतन्याम्(वार्तिकान्त) । वा च अद्यतन्यां भाष्यते । प्रकृतः कटं देवदत्तः । प्राकार्षीत्कटं देवदत्तः इति । किं शक्यन्ते एते शब्दाः प्रयोक्तुं इति अतः न्याय्या एषा भूतकालता । न अवश्यं प्रयोगातेव । क्रिया नाम इयं अत्यन्तापरिदृष्टा अनुमानगम्या अशक्या पिण्डीभूता निदर्शयितुं यथा गर्भः निर्लुठितः । सा असौ येन येन शब्देन अभिसम्बध्यते तावति तावति परिसम्पाप्यते । तत्यथा । कः चित्पाटलिपुत्रं जिगमिषुः एकं अहः गत्वा आह इदं अद्य गतं इति । न च तावता अस्य व्रजिक्रिया परिसमाप्ता भवति । यत्तु गतं ततभिसमीक्ष्य एतत्प्रयुज्यते इदं अद्य गतं इति । एवं इह अपि यत्कृतं ततभिसमीक्ष्य एतत्प्रयुज्यते प्रकृतः कटं देवदत्तः इति । यदा हि वेणिकान्तः कटः अभिसमीक्षितः भवति प्रकरोति कटं इति एव तदा भवति ।
(पाणिनीयसूत्र ३,२।१०६-१०७।१) कि.,११४।१९-११५।२ रो.,२६० किमर्थं कानच्क्वसोः वावचनं क्रियते । (कात्यायन वार्तिक)कानच्क्वसोः वावचनं छन्दसि तिङः दर्शनात्(वार्तिकान्त) । कानच्क्वसोः वावचनं क्रियते छन्दसि तिङः दर्शनात। छन्दसि तिङपि दृश्यते । अहं सूरं उभयतः ददर्श । अहं द्यावापृथिवी आततान । (कात्यायन वार्तिक)न वा अनेन विहितस्य आदेशवचनात्(वार्तिकान्त) । न वा एतत्प्रयोजनं अस्ति । किं कारणं । अनेन विहितस्य आदेशवचनात। अस्तु अनेन विहितस्य आदेशः । केन इदानीं छन्दसि विहितस्य लिटः श्रवणं भविष्यति । छन्दसि लुङ्लङ्लिटः इति अनेन । ततेतत्वावचनं तिष्ठतु तावत्सान्न्यासिकं ।
(पाणिनीयसूत्र ३,२।१०६-१०७।२) कि.,११५।३-८ रो.,२६०-२६१ अथ कित्करणं किमर्थं न असंयोगात्लिट्कितिति एव सिद्धं । (कात्यायन वार्तिक)कित्कररणं संयोगार्थम्(वार्तिकान्त) । कित्कररणं क्रियते संयोगार्थं । संयोगान्ताः प्रयोजयन्ति । वृत्रस्य यत्बद्बधानस्य रोदसी । त्वं अर्णवान्बद्बधानां अरम्णाः । अञ्जेः आजिवानिति । छान्दसौ कानच्क्वसू । लिट्च छन्दसि सार्वधातुकं अपि भवति । तत्र सार्वधातुकं अपित्ङित्भवति इति ङित्त्वात्लुपधालोपः भविष्यति ।(कात्यायन वार्तिक) ®कारान्तगुणप्रतिषेधार्थं वा(वार्तिकान्त) । ®कारान्तगुणप्रतिषेधार्थं तर्हि कित्करणं कर्तव्यं । अयं लिटि ®कारान्तानां प्रतिषेधविषये गुणः आरभ्यते । सः यथा एव इह प्रतिषेधं बाधित्वा गुणः भवति तेरतुः तेरुः एवं इह अपि स्यात्तितीर्वान्तिरिराणः । पुनः कित्करणा प्रतिषिध्यते ।
(पाणिनीयसूत्र ३,२।१०८) कि.,११५।१४-११६।१० रो.,२६१-२६३ (कात्यायन वार्तिक)भाषायां सदादिभ्यः वा लिट्(वार्तिकान्त) । भाषायां सदादिभ्यः वा लिट्वक्तव्यः । किं प्रयोजनं । (कात्यायन वार्तिक)तद्विषये लुङः अनिवृत्त्यर्थम्(वार्तिकान्त) । तस्य लिटः विषये लुङः अनिवृत्तिः यथा स्यात। उपसेदिवान्कौत्सः पाणिनिं । उपासदत। (कात्यायन वार्तिक)अनद्यतनपरोक्षयोः च(वार्तिकान्त) । अनद्यतनपरोक्षयोः च वा लिट्वक्तव्यः । उपसेदिवान्कौत्सः पाणिनिं । उपासीदत। उपससाद । (कात्यायन वार्तिक)अपवादविप्रतिषेधात्हि तयोः भावः(वार्तिकान्त) । अपवादविप्रतिषेधात्हि तौ स्यातां । कौ । लङ्लिटौ । (कात्यायन वार्तिक)तस्य क्वसुः अपरोक्षे नित्यम्(वार्तिकान्त) । तस्य लिटः भाषायां क्वसुः अपरोक्षे नित्यं इति वक्तव्यं । अपरोक्षग्रहणेन न अर्थः । तस्य क्वसुः नित्यं इति एव । केन इदानीं लिटः परोक्षे श्रवणं भविष्यति । परोक्षे लिटिति अनेन । तत्तर्हि वक्तव्यं । न वक्तव्यं । अनुवृत्तिः करिष्यते । भाषायां सदादिभ्यः वा लिट्भवति लिटः च क्वसुः भवति । ततः लुङ। लुङ्भवति भूते काले । भाषायां सदादिभ्यः वा लिट्भवति लिटः च क्वसुः भवति । ततः अनद्यतने लङ। अनद्यतने भूते काले लङ्भवति । भाषायां सदादिभ्यः वा लिट्भवति लिटः च क्वसुः भवति । परोक्षे लिट्भवति । भाषायां सदादिभ्यः वा लिट्भवति लिटः च क्वसुः भवति । तत्र अयं अपि अर्थः । तस्य क्वसुः अपरोक्षे नित्यं इति एतत्न वक्तव्यं भवति ।
(पाणिनीयसूत्र ३,२।१०९) कि.,११६।११-११७।२३ रो.,२६३-२६६ किं उपेयिवानिति निपातनं क्रियते । उपेयुषि निपातनं इडर्थं । उपेयुषि निपातनं क्रियते इडर्थं । इट्यथा स्यात। न एततस्ति प्रयोजनं । सिद्धः अत्र इट्वस्वेकाकाद्घसां इति । द्विर्वचने कृते अनेकाच्त्वात्न प्राप्नोति । इदं इह सम्प्रधार्यं । द्विर्वचनं क्रियतां इटिति । किं अत्र कर्तव्यं । परत्वातिडागमः । नित्यं द्विर्वचनं । कृते अपि इटि प्राप्नोति अकृते अपि प्राप्नोति । इटपि नित्यः । कृते अपि द्विर्वचने एकादेशे च प्राप्नोति अकृते अपि प्राप्नोति । न अत्र एकादेशः प्राप्नोति । किं कारणं । दीर्घः इणः किति इति दीर्घत्वेन बाधते । ततेततुपेयुषि निपातनं इडर्थं क्रियते । (कात्यायन वार्तिक)उपेयुषि निपातनं इडर्थं इति चेतजादौ अतिप्रसङ्गः (वार्तिकान्त)। उपेयुषि निपातनं इडर्थं इति चेतजादौ अतिप्रसङ्गः भवति । उपेयुषा उपेयुषे उपेयुषः उपेयुषि इति । (कात्यायन वार्तिक)एकादिष्टस्य ईय्भावार्थं तु(वार्तिकान्त) । एकादिष्टस्य ईय्भावार्थं तु निपातनं क्रियते । एकादिष्टस्य ईयिति एतत्रूपं निपात्यते । ननु च उक्तं न अत्र एकादेशः प्राप्नोति । किं कारणं । दीर्घः इणः किति इति दीर्घत्वेन बाधते इति । तत्हि न सुष्ठु उच्यते । न हि दीर्घत्वं एकादेशं बाधते । कः तर्हि बाधते । यणादेशः । सः च क्व बाधते । यत्र अस्य निमित्तं अस्ति । यत्र हि निमित्तं न अस्ति निष्प्रतिद्वन्द्वः तत्र एकादेशः । (कात्यायन वार्तिक)व्यञ्जने यणादेशार्थं वा(वार्तिकान्त) । अथ वा व्यञ्जने एव यणादेशः निपात्यते । यणादेशे कृते एकाचः इति इट्सिद्धः भवति । अपरः आह : (कात्यायन वार्तिक)न उपेयिवान्निपात्यः । द्विर्वचनादिट्भविष्यति परत्वात्(वार्तिकान्त) । द्विर्वचनं क्रियतां इटिति इट्भविष्यति विप्रतिषेधेन । इह अपि तर्हि द्विर्वचनातिट्स्यात्बिभिद्वान्चिच्छिद्वान। (कात्यायन वार्तिक)अन्येषां एकाचां द्विर्वचनं नित्यं इति आहुः (वार्तिकान्त)। अन्येषां एकाचां नित्यं द्विर्वचनं । कृते अपि इटि प्राप्नोति अकृते अपि प्राप्नोति । (कात्यायन वार्तिक)अस्य पुनः इट्च नित्यः द्विव्रचनं च (वार्तिकान्त)। अस्य पुनः इट्च एव नित्यः द्विव्रचनं च । द्विर्वचने च कृते एकाच्भवति । कथं । एकादेशे कृते । (कात्यायन वार्तिक)तस्मातिट्बाधते द्वित्वम्(वार्तिकान्त) । तस्मातिट्द्विर्वचनं बाधते । (कात्यायन वार्तिक)अनूचानः कर्तरि(वार्तिकान्त) । अनूचानः कर्तरीति वक्तव्यं । अनूक्तवाननूचानः । अनूक्तं इति एव अन्यत्र । (कात्यायन वार्तिक)न उपेयिवान्निपात्यः । द्विर्वचनादिट्भविष्यति परत्वात। अन्येषां एकाचां द्विर्वचनं नित्यं इति आहुः । अस्य पुनः इट्च नित्यः द्विव्रचनं च । न विहन्यते हि अस्य । द्विर्वचने च एकाच्त्वात। तस्मातिट्बाधते द्वित्वम्(वार्तिकान्त) ।
(पाणिनीयसूत्र ३,२।११०।१) कि.,११७।२५-१११।१४ रो.,२६६-२६७ (कात्यायन वार्तिक)लुङ्लृटोः अपवादप्रसङ्गः भूतभविष्यतोः अविशेषवचनात्(वार्तिकान्त) । लुङ्लृटोः अपवादः प्राप्नोति । अगाम घोषान। अपाम पयः । अशयिष्महि पूतीकतृणेषु । गमिष्यामः घोषान। पास्यामः पयः । शयिष्यामहे पूतीकतृणेषु । किं कारणं । भूतभविष्यतोः अविशेषवचनात। भूतभविष्यतोः अविशेषेण विधीयेते लुङ्लृटौ । तयोः विशेषविहितौ लन्लुटौ अपवादौ प्राप्नुतः । (कात्यायन वार्तिक)न वा अपवादस्य निमित्ताभावातनद्यतने हि तयोः विधानम्(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । अपवादस्य निमित्ताभावात। न अत्र अपवादस्य निमित्तं अस्ति । किं कारणं । अनद्यतने हि तयोः विधानं । अनद्यतने हि तौ विधीयेते लङ्लुटौ । न च अत्र अनद्यतनः कालः विवक्षितः । किं तर्हि । भूतकालसामान्यं भविष्यत्कालसामान्यं च । यदि अपि तावतत्र एतत्शक्यते वक्तुं गमिष्यामः घोषान्पास्यामः पयः शयिष्यामहे पूतीकतृणेषु इति यत्र एतत्न ज्ञायते किं कदा इति । इह तु कथं अगाम घोषानपाम पयः अशयिष्महि पूतीकतृणेषु यत्र एतत्निर्ज्ञातं भवति अमुष्मिनहनि गतं इति । अत्र अपि न वा अपवादस्य निमित्ताभावातनद्यतने हि तयोः विधानं इति एव । कथं पुनः सतः नाम अविवक्षा स्यात। सतः अपि अविवक्षा भवति । तत्यथा । अलोमिका एडका । अनुदरा कन्या । असतः च विवक्षा भवति । तत्यथा । समुद्रः कुण्डिका । विन्ध्यः वर्धितकं इति ।
(पाणिनीयसूत्र ३,२।११०।२) कि.,११८।१५-२० रो.,२६८ (कात्यायन वार्तिक)वसेः लुङ्रात्रिशेषे(वार्तिकान्त) । वसेः लुङ्रात्रिशेषे वक्तव्यः । न्याय्ये प्रत्युत्थाने प्रत्युत्थितं कः चित्कं चित्पृच्छति । क्व भवानुषितः इति । सः आह । अमुत्र अवात्सं इति । अमुत्र अवसं इति प्राप्नोति । (कात्यायन वार्तिक)जागरणसन्ततौ(वार्तिकान्त) । जागरणसन्ततौ इति वक्तव्यं । यः हि मुहूर्तमात्रं अपि स्वपिति तत्र अमुत्र अवसं इति एव भवितव्यं ।
(पाणिनीयसूत्र ३,२।१११) कि.,११८।२२-११९।७ रो.,२६८-२६९ (कात्यायन वार्तिक)अनद्यतने इति बहुव्रीहिनिर्देशः अद्य ह्यः अभुक्ष्महि इति(वार्तिकान्त) । अनद्यतने इति बहुव्रीहिनिर्देशः कर्तव्यः । अविद्यमानाद्यतने अनद्यतने इति । किं प्रयोजनं । अद्य ह्यः अभुक्ष्महि इति । अद्य च ह्यः च अभुक्ष्महि इति व्यामिश्रे लुङेव यथा स्यात। यदि एवं अद्यतने अपि लङ्प्राप्नोति । न हि अद्यतने अद्यतनः विद्यते । अद्यतने अपि अद्यतनः विद्यते । कथं । व्यपदेशिवद्भावेन । (कात्यायन वार्तिक)परोक्षे च लोकविज्ञाते प्रयोक्तुः दर्शनविषये(वार्तिकान्त) । परोक्षे च लोकविज्ञाते प्रयोक्तुः दर्शनविषये लङ्वक्तव्यः । अरुणत्यवनः साकेतं । अरुणत्यवनः मधमिकां । परोक्षे इति किमर्थं । उदगातादित्यः । लोकविज्ञते इति किमर्थं । चकार कटं देवदत्तः । प्रयोक्तुः दर्शनविषये इति किमर्थं । जघान कंसं किल वासुदेवः ।
(पाणिनीयसूत्र ३,२।११४) कि.,११९।९-१७ रो.,२६९-२७० किं उदाहरणं । तत्र सक्तून्पास्यामः । अभिजानासि देवदत्त तत्र सक्तूनपिबाम । भवेत्पूर्वं परं आकाङ्क्षति इति साकाङ्क्षं स्यात। परं तु कथं साकाङ्क्षं । परं अपि साकाङ्क्षं । कथं अस्ति अस्मिनाकाङ्क्षा इति अतः साकाङ्क्षं । (कात्यायन वार्तिक)विभाषा साकाङ्क्षे सर्वत्र(वार्तिकान्त) । विभाषा साकाङ्क्षे सर्वत्र इति वक्तव्यं । क्व सर्वत्र । यदि च अयदि च । यदि तावत। अभिजानासि देवदत्त यत्कश्मीरान्गमिष्यामः यत्कश्मीरानगच्छाम यत्तत्र ओदनं भोक्ष्यामहे यत्तत्र ओदनं अभुञ्ज्महि । अभिजानासि देवदत्त कश्मीरान्गमिष्यामः कश्मीरानगच्छाम तत्र ओदनं भोक्ष्यामहे तत्र ओदनं अभुञ्ज्महि ।
(पाणिनीयसूत्र ३,२।११५।१) कि.,११९।१९-१२०।४ रो.,२७०-२७१ परोक्षे इति उच्यते । किं परोक्षं नाम । परं अक्ष्णः परोक्षं । अक्षि पुनः किं । अश्नोतेः अयं औणादिकः करणसाधनः सि प्रत्ययः । अनुते अनेन इति अक्षि । यदि एवं पराक्षं इति प्राप्नोति । न एषः दोषः । (कात्यायन वार्तिक)परोभावः परस्य अक्षे परोक्षे लिटि दृश्यतां (वार्तिकान्त)। परशब्दस्य अक्षशब्दे उत्तरपदे परोभावः वक्तव्यः । (कात्यायन वार्तिक)उत्वं वा आदेः परातक्ष्णः (वार्तिकान्त)।अथ वा परशब्दातुत्तरस्य अक्षिशब्दस्य उत्वं वक्तव्यं । (कात्यायन वार्तिक)सिद्धं वा अस्मात्निपातनात्(वार्तिकान्त) ।
(पाणिनीयसूत्र ३,२।११५।२) कि.,१२०।५-२३ रो.,२७१-२७३ कस्मिन्पुनः परोक्षे । काले । न वै कालाधिकारः अस्ति । एवं तर्हि धातोः इति वर्तते । धातौ परोक्षे । धातुः वै शब्दः । न च शब्दस्य प्रत्यक्षपरोक्षतायां सम्भवः अस्ति । शब्दे असम्भवातर्थे कार्यं विज्ञास्यते । परोक्षे धातौ परोक्षे धात्वर्थे इति । कः पुनः धात्वर्थः । क्रिया । क्रियायां परोक्षायां । यदि एवं ह्यः अपचतिति अत्र अपि लिट्प्राप्नोति । किं कारणं । क्रिया नाम इयं अत्यन्तापरिदृष्टा अनुमानगम्या अशक्या पिण्डीभूता निदर्शयितुं यथा गर्भः निर्लुठितः । एवं तर्हि साधनेषु परोक्षेषु । साधनेषु च भवतः कः सम्प्रत्ययः । यदि सावद्गुणसमुदायः साधनं साधनं अपि अनुमानगम्यं । अथ अन्यत्गुणेभ्यः साधनं भवति प्र्तयक्षपरोक्षतायां सम्भवः । अथ यदा अनेन रथ्यायां तण्डुलोदकं दृष्टं कथं तत्र भवितव्यं । यदि तावत्साधनेषु परोक्षेषु पपाच इति भवितव्यं । भवन्ति हि तस्य साधनानि परोक्षाणि । अथ ये एते क्रियाकृताः विशेषाः चीत्काराः फूत्काराः च तेषु परोक्षेषु एवं अपि पपाच इति भवितव्यं । कथञ्जातीयकं पुनः परोक्षं नाम । के चित्तावताहुः । वर्षशतवृत्तं परोक्षं इति । अपरे आहुः । कटान्तरितं परोक्षं इति । अपरे आहूः । द्व्यहवृत्तं त्र्यह्वृत्तं च इति । सर्वथा उत्तमः न सिध्यति । सुप्तमत्तोयोः इति वक्तव्यं । सुप्तः अहं किल विललाप । मत्तः अहं किल विललाप । सुप्तः नु अहं किल विललाप । मत्तः नु अहं किल विललाप । अथ वा भवति वै कः चित्जागरतपि वर्तमानकालं न उपलभते । तत्यथा वैयाकरणानां शाकटायनः रथमार्गे आसीनः शकटसाऋथं यान्तं न उपलभते । किं पुनः कारणं जागरतपि वर्तमानकालं न उपलभते । मनसा संयुक्तानि इन्द्रियाणि उपलब्धौ कारणानि भवन्ति । मनसः असान्निध्यात।
(पाणिनीयसूत्र ३,२।११५।३) कि.,१२०।२४-२९ रो.,२७४ परोक्षे लिटत्यन्ताअपह्नवे च । परोक्षे लिटिति अत्र अत्यन्ताअपह्नवे च इति वक्तव्यं । नो खण्डिकान्जगाम नो कलिङ्गान्जगाम । न कारिसोमं प्रपौ । न दार्वजस्य प्रतिजग्राह । कः मे मनुष्यः प्रहरेत्वधाय । (कात्यायन वार्तिक)परोभावः परस्य अक्षे परोक्षे लिटि दृश्यतां । उत्वं वा आदेः परातक्ष्णः । सिद्धं वा अस्मात्निपातनात्(वार्तिकान्त) ।
(पाणिनीयसूत्र ३,२।११८) कि.,१२१।२-१२२।३ रो.,२७५-२७८ (कात्यायन वार्तिक)स्म पुरा भूतमात्रे न स्म पुरा अद्यतने(वार्तिकान्त) । स्म पुरा भूतमात्रे न स्म पुरा अद्यतने इति वक्तव्यं । किं अयं स्मादिविधिः पुरान्तः अविशेषेण भूतमात्रे भवति । तत्र वक्तव्यं स्मलक्षणः पुरालक्षणः च अद्यतने न भवतः इति । आहोस्वित्स्मलक्षणः पुरालक्षणः च अविशेषेण भूतमात्रे भवतः इति । तत्र स्माद्यर्थं न स्म पुरा अद्यतने इति वक्तव्यं । किं च अतः । (कात्यायन वार्तिक)स्मादिविधिः पुरान्तः यदि अविशेषेण किं कृतं भवति न स्म पुरा अद्यतने इति ब्रुवता कात्यायनेन इह(वार्तिकान्त) । स्मादिविधिः पुरान्तः यदि अविशेषेण भवति किं वार्त्तिककारः प्रतिषेधेन करोति न स्म पुरा अद्यतने इति । (कात्यायन वार्तिक)अनुवृत्तिः अनद्यतनस्य लात्स्मे इति तत्र न अस्ति नञ्कार्यं (वार्तिकान्त)। लट्स्मे इति अत्र अनद्यतने इति एततनुवर्तिष्यते । (कात्यायन वार्तिक)अपरोक्षानद्यतनः ननौ च नन्वोः च निवृत्तौ न पुरा अद्यतने इति भवेतेतत्वाच्यं (वार्तिकान्त)। तत्र एतावत्वक्तव्यं स्यात्न पुरा अद्यतने इति । (कात्यायन वार्तिक)तत्र च अपि लङ्ग्रहणं (वार्तिकान्त)। तत्र च अपि लङ्ग्रहणं ज्ञपकं न पुरालक्षणः अद्यतने भवति इति । (कात्यायन वार्तिक)अथ बुद्धिः अविशेषाद्स्म पुरा हेतू(वार्तिकान्त) । अथ बुद्धिः अविशेषेण स्म पुरा हेतू इति । (कात्यायन वार्तिक)तत्र च अपि श्र्णु भूयः । अपरोक्षे चे इति एषः प्राक्पुरिसंशब्दनातविनिवृत्तः सर्वत्र अनद्यतनः । तथा सति नञा किं इह कार्यं । स्मादौ अपरोक्षे च इति अकार्यं इति शक्यं एततपि विद्धि । शक्यं हि निवर्तयितुं परोक्षे इति लात्स्मे इति अत्र । स्यातेषा तव बुद्धिः । स्मलक्षणे अपि एवं एव सिद्धं इति । लट्स्मे इति भवेत्न अर्थः । तस्मात्कार्यं परार्थं तु (वार्तिकान्त)। एवं तर्हि ज्ञापयति आचार्यः स्मलक्षणः पुरालक्षणः च अनद्यतने भवतः इति ।
(पाणिनीयसूत्र ३,२।१२०) कि.,१२२।५-१० रो.,२७८ (कात्यायन वार्तिक)ननौ पृष्टप्रतिवचने इति अशिष्यं क्रियासमाप्तेः विवक्षितत्वात्(वार्तिकान्त) । ननौ पृष्टप्रतिवचने इति अशिष्यः लट। किं कारणं । क्रियासमाप्तेः विवक्षितत्वात। क्रियायाः अत्र असमाप्तिः विवक्षिता । एषः नाम न्याय्यः वर्तमानः कालः यत्र क्रियायाः असमाप्तिः भवत। तत्र वर्तमाने लटिति एव सिद्धं । यदि वर्तमाने लटिति एव लट्भवति शतृशानचौ अपि प्राप्नुतः । इष्येते शतृशानचौ : ननु मां कुर्वन्तं पश्य । ननु मां कुर्वाणं पश्य इति ।
(पाणिनीयसूत्र ३,२।१२२) कि.,१२२।१२-२२ रो.,२७८-२७९ (कात्यायन वार्तिक)हशश्वद्भ्यां पुरा(वार्तिकान्त) । हशश्वल्लक्षणात्पुरालक्षणः भवति विप्रतिषेधेन । हशश्वल्लक्षणस्य अवकाशः । इति ह अकरोत। इह ह चकार । शश्वतकरोत। शश्वत्चकार । पुरालक्षणस्य अवकाशः । रथेन अयं पुरा याति । रथेन अयं पुरा अयासीत। इह उभयं प्राप्नोति । रथेन ह शश्वत्पुरा याति । रथेन ह शश्वत्पुरा अयासीत। पुरालक्षणः भवति विप्रतिषेधेन । (कात्यायन वार्तिक)स्मः सर्वेभ्यः विप्रतिषेधेन(वार्तिकान्त) । स्मलक्षणः सर्वेभ्यः भवति विप्रतिषेधेन । हशश्वल्लक्षणात्पुरालक्षणात्च । हशश्वल्लक्षणस्य अवकाशः । इति ह अकरोत। इह ह चकार । शश्वतकरोत। शश्वत्चकार । पुरालक्षणस्य अवकाशः । रथेन अयं पुरा याति । रथेन अयं पुरा अयासीत। स्मलक्षणस्य अवकाशः । धर्मेण स्म कुरवः युध्यन्ते । इह सर्वं प्राप्नोति । न ह स्म वै पुरा शश्वतपरशुवृक्णं दहति । स्मलक्षणः लट्भवति विप्रतिषेधेन ।
(पाणिनीयसूत्र ३,२।१२३) कि.,१२३।२-१२४।१३ रो.,२७९-२८५ (कात्यायन वार्तिक)प्रवृत्तस्य अविरामे शिष्या भवन्ती अवर्तमानत्वात्(वार्तिकान्त) । प्रवृत्तस्य अविरामे शिष्या भवन्ती । इह अधीमहे । इह वसामः । इह पुष्यमित्रं याजयामः । किं पुनः कारणं न सिध्यति । अवर्तमानत्वात। (कात्यायन वार्तिक)नित्यप्रवृत्ते च कालाविभागात्(वार्तिकान्त) । नित्यप्रवृत्ते च शासितव्या भवन्ती । तिष्ठन्ति पर्वताः । स्रवन्ति नद्यः इति । किं पुनः कारणं न सिध्यति । कालाविभागात। इह भूतभविष्यत्प्रतिद्वन्द्वः वर्तमानः कालः । न च अत्र भूतभविष्यन्तौ कालौ स्तः । (कात्यायन वार्तिक)न्याय्या तु आरम्भानपवर्गात्(वार्तिकान्त) । न्याय्या तु एषा वर्तमानकालता । कुतः । आरम्भानपवर्गात। आरम्भः अत्र अनपवृक्तः । एषः नां न्याय्यः वर्तमानः कालः यत्र आरम्भः अनपवृक्तः । (कात्यायन वार्तिक)अस्ति च मुक्तसंशये विरामः(वार्तिकान्त) । यं खलु अपि भवान्मुक्तसंशयं वर्तमानं कालं न्याय्यं मन्यते भुङ्क्ते देवदत्तः इति तेन एतत्तुल्यं । सः अपि हि अवश्यं भुञ्जानः हसति वा जल्पति वा पानीयं वा पिबति । यदि अत्र युक्ता वर्तमानकालता दृश्यते इह अपि युक्ता दृश्यतां । (कात्यायन वार्तिक)सन्ति च कालविभागाः(वार्तिकान्त) । सन्ति खलु अपि कालविभागाः । तिष्ठन्ति पर्वताः । स्थास्यन्ति पर्वताः । तस्थुः पर्वताः । किं शक्यन्ते एते शब्दाः प्रयोक्तुं इति अतः सन्ति कालविभागाः । न अवश्यं प्रयोगातेव । इह भूतभविष्यद्वर्तमानानां राज्ञां याः क्रियाः ताः तिष्ठतेः अधिकरणं । इह तावत्तिष्ठन्ति पर्वताः इति । सम्प्रति ये राजानः तेषां याः क्रियाः तासु वर्तमानासु । स्थास्यन्ति पर्वताः इति । इतः उत्तरं ये राजानः भविष्यन्ति तेषां याः क्रियाः तासु भविष्यन्तीषु । तस्थुः पर्वताः इति । ये राजानः बभूवुः तेषां याः क्रियाः तासु व्भूतासु । अपरः आह : न अस्ति वर्तमानः कालः इति । अपि च अत्र श्लोकानुदाहरन्ति : न वर्तते चक्रं । इषुः न पात्यते । न स्यन्दन्ते सरितः सागराय । कूटस्थः अयं लोकः न विचेष्टा अस्ति । यः हि एवं पश्यति सः अपि अनन्धः । मीमांसकः मन्यमानः युवा मेधाविसम्मतः काकं स्म इह अनुपृच्छति : किं ते पतितलक्षणं । अनागते न पतसि अतिक्रान्ते च काक न । यदि सम्प्रति पतसि सर्वः लोकः पतति अयं । हिमवानपि गच्छति । अनागतं अतिक्रान्तं वर्तमानं इति त्रयं । सर्वत्र गतिः न अस्ति । गच्छति इति किं उच्यते । क्रियाप्रवृत्तौ यः हेतुः तदर्थं यत्विचेष्टितं तत्समीक्ष्य प्रयुञ्जीत गच्छति इति अविचारयन। अप्रः आह । अस्ति वर्तमानः कालः इति । आदित्यगतिवत्न उपलभ्यते । अपि च अत्र श्लोकं उदाहरन्ति । बिसस्य वालाः इव दह्यमानाः न लक्ष्यते विकृतिः सन्निपाते । अस्ति इति तां वेदयन्ते त्रिभभावाः । सूक्ष्मः हि भावः अनुमितेन गम्यः ।
(पाणिनीयसूत्र ३,२।१२४।१) कि.,१२५।२-२० रो.,२८६-२८८ (कात्यायन वार्तिक)लस्य अप्रथमासमानाधिकरणेन अयोगातदेशानुपपत्तिः यथा अन्यत्र(वार्तिकान्त) । लस्य अप्रथमासमानाधिकरणेन अयोगातदेशयोः नुपपत्तिः यथा अन्यत्र । तत्यथा अन्यत्र अपि लस्य अप्रथमासमानाधिकरणेन योगः न भवति । क्व अन्यत्र । लङि । अपचतोदनं देवदत्तः इति । (कात्यायन वार्तिक)योगः इति चेतन्यत्र अपि योगः स्यात्(वार्तिकान्त) । अथ मतं एतत्भवति योगः इति अन्यत्र अपि योगः स्यात। क्व अन्यत्र । लङि । अपचतोदनं देवदत्तः इति । न क्व चित्योगः इति कृत्वा अतः सर्वत्र योगेन भवितव्यं क्व चितयोगः इति कृत्वा सर्वत्र अयोगेन । तत्यथा । समानं ईहमानानां च अधीयानानां च के चितर्थैः युज्यन्ते अपरे न । न च इदानीं कः चितर्थवानिति अतः सर्वैः अर्थवद्भिः शक्यं भवितुं कः चितनर्थकः इति सर्वैः अनर्थकैः । तत्र किं अस्माभिः शक्यं कर्तुं । यत्लोटः अप्रथमासमानाधिकरणेन योगः भवति लङः न स्वाभाविकं एतत। अथ वा आदेशे सामानाधिकरण्यं दृष्ट्वा अनुमानात्गन्तव्यं प्रकृतेः अपि सामानाधिकरण्यं भवति इति । तत्यथा धूमं दृष्ट्वा अग्निः अत्र इति गम्यते त्रिविष्टब्धकं दृष्ट्वा परिव्राजकः इति । विषमः उपन्यासः । प्रत्यक्षः तेन अग्निधूमयोः अभिसम्बन्धः कृतः भवति त्रिविष्टब्धकपरिव्राजकयोः च । सः तद्विदेशस्थं अपि दृष्ट्वा जानाति अग्निः अत्र परिव्राजकः अत्र इति । भवति वै प्रत्यक्षातपि अनुमानबलीयस्त्वं । तत्यथा अलातचक्रं प्रत्यक्षं दृश्यते अनुमानात्च गम्यते न एततस्ति इति । कस्य चित्खलु अपि सकृत्कृतः अभिसम्बन्धः अत्यन्ताय कृतः भवति । तत्यथा वृक्षपर्णयोः अयं वृक्षः इदं पर्णं इति । सः तद्विदेशस्थं अपि दृष्ट्वा जानाति वृक्षस्य इदं पर्णं इति ।
(पाणिनीयसूत्र ३,२।१२४।२) कि.,१२५।२१-१२७।२४ रो.,२९२ किं पुनः अयं पर्युदासः : यतन्यत्प्रथमासमानाधिकरणातिति , आहोस्वित्प्रसज्यप्रतिषेधः : प्रथमासमानाधिकरणे न इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)लटः शतृशानचौ अप्रथमासमानाधिकरणे इति चेत्प्रत्ययोत्तरपदयोः उपसङ्ख्यानम्(वार्तिकान्त) । लटः शतृशानचौ अप्रथमासमानाधिकरणे इति चेत्प्रत्ययोत्तरपदयोः उपसङ्ख्यानं कर्तव्यं । कौर्वतः पाचतः कुर्वद्भक्तिः पचद्भक्तिः कुर्वाणभक्तिः पचमानभक्तिः । अस्तु तर्हि प्रसज्यप्रतिषेधः ।प्रथमासमानाधिकरणे न इति । (कात्यायन वार्तिक)प्रसज्यप्रतिषेधेउत्तरपदे आदेशानुपपत्तिः(वार्तिकान्त) । प्रसज्यप्रतिषेधेउत्तरपदे आदेशयोः अनुपपत्तिः । कुर्वती च असौ भक्तिः च कुर्वद्भक्तिः पचभक्तिः कुर्वाणभक्तिः पचमानभक्तिः इति । ये च अपि एते समानाधिकरणवृत्तयः तद्धिताः तत्र च शतृशानचौ न प्राप्नुतः । कुर्वत्तरः पचत्तरः कुर्वाणतरः पचमानतरः कुर्वद्रूपः पचद्रूपः कुर्वाणरूपः पचमानरूपः कुर्वत्कल्पः पचत्कल्पः कुर्वाणकल्पः पचमानकल्पः इति । (कात्यायन वार्तिक)सिद्धं तु प्रत्ययोत्तरपदयोः च इति वचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । प्रत्ययोत्तरपदयोः च शतृशानचौ भवतः इति वक्तव्यं । (कात्यायन वार्तिक)तत्र प्रत्ययस्य आदेशनिमित्तत्वातप्रसिद्धिः(वार्तिकान्त) । तत्र प्रत्ययस्य आदेशनिमित्तत्वातप्रसिद्धिः । आदेशनिमित्तः प्रत्ययः प्रत्ययनिमित्तः च आदेशः । ततेततितरेतराश्रयं भवति । इतरेतराश्रयाणि च न प्रक्ल्पन्ते । (कात्यायन वार्तिक)उत्तरपदस्य च सुबन्तनिमित्तत्वात्शतृशानचोः अप्रसिद्धिः(वार्तिकान्त) । उत्तरपदस्य च सुबन्तनिमित्तत्वात्शतृशानचोः अप्रसिद्धिः । उत्तरपदनिमित्तः सुप्सुबन्तनिमित्तं च उत्तरपदं । ततेततितरेतराश्रयं भवति । इतरेतराश्रयाणि च न प्रक्ल्पन्ते । (कात्यायन वार्तिक)न वा लकारस्य कृत्त्वात्प्रातिपदिकत्वं तदाश्रयं प्रत्ययविधानम्(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । लकारस्य कृत्त्वात्प्रातिपदिकत्वं । लकारः कृत्कृत्प्रातिपदिकं इति प्रातिपदिकसञ्ज्ञा । तदाश्रयं प्रत्ययविधानं । प्रातिपदिकाश्रया स्वाद्युत्पत्तिः भविष्यति । (कात्यायन वार्तिक)तिङादेशात्सुबुत्पत्तिः (वार्तिकान्त)। तिङादेशः क्रियतां सुबुत्पत्तिः इति परत्वात्सुबुत्पत्तिः भविष्यति । (कात्यायन वार्तिक)तस्मातुत्तरपदप्रसिद्धिः(वार्तिकान्त) । तस्मातुत्तरपदं प्रसिद्धं । उत्तरपदे प्रसिद्धे उत्तरपदे इति शतृशानचौ भविष्यतः । इह अपि तर्हि तिङादेशात्सुबुत्पत्तिः स्यात्पचति पठति इति । अस्ति अत्र विशेषः । नित्यः अत्र तिङादेशः । उत्पन्ने अपि सुपि प्राप्नोति अनुत्पन्ने अपि प्राप्नोति । नित्यत्वात्तिङादेशे कृते सुबुत्पत्तिः न भविष्यति । इह अपि तर्हि नित्यत्वात्तिङादेशः स्यात्कुर्वद्भक्तिः पचद्भक्तिः पचमानभक्तिः इति । अस्ति अत्र विशेषः । शतृशानचौ तिङपवादौ तौ च निमित्तवन्तौ । न च अपवादविषये उत्सर्गः अभिनिविशते । पूर्वं हि अपवादाः अभिनिविशन्ते पश्चातुत्सर्गः । प्रकल्प्य वा अपवादविषयं ततः उत्सर्गः अभिनिविशते । न तावतत्र कदा चित्तिङ्भवति । अपवादौ शतृशानचौ प्रतीक्षते । ततेतत्क्व सिद्धं भवति । यत्र सामान्यातुत्पत्तिः । यत्र हि विशेषाततः इञिति इतरेतराश्रयं एव तत्र भवति । वीक्षमाणस्य अपत्यं वैक्षमाणिः इति । इह च शतृशानचौ प्राप्नुतः । पचतितरां जल्पतितरां पचतिरूपं जल्पतिरूपं पचतिकल्पं जल्पतिकल्पं पचति पठति इति । ततेतत्कथं कृत्वा सिद्धं भवति । (कात्यायन वार्तिक)शतृशानचौ यदि लटः वा(वार्तिकान्त) । यदि शतृशानचौ यदि लटः वा भवतः व्यवस्थितविभाषा च । तेन इह च भविष्यतः कौर्वतः पाचतः कुर्वद्भक्तिः पचद्भक्तिः पचमानभक्तिः कुर्वत्तरः पचत्तरः पचमानतरः कुर्वद्रूपः पचद्रूपः पचमानरूपः कुर्वत्कल्पः पचत्कल्पः पचमानकल्पः पचन्पठनिति च लटः शतृशानचौ । इह च न भविष्यतः पचतितरां जल्पतितरां पचतिरूपं जल्पतिरूपं पचतिकल्पं जल्पतिकल्पं पचति पठति इति च लटः शतृशानचौ । तत्तर्हि वावचनं कर्तव्यं । न कर्तव्यं । प्रकृतं अनुवर्तते । क्व प्रकृतं । नन्वोः विभाषा इति । यदि ततनुवर्तते वर्तमाने लट इति लटपि विभाषा प्राप्नोति । सम्बन्धं अनुवर्तिष्यते । नन्वोः विभाषा । पुरि लुङ्च अस्मे विभाषा । वर्तमाने लट्पुरि लुङ्च अस्मे विभाषा । लटः शतृशानचौ विभाषा । पुरि लुङ्च अस्मे इति निवृत्तं । न तर्हि इदानीं अप्रथमासमानाधिकरणे इति वक्तव्यं । वक्तव्यं च । किं प्रयोजनं । नित्याऋथं । अप्रथमासमानाधिकरणे नित्यौ यथा स्यातां । क्व तर्हि इदानीं विभाषा । प्रथमासमानाधिकरणे । पचन्पचति पचमानः पचते इति ।
(पाणिनीयसूत्र ३,२।१२६) कि.,१२७।२६-१२८।२३ रो.,२९२-२९४ (कात्यायन वार्तिक)लक्षणहेत्वोः क्रियायाः गुणे उपसङ्ख्यानम्(वार्तिकान्त) । लक्षणहेत्वोः क्रियायाः गुणे उपसङ्ख्यानं कर्तव्यं । तिष्ठन्मूत्रयति । गच्छन्भक्षयति । (कात्यायन वार्तिक)कर्तुः च लक्षणयोः पर्यायेण अचयोगे(वार्तिकान्त) । कर्तुः च लक्षणयोः पर्यायेण अचयोगे उपसङ्ख्यानं कर्तव्यं । यः अधीयानः आस्ते सः देवदत्त्तः । यः आसीनः अधीते सः देवदत्तः । अचयोगे इति किमर्थं । यः आस्ते च अधीते च सः चैत्रः । (कात्यायन वार्तिक)तत्त्वान्वाख्याने च(वार्तिकान्त) । तत्त्वान्वाख्याने च उपसङ्ख्यानं कर्तव्यं । शयाना वर्धते दूर्वा । आसीनं वर्धते बिसं इति । (कात्यायन वार्तिक)सदादयः च बहुलम्(वार्तिकान्त) । सदादयः च बहुलं इति वक्तव्यं । सन्ब्राह्मणः अस्ति ब्राह्मणः । विद्यते ब्राह्मणः विद्यमानः ब्राह्मणः इति । (कात्यायन वार्तिक)इङ्जुहोत्योः वावचनम्(वार्तिकान्त) । इङ्जुहोत्योः वा इति वक्तव्यं । अधीते अधीयानः । जुहोति जुह्वत। (कात्यायन वार्तिक)माङि आक्रोशे (वार्तिकान्त)। माङि आक्रोशे इति वक्तव्यं । मा पचन। मा पचमानः । तत्तर्हि वक्तव्यं । न वक्तव्यं । लक्षणहेत्वोः क्रियायाः इति एव सिद्धं । इह तावत्तिष्ठन्मूत्रयति इति । तिष्ठतिक्रिया मूत्रयतिक्रियायाः लक्षणं । गच्छन्भक्षयति इति । गच्छतिक्रिया भक्षयतिक्रियायाः लक्षणं । यः अधीयानः आस्ते सः देवदत्त्तः इति । अध्ययनक्रिया आसनक्रियायाः लक्षणं । यः आसीनः अधीते सः देवदत्तः इति । आसिक्रिया अध्ययनक्रियायाः लक्षणं । इदं तर्हि प्रयोजनं । अचयोगे इति वक्ष्यामि इति । इह मा भूत। यः आस्ते च अधीते च सः चैत्रः इति । एततपि न अस्ति प्रयोजनं । न एतत्क्रियायाः लक्षणं । किं तर्हि । कर्तृलक्षणं एतत। शयाना वर्धते दूर्वा इति । शेतिक्रिया वृद्धिक्रियायाः लक्षणं । आसीनं वर्धते बिसं इति । आसिक्रिया वृद्धिक्रियायाः लक्षणं । सदादयः च बहुलं इङ्जुहोत्योः वा माङि आक्रोशे इति वक्तव्यं एव।
(पाणिनीयसूत्र ३,२।१२७।१) कि.,१२८।२५-१२९।२३ रो.,२९४-२९६ तौग्रहणं किमर्थं । शतृशानचौ प्रतिनिर्दिश्येते । न एततस्ति प्रयोजनं । प्रकृतौ शतृशानचौ अनुवर्तिष्येते । क्व प्रकृतौ । लटः शतृसानचौ अप्रथमासमानाधिकरणे इति । अतः उत्तरं पठति । (कात्यायन वार्तिक)तौ सतिति वचनं असंसर्गार्थं (वार्तिकान्त)टौ ग्रहणं क्रियते असंसर्गार्थं । असंसक्तयोः एतैः विशेषैः शतृशानचोः सञ्ज्ञा यथा स्यात। ननु च एते विशेषाः निवर्तेरन। यदि अपि एते विशेषाः निवर्तन्ते अयं तु खलु वर्तमानः कालः अवश्यं उत्तरार्थः अनुवर्त्यः । तस्मिननुवर्तमाने वर्तमानकालविहितयोः एव शतृशानचोः सत्स्ञ्ज्ञा स्यात। भूतभविष्यकालविहितयोः न स्यात। किं पुनः भूतभविष्यकालविहितयोः सत्स्ञ्ज्ञावचने प्रयोजनं । पूरणगुणसुहितसतिति । ब्राह्मणस्य पक्ष्यन। ब्राह्मणस्य पक्ष्यमाणः । अथ क्रियमाणे अपि तौग्रहणे कथं एव असंसक्तयोः एतैः विशेषैः सञ्ज्ञा लभ्या । लभ्या इति आह । कथं । तौ इति शब्दतः सतिति योगे क्रियमाणे तौ ग्रहणं योगाङ्गं जायते । सति च योगाङ्गे योगविभागः करिष्यते । तौ । तौ एतौ शतृशानचौ धातुमात्रात्परस्य प्रत्ययस्य भवतः । ततः सत। सत्स्ञ्ज्ञौ भवतौ शतृशानचौ । इह अपि तर्हि प्राप्नुतः । कारकः हारकः इति । (कात्यायन वार्तिक)अवधारणं लृटि विधानम्(वार्तिकान्त) । लृतः सत्वा इति एतत्नियमार्थं भविष्यति । लृटः एव धातुमात्रात्परस्य न अन्यस्य इति । कैमर्थ्यक्यात्नियमः भवति । विधेयं न अस्ति इति कृत्वा । इह च अस्ति विधेयं । किं । नित्यौ शतृशानचौ प्राप्तौ । तौ विभाषा विधेयौ । तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः । (कात्यायन वार्तिक)योगविभागतः च विहितं सत्(वार्तिकान्त) । एवं तर्हि योगविभागः करिष्यते । लृटः सत। लृटः सत्सञ्ज्ञौ भवतः । किमर्थं इदं । नियमार्थं । लृटः एव धातुमात्रात्परस्य न अन्यस्य इति । ततः वा । वा च लृटः शतृशानचौ सत्सञ्ज्ञौ भवतः । तत्र अयं अपि अर्थः । सद्विधिः नित्यं अप्रथमासमानाधिकरणे इति वक्ष्यति । तत्न वक्तव्यं भवति ।
(पाणिनीयसूत्र ३,२।१२७।२) कि.,१२९।२४-१३०।१९ रो.,२९६-२९७ अथ यौ एतौ उत्तरौ शतानौ किं एतौ लादेशौ आहोस्वितलादेशौ । कः च अत्र विशेषः । (कात्यायन वार्तिक)उत्तरयोः लादेशे वावचनम्(वार्तिकान्त) । उत्तरयोः लादेशे वा इति वक्तव्यं । पवमानः यजमानः । पवते यजते इति अपि यथा स्यात। (कात्यायन वार्तिक)साधनाभिधानम्(वार्तिकान्त) । साधनाभिधानं च प्राप्नोति । लः कर्मणि च भावे च अकर्मकेभ्यः इति भावकर्मणोः अपि प्राप्नुतः । (कात्यायन वार्तिक)स्वरः(वार्तिकान्त) । स्वरः च साध्यः । कति इह पवमानाः । अदुपदेशात्लसार्वधातुकं अनुदात्तं भवति इति एषः स्वरः प्राप्नोति । (कात्यायन वार्तिक)उपग्रहप्रतिषेधः च(वार्तिकान्त) । उपग्रहस्य च प्रतिषेधः वक्तव्यः । कति इह निघ्नानाः । तङानौ आत्मनेपदं इति आत्मनेपदसञ्ज्ञा प्राप्नोति । स्तां तर्हि अलादेशौ । (कात्यायन वार्तिक)अलादेशे षष्ठीप्रतिषेधः(वार्तिकान्त) । अलादेशे षष्ठीप्रतिषेधः वक्तव्यः । सोमं पवमानः । नडं आघ्नानः । अधीयन्पारायणं । लप्रयोगे न इति प्रतिषेधः न प्राप्नोति । मा भूतेवं । तृनिति एव भविष्यति । कथं । तृनिति न इदं प्रत्ययग्रहणं । किं तर्हि । प्रत्याहारग्रहणं । क्व सन्निविष्टाणां प्रत्याहारः । लटः शतृ इति अतः आरभ्य आ तृनः नकारात। यदि प्रत्याहारग्रहणं चौरस्य द्विषन्वृषलस्य द्विषनत्र अपि प्राप्नोति । (कात्यायन वार्तिक)द्विषः शतुः वावचनम्(वार्तिकान्त) । द्विषः शतुः वा इति वक्तव्यं । तत्च अवश्यं वक्तव्यं प्रत्ययग्रहणे सति प्रतिषेधार्थं । ततेव प्रत्याहारग्रहणे सति विध्यर्थं भविष्यति।
(पाणिनीयसूत्र ३,२।१३५) कि.,१३०।२१-१३१।१३ रो.,२९८-३०० (कात्यायन वार्तिक)तृन्विधौ ऋत्विक्षु च अनुपसर्गस्य(वार्तिकान्त) । तृन्विधौ ऋत्विक्षु च अनुपसर्गस्य इति वक्तव्यं । होता पोता । अनुपसर्गस्य इति किमर्थं । प्रशास्ता प्रतिहर्ता । (कात्यायन वार्तिक)नयतेः षुक्च(वार्तिकान्त) । नयतेः षुक्वक्तव्यः । तृन्च प्रत्ययः वक्तव्यञ। नेष्टा । (कात्यायन वार्तिक)न वा धात्वन्यत्वात्(वार्तिकान्त)। न वा वक्तव्यं । किं कारणं । धात्वन्यत्वात। धात्वन्तरं नेषतिः । कथं ज्ञायते । (कात्यायन वार्तिक)नेषतु नेष्टातिति दर्शनात्(वार्तिकान्त) । नेषतु नेष्टातिति प्रयोगः दृश्यते । इन्द्रः नः तेन नेषतु । गाः वः नेष्टात। (कात्यायन वार्तिक)त्विषेः देवतायां अकारः च उपधायाः अनिट्वं च(वार्तिकान्त) । त्विषेः देवतायां तृन्वक्तव्यः अकारः च उपधायाः अनिट्वं च इति । त्वष्टा । किं पुनः इदं त्विषेः एव अनिट्वं । न इति आह । यत्च अनुक्रान्तं यत्च अनुक्रंस्यते सर्वस्य एषः शेषः अनिट्वं इति । (कात्यायन वार्तिक)क्षदेः च युक्ते(वार्तिकान्त) । क्षदेः च युक्ते तृन्वक्तव्यः । क्षत्ता । (कात्यायन वार्तिक)छन्दसि तृच्च(वार्तिकान्त) । छन्दसि तृच्च तृन्च वक्तव्यः । क्षत्तृभ्यः सङ्ग्रहीतृभ्यः । क्षत्तृभ्यः सङ्ग्रहीतृभ्यः ।
(पाणिनीयसूत्र ३,२।१३९) कि.,१३१।१५-१३२।२० रो.,२९९-३०० (कात्यायन वार्तिक)स्नोः कित्त्वे स्थः ईकार्प्रतिषेधः(वार्तिकान्त) । स्नोः कित्त्वे स्थः ईकार्प्रतिषेधः वक्तव्यः । स्थास्नुः इति । घुमास्थागापाजहातिसां हलि इति ईत्त्वं प्राप्नोति । एवं तर्हि न कित्करिष्यते । (कात्यायन वार्तिक)अकिति गुणप्रतिषेधः(वार्तिकान्त) । यदि अकित्गुणप्रतिषेधः वक्तव्यः । जिष्णुः इति । (कात्यायन वार्तिक)भुवः इट्प्रतिषेधः च(वार्तिकान्त) । भुवः इट्प्रतिषेधः च वक्तव्यः । किं च अन्यत। गुणप्रतिषेधः च । भूष्णुः इति । अस्तु तर्हि कित। ननु च उक्तं स्नोः कित्त्वे स्थः ईकार्प्रतिषेधः वक्तव्यः इति । न एषः दोषः । (कात्यायन वार्तिक)स्थादंशिभ्यां स्नुः छन्दसि(वार्तिकान्त) । स्थादंशिभ्यां स्नुः छन्दसि वक्तव्यः । स्थास्नु जङ्गमं । दङ्क्ष्णवः पशवः इति । सः इदानीं स्थः अविशेषेण विधास्यते । सूत्रं तर्हि भिद्यते । यथान्यासं अस्तु। ननु च उक्तं स्नोः कित्त्वे स्थः ईकार्प्रतिषेधः वक्तव्यः इति । एवं तर्हि गित्करिष्यते । (कात्यायन वार्तिक)स्थोः गित्त्वात्न स्थः ईकारः(वार्तिकान्त) । स्थोः गित्त्वात्स्थः ईकारः न भविष्यति । किं कारणं । (कात्यायन वार्तिक)क्ङितोः ईत्त्वशासनात्(वार्तिकान्त) । क्ङितोः ईत्त्वं शिष्यते । इह तर्हि जिष्णुः इति गुणः प्राप्नोति । (कात्यायन वार्तिक)गुणाभावः त्रिषु स्मार्यः(वार्तिकान्त) । गुणाभावः त्रिषु स्मर्तव्यः । गिति किति ङिति इति । तत्गकारग्रहणं कर्तव्यं । न कर्तव्यं । क्रियते न्यासे एव । ककारे गकारः चर्त्वभूतः निर्दिश्यते । क्क्ङिति च इति । इह तर्हि भूष्णुः इति श्र्युकः किति इति इट्प्रतिषेधः न प्राप्नोति । (कात्यायन वार्तिक)श्र्युको अनिट्त्वं गकोः इतोः(वार्तिकान्त) । श्र्युकः अनिट्त्वं गकारककारयोः इति वक्तव्यं । तत्गकारग्रहणं कर्तव्यं । न कर्तव्यं । क्रियते न्यासः एव । ककारे गकारः चर्त्वभूतः निर्दिश्यते । श्र्युकः क्किति इति । यदि एवं चर्त्वस्य असिद्धत्वात्हशि इति उत्त्वं प्राप्नोति । सौत्रः निर्देशः । अथ वा असंहितया निर्देशः करिष्यते । श्र्युकः क्किति इति । (कात्यायन वार्तिक)स्थोः गित्त्वात्न स्थः ईकारः क्ङितोः ईत्त्वशासनात। गुणाभावः त्रिषु स्मार्यः । श्र्युको अनिट्त्वं गकोः इतोः (वार्तिकान्त)।
(पाणिनीयसूत्र ३,२।१४१) कि.,१३२।२२-१३३।४ रो.,३०१ घिनणयं वक्तव्यः । घिनुणि हि सति शमिनौ शमिनः तमिनौ तमिनः उगिदचां सर्वनामस्थाने अधातोः इति नुं प्रसज्येत । न एषः दोषः । झल्ग्रहणं तत्र चोदयिष्यति । इह तर्हि : शमिनितरा शमिनीतरा तमिनितरा तमिनीतरा : उगितः घादिषु नद्याः अन्यतरस्यां ह्रस्वः भवति इति अन्यरतस्यां ह्रस्वत्वं प्रसज्येत । इष्यते एव ह्रस्वत्वं । (कात्यायन वार्तिक)घिनुणकर्मकाणाम्(वार्तिकान्त) । घिनुणकर्मकाणां इति वक्तव्यं । इह मा भूत। सम्पृणक्ति शाकं इति । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । अनभिधानातिति ।
(पाणिनीयसूत्र ३,२।१४६) कि.,१३३।७-१९ रो.,३०१-३०२ किमर्थं निन्दादिभ्यः वुञ्विधीयते न ण्वुला एव सिद्धं । न हि अस्ति विशेषः निन्दादिभ्यः ण्वुलः वा वुञः वा । ततेव रूपं सः एव स्वरः । (कात्यायन वार्तिक)वुञं अनेकाचः(वार्तिकान्त) । वुञं अनेकाचः प्रयोजयन्ति । असूयकः । अथ ये अत्र एकाचः पठ्यन्ते तेषां ग्रहणं किमर्थं न तेषां ण्वुला एव सिद्धं । न सिध्यति । अयं तच्छीलादिषु तृन्विधीयते । सः विशेषविहितः सामान्यविहितं ण्वुलं बाधेत । वासरूपन्यायेन ण्वुलपि भविष्यति । अतः उत्तरं पठति । (कात्यायन वार्तिक)निन्दादिभ्यः वुञ्वचनं अन्येभ्यः ण्वुलः प्रतिषेधार्थम्(वार्तिकान्त) । निन्दादिभ्यः वुञ्वचनं क्रियते ज्ञापकार्थं । किं ज्ञाप्यं । एतत्ज्ञापयति आचार्यः तच्छीलादिषु वासरूपन्यायेन अन्येभ्यः ण्वुल्न भवति इति । (कात्यायन वार्तिक)तृजादिप्रतिषेधाऋथं वा(वार्तिकान्त) । अथ वा एतत्ज्ञापयति आचार्यः । तच्छीलादिषु सर्वे एव तृजासयः वासरूपेण न भवन्ति इति ।
(पाणिनीयसूत्र ३,२।१५०) कि.,१३३।२१-१३४।९ रो.,३०२-३०३ (कात्यायन वार्तिक)पदिग्रहणं अनर्थकं अनुदात्तेतः च हलादेः इति सिद्धत्वात्(वार्तिकान्त) । पदिग्रहणं अनर्थकं । किं कारणं । अनुदात्तेतः च हलादेः इति एव अत्र युच्सिद्धः । न सिध्यति । अयं पदेः उकञ्विधीयते लषपदपद्स्थाभूवृषहनकमगमश्®भ्यः उकञिति । सः विशेषविहितः सामान्यविहितं युचं बाधेत । वासरूपन्यायेन युचपि भविष्यति । (कात्यायन वार्तिक)असरूपनिवृत्त्यर्थं तु(वार्तिकान्त) । असरूपनिवृत्त्यर्थं तर्हि पदिग्रहणं क्रियते । एतत्ज्ञापयति आचार्यः ताच्छीलिकेषु ताच्छिलिकाः वासरूपेण न भवन्ति इति । यदि एतत्ज्ञाप्यते दूददीपदीक्षः च इति दीपग्रहणं अनर्थकं । अयं दीपेः रः विधीयते । नमिकम्पिस्म्यजसहिंसदीपः रः इति । सः विशेषविहितः सामान्यविहितं युचं बाधिष्यते । एवं तर्हि सिद्धे सति यत्दीपग्रहणं करोति तत्ज्ञापयति आचार्यः भवति युचः रेण समावेशः इति । किं एतस्य ज्ञापने प्रयोजनं । कम्रा कन्या कमना कन्या इति एतत्सिद्धं भवति ।
(पाणिनीयसूत्र ३,२।१५८) कि.,१३४।११-१६ रो.,३०३-३०४ किमर्थं आलुचुच्यते न लुशेव उच्येत । का रूपसिद्धिः : स्पृहयालुः गृहयालुः । शपि कृते अतः दीर्घः यञि इति दीर्घत्वं भविष्यति । एवं तर्हि सिद्धे सति यतालुचं शास्ति तत्ज्ञापयति आचार्यः अन्येभ्यः अपि अयं भवति इति । किं एतस्य ज्ञापने प्रयोजनं । आलुचि शीङ्ग्रहणं चोदयिष्यति । तत्न कर्तव्यं भवति । (कात्यायन वार्तिक)आलुचि शीङ्ग्रहणम्(वार्तिकान्त) । आलुचि शीङ्ग्रहणं कर्तव्यं । शयालुः ।
(पाणिनीयसूत्र ३,२।१७१) कि.,१३४।१८-१३५।१२ रो.,३०४-३०५ किमर्थं किकिनोः कित्त्वं उच्यते न असंयोगात्लिट्कितिति एव सिद्धं । (कात्यायन वार्तिक)किकिनोः कित्त्वं ®कारगुणप्रतिषेधाऋथम्(वार्तिकान्त) । किकिनोः कित्त्वं क्रियते ®कारगुणप्रतिषेधाऋथं । अयं ®कारारान्तानां लिटि गुणः प्रतिषेधविषये आरभ्यते ऋच्छत्य्®त्रां इति । सः यथा इह भवति आतस्तरतुः अतस्तरुः इति एवं इह अपि प्रसज्येत मित्रावरुणौ ततुरिः दूरे हि अध्वा जगुरिः इति । सः पुनः कित्त्वे बाध्यते । (कात्यायन वार्तिक)उत्सर्गः छन्दसि सदादिभ्यः दर्शनात्(वार्तिकान्त) । उत्सर्गः छन्दसि किकिनौ वक्तव्यौ । किं प्रयोजनं । सदादिभ्यः दर्शनात। सदादिभ्यः हि किकिनौ दृश्येते । सदिमनिरमिनमिविचीनां सेदिः मेनिः रेमिः । नेमिः चक्रं इव अभवत। विविचिं रत्नधातमं । (कात्यायन वार्तिक)भाषायां धाञ्कृसृजनिनिमिभ्यः (वार्तिकान्त)। भाषायां धाञ्कृसृजनिनिमिभ्यः किकिनौ वक्तव्यौ । धाञ। दधिः । धाञ। कृ । चक्रिः । कृ । सृ । सस्रिः । सृ । जनि । जज्ञिः । जनि । नमि । नेमिः । (कात्यायन वार्तिक)सासहिवावहिचाचलिपापतीनां निपातनम्(वार्तिकान्त) । सासहिवावहिचाचलिपापतीनां निपातनं कर्तव्यं । वृषा सहमानं सासहिः । वावहिः चाचलिः पापतिः । अपरः आह : सहिवहिचलिपतिभ्यः यङन्तेभ्यः किकिनौ वक्तव्यौ । एतानि एव उदाहरणानि ।
(पाणिनीयसूत्र ३,२।१७४) कि.,१३५।१४ रो.,३०५ भियः क्रुकनपि वक्तव्यः । भीरुकः ।
(पाणिनीयसूत्र ३,२।१७८।१) कि.,१३५।१६-१३६।४ रो.,३०५-३०६ किमर्थं इदं उच्यते न क्विपन्येभ्यः अपि दृश्यते इति एव सिद्धं । (कात्यायन वार्तिक)क्विब्विधिः अनुपपदार्थः(वार्तिकान्त) । अनुपपदार्थः अयं आरम्भः । पचेः पक। भिदेः भित। छिदेः छित। अथ यः अत्र सोपसर्गः तस्य ग्रहणं किमर्थं न तेन एव सिद्धं । न सिध्यति । इह के चिता क्वेः इति सूत्रं पठन्ति के चित्प्राक्क्वेः इति । तत्र ये आ क्वेः इति पठन्ति तैः क्विपपि आक्षिप्तः भवति । तत्र तच्छीलादिषु अर्थेषु किव्प्यथा स्यात। न एततस्ति प्रयोजनं । यः एव असौ अविशेषविहितः सः तच्छीलादिषु भविष्यति अन्यत्र च । न सिध्यति । अयं तच्छीलादिषु तृन्विधीयते । सः विशेषविहितः सामान्यविहितं ण्वुलं बाधेत । वासरूपन्यायेन ण्वुलपि भविष्यति । न सिध्यति । इदानीं एव हि उक्तं तच्छीलादिषु वर्थेषु वासरूपेण तृजादयः न भवन्ति इति । क्विप्च अपि तृजादिः ।
(पाणिनीयसूत्र ३,२।१७८।२) कि.,१३६।४-२० रो.,३०६-३०७ (कात्यायन वार्तिक)वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घः च(वार्तिकान्त) । वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घत्वं च वक्तव्यं क्विप्च । वचि । वाक। वचि । प्रच्छि । शब्दप्राट्प्रच्छि । आयतस्तु । आयतस्तूः । आयतस्तु । कटप्रु । कटप्रूः । कटप्रु । जु । जूः । जु । श्रि । श्रीः । अपरः आह : वचिप्रच्छ्योः असम्प्रसारणं च इति वक्तव्यं । तत्तर्हि वक्तव्यं । न वक्तव्यं । दीर्घवचनसामर्थ्यात्सम्प्रसारणं न भविष्यति । इदं इह सम्प्रधार्यं । दीर्घत्वं क्रियतां सम्प्रसारणं इति । किं अत्र कर्तव्यं । परत्वात्सम्प्रसारणं । अन्तरङ्गं दीर्घत्वं । का अन्तरङ्गता । प्रत्ययोत्पत्तिसन्नियोगेन दीर्घत्वं उच्यते उत्पन्ने प्रत्यये सम्प्रसारणं । तत्र अन्तरङ्गत्वात्दीर्घत्वे कृते सम्प्रसारणं । प्रसारणपरपूर्वत्वे कृते कार्यकृतत्वात्पुनः दीर्घत्वं न स्यात। तस्मात्सुष्ठु उच्यते दीर्घवचनसामर्थ्यात्सम्प्रसारणं न भविष्यति इति । (कात्यायन वार्तिक)द्युतिगमिजुहोतीनां द्वे च(वार्तिकान्त) । द्युतिगमिजुहोतीनां द्वे च इति वक्तव्यं । दिद्युत। द्युति । गमि । जगत। गमि । जुहोति । जुहोतेः दीर्घः च । जुहूः । दृणातेः ह्रस्वः च द्वे च क्विप्च इति वक्तव्यं । ददृत। जुहूः जुहोतेः ह्वयतेः वा । ददृत्दृणातेः दीर्यतेः वा । जूः ज्वरतेः जीर्यतेः वा । (कात्यायन वार्तिक)धायतेः सम्प्रसारणं च(वार्तिकान्त) । धायतेः सम्प्रसारणं च क्विप्च वक्तव्यः । धीः ध्यायतेः वा दधातेः वा ।
(पाणिनीयसूत्र ३,२।१८०) कि.,१३६।२१-१३७।२ रो.,३०७-३०८ (कात्यायन वार्तिक)डुप्रकरणे मितद्र्वादिभ्यः उपसङ्ख्यानं धातुविधितुक्प्रतिषेधार्थम्(वार्तिकान्त) । डुप्रकरणे मितद्र्वादिभ्यः उपसङ्ख्यानं कर्तव्यं । किं प्रयोजनं । धातुविधितुक्प्रतिषेधार्थं । धातुविधेः तुकः च प्रतिषेधः यथा स्यात। मित्रद्रुः मितद्रू मितद्रवः । अचि श्नुधातुभ्रुवां इति उवङादेशः मा भूत। इह च मितद्र्वा मितद्र्वे न ऊङ्धात्वोः इति प्रतिषेधः मा भूत। तुग्विधिः । मितद्रुः । ह्रस्वस्य पिति कृति तुक्भवति इति तुक्मा भूत।
(पाणिनीयसूत्र ३,२।१८८) कि.,१३७।४-८ रो.,३०८ (कात्यायन वार्तिक)शीलितः रक्षितः क्षान्तः आक्रुष्टः जुष्टः इति अपि रुष्टः च रुषितः च उभौ अभिव्याहृतः इति अपि हृष्टतुष्टौ तथा कान्तः तथा उभौ संयोतोद्यतौ । कष्टं भविष्यति इति आहुः । अमृताः पूर्ववत्स्मृताः (वार्तिकान्त)। न म्रियन्ते अमृताः ।
(पाणिनीयसूत्र ३,३।१) कि.,१३८।२ - २२ रो.।३०९-३१२ बहुलवचनं किमर्थं । (कात्यायन वार्तिक)बाहुलकं प्रकृतेः तनुदृष्टेः(वार्तिकान्त) । तन्वीभ्यः प्रकृतिभ्यः उणादयः दृश्यन्ते । न सर्वाभ्यः दृश्यन्ते । (कात्यायन वार्तिक)प्रायसमुच्चयादपि तेषाम्(वार्तिकान्त) । प्रायेण खलु अपि ते समुच्चिताः न सर्वे समुच्चिताः । (कात्यायन वार्तिक)कार्यसशेषविधेः च ततुक्तम्(वार्तिकान्त) । कार्याणि खलु अपि सशेषाणि कृतानि न सर्वाणि लक्षणेन परिसमाप्तानि । किं पुनः कारणं तन्वीभ्यः प्रकृतिभ्यः उणादयः दृश्यन्ते न सर्वाभ्यः दृश्यन्ते । किं च कारणं प्रायेण समुच्चिताः न सर्वे समुच्चिताः । किं च कारणं कार्याणि सशेषाणि कृतानि न सर्वाणि लक्षणेन परिसमाप्तानि । (कात्यायन वार्तिक)नैगमरूडिभवं हि सुसाधु(वार्तिकान्त) । नैगमाः च रूढिभवाः च औणादिकाः सुसाधवः कथं स्युः । (कात्यायन वार्तिक)नाम च धातुजं आह निरुक्ते(वार्तिकान्त) । नाम खलु अपि धातुजं । एवं आहुः नैरुक्ताः । (कात्यायन वार्तिक)व्याकरणे शकटस्य च तोकम्(वार्तिकान्त) । वैयाकरणानां च शाकटायनः आह धातुजं नाम इति । अथ यस्य विशेषपदार्थः न समुत्तितः कथं तत्र भवितव्यं । (कात्यायन वार्तिक)यत्न विशेषपदार्थसमुत्तं प्रत्ययतः प्रकृतेः च ततूह्यं (वार्तिकान्त)। प्रकृतिं दृष्ट्वा प्रत्ययः ऊहितव्यः प्रत्ययं च दृष्ट्वा प्रकृतिः ऊहितव्या । (कात्यायन वार्तिक)सञ्ज्ञासु धातुरूपाणि प्रत्ययाः च ततः परे कार्यात्विद्यातनुबन्धं । एतत्शास्त्रं उणादिषु(वार्तिकान्त) ।
(पाणिनीयसूत्र ३,३।३) कि.,१३९।२-२१ रो.,३१२-३१३ (कात्यायन वार्तिक)भविष्यति इति अनद्यतने उपसङ्ख्यानम्(वार्तिकान्त) । भविष्यति इति अनद्यतने उपसङ्ख्यानं कर्तव्यं । श्वः ग्रामं गमी । किं पुनः कारणं न सिध्यति । लृटा अयं निर्देशः कृइयते । लृट्च अनद्यतने लुटा बाध्यते । तेन लृटः एव विषये एते प्रत्ययाः स्युः । लुटः विषये न स्युः । (कात्यायन वार्तिक)इतरेतराश्रयं च(वार्तिकान्त) । इतरेतराश्रयं च भवति । का इतरेतराश्रयता । भविष्यत्कालेन शब्देन निर्देशः क्रियते । निर्देशोत्तरकालं च भ्भविष्यत्कालता । ततेततितरेतराश्रयं भवति । इतरेतराश्रयाणि च न प्रकल्पन्ते । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । एकं तावतुक्तं न वा अपवादस्य निमित्ताभावातनद्यतने हि तयोः विधानं इति । अपरं अपि उक्तं अव्ययनिर्देशात्सिद्धं इति। अव्ययवता शब्देन निर्देशः करिष्यते । अवर्तमाने अभूते इति । सः तर्हि अव्ययवता शब्देन निर्देशः कर्तव्यः । न कर्तव्यः । अव्ययं एषः भविष्यतिशब्दः न एषा भवतेः लृट। कथं अव्ययत्वं । विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा । निपातं अव्ययं इति अवययसञ्ज्ञा । अथ अपि भवतेः लृटेवं अपि अवययं एव । कथं न व्येति इति अव्ययं । क्व पुनः न व्येति । एतौ कालविशेषौ भूतवर्तमानौ । स्वभावतः भविष्यति एव वर्तते । यदि तत्रि न व्येति इति अव्ययं । न वा तद्विधानस्य अन्यत्र अभावात। न वा भविष्यदाधिकारेण अर्थः । किं कारणं । तद्विधानस्य अन्यत्र अभावात। ये अपि एते इतः उत्तरं प्रत्ययाः शिष्यन्ते एते अपि एतौ कालविशेषौ न वियन्ति भूतवर्तमानौ । स्वभावतः एव ते भविष्यति एव वर्तन्ते । अतः उत्तरं पठति । (कात्यायन वार्तिक)भविष्यदधिकारस्य प्रयोजनं यावत्पचति पुरा पचति इति अनपशब्दत्वाय(वार्तिकान्त) ।
(पाणिनीयसूत्र ३,३।४) कि.,१३९।२३-१४०।४ रो.,३१४ (कात्यायन वार्तिक)यावत्पुरादिषु लड्विधिः लुटः पूर्वविप्रतिषिद्धं (वार्तिकान्त)। यावत्पुरादिषु लड्विधिः भवति लुटः पूर्वविप्रतिषेधेन । यावत्पुरानिपातयोः लट्भवति इति अस्य अवकाशः । यावत्भुङ्क्ते । पुरा भुङ्क्ते । लुटः अवकाशः । श्वः कर्ता । श्वः अध्येता । इह उभयं प्राप्नोति । यावत्श्वः भुङ्क्ते । पुरा श्वः भुङ्क्ते । लट्भवति विप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । अनद्यतने लुटिति अत्र यावत्पुरानिपातयोः लटिति अनुवर्तिष्यते ।
(पाणिनीयसूत्र ३,३।७) कि.,१४०।६-८ रो.,३१४ किमर्थं इदं उच्यते न लिप्स्यमानसिद्धिः अपि लिप्सा एव तत्र किंवृत्ते लिप्सायां इति एव सिद्धं । अकिंवृत्तार्थः अयं आरम्भः । यः भवतां ओदनं ददाति सः स्वर्गं लोकं गच्छति । यः भवतां ओदनं दास्यति सः स्वर्गं लोकं गमिष्यति ।
(पाणिनीयसूत्र ३,३।१०) कि.,१४०।१०-१४१।६ रो.,३१४-३१६ किमर्थं क्रियायां उपपदे क्रियार्थायां ण्वुल्विधीयते न अविशेषेण विहितः ण्वुल्सः क्रियायां उपपदे क्रियार्थायां अन्यत्र च भविष्यति । ण्वुलि सकर्मकग्रहणं चोदितं । अकरमकार्थः अयं आरम्भः । आसकः व्रजति । शायकः व्रजति । प्रत्याख्यातं तत्न वा धातुमात्रात्दर्शनात्ण्वुलः इति । एवं तर्हि तृजादिषु वर्तमानकालोपादानं चोदितं । अवर्तमानकालार्थः अयं आरम्भः । ततपि प्रत्याख्यातं न वा कालमात्रे दर्शनातन्येषां इति । इदं तर्हि प्रयोजनम। अकेनोः भविष्यदाधम्र्ण्ययोः इति अत्र षष्ठ्याः प्रतिषेधः उक्तः । सः यथा स्यात। एततपि न अस्ति प्रयोजनं । यः एव असौ अविशेषविहितः सः यदा भविष्यति भविष्यति तदा अस्य प्रतिषेधः भविष्यति । एवं तर्हि भविष्यदधिकारविहितस्य प्रतिषेधः यथा स्यात। इह मा भूतः अङ्ग यजतां । लप्स्यन्ते अस्य याजकाः । ये एनं याजययिष्यन्ति इति । न एषः भविष्यत्कालः । कः तर्हि । भूतकालः । कथं तर्हि भविष्यत्कालता गम्यते । धातुसम्बन्धे प्रत्ययाः इति । यः तर्हि न धातुसम्बन्धः । इमे अस्य याजकाः । इमे अस्य लावकाः इति । एषः अपि भूतकालः । कथं तर्हि भविष्यत्कालता गम्यते । सम्बन्धात। सः च तावत्तैः अयाजितः भवति । तस्य च तावत्तैः यवाः अलूनाः भवन्ति । उच्यते च । इदं तर्हि प्रयोजनं । अयं क्रियायां उपप्दे क्रियार्थायां तुमुन्विधीयते । सः विशेषविहितः सामान्यविहितं ण्वुलं बाधेत । एततपि न अस्ति प्रयोजनं । भावे तुमुन्विधीयते कर्तरि ण्वुल। तत्र कः प्रसङ्गः यत्भावे विहितः तुमुन्कर्तरि विहितं ण्वुलं बाधेत । लृट्तर्हि बाधेत । वासरूपेण भविष्यति । अतः उत्तरं पठति । (कात्यायन वार्तिक)ण्वुलः क्रियार्थोपपदस्य पुनर्विधानं तृजादिप्रतिषेधार्थम्(वार्तिकान्त) । ण्वुलः क्रियार्थोपपदस्य पुनर्विधानं क्रियते ज्ञापकार्थं । किं ज्ञाप्यं । एतत्ज्ञापयति आचार्यः क्रियायां उपपदे क्रियार्थायां वासरूपेण तृजादयः न भवन्ति इति । ण्वुलपि तृजादिः ।
(पाणिनीयसूत्र ३,३।११) कि.,१४१।८-२० रो.,३१६-३१७ किमर्थं इदं उच्यते न अविशेषेण भावे प्रत्ययाः ये विहिताः ते क्रियायां उपपदे क्रियार्थायां अन्यत्र च भविष्यन्ति । (कात्यायन वार्तिक)भाववचनानां यथाविहितानां प्रतिपदविध्यर्थम्(वार्तिकान्त) । भाववचनानां यथाविहितानां प्रतिपदविध्यर्थः अयं आरम्भः । इदानीं एव हि उक्तं क्रियायां उपप्दे क्रियार्थायां वासरूपेण तृजादयः न भवन्ति इति । भाववचनाः च अपि तृजादयः । अस्ति प्रयोजनं एतत। किं तर्हि इति । यथाविहिताः इति तु वक्तव्यं । किं प्रयोजनं । इह याभ्यः प्रकृतिभ्यः येन विशेषेण भावे प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन एव विशेषेण क्रियायां उपप्दे क्रियार्थायां यथा स्युः । व्यतिकरः मा भूतिति । तत्तर्हि वक्तव्यं । न वक्तव्यं । इह भावे प्रत्ययाः भवन्ति इति इयट सिद्धं । सः अयं एवं सिद्धे सति यत्वचनग्रहणं करोति तस्य एतत्प्रयोजनं वाचकाः यथा स्युः इति । यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण भावे प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन एव विशेषेण क्रियायां उपप्दे क्रियार्थायां भवन्ति ततः अमी वाचकाः कृताः स्युः । अथ हि प्रकृतिमात्रात्वा स्युः प्रत्ययमात्रं वा स्यात्न अमीवाचकाः कृताः स्युः ।
(पाणिनीयसूत्र ३,३।१२) कि.,१४१।२२-१४२।१३ रो.,३१७-३१८ किमर्थं इदं उच्यते न अविशेषेण कर्मणि अण्विहितः सः क्रियायां उपपदे क्रियार्थायां अन्यत्र च भविष्यति । (कात्यायन वार्तिक)अणः पुनर्वचनं अपवादविषये अनिवृत्त्यर्थम्(वार्तिकान्त) । अणः पुनर्वचनं क्रियते अपवादविषये अनिवृत्तिः यथा स्यात। गोदायः व्रजति । कम्बलदायः व्रजति इति । किं उच्यते अपवादविषये अनिवृत्तिः यथा स्यातिति न पुनः उत्सर्गविषये प्रतिपदविध्यर्थं स्यात। इदानीं एव हि उक्तं क्रियायां उपप्दे क्रियार्थायां वासरूपेण तृजादयः न भवन्ति इति । अण्च अपि तृजादिः । एवं तर्हि उभयं अनेन क्रियते । अपवादविषये चानिवृत्तिः उत्सर्गविषये प्रतिपदविधानं । कथं पुनः एकेन यत्नेन उभयं लभ्यं । लभ्यं इति आह । कथं । कर्मग्रहणसामर्थ्यात। कथं पुनः अन्तरेण कर्मग्रहणं कर्मणि अण्लभ्यः । वचनग्रहणं प्रकृतं अनुवर्तते । अस्ति प्रयोजनं एतत। किं तर्हि इति । अपर्यायेण इति तु वक्तव्यं । कदा चित्हि कर्मणि स्यात्कदा चित्क्रियायां उपपदे क्रियार्थायां इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । चेन सन्नियोगः करिष्यते । अण्कर्मणि च । किं च अन्यत। क्रियायां उपपदे क्रियार्थायां इति । एवं अपि प्रत्येकं उपपदसञ्ज्ञा न प्राप्नोति । चेन एव सन्नियोगः करिष्यते । प्रत्येकं वाक्यपरिसमाप्तिः दृष्टा इति प्रत्येकं उपपदसञ्ज्ञ भविष्यति ।
(पाणिनीयसूत्र ३,३।१३) कि.,१४२।१५-१४३।५ रो.,३१८-३१९ शेषवचनं किमर्थं । (कात्यायन वार्तिक)लृटि शेषवचनं क्रियायां प्रतिपदविध्यर्थं (वार्तिकान्त)। लृटि शेषवचनं क्रियते क्रियायां प्रतिपदविध्यर्थं । प्रतिपदविधिः यथा स्यात। (कात्यायन वार्तिक)अविशेषेण विधाने लृटः अभावः प्रतिषिद्धत्वात्(वार्तिकान्त) । अविशेषेण विधाने लृटः अभावः स्यात। करिष्यामि इति व्रजति । हरिष्यामि इति व्रजति इति । किं कारणं । प्रतिषिद्धत्वात। इदानीं एव हि उक्तं क्रियायां उपपदे क्रियार्थायां वासरूपेण तृजादयः न भवन्ति इति । लृट्च अपि तृजादिः । अस्ति प्रयोजनं एतत। किं तर्हि इति । साधीयः तु खलु शेषग्रहणेन क्रियार्थोपपदात्लृट्निर्भज्यते । किं कारणं । अक्रियार्थोपपदत्वात। शेषे इति उच्यते । शेषः च कः । यतन्यत्क्रियायाः क्रियार्थायाः । एवं तर्हि लृटि शेषवचनं क्रियायां प्रतिपदविध्यर्थं । लृटि शेषवचनं क्रियते क्रियायां प्रतिपदविधिः यथा स्यात। लृट्शेषे च । करिष्यति हरिष्यति इति । क्व च । क्रियायां उपपदे क्रियार्थायां इति । सः तर्हि चकारः कर्तव्यः । न कर्तव्यः । इह लृट्भवति इति इयता सिद्धं । सः अयं एवं सिद्धे सति यत्शेषग्रहणं करोति तस्य एतत्प्रयोजनं योगाङ्गं यथा उपजायेत । सति च योगाङ्गे योगविभागः करिष्यते । लृट्भवति क्रियायां उपपदे क्रियार्थायां इति । ततः शेषे । शेषे च लृट्भवति इति ।
(पाणिनीयसूत्र ३,३।१४) कि.,१४३।७-१० रो.,३२० (कात्यायन वार्तिक)सद्विधिः नित्यं अप्रथमासमानाधिकरणे(वार्तिकान्त) । सद्विधिः अप्रथमासमानाधिकरणे नित्यं इति वक्तव्यं । पक्ष्यन्तं पश्य । पक्ष्यमाणं पश्य । क्व तर्हि इदानीं विभाषा । प्रथमासमानाधिकरणे । पाक्ष्यन्पक्ष्यति । पक्ष्यमाणः पक्ष्यते ।
(पाणिनीयसूत्र ३,३।१५।१) कि.,१४३।१२-१६ रो.,३२० योगविभागः कर्तव्यः । अनद्यतने लृटः सत्स्ञ्ज्ञौ भवतः । श्वः अग्नीनाध्यास्यमानेन । श्वः सोमेन यक्ष्यमाणेन । ततः लुट। लुट्भवति अनद्यतने । श्वः कर्ता । श्वः अध्येता । केन विहितस्य अनद्यतने लृटः सत्सञ्ज्ञौ उच्येते । एततेव ज्ञापयति भवति अनद्यतने लृटिति यतयं अनद्यतने लृटः सत्स्ञ्ज्ञौ शास्ति । एवं च कृत्वा सः अपि अदोषः भवति यतुक्तं भविष्यति इति अनद्यतने उपसङ्ख्यानं ।
(पाणिनीयसूत्र ३,३।१५।२) कि.,१४३।१७-२३ रो.,३२०-३२१ (कात्यायन वार्तिक)परिदेवने श्वस्तनीभविष्यन्त्यर्थे(वार्तिकान्त) । परिदेवने श्वस्तनीभविष्यन्त्याः अर्थे इति वक्तव्यं । इयं नु कदा गन्ता या एवं पादौ निदधाति । अयं नु कदा अध्येता यः एवं अनभियुक्तः इति । (कात्यायन वार्तिक)कालप्रकर्षात्तु उपमानम्(वार्तिकान्त) । कालप्रकर्षात्तु उपमानं । गन्ता इव इयं गन्ता । न इयं गमिष्यति । अध्येता इव अयं अध्येता । न वै तिङन्तेन उपमानं अस्ति । एवं तर्हि अनद्यतने इव अनद्यतने इति ।
(पाणिनीयसूत्र ३,३।१६) कि.,१४४।२-३ रो.,३२१ (कात्यायन वार्तिक)स्पृशः उपतापे(वार्तिकान्त) । स्पृशः उपतापे इति वक्तव्यं । इह मा भूत। कम्बलस्पर्शः इति ।
(पाणिनीयसूत्र ३,३।१७) कि.,१४४।५-६ रो.,३२१ वाधिमत्स्यबलेषु इति वक्तव्यं । अतीसारः व्याधिः । विसारः मत्स्यः । बले । शालसारः खदिरसारः ।
(पाणिनीयसूत्र ३,३।१८) कि.,१४४।८-१४५।३ रो.,३२३-३२४ (कात्यायन वार्तिक)भावे सर्वलिङ्गनिर्देशः(वार्तिकान्त) । भावे सर्वलिङ्गनिर्देशः कर्तव्यः । भूतौ भवने भावे इति । किं प्रयोजनं । सर्वलिङ्गे भाङे एते प्रत्ययाः यथा स्युः इति । किं पुनः कारणं न सिध्यति । पुंलिङ्गेन अयं निर्देशः क्रियते एकवचनेन च । तेन्पुंलिङ्गे एव एकवचने च एते प्र्रत्ययाः स्युः । स्त्रीनपुंसकयोः द्विवचनबहुवच्नयोः च न स्युः । न अत्र निर्देशः तन्त्रं । कथं पुनः तेन एव च नाम निर्देशः क्रियते तत्च अतन्त्रं स्यात। तत्कारी च भवान्तद्द्वेषी च । नान्तरीयकत्वातत्र पुंलिङ्गेन निर्देशः क्रियते एकवचनेन च । अवश्यं कया चित्विभक्त्या केन चित्च लिङ्गेन निर्देशः कर्तव्यः । तत्यथा कः चितन्नार्थी शालिकलापं सतुषं सपलालं आहरति नान्तरीयकत्वात। सः यावतादेयं तावतादाय तुषपलालानि उत्सृजति । तथा कः चित्मांसार्थी मत्स्यान्सशकलान्सकण्टकानाहरति नान्तरीयकत्वात। सः यावतादेयं तावतादाय शकलकण्टकानुत्सृजति । एवं इह अपि नान्तरीयकत्वात्पुंलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च । न हि अत्र निर्देशः तन्त्रं । कया चित्विभक्त्या केन चित्च लिङ्गेन निर्देशः कर्तव्यः । अथ वा कृभ्वस्तयः क्रियासामान्यवाचिनः क्रियाविशेषवाचिनः पचादयः । यत्च अत्र पचतेः भवतिः भवति न तत्भवतेः पचतिः भवति । यत्च भवतेः पचतिः भवति न तत्पचतेः भवतिः भवति । किं च पचतेः भवतिः भवति । सामान्यं । किं च भवतेः पचतिः भवति । विशेषः । तत्यथा उपाध्यायस्य शिष्यः मातुलस्य भागिनेयं गत्वा आह । उपाध्यायं भवानभिवादयतां इति । सः गत्वा मातुलं अभिवादयते । तथा मातुलस्य भागिनेयः उपाध्यायस्य शिष्यं गत्वा आह । मातुलं भवानभिवादयतां इति । सः गत्वा उपाध्यायं अभिवादयते । एवं इह अपि पचतेः भवतौ यत्तत्निर्दिश्यते ।
(पाणिनीयसूत्र ३,३।१९) कि.,१४५।५-१४६।७ रो.,३२५-३२७ कारकग्रहणं किमर्थं । (कात्यायन वार्तिक)कारकग्रहणं अनादेशे स्वार्थविज्ञानात्(वार्तिकान्त) । कारकग्रहणं अनादेशे स्वार्थविज्ञानात। अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति इति । तत्यथा । गुप्तिज्किद्भ्यः सन्यावादिभ्यः कनिति । एवं इमे अपि प्रत्ययाः स्वार्थे स्युः । स्वार्थे मा भूवन्कारके यथा स्युः इति एवमर्थं इदं उच्यते । न एततस्ति प्रयोजनं । विहितः प्रत्ययः स्वार्थे भावे घञिति । तेन अत्रिप्रसक्तं इति कृत्वा नियमार्थः अयं विज्ञायेत । अकर्तरि सञ्ज्ञायां एव इति । अस्ति च इदानीं कः चित्सञ्ज्ञाभूतः भावः यदर्थः विधिः स्यात। अस्ति इति आह : आवाहः , विवाहः इति । कैमर्थक्यात्नियमः भवति । विधेयं न अस्ति इति कृत्वा । इह च अस्ति विधेयं । अकर्तरि च कारके सञ्ज्ञायां घञ्विधेयः । तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः । ततेव तर्हि प्रयोजनं स्वार्थे मा भूवनिति । ननु च उक्तं विहितः प्रत्ययः स्वार्थे भावे घञिति इति । अन्यः सः भावः बाह्यः प्रकृत्यर्थात। अनेन इदानीं आभ्यन्तरे भावे स्यात। कः पुनः एतयोः भावयोः विशेषः । उक्तः भावभेदः भाष्ये । एततपि न अस्ति प्रयोजनं । नञिवयुक्तं अन्यसदृशाधिकरणे । तथा हि अर्थगतिः । नञ्युक्तं इवयुक्तं च अस्न्यस्मिन्तत्सदृशे कार्यं विज्ञयते । तथा हि अर्थः गम्यते । तत्यथा । अब्राह्मणं आनय इति उक्ते ब्राह्मणसदृशं पुरुषं आनयति । न असौ लोष्टं आनीय कृती भवति । एवं इह अपि अकर्तरि इति कर्तृप्रतिषेधातन्यस्मिनकर्तरि कर्तृसदृशे कार्यं विज्ञस्यते । किं च अन्यतकर्तृ कर्तृसदृशं । कारकं । उत्तरार्थं तर्हि कारकग्रहणं कर्तव्यं । परिमाणाख्यायां सर्वेभ्यः कारके यथा स्यात। इह मा भूत। एका तिलोच्छ्रितिः । देवे सृती इति । घञनुक्रमणं अजब्विषये अवचने हि स्त्रीप्रत्ययानां अपि अवादविज्ञानं इति वक्ष्यति । तत्न वक्तव्यं भवति । एततपि न अस्ति प्रयोजनं । अत्र अपि अकर्तरि इति एव अनुवर्तिष्यते । (कात्यायन वार्तिक)सञ्ज्ञाग्रहणानर्थक्यं च सर्वत्र घञः दर्शनात्(वार्तिकान्त) । सञ्ज्ञाग्रहणं च अनर्थकं । किं कारणं । सर्वत्र घञः दर्शनात। असञ्ज्ञायां अपि हि घञ्दृश्यते । कः भवता दायः दत्तः । कः भवता लाभः लब्धः इति । यदि सञ्ज्ञाग्रहणं न क्रियते अतिप्रसङ्गः भवति । कृतः कटः इति अत्र कारः कट इति प्राप्नोति । (कात्यायन वार्तिक)अतिप्रसङ्गः इति चेतभिधानलक्षणत्वात्प्रत्ययस्य सिद्धम्(वार्तिकान्त) । अतिप्रसङ्गः इति चेत्तत्न । किं कारणं । अभिधानलक्षणत्वात्प्रत्ययस्य सिद्धं । अभिधानलक्षणाः कृत्तद्धितसमादाः । अनभिधानात्न भविष्यन्ति ।
(पाणिनीयसूत्र ३,३।२०।१) कि.,१४६।१४७।६ रो.,३२७-३२९ सर्वग्रहणं किमर्थं । सर्वेभ्यः धातुभ्यः घञ्यथा स्यातजपोः अपि विषये । एकः तण्डुलनिश्चायः । द्वौ शूर्पनिष्पावौ । (कात्यायन वार्तिक)सर्वग्रहणं अनर्थकं परिमाणाख्यायं इति सिद्धत्वात्(वार्तिकान्त) । सर्वग्रहणं अनर्थकं । किं कारणं । परिमाणाख्यायं इति सिद्धत्वात। परिमाणाख्यायं इति एव घञ्सिद्धः अजपोः अपि विषये । न अर्थः सर्वग्रहणेन । अस्ति अन्यतेतस्य वचने प्रयोजनं । किं । एकः पाकः द्वौ पाकौ त्रयः पाकाः इति । पूर्वेण अपि एतत्सिद्धं । न सिध्यति । सञ्ज्ञायां इति पूर्वः योगः । न च एषा सञ्ज्ञा । प्रत्याख्यायते सञ्ज्ञाग्रहणं । अथ अपि क्रियते एवं अपि न दोषः । अजौ अपि सञ्ज्ञायां एव । यथाजातीयकः उत्सर्गः तथाजातीयकेन अपवादेन भवितव्यं । उत्तरार्थं तर्हि । इङः च सर्वेभ्यः अपि यथा स्यात। ननु च अयं इङेकः एव वण्टरण्डाकल्पः । सर्वेषु साधनेषु यथा स्यात। उपेत्य अधीयते तस्मातध्यायः । अधीयते तस्मिनध्यायः । अध्यायन्यायायोद्यावसंहारावायाः च इति एतत्निपातनं न कर्तव्यं भवति । एततपि न अस्ति प्रयोजनं । क्रियते न्यासे एव । उत्तराऋथं एव तर्हि वक्तव्यं । कर्मव्यतिहारे णच्स्त्रियां इति सर्वेभ्यः यथा स्यात। एततपि न अस्ति प्रयोजनं । वक्ष्यति एतत। कर्मव्यतिहारे स्त्रीग्रहणं व्यतिपाकार्थं । पृथक्ग्रहणं बाधकबाधनार्थं । व्यावचोरीव्यावचर्च्यर्थं । तत्र व्यतीक्षादिषु दोषः । सिद्धं तु प्रकृते स्त्रीग्रहणे णज्ग्रहणं णिज्ग्रहणं च इति । उत्तरार्थं तर्हि अभिविधौ भावे इनुण्सर्वेभ्यः यथा स्यात। सांराविणं । एततपि न अस्ति प्रयोजनं । वक्ष्यति एतत। अभिविधौ भावग्रहणं नपुंसके क्तादिनिवृत्त्यर्थं । पृथक्ग्रहणं बाधकबाधार्थं । न तु ल्युटिति । इदं तर्हि प्रयोजनं । प्रकृत्याश्रयः यः अपवादः तस्य बाधनं यथा स्यात। अर्थाश्रयः यः अपवादः तस्य बाधनं मा भूत। एका तिलोच्छ्रितिः द्वे सृती इति । घञनुक्रमणं अजब्विषये । अवचने हि स्त्रीप्रत्ययानां अपि अपवादविज्ञानं इति चोदयिष्यति । तत्न वक्तव्यं भवति ।
(पाणिनीयसूत्र ३,३।२०।२) कि.,१४७।७-१६ रो.,३२९-३३० (कात्यायन वार्तिक)घञनुक्रमणं अजब्विषये(वार्तिकान्त) । घञनुक्रमणं अजब्विषये इति वक्तव्यं । (कात्यायन वार्तिक)अवचने हि स्त्रीप्रत्ययानां अपि अपवादविज्ञानम्(वार्तिकान्त) । अनुच्यमाने हि एतस्मिन्स्त्रीप्रत्ययानां अपि अपवादः अयं विज्ञयेत । एका तिलोच्छ्रितिः द्वे सृती इति ।(कात्यायन वार्तिक) दारजारौ कर्तरि णिलुक्च(वार्तिकान्त) । दारजारौ कर्तरि वक्तव्यौ णिलुक्च वक्तव्यः । दारयन्ति इति दाराः । जरयन्ति इति जाराः । (कात्यायन वार्तिक)करणे वा(वार्तिकान्त) । करणे वा वक्तव्यौ । दीर्यते तैः दाराः । जीर्यन्ति तैः जाराः ।
(पाणिनीयसूत्र ३,३।२१) कि.,१४७।१८-२३ रो.,३३० (कात्यायन वार्तिक)इङः च इति अपादाने स्त्रियां उपसङ्ख्यानं तदन्तात्च वा ङीष्(वार्तिकान्त) । इङः च इति अत्र अपादाने स्त्रियां उपसङ्ख्यानं कर्तव्यं तदन्तात्च वा ङीष्वक्तव्यः । उपेत्य अधीयते तस्याः उअपाध्यायी उपाध्याया । (कात्यायन वार्तिक)श्® वायुवर्णनिवृतेषु(वार्तिकान्त) । श्® इति एतस्मात्वायुवर्णनिवृतेषु घञ्वक्तव्यः । शारः वायुः । शारः वर्णः । गौः इव अकृतनीशारः प्रायेण शिशिरे कृशः ।
(पाणिनीयसूत्र ३,३।३६) कि.,१४८।२-९ रो.,३३१ (कात्यायन वार्तिक)समि मुष्टौ इति अनर्थकं वचनं परिमाणाख्यायां इति सिद्धत्वात्(वार्तिकान्त) । समि मुष्टौ इति एतत्वचनं अनर्थकं । किं कारणं । परिमाणाख्यायां इति सिद्धत्वात। परिमाणाख्यायां इति एव सिद्धं । (कात्यायन वार्तिक)अपरिमाणार्थं तु(वार्तिकान्त) । अपरिमाणार्थं तु अयं आरम्भः । मल्लस्य सङ्ग्राहः मुष्टिकस्य सङ्गाहः इति । (कात्यायन वार्तिक)उद्ग्राभिनिग्राभौ च छन्दसि स्रुगुद्यमननिपातनयोः(वार्तिकान्त) । उद्ग्राभः निब्राभः इति इमौ शब्दौ छन्दसि वक्तव्यौ स्रुगुद्यमननिपातनयोः । उद्ग्राभं च निग्राभं च ब्रह्म देवाः अवीवृधन।
(पाणिनीयसूत्र ३,३।४३) कि.,१४८।११-१४९।३ रो.,३३१-३३२ स्त्रीग्रहणं किमर्थं । (कात्यायन वार्तिक)कर्मव्यतिहारे स्त्रीग्रहणं व्यतिपाकार्थं (वार्तिकान्त)। कर्मव्यतिहारे स्त्रीग्रहणं क्रियते व्यतिपाकार्थं । इह मा भूत। व्यतिपाकः वर्तते इति । अथ किमर्थं पृथक्ग्रहणं । (कात्यायन वार्तिक)पृथक्ग्रहणं बाधकबाधनार्थम्(वार्तिकान्त) । पृथक्ग्रहणं क्रियते बाधकबाधनार्थं । ये तस्य बाधकाः तद्बाधनार्थं । किं प्रयोजनं । (कात्यायन वार्तिक)व्यावचोरीव्यावचर्च्यर्थं (वार्तिकान्त)। व्यावचोरी वर्तते । व्यावचर्ची वर्तते । (कात्यायन वार्तिक)तत्र व्यतीक्षादिषु दोषः(वार्तिकान्त) । तत्र व्यतीक्षादिषु दोषः भवति । व्यतीक्षा वर्तते । व्यतीहा वर्तते । (कात्यायन वार्तिक)सिद्धं तु प्रकृते स्त्रीग्रहणे णज्ग्रहणं णिज्ग्रहणं च(वार्तिकान्त) । सिद्धं एतत। कथं । प्रकृते एव स्त्रीग्रहणे अयं योगः कर्तव्यः । स्त्रियां क्तिन। ततः कर्मव्यतिहारे णच। ततः णिचः ।
(पाणिनीयसूत्र ३,३।४४) कि.,१४९।५-१२ रो.,३३२-३३३ भावग्रहणं किमर्थं । (कात्यायन वार्तिक)अभिविधौ भावग्रहणं नपुंसके क्तादिनिवृत्त्यर्थम्(वार्तिकान्त) । अभिविधौ भावग्रहणं क्रियते नपुंसके क्तादिनिवृत्त्यर्थं । नपुंसकलिङ्गे क्तादयः मा भूवनिति । अथ किमर्थं पृथक्ग्रहणं । (कात्यायन वार्तिक)पृथक्ग्रहणं बाधकबाधार्थम्(वार्तिकान्त) । पृथक्ग्रहणं क्रियते बाधकबाधार्थं : ये तस्य बाधकाः तद्बाधनार्थं । (कात्यायन वार्तिक)न तु ल्युटः (वार्तिकान्त)। ल्युटः तु बाधनं न इष्यते । सङ्कूटनं इति एव भवति ।
(पाणिनीयसूत्र ३,३।५६) कि.,१४९।१४-१५०।२ रो.,३३३-३३४ (कात्यायन वार्तिक)अज्विधौ भयस्य उपसङ्ख्यानम्(वार्तिकान्त) । अज्विधौ भयस्य उपसङ्ख्यानं कर्तव्यं । भयं । अत्यल्पं इदं उच्यते : भयस्य इति । भयादीनां इति वक्तव्यं इह अपि यथा स्यातः भयं वर्षं । किं प्रयोजनं । (कात्यायन वार्तिक)नपुंसके क्तादिनिवृत्त्यर्थम्(वार्तिकान्त) । नपुंसकलिङ्गे क्तादयः मा भूवनिति । (कात्यायन वार्तिक)कल्पादिभ्यः च प्रतिषेधः(वार्तिकान्त) । कल्पादिभ्यः च प्रतिषेधः वक्तव्यः । कल्पः अर्थः मन्त्रः । (कात्यायन वार्तिक)जवसवौ छन्दसि(वार्तिकान्त) । जवसवौ छन्दसि वक्तव्यौ । ऊर्वोः अस्तु मे जवः । अयं मे पञ्चौदनः सवः ।
(पाणिनीयसूत्र ३,३।५८।१) कि.,१५०।४-१६ रो.,३३४-३३५ किमर्थं निष्पूर्वात्चिनोतेः अप्विधीयते न अचा एव सिद्धं । न हि अस्ति विशेषः निष्पूर्वात्चिनोतेः अपः वा अचः वा । ततेव रूपं सः एव स्वरः । न सिध्यति । हस्तादाने चेः घञ्प्राप्तः । तद्बाधनार्थं । अतः उत्तरं पठति । (कात्यायन वार्तिक)अब्विधौ निश्चिग्रहणं अनर्थकं स्तेयस्य घञ्विधौ प्रतिषेधात्(वार्तिकान्त) । अब्विधौ निश्चिग्रहणं अनर्थकं । किं कारणं । स्तेयस्य घञ्विधौ प्रतिषेधात। स्तेयस्य घञ्विधौ प्रतिषेधः उच्यते । निष्पूर्वः चिनोतिः स्तेये वर्तते । अस्तेयार्थं तर्हि इदं वक्तव्यं । निष्पूर्वात्चिनोतेः अस्तेये यथा स्यात। (कात्यायन वार्तिक)अस्तेयार्थं इति चेत्न अनिष्टत्वात्(वार्तिकान्त) । अस्तेयार्थं इति चेत्तत्न । किं कारणं । अनिष्टत्वात। न निष्पूर्वात्चिनोतेः अस्तेये अपिष्यते । किं तर्हि घञेव इष्यते । एवं तर्हि सिद्धे सति यत्निष्पूर्वात्चिनोतेः अपं शास्ति तत्ज्ञापयति आचार्यः यत्ततन्तः थाथघञ्क्ताजबितृकाणां इति तत्निष्पूर्वात्चिनोतेः न भवति इति । किं एतस्य ज्ञापने प्रयोजनं । निश्चयः । एषः स्वरः सिद्धः भवति ।
(पाणिनीयसूत्र ३,३।५८।२) कि.,१५०।१७-२४ रो.,३३५ (कात्यायन वार्तिक)वशिरण्योः च उपसङ्ख्यानम्(वार्तिकान्त) । वशिरण्योः च उपसङ्ख्यानं । सः वशं सैन्धवं । धनञ्जयः रणे रणे । (कात्यायन वार्तिक)घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम्(वार्तिकान्त) । घञर्थे कः विधेयः । किं प्रयोजनं । स्थास्नापाव्यधिहनियुध्यर्थं । स्था । प्रतिष्ठन्ते अस्मिन्धान्यानि इति प्रस्थः । प्रस्थे हिमवतः श्र्ङ्गे । स्था । स्ना । प्रस्नान्ति तस्मिनिति प्रस्नः । स्ना । पा । प्रपिबन्ति अस्यां इति प्रपा । पा । व्यधि । आविध्यन्ति तेन आविधं । व्यधि । हनि । विघ्नन्ति तस्मिन्मनांसि विघ्नः । हनि । युधि । आयुध्यन्ते तेन आयुधं ।
(पाणिनीयसूत्र ३,३।८३) कि.,१५१।२-११ रो.,३३६ कस्मातयं कः विधीयते । हन्तेः इति आह । तत्हन्तिग्रहणं कर्तव्यं । न कर्तव्यं । प्रकृतं अनुवर्तते । क्व प्रकृतं । हनः च वधः । तत्वै अनेकेन निपातनेन व्यवच्छिन्नं न शक्यं अनुवर्तयितुं । न एतानि निपातनानि । हन्तेः एते आदेशाः । यदि आदेशाः घनस्वरः न सिध्यति । घनः । सन्तु तर्हि निपातनानि । ननु च उक्तं तत्वै अनेकेन निपातनेन व्यवच्छिन्नं न शक्यं अनुवर्तयितुं इति । सम्बन्धं अनुवर्तिष्यते । अथ वा पुनः सन्तु आदेशाः । ननु च उक्तं स्वरः न सिध्यति इति । न एषः दोषः । अकारान्तः आदेशः । अथ यदा इषीकया स्तम्बः हन्यते कथं तत्र भवितव्यं । के चिद्तावताहुः । स्तम्बघ्ना इति भवितव्यं । अपरे आहुः : स्तम्बहेतिः इति भवितव्यं । ऊतियूतिजूतिसातिहेतिकीर्तयः च इति निपातनं इति । अपरे आहुः । स्तम्बहननीइति भवितव्यं इति । वक्ष्यति एतत। अजब्भ्यां स्त्रीईखलनाः । स्त्रियाः खलनौ विप्रतिषेधेन इति ।
(पाणिनीयसूत्र ३,३।९०) कि.,१५५१।१३-१९ रो.,३३६-३३७ (कात्यायन वार्तिक)यजादिभ्यः नस्य ङित्त्वे सम्प्रसारणप्रतिषेधः(वार्तिकान्त) । यजादिभ्यः नस्य ङित्त्वे सम्प्रसारणप्रतिषेधः वक्तव्यः । प्रश्नः इति । एवन्तर्हि आङित्करिष्यते । (कात्यायन वार्तिक)अङिति गुणप्रतिषेधः(वार्तिकान्त) । यदि अङित्गुणप्रतिषेधः वक्तव्यः । विश्नः इति । सूत्रं च भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं यजादिभ्यः नस्य ङित्त्वे सम्प्रसारणप्रतिषेधः इति । न एषः दोषः । निपातनातेतत्सिद्धं । किं निपातनं । प्रश्ने च आसन्नकाले इति ।
(पाणिनीयसूत्र ३,३।९४) कि.,१५१।२१-१५२।६ रो.,३३७ (कात्यायन वार्तिक)स्त्रियां क्तिनाबादिभ्यः च(वार्तिकान्त) । स्त्रियां क्तिनिति अत्र आबादिभ्यः च इति वक्तव्यं । आप्तिः राद्धिः दीप्तिः । (कात्यायन वार्तिक)निष्ठायां वा सेटः अकारवचनात्सिद्धम्(वार्तिकान्त) । अथ वा निष्ठायां सेटः अकारः भवति इति वक्तव्यं । यदि निष्ठायां सेटः अकारः भवति इति उच्यते स्रंसा ध्वंसा इति न सिध्यति । स्रस्तिः ध्वस्तिः इति प्राप्नोति । किं पुनः इदं परिगणनं त्रयः एव आबादयः आहोस्वितुदाहरणमात्रं । किं च अतः । यदि परिगणनं भेदः भवति । अथ उदाहरणमात्रं न अस्ति भेदः । स्रस्ति ध्वस्तिः इति एव भवितव्यं ।
(पाणिनीयसूत्र ३,३।९५) कि.,१५२।८-२० रो.,३३८ (कात्यायन वार्तिक)स्थादिभ्यः सर्वापवादप्रसङ्गः(वार्तिकान्त) । स्थादिभ्यः सर्वापवादः क्तिन्प्राप्नोति । सः यथा एव अङं बाधते एवं ण्वुलिञौ अपि बाधेत । कां त्वं स्थायिकां अस्थाः । कां स्थायिं । (कात्यायन वार्तिक)सिद्धं तु अङ्विधाने स्थादिप्रतिषेधात्(वार्तिकान्त) । सिद्धं एतत। कथं । अङ्विधाने एव स्थादिप्रतिषेधः वक्तव्यः । प्रतिषिद्धे तस्मिन्क्तिनेव भविष्यति । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं स्थादिभ्यः सर्वापवादप्रसङ्गः इति । न एषः दोषः । पुरस्तातपवादाः अनन्तरान्विधीन्बाधन्ते इति एवं अयं स्त्रियां क्तिनङं बाधिष्यते । ण्वुलिञौ न बाधिष्यते । (कात्यायन वार्तिक)श्रुतिजिषिस्तुभ्यः करणे(वार्तिकान्त) । श्रुतिजिषिस्तुभ्यः करणे क्तिन्वक्तव्यः । श्रूयते अनया श्रुतिः । इज्यते अनया इष्टिः । इष्यते अनया इष्टिः । स्तूयते अनया स्तुतिः । (कात्यायन वार्तिक)ग्लाज्याहाभ्यः निः(वार्तिकान्त) । ग्लाज्याहाभ्यः निः वक्तव्यः । ग्लानिः ज्यानिः हानिः ।
(पाणिनीयसूत्र ३,३।९८) कि.,१५२।२२-२३ रो.,३३९ (कात्यायन वार्तिक)क्यब्विधिः अधिकरणे च(वार्तिकान्त) । क्यब्विधिः अधिकरणे च इति वक्तव्यं । समजन्ति तस्यां समज्या ।
(पाणिनीयसूत्र ३,३।१००) कि.,१५३।२-३ रो.,३३९ (कात्यायन वार्तिक)कृञः श च इति वावचनं क्तिनर्थम्(वार्तिकान्त) । कृञः श च इति वावचनं कर्तव्यं क्तिनपि यथा स्यात। कृतिः ।
(पाणिनीयसूत्र ३,३।१०२) कि.,१५३।५-७ रो.,३३९ किं निपात्यते । इषेः शे यगभावः । अत्यल्पं इदं उच्यते इच्छा इति । इच्छापरिचर्यापरिसर्यामृगयाटाट्यानां निपातनं कर्तव्यं । जागर्तेः अकारः वा । जागर्य जागरा ।
(पाणिनीयसूत्र ३,३।१०४) कि.,१५३।९-१८ रो.,३४० (कात्यायन वार्तिक)भिदा विदारणे(वार्तिकान्त) । भिदा विदारणे इति वक्तव्यं । भित्तिः अन्या । (कात्यायन वार्तिक)छिधा द्वैधीकरणे(वार्तिकान्त) । छिधा द्वैधीकरणे इति वक्तव्यं । छित्तिः अन्या । (कात्यायन वार्तिक)आरा शस्त्र्याम्(वार्तिकान्त) । आरा शस्त्र्यां इति वक्तव्यं । आर्तिः अन्या । (कात्यायन वार्तिक)धारा प्रपाते(वार्तिकान्त) । धारा प्रपाते इति वक्तव्यं । धृतिः अन्या । (कात्यायन वार्तिक)गुहा गिर्योषध्योः (वार्तिकान्त)। गुहा गिर्योषध्योः इति वक्तव्यं । गूढिः अन्या ।
(पाणिनीयसूत्र ३,३।१०७।१) कि.,१५३।२०-१५४।७ रो.,३४०-३४१ किमर्थः चकारः । स्वरार्थः । चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वं यथा स्यात। न एततस्ति प्रयोजनं । उदात्तः इति वर्तते भूवीराः उदात्तः इति । यदि उदात्तः इति वर्तते वजयजोः भावे क्यप्किमर्थः पकारः । तुगर्थः । ह्रस्वस्य पिति कृति तुकिति । उदात्तः इति वर्तते । एवं अपि कुतः एतत्तदन्तस्य उदात्तत्वं भविष्यति न पुनः आदेः इति । उदात्तः इति अनुवर्तनसामर्थ्यात्यस्य अप्राप्तः स्वरः तस्य भवति । कस्य च अप्राप्तः । अन्त्यस्य । सामान्यग्रहणाविघातार्थः तर्हि । क्व सामान्यग्रहणाविघातार्थेन अर्थः । युवोः अनाकौ इति । एततपि न अस्ति प्रयोजनं । वक्ष्यति एतत। सिद्धं तु युवोः अनुनासिकवचनातिति ।
(पाणिनीयसूत्र ३,३।१०७।२) कि.,१५४।८-१३ रो.,३४१ (कात्यायन वार्तिक)युच्प्रकरणे घट्टिवन्दिविधिभ्यः च उपसङ्ख्यानम्(वार्तिकान्त) । युच्प्रकरणे घट्टिवन्दिविधिभ्यः च उपसङ्ख्यानं कर्तव्यं । घट्टना वन्दना वेदना । (कात्यायन वार्तिक)इषेः अनिच्छार्थस्य(वार्तिकान्त) । इषेः अनिच्छार्थस्य इति वक्तव्यं । अन्विष्यते अन्वेषणा । (कात्यायन वार्तिक)परेः वा(वार्तिकान्त) । परेः वा इति वक्तव्यं । अन्यां परीष्टिं चर । अन्यां पर्येषणां चर ।
(पाणिनीयसूत्र ३,३।१०८) कि.,१५४।१५-१५५।१० रो.,३४३४१-३४२ (कात्यायन वार्तिक)धात्वर्तनिर्देशे ण्वुल्(वार्तिकान्त) । धात्वर्तनिर्देशे ण्वुल्वक्तव्यः । का नाम आसिका अन्येषु ईहमानेषु । का नां शायिका अन्येषु अधीयानेषु । (कात्यायन वार्तिक)इक्श्तिपौ धातुनिर्देशे(वार्तिकान्त) । इक्श्तिपौ इति एतौ प्रत्ययौ धातुनिर्देशे वक्तव्यौ । पचेः ब्रूहि । पचतेः ब्रूहि । (कात्यायन वार्तिक)वर्णात्कारः(वार्तिकान्त) । वर्णात्कारप्रत्ययः वक्तव्यः । अकारः इकारः । (कात्यायन वार्तिक)रातिफः(वार्तिकान्त) । रातिफः वक्तव्यः । रेफः । (कात्यायन वार्तिक)मत्वर्थात्छः(वार्तिकान्त) । मत्वर्थात्छः वक्तव्यः । मत्वर्थीयः । (कात्यायन वार्तिक)इणजादिभ्यः(वार्तिकान्त) । इणजादिभ्यः वक्तव्यः । आजिः आतिः आदिः । (कात्यायन वार्तिक)इञ्वपादिभ्यः(वार्तिकान्त) । इञ्वपादिभ्यः वक्तव्यः । वापिः वासिः वादिः । (कात्यायन वार्तिक)इक्कृष्यादिभ्यः(वार्तिकान्त) । इक्कृष्यादिभ्यः वक्तव्यः । कृषिः किरिः गिरिः । (कात्यायन वार्तिक)सम्पदादिभ्यः क्विप्(वार्तिकान्त) । सम्पदादिभ्यः क्विप्वक्तव्यः । सम्पत्विपत्प्रतिपतापत्परिषत।
(पाणिनीयसूत्र ३,३।११३) कि.,१५५।१२-१३ रो.,३४३ कृतः बहुलं इति वक्तव्यं पादहारकाद्यर्थं । पादाभ्यां ह्रियते पादहारकः । गले चोप्यते गलेचोपकः । श्वः अग्नीनाधास्यमानेन । श्वः सोमेन यक्ष्यमाणेन ।
(पाणिनीयसूत्र ३,३।११९) कि.,१५५।१५-१७ रो.,३४३ (कात्यायन वार्तिक)गोचरादीनां अग्रहणं प्रायवचनात्यथा कषः निकषः इति(वार्तिकान्त) । गोचरादीनां ग्रहणं शक्यं अकर्तुं । घञ्कस्मात्न भवति । प्रायवचनात्यथा कषः निकषः इति प्रायवचनात्घञ्न भवति ।
(पाणिनीयसूत्र ३,३।१२१) कि.,१५५।१९-२१ रो.,३४४ (कात्यायन वार्तिक)घञ्विधौ अवहाराधारावायानां उपसङ्ख्यानम्(वार्तिकान्त) । घञ्विधौ अवहाराधारावायानां उपसङ्ख्यानं कर्तव्यं । अवह्रियन्ते अस्मिनवहारः । आध्रियन्ते अस्मिनाधारः । एत्य एतस्मिन्वयन्ति आवायः ।
(पाणिनीयसूत्र ३,३।१२३) कि.,१५६।२-७ रो.,३४४ किमर्थं इदं उच्यते न हलः च इति एव सिद्धं । अनुदके इत्वक्ष्यामि इति । इह मा भूत। उदकोदञ्चनः । (कात्यायन वार्तिक)उदङ्कः अनुदकग्रहणानर्थक्यं च प्रायवचनात्यथा गोदोहनः प्रसाधनः इति(वार्तिकान्त) । उदङ्कः अनुदकग्रहणं च अनर्थकं । घञ्कस्मात्न भवति । प्रायवचनात्यथा गोदोहनः प्रसाधनः इति ।
(पाणिनीयसूत्र ३,३।१२५) कि.,१५६।९-१० रो.,३४४ डः वक्तव्यः । आखः । डरः वक्तव्यः । आखरः । इकः वक्तव्यः । आखनिकः । इकवकः वक्तव्यः । आखनिकवकः ।
(पाणिनीयसूत्र ३,३।१२६) कि.,१५६।१२-२२ रो.,३४५ (कात्यायन वार्तिक)अजब्भ्यां स्त्रीखलनाः(वार्तिकान्त) । अजब्भ्यां स्त्रीखलनाः भवन्ति विप्रतिषेधेन । अजपोः अवकाशः चयः लवः । स्त्रीप्रत्ययानां अवकाशः कृतिः हृतिः । इह उभयं प्राप्नोति । चितिः स्तुतिः । खलः अवकाशः ईषद्भेदः सुभेदः । अजपोः सः एव । इह उभयं प्राप्नोति । ईषच्चयः सुचयः ईषल्लवः सुलवः । अनस्य अवकाशः इध्मप्रव्रश्चनः । अजपोः सः एव । इह उभयं प्राप्नोति । पलाशचयनः अविलवनः । स्त्रीखलनाः भवन्ति विप्रतिषेधेन । (कात्यायन वार्तिक)स्त्रियाः खलनौ विप्रतिषेधेन(वार्तिकान्त) । स्त्रियाः खलनौ भवतः विप्रतिषेधेन । स्त्रीप्रत्ययानां अवकाशः कृतिः हृतिः । खलः अवकाशः ईषद्भेदः सुभेदः । इह उभयं प्राप्नोति । ईषद्भेदा सुभेदा । अनस्य अवकाशः इध्मप्रव्रश्चनः । स्त्रीप्रत्ययानां सः एव । इह उभयं प्राप्नोति । सक्तुधानी तिलपीडनी । खलनौ भवतः विप्रतिषेधेन ।
(पाणिनीयसूत्र ३,३।१२७) कि. १५७।२-७ रो.,३४५-३४६ (कात्यायन वार्तिक)खल्कर्तृकरणयोः च्व्यर्थयोः(वार्तिकान्त) । खल्कर्तृकरणयोः च्व्यर्थयोः इति वक्तव्यं । अनाढ्येन भवता ईषदाढ्येन शक्यं भवितुं ईषदाढ्यम्भवं भवता । दुराढ्यम्भवं स्वाढ्यम्भवं । (कात्यायन वार्तिक)कर्तृकर्मग्रहणं च उपपदसञ्ज्ञार्थं (वार्तिकान्त)। कर्तृकर्मग्रहणं च उपपदसञ्ज्ञार्थं द्रष्टव्यं । द्वेष्यं विजानीयातः अभिधेययोः इति । तताचार्यः सुहृत्भूत्वा अन्वाचष्टे : कर्तृकर्मग्रहणं च उपपदसञ्ज्ञार्थं इति ।
(पाणिनीयसूत्र ३,३।१३०) कि.,१५७।९-१२ रो.,३४६ (कात्यायन वार्तिक)भाषायां शासियुधिदृशिधृषिभ्यः युच्(वार्तिकान्त) । भाषायां शासियुधिदृशिधृषिभ्यः युच्वक्तव्यः । दुःशासनः दुर्योधनः दुर्दर्शनः दुर्धर्षणः । मृषेः च इति वक्तव्यं । दुर्मर्षणः ।
(पाणिनीयसूत्र ३,३।१३१) कि.,१५८।२-१६ रो.,३४६-३४८ वत्करणं किमर्थं । वर्तमानसामीप्ये वर्त्मानाः वा इति इयति उच्यमाने वर्तमाने ये प्रत्ययाः विहिताः वर्तमानसामीप्ये धातुमात्रात्स्युः । वत्करणे पुनः क्रियमाणे न दोषः भवति । यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण वर्तमाने प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन एव विशेषेण वर्तमानसामीप्ये भवन्ति ततः अमीवर्तमानवत्कृताः स्युः । अथ हि प्रकृतिमात्रात्वा स्युः प्रत्ययमात्रं वा स्यात्न अमीवर्तमानवत्कृताः स्युः । इह वर्तमानसामीप्ये वर्तमानवत्वा इति उक्त्वा लोटेव उदाह्रियते । यदि पुनः वा लट्भवति इति एव उच्येत । अतः उत्तरं पठति । (कात्यायन वार्तिक)वर्तमानसामीप्ये वर्तमानवद्वचनं शत्राद्यर्थम्(वार्तिकान्त) । वर्तमानसामीप्ये वर्तमानवद्वचनं क्रियते शत्राद्यर्थं । शत्राद्यर्थः अयं आरम्भः । एषः अस्मि पचन। एषः अस्मि पचमानः इति । न एततस्ति प्रयोजनं । लडादेशौ शतृशानचौ । तत्र वा लट्भवति इति एव सिद्धं । यौ तर्हि अलडादेशौ । एषः अस्मि पवमानः । एषः अस्मि यजमानः । यौ च अपि लडादेशौ तौ अपि प्रयोजयतः । वर्तमानविहितस्य लटः शतृशानचौ उच्येते । अविशेषेण विहितः च अयं योगः । शत्राद्यर्थं इति खलु अपि उच्यते । बहवः च शत्रादयः । एषः अस्मि अलङ्करिष्णुः । एषः अस्मि प्रजनिष्णुः ।
(पाणिनीयसूत्र ३,३।१३२।१) कि.,१५८।१८-२४ रो.,३४७ आशंसा नाम भविष्यत्काला । (कात्यायन वार्तिक)आशंसायां भूतवदतिदेशे लङ्लिटोः प्रतिषेधः(वार्तिकान्त) । आशंसायां भूतवदतिदेशे लङ्लिटोः प्रतिषेधः वक्तव्यः । (कात्यायन वार्तिक)न वा अपवादस्य निमित्ताभावातनद्यतने हि तयोः विधानम्(वार्तिकान्त) । न वा वक्तव्यः । किं कारणं । अपवादस्य निमित्ताभावात। न अत्र अपवादस्य निमित्तं अस्ति । कथं । अनद्यतने हि तयोः विधानं । अनद्यतने हि तौ विधीयेते लङ्लिटौ । न च अत्र अनद्यतनः कालः विवक्षितः । कः तर्हि । भूतकालसामान्यं ।
(पाणिनीयसूत्र ३,३।१३२।२) कि.,१५९।१-१४ रो.,३४८-३५० (कात्यायन वार्तिक)आशंसासम्भावनयोः अविशेषात्तद्विधानस्य अप्राप्तिः (वार्तिकान्त)। आशंसा सम्भावनं इति अविशिष्टौ एतौ अर्थौ । आशंसासम्भावनयोः अविशेषात्तद्विधानस्य अप्राप्तिः । आशंसायां ये विधीयन्ते ते सम्भावने अपि प्राप्नुवन्ति । ये च सम्भावने विधीयन्ते ते आशंसायां अपि प्राप्नुवन्ति । किं तर्हि उच्यते अप्राप्तिः इति । न साधीयः प्राप्तिः भवति । इष्टा व्यवस्था न प्रकल्पेत । न सर्वे सर्वत्र इष्यन्ते । (कात्यायन वार्तिक)न वा सम्भावनावयवत्वाताशंसायाः(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । सम्भावनावयवत्वाताशंसायाः । सम्भावनावयवात्मिका आशंसा । आशंसा नाम प्रधारितः अर्थः अभिनीतः च अनभिनीतः च । सम्भावनं नाम प्रधारितः अर्थः अभिनीतः एव। (कात्यायन वार्तिक)अर्थासन्देहः वा अलमर्थत्वात्सम्भावनस्य(वार्तिकान्त) । अथ वा अर्थासन्देहः एव पुनः अस्य । किं कारणं । अलमर्थत्वात्सम्भावनस्य । सम्भावने आलमर्थ्यं गम्यते आसंशायां पुनः अनालमर्थ्यं । आचार्यप्रवृत्तिः ज्ञापयति सम्भावने अपि अनालमर्थ्यं गम्यते इति यतयं सम्भावने अलं इति आह । तस्मात्सुष्ठु उच्यते न वा सम्भावनावयवत्वाताशंसायाः इति ।
(पाणिनीयसूत्र ३,३।१३३।१) कि.,१५९।१६-२०१।२ रो.,३५० (कात्यायन वार्तिक)क्षिप्रवचने लृअः आशंसावचने लिङ्विप्रतिषेधेन(वार्तिकान्त) । क्षिप्रवचने लृअः आशंसावचने लिङ्भवति विप्रतिषेधेन । क्षिप्रवचने लृट्भवति इति अस्य अवकाशः । उपाध्यायः चेतागतः क्षिप्रं अध्येष्यामहे । आशंसावचबे लिङ्भवति इति अस्य अवकाशः । उपाध्यायः चेतागतः आशंसे युक्तः अधीयीय । इह उभयं प्राप्नोति । उपाध्यायः चेतागतः आशंसे क्षिप्रं अधीयीय । लिङ्भवति विप्रतिषेधेन ।
(पाणिनीयसूत्र ३,३।१३३।२) कि.,१५९।२१-१६०।९ रो.,३५०-३५१ (कात्यायन वार्तिक)अनिष्पन्ने निष्पन्नशब्दः शिष्यः अनिष्पन्नत्वात्(वार्तिकान्त) । अनिष्पन्ने निष्पन्नशब्दः शिष्यः शासितव्यः । किं कारणं । अनिष्पन्नत्वात। देवः चेत्वृष्टः निष्पन्नाः शालयः । तत्र भवितव्यं सम्पत्स्यन्ते शालयः इति । (कात्यायन वार्तिक)सिद्धं तु भविष्यत्प्रतिषेधात्(वार्तिकान्त) । सिद्धं एतत। कथं । भविष्यत्प्रतिषेधात। यत्लोकः भविष्यद्वाचिनः शब्दस्य प्रयोगं न मृष्यति । कः चिताह । देवः चेत्वृष्टः सम्पत्स्यन्ते शालयः इति । सः उच्यते । मा एवं वोचः । सम्पन्नाः शालयः इति एवं ब्रूहि । (कात्यायन वार्तिक)हेतुभूतकालसम्प्रेक्षितत्वात्वा(वार्तिकान्त) । हेतुभूतकालसम्प्रेक्षितत्वात्वा पुनः सिद्धं एतत। हेतुभूतकालं वर्षं वर्षाकाला च क्रिया । यदि तर्हि निष्पन्नः अर्थः किं निष्पन्नकार्याणि न क्रियन्ते । कानि । भोजनादीनि । अन्यतिदानीं एततुच्यते किं निष्पन्नकार्याणि न क्रियन्ते इति । यत्तु तत्निष्पन्नः अर्थः न निष्पन्नः इति । सः निष्पन्नः अर्थः । अवश्यं खलु अपि कोष्ठगतेषु अपि शालिषु अवहननादीनि प्रतीक्ष्याणि । एवं इह अपि निष्पन्नः अर्थः । अवश्यं तु जननादीनि प्रतीक्ष्याणि ।
(पाणिनीयसूत्र ३,३।१३३।३) कि.,१६०।१०-१६१।२ रो.,३५१-३५२ (कात्यायन वार्तिक)अस्त्यर्थानां भवन्त्यर्थे सर्वाः विभक्तयः (वार्तिकान्त)। अस्त्यर्थानां भवन्त्यर्थे सर्वाः विभक्तयः । कूपः अस्ति । कूपः भविष्यति । कूपः भविता । कूपः अभूत। कूपः आसीत। कूपः बभूव इति । कथं पुनः ज्ञायते भवन्त्याः एषः अर्थः इति । कर्तुः विद्यमानत्वात। कर्ता अत्र विद्यते । कथं पुनः ज्ञायते कर्ता अत्र विद्यते इति । कूपः अनेन कदा चित्दृष्टः । न च अस्य कं चिदपि अपायं पश्यति । सः तु तत्र बुद्ध्या नित्यां सत्तां अध्यवस्यति । कूपः अस्ति इति । (कात्यायन वार्तिक)सिद्धं तु यथास्वं कालसमुच्चारणात्(वार्तिकान्त) । सिद्धं एतत। कथं । यथास्वं एताः विभक्तयः स्वेषु स्वेषु कालेषु प्रयुज्यन्ते इति । कथं पुनः ज्ञायते यथास्वं एताः विभक्तयः स्वेषु स्वेषु कालेषु प्रयुज्यन्ते इति । (कात्यायन वार्तिक)अवात्वात्(वार्तिकान्त) । यत्न वा भाष्यन्ते । (कात्यायन वार्तिक)असिद्धविपर्यासः च (वार्तिकान्त)। असिद्धः च विपर्यासः । न हि कः चित्कूपः अस्ति इति प्रयोक्तव्ये कूपः अभूतिति प्रयुङ्क्ते । किं पुनः कारणं । न वा भाष्यन्ते असिद्धः च विपर्यासः । इह किं चितिन्द्रियकर्म किं चित्बुद्धिकर्म । इन्द्रियकर्म समासादनं बुद्धिकर्मव्यवसायः । एवं हि कः चित्पाटलिपुत्रं जिगमिषुः आह । यः अयं अध्वा गन्तव्यः आ पाटलिपुत्रातेतस्मिन्कूपः भविष्यति । समासाद्य अतिक्रम्य उषित्वा कूपः आसीतिति । समासाद्य अतिक्रम्य उषित्वा विस्मृत्य कूपः बभूव इति । तत्यदा इन्द्रियकर्म तदा एताः विभक्तयः । यदा हि बुद्धिकर्म तदा वर्तमाना भविष्यति ।
(पाणिनीयसूत्र ३,३।१३५) कि.,१६१।४-१४ रो.,३५३-३५४ किमर्थं इमौ द्वौ प्रतिषेधौ उच्येते न अद्यतनवतिति एव उच्येत । (कात्यायन वार्तिक)न अनद्यतनवत्प्रतिषेधे लङ्लुटोः प्रतिषेधः(वार्तिकान्त) । न अनद्यतनवत्प्रतिषेधे लङ्लुटोः प्रतिषेधः द्रष्टव्यः । (कात्यायन वार्तिक)अद्यतनवद्वचने हि विधानम्(वार्तिकान्त) । अद्यतनवद्वचने हि सति विधिः इयं विज्ञायेत । तत्र कः दोषः । (कात्यायन वार्तिक)तत्र लड्विधिप्रसङ्गः(वार्तिकान्त) । तत्र लड्विधिः प्रसज्येत । (कात्यायन वार्तिक)लुङ्लृटोः च अयथाकालं (वार्तिकान्त)। लुङ्लृटोः च अयथाकालं प्रयोगः प्रसज्येत । लुङः अपि विषये लृट्स्यात्लृटः च विषये लुङ्स्यात। अद्य पुनः अयं द्वौ प्रतिषेधौ उक्त्वा तूष्णीं आस्ते । यथाप्राप्तें एव अद्यतने भविष्यति इति ।
(पाणिनीयसूत्र ३,३।१३६) कि.,१६१।१६-१६२।१३ रो.,३५४-३५५ किमर्थं इदं उच्यते न न अनद्यतनवतिति एव सिद्धं । (कात्यायन वार्तिक)भविष्यति मर्यादावचने अवरस्मिनिति अक्रियाप्रबन्धार्थम्(वार्तिकान्त) । अक्रियाप्रबन्धार्थः अयं आरम्भः । किं उच्यते अक्रियाप्रबन्धः । न पुनः क्रियाप्रबन्धार्थः अपि स्यात। (कात्यायन वार्तिक)क्रियाप्रबन्धार्थं इति चेत्वचनानर्थक्यम्(वार्तिकान्त) । क्रियाप्रबन्धार्थं इति चेत्वचनं अनर्थकं । सिद्धं क्रियाप्रबन्धे पूर्वेण एव । इदं तर्हि प्रयोजनं । अनहोरात्राणां इति वक्ष्यामि इति । इह मा भूत। यः अयं त्रिंशद्रात्रः आगामी तस्य यः अवरः पञ्चदशरात्रः इति । (कात्यायन वार्तिक)अहोरात्रप्रतिषेधार्थं इति चेत्न अनिष्टत्वात्(वार्तिकान्त) । अहोरात्रप्रतिषेधार्थं इति चेत्तत्न अनिष्टत्वात। किं कारणं । अनिष्टत्वात। अत्र अपि न अनद्यतनवतिति एव इष्यते । इदं तर्हि प्रयोजनं : भविष्यति इति वक्ष्यामि इति । इह म भूत। यः अयं अध्वा गतः आ पाटलिपुत्रात्तस्य यतवरं साकेतातिति । न अनिष्टत्वात। अत्र अपि न अनद्यतनवतिति एव इष्यते । इदं तर्हि प्रयोजनं मर्यादावचने इति वक्ष्यामि इति । इह मा भूत। यः अयं अध्वा अपरिमाणः गन्तव्यः तस्य यतवरं साकेतातिति । अत्र अपि न अनद्यतनवतिति एव इष्यते । तस्मात्सुष्ठु उच्यते भविष्यति मर्यादावचने अवरस्मिनिति अक्रियाप्रबन्धार्थं । क्रियाप्रबन्धार्थं इति चेत्वचनानर्थक्यं इति ।
(पाणिनीयसूत्र ३,३।१३७) कि.,१६२।१५-२१ रो.,३५६ (कात्यायन वार्तिक)अनहोरात्राणां इति तद्विभागे प्रतिषेधः(वार्तिकान्त) । अनहोरात्राणां इति तद्विभागे प्रतिषेधः वक्तव्यः । यः अयं त्रिंशद्रात्रः आगामीतस्य यः अवरः अर्धमासः । (कात्यायन वार्तिक)तैः च विभागे(वार्तिकान्त) । तैः च विभागे इति वक्तव्यं : यः अयं मासः आगामीतस्य यः अवरः पञ्चदशरात्रः इति । द्वेष्यं विजानीयातः अहोरात्राणां एव अहोरात्रैः विभागे प्रतिषेधः इति । तताचार्यः सुहृत्भूत्वा अन्वाचष्टे : अनहोरात्राणां इति तद्विभागे प्रतिषेधः । तैः च विभागे इति ।
(पाणिनीयसूत्र ३,३।१३८) कि.,१६२।२३ रो.,३५६) कस्मिन्परस्मिन। कालविभागे । कुतः एतत। योगविभागकरणसामर्थ्यात।
(पाणिनीयसूत्र ३,३।१३९) कि.,१६३।२-५ रो.,३५७ साधनातिपत्तौ इति अपि वक्तव्यं इह अपि यथा स्यात। अभोक्ष्यत भवान्मांसेन यदि मत्समीपे आसिष्यत इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । न अन्तरेण साधनं क्रियायाः प्रवृत्तिः अस्ति इति साधनातिपत्तिः चेत्क्रियातिपत्तिः अपि भवति । तत्र क्रियातिपत्तौ इति एव सिद्धं ।
(पाणिनीयसूत्र ३,३।१४०) कि.,१६३।७-८ रो.,३५७ (कात्यायन वार्तिक)भूते लृङुताप्यादिषु(वार्तिकान्त) । भूते लृङुताप्यादिषु द्रष्टव्यः । उत अध्याइष्यत । अपि अध्यैष्यत ।
(पाणिनीयसूत्र ३,३।१४१) कि.,१६३।१०-१३ रो.,३५७-३५८ (कात्यायन वार्तिक)विभाषा गर्हाप्रभृतौ प्राकुतापिभ्याम्(वार्तिकान्त) । विभाषा गर्हाप्रभृतौ प्राकुतापिभ्यां इति वक्तव्यं । वा आ उताप्योः इति हि उच्यमाने सन्देहः स्यातः प्राक्वा उतापिभ्यां सह वा इति । तताचार्यः सुहृत्भूत्वा अन्वाचष्टे विभाषा गर्हाप्रभृतौ प्राकुतापिभ्यां इति ।
(पाणिनीयसूत्र ३,३।१४२) कि.,१६३।१५-२० रो.,३५८ (कात्यायन वार्तिक)गर्हायां लड्विधानानर्थक्यं क्रियासमाप्तिविवक्षितत्वात्(वार्तिकान्त) । गर्हायां लड्विधिः नर्थकः । किं कारणं । क्रियासमाप्तिविवक्षितत्वात। क्रियायाः अत्र असमाप्तिः गम्यते । एषः च नाम न्याय्यः वर्तमानः कालः यत्र क्रिया अपरिसमाप्ता भवति । तत्र वर्तमाने लटिति एव सिद्धं । यदि वर्तमाने लटिति एवं अत्र लट्भवति शतृशानचौ प्राप्नुतः । इष्येते च शतृशानचौ : अपि मां याजयन्तं पश्य । अपि मां याजयमानं पश्य ।
(पाणिनीयसूत्र ३,३।१४५) कि.,१६४।२-८ रो.,३५८-३५९ (कात्यायन वार्तिक)किंवृत्तस्य अनधिकारातुत्तरत्र अकिंवृत्तग्रहणानर्थक्यम्(वार्तिकान्त) । किंवृत्तस्य अनधिकारातुत्तरत्र अकिंवृत्तग्रहणं अनर्थकं । निवृत्तं किंवृत्ते इति । तस्मिन्निवृत्ते अविशेषेण किंवृत्ते अकिंवृत्ते च भविष्यति । इदं तर्हि प्रयोजनं उपपदसञ्ज्ञां वक्ष्यामि इति । उपपदसञ्ज्ञावचने किं प्रयोजनं । उपपदं अतिङिति समासः यथा स्यात। अतिङिति प्रतिषेधः प्राप्नोति । यदा तर्हि लृटः सत्सञ्ज्ञौ तदा उपपदसञ्ज्ञा भविष्यति । भविष्यदधिकारविहितस्य लृटः सत्स्ञ्ज्ञौ उच्येते अविशेषविहितः च अयं ।
(पाणिनीयसूत्र ३,३।१४७) कि.,१६४।१०-१२ रो.,३५९ (कात्यायन वार्तिक)जातुयदोः लिङ्विधाने यदायद्योः उपसङ्ख्यानम्(वार्तिकान्त) । जातुयदोः लिङ्विधाने यदायद्योः उपसङ्ख्यानं कर्तव्यं । यदा भवद्विधः क्षत्रियं याजयेत। यदि भवद्विधः क्षत्रियं याजयेत।
(पाणिनीयसूत्र ३,३।१५१) कि.,१६४।१४-१६ रो.,३५९-३६० (कात्यायन वार्तिक)चित्रीकरणे यदिप्रतिषेधानर्थक्यं अर्थान्यत्वात्(वार्तिकान्त) । चित्रीकरणे यदिप्रतिषेधः अनर्थकः । किं कारणं । अर्थान्यत्वात। न हि यदौ उपपदे चित्रीकरणं गम्यते । किं तर्हि । सम्भावनं ।
(पाणिनीयसूत्र ३,३।१५६) कि.,१६४।१८-१६५।५ रो.,३६० (कात्यायन वार्तिक)हेतुहेतुमतोः लिङ्वा(वार्तिकान्त) । हेतुहेतुमतोः लिङ्वा इति वक्तव्यं । अनेन चेत्यायात्न शकटं पर्याभवेत। अनेन चेत्यास्यति न शकटं पर्याभविष्यति । (कात्यायन वार्तिक)भविष्यदधिकारे(वार्तिकान्त) । भविष्यदधिकारे इति वक्तव्यं । इह मा भूत। वर्षति इति धावति । हन्ति इति पलयते । अथ इदानीं शतृशानचौ अत्र कस्मात्न भवतः । (कात्यायन वार्तिक)देवत्रातः गलः ग्राहः इतियोगे च सद्विधिः । मिथः ते न विभाष्यन्ते । गवाक्षः संशितव्रतः(वार्तिकान्त) ।
(पाणिनीयसूत्र ३,३।१५७) कि.,१६५।७-८ रो.,३६१ (कात्यायन वार्तिक)कामप्रवेदनं चेत्(वार्तिकान्त) । कामप्रवेदनं चेत्गम्यते इति वक्तव्यं । इह मा भूत। इच्छन्कटं करोति ।
(पाणिनीयसूत्र ३,३।१६१।१) कि.,१६५।१०-१५ रो.,३६१ विध्यधीष्टयोः कः विशेषः । विधिः नाम प्रेषणं । अधीष्टं नां सत्कार्पूर्विका व्यापारणा । अथ निमन्त्रणामन्त्रणयोः कः विशेषः । सन्निहितेन निमन्त्रणं भवति असन्निहितेन च आमन्त्रणं । न एषः अस्ति विशेषः । असन्निहितेन अपि निमन्त्रणं भवति सन्निहितेन च आमन्त्रणं । एवं तर्हि यत्नियोगतः कर्तव्यं तत्निमन्त्रणं । किं पुनः तत। हव्यं कव्यं वा । ब्राह्मणेन सिद्धं भुज्यतां इति उक्ते अधर्मः प्रत्याख्यातुः । आमन्त्रणे कामचारः ।
(पाणिनीयसूत्र ३,३।१६१।२) कि.,१६५।१६-१६६।२२ रो.,३६२-३६५ कथं पुनः इदं विज्ञायते । निमन्त्रणादीईनां अर्थे इति आहोस्वित्निमन्त्रणादिषु गम्यमानेषु इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)निमन्त्रणादीईनां अर्थे इति चेतामन्त्रयै निमन्त्रयै भवन्तं इति प्रत्ययानुपपत्तिः प्रकृत्या अभिहितत्वात्(वार्तिकान्त) । निमन्त्रणादीईनां अर्थे इति चेतामन्त्रयै निमन्त्रयै भवन्तं इति प्रत्ययानुपपत्तिः । किं कारणं । प्रकृत्या अभिहितत्वात। प्रकृत्या अभिहितः सः अर्थः इति कृत्वा प्रत्ययः न प्राप्नोति । (कात्यायन वार्तिक)द्विवचनबहुवनाप्रसिद्धिः च एकार्थत्वात्(वार्तिकान्त) । द्विवचनबहुवनयोः च अ प्रसिद्धिः । किं कारणं । एकार्थत्वात। एकः अयं अर्थः निमन्त्रणं नाम । तस्य एकत्वातेकवचनं एव प्राप्नोति । अस्तु तर्हि निमन्त्रणादिषु गम्यमानेषु । इह अपि तर्हि प्राप्नोति । देवदत्तः भवन्तं आमन्त्रयते । देवदत्तः भवन्तं निमन्त्रयते इति । (कात्यायन वार्तिक)सिद्धं तु द्वितीयाकाङ्क्षस्य प्रकृते प्रत्ययार्थे प्रत्ययविधानात्(वार्तिकान्त) । सिद्धं एतत। कथं । द्वितीयाकाङ्क्षस्य धातोः प्रकृते प्रत्ययार्थे प्रत्ययः भवति इति वक्तव्यं । के च प्रकृताः अर्थाः । भावकर्मकर्तारः । भवेत्सिद्धं प्राप्नोतु भवानामन्त्रणं अनुभवतु भवानमन्त्रणं इति यत्र द्वितीयः आकाङ्क्यते । इदं तु न सिध्यति आमन्त्रयै निमन्त्रयै इति । अत्र अपि द्वितीयः आकाङ्क्यते । कः । निमन्त्रिः एव । आमन्त्रयै आमन्त्रणं । निमन्त्रयै निमन्त्रणं । कथं पुनः निम्नत्रिः निमन्त्रणं आकाङ्क्षेत। दृष्टः च भावेन भावयोगः । तत्यथा इषिः इषिणा युज्यते स्त्रीत्वं च स्त्रीत्वेन । यावता अत्र द्वितीयः आकाङ्क्ष्यते अस्ति तर्हि निमन्त्रणादीनां अर्थे इति । ननु च उक्तं निमन्त्रणादीईनां अर्थे इति चेतामन्त्रयै निमन्त्रयै भवन्तं इति प्रत्ययानुपपत्तिः प्रकृत्या अभिहितत्वातिति । न एषः दोषः । यः असौ द्वितीयः आकाङ्क्ष्यते सः एव मम प्रत्ययार्थः भविष्यति । अयं तर्हि दोषः द्विवचनबहुवनाप्रसिद्धिः च एकार्थत्वातिति । न एषः दोषः । (कात्यायन वार्तिक)सुपां कर्मादयः अपि अर्थाः सङ्ख्या च एव तथा तिङां (वार्तिकान्त)। सुपां सङ्ख्या च एव अर्थः कर्मादयः च । तथा तिङां । (कात्यायन वार्तिक)प्रसिद्धः नियमः तत्र(वार्तिकान्त) । प्रसिद्धः तत्र नियमः । (कात्यायन वार्तिक)नियमः प्रकृतेषु वा(वार्तिकान्त) । अथ वा प्रकृतानर्थानपेक्ष्य नियमः । के च प्रकृताः । एकत्वादयः । एकस्मिनेव एकवचनं न द्वयोः न बहुषु । द्वयोः एव द्विवचनं नैकस्मिन्न बहुषु । बहुषु एव बहुवचनं न एकस्मिन्न द्वयोः इति ।
(पाणिनीयसूत्र ३,३।१६३) कि.,१६६।२४-१६७।७ रो.,३६५-३६६ किमर्थं प्रैषादिषु अर्थेषु कृत्याः विधीयन्ते न अविशेषेण विहिताः कृत्याः ते प्रैषादिषु भविष्यन्ति अन्यत्र च । प्रैषादिषु कृत्यानां विधानं नियमार्थं । नियमार्थः अयं आरम्भः । प्रैषादिषु एव कृत्याः यथा स्युः इति । (कात्यायन वार्तिक)प्रैषादिषु कृत्यानां वचनं नियमार्थं इति चेत्ततनिष्टं (वार्तिकान्त)। प्रैषादिषु कृत्यानां वचनं नियमार्थं इति चेत्ततनिष्टं प्राप्नोति । न हि प्रैषादिषु एव कृत्याः इष्यन्ते । किं तर्हि । अविशेषेण इष्यन्ते । बुसोपेन्ध्यं तृणोपेन्ध्यं घन्घात्यं । (कात्यायन वार्तिक)विध्यर्थं तु स्त्रियाः प्राकिति वचनात्(वार्तिकान्त) । विध्यर्थं तु प्रैषादिषु कृत्यानां वचनं । अयं प्रैषादिषु लोट्विधीयते । सः विशेषविहितः सामान्यविहितान्कृत्यान्बाधेत । वासरूपेण कृत्याः अपि भविष्यन्ति । न स्युः । किं कारणं । स्त्रियाः प्राकिति वचनात। प्राक्स्त्रियाः वा असरूपः ।
(पाणिनीयसूत्र ३,३।१६७) कि.,१६७।९-१२ रो.,३६६ प्रथमान्तेषु इति वक्तव्यं । किं प्रयोजनं । इह मा भूत। काले भुङ्क्ते । तत्तर्हि वक्तव्यं । न वक्तव्यं । प्रैषादिषु इति वर्तते । तत्च अवश्यं प्रैषादिग्रहणं अनुवर्त्यं । प्रथमान्तेषु इति हि उच्यमाने इह अपि प्रसज्येत । कालः पचति भूतानि कालः संहरति प्रजाः ।
(पाणिनीयसूत्र ३,४।२) कि.,१६८।१८-१७०।१४ रो.,३६९-३७३ (कात्यायन वार्तिक)हिस्वोः परस्मैपदात्मनेपदग्रहणं लादेशप्रतिषेधार्थम्(वार्तिकान्त) । हिस्वोः परस्मैपदात्मनेपदग्रहणं कर्तव्यं हिः परस्मैपदानां यथा स्यात्स्वः आत्मनेपदानां इति । किं प्रयोजनं । लादेशप्रतिषेधार्थं । लादेशौ हिस्वौ मा भूतां इति । किं च स्यात्यदि लादेशौ हिस्वौ स्यातां । तिङन्तं पदं इति पदसञ्ज्ञा न स्यात। मात्भूतेवं । सुबन्तं पदं इति पदसञ्ज्ञा भविष्यति । कथं स्वाद्युत्पत्तिः । लकारस्य कृत्त्वात्प्रातिपदिकत्वं तदाश्रयं प्रत्ययविधानं । लकारः कृत। तस्य कृत्त्वात्कृत्प्रातिपदिकं इति प्रातिपदिकसञ्ज्ञा । प्रातिपदिकाश्रया स्वाद्युत्पत्तिः अपि भविष्यति । यदि स्वाद्युत्पत्तिः सुपां श्रवणं प्राप्नोति । अव्ययातिति सुब्लुक्भविष्यति । कथं अव्ययत्वं । विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा । निपातं अव्ययं इति अव्ययसञ्ज्ञा । इह तर्हि सः भवान्लुनीहि लुनीहि इति एव अयं लुनाति तिङतिङः इति निघातः न प्राप्नोति । (कात्यायन वार्तिक)समसङ्ख्यार्थं च(वार्तिकान्त) । समसङ्ख्यार्थं च हिस्वोः परस्मैपदात्मनेपदग्रहणं कर्तव्यं हिः परस्मैपदानां यथा स्यात्स्वः आत्मनेपदानां । व्यतिकरः मा भूतिति । (कात्यायन वार्तिक)न वा तध्वमोः आदेशवचनं ज्ञापकं पदादेशस्य(वार्तिकान्त) । न वा हिस्वोः परस्मैपदात्मनेपदग्रहणं कर्तव्यं । किं कारणं । तध्वमोः आदेशवचनं ज्ञापकं पदादेशस्य । यतयं वा च तध्वमोः इति आह तत्ज्ञापयति आचार्यः पदादेशौ हिस्वौ इति । (कात्यायन वार्तिक)तत्र पदादेशे पित्त्वाटोः प्रतिषेधः(वार्तिकान्त) । तत्र पदादेशे पित्त्वस्य आटः च प्रतिषेधः वक्तव्यः । पित्त्वस्य तावत। सः भवान्लुनीहि लुनीहि इति एव अयं लुनाति । आटः खलु अपि । सः अहं लुनीहि लुनीहि इति एवं लुनानि । पित्त्वस्य तावत्न वक्तव्यः । पित्प्रतिषेधे योगविभागः करिष्यते । इह सेः हि भवति । ततः अपित्च । अपित्च भवति यावान्हिः नाम । आटः च अपि न वक्तव्यः । आटि कृते साट्कस्य आदेशः भविष्यति । इदं इह सम्प्रधार्यं : आट्क्रियतां आदेशः इति । किं अत्र कर्तव्यं । परत्वाताडागमः । नित्यः आदेशः । कृते अपि आटि प्राप्नोति अकृते अपि प्राप्नोति । आटपि नित्यः । कृते अपि आदेशे प्राप्नोति अकृते अपि प्राप्नोति । अनित्यः आट। अन्यस्य कृते अपि आदेशे प्राप्नोति अन्यस्य अकृते अपि प्राप्नोति । शब्दान्तरस्य च प्राप्नुवन्विधिः अनित्यः भवति । आदेशः अपि अनित्यः । अन्यस्य कृते आटि प्राप्नोति अन्यस्य अकृते । शब्दान्तरस्य च प्राप्नुवन्विधिः अनित्यः भवति । उभयोः अनित्ययोः परत्वाताडागमः । आटि कृते साट्कस्य आदेशः भविष्यति । इदं तर्हि सः अहं भुङ्क्ष्व भुङ्क्ष्व इति एवं भुनजै इति श्नसोः अल्लोपः इति अकारलोपः न प्राप्नोति । समसङ्ख्यार्थत्वं च अपि अपरिहृतं एव। (कात्यायन वार्तिक)सिद्धं तु लोड्मध्यमपुरुषैकवचनस्य क्रियासमभिहारे द्विर्वचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । लोड्मध्यमपुरुषैकवचनस्य क्रियासमभिहारे द्वे भवतः इति वक्तव्यं । केन विहितस्य क्रियासमभिहारे लोड्मध्यमपुरुषैकवचनस्य द्विर्वचनं उच्यते । एततेव ज्ञापयति आचार्यः भवति क्रियासमभिहारे लोटिति यतयं क्रियासमभिहारे लोड्मध्यमपुरुषैकवचनस्य द्विर्वचनं शास्ति । कुतः नु खलु एतत्ज्ञापकातत्र लोट्भविष्यति । न पुनः यः एव असौ अविशेषविहितः सः यदा क्रियासमभिहारे भवति तदा अस्य द्विर्वचनं भवति इति । लोड्मध्यमपुरुषैकवचने एव खलु अपि सिद्धं स्यात। इमौ च अन्यौ हिस्वौ सर्वेषां पुरुषाणां सर्वेषां वचनानां इष्येते । सूत्रं च भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं हिस्वोः परस्मैपदात्मनेपदग्रहणं लादेशप्रतिषेधार्थं । समसङ्ख्यार्थं च इति । न एषः दोषः । (कात्यायन वार्तिक)योगविभागात्सिद्धम्(वार्तिकान्त) । योगविभागः करिष्यते । क्रियासमभिहारे लोट्भवति । ततः लोटः हिस्वौ भवतः । लोटिति एव अनुवर्तते । लोटः यौ हिस्वौ इति । कथं वा च तध्वमोः इति । वा च तध्वम्भाविनः लोटः इति एवं एतत्विज्ञायते ।
(पाणिनीयसूत्र ३,४।४) कि.,१७०।१६-१९ रो.,३७३ किमर्थं इदं उच्यते । अनुप्रयोगः यथा स्यात। न एततस्ति प्रयोजनं । हिस्वान्तं अव्यक्तपदार्थकं । तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति । इदं तर्हि प्रयोजनं । यथाविधि इति वक्ष्यामि इति । एततपि न अस्ति प्रयोजनं । समुच्चये सामान्यवचनस्य इति वक्ष्यति । तत्र अन्तरेण वचनं यथाविधि अनुप्रयोगः भविष्यति ।
(पाणिनीयसूत्र ३,४।५) कि.,१७०।२१-२४ रो.,३७३-३७४ किमर्थं इदं उच्यते । अनुप्रयोगः यथा स्यात। न एततस्ति प्रयोजनं । हिस्वान्तं अव्यक्तपदार्थकं । तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति । इदं तर्हि प्रयोजनं । सामान्यवचनस्य इति वक्ष्यामि इति । एततपि न अस्ति प्रयोजनं । सामान्यवचनस्य अनुप्रयोगः अस्तु विशेषवचनस्य इति सामान्यवचनस्य अनुप्रयोगः भविष्यति लघुत्वात।
(पाणिनीयसूत्र ३,४।८) कि.,१७१।२-६ रो.,३७४ (कात्यायन वार्तिक)उपसंवादाशङ्कयोः वचनानर्थक्यं लिङर्थत्वात्(वार्तिकान्त) । उपसंवादाशङ्कयोः वचनं नर्थकं । किं कारणं । लिङर्थत्वात। लिङर्थे लेटिति एव सिद्धं । कः पुनः लिङर्थः । के चित्तावताहुः । हेतुहेतुमतोः लिङिति । अपरे आहुः : वक्तव्यः एव एतस्मिन्विशेषे लिङ। प्रयुज्यते हि लोके यदि मे भवानिदं कुर्यातहं अपि ते इदं दद्यां ।
(पाणिनीयसूत्र ३,४।९) कि.,१७१।९-१७ रो.,३७५ तुमर्थे इति उच्यते । कः तुमर्थः । कर्ता । यदि एवं न अर्थः तुमर्थग्रहणेन । येन एव खलु अपि हेतुना कर्तरि तुमुन्भवति तेन एव हेतुना सयादयः अपि भविष्यन्ति । एवं तर्हि सिद्धे सति यत्तुमर्थग्रहणं करोति तत्ज्ञापयति आचार्यः अस्ति अन्यः कर्तुः तुमुनः अर्थः इति । कः पुनः असौ । भावः । कुतः नु खलु एतत्भावे तुमुन्भविष्यति । न पुनः कर्मादिषु कारकेषु इति । ज्ञापकातयं कर्तुः अपकृष्यते । न च अन्यस्मिनर्थे आदिश्यते । अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति इति स्वार्थे भविष्यति तत्यथा गुप्तिज्किद्भ्यः सन्यावादिभ्यः कनिति । सः असौ स्वार्थे भवन्भावे भविष्यति । किं एतस्य ज्ञापने प्रयोजनं । अव्ययकृतः भावे भवन्ति इति एतत्न वक्तव्यं भवति ।
(पाणिनीयसूत्र ३,४।१९) कि. १७१।१९-१७२।४ रो.,३७५-३७६ किमर्थं मेङः सानुबन्धकस्य आत्त्वभूतस्य ग्रहणं क्रियते न उदीचां मेङः इति एव उच्येत । तत्र अयं अपि अर्थः । उदीचां मेङः इति व्यतिहारग्रहणं न कर्तव्यं भवति । किं कारणं । तद्विषयः हि सः । वय्तिहारविषयः एव मयतिः । एवं तर्हि सिद्धे सति यत्मेङः सानुबन्धकस्य आत्त्वभूतस्य ग्रहणं करोति तत्ज्ञापयति आचार्यः न अनुबन्धकृतं अनेजन्तत्वं भवति इति ।किं एतस्य ज्ञापने प्रयोजनं । तत्र असरूपसर्वादेशदाप्प्रतिषेधे पृथक्त्वनिर्देशः अनाकारान्तत्वातिति उक्तं । तत्न वक्तव्यं भवति । किमर्थं पुनः इदं उच्यते न समानकर्तृकयोः पूर्वकाले इति एव सिद्धं । अपूर्वकालार्थः अयं आरम्भः । पूर्वं हि असौ याचते पश्चातपमयते ।
(पाणिनीयसूत्र ३,४।२१।१) कि.,१७२।६-१३ रो.,३७६-३७७ इह कस्मात्न भवति : पूर्वं भुङ्क्ते पश्चात्व्रजति । स्वशब्देन उक्तत्वात्न भवति । न तर्हि इदानीं इदं भवति : पूर्वं भुक्त्वा ततः व्रजति इति । न एतत्क्रियापौर्वकाल्यं । किं तर्हि । कर्तृपौर्वकाल्यं । पूर्वं हि असौ भुक्त्वा अन्येभ्यः भोक्तृभ्यः ततः पश्चात्व्रजति अन्येभ्यः व्रजितृभ्यः । इह कस्मात्न भवति : आस्यते भोक्तुं इति । कुतः कस्मात्न भवति । किं आसेः आहोस्वित्भुजेः । भुजेः कस्मात्न भवति । अपूर्वकालत्वात। आसेः तर्हि कस्मात्न भवति । यस्मातत्र लट्भवति । एततत्र प्रष्टव्यं । लटत्र कथं भवति इति । लट्च अत्र वासरूपेण भविष्यति ।
(पाणिनीयसूत्र ३,४।२१।२) कि.,१७२।१४-१७३।१० रो.,३७७-३७८ (कात्यायन वार्तिक)समानकर्तृकयोः इति बहुषु अप्राप्तिः(वार्तिकान्त) । समानकर्तृकयोः इति बहुषु क्त्वा न प्राप्नोति । स्नात्वा भुक्त्वा पीत्वा व्रजति इति । किं पुन कारणं न सिध्यति । द्विवचननिर्देशात। द्विवचनेन अयं निर्देशः क्रियते । तेन द्वयोः एव पौर्वकाल्ये स्यात। बहूनां न स्यात। (कात्यायन वार्तिक)सिद्धं तु क्रियाप्रधनत्वात्(वार्तिकान्त) । सिद्धं एतत। कथं । क्रियाप्रधनत्वात। क्रियाप्रधानः अयं निर्देशः । न अत्र निर्देशः तन्त्रं । कथं पुनः तेन एव नाम निर्देशः क्रियते तत्च अतन्त्रं स्यात। तत्कारी च भवान्तद्द्वेषी च । नान्तरीयकत्वातत्र द्विवचनेन निर्देशः क्रियते । अवश्यं कया चित्विभक्त्या केन चित्वचनेन निर्देशः कर्तव्यः । तत्यथा कः चितन्नार्थी शालिकलापं सतुषं सपलालं आहरति नान्तरीयकत्वात। सः यावतादेयं तावतादाय तुषपलालानि उत्सृजति । तथा कः चित्मांसार्थी मत्स्यान्सशकलान्सकण्टकानाहरति नान्तरीयकत्वात। सः यावतादेयं तावतादाय शकलकण्टकानुत्सृजति । एवं इह अपि नान्तरीयकत्वात्द्विवचनेन निर्देशः क्रियते । न हि अत्र निर्देशः तन्त्रं । एवं अपि (कात्यायन वार्तिक)लोकविज्ञानात्न सिध्यति (वार्तिकान्त)। तत्यथा । लोके ब्राह्मणानां पूर्वं आनीयतां इति उक्ते सर्वपूर्वः आनीयते । एवं इह अपि सर्वपूर्वायाः क्रियायाः प्राप्नोति । (कात्यायन वार्तिक)अनन्त्यवचनात्तु सिद्धम्(वार्तिकान्त) । समानकर्तृकयोः अनन्त्यस्य इति वक्तव्यं । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं समानकर्तृकयोः इति बहुषु अप्राप्तिः इति । परिहृतं एतत्सिद्धं तु क्रियाप्रधनत्वातिति । ननु च उक्तं एवं अपि लोकविज्ञानात्न सिध्यति इति । न एषः दोषः सर्वेषां अत्र व्रजिक्रियां प्रति पौर्वकाल्यं । स्नात्वा व्रजति भुक्त्वा व्रजति पीत्वा व्रजति इति । एवं च कृत्वा प्रयोगः अनियतः भवति । स्नात्वा भुक्त्व पीत्वा व्रजति । पीत्वा स्नात्वा भुत्वा व्रजति इति ।
(पाणिनीयसूत्र ३,४।२१।३) कि.,१७३।११-१६ रो.,३७९ (कात्यायन वार्तिक)व्यादाय स्वपिति इति उपसङ्ख्यानं अपूर्वकालत्वात्(वार्तिकान्त) । व्यादाय स्वपिति इति उपसङ्ख्यानं कर्तव्यं । किं पुनः कारणं न सिध्यति । अपूर्वकालत्वात। पूर्वं हि असौ स्वपिति पश्चात्व्याददाति । (कात्यायन वार्तिक)न वा स्वप्नस्य अवकालत्वात्(वार्तिकान्त) । न वा कर्तव्यं । किं कारणं । स्वप्नस्य अवकालत्वात। अवरकालः स्वप्नः । अवश्यं असौ व्यादाय मुहुर्तं अपि स्वपिति ।
(पाणिनीयसूत्र ३,४।२४) कि.,१७३।१८-२५ रो.,३७९-३८१ किं इयं प्राप्ते विभाषा आहोस्वितप्राप्ते । कथं च प्राप्ते कथं वा अप्राप्ते । आभीक्ष्ण्ये इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते । किं च अतः । यदि प्राप्ते आभीक्ष्ण्ये अनिष्टा विभाषा प्राप्नोति अन्यत्र च इष्टा न सिध्यति । अथ अप्राप्ते । (कात्यायन वार्तिक)अग्रादिषु अप्राप्तविधेः समासप्रतिषेधः(वार्तिकान्त) । अग्रादिषु अप्राप्तविधेः समासप्रतिषेधः वक्तव्यः । सः तर्हि वक्तव्यः । न वक्तव्यः । उक्तं एततमा एव अव्ययेन इति अत्र एवकारकरणस्य प्रजोजनं । अमा एव अव्ययेन यत्तुल्यविधानं उपपदं तत्र समासः यथा स्यात। अमा च अन्येन च यत्तुल्यविधानं उपपदं तत्र मा भूतिति ।
(पाणिनीयसूत्र ३,४।२६।१) कि.,१७४।२-८ रो.,३८१ किमर्थं स्वादुमि मकारान्तत्वं निपात्यते न खमुञ्प्रकृतः सः अनुवर्तिष्यते । (कात्यायन वार्तिक)स्वादुमि मान्तनिपातनं ईकाराभावार्थम्(वार्तिकान्त) । स्वादुमि मान्तनिपातनं क्रियते ईकाराभावार्थं । ईकारः मा भूतिति । स्वाद्वीं कृत्वा यवागूं भुङ्क्ते । स्वादुङ्कारं यवागूं भुङ्क्ते । (कात्यायन वार्तिक)च्व्यन्तस्य च मकारान्तार्थम्(वार्तिकान्त) । च्व्यन्तस्य च मकारान्तत्वं निपात्यते । अस्वादु स्वादु कृत्वा भुङ्क्ते । स्वादुङ्कारं भुङ्क्ते ।
(पाणिनीयसूत्र ३,४।२६।२) कि.,१७४।९-१७५।२२ रो.,३८२-३८५ (कात्यायन वार्तिक)आ च तुमुनः समानाधिकरणे(वार्तिकान्त) । आ च तुमुनः प्रत्ययाः समानाधिकरणे वक्तव्याः । केन । अनुप्रयोगेण । किं प्रयोजनं । स्वादुङ्कारं यवागूः भुज्यते देवदत्तेन इति देवदत्ते तृतीया यथा स्यात। किं च कारणं न स्यात। णमुला अभिहितः कर्ता इति । ननु च भुजिप्रत्ययेन अनभिहितः कर्ता इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया । यदि सति अभिधाने च अनभिधाने च कुतः चितनभिधानं इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया यवाग्वां द्वितीया प्राप्नोति । किं कारणं । णमुला अनभिहितं कर्म इति । यदि पुनः अयं कर्मणि विज्ञायेत ण एवं शक्यं । इह हि स्वादुङ्कारं यवागूं भुङ्क्ते देवदत्तः इति यवाग्वां द्वितीया न स्यात। किं कारणं । णमुला अभिहितं कर्म इति । ननु च भुजिप्रत्ययेन अनभिहितं कर्म इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया । यदि सति अभिधाने च अनभिधाने च कुतः चितनभिधानं इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया देवदत्ते तृतीया प्राप्नोति । किं कारणं । णमुला अनभिहितः कर्ता इति । अथ अनेन क्त्वायां अर्थः : पक्त्वा ओदनः भुज्यते देवदत्तेन इति । बाढं अर्थः । देवदत्ते तृतीया यथा स्यात। किं च कारणं न स्यात। क्त्वया अभिहितः कर्ता इति । ननु च भुजिप्रत्ययेन अनभिहितः कर्ता इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया । यदि सति अभिधाने च अनभिधाने च कुतः चितनभिधानं इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया ओदने द्वितीया प्राप्नोति । किं कारणं । क्त्वया अनभिहितं कर्म इति । यदि पुनः अयं कर्मणि विज्ञायेत ण एवं शक्यं । इह हि पक्त्वा ओदनं भुङ्क्ते देवदत्तः इति ओदने द्वितीया न स्यात। किं कारणं । क्त्वया अभिहितं कर्म इति । ननु च भुजिप्रत्ययेन अनभिहितं कर्म इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया । यदि सति अभिधाने च अनभिधाने च कुतः चितनभिधानं इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया देवदत्ते तृतीया प्राप्नोति । किं कारणं । क्त्वया अनभिहितः कर्ता इति । अथ अनेन तुमुनि अर्थः । भोक्तुं ओदनः पच्यते देवदत्तेन । बाढं अर्थः । देवदत्ते तृतीया यथा स्यात। किं च कारणं न स्यात। तुमुना अभिहितः कर्ता इति । ननु च पचिप्रत्ययेन अनभिहितः कर्ता इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया । यदि सति अभिधाने च अनभिधाने च कुतः चितनभिधानं इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया ओदने द्वितीया प्राप्नोति । किं कारणं । तुमुना अनभिहितं कर्म इति । यदि पुनः अयं कर्मणि विज्ञायेत ण एवं शक्यं । इह हि भोक्तुं ओदनं पचति देवदत्तः इति ओदने द्वितीया न स्यात। किं कारणं । तुमुना अभिहितं कर्म इति । ननु च पचिप्रत्ययेन अनभिहितं कर्म इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया । यदि सति अभिधाने च अनभिधाने च कुतः चितनभिधानं इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया देवदत्ते तृतीया प्राप्नोति । किं कारणं । तुमुना अनभिहितः कर्ता इति । अथ अनेन इह अर्थः पक्त्वा ओदनं ग्रामः गम्यते देवदत्तेन । बाढं अर्थः । देवदत्ते तृतीया यथा स्यात। किं च कारणं न स्यात। क्त्वया अभिहितः कर्ता इति । ननु च गमिप्रत्ययेन अनभिहितः कर्ता इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया । यदि सति अभिधाने च अनभिधाने च कुतः चितनभिधानं इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया यतुक्तं ओदने द्वितीया प्राप्नोति इति सः दोषः न जायते । तत्तर्हि वक्तव्यं आ च तुमुनः समानाधिकरणे इति । न वक्तव्यं । अव्ययकृतः भावे भवन्ति इति भावे भविष्यन्ति । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । तुमर्थे इति वर्तते । तुमर्थः च कः । भावः ।
(पाणिनीयसूत्र ३,४।३२) कि.,१७५।२४-२६ रो.,३८५ ऊलोपश्चास्यान्यतरस्याङ्ग्रहणं शक्यं अकर्तुं । कथं गोष्पदं वृष्टः देवः इति । प्रातिः पूरणकर्मा । तस्मातेषः कः । यदि कः विभतीनां श्रवणं प्राप्नोति । श्रूयन्ते एव अत्र विभक्तयः । तत्यथा एकेन गोष्पदप्रेण ।
(पाणिनीयसूत्र ३,४।३७) कि.,१७६।२-१४ रो.,३८६ (कात्यायन वार्तिक)हनः करणे अनर्थकं वचनं हिंसार्थेभ्यः णमुल्विधानात्(वार्तिकान्त) । हनः करणे अनर्थकं वचनं । किं कारणं । हिंसार्थेभ्यः णमुल्विधानात। हिंसार्थेभ्यः णमुल्विधीयते । तेन एव सिद्धं । (कात्यायन वार्तिक)अर्थवत्तु अहिंसार्थस्य विधानात्(वार्तिकान्त) । अर्थवत्तु हन्तेः णमुल्वचनं । कः अर्थः । अहिंसार्थस्य विधानात। अहिंसार्थानां णमुल्यथा स्यात। अस्ति पुनः अयं क्व चित्हन्तिः अहिंसार्थः यदर्थः विधिः स्यात। अस्ति इति आह । पाण्युपघातं वेदिं हन्ति । (कात्यायन वार्तिक)नित्यसमासार्थं च(वार्तिकान्त) । नित्यसमासार्थं च हिंसार्थातपि हन्तेः अनेन विधिः एषितव्यः । कथं पुनः इच्छता अपि हिंसार्थात्हन्तेः अनेन विधिः लभ्यः । अनेन अस्तु तेन वा इति तेन स्यात्विप्रतिषेधेन । (कात्यायन वार्तिक)हन्तेः पूर्वविप्रतिषेधः वार्त्तिकेन एव ज्ञापितः(वार्तिकान्त) । यतयं नित्यसमासार्थं च इति आह तत्ज्ञापयति आचार्यः हिंसार्थातपि हन्तेः अनेन विधिः भवति इति ।
(पाणिनीयसूत्र ३,४।४१) कि.,१७६।१६-१८ रो.,३८७ इह कस्मात्न भवति । ग्रामे बद्धः इति । एवं वक्ष्यामि । अधिकरणे बन्धः सञ्ज्ञायां । ततः कर्त्रोः जीवपुरुषयोः नशिवहोः इति । कथं अट्टालिकाबन्धं बद्धः चण्डालिकाबनधं बद्धः । उपमाने कर्मणि च इति एवं भविष्यति ।
(पाणिनीयसूत्र ३,४।६०) कि.,१७६।२० रो.,३८७ अयुक्तः अयं निर्देशः । तिरश्चि इति भवितव्यं । सौत्रः अयं निर्देशः ।
(पाणिनीयसूत्र ३,४।६२) कि.,१७६।२२-१७७।३ रो.,३८७-३८८ अर्थग्रहणं किमर्थं । नाधाप्रत्यये इति इयति उच्यमाने इह एव स्यात्द्विधाकृत्य । इह न स्यात्द्वैधङ्कृत्य । अर्थग्रहणे पुनः क्रियमाणे न दोषः भवति । नाधाप्रत्यये सिद्धं भवति यः च अन्यः तेन समानार्थः । अथ प्रत्ययग्रहणं किमर्थं इह मा भूत्हिरुक्कृत्वा पृथक्कृत्वा ।
(पाणिनीयसूत्र ३,४।६४) कि.,१७७।५ रो.,३८८ अयुक्तः अयं निर्देशः । अनूचि इति भवितव्यं । सौत्रः अयं निर्देशः ।
(पाणिनीयसूत्र ३,४।६७।१) कि.,१७७।७-१७९।७ रो.,३८८-३९३ किमर्थं इदं उच्यते । (कात्यायन वार्तिक)कर्तरि कृद्वचनं अनादेशे स्वाऋथविज्ञानात्(वार्तिकान्त) । कर्तरि कृतः भवन्ति इति उच्यते अनादेशे स्वाऋथविज्ञानात। अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति । तत्यथा । गुप्तिज्किद्भ्यः सन्यावादिभ्यः कनिति । एवं इमे अपि प्रत्ययाः स्वार्थे स्युः । स्वार्थे मा भूवन्कर्तरि यथा स्युः इति एवमर्थं इदं उच्यते । न एततस्ति प्रयोजनं । यं इच्छति स्वार्थे आह तं । भावे घञ्भवति इति । कर्मणि तर्हि मा भूवनिति । कर्मणि अपि यं इच्छति आह तं । धः कर्मणि ष्ट्रनिति । करणाधिकरणयोः तर्हि मा भूवनिति । करणाधिकरणयोः अपि यं इच्छति आह तं । ल्युट्करणाधिकरणयोः भवति इति । सम्प्रदानापादानयोः तर्हि मा भूवनिति । सम्प्रदानापादानयोः अपि यं इच्छति आह तं । दाशगोघ्नौ सम्प्रदाने भीमादयः अपादाने इति । यः इदानीं अन्यः प्रत्ययः शेषः सः अन्तरेण वचनं कर्तरि एव भविष्यति । ततेव तर्हि प्रयोजनं स्वार्थे मा भूवनिति । ननु च उक्तं यं इच्छति स्वार्थे आह तं । भावे घञ्भवति इति । अन्यः सः भावः बाह्यः प्रकृत्यर्थात। अनेन इदानीं आभ्यन्तरे भावे स्युः । तत्र मा भूवनिति कर्तृग्रहणं । कः पुनः अनयोः भावयोः विशेषः । उक्तः भावभेदः भाष्ये । अस्ति प्रयोजनं एतत। किं तर्हि इति । (कात्यायन वार्तिक)तत्र ख्युनादिप्रतिषेधः नानावाक्यत्वात्(वार्तिकान्त) । तत्र ख्युनादीनां प्रतिषेधः वक्तव्यः । ख्युनादयः कर्तरि मा भूवनिति । ननु च करणे खुनादयः विधीयन्ते । ते कर्तरि न भविष्यन्ति । तेन च करणे स्युः अनेन च कर्तरि । ननु च अपवादत्वात्ख्युनादयः बाधकाः स्युः । न स्युः । किं कारणं । नानावाक्यत्वात। नानावाक्यं तत्च इदं च । समानवाक्ये अपवादैः उत्सर्गाहः बाध्यन्ते । नानावाक्यत्वात्बाधनं न प्राप्नोति । (कात्यायन वार्तिक)तद्वत्च कृत्येषु एवकारकरणम्(वार्तिकान्त) । एवं च कृत्वा कृत्येषु एवकारः क्रियते । तयोः एव कृत्यक्तखलर्थाः इति भावे च अकर्मकेभ्यः इति । किं प्रयोजनं । (कात्यायन वार्तिक)तत्च भव्याद्यर्थम्(वार्तिकान्त) । भव्यादिषु समावेशः सिद्धः भवति । गेयः माणवकः साम्नां । गेयानि माणवकेन सामानि इति । (कात्यायन वार्तिक)ऋषिदेवतयोः तु कृद्भिः समावेशवचनं ज्ञापकं असमावेशस्य(वार्तिकान्त) । यतयं कर्तरि च ऋषिदेवतयोः इति सिद्धे सति समावेशे समावेशार्थं चकारं शास्ति तत्ज्ञापयति आचार्यः न भवति समावेशः इति । किमर्थं तर्हि कृत्येषु एवकारः क्रियते । (कात्यायन वार्तिक)एवकारकरणं च चार्थे(वार्तिकान्त) । एवकारकरणं च चार्थे द्रष्टव्यं । तयोः भावकर्मणोः कृत्या भवन्ति भव्यादीनां कर्तरि च इति । किं प्रयोजनं । (कात्यायन वार्तिक)तत्च भव्याद्यर्थम्(वार्तिकान्त) । भव्यादिषु समावेशः सिद्धः भवति । गेयः माणवकः साम्नां । गेयानि माणवकेन सामानि इति । यत्तावतुच्यते ऋषिदेवतयोः तु कृद्भिः समावेशवचनं ज्ञापकं असमावेशस्य इति । न एतत्ज्ञापकसाध्यं अपवादैः उत्सर्गाः अपवादैः बाध्यन्ते इति । एषः एव न्यायः यतुत अपवादैः उत्सर्गाः बाध्येरन। ननु च उक्तं नानावाक्यत्वात्बाधनं न प्राप्नोति इति । न विदेशस्थं इति कृत्वा नानावाक्यं भवति । विदेशस्थं अपि सतेकवाक्यं भवति । तत्यथा द्वितीये अध्याये लुकुच्यते । तस्य चतुर्थषष्ठयोः अलुकुच्यते अपवादः । यतपि उच्यते एवकारकरणं च चार्थे इति । कथं पुनः अन्यः नाम अन्यस्य अर्थे वर्तते । कथं एवकारः चार्थे वर्तते । सः एषः एवकारः स्वार्थे वर्तते । किं प्रयोजनं । ज्ञापकार्थं । एतत्ज्ञापयति अचार्यः इतः उत्तरं समावेशः भवति इति । किं एतस्य ज्ञपने प्रयोजनं । तत्च भव्याद्यर्थं । भव्यादिषु समावेशः सिद्धः भवति । गेयः माणवकः साम्नां । गेयानि माणवकेन सामानि इति । यदि एतत्ज्ञप्यते इह अपि समावेशः प्राप्नोति दाशगोघ्नौ सम्प्रदाने भीमादयः अपादाने इति । अत्र अपि सिद्धं भवति । यतयं आदिकर्मणि क्तः कर्तरि च इति सिद्धे समावेशे समावेशं शास्ति तत्ज्ञपयति आचार्यः प्राकमुतः समावेशः भवति इति ।
(पाणिनीयसूत्र ३,४।६७।२) कि.,१७९।८-२५ रो.,३९३-३९६ किं पुनः अयं प्रत्ययनियमः : धातोः परः अकारः अकशब्दः वा नियोगतः कर्तारं ब्रुवन्कृत्सञ्ज्ञः च भवति प्रत्ययसञ्ज्ञः च इति । आहोस्वित्सञ्ज्ञानियमः : धातोः परः अकारः अकशब्दः वा स्वभावतः कर्तारं ब्रुवन्कृत्सञ्ज्ञः च भवति प्रत्ययसञ्ज्ञः च इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)तत्र प्रत्ययनियमे अनिष्टप्रसङ्गः(वार्तिकान्त) । तत्र प्रत्ययनियमे सति अनिष्टं प्राप्नोति । काष्ठभितब्राह्मणः , बलभितब्राह्मणः । एषः अपि नियोगतः कर्तारं ब्रुवन्कृत्सञ्ज्ञः च स्यात्प्रत्ययसञ्ज्ञः च । (कात्यायन वार्तिक)सञ्ज्ञानियमे सिद्धम्(वार्तिकान्त) । सञ्ज्ञानियमे सति सिद्धं भवति । यदि सञ्ज्ञानियमः विभक्तादिषु दोषः । विभक्ताः भ्रातरः पीताः गावः इति न सिध्यति । प्रत्ययनियमे पुनः सति परिगणिताभ्यः प्रकृतिभ्यः परः क्तः नियोगतः कर्तारं आह । न च इमाः तत्र परिगण्यन्ते प्रकृतयः । (कात्यायन वार्तिक)विभक्तादिषु च अप्राप्तिः प्रकृतेः प्रत्ययपरवचनात्(वार्तिकान्त) । विभक्तादिषु च प्रत्ययनियमस्य अप्राप्तिः । किं कारणं । प्रकृतेः प्रत्ययपरवचनात। परिगणिताभ्यः प्रकृतिभ्यः परः क्तः स्वभावतः कर्तारं आह । न च इमाः तत्र परिगण्यन्ते । न तर्हि इदानीं अयं साधुः भवति । भवति साधुः न तु कर्तरि । कथं तर्हि इदानीं अत्र कर्तृत्वं गम्यते । अकारः मत्वर्थीयः : विभक्तं एषां अस्ति विभक्ताः । पीतं एषां अस्ति पिताः इति । अथ वा उत्तरपदलोपः अत्र द्रष्टव्यः । विभक्तधनाः विभक्ताः । पीतोदकाः पिताः इति ।
(पाणिनीयसूत्र ३,४।६९) कि.,१७९।२७-१८१।७ रो.,३९६-४०० किमर्थं इदं उच्यते । लः एषु साधनेषु यथा स्यात्कर्तरि च कर्मणि च भावे च अकर्मकेभ्यः इति । न एततस्ति प्रयोजनं । भावकर्मणोः आत्मनेपदं विधीयते शेषात्कर्तरि परस्मैपदं । एतावान्च लः यतुत परस्मैपदं आत्मनेपदं च । सः च अयं एवं विहितः । अतः उत्तरं पठति । (कात्यायन वार्तिक)लग्रहणं सकर्मकनिवृत्त्यर्थम्(वार्तिकान्त) । लग्रहणं क्रियते सकर्मकनिवृत्त्यर्थं । सकर्मकाणां भावे लः मा भूते इति । यदि पुनः तत्र एव अकर्मकग्रहणं क्रियेत । तत्र अकर्मकग्रहणं कर्तव्यं । ननु च इह अपि क्रियते भावे च अकर्मकेभ्यः इति । परार्थं एतत्भविष्यति । तयोः एव कृत्यक्तखलर्थाः भावे च अकर्मकेभ्यः । यावतिह लग्रहणं तावत्तत्र अकर्मकग्रहणं । इह वा लग्रहणं क्रियेत तत्र वा अकर्मकग्रहणं । कः नु अत्र विशेषः । अयं अस्ति विशेषः । इह लग्रहणे क्रियमाणे आनः कर्तरि सिद्धः भवति । तत्र पुनः अकर्मकग्रहणे क्रियमाणे आनः कर्तरि न प्राप्नोति । तत्र अपि अकर्मकग्रहणे क्रियमाणे आनः कर्तरि सिद्धः भवति । कथं । भावकर्मणोः इति अतः अन्यत्यतात्मनेपदानुक्रमणं सर्वं तत्कर्त्रर्थं । विप्रतिषेधात्वा आनः कर्तरि । विप्रतिषेधात्वा आनः कर्तरि भविष्यति । तत्र भावकर्मणोः इति एततस्तु कर्तरि कृतिति । कर्तरि कृतिति एतत्भविष्यति विप्रतिषेधेन । सर्वप्रसङ्गः तु । सर्वेभ्यः तु धातुभ्यः आनः कर्तरि प्राप्नोति । परस्मैपदिभ्यः अपि । न एषः दोषः । अनुदात्तङितः इति एषः योगः नियमार्थः भविष्यति । यदि एषः योगः नियमार्थः विधिः न प्रकल्पते । आस्ते शेते इति । अथ विध्यर्थः आनस्य नियमः न प्राप्नोति । आसीनः शयानः । तथा नेः विशः इति एवमादि अनुक्रमणं यदि नियमाऋथः विधिः न प्रकल्पते । अथ विध्यर्थः आनस्य नियमः न प्राप्नोति । अस्तु तर्हि नियमार्थं । ननु च उक्तं विधिः न प्रकल्पते इति । विधिः च प्रक्¯प्तः । कथं । भावकर्मणोः इति अत्र अनुदात्तङितः इति एततनुवर्तिष्यते । यदि अनुवर्तते एवं अपि अनुदात्तङितः एव भावकर्मणोः आत्मनेपदं प्राप्नोति । एवं तर्हि योगविभागः करिष्यते । अनुदात्तङितः आत्मनेपदं भवति । ततः भावकर्मणोः । ततः कर्तरि । कर्तरि च आत्मनेपदं भवति अनुदात्तङितः इति एव । भावकर्मणोः इति निवृत्तं । ततः कर्मव्यतिहारे । कर्तरि इति एव अनुवर्तते । अनुदात्तङितः इति अपि निवृत्तं । यतपि उच्यते नेः विशः इति एवमादि अनुक्रमणं यदि नियमार्थं विधिः न प्रकल्पते । अथ विध्यर्थः आनस्य नियमः न प्राप्नोति इति । अस्तु विध्यर्थं । ननु च उक्तं आनस्य नियमः न प्राप्नोति इति । न एषः दोषः । यथा एव अत्र अप्राप्ताः तङः भवन्ति एवं आनः अपि भविष्यति । सर्वत्र अप्रसङ्गः तु । सर्वेषु तु साधनेषु आनः न प्राप्नोति । विप्रतिषेधात्वा आनः कर्तरि इति भावकर्मणोः न स्यात। कर्तरि एव स्यात। इह पुनः लग्रहणे क्रियमाणे कर्तरि कृतिति एततस्तु लः कर्मणि च भावे च अकर्मकेभ्यः इति लः कर्मणि च भावे च अकर्मकेभ्यः इति एतत्भविष्यत्विप्रतिषेधेन । सर्वप्रसङ्गः तु । लादेशः सर्वेषु साधनेषु प्राप्नोति । शतृक्वसूच भावकर्मणोः अपि प्राप्नुतः । न एषः दोषः । शेषात्परस्मैपदं कर्तरि इति एवं तौ कर्तारं ह्रियेते ।
(पाणिनीयसूत्र ३,४।७७।१) कि.,१८१।८-२५ रो.,४००-४०२ (कात्यायन वार्तिक)लादेशे सर्वप्रसङ्गः अविशेषात्(वार्तिकान्त) ¯आदेशे सर्वप्रसङ्गः । सर्वस्य लकारस्य आदेशः प्राप्नोति । अस्य अपि प्राप्नोति : लुनाति लभते । किं कारणं । अविशेषात। न हि कः चित्विशेषः उपादीयते : एवञ्जातीयकस्य लकारस्य आदेशः भवति इति । अनुपादीयमाने विशेषे सर्वप्रसङ्गः । अर्थवद्ग्रहणात्सिद्धं । अर्थवतः लकारस्य ग्रहणं न च एषः अर्तह्वत। (कात्यायन वार्तिक)अर्थवद्ग्रहणात्सिद्धं इति चेत्न वर्णग्रहणेषु (वार्तिकान्त)। अर्थवद्ग्रहणात्सिद्धं इति चेत्तत्न । किं कारणं । वर्णग्रहणं इदं । न च एतत्वर्णग्रहणेषु भवति अर्थवद्ग्रहणे न अनर्थकस्य इति । (कात्यायन वार्तिक)तस्मात्विशिष्तग्रहणम्(वार्तिकान्त) । तस्मात्विशिष्तस्य लकारस्य ग्रहणं कर्तव्यं । न कर्तव्यं । धातोः इति वर्तते । एवं अपि शाला माला मल्लः इति अत्र प्राप्नोति । उणादयः अव्युत्पन्नानि प्रातिपदिकानि । एवं अपि नन्दनः अत्र प्राप्नोति । इत्सञ्ज्ञा अत्र बाधिका भविष्यति । इह अपि तर्हि बाधेत । पचति पठति इति । इत्कार्याभावातत्र इत्सञ्ज्ञा न भविष्यति । इदं अस्ति इत्कार्यं लिति प्रत्ययात्पूर्वं उदात्तं भवति इति एषः स्वरः यथा स्यात। लिति इति उच्यते । न च अत्र लितं पश्यामः । अथ अपि कथं चित्वचनात्वा अनुवर्तनात्वा इत्सञ्ज्ञ्कानां आदेशः स्यातेवं अपि न दोषः । आचार्यप्रवृत्तिः ज्ञापयति न लादेशे लित्कार्यं भवति इति यतयं णलं लितं करोति । अथ अपि उणादयः व्युत्पाद्यन्ते एवं अपि नो दोषः । क्रियते विशिष्टग्रहणं लस्य इति ।
(पाणिनीयसूत्र ३,४।७७।२) कि.,१८२।१-६ रो.,४०२ (कात्यायन वार्तिक)लादेशः वर्णविधेः पूर्वविप्रतिषिद्धं (वार्तिकान्त)। लादेशः वर्णविधेः भवति पूर्वविप्रतिषेधेन । लादेशस्य अवकाशः पचतु पठतु । वर्णविधेः अवकाशः दध्यत्र मध्वत्र । इह उभयं प्राप्नोति । पचतु अत्र । पठतु अत्र । लादेशः भवति पूर्वविप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । लादेशः वर्णविधेः इति ।
(पाणिनीयसूत्र ३,४।७९) कि.,१८२।८-१८३।१ रो.,४०३-४०४ (कात्यायन वार्तिक)टितः एत्वे आत्मनेपदेषु आनप्रतिषेधः(वार्तिकान्त) । टितः एत्वे आत्मनेपदेषु आनप्रतिषेधः वक्तव्यः । पचमानः यजमानः । टितः इति एत्वं प्राप्नोति । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । ज्ञापकं वा सानुबन्धकस्य आदेशवचने इत्कार्याभावस्य इति । न एततस्ति उक्तं । एवं किल ततुक्तं स्यात्यदि एवं विज्ञायेत । टितात्मनेपदं टिदात्मनेपदं । टिदात्मनेपदानां इति । तत्च न । टितः लकारस्य यानि आत्मनेपदानि इति एवं एतत्विज्ञायते । अवश्यं च एततेवं विज्ञेयं । टितात्मनेपदं टिदात्मनेपदं । टिदात्मनेपदानां इति विज्ञायमाने अकुर्वि अत्र अपि प्रसज्येत । न एषः टित। कः तर्हि । ठित। सः च अवश्यं ठित्कर्तव्यः आदिः मा भूतिति । कथं इटः अतिति । इठः अतिति वक्ष्यामि इति । तत्च अवश्यं वक्तव्यं पर्यवपाद्यस्य मा भूत। लविषीष्ट । इह तर्हि इषं ऊर्जं अहं इतः आदि आतः लोपः इटि च इति आकारलोपः न प्राप्नोति । तस्मात्टितेषः । आदिः तर्हि कस्मात्न भवति । सप्तदश आदेशाः स्थानेयोगत्वं प्रयोजयन्ति । तानेकः न उत्सहते विहन्तुं इति कृत्वा आदिः न भविष्यति । पर्यवपाद्यस्य कस्मात्न भवति । लविषीष्ट इति । असिद्धं बहिरङ्गलक्षणं अन्तरङ्गलक्षणे इति । इदं तर्हि उक्तं प्राकृतानां आत्मनेपदानां एत्वं भवति इति । के च प्रकृताः । तादयः । (कात्यायन वार्तिक)आने मुक्ज्ञापकं तु एत्वे टित्तङां । इशिसीरिचः डारौरःसु । टितटितः । प्रकृते तत। गुणे कथं (वार्तिकान्त)।
(पाणिनीयसूत्र ३,४।८२।१) कि.,१८३।३-१८४।२ रो.,४०५-४०७ (कात्यायन वार्तिक)णलः शित्करणं सर्वादेशार्थम्(वार्तिकान्त) । णल्शित्कर्तव्यः । किं प्रयोजनं । सर्वादेशार्थं । शित्सर्वस्य इति सर्वादेशः यथा स्यात। अक्रियमाणे हि शकारे अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य प्रसज्येत । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । अनित्त्वात्सिद्धं इति । णकारः क्रियते । तस्य अनित्त्वात्सिद्धं । कः एषः परिहारः न्याय्यः । शकारं असि चोदितः । णकारं करिष्यामि शकारं न करिष्यामि इति । णकारः अत्र क्रियेत शकारः वा कः नु अत्र विशेषः । अवश्यं अत्र णकारः वृद्ध्यर्थः कर्तव्यः णिति इति वृद्धिः यथा स्यात। न अर्थः वृद्ध्यर्थेन णकारेण । णित्त्वे योगविभागः करिष्यते । इदं अस्ति गोतः णित। ततः अल। अल्च णित्भवति । ततः उत्तमः वा इति । एवं तर्हि लकारः क्रियते । तस्य अनित्त्वात्सिद्धं । कः एषः परिहारः न्याय्यः । शकारं असि चोदितः । लकारं करिष्यामि शकारं न करिष्यामि इति । लकारः अत्र क्रियेत शकारः वा कः नु अत्र विशेषः । अवश्यं एव अत्र स्वरार्थः लकारः कर्तव्यः लिति प्रत्ययात्पूर्वं उदात्तं भवति इति एषः स्वरः यथा स्यात। न एततस्ति प्रयोजनं । धातुस्वरे कृते द्विर्वचनं । तत्र आन्तर्यतः अन्तोदात्तस्य अन्तोदात्तः आदेशः भविष्यति । कथं पुनः अयं अन्तोदात्तः स्यात्यदा एकाच। व्यपदेशिवद्भावेन । यथा एव तर्हि व्यपदेशिवद्भावेन अन्तोदात्तः एवं आद्युदात्तः अपि । तत्र आन्तर्यतः आद्युदात्तस्य आद्युदात्तः आदेशः प्रसज्येत । सत्यं एतत। न तु इदं लक्षणं अस्ति धातोः आदिः उदात्तः भवति इति । इदं पुनः अस्ति धातोः अन्तः उदात्तः भवति इति । सः असौ लक्षणेन अन्तोदात्तः । तत्र आन्तर्यतः अन्तोदात्तस्य अन्तोदात्तः आदेशः भविष्यति । एततपि आदेशे न अस्ति आदेशस्य अन्तः उदात्तः भवति इति । प्रकृतितः अनेन स्वरः लभ्यः । प्रकृतिः च अस्य यथा एव अन्तोदात्ता एवं आद्युदात्ता अपि । द्विःप्रयोगे च अपि द्विर्वचने उभयोः अन्तोदात्तत्वं प्रसज्येत । अनुदात्तं पदं एकवर्जं इति न अस्ति यौगपद्येन सम्भवः । पर्यायः प्रसज्येत । तस्मात्स्वरार्थः लकारः कर्तव्यः । लकारः क्रियते । तस्य अनित्त्वात्सिद्धं ।
(पाणिनीयसूत्र ३,४।८२।२) कि.,१८४।३-११ रो.,४०७-४०८ (कात्यायन वार्तिक)अकारस्य शित्करणं सर्वादेशार्थम्(वार्तिकान्त) । अकारः शित्कर्तव्यः । किं प्रयोजनं । सर्वादेशार्थं । शित्सर्वस्य इति सर्वादेशः यथा स्यात। अक्रियमाणे हि शकारे अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य प्रसज्येत । ननु च अकारस्य अकारवचने प्रयोजनं न अस्ति इति कृत्वा अन्तरेण शकारं सर्वादेशः भविष्यति । अस्ति अन्यतकारस्य अकारवचने प्रयोजनं । किं । (कात्यायन वार्तिक)अकारवचनं समसङ्ख्यार्थम्(वार्तिकान्त) । सङ्ख्यातानुदेशः यथा स्यात। (कात्यायन वार्तिक)तस्मात्शित्करणम्(वार्तिकान्त) । तस्मात्शकारः कर्तव्यः । न कर्तव्यः । क्रियते न्यासे एव । प्रश्लिष्टनिर्देशः अयं । अ* अ* अ । सः अनेकाल्शित्सर्वस्य इति सर्वादेशः भविष्यति ।
(पाणिनीयसूत्र ३,४।८५) कि.,१८४।१४-२४ रो.,४०८-४०९ (कात्यायन वार्तिक)लङ्वदतिदेशे जुस्भावप्रतिषेधः(वार्तिकान्त) । लङ्वदतिदेशे जुस्भावस्य प्रतिषेधः वक्तव्यः । यान्तु वान्तु । लङः शाकटायनस्य एव इति जुस्भावः प्राप्नोति । (कात्यायन वार्तिक)उत्ववचनात्सिद्धम्(वार्तिकान्त) । उत्वं अत्र बाधकं भविष्यति । अनवकाशाः हि विधयः बाधकाः भवन्ति । सावकाशं च उत्वं । कः अवकाशः । पचतु पठतु । अत्र अपि इकारलोपः प्राप्नोति । तत्यथा एव उत्वं इकारलोपं बाधते एवं जुस्भावं अपि बाधते । न बाधते । किं कारणं । येन न अप्राप्ते तस्य बाधनं भवति । न च अप्राप्ते इकारलोपे उत्वं आरभ्यते । जुस्भावे पुनः प्राप्ते च अप्राप्ते च । अथ वा पुरस्तातपवादाः अनन्तरान्विधीन्बाधन्ते इति एवं उत्वं इकारलोपं बाधते जुभावं न बाधते । एवं तर्हि वक्ष्यति तत्र लङ्ग्रहणस्य प्रयोजनं । लङेव यः लङ्तत्र यथा स्यात। लङ्वद्भावेन यः लङ्तत्र मा भूतिति ।
(पाणिनीयसूत्र ३,४।८७,८९) कि.,१८५।३-९ रो.,४०९ (कात्यायन वार्तिक)हिन्योः उत्वप्रतिषेधः(वार्तिकान्त) । हिन्योः उकारस्य प्रतिषेधः वक्तव्यः । लुनीहि लुनानि । एः उः इति उत्वं प्राप्नोति । (कात्यायन वार्तिक)न वा उच्चारणसामर्थ्यात्(वार्तिकान्त) । न वा वक्तव्यः । किं कारणं । उच्चारणसामर्थ्यातत्र उत्वं न भविष्यति । अलघीयः च एव हि इकारोच्चारणं उकारोच्चारणात। इकारं च उच्चारयति उकारं च न उच्चारयति । तस्य एतत्प्रयोजनं उत्वं मा भूतिति ।
(पाणिनीयसूत्र ३,४।९३) कि.,१८५।११-१६ रो.,४०९-४१० (कात्यायन वार्तिक)एतः ऐत्वे आद्गुणप्रतिषेधः(वार्तिकान्त) । एतः ऐत्वे आद्गुणस्य प्रतिषेधः वक्तव्यः । पचाव इदं (पचावेदम्) । पचाम इदं (पचामेदम्) । आद्गुणे कृते एत ऐतिति ऐत्वं प्राप्नोति । (कात्यायन वार्तिक)न वा बहिरङ्गलक्षणत्वात्(वार्तिकान्त) । न वा वक्तव्यः । किं कारणं । बहिरङ्गलक्षणत्वात। बहिरङ्गलक्षणः आद्गुणः अन्तरङ्गलक्षणं ऐत्वं । असिद्धं बहिरङ्गं अन्तरङ्गे ।
(पाणिनीयसूत्र ३,४।१०२) कि.,१८५।१८-१८६।१२ रो.,४१०-४११ (कात्यायन वार्तिक)यासुडादेः सीयुट्प्रतिषेधः(वार्तिकान्त) । यासुडादेः सीयुटः प्रतिषेधः वक्तव्यः । चिनुयुः सुनुयुः । लिङः सीयुटिति सीयुट्प्राप्नोति । (कात्यायन वार्तिक)न वा वाक्यापकर्षात्(वार्तिकान्त) । न वा वक्तव्यः । किं कारणं । वाक्यापकर्षात। वाक्यापकर्षात्यासुट्सीयुटं बाधिष्यते । (कात्यायन वार्तिक)सुट्तिथोः तु अपकर्षविज्ञानम्(वार्तिकान्त) । सुटः तिथोः तु अपकर्षः विज्ञायेत । कृषीष्ट कृषीष्ठाः । (कात्यायन वार्तिक)अनादेः च सुड्वचनम्(वार्तिकान्त) । अनादेः च सुट्वक्तव्यः । कृषीयास्तां कृषीयास्थां । तकारथकारादेः लिङः इति सुट्न प्राप्नोति । (कात्यायन वार्तिक)न वा तिथोः प्रधानभावात्तद्विशेषणं लिङ्ग्रहणम्(वार्तिकान्त) । न वा वक्तव्यं । किं कारणं । तिथोः प्रधानभावात। तिथौ एव तत्र प्रधानं । तद्विशेषणं लिङ्ग्रहणं । न एवं विज्ञायते । तकारथकारयोः लिङः इति । कथं तर्हि । तकारथकारयोः सुट्भवति तौ चेत्लिङः इति ।
(पाणिनीयसूत्र ३,४।१०३) कि.,१८६।१४-२३ रो.,४११-४१२ किमर्थं यासुटः ङित्त्वं उच्यते । (कात्यायन वार्तिक)यासुटः ङिद्वचनं पिदर्थम्(वार्तिकान्त) । पिति वचनानि प्रयोजयन्ति । अथ किमर्थं उदात्तवचनं क्रियते । (कात्यायन वार्तिक)उदात्तवचनं च(वार्तिकान्त) । किं । पिदर्थं एव । (कात्यायन वार्तिक)आगमानुदात्तार्थं वा(वार्तिकान्त) । अथ वा एतत्ज्ञापयति आचार्यः आगमाः अनुदात्ताः भवन्ति इति । असति अन्यस्मिन्प्रयोजने ज्ञापकं भवति । उक्तं च एतत्यासुटः ङिद्वचनं पिदर्थं उदात्तवचनं च इति । शक्यं अनेन वक्तुं यासुट्परस्मैपदेषु भवति अपित्च लिङ्भवति इति । सः अयं एवं लघीयसा न्यासेन सिद्धे सति यत्गरीयांसं यत्नं आरभते तत्ज्ञापयति आचार्यः आगमाः अनुदात्ताः भवन्ति ।
(पाणिनीयसूत्र ३,४।११०) कि.,१८७।२-१८८।२ रो.,४१२-४१४ किं इदं जुसि आकारग्रहणं नियमार्थं आहोस्वित्प्रापकं । कथं च नियमार्थं स्यात्कथं वा प्रापकं । यदि सिज्ग्रहणं अनुवर्तते ततः नियमार्थं । अथ निवृत्तं ततः प्रापकं । कः च अत्र विशेषः । (कात्यायन वार्तिक)जुसि आकारग्रहणं नियमार्थं इति चेत्सिज्लुग्ग्रहणम्(वार्तिकान्त) । जुसि आकारग्रहणं नियमार्थं इति चेत्सिज्लुग्ग्रहणं कर्तव्यं । आतः सिज्लुगन्तातिति वक्तव्यं । इह मा भूत। अकार्षुः अहार्षुः । अस्तु तर्हि प्रापकं । (कात्यायन वार्तिक)प्रापकं इति चेत्प्रत्ययलक्षणप्रतिषेधः (वार्तिकान्त)। प्रापकं इति चेत्प्रत्ययलक्षणप्रतिषेधः वक्तव्यः । अभूवनिति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति । (कात्यायन वार्तिक)एवकारकरणं च(वार्तिकान्त) । एवकारकरणं च कर्तव्यं । लङः शाकटायनस्य एव इति । नियमाऋथः पुनः सति न अर्थः एवकारेण । ननु च प्रापके अपि सति सिद्धि विधिः आरभ्यमाणः अन्तरेण एवकारं नियमार्थः भविष्यति । इष्टतः अवधारणार्थः तर्हि एवकारः कर्तव्यः । यथा एवं विज्ञायेत लङः शाकटायनस्य एव । मा एवं विज्ञायि लङः एव शाकटायनस्य इति । किं च स्यात। लुङः शाकटायनस्य न स्यात। अदुः अपुः अधुः अस्थुः । (कात्यायन वार्तिक)लङ्ग्रहणं च(वार्तिकान्त) । लङ्ग्रहणं च कर्तव्यं । लङः शाकटायनस्य एव इति । नियमार्थे पुनः सति न अर्थः लङ्ग्रहणेन । आतः ङितः इति वर्तते । न च अन्यः आकारातनन्तरः ङितस्ति अन्यततः लङः । अस्तु तर्हि नियमार्थः । ननु च उक्तं जुसि आकारग्रहणं नियमार्थं इति चेत्सिज्लुग्ग्रहणं इति । न एषः दोषः । तुल्यजातीयस्य नियमः । कः च तुल्यजातीयः । यः द्वाभ्यां अनन्तरः आतः च सिचः च । अथ ततेवकारकरणं न एव कर्तव्यं । कर्तव्यं च । किं प्रयोजनं । उत्तरार्थं । लिट्च लिङाशिषि आर्धधातुकं एव यथा स्यात। इतरथा हि वचनातार्धधातुकसञ्ज्ञा स्यात्तिङ्ग्रहणेन च ग्रहणात्सार्वधातुकसञ्ज्ञा । अथ तत्लङ्ग्रहणं न एव कर्तव्यं । कर्तव्यं च । किं प्रयोजनं । लङेव यः लङ्तत्र यथा स्यात। लङ्वद्भावेन यः लङ्तत्र मा भूतिति ।
(पाणिनीयसूत्र ३,४।११४) कि.,१८८।४-१५ रो.,४१४-४१५ (कात्यायन वार्तिक)आर्धधातुकसञ्ज्ञायां धातुग्रहणम्(वार्तिकान्त) । आर्धधातुकसञ्ज्ञायां धातुग्रहणं कर्तव्यं । धातोः परस्य आर्धधातुकसञ्ज्ञा यथा स्यात। इह मा भूत। वृक्षत्वं वृक्षता इति । क्रियमाणे च अपि धातुग्रहणे (कात्यायन वार्तिक)स्वादिप्रतिषेधः(वार्तिकान्त) । स्वादीनां प्रतिषेधः वक्तव्यः । इह मा भूत। लूभ्यां लूभिः इति । अनुक्रान्तापेक्षं शेषग्रहणं ।एवं अपि अग्निकाम्प्यति वायुकाम्यति इति प्राप्नोति । तस्मात्धातुग्रहणं कर्तव्यं । न कर्तव्यं । आ तृतीयाध्यायपरिसमाप्तेः धात्वधिकारः प्रकृतः अनुवर्तते । क्व प्रकृतः । धातोः एकाचः हलादेः इति । एवं अपि श्रीकाम्यति भूकाम्यति इति प्राप्नोति । (कात्यायन वार्तिक)तद्विधानात्सिद्धम्(वार्तिकान्त) । विहितविशेषणं धातुग्रहणं । धातोः यः विहितः इति । धातोः एषः विहितः । सङ्कीर्त्य धातोः इति एवं यः विहितः इति।
पतञ्जलि व्याकरणमहाभाष्य
Bसेदोन्थे एदितिओन्ब्य्Fरन्ज़् Kइएल्होर्न्(Bोम्बय्१८८०-१८८५),
रेविसेद्ब्य्K।V। आभ्यन्कर्(Pऊन १९७२-१९९६)।
ईन्पुत्ब्य्ङेओर्गे Cअर्दोन,
फ़ोर्मत्तेद्ब्यंअसतो Kओबयशि।
आढःय़ाय़ा ४, (उन्सेग्मेन्तेद्)
SॠऊCठूऱ्E OF ऱ्EFEऱ्Eण्CES:
कि. न्,न।न्= Kइएल्होर्न् ।आभ्यन्करेदितिओन्_ वोलुमे,पगे।लिने
रो. न्,न।न्= ऱोहतकेदितिओन्_वोलुमे,पगे।लिने
पाणिनीयसूत्र न्,न।न।न्= Pआणिनि_अध्याय,पाद।सूत्र
(कात्यायन वार्तिक)॥।(वार्तिकान्त) = B्Oल्ढ्= Kआत्यायनऽस्Vआर्त्तिकस्
___________________________________________________________________
ठःईऽठ्EXठ्Fईल्E ईऽFOऱ्ऱ्EFEऱ्Eण्CE Pऊऱ्POSESOण्ल्य़्!
COPय़्ऱीङःठाण्ढ्ठ्EऱंऽOF ऊऽआङ्E आऽFOऱ्ऽOऊऱ्CE Fईल्E।
ठेxत्चोन्वेर्तेद्तो प्लैन्CSX+ (उनच्चेन्तेद्):
देस्च्रिप्तिओन् छरच्तेर् =आऽCईई
लोन्ग आ २२४
लोन्गा â २२६
लोन्गि ई २२७
लोन्गी ä २२८
लोन्गु ऊ २२९
लोन्गू æ २३०
वोचलिच्र् ऋ १५७
वोचलिच्ऱ् » १८७
लोन्ग्वोचलिच्र् ® १७४
वोचलिच्ल् ¯ १७५
लोन्ग्वोचलिच्ल् ° १७६
वेलर्न् ङ् २३९
वेलर्ण् ð २४०
पलतल्न् ञ् १६४
पलतल्ण् ¥ १६५
रेत्रोफ़्लेx थ् ठ् २४१
रेत्रोफ़्लेx ठ् ò २४२
रेत्रोफ़्लेx ध् ड् २४३
रेत्रोफ़्लेx ढ् ô २४४
रेत्रोफ़्लेx न् ण् २४५
रेत्रोफ़्लेx ण् ö २४६
पलतल्स् ष् २४७
पलतल्ऽ ऋ २४८
रेत्रोफ़्लेx स् ष् २४९
रेत्रोफ़्लेx S ú २५०
अनुस्वर ं २५२
चपितलनुस्वर ý २५३
विसर्ग : २५४
अनुनसिक Á १९३
Oथेर्छरच्तेर्सोफ़् थे CSX एन्चोदिन्ग्तब्ले अरे नोतिन्च्लुदेद।
ऊन्लेस्सिन्दिचतेदोथेर्wइसे, अच्चेन्त्शवे बीन्द्रोप्पेदिनोर्देर्
तो फ़चिलितते wओर्द्सेअर्छ।
Fओर चोम्प्रेहेन्सिवे लिस्तोफ़् CSX अन्दोथेर्ङ्ऱ्Eठीलेन्चोदिन्ग्स्
अन्द्फ़ोर्मत्स्सीः
www।सुब।उनि-गोएत्तिन्गेन।दे ।एबेने_१ ।फ़िइन्दोलो ।ग्रेतिल् ।ग्रेत्दिअच।प्द्फ़्
अन्द्
www।सुब।उनि-गोएत्तिन्गेन।दे ।एबेने_१ ।फ़िइन्दोलो ।ग्रेतिल् ।ग्रेत्दिअस।प्द्फ़्

अध्याय ४
(पाणिनीयसूत्र ४,१।१।१) कि.,१८९।२-१९१।७ रो.,४१९-४२८ ङ्याप्प्रातिपदिकग्रहणं किमर्थं । ङ्याप्प्रातिपदिकात्यथा स्युः । धातोः मा भूवनिति । न एततस्ति प्रयोजनं । धातोः तव्यादयः विधीयन्ते । ते अपवादत्वात्बाधकाः भविष्यन्ति । तिङन्तात्तर्हि मा भूवनिति । एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते । ते च अत्र तिङा उक्ताः एकत्वादयः इति कृत्वा उक्तार्थत्वान्न भविष्यन्ति । टाबादयः तर्हि तिङन्तात्मा भूवनिति । स्त्रियां टाबादयः विधीयन्ते । न च तिङन्तस्य स्त्रीत्वेन योगः अस्ति । अणादयः तर्हि तिङन्तात्मा भूवनिति । अपत्यादिष्वर्थेषु अणादयः विधीयन्ते । न च तिङन्तस्य अपत्यादिभिः योगः अस्ति । अथ अपि कथं चित्योगः स्यातेवं अपि न दोषः । आचार्यप्रवृत्तिः ज्ञापयति न तिङन्तातणादयः भवन्ति इति यतयं क्व चित्तद्धितविधौ तिङ्ग्रहणं करोति । अतिशायने तमबिष्ठनौ तिङः च इति । अतः उत्तरं पठति । (कात्यायन वार्तिक)ङ्याप्प्रातिपदिकग्रहणं अङ्गभपदसञ्ज्ञार्थम्(वार्तिकान्त) । ङ्याप्प्रातिपदिकग्रहणं क्रियते अङ्गभपदसञ्ज्ञार्थं । अङ्गभपदसञ्ज्ञाः ङ्याप्प्रातिपदिकस्य यथा स्युः इति । क्व पुनः इह अङ्गभपदसञ्ज्ञार्थेन ङ्याप्प्रातिपदिकग्रहणेन अर्थः । टाबादिषु । न एततस्ति प्रयोजनं । ग्रहणवद्भ्यः टाबादयः विधीयन्ते । उगितः ङीप्भवति अतः टाप्भवति इति । यत्तत्शब्दस्वरूपं गृह्यते तस्मात्तदुत्पत्तिः । तस्य एताः सञ्ज्ञाः भविष्यन्ति । अथ अपि कः चितग्रहणः एवं अपि अदोषः । स्त्रियां टाबादयः विधीयन्ते । यत्तत्शब्दस्वरूपं स्त्रियां वर्तते तस्मात्तदुत्पत्तिः । तस्य एताः सञ्ज्ञाः भविष्यन्ति । अणादिषु तर्हि । अणादयः अपि ग्रहणवद्भ्यः टाबादयः विधीयन्ते । गर्गादिभ्यः यञ्नडादिभ्यः फकिति । यत्तत्शब्दस्वरूपं गृह्यते तस्मात्तदुत्पत्तिः । तस्य एताः सञ्ज्ञाः भविष्यन्ति । अथ अपि कः चितग्रहणः एवं अपि अदोषः । अपत्यादिषु अर्थेषु अणादयः विधीयन्ते । यत्तत्शब्दस्वरूपं अपत्यादिषु अर्थेषु वर्तते तस्मात्तदुत्पत्तिः । तस्य एताः सञ्ज्ञाः भविष्यन्ति । स्वार्थिकेषु तर्हि । स्वार्थिकाः अपि ग्रहणवद्भ्यः विधीयन्ते । यावादिभ्यः कन्प्रज्ञाइद्भ्यः अणिति । यत्तत्शब्दस्वरूपं गृह्यते तस्मात्तदुत्पत्तिः । तस्य एताः सञ्ज्ञाः भविष्यन्ति । यः तर्हि अग्रहणः शुक्लतरः कृष्णतरः इति । अत्र अपि न यावत्शुक्लः तावत्शुक्लतरः । प्रकृष्टः शुक्लः शुक्लतरः । यत्तत्शब्दस्वरूपं प्रकृष्टे वर्तते तस्मात्तदुत्पत्तिः । तस्य एताः सञ्ज्ञाः भविष्यन्ति । स्वादिषु तर्हि । एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते । यत्तत्शब्दस्वरूपं एकत्वादिषु अर्थेषु वर्तते तस्मात्तदुत्पत्तिः । तस्य एताः सञ्ज्ञाः भविष्यन्ति । कथं पुनः इह उच्यमानाः स्वादयः एकत्वादिषु अर्थेषु शक्या विज्ञातुं । एकवाक्यत्वात। एकं वाक्यं तत्च इदं च । यदि एकं वाक्यं तत्च इदं च किमर्थं नानादेशस्थं क्रियते । कौशलमात्रं एतताचार्यः दर्शयति यतेकं वाक्यं सत्नानादेशस्थं करोति । अन्यतपि सङ्ग्रहीष्यामि इति । (कात्यायन वार्तिक)यच्छयोः च लुगर्थम्(वार्तिकान्त) । यच्छयोः तर्हि लुगर्थं ङ्याप्प्रातिपदिकग्रहणं क्रियते । कंसीयपरशव्ययोः यञञौ लुक्च इति ङ्याप्प्रातिपदिकात्परस्य लुक्यथा स्यात। अक्रियमाणे हि ङ्याप्प्रातिपदिकग्रहणे प्रकृतेः अपि लुक्प्रसज्येत । एततपि न अस्ति प्रयोजनं । यथा परिभाषितं प्रत्ययस्य लुक्श्लुलुपः भवन्ति इति प्रत्ययस्य भविष्यति । एवं अपि उकारसकारयोः प्रसज्येत । कमेः सः कंसः परान्श्र्णाति इति परशुः इति । उणादयः अव्युत्पन्नानि प्रातिपदिकानि । (कात्यायन वार्तिक)वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणे च प्रत्ययविधौ तत्सम्प्रत्ययार्थम्(वार्तिकान्त) । वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणे तर्हि प्रत्ययविधौ तत्सम्प्रत्ययार्थं ङ्याप्प्रातिपदिकग्रहणं क्रियते । वृद्धातवृद्धातवर्णान्टातनुदात्तादेः द्व्यचः इति एतानि प्रातिपदिकविशेषणानि यथा स्युः इति । अथ अक्रियमाणे ङ्याप्प्रातिपदिकग्रहणे कस्य एतानि विशेषणानि स्युः । समर्थविशेषणानि । तत्र कः दोषः । उदीचां वृद्धातगोत्रातिह च प्रसज्येत ज्ञानां ब्राह्मणानां अपत्यं इति । एतत्हि समर्थं वृद्धं । इह च न स्याथ्ज्ञयोः ब्राह्मणयोः अपत्यं इति । एतत्हि समर्थं अवृद्धं । वृद्ध। अवृद्ध । प्राचां अवृद्धात्फिन्बहुलं इह च प्रसज्येत ज्ञयोः ब्राह्मणयोः अपत्यं इति । एतत्हि समर्थं अवृद्धं । इह च न स्यात्ज्ञानां ब्राह्मणानां अपत्यं इति । एतत्हि समर्थं वृद्धं । अवृद्ध । अवर्ण । अत इञ्भवति इह एव स्यात्दक्षस्य अपत्यं दाक्षिः इति । एतत्हि समर्थं अकारान्तं । इह च न स्यात्दक्षयोः अपत्यं दक्षाणां अपत्यं इति । एतत्ह्स्समर्थं अनवर्णान्तं । अवर्ण
| स्वर | अनुदात्तादेः अञ्भवति इति इह च प्रसज्येत वाचः विकारः त्वचः विकारः इति | एतत्ह्स्समर्थं अनुदात्तादि | इह च न स्यात्सर्वेषां विकारः इति | एतत्ह्स्समर्थं उदात्तादि | स्वर | द्व्यज्लक्षण द्व्जचः ठनिति इह च प्रसज्येत वाचा तरति त्वचा तरति इति | एतत्हि समर्थं द्व्यच| इह च न स्याथ्घटेन तरति इति | एतत्हि समर्थं समर्थं अद्व्यच| अस्ति पुनः समर्थविशेषणे सति किं चितिष्टं सङ्गृहीतं भवति आहोस्वित्दोषान्तं एव | अस्ति इति आह | किं | साम्ना तरति वेम्ना तरति इति | एतत्हि समर्थं अपि ङ्याप्प्रातिपदिकं अपि |
(पाणिनीयसूत्र ४,१।१।२) कि.,१९१।१२-१९५।२३ रो.,४२८-४३८ अथ ङ्याब्ग्रहणं किमर्थं न प्रातिपदिकातिति एव सिद्धं । न सिध्यति । अप्रत्ययः इति प्रातिपदिकसञ्ज्ञायाः प्रतिषेधः प्राप्नोति । यदि एषः ङ्याब्ग्रहणे हेतुः त्यूग्रहणं अपि कर्तव्यं । तौ अपि हि प्रत्ययौ । तिग्रहणे तावत्वार्त्तं । तद्धितः प्रातिपदिकं इति प्रातिपदिकसञ्ज्ञा भविष्यति । ऊग्रहणे च अपि वार्त्तं । उवर्णान्तातूङ्विधीयते । तत्र एकादेशः । एकादेशे कृते अन्तादिवद्भावात्प्रातिपदिकसञ्ज्ञा भविष्यति । यदि एषः ऊङः अग्रहणे हेतुः आब्ग्रहणं अपि न कर्तव्यं । आपपि हि अकारान्तात्विधीयते । तत्र एकादेशः । एकादेशे कृते अन्तादिवद्भावात्प्रातिपदिकसञ्ज्ञा भविष्यति । यः तर्हि अनकारान्तात। क्रुञ्चा उष्णिहा देवविशा इति । अत्र अपि अकारान्तात्वृत्तिः लक्ष्यते । क्रुञ्चानालभेत । उष्णिहककुभौ । देवविशं च मनुष्यविशं च इति । इह तावतुष्णिहककुभौ इति । आपः एव एततौत्तरपदिकं ह्रस्वत्वं । इह खलु अपि देवविशं च मनुष्यविशं च इति । न अस्ति विशेषः अकारान्तातुत्पत्तौ सत्यां व्यञ्जनान्तात्वा इति । यत्तावतुच्यते इह तावतुष्णिहककुभौ इति । आपः एव एततौत्तरपदिकं ह्रस्वत्वं इति । सञ्ज्ञाच्छन्दसोः इति एवं तत। न च एषा सञ्ज्ञा न अपि इदं छन्दः । यतपि उच्यते इह खलु अपि देवविशं च मनुष्यविशं च इति । न अस्ति विशेषः अकारान्तातुत्पत्तौ सत्यां व्यञ्जनान्तात्वा इति । स्वरे विशेषः । यदि अत्र व्यञ्जनान्तातुत्पत्तिः स्यात्देवविशं इति एवं स्वरः प्रसज्येत । देवविशं इति च इष्यते । तस्मात्कः एषः एवम्विषयः । इदं तर्हि पादः अन्यतरस्यां टापृचि इति । ऋचि इति उच्यते । तत्र छान्दसत्वात्भविष्यति । ऋचि इति न इदं छन्दः विवक्षितं काठकं कापालकं अमुदकं पैप्पलादकं वा । किं तर्हि । प्रत्ययार्थविशेषणं एतत। ऋक्चेत्प्रत्ययार्थः भवति इति । एततपि न अस्ति प्रयोजनं पदशब्दः पादशब्दसमानार्थः अकारान्तः छन्दसि दृश्यते । तस्याः सप्ताक्षरं एकं पदं एअकः पादः इति अर्थः । तस्मातुत्पत्तिः भविष्यति । इदं तर्हि डापुभाभ्यां अन्यतरस्यां इति । बहुराजा बहुराजे बहुराजाः । (कात्यायन वार्तिक)ङ्याब्ग्रहणं अनर्थकं प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणात्(वार्तिकान्त) । ङ्याब्ग्रहणं अनर्थकं । किं कारणं । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणात। प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणं भवति इति एषा परिभाषा कर्तव्या । कः पुनः विशेषः एषा वा परिभाषा क्रियते आब्ग्रहणं वा । अवश्यं एषा परिभाषा कर्तव्या । बहूनि एतस्याः परिभाषायाः प्रयोजनानि । कानि । (कात्यायन वार्तिक)प्रयोजनं सर्वनामस्वरसमासतद्धितविधिलुगलुगर्थम्(वार्तिकान्त) । सर्वनामविधिः प्रयोजनं । सर्वनाम्नः सुटिह एव स्यात्तेषां येषां । तासां यासां इति अत्र न स्यात। न एततस्ति प्रयोजनं । अवर्णान्तात्टाप्विधीयते । तत्र एकादेशः । एकादेशे कृते अन्तादिवद्भावात्सुट्भविष्यति । इदं तर्हि प्रयोजनं । सर्वनाम्नः तृतीया च इह एव स्यात्भवता हेतुना भवतः हेतोः इति । भवत्या हेतुना भवत्याः हेतोः इति अत्र न स्यात। सर्वनाम । स्वर । कुशूलकूपकुम्भशालं बिले इह एव स्यात्कुशूलबिलं । कुशूलीबिलं इति अत्र न स्यात। स्वर । समास । द्वितीया श्रितादिभिः सह समस्यते इह एव स्यात्कष्टं श्रितः कष्टश्रितः । कष्टं श्रिता कष्टश्रिता इति अत्र न स्यात। एततपि न अस्ति प्रयोजनं । श्रितशब्दः अकारान्तः । तत्र एकादेशः । एकादेशे कृते अन्तादिवद्भावात्भविष्यति । इदं तर्हि । पूर्वसदृश इति इह एव स्यात्पित्रा सदृशः पितृसदृशः । पित्रा सदृशी पितृसदृशी इति अत्र न स्यात। समासः । तद्धितविधि । अचित्तहिअस्तिधेनोः ठकिह एव स्यात्हस्तिनां समूहः हास्तिकं । हस्तिनीनां समूहः हास्तिकं इति अत्र न स्यात। एततपि न अस्ति प्रयोजनं । पुंवद्भावेन एतत्सिद्धं । इदं तर्हि । प्रमाणे द्वयसच्यथा
इह भवति हस्तिद्वयसं हस्तिमात्रं एवं हस्तिनीद्वयसं हस्तिनीमात्रं इति अपि यथा स्यात। तद्धितविधि । लुक। न इन्द्सिद्धबध्नातिषु च इह एव स्यात्स्थण्डिलशायी । स्थण्डिलशायिनी इति अत्र न स्यात। लुक। अलुक। शयवासवासिषु अकालातिह एव स्यात्ग्रामेवासी । ग्रामेवासिनी इति अत्र न स्यात। (कात्यायन वार्तिक)मानिनि च विधिप्रतिषेधाऋथं (वार्तिकान्त)। मानिनि च विधिप्रतिषेधाऋथं प्रयोजनं । विध्यर्थं तावत। क्यङ्मानिनोः च इह एव स्यात्दर्शनीयमानी । दर्शनीयमानिनी इति अत्र न स्यात। प्रतिषेधार्थं अपि । वक्याति श्वाङ्गात्च ईतः अमानिनि । तस्मिन्क्रियमाणे इह एव स्यात्दीर्घमुखमानी । दीर्घमुखमानिनी इति अत्र न स्यात। (कात्यायन वार्तिक)प्रत्ययग्रहणोपचारेषु च(वार्तिकान्त) । प्रत्ययग्रहणोपचारेषु च प्रयोजनं । तृजकाभ्यां कर्तरि इह एव स्यातपां स्रष्टा । अपां स्रष्ट्री इति अत्र न स्यात। उपचार : अतः कृकमिकंसकुम्भ इथ एव स्यातयस्कुम्भः । अयस्कुम्भी इति अत्र न स्यात। एतानि अस्याः परिभाषायाः प्रयोजनानि यदर्थं एषा परिभाषा कर्तव्या । एतस्यां च सत्यां न अर्थः ङ्याब्ग्रहणेन । (कात्यायन वार्तिक)अतिप्रसङ्गः उपपदविधौ(वार्तिकान्त) । उपपदविधौ अतिप्रसङ्गः भवति । द्विषत्परयोः तापेः यथा इह भवति द्विषन्तपः इति एवं द्विषतीतपः इति अत्र अपि स्यात। (कात्यायन वार्तिक)यञिञोः फकि(वार्तिकान्त) । यञिञोः फकि अतिप्रसङ्गः भवति । यथा इह भवति गार्ग्यायणः दाक्षायणः एवं गार्गेयः दाक्षेयः इति अत्र अपि स्यात। न एषः दोषः । ढकत्र बाधकः भविष्यति । (कात्यायन वार्तिक)समासान्तेषु च(वार्तिकान्त) । समासान्तेषु च अतिप्रसङ्गः भवति । राजाहसखिभ्यः टत्यथा इह भवति मद्रराजः कश्मीरराजः एवं मद्रराज्ञी कश्मीरराज्ञी इति अत्र अपि स्यात। न वा भवति मद्रराजी इति । भवति यदा समासान्तातीकारः । लिङ्गविशिष्टग्रहणे तु ईकारान्तात्समासान्तः प्रसज्येत । तत्र कः दोषः । पुंवद्भावः टिलोपः च । तत्र मद्रजी इति एतत्रूपं स्यात। मद्रराज्ञी इति च इष्यते । (कात्यायन वार्तिक)महदात्त्वे प्रियादिषु(वार्तिकान्त) । महदात्त्वे प्रियादिषु अतिप्रसङ्गः भवति । आत्महतः समानाधिकरणजातीययोः इति यथा इह भवति महान्प्रियः अस्य महाप्रियः एवं महती प्रिया अस्य महतीप्रियः इति अत्र अपि स्यात। किं उच्यते प्रियादिषु इति । यत्र पुंवद्भावः प्रतिषिध्यते । यत्र तु न प्रतिषिध्यते भवितव्यं एव तत्र आत्त्वेन । (कात्यायन वार्तिक)ञ्नित्स्वरे(वार्तिकान्त) । ञ्नित्स्वरे अतिप्रसङ्गः भवति । ञ्निति आदिः उदात्तः भवति यथा इह भवति दाक्षिः अहिचुम्बुकायनिः एवं दाक्षी अहिचुम्बुकायनी इति अत्र अपि स्यात। (कात्यायन वार्तिक)राज्ञः स्वरे ब्राह्मणकुमारयोः(वार्तिकान्त) । राज्ञः स्वरे ब्राह्मणकुमारयोः अतिप्रसङ्गः भवति । राजा च ब्राह्मणकुमारयोः इति यथा इह भवति राजकुमारः राजब्राह्मणः एवं राजकुमारी राजब्राह्मणी इति अत्र अपि स्यात। (कात्यायन वार्तिक)समाससङ्घातग्रहणेषु च(वार्तिकान्त) । समाससङ्घातग्रहणेषु च अतिप्रसङ्गः भवति । बहोः नञ्वतुत्तरपदभूम्नि यथा इह भवति बहुगोमान्बहुयवमानेवं बहुगोमती बहुयवमती इति अत्र अपि स्यात। किं उच्यते समाससङ्घातग्रहणेषु इति । यतवयवग्रहणं प्रयोजनं एव तस्याः परिभाषायाः । कुम्भशालं बिले कुशूलीबिलं इति यथा । (कात्यायन वार्तिक)विभक्तौ च उक्तम्(वार्तिकान्त) । किं उक्तं । न वा विभक्तौ लिङ्गविशिष्टाग्रहणातिति । एते अस्याः परिभाषाः दोषाः एतानि च प्रयोजनानि स्युः । एते दोषाः समाः भूयांसः वा । तस्मात्न अर्थः अनया परिभाषया । न हि दोषाः सन्ति इति परिभाषा न कर्तव्या लक्षणं वा न प्रणेयं । न हि भिक्षुकाः सन्ति इति स्थाल्यः न आश्रीयन्ते न च मृगाः सन्ति इति यवा न उप्यन्ते । न हि दोषाणां लक्षणं अस्ति इति । तस्मात्यानि एतस्या परिभाषयाः प्रयोजनानि तदर्थं एषा कर्तव्या प्रतिविधेयं च दोषेषु । (कात्यायन वार्तिक)तद्धितविधानाऋथं तु(वार्तिकान्त) । तद्धितविधानाऋथं तु ङ्याब्ग्रहणं कर्तव्यं । ङ्याबन्तात्तद्धितोत्पत्तिः यथा स्यात। कालितरा हरिणितरा खट्वातरा मालातरा । किं पुनः कारणं न सिध्यति । (कात्यायन वार्तिक)विप्रतिषेधात्हि तद्धितबलीयस्त्वं (वार्तिकान्त)। विप्रतिषेधात्हि तद्धितोत्पत्तिः प्राप्नोति । (कात्यायन वार्तिक)तत्र समासान्तेषु दोषः (वार्तिकान्त)। तत्र समासान्तेषु दोषः भवति । बहुगोमत्का बहुयवमत्का । समासान्ताः अपि ङ्याबन्तात्स्युः । (कात्यायन वार्तिक)त्यूङोः च ग्रहणम्(वार्तिकान्त) । त्यूङोः च ग्रहणं कर्तव्यं । युवतिका ब्रह्मबन्धुका इति । ऊङ्ग्रहणेन तावत्न अर्थः । न अस्ति अत्र विशेषः उकारान्तातुत्पत्तौ सत्यां ऊङन्तात्वा
| इदं तर्हि युवतितरा ब्रह्मबन्धुतरा इति | (कात्यायन वार्तिक)तदन्तस्य च प्रत्ययार्थेन अयोगात्तद्धितानुत्पत्तिः(वार्तिकान्त) | तदन्तस्य च ङ्याबन्तस्य प्रत्ययार्थेन अयोगात्तद्धितोत्पत्तिः न प्राप्नोति | कालितरा हरिङितरा खट्वातरा मालातरा | किं कारणं | ङ्यापन्तं एतत्स्त्रीप्रधानं | न च स्त्रीत्वस्य प्रकर्षापकर्षौ स्तः | न एषः दोषः | न हि किं चितुच्यते एवञ्जातीयकातुत्पत्तव्यं एवञ्जातीयकात्न इति | एतावतुच्यते अतिशायने तमबिष्ठनौ तिङः च इति | यस्य च प्रकर्षः अस्ति तस्य प्रकर्षे प्रत्ययः भविष्यति | अस्ति च अप्रधानस्य गुणस्य प्रकर्षः | इह खलु अपि शुक्लतरः कृष्णतरः इति द्रव्यं प्रधानं गुणस्य च प्रकर्षे प्रत्ययः उत्पद्यते | (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) | किं उक्तं | सिद्धं तु स्त्रियाः प्रातिपदिकविशेषणत्वात्स्वार्थे टाबादयः इति | प्रातिपदिकविशेषणं स्त्रीग्रहणं | स्वार्थिकाः टाबादयः | न एवं विज्ञयते स्त्रियां अभिधेयायां इति न अपि स्त्रीसमानाधिकरणात्प्रातिपदिकात| कथं तर्हि | यत्स्त्रियां प्रातिपदिकं वर्तते तस्मात्टाबादयः भवन्ति | कस्मिनर्थे | स्वार्थे इति | ननु च उक्तं तत्र समासान्तेषु दोषः इति | समासान्ताः अपि स्वार्थिकाः | उभयोः स्वार्थिकयोः परत्वात्समासान्ताः भविष्यन्ति | कथं कालिका इति | प्रत्ययस्थात्कात्पूर्व्सस्य इति इत्त्वं भविष्यति | कथं हरिणिका इति | हरिणशब्दः प्रकृत्यन्तरं अस्ति | कथं लोहिनिका इति | वक्ष्यति एततः लोहिता लिङ्गबाधनं वा इति |
(पाणिनीयसूत्र ४,१।३।१) कि.,१९५।२५-१९८।१९ रो.,४३९-४५२ स्त्रियां इति उच्यते । का स्त्री नाम । लोकततः एते शब्दाः प्रसिद्धाः स्त्रीपुमान्नपुंसकं इति । यत्लोके दृष्ट्वा एततवसीयते इयं स्त्री अयं पुमानिदं नपुंसकं इति सा स्त्रीसः पुमान्तत्नपुंसकं इति । किं पुनः लोके दृष्ट्वा एततवसीयते इयं स्त्री अयं पुमानिदं नपुंसकं इति । लिङ्गं । किं पुनः तत। (कात्यायन वार्तिक)स्तनकेशवती स्त्री स्यात। लोमशः पुरुषः स्मृतः । उभयोः अन्तरं यत्च तदभावे नपुंसकं । लिङ्गात्स्त्रीपुंसयोः ज्ञाने भ्रूकुंसे टा(वार्तिकान्त)P(कात्यायन वार्तिक) प्रसज्यते (वार्तिकान्त)। लिङ्गात्स्त्रीपुंसयोः ज्ञाने भ्रूकुंसे टाप्प्राप्नोति । यत्हि लोके दृष्ट्वा एततवसीयते इयं स्त्री इति अस्ति तत्भ्रूकुंसे । (कात्यायन वार्तिक)नत्वं खरकुटीः पश्य (वार्तिकान्त)। इह चञ्चाः पश्य वध्रिकाः पश्य खरकुटीः पश्य इति तस्मात्शसः नः पुंसि इति नत्वं प्राप्नोति । यत्हि दृष्ट्वा एततवसीयते अयं पुमानिति अस्ति तत्वध्रिकादिषु । (कात्यायन वार्तिक)खट्वावृक्षौ न सिध्यतः(वार्तिकान्त) । खट्वावृक्षयोः च लिङ्गं न सिध्यति । यत्हि लोके दृष्ट्वा एततवसीयते इयं स्त्री अयं पुमानिति न तत्खट्वावृक्षयोः अस्ति । किं तर्हि तयोः लिङ्गं न्याय्यं । (कात्यायन वार्तिक)नापुंसकं भवेत्तस्मिन्(वार्तिकान्त)। नपुंसकं खट्वावृक्षयोः लिङ्गं न्याय्यं । किं इदं नापुंसकं इति । नपुंसके भवं नापुंसकं । (कात्यायन वार्तिक)तदभावे नपुंसकम्(वार्तिकान्त) । तदभावे स्त्रीपुंसलिङ्गाभावे नपुंसकलिङ्गं न्याय्यं । (कात्यायन वार्तिक)असत्तु मृगतृष्णावत्(वार्तिकान्त) । असत्तु खट्वावृक्षयोः लिङ्गं द्रष्टव्यं । कथं पुनः असत्नाम लिङ्गं शक्यं द्रष्टुं । मृगतृष्णावत। तत्यथा मृगाः तृषिताः अपां धाराः पश्यन्ति । न च ताः सन्ति । (कात्यायन वार्तिक)गन्धर्व्नगरं यथा(वार्तिकान्त) । यथा गन्धर्वनगराणि दूरतः दृश्यन्ते उपसृत्य च न उपलभ्यन्ते तद्वत्खट्वावृक्षयोः लिङ्गं द्रष्टव्यं । (कात्यायन वार्तिक)आदित्यगतिवत्सत्न(वार्तिकान्त) । अथ व यथा आदित्यस्य गतिः सती न उपलभ्यते तद्वत्खट्वावृक्षयोः सत्लिङ्गं न उपलभ्यते । (कात्यायन वार्तिक)वस्त्रान्तर्हितवत्च तत्(वार्तिकान्त) । यथा वस्त्रान्तर्हितानि द्रव्याणि न उपलभ्यन्ते तद्वत्खट्वावृक्षयोः सत्लिङ्गं न उपलभ्यते । विषमः उपन्यासः । वस्त्रान्तर्हितानि द्रव्याणि वस्त्रापाये उपलभ्यन्ते । खट्वावृक्षयोः पुनः ये अपि एते रथ्काराः वाशीवृक्षादनहस्ताः मूलात्प्रभृति आ अग्रात्वृक्षान्तक्ष्णुवन्ति ते अपि तयोः लिङ्गं न उपलभन्ते । केन एततवसीयते खट्वावृक्षयोः सत्लिङ्गं न उपलभ्यते इति । षड्भिः प्रकारैः सतां भावानां अनुपलब्धिः भवति । सन्निकर्षाततिविप्रकर्षात्मूर्त्यन्तरव्यवधानात्तमसा आवृतत्वातिन्द्रियदौर्बल्याततिप्रमादातिति । अतः अत्र कः चित्हेतुः द्रष्टव्यः येन खट्वावृक्षयोः सत्लिङ्गं न उपलभ्यते । केन एततवसीयते खट्वावृक्षयोः सत्लिङ्गं न उपलभ्यते इति । (कात्यायन वार्तिक)तयोः तु तत्कृतं दृष्ट्वा(वार्तिकान्त) । स्त्रीकृतं शब्दं दृष्ट्वा स्त्री इति अवसीयते पुंस्कृतं दृष्ट्वा पुमानिति । (कात्यायन वार्तिक)यथा आकाशेन ज्योतिषः(वार्तिकान्त) । तत्यथा आकाशं दृष्ट्व ज्योतिः अत्र इति गम्यते । ज्योतिर्निमित्तं हि आकाशं । (कात्यायन वार्तिक)अन्योन्य्संश्रयं तु एतत्(वार्तिकान्त) । अन्योन्य्संश्रयं तु एतत्भवति । स्त्रीकृतः शब्दः शब्दकृतं च स्त्रीत्वं । एततितरेतराश्रयं भवति । इतरेतराश्रयाणि च न प्रकल्पन्ते । (कात्यायन वार्तिक)प्रत्यक्षेण विरुध्यते(वार्तिकान्त) । प्रत्यक्षेण खलु अपि सः विरुध्यते यः आह खट्वावृक्षयोः सत्लिङ्गं न उपलभ्यते इति । तत्र स्वेन्द्रियविरोधः कृतः भवति । न च नाम स्वेन्द्रियविरोधिना भवितव्यं । (कात्यायन वार्तिक)तटे च सर्वलिङ्गानि दृष्ट्वा कः अध्यवसायति(वार्तिकान्त) । तटे च खलु अपि सर्वाणि लिङ्गानि दृष्ट्वा तटः तटई तटं इति कः अध्यवसातुं अर्हति इयं स्त्रीअयं पुमानिदं नपुंसकं इति । तस्मात्न वैयाकरणैः शक्यं लौकिकं लिङ्गं आस्थातुं । अवश्यं च कः चित्स्वकृतान्तः आस्थेयः । कः असौ स्वकृतान्तः । (कात्यायन वार्तिक)संस्त्यानप्रसवौ लिङ्गं आस्थेयौ स्वकृतान्ततः(वार्तिकान्त) । संस्त्यानप्रसवौ लिङ्गं आस्थेयौ । किं इदं संस्त्यानप्रसवौ इति । (कात्यायन वार्तिक)संस्त्याने स्त्यायतेः ड्रट्(वार्तिकान्त):(कात्यायन वार्तिक) स्त्री(वार्तिकान्त) । (कात्यायन वार्तिक)सूतेः सप्प्रसवे पुमान्(वार्तिकान्त) इति । ननु च लोके अपि स्त्यायतेः एव स्त्री सूतेः च पुमान। अधिकरणसाधना लोके स्त्री : स्त्यायति अस्यां गर्भः इति । कर्तृसाधनः च पुमानः सूते पुमानिति । इह पुनः उभयं भावसाधनं : स्त्यानं स्त्री प्रवृत्तिः च पुमान। कस्य पुनः स्त्यानं स्त्री प्रवृत्तिः वा पुमान। गुणानां । केषां । शब्सस्पर्शरूपरसगन्धानां । सर्वाः च पुनः मूर्तयः एवमात्मिकाः संस्त्यानप्रसवगुणाः शब्सस्पर्शरूपरसगन्धवत्यः । यत्र अल्पीयांसः गुणाः तत्र अवरतः त्रयः शब्दः स्पर्शः रूपं इति । रसगन्धौ न सर्वत्र । प्रवृत्तिः खलु अपि नित्या । न हि इह कः चित्स्वस्मिनात्मनि मुहूर्तं अपि अवतिष्ठते । वर्धते वा यावतनेन वर्धितव्यं अपायेन वा युज्यते । तत्च उभयं सर्वत्र । यदि उभयं सर्वत्र कुतः व्यवस्था । विवक्षातः । संस्त्यानविवक्षायां स्त्री प्रसवविवक्षायां पुमानुभयोः अविवक्षायां नपूम्सकं । (कात्यायन वार्तिक)तस्य उक्तौ लोकतः नाम (वार्तिकान्त)। तस्य उक्तौ च वचने लोकतः नाम एतत्भवति स्त्री पुमान्नपुंसकं इति
| (कात्यायन वार्तिक)गुणः वा लुपि युक्तवत| (वार्तिकान्त)वध्रिकादिषु भूयान्परिहारः | लुपि युक्तवत्व्यक्तिवचने इति एवं अत्र गुणः भवति | न च एतत्मन्तव्यं स्वमनीषिकया उच्यते इति | पठिष्यति हि आचार्यः लिङ्गं अशिष्यं लोकाश्रयत्वात्लिङ्गस्य इति | पुनः पठिष्यति एकार्थे शब्दान्यत्वात्दृष्टं लिङ्गान्यत्वं अवयवान्यत्वात्च इति | (कात्यायन वार्तिक)संस्त्याने स्त्यायतेः ड्रट्स्त्रीसूतेः स(वार्तिकान्त)P(कात्यायन वार्तिक) प्रसवे पुमान| तस्य उक्तौ लोकतः नाम | गुणः वा लुपि युक्तवत्(वार्तिकान्त)|
(पाणिनीयसूत्र ४,१।३।२) कि.,१९८।२०-२००।२२ रो.,४५२-४५८ कथं पुनः इदं विज्ञायते । स्त्रियां अभिधेयायां टाबादयः भवन्ति इति आहोस्वित्स्त्रीसमानाधिकरणात्प्रातिपदिकातिति । कः च अत्र विशेषः । (कात्यायन वार्तिक)स्त्रियां इति स्त्र्यर्थाभिधाने चेत्टाबादयः द्विवचनबहुवचनानेकप्रत्ययानुपपत्तिः(वार्तिकान्त) । स्त्रियां इति स्त्र्यर्थाभिधाने चेत्टाबादयः भवन्ति द्विवचनबहुवचनयोः अनुपपत्तिः । कुमार्यौ कुमार्यः किशोर्यौ किशोर्यः । किं कारणं । एकः अयं अर्थः स्त्रीत्वं नाम । तस्य एकत्वातेकवचनं एव प्राप्नोति । अनेकप्रत्ययानुपपत्तिः च । अनेकः च प्रत्ययः न उपपद्यते । गार्ग्यायणी कारीषगन्ध्या कालितरा इति । किं कारणं । एकत्वात्स्त्रीत्वस्य । एकः अयं अर्थः स्त्रीत्वं नाम । तस्य एकेन उक्तत्वात्द्वितीयस्य प्रयोगेण न भवितव्यं । किं कारणं । उक्तार्थानां अप्रयोगः इति । (कात्यायन वार्तिक)स्त्र्यर्थस्य च प्रातिपदिकार्थत्वात्स्त्रियां इति लिङ्गानुपपत्तिः(वार्तिकान्त) । स्त्र्यर्थस्य च प्रातिपदिकार्थत्वात्स्त्रियां इति अधिकारः न प्राप्नोति । अस्तु तर्हि स्त्रीसमानाधिकरणात्प्रातिपदिकातिति । (कात्यायन वार्तिक)स्त्रीसमानाधिकरणातिति चेत्भूतादिषु अतिप्रसङ्गः(वार्तिकान्त) । स्त्रीसमानाधिकरणातिति चेत्भूतादिषु अतिप्रसङ्गः भवति । भूतं इयं ब्राह्मणी । कारणं इयं ब्राह्मणी इति । आवपनं इयं उष्ट्रिका इति । स्त्र्यर्थाभिधाने पुनः टाबादिषु सत्सु इह तावत्भूतं इयं ब्राह्मणी इति न अत्र स्त्रीत्वं विवक्षितं । किं तर्हि । पौतन्यं । कारणं इयं ब्राह्मणी इति न अत्र स्त्रीत्वं विवक्षितं । किं तर्हि । प्राधान्यं । आवपनं इयं उष्ट्रिका इति न अत्र स्त्रीत्वं विवक्षितं । किं तर्हि । सम्भवनं । (कात्यायन वार्तिक)षट्सञ्ज्ञकेभ्यः च प्रतिषेधः(वार्तिकान्त) । षट्सञ्ज्ञकेभ्यः च प्रतिषेधः वक्तव्यः । पञ्च ब्राह्मण्यः दश ब्राह्मण्यः । स्त्र्यर्थाभिधाने पुनः टाबादिषु सत्सु न अत्र स्त्रीत्वं विवक्षितं । किं तर्हि भेदः विवक्षितः सङ्ख्या । इह च स्त्री : ईकारः न प्राप्नोति । न हि तेन एव तस्य सामानाधिकरण्यं अस्ति । (कात्यायन वार्तिक)सिद्धं तु स्त्रियाः प्रातिपदिकविशेषणत्वात्स्वार्थे टाबादयः(वार्तिकान्त) । सिद्धं एतत। कथं । स्त्रियाः प्रातिपदिकविशेषणत्वात। प्रातिपदिकविशेषणं स्त्रीग्रहणं । स्वार्थिकाः टाबादयः । न एवं विज्ञायते स्त्रियां अभिधेयायां इति न अपि स्त्रीसमानाधिकरणातिति । कथं तर्हि । स्त्रियां यत्प्रातिपदिकं वर्तते तस्मात्टाबादयः भवन्ति । कस्मिनर्थे । स्वार्थे इति । अथ वा पुनः अस्तु स्त्रियां अभिधेयायां इति । ननु च उक्तं स्त्रियां इति स्त्र्यर्थाभिधाने चेत्टाबादयः द्विवचनबहुवचनानेकप्रत्ययानुपपत्तिः । स्त्र्यर्थस्य च प्रातिपदिकार्थत्वात्स्त्रियां इति लिङ्गानुपपत्तिः । न एषः दोषः । यत्तावतुच्यते द्विवचनबहुवचनयोः अनुपपत्तिः इति । (कात्यायन वार्तिक)गुणवचनस्य च आश्रयतः लिङ्गवचनभावात्(वार्तिकान्त)। गुणवचनानां हि शब्दानां आश्रयतः लिङ्गवचनानि भवन्ति । तत्यथा शुक्लं वस्त्रं , शुक्ला शाटी शुक्लः कम्बलः शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति । यतसौ द्रव्यं श्रितः भवति गुणः तस्य यत्लिङ्गं वचनं च तत्गुणस्य अपि भवति । एवं इह अपि यतदः द्रव्यं श्रितं भवति स्त्रीत्वं तस्य यत्लिङ्गं वचनं च तत्स्त्रीत्वस्य अपि भविष्यति । यतपि उच्यते अनेकप्रत्ययानुपपत्तिः इति । (कात्यायन वार्तिक)भावस्य च भावयुक्तत्वात्(वार्तिकान्त)। भावः भावेन युज्यते । तत्यथ इषिः इषिणा निमन्त्रिः च निमन्त्रिणा । विषमः उपन्यासः । युक्तं तत्र अन्यत्वं साधनभेदात्कालभेदात्च । उक्तं तत्र एकस्य बाह्यं साधनं सर्वकालः च प्रत्ययः अपरस्य आभ्यन्तरं साधनं वर्तमानकालः च प्रत्ययः इति । इह पुनः एकं स्त्रीत्वं । अथ एकं उपलभ्यते । किं च अतः यदि एकं उपलभ्यते द्वितीयं अपि उपलभ्यतां । अथ एकं अपि अनुमानगम्यं द्व्तीयं अपि अनुमानात्गम्यतां । कस्य तावत्भवानेवं गुणं न्याय्यं मन्यते स्त्रीत्वं नाम । द्रव्यस्य । द्रव्ये च भवतः कः सम्प्रत्ययः । यदि तावत्गुअणसमुदायः द्रव्यं का गतिः ये एते भावाः कृदभिहिताः तद्धिताभिहिताः च । चिकीर्षा गोता इति । अथ मतं एतत्कृदभिहितः भावः द्रव्यवत्भवति इति स्त्रीत्वं अपि स्त्रीत्वेन अभिहितं द्रव्यवत्भविष्यति । क्व च तावत्दोषः स्यात। दृष्टस्य हि दोषस्य सुसुखः परिहारः गार्ग्यायणी कारीषगन्ध्या कालितरा इति । इह तावत्गार्ग्यायणी
इति षित्करणसामर्थ्यात्ङीष्भविष्यति । कारीषगन्ध्या इति वचनात्चाप्भविष्यति । कालितरा इति न यावत्काली तावत्कालितरा । किं तर्हि । प्रकृष्टा काली कालितरा । यत्शब्दरूपं प्रकर्षे वर्तते तस्य अनुक्तं स्त्रीत्वं इति कृत्वा टाप्भविष्यति । यतपि उच्यते इह च स्त्री ईकारः न प्राप्नोति इति । निपातनातेतत्सिद्धं । किं निपातनं । स्त्रियां अकुन्तिकुरुभ्यः च इति ।
(पाणिनीयसूत्र ४,१।३।३) कि.,२००।२३-२०१।६ रो.,४५८ (कात्यायन वार्तिक)स्त्रीविषये ङ्यापोः अप्रसिद्धिः अकारान्तादर्शनात्(वार्तिकान्त) । स्त्रीविषये ङ्यापोः अप्रसिद्धिः । खट्वा माला । किं कारणं । अकारान्तादर्शनात। न हि अकारान्तता दृश्यते । ननु च इयं दृश्यते । अतिखट्वः अतिमालः इति । न एषा अकारान्तता । आपः एव एतत्ह्रस्वत्वं । (कात्यायन वार्तिक)सर्वेषां तु स्वरवर्णानुपूर्वीज्ञानार्थः उपदेशः(वार्तिकान्त) । सर्वेषां एव तु प्रातिपदिकानां स्वरवर्णानुपूर्वीज्ञानार्थः उपदेशः कर्तव्यः । शशः । षषः इति मा भूत। पलाशः । पलाषः इति मा भूत। मञ्चकः । मञ्जकः इति मा भूत। (कात्यायन वार्तिक)तस्मात्सिद्धम्(वार्तिकान्त) । तस्मात्सिद्धं एतत्भवति । अथ वा इयं अकारान्तता दृश्यते । पञ्चभिः खट्वाभिः क्रीतः पटः पञ्चखट्वः दशखट्वः ।
(पाणिनीयसूत्र ४,१।४) कि.,२०१।८-१७ रो.,४५९-४६१ (कात्यायन वार्तिक)शूद्रा च अमहत्पूर्वा(वार्तिकान्त) । शूद्रा च अमहत्पूर्वा इति वक्तव्यं । शूद्रा । अमहत्पूर्वा इति किमर्थं । महाशूद्री । (कात्यायन वार्तिक)जातिः(वार्तिकान्त) । जातिः इति वक्तव्यं । या हि मथती शूद्रा महाशूद्रा सा भवति । शूद्राशब्दः अजादिषु पठ्यते । तत्र कः प्रसङ्गः यत्महत्पूर्वात्स्यात। न एव प्राप्नोति न अर्थः प्रतिषेधेन । तदन्तविधिना प्राप्नोति । ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते । एवं तर्हि ज्ञापयति आचार्यः भवति इह तदन्तविधिः इति । किं एतस्य ज्ञापने प्रयोजनं । भवती , अतिभवती महती , अतिमहती : अत्र तदन्तविधिः सिद्धः भवति । जातिः इति च वक्ष्यामि । यदि एतत्ज्ञाप्यते पञ्चाजी दशाजी अत्र अपि प्राप्नोति । न एषः दोषः । अजादिभिः स्त्रियं विशेषयिष्यामः । अद्जादीनां या स्त्री इति ।
(पाणिनीयसूत्र ४,१।६।१) कि.,२०१।१९-२०२।११ रो.,४६१-४६३ कथं इदं विज्ञायते : उगितः प्रातिपदिकातिति आहोस्वितुगितन्तात्प्रातिपदिकातिति । किं च अतः । यदि विज्ञायते उगितः प्रातिपदिकातिति सिद्धं : भवती महती । अतिभवती , अतिमहती इति न सिध्यति । तदन्तविधिना भविष्यति । ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते । अथ विज्ञायते उगितन्तात्प्रातिपदिकातिति सिद्धं अतिभवती अतिमहती । भवती महती इति न सिध्यति । व्यपदेशिवद्भावेन भविष्यति । व्यपदेशिवद्भावः अप्रातिपदिकेन । उभयथा च निर्गोमती निर्यवमती इति न सिध्यति । किं कारणं । प्रत्ययग्रहणे यस्मात्सः तदादेः ग्रहणं भवति इति । यथा इच्छसि तथा अस्तु । अस्तु तावतुगितः प्रातिपदिकातिति । कथं अतिभवती अतिमहती इति । तदन्तविधिना भविष्यति । ननु च उक्तं ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते । न एतत्प्रातिपदिकग्रहणं । प्रातिपदिकाप्रातिपदिकयोः एतत्ग्रहणं । अथ वा पुनः अस्तु उगितन्तात्प्रातिपदिकातिति । कथं भवती महती इति । व्यपदेशिवद्भावेन भविष्यति । ननु च उक्तं व्यपदेशिवद्भावः अप्रातिपदिकेन इति । न एतत्प्रातिपदिकग्रहणं । प्रातिपदिकाप्रातिपदिकयोः एतत्ग्रहणं । यतपि उच्यते उभयथा च निर्गोमती निर्यवमती इति न सिध्यति । किं कारणं । प्रत्ययग्रहणे यस्मात्सः तदादेः ग्रहणं भवति इति । न एतत्प्रत्ययग्रहणं । प्रत्ययाप्रत्यययोः एतत्ग्रहणं । कथं । वर्णः अपि उगित्प्रत्ययः अपि उगित्प्रातिपदिकं अपि उगित।
(पाणिनीयसूत्र ४,१।६।२) कि.,२०२।१२-१८ रो.,४६३-४६४ (कात्यायन वार्तिक)धातोः उगितः प्रतिषेधः(वार्तिकान्त) । धातोः उगितः प्रतिषेधः वक्तव्यः । उखास्रात्ब्राह्मणी पर्णध्वत्ब्राह्मणी । (कात्यायन वार्तिक)अञ्चतेः च उपसङ्ख्यानम्(वार्तिकान्त) । अञ्चतेः च उपसङ्ख्यानं कर्तव्यं । प्राची प्रतीची । (कात्यायन वार्तिक)उगिति अञ्चतिग्रहणात्सिद्धं अधातोः (वार्तिकान्त)। उगिति अञ्चतिग्रहणातधातोः सिद्धं । अञ्चतिग्रहणं नियमार्थं भविष्यति । अञ्चतेः एव उगितः धातोः न अन्यस्य उगितः धातोः इति ।
(पाणिनीयसूत्र ४,१।७) कि.,२०२।२०-२०३।१६ रो.,४६४-४६६ इह कस्मात्न भवति । निःशूनी अतियूनी इति । अर्थवद्ग्रहणे न अनर्थकस्य इति । एवं अपि मघोनी अत्र प्राप्नोति । मघवन्शब्दः अव्युत्पन्नं प्रातिपदिकं । (कात्यायन वार्तिक)वनः न हशः(वार्तिकान्त) । वनः र च इति अत्र हशन्तात्न भवति इति वक्तव्यं । इह मा भूत। सहयुध्वा ब्राह्मणी इति । यदि न हशः इति उच्यते शर्वरी इति न सिध्यति । विहितविशेषणं हश्ग्रहणं । हशन्तात्यः विहितः इति । एवं अपि प्रेर्त्वरी इति न सिध्यति । कथं च अत्र तुगागमः । छान्दसत्वात। ङीब्रौ अपि तर्हि छान्दसत्वातेव भविष्यतः । बहुलं छन्दसि ङीब्रौ वक्तव्यौ । यज्वरीः इषः यज्वनीः इषः । (कात्यायन वार्तिक)रविधाने बहुव्रीहेः उपसङ्ख्यानं प्रतिषिद्धत्वात्(वार्तिकान्त) । रविधाने बहुव्रीहेः उपसङ्ख्यानं कर्तव्यं । बहुधीवरी बहुपीवरी । किं पुनः कारणं न सिध्यति । प्रतिषिद्धत्वात। अनः बहुव्रीहेः इति प्रतिषेधः प्राप्नोति । (कात्यायन वार्तिक)अनः बहुव्रीहिप्रतिषेधे वा उपधालोपिनः वावचनम्(वार्तिकान्त) । अनः बहुव्रीहिप्रतिषेधे वा उपधालोपिनः वा इति वक्तव्यं । अन्यथा कृत्वा चोदितं अन्यथा कृत्वा परिहारः । यथा उपसङ्ख्यानं चोदितं तथा नित्याभ्यां ङीब्राभ्यां भवितव्यं । यथा परिहारः तथा (कात्यायन वार्तिक)विभाषया भवितव्यं । (वार्तिकान्त)यथा उपसङ्ख्यानं चोदितं एवं अपि विभाषया भवितव्यं । । न हि अत्र ङीप्दुर्लभः । सिद्धः अत्र ङीपनः उपधालोपिनः अन्यतरस्यां इति । ङीप्सन्नियोगेन रः उच्यमानः अन्येन सति न स्यातिति एवमर्थं उपसङ्ख्यानं चोद्यते । किं पुनः कारणं ङीप्सन्नियोगेन रः उच्यते । इह मा भूत्सुपर्वा चारुपर्वा इति । तत्तर्हि उपसङ्ख्यानं कर्तव्यं । न कर्तव्यं । वक्ष्यति डापुभाभ्यां अन्यतरस्यां इति अत्र अन्यतरस्याङ्ग्रहणस्य प्रयोजनं । डाप्प्रतिषेधाभ्यां मुक्ते ङीब्रौ अपि यथा स्यातां इति ।
(पाणिनीयसूत्र ४,१।१०) कि.,२०३।१८-२०४।८ रो.,४६६-४६८ कस्य अयं प्रतिषेधः । ङीपनन्तरः तस्य प्रतिषेधः । (कात्यायन वार्तिक)अथ इदानीं ङीपि प्रतिषिद्धे षट्सञ्ज्ञानां अन्ते लुप्ते टाबुत्पत्तिः कस्मात्न स्यात्(वार्तिकान्त)। अतः इति प्राप्नोति । असिद्धः नलोपः । तस्य असिद्धत्वात्न भविष्यति । परिगणितेषु कार्येषु नलोपः असिद्धः न च इदं तत्र परिगण्यते । इदं अपि तत्र परिगण्यते । (कात्यायन वार्तिक)प्रत्याहारात्चापा सिद्धं (वार्तिकान्त)। सुपिति न इदं प्रत्ययग्रहणं । किं तर्हि । प्रत्याहारग्रहणं । क्व सन्निविष्टानां प्रत्याहारः । प्रथमैकवचनात्प्रभृति आ चापः पकारात। यदि प्रत्याहारग्रहणं (कात्यायन वार्तिक)दोषः तु इत्त्वे(वार्तिकान्त) । इत्त्वे दोषः भवति । बहुचर्मिका । प्रत्ययस्थात्कात्पूर्वस्य आतः इति इत्त्वं न प्राप्नोति । (कात्यायन वार्तिक)तस्मात्न उभौ(वार्तिकान्त) । तस्मात्षट्सञ्ज्ञकेभ्यः उभौ न भवतः इति वक्तव्यं । तत्तर्हि वक्तव्यं । न वक्तव्यं । स्त्रियां इति वर्तते । स्त्रियां यत्प्राप्नोति तस्य प्रतिषेधः ।
(पाणिनीयसूत्र ४,१।१३।१) कि.,२०४।१०-२२ रो.,४६८-४६९ किमर्थं उभाभ्यां इति उच्यते । उभाभ्यां योगाभ्यां डाप्यथा स्यात्मनन्तातनन्तात्च बहुव्रीहेः । न एततस्ति प्रयोजनं । प्रकृतं उभयं अनुवर्तते । अथ अन्यतरस्याङ्ग्रहणं किमर्थं । अन्यतरस्यां डाप्यथा स्यात। डापा मुक्ते प्रतिषेधः अपि यथा स्यातिति । न एततस्ति प्रयोजनं । इह डापपि उच्यते प्रतिषेधः अपि । तौ उभौ वचनात्भविष्यतः । इदं तर्हि प्रयोजनं । डाप्प्रतिषेधाभ्यां मुक्ते ङीपपि यथा स्यात। सिद्धः अत्र ङीपनः उपधालोपिनः अन्यतरस्यां इति । अथ ततन्यतरस्याङ्ग्रहणं शक्यं अकर्तुं । बाढं शक्यं । कथं । इह डापपि उच्यते प्रतिषेधः अपि ङीपपि । तत्सर्वं वचनात्भविष्यति । न एवं शक्यं विज्ञातुं । अक्रियमाणे हि तत्र अन्यतरस्याङ्ग्रहणे अनवकाशः ङीप्डाप्प्रतिषेधौ बाधेत । डाप्प्रतिषेधौ अपि अनवकाशौ । तौ वचनात्भविष्यतः । सावकाशौ डाप्प्रतिषेधौ । कः अवकाशः । सुपर्वा चारुपर्वा इति । तस्मात्ततन्यतरस्याङ्ग्रहणं कर्तव्यं । इदं तु खलु अन्यतरस्याङ्ग्रहणं शक्यं अकर्तुं । इदं अपि अवश्यं कर्तव्यं । किं प्रयोजनं । डाप्प्रतिषेधाभ्यां मुक्ते ङीब्रौ यथा स्यातां इति । रविधाने बहुव्रीहेः उपसङ्ख्यानं चोदितं । तत्न वक्तव्यं भवति ।
(पाणिनीयसूत्र ४,१।१३।२) कि.,२०४।२३-२०५।५ रो.,४६९-४७० अथ इह कथं भवितव्यं । बहवः श्वानः अस्यां रथ्यायां बहवः श्वानः अस्यां शालायां इति । बह्शूका बहुयूका इति भवितव्यं ।का रूपसिद्धिः । डाप्टिलोपः प्रसारणं प्रसारणपरपूर्वत्वं नदृतः च इति कप। कपा तावत्न भवितव्यं । किं कारणं । नद्यन्तानां यः बहुव्रीहिः इति एवं तत्विज्ञायते । न च एषः नद्यन्तानां बहुव्रीहिः । प्रसारणेन अपि न भवितव्यं । वक्ष्यति एतत। श्वादीनां प्रसारणे नकारान्तग्रहणं अनकारान्तप्रतिषेधार्थं इति । परपूर्वत्वेन अपि न भवितव्यं । वक्ष्यति एतत। सम्प्रसारणपूर्वत्वे समानाङ्गग्रहणं असमानाङ्गप्रतिषेधात्थं इति । तस्मात्बहुश्वा बहुयुवा इति भवितव्यं ।
(पाणिनीयसूत्र ४,१।१४) कि.,२०५।७-२०७।४ रो.,४७१-४७७ अनुपसर्जनातिति किमर्थं । बहुकुरुचरा मथुरा प्रियकुरुचरा मथुरा । न एततस्ति प्रयोजनं । कुरुचरशब्दात्प्रययः विधीयते । तत्र कः प्रसङ्गः यत्बहुकुरुचरशब्दात्स्यात। न एव प्राप्नोति न अर्थः प्रतिषेधेन । तदन्तविधिना प्राप्नोति । अतः उत्तरं पठति । (कात्यायन वार्तिक)अनुपसर्जनग्रहणं अनर्थकं प्रातिपदिकेन तदन्तविधिप्रतिषेधात्(वार्तिकान्त) । अनुपसर्जनग्रहणं अनर्थकं । किं कारणं । प्रातिपदिकेन तदन्तविधिप्रतिषेधात। ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते । (कात्यायन वार्तिक)ज्ञापकं तु पूर्वत्र तदन्ताप्रतिषेधस्य(वार्तिकान्त) । एवं तर्हि ज्ञापयति आचार्यः पूर्वत्र तदन्ताप्रतिषेधः न भवति इति । किं एतस्य ज्ञापने प्रयोजनं । भवती अतिभवती महती अतिमहती इति अत्र तदन्तविधिः सिद्धः भवति । न एततस्ति प्रयोजनं । उक्तं एतत्वर्णः अपि उगित्प्रत्ययः अपि उगित्प्रातिपदिकं अपि उगितिति । इदं तर्हि । बहुधीवरी बहुपीवरी इति । एततपि न अस्ति प्रयोजनं । अत्र अपि उक्तं रविधाने बहुव्रीहेः उपसङ्ख्यानं प्रतिषिद्धत्वातिति । इदं तर्हि अतिधीवरी अतिपीवरी । (कात्यायन वार्तिक)पूर्वसूत्रनिर्देशः वा आपिशलं अधीते इति(वार्तिकान्त) । पूर्वसूत्रनिर्देशः वा पुनः अयं द्रष्टव्यः । पूर्वसूत्रे अप्रधानस्य उपसर्जनं इति सञ्ज्ञा क्रियते । यावत्ब्रूयात्प्रधानातुत्पत्तव्यं अप्रधानात्न इति तावतनुपसर्जनातिति । किं प्रयोजनं । आपिशलं अधीते इति । आपिशलं अधीते ब्राह्मणी आपिशला ब्राह्मणी । अणन्तातिति ईकारः मा भूतिति । अथ अनुपसर्जनातिति उच्यमाने कस्मातेव अत्र न भवति । अणन्तं हि एततनुपसर्जनं । न अनुपसर्जनग्रहणेन अणन्तं विशेष्यते । अणन्तातनुपसर्जनातिति । किं तर्हि । अणेव विशेष्यते । अण्यः अनुपसर्जनं इति । (कात्यायन वार्तिक)जातिशब्देभ्यः तु अतिप्रसङ्गः(वार्तिकान्त) । जातिशब्देभ्यः तु अतिप्रसङ्गः भवति । कुन्ती गान्धारी । (कात्यायन वार्तिक)सिद्धं तु जातेः अनुपसर्जनत्वात्(वार्तिकान्त)। सिद्धं एतत। कथं । अनुपसर्जनातिति उच्यते । न च जातिः उपसर्जनं । एततपि न अस्ति प्रयोजनं । स्त्रियां इति वर्तते । तेन अणं विशेषयिष्यामः । स्त्रियां यः अण्विहितः इति । एवं अपि काशकृत्स्निना प्रोक्तं मामांसा काशकृत्स्नीं काशकृत्स्नीं अधीते काशकृत्स्ना ब्राह्मणी अत्र प्राप्नोति । न एषः दोषः । अधेत्र्यां अभिधेयायां अणः ईकारेण भवितव्यं । यः च अत्र अधेत्र्यां अभिधेयायां अणुक्तः लुप्तः सः यः च श्रूयते उत्पन्नः तस्मातीकारः इति कृत्वा पुनः न भविष्यति । इदं तर्हि प्रयोजनं तदन्तविधिः यथा स्यात। कुम्भकारी नगरकारी । अत्र हि प्रत्ययग्रहणे यस्मात्सः विहितः तदादेः ग्रहणं भवति इति अवयवातुत्पत्तिः प्राप्नोति । कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणं भवति इति सङ्घातातुत्पत्तिः भविष्यति । कृद्ग्रहणे इति उच्यते । न च एतत्कृद्ग्रहणं । कृदकृद्ग्रहणं एतत। कृतपि अयं अण्तद्धितः अपि । एवं तर्हि ईकारान्तेन समासः भविष्यति । यदि एवं लभ्येत कृतं स्यात्तत्तु न लभ्यं । किं कारणं । अत्र हि गतिकारकोपपदानां कृद्भिः सह समासः भवति इति समासः एव तावत्भवति । समासे कृते अवयवातुत्पत्तिः प्राप्नोति । अवयवातुत्पत्तौ कः सत्यां दोषः । क्ॐभकारेयः न सिध्यति । अव्ययवस्य वृद्धिस्वरौ स्यातां । तस्मातनुपसर्जनाधिकारः । (कात्यायन वार्तिक)अनुपसर्जनाधिकारे जातेः ङीष्विधाने सुपर्ण्याः उपसङ्ख्यानं (वार्तिकान्त)। अनुपसर्जनाधिकारे जातेः ङीष्विधाने सुपर्ण्याः उपसङ्ख्यानं कर्तव्यं । सुपर्णी । (कात्यायन वार्तिक)न वा समासस्य अनुपसर्जनत्वात्जातिवाचकत्वात्च शब्दस्य सामान्येन ङीष्विधानं (वार्तिकान्त)। न वा एषः दोषः । किं कारणं । समासस्य अनुपसर्जनत्वात। समासः अत्र अनुपसर्जनं । सः च जातिवाचकः । समासस्य अनुपसर्जनत्वात्तस्य च जातिवाचकत्वात्च शब्दस्य सामान्येन ङीष्भविष्यति जातेः अस्त्रीविषयातयोपधातिति । कथं कृत्वा चोदितं कथं कृत्वा परिहारः । बहुव्रीहिः इति कृत्वा चोदितं तत्पुरुषः इति कृत्वा परिहारः ।
(पाणिनीयसूत्र ४,१।१५।१) कि.,२०८।२-१७ रो.,४७८-४७९ (कात्यायन वार्तिक)ढग्रहणे सानुबन्धकस्य उपसङ्ख्यानम्(वार्तिकान्त) । ढग्रहणे सानुबन्धकस्य उपसङ्ख्यानं कर्तव्यं । कारिकेयी हारिकेयी । किं पुनः कारणं न सिध्यति । (कात्यायन वार्तिक)अननुबन्धकग्रहणे हि न सानुबन्धकस्य(वार्तिकान्त) । अननुबन्धकग्रहणे हि सानुबन्धकस्य ग्रहणं न भवति इति एषा परिभाषा कर्तव्या । कानि एतस्याः परिभाषायाः प्रयोजनानि । तव्यग्रहणे तव्यद्ग्रहणं मा भूत। दिव्ग्रहणे दिवुग्रहणं मा भूत। ननु च इयं अपि कर्तव्या तदनुबन्धकग्रहणे अतदनुबन्धकस्य ने इति । कानि एतस्याः परिभाषायाः प्रयोजनानि । यद्ग्रहणे ण्यद्ग्रहणं मा भूत। अङ्ग्रहणे चङ्ग्रहणं मा भूत। अज्ग्रहणे ण्यज्ग्रहणं मा भूत। तत्द्वे एते परिभाषे कर्तव्ये । न कर्तव्ये । आचार्यप्रवृत्तिः ज्ञापयति भवतः एते परिभाषे यतयं वामदेवात्ड्यड्ड्यौ इति ययतौ डितौ करोति । तत्तर्हि उपसङ्ख्यानं कर्तव्यं । न कर्तव्यं । अननुबन्धकः ढशब्दः स्त्रियां न अस्ति इति कृत्वा सानुबन्धकस्य ग्रहणं विज्ञास्यते । ननु च अयं अस्ति शिलायाः ढः इति । न एषः स्त्रियां वर्तते । अयं तर्हि सभायाः ढः छन्दसि इति । एषः अपि न स्त्रियां वर्तते । किं कारणं । तत्र साधुः इति वर्तते । कथं स्त्री नाम सभायां साध्वी स्यात।
(पाणिनीयसूत्र ४,१।१५।२) कि.,२०८।१८-२०९।५ रो.,४७९-४८० (कात्यायन वार्तिक)अञ्ग्रहणं अनर्थकं तदन्तात्हि ङीन्विधानं (वार्तिकान्त)। अञ्ग्रहणं अनर्थकं । किं कारणं । तदन्तात्हि ङीन्विधानं । तदन्तात्हि अञन्तात्ङीन्विधीयते । शार्ङ्गरवाद्यञः ङीनिति । न च अस्ति विशेषः अञन्तात्ङीनः वा ङीपः वा । ततेव रूपं सः एव स्वरः । (कात्यायन वार्तिक)न वा जात्यधिकारात्(वार्तिकान्त) । न वा अनर्थकं । किं कारणं । जात्यधिकारात। जातेः इति तत्र अनुवर्तते । अजात्यर्थः अयं आरम्भः । औत्सी औदपानी । तत्च अवश्यं जातिग्रहणं अनुवर्त्यं । (कात्यायन वार्तिक)अनधिकारे हि पुंयोगाताख्यायां ङीन्प्रसङ्गः(वार्तिकान्त) । अननुवर्तमाने हि जातिग्रहणे पुंयोगाताख्यायां ङीन्प्रसज्येत : बैदस्य स्त्री बैदी । यदि तर्हि अस्य निबन्धनं अस्ति इदं एव कर्तव्यं । तत्न कर्तव्यं । ततपि अवश्यं कर्तव्यं । अक्रियमाणे हि तस्मिन्बैदस्य भगिनी बैदी परत्वात्जातिलक्षणः ङीष्ङीपं बाधेत । ङीनि पुनः सति परत्वात्ङीन्ङीषं बाधेत ।
(पाणिनीयसूत्र ४,१।१५।३) कि.,२०९।६-११ रो.,४८०-४८१ (कात्यायन वार्तिक)ख्युनः उपसङ्ख्यानम्(वार्तिकान्त) । ख्युनः उपसङ्ख्यानं कर्तव्यं । आढ्यङ्करणी सुभगङ्करणी । अत्यल्पं इदं उच्यते : ख्युनः इति । नञ्स्नञीकख्युंस्तरुणतलुनानां उपसङ्ख्यानं । नञ्स्नञीकख्युंस्तरुणतलुनानां उपसङ्ख्यानं कर्तव्यं । नञ्स्नञः स्त्रैणी प्ॐस्नी । ईककः शाक्तीकी याष्टीकी । ख्युनः आढ्यङ्करणी सुभगङ्करणी । तरुण तलुन : तरुणी तलुनी ।
(पाणिनीयसूत्र ४,१।१६) कि.,२०९।१३-१५ रो.,४८१ आपत्यग्रहणं कर्तव्यं द्वीपात्यञः प्रतिषेधार्थं । इह मा भूत्द्वैप्या इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । न एवं विज्ञायते कञ्क्वरपः यञः च इति । कथं तर्है कञ्क्वरपः अयञः च इति ।
(पाणिनीयसूत्र ४,१।१७) कि.,२०९।१७-२३ रो.,४८२ तद्धितवचनं किमर्थं । (कात्यायन वार्तिक)तद्धितवचनं षितः प्रातिपदिकातीकारार्थम्(वार्तिकान्त) । तद्धितवचनं क्रियते षितः प्रातिपदिकातीकारः यथा स्यात। न एततस्ति प्रयोजनं । षित्करणसामर्थ्यातेव अत्र ईकारः भविष्यति । यथा एव तर्हि षित्करणसामर्थ्यातप्रातिपदिकातीकारः भवति एवं प्रातिपदिकातिति अस्य अनुवर्तनसामार्थ्यातषितः अपि प्रातिपदिकातीकारः स्यात। अस्ति अन्यत्प्रातिपदिकानुवृत्तौ प्रयोजनं । किं । उत्तरार्थं । अतः इञ्दाक्षिः ।
(पाणिनीयसूत्र ४,१।१८।१) कि.,२१०।२-४ रो.,४८२-४८३ सर्वत्रग्रहणं किमर्थं । प्राचां एव स्यात। न एततस्ति प्रयोजनं । सिद्धं प्राचां पूर्वेण । इदं तर्हि प्रयोजनं सर्वेषां यथा स्यात। आवट्यायनी । चापं बाधित्वा ष्फः यथा स्यात।
(पाणिनीयसूत्र ४,१।१८।२) कि.,२१०।५-२४ रो.,४८२-४८३-४८४ (कात्यायन वार्तिक)लोहितादिषु शाकल्यस्य उपसङ्ख्यानम्(वार्तिकान्त) । लोहितादिषु शाकल्यस्य उपसङ्ख्यानं कर्तव्यं । शाकल्यायनी । यदि पुनः अयं शकलशब्दः लोहितादिषु पठ्येत । न एवं शक्यं । इह हि शाकल्यस्य छात्राः शाकलाः कण्वादिभ्यः गोत्रे इति अण्न स्यात। एवं तर्हि । (कात्यायन वार्तिक)कण्वात्तु शकलः पूर्वः (वार्तिकान्त)। कण्वशब्दात्शकलशब्दः पूर्वः पठितव्यः । (कात्यायन वार्तिक)कतातुत्तरः इष्यते(वार्तिकान्त)। कतशब्दात्शकलशब्दः उत्तरः पठितव्यः । (कात्यायन वार्तिक)पूर्वोत्तरौ तदन्तादी(वार्तिकान्त) । पूर्वोत्तरौ गणौ तदन्तादी द्रष्टव्यौ । ये कण्वादयः ते शकलादयः । ये कतपर्यन्ताः ते शकलपर्यन्ताः । किं प्रयोजनं । (कात्यायन वार्तिक)ष्फाणौ तत्र प्रओय्जनम्(वार्तिकान्त) । तत्र एवं सति ष्फाणौ सिद्धौ भवतः । (कात्यायन वार्तिक)कण्वात्तु शकलः पूर्वः । कतातुत्तरः इष्यते । पूर्वोत्तरौ तदन्तादी । ष्फाणौ तत्र प्रओय्जनं (वार्तिकान्त)।
(पाणिनीयसूत्र ४,१।१९) कि.,२१०।२६-२११।३ रो.,४८४ (कात्यायन वार्तिक)कौरव्यमाण्डूकयोः आसुरेः उपसङ्ख्यानम्(वार्तिकान्त) । कौरव्यमाण्डूकयोः आसुरेः उपसङ्ख्यानं कर्तव्यं । आसुरायणी । (कात्यायन वार्तिक)छः च(वार्तिकान्त) । छः च इति वक्तव्यं । आसुरीयः कल्पः ।
(पाणिनीयसूत्र ४,१।२०) कि.,२११।४-१४ रो.,४८४-४८६ वयसि अचरमे इति वक्तव्यं इह अपि यथा स्यात। वधूटी चिरण्टी इति । इह कस्मात्न भवति । उत्तानशया लोहितपादिका द्विवर्षा त्रिवर्षा इति । न एतानि वयोवाचीनि । कथं तर्हि वयः गम्यते । सम्बन्धात। यदि तर्हि यत्र सम्बन्धात्वयः गम्यते तत्र न भवति इह अपि न प्राप्नोति । कुमारी इति । अत्र अपि सम्बन्धात्वयः गम्यते । कः असु सम्बन्धः । यः असु पुंसा असम्प्रयोगः । सम्बन्धातेव अत्र वयः गम्यते । इह पुनः सम्बन्धसम्बन्धात। इह तावतुत्तानशया इति । यदा कर्तृत्वं विशेषितं भवति ततः उत्तरकालं वयः गम्यते । यदि लोहितपादिका इति । यदा बहुव्रीह्यर्थः विशेषितः ततः उत्तरकालं वयः गम्यते । द्विवर्षा त्रिवर्षा इति । यदा द्विगुअर्थः विशेषितः ततः उत्तरकालं वयः गम्यते । यदि तर्हि यत्र सम्बन्धातेव वयः गम्यते तत्र भवति इह अपि तरि प्रप्नोति । कन्या इति । निपातनातेतत्सिद्धं । किं निपातनम। कन्यायाः कनीन च इति ।
(पाणिनीयसूत्र ४,१।२२) कि.,२११।१६-१९ रो.,४८६ इमौ द्वौ प्रतिषेधौ उच्येते । तत्र एकः शक्यः अवक्तुं । कथं । एवं वक्ष्यामि । परिमाणान्तात्तद्धितलुकि ङीप्भवति इति । तत्नियमार्थं भविष्यति । परिमाणान्तातेव तद्धितलुकि ङीप्भवति न अन्यतः इति । ततः विस्ताचितकम्बल्येभ्यः न इति । तद्धितलुकि इति एव ।
(पाणिनीयसूत्र ४,१।२५) कि.,२११।२१-२१२।१२ रो.,४८६-४८८ (कात्यायन वार्तिक)ऊधसः नकारः लिङ्गाधिकारे(वार्तिकान्त) । ऊधसः नकारः लिङ्गाधिकारे कर्तव्यः । इह मा भूत। महोधाः पर्जन्यः इति । (कात्यायन वार्तिक)न वा समासान्ताधिकारे स्त्रीग्रहणात्(वार्तिकान्त) । न वा लिङ्गाधिकारे नकारः कर्तव्यः । किं कारणं । समासान्ताधिकारे स्त्रीग्रहणात। समासान्ताधिकारे स्त्रीग्रहणं कर्तव्यं । (कात्यायन वार्तिक)इतरथा हि कब्विधिप्रसङ्गः(वार्तिकान्त) । इतरथा हि कब्विधिः प्रसज्येत । कस्यां पुनः अवस्थायां कप्प्राप्नोति । प्राक्ङीषुत्पत्तेः । प्राक्तावत्न प्राप्नोति । किं कारणं । न हि ङीष्विभाषा । लुत्क्पन्ने तर्हि ङीषि प्राप्नोति । उत्पन्ने च अपि न प्राप्नोति । किं कारणं । नद्यन्तानां यः बहुव्रीहिः इति एवं तत। न च एषः नद्यन्तानां बहुव्रीहिः । प्राकेव तर्हि प्राप्नोति । ननु च उक्तं न हि ङीष्विभाषा इति । यदि अपि न ङीष्विभाषा कप्तु विभाषा । कपः अवकाशः अन्यः बहुव्रीहिः । अयवकः अव्रीहिकः । ङीषः अवकाशः । विभाषा कप। यदा न कप्सः अवकाशः । कुण्डोध्नी घटोध्नी । कप्प्रसङ्गे लुभयं प्राप्नोति । परत्वात्कप्स्यात। तस्मात्सुष्थु उच्यते न वा समासान्ताधिकारे स्त्रीग्रहणात। इतरथा हि कब्विधिप्रसङ्गः इति ।
(पाणिनीयसूत्र ४,१।२७।१) कि.,२१२।१४-२१३।२ रो.,४८८-४८९ (कात्यायन वार्तिक)दामहायनान्तात्सङ्ख्यादेः(वार्तिकान्त) । दामहायनान्तात्सङ्ख्यादेः इति वक्तव्यं । इह मा भूत। उद्दामा वडवा इति । (कात्यायन वार्तिक)तत्पुरुषविज्ञानात्वा सिद्धम्(वार्तिकान्त) । बहुव्रीहेः इति वर्तते । तत्पुरुषः च अयं । उत्क्रान्ता दाम्नः उत्दामा । भवेत्सिद्धं यदा तत्पुरुषः । यदा तु खलु बहुव्रीहिः तदा न सिध्यति । उत्क्रान्तं दाम अस्याः इति । ननु च चेतनावतः एतत्भवति उत्क्रमणं वा अपक्रमणं वा दाम च अचेतनं । अचेतनेषु अपि चेतनावतुपचारः दृश्यते । तत्यथा । स्रस्तानि अस्याः बन्धनानि । स्रस्यन्ते अस्याः बन्धनानि इति । तत्तर्हि सङ्ख्यादेः इति वक्तव्यं । न वक्तव्यं । प्रकृतं अनुवर्तते । न वक्तव्यं । प्रकृतं अनुवर्तते । क्व प्रकृतं । सङ्ख्याव्ययादेः ङीपिति । यदि ततनुवर्तते अव्ययादेः अपि वर्तते । न एषः दोषः । सङ्ख्यादेः इति अनुवर्तते । अव्ययादेः इति निवृत्तं । कथं पुनः एकयोगनिर्दिष्टयोः एकदेशः अनुवर्तते एकदेशः न । एकयोगनिर्दिष्टानां अपि एकदेशानुवृत्तिः भवति । तत्यथा तस्य पादमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ । पक्षात्तिः इति अत्र मूले इति अनुवर्तते पाक इति निवृत्तं ।
(पाणिनीयसूत्र ४,१।२७।२) कि.,२१३।३-६ रो.,४८९ अथ इह कथं भवितव्यं । द्वौ हायनौ अस्याः शालायाः । द्विहायना त्रिहायना इति । (कात्यायन वार्तिक)हायनः वयसि स्मृतः(वार्तिकान्त) । वयोवाचिनः हायनशब्दस्य ग्रहणं । न च एषः वयोवाची । अथ णत्वं कस्मात्न भवति । णत्वं अपि वयोवाचिनः एव ।
(पाणिनीयसूत्र ४,१।३०) कि.,२१३।९-१० रो.,४८९ मामकग्रहणं किमर्थं न अणन्तातिति एवं सिद्धं । नियमाऋथः अयं आरम्भः । मामकशब्दात्सञ्ज्ञाच्छन्दसोः एव । क्व मा भूत। मामिका बुद्धिः इति ।
(पाणिनीयसूत्र ४,१।३१) कि.,२१३।१२-१३ रो.,४९० अजसादिषु इति वक्तव्यं । इह अपि यथा स्यात। रात्रिं रात्रिं स्मरिष्यन्तः । रात्रिं रात्रिं अजानतः । सर्वां रात्रिं सह उषित्वा । वृत्त्यां एकान्तरात्रिं ।
(पाणिनीयसूत्र ४,१।३२) कि.,२१३।१५-२१४।८ रो.,४९०-४९१ (कात्यायन वार्तिक)अन्तर्वत्पतिवतिति गर्भभर्तृसंयोगे(वार्तिकान्त) । अन्तर्वत्पतिवतिति गर्भभर्तृसंयोगे इति वक्तव्यं । इह मा भूत। प्रथते त्वया पतिमती पृथिवी इति । अथ अन्तःशब्दस्य अगर्भसंयोगे किं प्रत्युदाह्रियते । अन्तः अस्यां शालायां अस्ति इति । किं पुनः कारणं वाक्यं एव प्रत्युदाह्रियते न पुनः मतुप। अस्तिसामानाधिकरण्ये मतुप्विधीयते । न च अत्र अस्तिसामानाधिकरण्यं । इह अपि तर्हि न प्राप्नोति । अन्तर्वत्नी इति । एवं तर्हि (कात्यायन वार्तिक)अन्तर्वत्पतिवतोः तु मतुब्वत्वे निपातनात्(वार्तिकान्त) । अन्तर्वतिति मतुप्निपात्यते । वत्वं सिद्धं । पतिवतिति वत्वं निपात्यते । मतुप्सिद्धः । किं अविशेषेण । न इति आह । (कात्यायन वार्तिक)गर्भिण्यां जीवपत्यां च(वार्तिकान्त) । एतस्मिन्विषये । (कात्यायन वार्तिक)वा च छन्दसि नुक्भवेत्(वार्तिकान्त) । वा च छन्दसि नुक्वक्तव्यः । सा अन्तर्वती देवानुपैत। सा अन्तर्वत्नी देवानुपैत। पतिवती तरुणवत्सा । पतिवत्नी तरुणवत्सा ।
(पाणिनीयसूत्र ४,१।३३) कि.,२१४।१०-१४ रो.,४८४९१-४९२ यज्ञ्संयोगे इति उच्यते । तत्र इदं न सिध्यति । इयं अस्ति पत्नी । क्व तर्हि स्यात। पत्नीसंयाजः इति यत्र यज्ञसंयोगः । न एषः दोषः । पतिशब्दः अयं ऐश्वर्यवाची । सर्वेण च गृहस्थेन पञ्च महायज्ञाः निवर्त्याः । यत्च अदः सायं प्रातः होमचरुपुरोडाशान्निर्वपति तस्य असौ ईष्टे । एवं अपि तुषजकस्य पत्नी इति न सिध्यति । उपमानात्सिद्धं । पत्नी इव पत्नी इति ।
(पाणिनीयसूत्र ४,१।३४) कि.,२१४।१६-२१५।२ रो.,४९२-४९३ (कात्यायन वार्तिक)पत्युः सपूर्वातुपसर्जनसमासे उपसङ्क्न्ह्यानं (वार्तिकान्त)। पत्युः सपूर्वातुपसर्जनसमासे उपसङ्क्न्ह्यानं कर्तव्यं । वृद्धपतिः वृद्धपत्नी स्थूलपतिः स्थूलपत्नी । वचनात्भविष्यति । अस्ति वचने प्रयोजनं । किं । आशापतिः आसापत्नी ।(कात्यायन वार्तिक) सिद्धं तु पत्युः प्रातिपदिकविशेषणत्वात्(वार्तिकान्त) । सिद्धं एतत। कथं । पत्युः प्रातिपदिकविशेषणत्वात। न एवं विज्ञायते । अस्ति अस्मात्पतिशब्दात्पूर्वः सः अयं सपूर्वः । सपूर्वात्पतिशब्दातनुपसर्जनातिति । कथं तर्हि । अस्ति अस्मिन्प्रातिपदिके पूर्वः ततिदं सपूर्वं । सपूर्वात्प्रातिपदिकात्पत्यन्तातनुपसर्जनातिति ।
(पाणिनीयसूत्र ४,१।३६।१) कि.,२१५।४-२१६।२ रो.,४९३-४९५ (कात्यायन वार्तिक)पूतक्रत्वादीनां पुंयोगप्रकरणे वचनं (वार्तिकान्त)। पूतक्रत्वादयः पुंयोगप्रकरणे वक्तव्याः । पूतक्रतोः स्त्री पूतक्रतायी । यया हि पूताः क्रतवः पूतक्रतुः सा भवति ।
(पाणिनीयसूत्र ४,१।३६।२) कि.,२१५।७-२१६।२ रो.,४९३-४९५ (कात्यायन वार्तिक)लिङ्गसन्निगोयेन सर्वत्र आगमादेशानां वचने लिङ्गलुकि तत्कृतप्रसङ्गः (वार्तिकान्त)। लिङ्गसन्निगोयेन सर्वत्र आगमादेशानां वचने लिङ्गलुकि तत्कृतं प्राप्नोति । पञ्चेन्द्राण्यः देवताः अस्य पञ्चेन्द्रः पञ्चाग्निः दशाग्निः । किं उच्यते सर्वत्र इति । अन्यत्र अपि न अवश्यं इह एव । क्व अन्यत्र । पञ्चभिः धीवरीभिः क्रीतः पञ्चधीवा दशधीवा इति । लिङ्गग्रहणे न अर्थः । सर्वत्र आगमादेशानां वचने लुकि तत्कृतप्रसङ्गः इति एव । इदं अपि सिद्धं भवति । पञ्चमेन गृह्णाति पञ्चकः । न एततस्ति । मटयं परादिः । स टतः ग्रहणेन ग्रहीष्यते । इदं तर्हि प्रयोजनं । षष्ठेन गृह्णाति षट्कः इति । (कात्यायन वार्तिक)सिद्धं तु आगमादेशानां अङ्गतः स्त्रीप्रकरणे वचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । आगमादेशाः ये इह स्त्रीप्रकरणे उच्यन्ते ते अङ्गाधिकारे वक्तव्याः । स्त्रीप्रकरणग्रहणेन न अर्थः । सिद्धं तु आगमादेशानां अङ्गतः वचनातिति एव । इदं अपि सिद्धं भवति । षष्ठेन गृह्णाति षट्कः इति । (कात्यायन वार्तिक)लिङ्गलुकि वा प्रकृतिप्रत्यापत्तिवचनं (वार्तिकान्त)। अथ वा लिङ्गलुकि एव प्रकृतिप्रत्यापत्तिः वक्तव्या । लिङ्गग्रहणेन न अर्थः । लुकि वा प्रकृतिप्रत्यापत्तिवचनं इति एव । इदं अपि सिद्धं भवति । षष्ठेन गृह्णाति षट्कः इति । किं पुनः अत्र ज्यायः । लुकि प्रकृतिप्रत्यापत्तिवचनं इति एव ज्यायः । इदं अपि सिद्धं भवति । पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुः दशपटुः । तत्तर्हि वक्तव्यं । न वक्तव्यं । सन्नियोगशिष्टानां अन्यतरापाये उभयोः अपि अभावः । तत्यथा । देवदत्तयज्ञदत्ताभ्यां इदं कर्म कर्तव्यं । देवदत्तापाये यज्ञदत्तः अपि न करोति ।
(पाणिनीयसूत्र ४,१।३९) कि.,२१६।४-९ रो.,४९६ (कात्यायन वार्तिक)असितपलितयोः प्रतिषेधः(वार्तिकान्त) । असितपलितयोः प्रतिषेधः वक्तयः । असिता पलिता । (कात्यायन वार्तिक)छन्दसि क्नं एके(वार्तिकान्त) । छन्दसि क्नं एके इच्छन्ति : असिक्नी असि ओषधे । पलिक्नीः इत्युवतयः भवन्ति । (कात्यायन वार्तिक)वर्णात्ङीब्विधाने पिशङ्गातुपसङ्ख्यानम्(वार्तिकान्त) । वर्णात्ङीब्विधाने पिशङ्गातुपसङ्ख्यानं कर्तव्यं । पिशङ्गी ।
(पाणिनीयसूत्र ४,१।४२) कि.,२१६।१३-१८ रो.,४९६-४९७ (कात्यायन वार्तिक)नीलातोषधौ(वार्तिकान्त) । नीलातोषधौ इति वक्तव्यं । नीली ओषधिः । (कात्यायन वार्तिक)प्राणिनि च(वार्तिकान्त) । प्राणिनि च इति वक्तव्यं । नीली गौः नीली वडवा । (कात्यायन वार्तिक)वा सञ्ज्ञायां (वार्तिकान्त)। वा सञ्ज्ञायां इति वक्तव्यं । नीली नीला ।
(पाणिनीयसूत्र ४,१।४४) कि.,२१६।२०-२१७।१० रो.,४९७-४९९ गुणवचनातिति उच्यते । (कात्यायन वार्तिक)कः गुणः नाम । सत्त्वे निविशते अपैति पृथग्जातिषु दृश्यते आधेयः च अक्रियाजः च सः असत्त्वप्रकृतिः गुणः (वार्तिकान्त)। अपरः आह : (कात्यायन वार्तिक)उपैति अन्यत। जहाति अन्यत। दृष्टः द्रव्यान्तरेषु अपि । वाचकः सर्वलिङ्गानां द्रव्यातन्यः गुणः स्मृतः(वार्तिकान्त) । (कात्यायन वार्तिक)गुणवचनात्ङी(वार्तिकान्त)P(कात्यायन वार्तिक) आद्युदात्तार्थम्(वार्तिकान्त) । गुणवचनात्ङीप्वक्तव्यः । किं प्रयोजनं । आद्युदात्तार्थं । आद्युदात्ताः प्रयोजयन्ति । वस्वी । (कात्यायन वार्तिक)खरुसंयोगोपधप्रतिषेधः च(वार्तिकान्त) ।
(पाणिनीयसूत्र ४,१।४८) कि.,२१७।१२-२२०।११ रो.,५००-५०९ गोपालिकादीनां प्रतिषेधः वक्तव्यः : गोपालिका पशुपालिका । किं पुनः इह उदाहरणं । प्रष्टःई प्रचरी । कथं पुनः अयं प्रष्ठशब्दः अकारान्तः स्त्रियां वर्तते । तस्य इदं इति अनेन अभिसम्बन्धेन । यथा एव हि असौ तत्कृतान्स्नानोद्वर्तनपरिषेकान्लभते एवं प्रष्ठशब्दं अपि लभते । यदि एवं (कात्यायन वार्तिक)पुंयोगाताख्यायां तद्धितलुग्वचनम्(वार्तिकान्त) । पुंयोगाताख्यायां तद्धितस्य लुक्वक्तव्यः । तस्य इदं इति प्राप्नोति । न तर्हि इदानीं इदं भवति : प्राष्थ्यः इमाः प्राचर्यः इमाः इति । भवति च । विभाषा लुक्वक्तव्यः । यदा लुक्तदा प्रष्ठी । यदा न लुक्तदा प्राष्ठी । यदि एवं न अर्थः लुका । विभाषा तद्धितोत्पत्तिः । यदा तद्धितोत्पत्तिः तदा प्राष्ठी । यदा न तद्धितोत्पत्तिः तदा प्रष्ठी । एवं अपि लुक्वक्तव्यः । न हि अन्तरेण तद्धितस्य लुकं परार्थे शब्दः वर्तते । यदि पुनः तस्यां एव प्रष्ठशब्दः वर्तेत । कथं पुनः तस्यां अप्रतिष्ठमानायां प्रष्ठशब्दः वर्तेत । यथा एव हि असौ अकुर्वती किं चित्पापं तत्कृतान्वधबन्दनपरिक्लेशान्लभते एवं प्रष्ठशब्दं अपि लभते । (कात्यायन वार्तिक)सुबन्तसमासवचनात्च अकारान्तानुपपत्तिः(वार्तिकान्त) । सुबन्तसमासवचनात्च अकारान्तता न उपपद्यते । सुबन्तानां समासः । तत्र अन्तरङ्गत्वात्टाप। टपि उत्पन्ने समासः । स्थाशब्दः समस्येत । तत्र पुंयोगाताख्यायां अकारान्तातिति ईकारः न प्राप्नोति । (कात्यायन वार्तिक)सिद्धं तु स्त्रियाः पुंशब्देन अभिधानात्(वार्तिकान्त) । सिद्धं एतत। कथं । स्त्रियाः पुंशब्देन अभिधानात। स्त्री पुंशब्देन अभिधीयते । ननु च उक्तं पुंयोगाताख्यायां तद्धितलुग्वचनं इति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न अतः तद्धितोत्पत्तिः भवति इति यतयं पुंयोगाताख्यायां ईकारं शास्ति । न एततस्ति ज्ञापकं । अस्ति हि अन्यतेतस्य वचने प्रयोजनं । ये अनीकाराः स्त्रीप्रत्ययाः तदर्थं एतत्स्यात। यत्तर्हि आख्याग्रहणं करोति । न हि तद्धितान्तं आख्या भवति । अथ वा पुनः अस्तु तस्य इदं इति अनेन अभिसम्बन्धेन । ननु च उक्तं पुंयोगाताख्यायां तद्धितलुग्वचनं इति । न एषः दोषः । न अवश्यं अयं एव अभिसम्बन्धः भवति तस्य इदं इति । अयं अपि अभिसम्बन्धः अस्ति सः अयं इति । कथं पुनः अतस्मिन्सः इति एतत्भवति । चतुर्भिः प्रकारैः अतस्मिन्सः इति एतत्भवति तात्स्थ्यात्ताद्धर्म्यात्तत्सामीप्यात्तत्साहचर्यातिति । तात्स्थ्यात्तावत। मञ्चाः हसन्ति । गिरिः दह्यते । ताद्धर्म्यात। जटिनं यान्तं ब्रह्मदत्तः इति आह । ब्रह्मदत्ते यानि कार्याणि जटिनि अपि तानि क्रियन्ते इति अतः जटि ब्रह्मदत्तः इति उच्यते । तत्सामीप्यात। गङ्गायां घोषः । कूपे गर्गकुलं । तत्साहचर्यात। कुन्तान्प्रवेशय । यष्टीः प्रवेशय इति । अथ वा पुनः अस्तु तस्यां एव प्रष्ठशब्दः । ननु च उक्तं सुबन्तसमासवचनात्च अकारान्तानुपपत्तिः इति । न एषः दोषः । (कात्यायन वार्तिक)गतिकारकोपपदानां कृद्भिः सह समासवचनम्(वार्तिकान्त) । गतिकारकोपपदानां कृद्भिः सह समासः भवति इति एषा परिभाषा कर्तव्या । कानि एतस्याः परिभाषायाः प्रयोजनानि । (कात्यायन वार्तिक)प्रयोजनं क्तातल्पाख्यायां (वार्तिकान्त)। अभ्रविलिप्तीसूपविलिप्ति । सुबन्तानां समासः । तत्र अन्तरङ्गत्वात्टाप। टपि उत्पन्ने समासः । विलिप्ताशब्दः समस्येत । तत्र क्तातल्पाख्यायां अकारान्तातिति ङीष्न प्राप्नोति । (कात्यायन वार्तिक)जातेः ङीष्विधाने(वार्तिकान्त) । जातेः ङीष्विधाने प्रयोजनं । व्याघ्री कच्छपी । सुबन्तानां समासः । तत्र अन्तरङ्गत्वात्टाप। टपि उत्पन्ने समासः । घ्राशब्दः समस्येत । तत्र जातेः अस्त्रीविषयातयोपधातकारान्तातिति ङीष्न प्राप्नोति । (कात्यायन वार्तिक)समासान्तस्य णत्वे(वार्तिकान्त) । समासान्तस्य णत्वे प्रयोजनं । वक्ष्यति प्रातिपदिकान्तस्य णत्वे समासान्तग्रहणं असमासान्तप्रतिषेधार्थं इति । तस्मिन्क्रियमाणे माषवापिणी व्रीहिवापिणी सुबन्तानां समासः । तत्र अन्तरङ्गत्वात्नकारान्तत्वात्ङीप। ङीपि उत्पन्ने समासः । वापिनी शब्दः समस्येत । तत्र समासान्तस्य इति णत्वं न प्राप्नोति । (कात्यायन वार्तिक)कृदन्तात्तद्धिते वृद्धिस्वरौ च(वार्तिकान्त) । कृदन्तात्तद्धिते वृद्धिस्वरौ च प्रयोजनं : साङ्कुटिनं व्यावक्रोशी । अत्र अवयवातुत्पत्तिः प्रसज्येत । गतिकारकोपपदानां कृद्भिः सह समासः भवति इति न दोषः भवति । सत्यां अपि एतस्यां परिभाषायां अवयवातुत्पत्तिः प्राप्नोति । किं कारणं । प्रत्ययग्रहणे यस्मात्सः तदादेः ग्रहणं भवति इति । कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणं भवति इति सङ्घातातुत्पत्तिः भविष्यति । यदि तर्हि एषा परिभाषा अस्ति न एतस्याः परिभाषायाः प्रयोजनं भवति । एतया एव सिद्धं । न सिध्यति । किं कारणं ।
अप्रातिपदिकत्वात। कृत्त्वात्प्रातिपदिकसञ्ज्ञा भविष्यति । ननु च इदानीं प्रातिपदिकसञ्ज्ञायां अपि एतया परिभाषया शक्यं उपस्थातुं । न इति आह । इह हि मूलकेन उपदंशं भुङ्क्ते इति वाक्ये अपि लुक्प्रसज्येत । स्वरे च दोषः स्यात। प्रकारकः प्रकरणं । गतिकारकोपपदात्कृदन्तं उत्तरपदं प्रकृतिस्वरं भवति इति एषः स्वरः न स्यात। न एषः दोषः । द्वे अत्र प्रातिपदिकसञ्ज्ञे : अवयवस्य अपि समुदायस्य अपि । तत्र अवयवस्य या प्रातिपदिकसञ्ज्ञा तदाश्रयः स्वरः भविष्यति । इह अपि तर्हि साङ्कुटिनं व्यावक्रोशी इति द्वे अत्र प्रातिपदिकसञ्ज्ञे अवयवस्य अपि समुदायस्य अपि । तत्र अवयवस्य या प्रातिपदिकसञ्ज्ञा तदाश्रयावयवातुत्पत्तिः प्रसज्येत । अवयवातुत्पत्तौ सत्यां कः दोषः । क्ॐभकारेयः न सिध्यति । अवयवस्य वृद्धिस्वरौ स्यातां । तस्मात्प्रयोजनं एव एतस्याः परिभाषायाः । उभाभ्यां नु खलु सिध्यति । (कात्यायन वार्तिक)अवदातायां तु ङीप्प्रसङ्गः(वार्तिकान्त) । अवदातायां तु ङीप्प्राप्नोति । अवदाता ब्राह्मणी । वर्णातनुदात्तात्तोपधात्तः नः इति । न एषः वर्णवाची । किं तर्हि विशुद्धवाची । आतः च विशुद्धवाची । एवं हि आह (कात्यायन वार्तिक)त्रीणि यस्य अवदातानि विद्या योनिः च कर्म च एतत्शिवं विजानीहि ब्राह्मणाग्र्यस्य लक्षणं (वार्तिकान्त)इति । सूर्यात्देवतायां चाप्वक्तव्यः । सूर्यस्य स्त्री सूर्या । देवतायां इति किमर्थं । सूरी ।
(पाणिनीयसूत्र ४,१।४९) कि.,२२०।१४-२२१।४ रो.,५१०-५११ (कात्यायन वार्तिक)हिमारण्ययोः महत्त्वे(वार्तिकान्त) । हिमारण्ययोः महत्त्वे इति वक्तव्यं । महत्हिमं हिमानी । महतरण्यं अरण्यानी । (कात्यायन वार्तिक)यवात्दोषे(वार्तिकान्त) । यवात्दोषे इति वक्तव्यं । दुष्टः यवः यवानी । (कात्यायन वार्तिक)यवनात्लिप्याम्(वार्तिकान्त) । यवनात्लिप्यां इति वक्तव्यं । यवनानी लिपिः । (कात्यायन वार्तिक)उपाध्यायमातुलाभ्यां वा(वार्तिकान्त) । उपाध्यायमातुलाभ्यां वा इति वक्तव्यं । उपाध्यायी उपाध्यायानी । मातुली मातुलानी । (कात्यायन वार्तिक)मुद्गलात्छन्दसि लित्च(वार्तिकान्त) । मुद्गलात्छन्दसि लित्च इति वक्तव्यं । रथीः अभूत्मुद्गलानी । (कात्यायन वार्तिक)आचार्यातणत्वं च(वार्तिकान्त) । आचार्यातणत्वं च इति वक्तव्यं । आचार्यानी । (कात्यायन वार्तिक)आर्यक्षत्रियाभ्यां वा(वार्तिकान्त) । आर्यक्षत्रियाभ्यां वा इति वक्तव्यं । आर्या आर्याणी । क्षत्रिया क्षत्रियाणी ।
(पाणिनीयसूत्र ४,१।५०) कि.,२२१।६-१२ रो.,५११ करणपूर्वातिति किमर्थं । गवात्क्रीता । अश्वेन क्रीता । करणपूर्वातिति उच्यमाने अपि अत्र प्राप्नोति । एषः अपि हि क्रीतशब्दः करणपूर्वः । विभक्त्या व्यवहितत्वात्न भविष्यति । यदि तर्हि विभक्तिः अपि ववधायिका भविष्यति मनसाक्रीती इति न सिध्यति । एवं तर्हि न एवं विज्ञायते । करणं पूर्वं अस्मात्क्रीतशब्दात्सः अयं करणपूर्वः तस्मात्करणपूर्वात्क्रीतशब्दातनुपसर्जनातिति । कथं तर्हि । करणं अस्मिन्प्रातिपदिके पूर्वं ततिदं करणपूर्वं तस्मात्करणपूर्वात्प्रातिपदिकात्क्रीतान्तातनुपसर्जनातिति ।
(पाणिनीयसूत्र ४,१।५२) कि.,२२१।१४-२२२।६ रो.,५१२-५१३ (कात्यायन वार्तिक)अन्तोदात्ते जातप्रतिषेधः(वार्तिकान्त) । अन्तोदात्ते जातस्य प्रतिषेधः वक्तव्यः । दन्तजाता स्तनजाता । (कात्यायन वार्तिक)पाणिगृहीत्यादीनां विशेषे(वार्तिकान्त) । पाणिगृहीत्यादीनां विशेषे इति वक्तव्यं । पाणिन्गृहीती इति भार्या । यस्य यथा कथं चित्पाणिः गृह्यते पाणिगृहीता सा भवति । (कात्यायन वार्तिक)बहुलं तणि(वार्तिकान्त) । बहुलं तणि इति वक्तव्यं । किं इदं तणि इति । सञ्ज्ञाच्छन्दसोः ग्रहणं । किं प्रयोजनं । (कात्यायन वार्तिक)प्रबद्धविलूनाद्यर्थम्(वार्तिकान्त) । प्रबद्धविलूनी प्रबद्धविलूना । (कात्यायन वार्तिक)अन्तोदात्तातबहुनञ्सुकालसुखादिपूर्वात्(वार्तिकान्त) । अन्तोदात्तातबहुनञ्सुकालसुखादिपूर्वातिति वक्तव्यं । बहु । बहुकृता । नञ। अकृता । सु । सुकृता । काल । मासजाता संवत्सरजाता । सुखादि । सुखजाता दुःखजाता । (कात्यायन वार्तिक)जातिपूर्वात्वा(वार्तिकान्त) । अथ वा जातिपूर्वातिति वक्तव्यं ।
(पाणिनीयसूत्र ४,१।५४।१) कि.,२२२।८-१८ रो.,५१३-५१३ स्वाङ्गात्च उपसर्जनातिति उच्यते । किं स्वाङ्गं नाम । (कात्यायन वार्तिक)अद्रवं मूर्तिमत्स्वाङ्गं प्राणिस्थं अविकारजं अतत्स्थं तत्र दृष्टं च तस्य चेत्तत्तथा युतम्(वार्तिकान्त) । अप्राणिनः अपि स्वाङ्गं । अद्रवं इति किमर्थं । बहुलोहिता । न एततस्ति । बह्वचः न इति प्रतिषेधः भविष्यति । इदं तर्हि बहुकफा । मूर्तिमतिति किमर्थं । बहुबुद्धिः बहुमनाः । न एततस्ति । अतः इति वर्तते । इदं तर्हि । बहुज्ञाना । प्राणिस्थं इति किमर्थं । श्लक्ष्णमुखा शाला । अविकारजं इति किमर्थं । बहुगडुः बहुपटिका । न एततस्ति । इह तावत्बहुगडुः इति अतः इति वर्तते । बहुपटिका इति बह्वचः न इति प्रतिषेधः भविष्यति । इदं तर्हि बहुशोफा । अतत्स्थं तत्र दृष्टं च । अप्राणिस्थं प्राणिनि दृष्टं च स्वाङ्गसञ्ज्ञं भवति । दीर्घकेशी रथ्या इति । तस्य चेत्तत्तथा युतं अप्राणिनः अपि स्वाङ्गसञ्ज्ञं भवति । दीर्घनासिकी अर्चा तुङ्गनासिकी अर्चा ।
(पाणिनीयसूत्र ४,१।५४।२) कि.,२२२।१९-२२३।२३ रो.,५१४-५१६ अथ उपसर्जनग्रहणं किमर्थं । इह मा भूत। शिखा । (कात्यायन वार्तिक)उपसर्जनग्रहणं अनर्थकं बहुव्रीह्यधिकारात्(वार्तिकान्त) । उपसर्जनग्रहणं अनर्थकं । किं कारणं । बहुव्रीह्यधिकारात। बहुव्रीहेः इति वर्तते । क्व प्रकृतं । बहुव्रीहेः च अन्तोदात्तातिति । बह्वजर्थं तर्हि उपसर्जनग्रहणं कर्तव्यं । बह्वचः न इति प्रतिषेधं वक्ष्यति । तत्बह्वज्ग्रहणं उपसर्जनविशेषणं यथा विज्ञायेत । बह्वचः उपसर्जनात्न इति । अथ अक्रियमाणे उपसर्जनग्रहणे कस्य बह्वज्ग्रहणं विशेषणं स्यात। बहुर्वीहेः इति वर्तते । बहुव्रीहिविशेषणं विज्ञायेत । अस्ति च इदानीं कः चितबह्वच्बहुव्रीहिः यदर्थः विधिः स्यात। अस्ति इति आह : स्वडा स्वडी इति । (कात्यायन वार्तिक)बह्वजर्थं इति चेत्स्वाङ्गग्रहणात्सिद्धं (वार्तिकान्त)। स्वाङ्गग्रहणं क्रियते । तत्बह्वज्ग्रहणेन विशेषयिष्यामः । स्वाङ्गात्बह्वचः न इति । एवं तर्हि अन्तोदादात्तातिति वर्तते । अन्तोदात्तार्थः अयं आरम्भः । (कात्यायन वार्तिक)अन्तोदात्तार्थं इति चेत्सहादिकृतत्वात्सिद्धम्(वार्तिकान्त) । यतयं सहनञ्विद्यमानपूर्वात्च इति प्रत्षेधं शास्ति तत्ज्ञापयति आचार्यः अन्तोदात्तातपि भवति इति । (कात्यायन वार्तिक)स्वाङ्गसमुदायप्रतिषेधार्थं तु(वार्तिकान्त) । स्वाङ्गसमुदायप्रतिषेधार्थं तर्हि उपसर्जनग्रहणं कर्तव्यं । श्वाङ्गात्यथा स्यात। स्वाङ्गसमुदायात्मा भूत। कल्याणपाणिपादा । अथ क्रियमाणे अपि उपसर्जनग्रहणे कस्मातेव अत्र न भवति । स्वाङ्गं हि एततुपसर्जनं । न स्वाङ्गसमुदायः स्वाङ्गग्रहणेन गृह्यते यथा जनपदसमुदायः जनपदग्रहणेन न गृह्यते । काशिकोसलीया इति जनपदतदवध्योः इति वुञ्न भवति । एततपि न अस्ति प्रयोजनं । अस्वाङ्गपूर्वपदातिति वर्तते । तेन स्वाङ्गं विशेषयिष्यामः । अस्वाङ्गपूर्वपदात्परं यत्स्वाङ्गं तदन्तात्बहुव्रीहेः इति । यत्च अत्र अस्वाङ्गपूर्वपदात्परं न तदन्तः बहुव्रीहिः यदन्तः च बहुव्रीहिः न ततस्वाङ्गपूर्वपदात्परं स्वाङ्गं । ननु च तत्पूर्वस्मिन्योगे बहुव्रीहिविशेषणं । न इति आह । पूर्वपदविशेषणं । न स्वाङ्गं अस्वाङ्गं पूर्वं पदं पूर्वपदं अस्वाङ्गं पूर्वपदं अस्वाङ्गपूर्वपदं अस्वाङ्गपूर्वपदातिति । यदि एवं पूर्वस्मिन्योगे बहुव्रीहिः अविशेषितः भवति । बहुव्रीहिः च विशेषितः । कथं । क्तातिति वर्तते । तेन बहुव्रीहिं विशेषयिष्यामः । अस्वाङ्गात्पूर्वपदात्परं यत्क्तान्तं तदन्तात्बहुव्रीहेः इति । इदं तर्हि प्रयोजनं । बहुव्रीहेः इति वर्तते उपसर्जनमात्रात्यथा स्यात। निष्केशी यूका । अतिकेशी माला ।
(पाणिनीयसूत्र ४,१।५५।१) कि.,२२३।२५-२२४।५ रो.,५१७ (कात्यायन वार्तिक)नासिकादीनां विभाषायां पुच्छात्च(वार्तिकान्त) । नासिकादीनां विभाषायां पुच्छात्च इति वक्तव्यं । कल्याणपुच्छी कल्याणपुच्छा । (कात्यायन वार्तिक)कबरमणिविषशरेभ्यः नित्यम्(वार्तिकान्त) । कबरमणिविषशरेभ्यः नित्यं इति वक्तव्यं । कबरपुच्छी मणिपुच्छी विषपुच्छी शरपुच्छी । (कात्यायन वार्तिक)उपमानात्पक्षात्च(वार्तिकान्त) । उपमानात्पक्षात्च पुच्छात्च इति वक्तव्यं । उलूकपक्षी शाला उलूकपक्षी सेना इति ।
(पाणिनीयसूत्र ४,१।५५।२) कि.,२२४।६-२१ रो.,५१७-५१८ (कात्यायन वार्तिक)नासिकादिभ्यः विभाषायाः सहनञ्विद्यमानपूर्वेभ्यः प्रतिषेधः विप्रतिषेधेन(वार्तिकान्त) । नासिकादिभ्यः विभाषायाः सहनञ्विद्यमानपूर्वेभ्यः प्रतिषेधः भवति विप्रतिषेधेन । नासिकादिभ्यः विभाषायाः अवकाशः कल्याणनासिकी कल्याणनासिका । सहनञ्विद्यमानपूर्वलक्षणस्य प्रतिषेधस्य अवकाशः समुखा अमुखा विद्यमान्मुखा इति । इह उभयं प्राप्नोति । सनासिका अनासिका विद्यमाननासिका इति । सहनञ्विद्यमानपूर्वेभ्यः प्रतिषेधः भवति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । अयं विधिः सः प्रतिषेधः । विधिप्रतिषेधयोः च अयुक्तः विप्रतिषेधः । अयं अपि विधिः न मृदूनां इव कर्पासानां कृतः प्रतिषेधविषये आरभ्यते । सः यथा एव बह्वज्लक्षणं संयोगोपधलक्षणं च प्रतिषेधं बाधते एवं सहनञ्विद्यमानपूर्वलक्षणं अपि बाधेत । का तर्हि गतिः । इह तावत्नासिकोदर इति बह्वज्लक्षणः च प्रतिषेधः प्राप्नोति सहनञ्विद्यमानपूर्वलक्षणः च । पुरस्तातपवादाः अनन्तरान्विधीन्भादन्ते इति एवं इयं विभाषा बह्वज्लक्षणं प्रतिषेधं बाधिष्यते । सहनञ्विद्यमानपूर्वलक्षणं न बाधिष्यते । ओष्ठजङ्घादन्तकर्णश्र्ङ्गात्च इति संयोगलक्षणः प्रतिषेधः प्राप्नोति सहनञ्विद्यमानपूर्वलक्षणः च । मध्ये अपवादाः पूर्वान्विधीन्बाधन्ते इति एवं इयं विभाषा संयोगलक्षणं प्रतिषेधं बाधिष्यते । सहनञ्विद्यमानपूर्वलक्षणं न बाधिष्यते ।
(पाणिनीयसूत्र ४,१।६०) कि.,२२४। २३-२२५।११ रो.,५१८-५१९ (कात्यायन वार्तिक)दिक्पूर्वपदात्ङीषः अनुदात्तत्वं (वार्तिकान्त)। दिक्पूर्वपदात्ङीषः अनुदात्तत्वं वक्तव्यं । प्राङ्मुखी प्रत्यङ्मुकःई । (कात्यायन वार्तिक)ङीब्विधाने हि अन्यत्र अपि ङीष्विषयान्ङीप्प्रसङ्गः(वार्तिकान्त) । ङीब्विधाने हि सति अन्यत्र अपि ङीष्विषयान्ङीप्प्रसज्येत । प्राग्गुल्फा प्रत्यग्ललाटा । ननु च एते विशेषाः अनुवर्तेरनसंयोगोपधात्बह्वचः न इति । यदि अपि एते विशेषाः अनुवर्तेरनसंयोगोपधात्बह्वचः न इति एवं अपि दिक्पूर्वपदात्ङीपा मुक्ते ङीष्प्रसज्येत । न एषः दोषः । उक्तं एतत्यत्रोत्सर्गापवादं विभाषा तत्र अपवादेन मुक्ते उत्सर्गः न भवति इति । अथ वा ङीषः आदेशः ङीप्करिष्यते । तत्तर्हि ङीषः ग्रहणं कर्तव्यं । न कर्तव्यं । प्रकृतं अनुवर्तते । क्व प्रकृतं । अन्यतः ङीषिति । तत्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन च इह अर्थः । दिक्पूर्वपदातिति एषा पञ्चमी ङीषिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मातिति उत्तरस्य इति । प्रत्ययविधिः अयं न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति । न अयं प्रत्ययविधिः । विहितः प्रत्ययः प्रकृतः च अनुवर्तते।
(पाणिनीयसूत्र ४,१।६३।१) कि.,२२५।१३-२१ रो.,५१९-५२१ जातेः इति उच्यते । का जातिः नाम । (कात्यायन वार्तिक)आकृतिग्रहणा जातिः लिङ्गानां च न सर्वभाक्सकृताख्यातनिर्ग्राह्या गोत्रं च चरणैः सह(वार्तिकान्त) । अपरः आह : (कात्यायन वार्तिक)प्रादुर्भावविनाशाभ्यां सत्त्वस्य युगपत्गुणैः असर्वलिङ्गां बह्वर्थां तां जातिं कवयः विदुः(वार्तिकान्त) । गोत्रं च चरणानि च । कः पुनः एतयोः जातिलक्षणयोः विशेषः । यथा पूर्वं जातिलक्षणं तथा कुमारीभार्यः इति भवितव्यं । यथा उत्तरं तथा कुमारभार्यः इति भवितव्यं ।
(पाणिनीयसूत्र ४,१।६३।२) कि.,२२५।२२-२६ रो.,५२२ अथ अस्त्रीविषयातिति कथं इदं विज्ञायते । समानायां आकृतौ यतस्त्रीविषयं इति आहोस्वित्क्व चित्यतस्त्रीविषयं इति । किं च अतः । यदि विज्ञायते समानायां आकृतौ यतस्त्रीविषयं इति द्रोणी कुटी पात्री इति न सिध्यति । अथ विज्ञायते क्व चित्यतस्त्रीविषयं इति माला बलाका अत्र अपि प्राप्नोति । अस्तु क्व चित्यतस्त्रीविषयं इति । कथं माला बलाका इति । अजादिषु पाठः करिष्यते ।
(पाणिनीयसूत्र ४,१।६३।३) कि.,२२५।२७-२२६।६ रो.,५२२-५२३ अयोपधातिति किमर्थं । इभ्या क्षत्रिया । अत्यल्पं इदं उच्यते अयोपधातिति । अकोपधातिति अपि वक्तव्यं इह अपि यथा : स्यात। चटका मूषिका इति । यदि अकोपधातिति उच्यते काकी कोकी शुकी इति न सिध्यति । अस्तु तर्हि अयोपधातिति एव । कथं चटका मूषिका इति । अजादिषु पाठः कर्तव्यः ।
(पाणिनीयसूत्र ४,१।६४) कि.,२२६।८-१९ रो.,५२३ (कात्यायन वार्तिक)सदक्काण्डप्रान्तशतैकेभ्यः पुष्पात्प्रतिषेधः (वार्तिकान्त)। सदक्काण्डप्रान्तशतैकेभ्यः पुष्पात्प्रतिषेधः वक्तव्यः । सत्पुष्पा प्राक्पुष्पा काण्डपुष्पा प्रान्तपुष्पा शतपुष्पा अकपुष्पा । (कात्यायन वार्तिक)सम्भस्त्राजिनशणपिण्डेभ्यः फलात्(वार्तिकान्त) । सम्भस्त्रात्जिनशणपिण्डेभ्यः फलात्प्रतिषेधः वक्तव्यः । सं । सम्फला । सं । भस्त्रा । भस्त्राफला । भस्त्रा । अजिन । अजिनफला । अजिन । पिण्ड । पिण्डफला । पिण्ड । शण । शणफला । शण । श्वेतात्च इति वक्तव्यं । श्वेतफला । (कात्यायन वार्तिक)त्रेः च(वार्तिकान्त) । त्रेः च प्रतिषेधः वक्तव्यः । त्रिफला । (कात्यायन वार्तिक)मुलात्नञः (वार्तिकान्त)।
(पाणिनीयसूत्र ४,१।६५) कि.,२२६।१-२२७।२ रो.,५२४ जातेः इति वर्तमाने पुनः जातिग्रहणं किमर्थं । अयोपधातिति वर्तते । योपधातपि यथा स्यात। औदमेयी । (कात्यायन वार्तिक)इतः मनुष्यजातेः इञः उपसङ्ख्यानं (वार्तिकान्त)। इतः मनुष्यजातेः इञः उपसङ्ख्यानं कर्तव्यं । सौतङ्गमी मौनिचिती ।
(पाणिनीयसूत्र ४,१।६६।१) कि.,२२७।४-१६ रो.,५२४-५२५ किमर्थः ङकारः । विशेषणाऋथः । क्व विशेषणाऋथेन अर्थः । न ऊङ्धात्वोः इति । न ऊधात्वोः इति उच्यमाने यवाग्वा यवाग्वै इति अत्र अपि प्रसज्येत । अथ दीर्घोच्चारणं किमर्थं न ऊङुतः इति एव उच्येत । का रूपसिद्धिः : ब्रह्मबन्धूः , धीवबन्धूः इति । सवर्णदीर्घत्वेन सिद्धं । न सिध्यति । गोस्त्रियोः उपसर्जनस्य इति ह्रस्वत्वं प्रसज्येत । इह च ब्रह्मबन्धूछत्रं ब्रह्मबन्धूच्छत्रं षत्वतुकोः असिद्धः इति एकादेशस्य असिद्धत्वात्नित्यः तुक्प्रसज्येत । इह च ब्रह्मबन्धूः , धीवबन्धूः नद्यृतः कपिति कप्प्रसज्येत । न एषः दोषः । यत्तावतुच्यते ब्रह्मबन्धूः , धीवबन्धूः इति गोस्त्रियोः उपसर्जनस्य इति ह्रस्वत्वं प्रसज्येत इति । उभयतः आश्रये न अन्तादिवत। यतपि उच्यते ब्रह्मबन्धूछत्रं ब्रह्मबन्धूच्छत्रं षत्वतुकोः असिद्धः इति एकादेशस्य असिद्धत्वात्नित्यः तुक्प्रसज्येत इति । पदान्तपदाद्योः एकादेशः असिद्धः न च एषः पदान्तपदाद्योः एकादेशः । यतपि उच्यते इह च ब्रह्मबन्धूः धीवबन्धूः नद्यृतः कपिति कप्प्रसज्येत इति । नद्यन्तानां यः बहुव्रीहिः इति एवं तत्न च एषः नद्यन्तानां यः बहुव्रीहिः । शेषलक्षणः तर्हि कप्प्राप्नोति । तस्मात्दीर्घोच्चारणं कर्तव्यं ।
(पाणिनीयसूत्र ४,१।६६।२) कि.,२२७।१७-१९ रो.,५२५ (कात्यायन वार्तिक)ऊङ्प्रकरणे अप्राणिजातेः च अरज्ज्वादीनाम्(वार्तिकान्त) । ऊङ्प्रकरणे अप्राणिजातेः च अरज्ज्वादीनां इति वक्तव्यं । अलाबूः कर्कन्धूः । अप्राणिजातेः इति किमर्थं । कृकवाकुः । अरज्ज्वादीनां इति किमर्थं । रज्जुः हनुः ।
(पाणिनीयसूत्र ४,१।७०) कि.,२२७।२१ रो.,५२६ सहितसह्हाभ्यां च इति वक्तव्यं । सहितोरूः सहोरूः ।
(पाणिनीयसूत्र ४,१।७१) कि.,२२७।२३-२४ रो.,५२६ अत्यल्पं इदं उच्यते कद्रुकमण्डव्ल्वोः इति । कद्रुकमण्डलुगुग्गुलुमधुजतुपतयालूणां इति वक्तव्यं : कद्रूः , कमण्डलूः , गुग्गुलूः , मधूः , जतूः , पतयालूः ।
(पाणिनीयसूत्र ४,१।७४) कि.,२२८।२-६ रो.,५२६ (कात्यायन वार्तिक)षात्च यञः चाप्(वार्तिकान्त) । षात्च यञः चाप्वक्तव्यः । शार्कराक्ष्या पौतिमाष्या । तत्र अयं अपि अर्थः । गौकक्ष्यशब्दः क्रौड्यादिषु पठ्यते । सः न पठितव्यः भवति । यदि न पठ्यते गौक्षीपुत्रः इति सम्प्रसारणं न प्राप्नोति । इष्टं एव एतत्सङ्गृहीतं । गौक्ष्यापुत्रः इति एव भवितव्यं । एवं हि सौनागाः पठन्ति । ष्यङः सम्प्रसारणे गौकक्ष्यायाः प्रतिषेधः इति ।
(पाणिनीयसूत्र ४,१।७५) कि.,२२८।८-२४ रो.,५२७-५२८ (कात्यायन वार्तिक)अनः उपधालोपिनः ऊधसः ङीष्पूर्वविप्रतिषिद्धम्(वार्तिकान्त) । अनः उपधालोपिनः अन्यतरस्यां इति एतस्मातूधसः ङीष्भवति पूर्वविप्रतिषेधेन । अतः उपधालोपिनः अन्यतरस्यां इति एतस्य अवकाशः बहुराज्ञी बहुतक्ष्णी । ऊधसः ङीष्भवति इति अस्य अवकाशः । विभाषा ङीप। यदा न ङीप्सः अवकाशः । ङीप्प्रसङ्गे उभयं प्राप्नोति । ऊधसः ङीष्भवति पूर्वविप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । अनः उपधालोपिनः अन्यतरस्यां इति अत्र ऊधसः ङीष्भवति इति एततनुवर्तिष्यते । (कात्यायन वार्तिक)आवट्यात्यञः ष्फः चापः(वार्तिकान्त) । आवट्यात्यञः ष्फः चापः भवति पूर्वविप्रतिषेधेन । आवट्यात्यञः चापः अवकाशः उदीचां । आवट्या । ष्फस्य अवकाशः अन्यानि यञन्तानि । गार्ग्यायणी वात्स्यायनी । आवट्यशब्दात्प्राचां उभयं प्राप्नोति । आवट्यायनी । ष्फः भवति पूर्वविप्रतिषेधेन । आवट्यग्रहणेन न अर्थः । यञः ष्फः चापः इति एव । इदं अपि सिद्धं भवति । शार्कराक्ष्यायणी पौतिमाष्यायणी । यञ्ग्रहणेन न अर्थः । ष्फः चापः इति एव । गौकक्ष्यशब्दः क्रौड्यादिषु पठ्यते । इदं अपि सिद्धं भवति गौकक्ष्यायणी । तत्तर्हि वक्तव्यं । न वक्तव्यं । एवं वक्ष्यामि । प्राचां ष्फः तद्धितः सर्वत्र । क्व सर्वत्र । यत्र ष्फः च अन्यः च प्राप्नोति ष्फः एव तत्र भवति इति । ततः लोहिताइद्कतन्तेभ्यः सर्वत्र । क्व सर्वत्र । प्राचां च उदीचां च ।
(पाणिनीयसूत्र ४,१।७८।१) कि.,२२९।२-२२ रो.,५२८-५३० इह कस्मात्न भवति । दाक्षी प्लाक्षी इति । अतिशायिकेन अयं तमशब्देन निर्देशः क्रियते । सः च त्रिप्रभृतिषु वर्तते । त्रिप्रभृतीनां अभावात। यदि एवं (कात्यायन वार्तिक)प्रकर्षे चेत्तमं कृत्वा दाक्ष्याः न उपोत्तमं गुरु आम्विधिः केन ते न स्यात्प्रकर्षे यदि अयं तमः(वार्तिकान्त) । प्रकर्षे चेत्तमं कृत्वा दाक्ष्याः न उपोत्तमं गुरु इति उच्यते आम्विधिः केन तव न स्यात। अव्ययघातिति प्राप्नोति । प्रकर्षे यदि अयं तमः । यदि अयं तमः प्रकर्षे वर्तते । (कात्यायन वार्तिक)उद्गतस्य प्रकर्षः अयं । गतशब्दः अत्र लुप्यते(वार्तिकान्त) ।उद्गतस्य अयं प्रकर्षः । गतशब्दस्य अत्र लोपः भवति । (कात्यायन वार्तिक)नाव्ययार्थप्रकर्षः अस्ति । धात्वर्थः अत्र प्रकृष्यते(वार्तिकान्त) । नाव्ययस्य अर्थस्य प्रकर्षः । कस्य तर्हि । धात्वर्थस्य । (कात्यायन वार्तिक)उद्गतः अपेक्षते किं चित। त्रयाणां द्वौ किल उद्गतौ (वार्तिकान्त)। अनुद्गतं अपेक्ष्य उद्गतः इति एतत्भवति । त्रयाणां द्वौ किल उद्गतौ । त्रयाणां किल द्वौ उद्गतौ भवतः । (कात्यायन वार्तिक)चतुष्प्रभृतिकर्तव्यः वाराह्यायां न सिध्यति(वार्तिकान्त) । चतुष्प्रभृतिषु ष्यङ्वक्तव्यः वाराह्यायां न सिध्यति । वाराह्यायां न प्राप्नोति । किं कारणं । चतुष्प्रभृतीनां अभावात। (कात्यायन वार्तिक)भिद्यते अस्य स्वरः तेन विधिः च आमः न लक्ष्यते(वार्तिकान्त) । भिद्यते खलु अस्य स्वरः तेन आतिशायिकेन शब्देन उत्तमस्य । विधिः च आमः न लक्ष्यते । विधिः च आमः न क्व चितपि लक्ष्यते । (कात्यायन वार्तिक)शब्दान्तरं इदं विध्यात्दृष्टं अभ्यन्तरं त्रिषु(वार्तिकान्त) । एवं तर्हि अन्यः अयं आतिशायिकेन समानार्थः तमः त्रिप्रभृतिषु वर्तते ।
(पाणिनीयसूत्र ४,१।७८।२) कि.,२२९।२३-२३३।१ रो., ५३०-५३८ किं पुनः अयं अणिञोः आदेशः आहोस्वितणिञ्भ्यां परः । कः च अत्र विशेषः । (कात्यायन वार्तिक)ष्यङि अनादेशे यलोपवचनम्(वार्तिकान्त) । ष्यङि अनादेशे यलोपः वक्तव्यः । औदमेघ्यायाः छात्राः औदमेघाः ।(कात्यायन वार्तिक) द्विः अण्विधिः(वार्तिकान्त) । द्विः च अण्विधेयः । औदमेघ्यायाः छात्राः औदमेघाः । औदमेघ्यानां सङ्घः औदमेघः । इञः इति अण्न प्राप्नोति । अस्तु तर्हि आदेशः । (कात्यायन वार्तिक)आदेशे नलोपवचनम्(वार्तिकान्त) । यदि आदेशः नलोपः वक्तव्यः । औडुलोम्या शारलोम्या इति । ये च अभावकर्मणोः इति प्रकृतिभावः प्रसज्येत । (कात्यायन वार्तिक)न वा ष्यङः लोपनिमित्तत्वात्(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । ष्यङः लोपनिमित्तत्वात। लोपनिमित्तः ष्यङ। न अकृते लोपे ष्यङ्प्राप्नोति । किं कारणं । गुरूपोत्तमयोः इति उच्यते न च अकृते लोपे गुरूपोत्तमं भवति । अथ वा पुनः अस्तु परः । ननु च उक्तं ष्यङि अनादेशे यलोपवचनं द्विः अण्विधिः इति । न एषः दोषः । यत्तावतुच्यते यलोपवचनं इति अदोषः एषः । किं कारणं । पुंवद्भावात्यजादौ तद्धिते । यजादौ तद्धिते पुंवद्भावः भविष्यति भस्य अढे तद्धिते पुंवत्भवति इति । अयं तर्हि दोषः द्विः अण्विधिः इति । न एषः दोषः । सिद्धः च प्रत्ययविधौ । सः च सिद्धः प्रत्ययविधौ । उभयं इदं उक्तं आदेशः परः इति च । किं अत्र न्याय्यं । अदेशः इति एतत्न्याय्यं । कुतः एतत। एवं च एव हि कृत्वा आचार्येण सूत्रं पठितं षष्ठ्या च निर्देशः कृतः । अतः एषः पक्षः निर्दोषः । ननु च परस्मिनपि सति ये दोषाः ते परिहृताः । पुंवद्भावेन यलोपः परिहृतः । स च पुंवद्भावः अडे भवति । तत्र औदमेघेयः न सिध्यति । (कात्यायन वार्तिक)अनुबन्धौ त्वया कार्यौ(वार्तिकान्त) । यस्य आदेशः अनुबन्धौ तेन कर्तव्यौ । एकः सामान्यग्रहणाऋथः अपरः सामान्यग्रहणाविघातार्थः । क्व सामान्यग्रहणाऋथेन अर्थः । यङः चापिति । अथ सामान्यग्रहणाविघातार्थेन क्व अर्थः । अत्र एव । किं प्रयोजनं । (कात्यायन वार्तिक)चापर्थम्(वार्तिकान्त) । चाप्यथा स्यात। तव कथं चाप। (कात्यायन वार्तिक)टाब्विधिः मम(वार्तिकान्त) । टापा मम सिद्धं । ननु च मम अपि टापा सिद्धं । न सिध्यति । अणः इति इञः इति च ईकारः प्राप्नोति । न एषः दोषः । न एवं विज्ञायते अणन्तातकारान्तातिञन्तातिकारान्तातिति । कथं तर्हि । अण्यः अकारः इञ्यः इकारः इति । स्वरार्थः तर्हि त्वया चाप्वक्तव्यः । ञ्निति इति आद्युदात्तत्वं मा भूत्चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वं यथा स्यातिति । तव अपि तर्हि ष्यङा उक्तत्वात्स्त्रीत्वस्य टाप्न प्राप्नोति । (कात्यायन वार्तिक)उक्ते अपि हि भवन्ति एते(वार्तिकान्त) । उक्ते अपि हि स्त्रीत्वे भवन्ति एते टाबादयः । उक्तं एतत्स्वाऋथिकाः टाबादयः इति । मम अपि तर्हि सानुबन्धकस्य आदेशः इत्कार्यं न इति । तेन ञित्न भविष्यति । (कात्यायन वार्तिक)अस्थानिवत्त्वे दोषः ते वृद्धिः अत्र न सिध्यति(वार्तिकान्त) । अस्थानिवत्त्वे दोषः । वृद्धिः ते न प्राप्नोति । औडुलोम्या शारलोम्या । न च इदानीं अर्धजरतीयं लभ्यं वृद्धिः मे भविष्यति स्वरः न इति । तत्यथा अर्धं जरत्याः कामयते अर्धं न इति । (कात्यायन वार्तिक)त्वया अपि अत्र विशेषार्थं कर्तव्यं स्यात्विशेषणम्(वार्तिकान्त) । त्वया अपि अत्र विशेषार्थः अनुबन्धः कर्तव्यः । क्व विशेषणार्थेन अर्थः । ष्यङः सम्प्रसारणं इति । (कात्यायन वार्तिक)अक्रिया एव विशेषः अत्र सानुबन्धः विशेषवान्(वार्तिकान्त) । अक्रिया एव मम विशेषः सानुबन्धः तु विशेषवान। (कात्यायन वार्तिक)पाश्यायां ते कथं न स्यात्(वार्तिकान्त) । पाश्यापुत्रः इति अत्र कस्मात्न भवति । (कात्यायन वार्तिक)एकः मे स्यात्विशेषणम्(वार्तिकान्त) । एकः मम विशेषणाऋथः । त्वया पुनः द्वौ कर्तव्यौ । अथ एकस्मिनपि सति कः करिष्यते । किं च अतः । (कात्यायन वार्तिक)अन्यस्मिन्सूत्रभेदः स्यात्(वार्तिकान्त)। यदि एताभ्यां अन्यः क्रियते सूत्रभेदः कृतः भवति । (कात्यायन वार्तिक)षिति लिङ्गं प्रसज्येत(वार्तिकान्त) । अथ षित्क्रियते षितः इति ईकारः प्राप्नोति । (कात्यायन वार्तिक)ङिति चेक्रीयिते दोषः(वार्तिकान्त) । अथ ङित्क्रियते चेक्रीयिते दोषः भवति । लोलूयापुत्रः लोलूयापतिः इति । (कात्यायन वार्तिक)व्यवधानात्न दुष्यति(वार्तिकान्त) । अकारेण व्यवहितत्वात्न दोषः भवति । (कात्यायन वार्तिक)यः अनन्तरः न धातुः सः(वार्तिकान्त) । धातोः इति वर्तते यः च अत्र अनन्तरः न असौ धातुः । (कात्यायन वार्तिक)यः धातुः सः अननन्तरः(वार्तिकान्त) । यः च धातुः स असौ अनन्तरः । (कात्यायन वार्तिक)न चेतुभयतः साम्यं उभयत्र प्रसज्येत(वार्तिकान्त) । न चेतुभयतः साम्यं उभयत्र प्राप्नोति । यदि पुनः यङा धातुः विशेष्येत । (कात्यायन वार्तिक)यङा विशेष्येत यदि इह धातुः यङ्धातुना वा यदि तुल्यं एतत्(वार्तिकान्त) । यदि एव यङा धातुः विशेष्यते यदि अथ
अपि धातुना यङ्तुल्यं एतत्भवति । (कात्यायन वार्तिक)उभौ प्रधानं यदि न अत्र दोषः (वार्तिकान्त)। अथ उभौ प्रधानं भवतः न अत्र दोषः भवति । (कात्यायन वार्तिक)तथा प्रसार्येत तु वाक्पतिः ते(वार्तिकान्त) । तथा सति वाक्पतिः वाक्पुत्रः इति अत्र प्रसारणं प्राप्नोति । (कात्यायन वार्तिक)धातुप्रकरणस्य इह न स्थानं इति निश्चयः(वार्तिकान्त) । धातुप्रकरणस्य इह स्थानं न अस्ति इति कृत्वा एषः निश्चयः क्रियते । अवश्यं आत्त्वार्थं धातुग्रहणं कर्तव्यं । इह मा भूत। गोभ्यां गोभिः नौभ्यां नौभिः । (कात्यायन वार्तिक)आत्त्वार्थं यदि कर्तव्यं तत्र एव तत्करिष्यते । उपदेशे यतेजन्तं तस्य चेदात्त्वं इष्यते उद्देशः ऋऊढिशब्दानां । तेन गोः न भविष्यति(वार्तिकान्त) । एवं तर्हि उपदेशे इति उच्यते उद्देशः च प्रातिपदिकानां न उपदेशः ।
(पाणिनीयसूत्र ४,१।७९) कि.,२३३।३-२२ रो.,५३८-५४० किमर्थं इदं उच्यते । गोत्रावयवातगोत्रार्थं । गोत्रावयवातिति उच्यते । अगोत्रार्थः अयं आरम्भः । (कात्यायन वार्तिक)गोत्रावयवातगोत्रार्थं इति चेत्ततनिष्टम्(वार्तिकान्त) । गोत्रावयवातगोत्रार्थं इति चेत्ततनिष्टं प्राप्नोति । इह अपि प्राप्नोति आहिच्छत्री कान्यकुब्जी । एवं तर्हि गोत्रातेव गोत्रावयवात। गोत्रातिति चेत्वचनानर्थक्यं । गोत्रातिति चेत्वचनं अनर्थकं । सिद्धं गोत्रे पुर्वेण एव । इदं तर्हि प्रयोजनं । गुरूपोत्तमयोः इति उच्यते । अगुरूपोत्तमाऋथः अयं आरम्भः । (कात्यायन वार्तिक)अगुरूपोत्तमाऋथं इति चेत्सर्वेषां अवयवत्वात्सर्वप्रसङ्गः(वार्तिकान्त) । अगुरूपोत्तमाऋथं इति चेत्सर्वेषां अवयवत्वात्सर्वत्र प्राप्नोति : अष्टाशीतिः सहस्राणि ऊर्ध्वरेतसां ऋषीणां बभूवुः । तत्र अगस्त्याष्टमैः ऋषिभिः प्रजनः अभ्युपगतः । तत्रभवतां यतपत्यं तानि गोत्राणि । अतः अन्ये गोत्रावयवाः । तत्र उत्पत्तिः प्राप्नोति । तत्च अनिष्टं । तस्मात्न अर्थः अनेन योगेन । कथं येभ्यः अगुरूपोत्तमेभ्यः इष्यते । (कात्यायन वार्तिक)सिद्धं तु रौढ्यादिषु उपसङ्ख्यानात्(वार्तिकान्त) । सिद्धं एतत। कथं । रौढ्यादिषु उपसङ्ख्यानात। रौढ्यादिषु उपसङ्ख्यानं कर्तव्यं । के पुनः रौढ्यादयः । ये क्रौड्यादयः । भारद्वाजीयाः पठन्ति (कात्यायन वार्तिक)सिद्धं तु कुलाख्येभ्यः लोके गोत्राभिमताभ्यः(वार्तिकान्त) इति । सिद्धं एतत। कथं । कुलाख्याः लोके गोत्रावयवाः इति उच्यन्ते । अथ वा गोत्रावयवः कः भवतुं अर्हति । गोत्रातवयुतः । कः च गोत्रातवयुतः । यः अनन्तरः । दैवदत्त्या याज्ञदत्त्या इति ।
(पाणिनीयसूत्र ४,१।८२) कि.,२३४।२-२३ रो.,५४१-५४३ समर्थवचनं किमर्थं । समर्थातुत्पत्तिः यथा स्यातः उपगोः अपत्यं । असमर्थात्मा भूतिति : कम्बलः उपगोः अपत्यं देवदत्तस्य इति । (कात्यायन वार्तिक)समर्थवचनं अनर्थकं । न हि असमर्थेन अर्थाभिधानम्(वार्तिकान्त) । समर्थवचनं अनर्थकं । किं कारणं । न हि असमर्थेन अर्थाभिधानं । न हि असमर्थातुत्पद्यमानेन प्रत्ययेन अर्थाभिधानं स्यात। अनभिधानात्ततः उत्पत्तिः न भविष्यति । अथ प्रथमवचनं किमर्थं । प्रथमवचनं प्रकृतिविशेषणार्थं । प्रथमात्प्रत्ययोत्पत्तिः यथा स्यात। अप्रथमात्मा भूत। उपगोः अपत्यं इति अपत्यशब्दात। (कात्यायन वार्तिक)प्रथमवचनं अनर्थकं । न हि अप्रथमेन अर्थाभिधानम्(वार्तिकान्त) । प्रथमवचनं अनर्थकं । किं कारणं । न हि अप्रथमेन अर्थाभिधानं । न हि अप्रथमातुत्पद्यमानेन प्रत्ययेन अर्थाभिधानं स्यात। अनभिधानात्ततः उत्पत्तिः न भविष्यति । अथ वावचनं किमर्थं । वाक्यं अपि यथात्स्यात। उपगोः अपत्यं इति । (कात्यायन वार्तिक)वावचने च उक्तम्(वार्तिकान्त) । किं उक्तं । तत्र तावतुक्तं । वावचनानर्थक्यं च तत्र नित्यत्वात्सनः इति । इह अपि वावचनं अनर्थकं । किं कारणं । तत्र नित्यत्वात्प्रत्ययस्य । इह द्वौ पक्षौ वृत्तिपक्षः च अवृत्तिपक्षः च । स्वभाव्तः च एतत्भवति वाक्यं च वृत्तिः च । तत्र स्वाभाविके वृत्तिविषये नित्ये प्रत्यये प्राप्ते वावचनेन्किं अन्यत्शक्यं अभिसम्बन्धुं अन्यततः सञ्ज्ञायाः । न च सञ्ज्ञायाः भावाभावौ इष्येते । तस्मात्न अर्थः वावचनेन । अथ एतत्समर्थग्रहणं न एव कर्तव्यं । कर्तव्यं च । किं प्रयोजनं । समर्थातुत्पत्तिः यथा स्यात। असमर्थात्मा भूत। किं पुनः समर्थं । अर्थाभिधाने यत्समर्थं । किं पुनः तत। कृतवर्णानुपूर्वीकं पदं । सौत्थितिः वैक्षमाणिः इति । अथ तत्वावचनं न एव कर्तव्यं । कर्तव्यं च । किं प्रयोजनं । नित्याः शब्दाः । नित्येषु शब्देषु वाक्यस्य अनेन साधुत्वं अन्वाख्यायते ।
(पाणिनीयसूत्र ४,१।८३।१) कि.,२३५।२-८ रो.,५४४-५४५ अयुक्तः अयं निर्देशः । न हि तत्र कः चित्दीव्यच्छब्दः पठ्यते । कः तर्हि । दीव्यतिशब्दः । कथं तर्हि निर्देशः कर्तव्यः । प्राक्दीव्यतेः इति । सः तर्हि तथा निर्देशः कर्तव्यः प्राक्दीव्यतेः इति । न कर्तव्यः । दीव्यतिशब्दे दीव्यच्छब्दः अस्ति । तस्मातेषा पञ्चमी । किं पुनः कारणं विकृतनिर्देशः क्रियते । एतत्ज्ञापयति आचार्यः । भवति एषा परिभाषा : एकदेशविकृतं अनन्यवत्भवति इति । किं एतस्य ज्ञापने प्रयोजनं । एकदेशविक्र्टेषु उपसङ्ख्यानं चोदितं । तत्न कर्तव्यं भवति । अथ वा प्राक्शब्दः अयं दिक्शब्दः । दिक्शब्दैः च योगे पञ्चमी भवति । तत्र अप्रथमासमानाधिकरणे इति शता भविष्यति ।
(पाणिनीयसूत्र ४,१।८३।२) कि.,२३५।९-१८ रो.,५४५ अथ प्राग्वचनं किमर्थं । (कात्यायन वार्तिक)प्राग्वचनं सकृद्विधानार्थम्(वार्तिकान्त) । प्राग्वचनं क्रियते सकृद्विधानार्थं । सकृद्विहितः प्रत्ययः विहितः यथा स्यात। योगे योगे तस्य ग्रहणं मा कार्षं इति । न एततस्ति प्रयोजनं । अधिकारातपि एतत्सिद्धं । अधिकारः प्रतियोगं तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते । (कात्यायन वार्तिक)अधिकारात्सिद्धं इति चेतपवादविषये अण्प्रसङ्गः (वार्तिकान्त)। अधिकारात्सिद्धं इति चेतपवादविषये अण्प्राप्नोति । अतः इञण्च इति अणपि प्राप्नोति । (कात्यायन वार्तिक)तस्मात्प्राग्वचनम्(वार्तिकान्त) । तस्मात्प्राग्वचनं कर्तव्यं ।
(पाणिनीयसूत्र ४,१।८३।३) कि.,२३५।२३५।१८-२३६।८ रो.,५४५-५४७ अथ क्रियमाणे अपि प्राग्वचने कथं इदं विज्ञायते । प्राक्दीव्यतः याः प्रकृतयः आहोस्वित्प्राक्दीव्यतः ये अर्थाः इति । किं च अतः । यदि विज्ञायते प्राक्दीव्यतः याः प्रकृतयः इति सः एव दोषः अपवादविषये अण्प्रसङ्गः इति । अथ विज्ञायते प्राक्दीव्यतः ये अर्थाः इति न दोषः भवति । समाने अर्थे प्रकृतिविशेषातुत्पद्यमानः इञणं भाधते । यथा न दोषः तथा अस्तु । प्राक्दीव्यतः ये अर्थाः इति विज्ञायते । कुतः एतत। तथा हि अयं प्राधान्येन अर्थं प्रतिनिर्दिशति । इतरथा बह्व्यः प्रकृतयः पठ्यन्ते । ततः यां कां चितेवं निमित्तत्वेन उपाददीत । अथ वा पुनः अस्तु प्राक्दीव्यतः याः प्रकृतयः इति । ननु च उक्तं अपवादविषये अण्प्रसङ्गः इति । (कात्यायन वार्तिक)न वा क्व चित्वावचनात्(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । क्व चित्वावचनात। यतयं वावचनं करोति पीलायाः वा उदश्वितः अन्यतरस्यां इति तत्ज्ञापयति आचार्यः न अपवादविषये अण्भवति इति । यदि एतत्ज्ञाप्यते न अर्थः प्राग्वचनेन । अधिकारात्सिद्धं । ननु च उक्तं अधिकारात्सिद्धं इति चेतपवादविषये अण्प्रसङ्गः इति । न एषः दोषः । परिहृतं एतत्न वा क्व चित्वावचनातिति । किं पुनः कारणं इयानवधिः गृह्यते । न प्राक्ठकः इति एव उच्येत । एतत्ज्ञापयति अर्थेषु अयं भवति इति । किं एतस्य ज्ञापने प्रयोजनं । प्रकृतिविशेषातुपद्यमानः इञणं बाधते ।
(पाणिनीयसूत्र ४,१।८५।१) कि.,२३६।१०-२३७।८ रो.,५४७-५४९ (कात्यायन वार्तिक)वाङ्मतिपितृमतां छन्दसि उपसङ्ख्यानम्(वार्तिकान्त) । वाङ्मतिपितृमतां छन्दसि उपसङ्ख्यानं कर्तव्यं । वाक। वाच्यः । वाक। मति । मात्यः । मति । पितृमत। पैतृमत्यः । (कात्यायन वार्तिक)पृथिव्याः ञाञौ (वार्तिकान्त)। पृथिव्याः ञाञौ वक्तव्यौ । पार्थिवा पार्थिवी । (कात्यायन वार्तिक)देवस्य यञञौ(वार्तिकान्त) । देवस्य यञञौ वक्तव्यौ । दैव्यं दैवं ।(कात्यायन वार्तिक)बहिषः टिलोपः च यञ्च(वार्तिकान्त) । बहिषः टिलोपः च यञ्च वक्तव्यः । बहिर्भवः बाह्यः । (कात्यायन वार्तिक)ईकक्च(वार्तिकान्त) । ईकक्च वक्तव्यः । बाहीकः । (कात्यायन वार्तिक)ईकञ्छन्दसि (वार्तिकान्त)। ईकञ्छन्दसि वक्तव्यः । बाहीकं अस्तु भद्रं वः । (कात्यायन वार्तिक)स्थाम्नः अकारः(वार्तिकान्त) । स्थाम्नः अकारः वक्तव्यः । अश्वत्थामः । (कात्यायन वार्तिक)लोम्नः अपत्येषु बहुषु(वार्तिकान्त) । लोम्नः अपत्येषु बहुषु अकारः वक्तव्यः ।उडुलोमाः शरलोमाः । बहुषु इति किमर्थं । औडलोमिः शारलोमिः । (कात्यायन वार्तिक)सर्वत्र गोः अजादिप्रसङ्गे यत्(वार्तिकान्त) । सर्वत्र गोः अजादिप्रसङ्गे यत्वक्तव्यः । गवि भवं गव्यं । गोः इदं गव्यं । गोः स्वं गव्यं । गौः देवता अस्य स्थालीपाकस्य गव्यः स्थालीपाकः ।
(पाणिनीयसूत्र ४,१।८५।२) कि.,२३७।९-१७ रो.,५४९ (कात्यायन वार्तिक)ण्यादयः अर्थविशेषलक्षणातणपवादात्पूर्वविप्रतिषेद्धम्(वार्तिकान्त) । ण्यादयः अर्थविशेषलक्षणातणपवादात्भवन्ति पूर्वविप्रतिषेधेन । ण्यादीनां अवकाशः । दितिः देवता अस्य दैत्यः । अथविशेषलक्षणस्य अणपवादस्य अवकाशः । दुलेः अपत्यं दौलेयः बालेयः । इह उभयं प्राप्नोति । दितेः अपत्यं दैत्यः । अपरस्य अथविशेषलक्षणस्य अणपवादस्य अवकाशः । अचित्तहस्तिधेनोः ठक। आपूपिकं शाष्कुलिकं । ण्यादीनां अवकाशः । बार्हस्पत्यं प्राजापत्यं । इह उभयं प्राप्नोति । वनस्पतीनां समूहः वानस्पत्यं । ण्यादयः भवन्ति पूर्वविप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । इष्टवाचीपरशब्दः । विप्रतिषेधे यतिष्टं तत्भवति । दितिवनस्पतिभ्यां अपत्यसमूहयोः ।
(पाणिनीयसूत्र ४,१।८६) कि.,२३७।१९-२३ रो.,५५० (कात्यायन वार्तिक)अञ्प्रकरणे ग्रीष्मातच्छन्दसि(वार्तिकान्त) । अञ्प्रकरणे ग्रीष्मातच्छन्दसि इति वक्तव्यं । ग्रैष्मं । अच्छन्दसि इति किं । त्रिष्टुप्ग्रैष्मी । यदि अच्छन्दसि इति उच्यते ग्रैष्मौ एतौ मासौ अत्र न प्राप्नोति । अच्छन्दसि इति उच्यते । न एतत्छन्दः समीक्षितं काठकं कापालकं मौदकं पप्पलादकं वा । किं तर्हि । प्रत्ययार्थविशेषणं एत । न चेत्छन्दः प्रत्ययार्थः भवति इति ।
(पाणिनीयसूत्र ४,१।८७।१) कि.,२३८।२-१३ रो.,५५०-५५१ किमर्थं नञ्स्नञौ उच्येते न नञेव उच्येत । का रूपसिद्धिः : प्ॐस्नं । पुंसिति सकारान्तः नकारशब्दः च प्रत्ययः । न सिध्यति । संयोगान्तस्य लोपः इति लोपः प्राप्नोति । एवं तर्हि न एव अर्थः नञा न अपि स्नञा । अञ्प्रकृतः । सः अनुवर्तिष्यते नकारः च आगमः वक्तव्यः । अथ नकारागमे सति किं पूर्वान्तः करिष्यते आहोस्वित्परादिः । किं च अतः । यदि पूर्वान्तः स्त्रैणाः बहुषु लोपः प्राप्नोति । स्त्रैणानां सङ्घः सङ्घाङ्कलक्षणेषु अञ्यञिञां अणिति अण्प्राप्नोति । अथ परादिः प्ॐसं सः एव दोषः संयोगान्तलोपः प्राप्नोति । अस्तु पूर्वान्तः । कथं स्त्रैणाः स्त्रैणानां सङ्घः इति । उभयत्र लौकिकस्य गोत्रस्य ग्रहणं । न च इदं लौकिकं गोत्रं । ईकारः तर्हि प्राप्नोति । इष्टं एव एतत्सङ्गृहीतं । स्त्रैणी प्ॐसी इति एव भवितव्यं । एवं हि सौनागाः पठन्ति नञ्स्नञीकक्खुंस्तरुणतलुनानां उपसङ्ख्यानं इति । टिलोपः तर्हि प्राप्नोति । नुग्वचनात्न भविष्यति । भवेतिह नुग्वचनात्न स्यात्स्त्रैणं इति । इह तु खलु प्ॐसं इति नुग्वचनातेव प्राप्नोति । तस्मात्नञ्स्नञौ वक्तव्यौ ।
(पाणिनीयसूत्र ४,१।८७।२) कि.,२३८।१४-२५ रो.,५५२ अथ इमौ नञ्स्नञौ प्राक्भवनाताहोस्वित्प्राक्वतेः । कः च अत्र विशेषः । (कात्यायन वार्तिक)नञ्स्नञौ भवनातिति चेत्वत्यर्थे प्रतिषेधः(वार्तिकान्त) । नञ्स्नञौ भवनातिति चेत्वत्यर्थे प्रतिषेधः वक्तव्यः । स्त्रीवत्पुंवतिति । किं पुनः कारणं न सिध्यति । इम नञ्स्नञौ प्राक्भवनातिति उच्येते । तौ विशेषविहितौ सामान्यविहितं वतिं बाधेयातां । तत्तर्हि वक्तव्यं । न वक्तव्यं । वतेः प्राकिति वक्ष्यामि । (कात्यायन वार्तिक)वतेः प्राकिति चेत्भावे उपसङ्ख्यानम्(वार्तिकान्त) । वतेः प्राकिति चेत्भावे उपसङ्ख्यानं कर्तव्यं । स्त्रीभावः स्त्रैणं पुम्भावः प्ॐस्नं इति । सूत्रं च भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं नञ्स्नञौ भवनातिति चेत्वत्यर्थे प्रतिषेधः इति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न वत्यर्थे नञ्स्नञौ भवतः इति यतयं स्त्रियाः पुंवतिति निर्देशं करोति । एवं अपि स्त्रीवतिति न सिध्यति । योगापेक्षं ज्ञापकं ।
(४।१।८८।१) Pईई।२३९।२ - ८ ऱीईई।५५३ इह कस्मात्न भवति त्रैविद्यः पाञ्चनदः षाट्कुलः इति । इह तावत्त्रैविद्यः इति न एवं विज्ञायते तिस्रः विद्याः अधीते त्रैविद्यः इति । कथं तर्हि । त्र्यवयवा विद्या त्रिविद्या । त्रिविद्यां अधीते त्रैविद्यः इति । इह अपि पाञ्चनदः इति न एवं विज्ञायते पञ्चसु नदीषु भवः पाञ्चनदः इति । कथं तर्हि । पञ्चानां नदीनां समाहारः पञ्चनदं । पञ्चनदे भवः पाञ्चनदः इति । षाट्कुलः इति न एवं विज्ञायते षट्सु कुलेषु भवः षाट्कुलः इति । कथं तर्हि । षण्णां कुलं षट्कुलं षट्कुले भवः षाट्कुलः इति । अजादिग्रहणं च कर्तव्यं । इह मा भूत्पञ्चगर्भरूप्यं पञ्चगर्भमयं ।
(पाणिनीयसूत्र ४,१।८८।२) कि.,२३९।९-२४०।६ रो.,५५४-५५६ (कात्यायन वार्तिक)द्विगोः लुकि तन्निमित्तग्रहणम्(वार्तिकान्त) । द्विगोः लुकि तन्निमित्तग्रहणं कर्तव्यं । द्विगुनिमित्तं यः तद्धितः तस्य लुक्भवति इति वक्तव्यं । इह मा भूत। पञ्चकपालस्य इदं खण्डं पाञ्चकपालं इति । (कात्यायन वार्तिक)अर्थविशेषासम्प्रत्यये अतन्निमित्तातपि(वार्तिकान्त) । अर्थविशेषासम्प्रत्यये अतन्निमित्तातपि इति वक्तव्यं । किं प्रयोजनं । पञ्चसु कपालेषु संस्कृतः पञ्चकपालः । पन्चकपाल्यां संस्क्र्तः इति अपि विगृह्य पञ्चकपालः इति एव यथा स्यात। अथ क्रियमाणे अपि तन्निमित्तग्रहणे कथं इदं विज्ञायते । तस्य निमित्तं तन्निमित्तं तन्निमित्तातिति आहोस्वित्सः निमित्तं अस्य सः अयं तन्निमित्तः तन्निमित्तातिति । किं च अतः । यदि विज्ञायते तस्य निमित्तं तन्निमित्तं तन्निमित्तातिति क्रियमाणे अपि तन्निमित्तग्रहणे अत्र प्राप्नोति पञ्चकपालस्य इदं खण्डं इति । अथ विज्ञायते सः निमित्तं अस्य सः अयं तन्निमित्तः तन्निमित्तातिति न दोषः भवति । यथ न दोषः तथा अस्तु । सः निमित्तं अस्य सः अयं तन्निमित्तः तन्निमित्तातिति विज्ञायते । कुतः एतत। यतयं आह अर्थविशेषासम्प्रत्यये अतन्निमित्तातपि इति । तत्तर्हि तन्निमित्तग्रहणं कर्तव्यं । न कर्तव्यं । द्विगोः इति न एषा पञ्चमी । का तर्हि । सम्बन्धषष्ठी । द्विगोः तद्धितस्य लुक्भवति । किं च द्विगोः तद्धितः । निमित्तं । यस्मिन्द्विगुः इति एतत्भवति । कस्मिन्च एतत्भवति । प्रत्यये । इदं तर्हि वक्तव्यं अर्थविशेषासम्प्रत्यये अतन्निमित्तातपि इति । एतत्च न वक्तव्यं । इह अस्माभिः त्रैशब्द्यं साध्यं । पञ्चसु कपालेषु संस्कृतः पञ्चकपाल्यां संस्कृतः पञ्चकपालः दशकपालः इति । तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरस्मातुत्पत्तिः भविष्यति अविरविकन्यायेन । तत्यथा । अवेः मांसं इति विगृह्य अविकशब्दातुत्पत्तिः भवति । एवं पञ्चसु कपालेषु संस्कृतः इति विगृह्य पञ्चकपालः इति भविष्यति । पञ्चकपाल्यां संस्कृतः इति विगृह्य वाक्यं एव । त्रैशब्द्यं च इह साध्यं । तत्च एवं सति सिद्धं भवति ।
(पाणिनीयसूत्र ४,१।८९।१) कि.,२४०।८-२४१।३ रो.,५५६-५५७ (कात्यायन वार्तिक)गोत्रे अलुकचि इति चेतितरेतराश्रयत्वातप्रसिद्धिः(वार्तिकान्त) । गोत्रे अलुकचि इति चेतितरेतराश्रयत्वातप्रसिद्धिः । का इतरेतराश्रयता । अलुग्निमित्तः अजादिः अजादिनिमित्तः च अलुक। ततितरेतराश्रयं भवति । इतरेतराश्रयाणि च न प्रकल्पन्ते । (कात्यायन वार्तिक)विप्रतिषेधात्तु लुकः छविधानम्(वार्तिकान्त) । विप्रतिषेधात्तु लुकः छः भविष्यति । लुकः अवकाशः गर्गाः वत्साः बिदाः उर्वाः । छस्य अवकाशः शालीयः मालीयः गार्गीयः वात्सीयः । इह उभयं प्राप्नोति । गर्गाणां छात्राः गार्गीयाः वात्सीयः । छः भवति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । (कात्यायन वार्तिक)भूम्नि च लुक्प्राप्तः बाह्ये च अर्थे विधीयते अजादिः । बहिरङ्गं अन्तरङ्गात। विप्रतिषेधातयुक्तं स्यात। भूम्नि प्राप्तस्य लुकः यतजादौ तद्धिते अलुकं शास्ति एतत्ब्रवीति कूर्वन्समानकालौ अलुक्लुक्च(वार्तिकान्त) । यतयं भूम्नि प्राप्तस्य लुकः अजादौ तद्धिते अलुकं शास्ति तत्ज्ञापयति आचार्यः समानकालौ एतौ अलुग्लुकौ इति । (कात्यायन वार्तिक)यदि वा लुकः प्रसङ्गे भवति अलुक्छः तथा प्रसिद्धः अस्य(वार्तिकान्त) । यदि वा लुकः प्रसङ्गे भवति अलुक्भवति तथा अस्य छः प्रसिद्धः अस्य । पूर्वं हि अपवादाः अभिनिविशन्ते पश्चातुत्सर्गाः । (कात्यायन वार्तिक)लुक्वा अलुकः प्रसङ्गं प्रतीक्षते छे अलुकस्य तथा (वार्तिकान्त)। लुक्वा पुनः अलुकः प्रसङ्गं यदि प्रतीक्षते तथा अस्य छे अलुक्सिद्धः भवति । प्रकल्प्य वा अपवादविषयं ततः उत्सर्गः अभिनिविशते ।
(पाणिनीयसूत्र ४,१।८९।२) कि.,२४१।४-२४२।१३ रो.,५५८-५६२ (कात्यायन वार्तिक)गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक्(वार्तिकान्त) । गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक्वक्तव्यः । बिदानां अपत्यं माणवकः बैदः बैदौ । किमर्थं इदं न अचि इति एव अलुक्सिद्धः । अचि इति उच्यते । न च अत्र अजादिं पश्यामः । प्रत्ययलक्षणेन । वर्णाश्रये न अस्ति प्रत्ययलक्षणं । (कात्यायन वार्तिक)एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि(वार्तिकान्त) । एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि वक्तव्यः । बैदस्य अपत्यं बहवः माणवकाः बिदाः । बैदयोः बिदाः । अञ्यः बहुषु यञ्यः बहुषु इति उच्यमानः लुक्न प्राप्नोति । मा भूतेवं अञ्यः बहुषु यञ्यः बहुषु इति । अञन्तं यद्बहुषु यञन्तं यत्बहुषु इति भविष्यति । न एवं शक्यं । इह हि दोषः स्यात। काश्यपप्रतिकृतयः काश्यपाः इति । न एषः दोषः । यत्तावतुच्यते गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक्वक्तव्यः इति । न वक्तव्यः । अचि इति एव अलुक्सिद्धः । अचि इति उच्यते । न च अत्र अजादिं पश्यामः । प्रत्ययलक्षणेन । ननु च उक्तं वर्णाश्रये न अस्ति प्रत्ययलक्षणं इति । यदि वा कानि चित्वर्णाश्रयाणि अपि प्रत्ययलक्षणेन भवन्ति तथा च इदं अपि भविष्यति । अथ वा अविशेषेण अलुकं उक्त्वा हलि न इति वक्ष्यामि । यदि अविशेषेण अलुकं उक्त्वा हलि न इति उच्यते बिदानां अपत्यं बहवः माणवकाः बिदाः अत्र अपि प्राप्नोति । अस्तु । पुनः अस्य युवबहुत्वे वर्तमानस्य लुक्भविष्यति । पुनः अलुक्कस्मात्न भवति । समर्थानां प्रथमस्य गोत्रप्रत्ययान्तस्य अलुकुच्यते । न च एतत्समर्थानां प्रथमं गोत्रप्रत्ययान्तं । किं तर्हि । द्वितीयं अर्थं उपसङ्क्रान्तं । अवश्यं च एततेवं विज्ञेयं अत्रिभरवाजिका वसिष्ठकश्यपिका भृग्वङ्गिरसिकाकुत्सकुशिकिका इति एवमर्थं । (कात्यायन वार्तिक)गर्गभार्गविकाग्रहणं वा नियमार्थम्(वार्तिकान्त) । अथ वा गर्गभार्गविकाग्रहणं नियमार्थं भविष्यति । एतस्य एव द्वितीयं अर्थं उपसङ्क्रान्तस्य अलुक्भवति न अन्यस्य इति । यतपि उच्यते एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि वक्तव्यः । अञ्यः बहुषु यञ्यः बहुषु इति उच्यमानः लुक्न प्राप्नोति । मा भूतेवं अञ्यः बहुषु यञ्यः बहुषु इति । अञन्तं यद्बहुषु यञन्तं यत्बहुषु इति भविष्यति । ननु च उक्तं न एवं शक्यं । इह हि दोषः स्यात। काश्यपप्रतिकृतयः काश्यपाः इति । न एषः दोषः । लौकिकस्य तत्र गोत्रस्य ग्रहणं न च एतत्लौकिकं गोत्रं । यदि अञन्तं यद्बहुषु यञन्तं यत्बहुषु इति एवं उच्यते बिदानां अपत्यं माणवकः बैदः बैदौ अत्र अपि प्राप्नोति । अलुकत्र लिकं बाधिष्यति । अलुकि च कृते पुनः लुकः निमित्तं न अस्ति इति कृत्वा पुनः लुक्न भविष्यति । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । आपत्यः वा गोत्रं । परमप्रकृतेः च आपत्यः । आपत्यात्जीवद्वंश्यात्स्वार्थे द्वितीयः युवसञ्ज्ञः । सः च अस्त्रियां । एकगोत्रग्रहणानर्थक्यं च । बहुवचनलोपिषु च सिद्धं इति । तत्र बिदानां अपत्यं माणवकः इति विगृह्य बिदशब्दात्द्व्येकयोः उत्पत्तिः भविष्यति । बैदः बैदौ । बैदस्य अपत्यं बहवः माणवकाः इति विगृह्य बिदशब्दात्बहुषु उत्पत्तिः भविष्यति । बिदा इति अविरविकन्यायेन ।
(पाणिनीयसूत्र ४,१।९०।१) कि.,२४२।१५-२३ रो.,५६२-५६३ (कात्यायन वार्तिक)यूनि लुकचि इति चेत्प्रत्ययस्य अयथेष्टप्रसङ्गः(वार्तिकान्त) । यूनि लुकचि इति चेत्प्रत्ययस्य अयथेष्टं प्राप्नोति । अनिष्टे प्रत्यये अवस्थिते लुक। अनिष्टप्रत्ययस्य श्रवणं प्रस्ज्येत । (कात्यायन वार्तिक)सिद्धं तु अविशेषेण लुग्वचनं हलि च प्रतिषेधः(वार्तिकान्त) । सिद्धं एतत। कथं । अविशेषेण लुकं उक्त्वा हलि न इति वक्ष्यामि । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं यूनि लुकचि इति चेत्प्रत्ययस्य अयथेष्टप्रसङ्गः इति । न एषः दोषः। अचि इति न एषा परसप्तमी । का तर्हि । विषयसप्तमी । अजादौ विषये इति । तत्र अचि विषये लुके कृते यः यतः प्रत्ययः प्राप्नोति सः ततः भविष्यति ।
(पाणिनीयसूत्र ४,१।९०।२) कि.,२४२।२४-२४३।१९ रो.,५६३-५६५ कानि पुनः अस्य योगस्य प्रयोजनानि । (कात्यायन वार्तिक)प्रयोजनं सौवीरगोत्रेभ्यः णठक्छाः(वार्तिकान्त) । ण । फाण्टाहृतेः अपत्यं माणवकः फाण्टाहृतः । फाण्टहृतस्य यूनः छात्राः फाण्टाहृताः । ण । ठक। भागवित्तेः अपत्यं माणवकः भागवित्तिकः । भागवित्तिकस्य यूनः छात्राः भागवित्ताः । ठक। तैलायनेः अपत्यं माणवकः तैलायनीयः । तैलायनीय यूनः छात्राः तैलायनीयाः । (कात्यायन वार्तिक)इञ्ण्यौ सर्वत्र(वार्तिकान्त) । इञ्ण्यौ सर्वत्र प्रयोजनं । औपगवेः यूनः छात्राः औपगवीयाः । वृद्धवदतिदेशे सति इञः गोत्रे इति अण्प्राप्नोति । न एषः दोषः । प्रत्याख्यायते असौ अतिदेशः । कथं यानि प्रयोजनानि । तानि ज्ञापकेन सिद्धानि । यत्खच्छान्तात्तर्हि इञः प्रयोजनं । यत। श्वशुरस्य अपत्यं श्वशुर्यः । श्वशुर्यस्य अपत्यं श्वाशुरिः । श्वाशुरेः यूनः छात्राः श्वाशुराः । यत। ख । कुलस्य अपत्यं कुलीनः । कुलीनस्य अपत्यं कौलीनिः । कौलीनेः यूनः छात्राः कौलीनाः । ख । छ । स्वसुः अपत्यं स्वस्रीयः । स्वस्रीयस्य अपत्यं स्वास्रीयिः । स्वास्रीयेः यूनः छात्राः स्वास्रीयाः । एतानि अपि हि न सन्ति प्रयोजनानि । अत्र अपि यूनि श्वशुर्यः कुलीनः स्वस्रीयः इति एव भवितव्यं । उक्तं एततणिञोः लुकि अब्राह्मणगोत्रमात्रात्युवप्रत्ययस्य उपसङ्ख्यानं इति । अब्राह्मणगोत्रमात्रातिति उच्यते । न च एततब्राह्मणगोत्रमात्रं । अब्राह्मणगोत्रमात्रातिति न अयं पर्युदासः यतन्यत्ब्राह्मणगोत्रमात्रातिति । किं तर्हि प्रसज्य अयं प्रतिषेधः ब्राह्मणगोत्रमात्रात्न इति । अवश्यं च एततेवं विज्ञेयं मायुरिः कापोतिः कापिञ्जलिः इति एवमर्थं । एवं तर्हि अण्ण्यौ सर्वत्र प्रयोजनं । अण। ग्लुचुकायनेः अपत्यं माणवकः ग्लौचुकायनः । ग्लौचुकायनस्य यूनः छात्राः ग्लौचुकायनाः । ण्यः च कापिञ्जलाद्यर्थं । कापिञ्जलेः अपत्यं माणवकः कापिञ्जलाद्यः । तस्य यूनः छात्राः कापिञ्जलादाः ।
(पाणिनीयसूत्र ४,१।९०।३) कि.,२४३।२०-२४४।२७ रो.,५६५-५६९ (कात्यायन वार्तिक)प्राग्दीव्यतोधिकारे यूनः वृद्धवदतिदेशः (वार्तिकान्त)। प्राग्दीव्यतोधिकारे यूनः वृद्धवदतिदेशः कर्तव्यः । युवा वृद्धवत्भवति इति वक्तव्यं । गार्ग्यायणानां समूहः गार्ग्याणकं । गार्ग्यायणानां किं चित्गार्ग्याणकं । गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः । गोत्राश्रयः वुञ्यथा स्यात। यदि वृद्धवदतिदेशः क्रियते औपगवेः यूनः छात्राः औपगवीयाः इति इञः गोत्रे इति अण्प्राप्नोति । यदि पुनः युवा वृद्धवतिति अनेन अनुत्पत्तिः अतिदिश्येत । कथं पुनः युवा वृद्धवतिति अनेन अनुत्पत्तिः शक्या अतिदेष्टुं । वतिनिर्देशः अयं कामचारः च वतिनिर्देशे वाक्यशेषं समर्थयितुं । तत्यथा : उशीनरवत्मद्रेषु यवाः । सन्ति न सन्ति इति । मातृवतस्याः कलाः । सन्ति न सन्ति इति । एवं इह अपि युवा वृद्धवत्भवति वृद्धवत्न भवति इति एवं वाक्यशेषं समर्थयिष्यामहे । यथ गोत्रे युवप्रत्ययः न भवति एवं प्राग्दीव्यतोधिकारे यूनि अपि न भवति इति । तत्वक्तव्यं । यदि अपि एततुच्यते अथ वा एतर्हि यूनि लुकिति एतत्न क्रियते । कथं तर्हि फक्फिञोः अन्यतरस्यां इति । फक्फिञ्वर्ती युवा वा वृद्धवत्भवति इति वक्ष्यामि । यदा तर्हि न वृद्धवत्तदा गार्ग्यायणानां समूहः गार्ग्याणकं गार्ग्यायणानां किं चित्गार्ग्याणकं गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः गोत्राश्रयः वुञ्न प्राप्नोति । यदि पुनः युवा वृद्धवतिति अनेन अर्थः अतिदिश्येत । प्राग्दीव्यतोधिकारेयूनः वृद्धवतर्थः भवति इति । तत्वक्तव्यं । यदि अपि एततुच्यते अथ वा एतर्हि यूनि लुकिति एतत्न करिष्यते । कथं तर्हि फक्फिञोः अन्यतरस्यां इति । फक्फिञ्वर्ती युवार्थः वा वृद्धवत्भवति इति वक्ष्यामि । यदा तर्हि न वृद्धवत्तदा गार्ग्यायणानां समूहः गार्ग्याणकं गार्ग्यायणानां किं चित्गार्ग्याणकं गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः गोत्राश्रयः वुञ्न प्राप्नोति । एवं तर्हि (कात्यायन वार्तिक)राजन्यात्वुञ्मनुष्यात्च ज्ञापकं लौकिकं परम्(वार्तिकान्त) । यतयं वुञ्विधौ राजन्यमनुष्ययोः ग्रहणं करोति तत्ज्ञापयति आचार्यः लौकिकं परं गोत्रग्रहणं इति । युवा च लोके गोत्रं इति उपचर्यते । किङ्गोत्रः असि माणवकः । गार्ग्यायणः । किङ्गोत्रः असि माणवकः । वात्स्यायनः । यदि एतत्ज्ञाप्यते औपगवेः यूनः छात्राः औपगवीयाः गोत्राश्रयः इञः गोत्रे इति अण्प्राप्नोति । सामुहिकेषु ज्ञापकं । यदि सामुहिकेषु ज्ञापकं गार्ग्यायणानां किं चित्गार्ग्याणकं गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः गोत्राश्रयः वुञ्न प्राप्नोति । वुञ्विधौ ज्ञापकं । वुञ्विधौ ज्ञापकं शालङ्केः यूनः छात्राः शालङ्काः इञः गोत्रे इति अण्न प्राप्नोति । अस्तु तर्हि अविशेषेण । कथं औपगवेः यूनः छात्राः औपगवीयाः ।गोत्रेण इञं विशेषयिष्यामः । गोत्रे यः इञ्विहितः इति ।
(पाणिनीयसूत्र ४,१।९२।१) कि.,२४५।२-१५ रो.,५६९-५७० (कात्यायन वार्तिक)तस्य इदं इति अपत्ये अपि(वार्तिकान्त) । तस्य इदं इति अपत्ये अपि अण्सिद्धः । तस्येदंविशेषाः हि एते अपत्यं समूहः विकारः तस्य निवासः इति । किं अर्थं तर्हि इदं उच्यते । (कात्यायन वार्तिक)बाधनार्थं कृतं भवेत्(वार्तिकान्त) । ये तस्य बाधकाः तद्बाधनार्थं । कथं पुनः अशैषिकः शैषिकं बाधेत । (कात्यायन वार्तिक)उत्सर्गः शेषः एव असौ (वार्तिकान्त)। यः हि उत्सर्गः सः अपि शेषः एव । अथ एतस्मिन्बाधकबाधने सति किं प्रयोजनं । (कात्यायन वार्तिक)वृद्धानि अस्य प्रयोजनम्(वार्तिकान्त) । वृद्धानि प्रयोजयन्ति । भानोः अपत्यं भानवः । श्यामगोः अपत्यं श्यामगवः । कथं पुनः इच्छता अपि अपवादः प्राप्नुवन्शक्यः बाधितुं । तस्यग्रहणसामर्थ्यात। किं इदं भवानध्यारुह्य तस्यग्रहणस्य एव प्रयोजनं आह न पुनः सर्वस्य एव योगस्य । अवश्यं उत्तराथं अर्थनिर्देशः कर्तव्यः । समर्थविभक्तिः अपि तर्हि अवश्यं उत्तरार्थं प्रतिनिर्देष्टव्या । एवं तर्हि योगविभागकरणसामर्थ्यात। इतरथा हि तस्य अपत्यं अतः इञ्भवति इति एव ब्रूयात।
(पाणिनीयसूत्र ४,१।९२।२) कि.,२४५।१६-२४६।२७ रो.,५७१-५७३ पुंलिङ्गेन अयं निर्देशः क्रियते एकवचनान्तेन च । तेन पुंलिङ्गातेव उत्पत्तिः स्यातेकवचनान्तात्च । स्त्रीनपुंसकलिङ्गात्द्विवचनबहुवचनान्तात्च इदं न स्यात। (कात्यायन वार्तिक)तद्धितार्थनिर्देशे लिङ्गवचनं अप्रमाणं तस्य अविवक्षितत्वात्(वार्तिकान्त) । तद्धितार्थनिर्देशे लिङ्गवचनं अप्रमाणं । किं कारणं । तस्य अविवक्षितत्वात। न अत्र निर्देशः तन्त्रं । कथं पुनः तेन एव च नाम निर्देशः क्रियते तत्च अतन्त्रं स्यात। तत्कारी च भवान्तद्द्वेषी च । नान्तरीयकत्वातत्र पुंलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च। अवश्यं कया चित्विभक्त्या केन चित्वचनेन निर्देशः कर्तव्य इति । तत्यथा । कः चितन्नार्थी शालिकलापं सपलालं सतुषं आहरति नान्तयीयकत्वात। सः यावतादेयं तावतादाय तुषपलालानि उत्सृजति । तथा कः चित्मांसार्थी मत्स्यान्सकण्टकान्सशकलानाहरति नान्तयीयकत्वात। सः यावतादेयं तावतादाय शकलकण्टकानुत्सृजति । एवं इह अपि नान्तरीयकत्वात्पुंलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च। न हि अत्र निर्देशः तन्त्रं । (कात्यायन वार्तिक)सर्वनामनिर्देशे विशेषासम्प्रत्ययः सामान्यनिर्देशात्(वार्तिकान्त) । सर्वनामनिर्देशे विशेषस्य असम्प्रत्ययः । किं कारणं । सामान्यनिर्देशात। सर्वनाम्ना अयं निर्देशः क्रियते । सरनाम च सामान्यवाचि । तेन सामान्यवाचिनः एव उत्पत्तिः स्यात। विशेषवाचिनः न स्यात। (कात्यायन वार्तिक)सामान्यचोदनाः तु विशेषेषु(वार्तिकान्त) । सामान्यचोदनाः तु विशेषेषु अवतिष्ठन्ते । तत्यथा : गौः अनूबध्यः अजः अग्नीषोमीयः इति आकृतौ चोदितायां द्रव्ये आरम्भणालम्भनप्रोक्षणविशसनादीनि क्रियन्ते । विषमः उपन्यासः । अस्ति कारणं येन एततेवं भवति । किं कारणं । असम्भवात। आकृतौ आरम्भणादीनां सम्भवः न अस्ति इति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि क्रियन्ते । इदं अपि एवञ्जातीयकं एव । असम्भवात्सामान्यवाचिनः उत्पत्तौ विशेषवाचिनः उत्पत्तिः भविष्यति । (कात्यायन वार्तिक)अपत्याभिधाने स्त्रीपुंलिङ्गस्य अप्रसिद्धिः नपुंसकत्वात्(वार्तिकान्त) । अपत्याभिधाने स्त्रीपुंलिङ्गस्य अप्रसिद्धिः । किं कारणं । नपुंसकलिङ्गत्वात। अपत्यं नपुंसकलिङ्गं । तेन नपुंसकलिङ्गस्य एव अभिधानं स्यात। स्त्रीपुंलिङ्गस्य न स्यात। ननु च इदं पुरस्तातेव चोदितं परिहृतं च । उत्पत्तिः तत्र चोद्यते । इह पुनः उत्पन्नेन अभिधानं चोद्यते । (कात्यायन वार्तिक)सिद्धं तु प्रजनस्य विवक्षितत्वात्(वार्तिकान्त) । सिद्धं एतत। कथं । प्रजनस्य विवक्षितत्वात। प्रजनः अत्र विवक्षितः सः च सर्वलिङ्गः । किं पुनः कारणं समानायां प्रवृत्तौ अपत्यं नपुंसकलिङ्गं प्रजनः सर्वलिङ्गः । (कात्यायन वार्तिक)एकार्थे शब्दान्यत्वात्दृष्टं लिङ्गान्यत्वम्(वार्तिकान्त) । एकार्थे शब्दान्यत्वात्लिङ्गान्यत्वं दृश्यते । तत्यथा पुष्यः तारकाः नक्षत्रं । गेहं कुटी मठः इति । (कात्यायन वार्तिक)अवयवान्यत्वात्च(वार्तिकान्त) । अवयवान्यत्वात्च लिङ्गान्यत्वं दृश्यते । तत्यथा कुटी कुटीरः शमी शमीरः शुण्डा शुण्डारः । अवयवान्यत्वात्किल लिङ्गान्यत्वं स्यात्किं पुनः यत्र शब्दान्यत्वं अपि ।
(पाणिनीयसूत्र ४,१।९३) कि.,२४७।२-२५१।११ रो.,५७४-५९० किमर्थं इदं उच्यते । (कात्यायन वार्तिक)उत्पादयितारं प्रति अपत्ययोगात्तस्य च विवक्षितत्वातेकवचनं गोत्रे(वार्तिकान्त) । उत्पादयिता उत्पादयिता अपत्येन युज्यते । तस्य च विवक्षितत्वात। उत्पादयितुः सः च अभिसम्बन्धः विवक्षितः । उत्पादयितारं प्रति अपत्ययोगात्तस्य च अभिसम्बन्धस्य विवक्षितत्वातुत्पादयितुः उत्पादयितुः अपत्याभिधाने अनेकः प्रत्ययः प्राप्नोति । इष्यते च एकः एव स्यातिति । तत्च अन्तरेण यत्नं न सिध्यति इति एकवचनं गोत्रे । एवमर्थं इदं उच्यते । कथं पुनः ज्ञायते उत्पादयिता उत्पादयिता अपत्येन युज्यते इति । एवं हि दृश्यते लोके । पितामहस्य उत्सङ्गे दारकं आसीनं कः चित्पृच्छति कस्य अयं इति । सः आह देवदत्तस्य यज्ञदत्तस्य वा इति । उत्पादयितारं व्यपदिशति न आत्मानं । अस्ति प्रयोजनं एतत। किं तर्हि इति । त्(कात्यायन वार्तिक)अत्र प्रत्ययान्तात्गोत्रे प्रतिषेधः गोत्रे नियतत्वात्(वार्तिकान्त) । तत्र प्रत्ययान्तात्गोत्रे प्रतिषेधः वक्तव्यः । औपगवस्य अपत्यं इति । किं कारणं । गोत्रे नियतत्वात। गोत्रे हि अयं नियमः क्रियते । तेन यः च असौ यथाजातीयकः च गोत्रप्रत्ययः प्राप्नोति सः एकः स्यात। कः च प्राप्नोति । यः प्रत्ययान्तात। (कात्यायन वार्तिक)परमप्रकृतेः च उत्पत्तिः(वार्तिकान्त) । परमप्रकृतेः च उत्पत्तिः वक्तव्या । अयोगात्हि न प्राप्नोति । एतयोः च एव परिहारः पठिष्यति हि आचार्यः यूनि च अन्तर्हिते अप्राप्तिः इति तस्य च यथा तत्प्रत्ययान्तं । यथा ततेव विकारावयवप्रत्ययान्तं द्वितीयं च तृतीयं च विकारं सङ्क्रामति एवं इह अपि ततेव अपत्यप्रत्ययान्तं द्वितीयं च तृतीयं च अपत्यं सङ्क्रमिष्यति । भवेत्सिद्धं औपगवस्य अपत्यं औपगवः यत्र सः एव अनन्तरः इष्यते सः एव गोत्रे । इदं तु खलु न सिध्यति गर्गस्य अपत्यं गार्ग्यः इति । अत्र हि अन्यः अनन्तरः इष्यते अन्यः गोत्रे । (कात्यायन वार्तिक)स्त्रियां च अनियमः(वार्तिकान्त) । स्त्रियां च युवत्यां नियमः न प्राप्नोति । औपगवी माणवकी । नियमात्हि स्त्री पर्युदस्यते एकः गोत्रे गोत्रात्यूनि अस्त्रियां इति । कतरस्मिन्पक्षे अयं दोषः । उत्पादयितरि अपत्ययुक्ते । उत्पादयितरि तावतपत्ययुक्ते न दोषः । उत्पादयितरि हि अपत्ययुक्ते न सर्वतः उत्पत्त्या भवितव्यं । तत्र नियमः न उपपद्यते । असति नियमे न एषः दोषः । सर्वेषु तर्हि अपत्ययुक्तेषु अयं दोषः । सर्वेषु हि अपत्ययुक्तेषु सर्वतः उत्पत्त्या भवितव्यं । तत्र नियमः उपपन्नः भवति । सति नियमे एषः दोषः । उत्पादयितरि च अपत्ययुक्ते स्त्रिया युवत्या अभिधानं न प्राप्नोति । किं कारणं । गोत्रसञ्ज्ञा युवसञां बाधते । गोत्रात्यूनि च अस्त्रियां प्रत्ययः विधीयते । (कात्यायन वार्तिक)यूनि च अन्तर्हिते अप्राप्तिः(वार्तिकान्त) । यूनि च अन्तर्हिते नियमस्य अप्राप्तिः । गार्ग्यायणस्य अपत्यं इति । कतरस्मिन्पक्षे अयं दोषः । सर्वेषु अपत्ययुक्तेषु । सर्वेषु अपत्ययुक्तेषु तावत्न दोषः । सर्वेषु हि अपत्ययुक्तेषु सर्वतः उत्पत्त्या भवतिव्यं । तत्र नियमः उपपन्नः भवति । सति नियमे न एषः दोषः । उत्पादयितरि तर्हि अपत्ययुक्ते अयं दोषः । उत्पादयितरि हि अपत्ययुक्ते परमप्रकृतेः अनन्तरात्गोत्रात्च अयोगात्न प्राप्नोति । यूनः च न प्राप्नोति । किं कारणं । गोत्रातिति नियमात। सन्तु तर्हि कथं पुनः ज्ञायते सर्वे अपत्ययुक्ताः इति । एवं हि याज्ञिकाः पठन्ति । दशपुरुषानूकं यस्य गृहे शूद्राः न विद्येरन्सः सोमं पिबेतिति । यदि च सर्वे अपत्ययुक्ताः भवन्ति ततः एततुपपन्नं भवति । कथं यतुक्तं पितामहस्य उत्सङ्गे दारकं आसीनं कः चित्पृच्छति कस्य अयं इति । सः आह देवदत्तस्य यज्ञदत्तस्य वा इति । उत्पादयितारं व्यपदिशति न आत्मानं इति । उत्पत्तिः तस्य विवक्षिता । सर्वेषां न इदं अपत्यं । देवदत्तः तु अस्य उत्पादयिता इति । अथ सर्वेषु अपत्ययुक्तेषु किं अनेन क्रियते एकः गोत्रे इति । (कात्यायन वार्तिक)सर्वेषां अपत्ययोगात्प्रत्ययान्तात्गोत्रे प्रतिषेधार्थं एकः गोत्रे(वार्तिकान्त) । सर्वेषां अपत्ययोगात्प्रत्ययान्तात्गोत्रे प्रतिषेधार्थं एकः गोत्रे इति उच्यते । अस्ति प्रयोजनं एतत। किं तर्हि इति । न तु ज्ञायते कः एकः भवति यः वा परमप्रकृतेः यः वा अनन्तरातिति । (कात्यायन वार्तिक)नियमानुपपत्तिः च(वार्तिकान्त) । नियमः च न उपपद्यते । किं कारणं । (कात्यायन वार्तिक)न हि एकस्मिनपत्ये अनेकप्रत्ययप्राप्तिः(वार्तिकान्त) । न हि एकस्मिनपत्ये अनेकप्रत्ययः प्राप्नोति । किं तर्हि । (कात्यायन वार्तिक)अपत्यान्तरे शब्दान्तरात्प्रत्ययान्तरप्राप्तिः(वार्तिकान्त) । अपत्यान्तरे अपत्यान्तर शब्दान्तरात्शब्दान्तरात्प्रत्ययान्तरं प्रत्ययान्तरं प्राप्नोति । फकन्तातिञिञन्तात्फकिति फगिञोः दाशतयी प्रत्ययमाला प्राप्नोति । कतरस्मिन्पक्षे अयं दोषः । सर्वेषु अपत्ययुक्तेषु । सर्वेषु अपत्ययुक्तेषु तावत्न दोषः । सर्वेषु हि अपत्ययुक्तेषु सर्वतः उत्पत्त्या भवतिव्यं । तत्र नियमः उपपन्नः भवति । सति नियमे न एषः दोषः । उत्पादयितरि तर्हि अपत्ययुक्ते अयं दोषः । उत्पादयितरि हि अपत्ययुक्ते न सर्वतः उत्पत्त्या भवतिव्यं । तत्र
नियमः न उपपद्यते । असति नियमे एषः दोषः । उत्पादयितरि च अपत्ययुक्ते न दोषः । कथं । (कात्यायन वार्तिक)अपत्यं समुदायः चेत्नियमः अत्र समीक्षितः । तस्मिन्सुबहवः प्राप्ताः । नियमः अस्य भविष्यति (वार्तिकान्त)। अपत्यं इति सर्वं उपग्वादिपितृकं अपत्यं समीक्षितं । तस्मिन्सुबहवः प्रत्ययाः प्राप्ताः । नियमः अस्य भविष्यति एकः गोत्रे इति । यतपि उच्यते स्त्रियां च अनियमः इति एवं वक्ष्यामि । गोत्रात्यूनि प्रत्ययः भवति । स्त्रियां न इति । एवं अपि स्त्रियाः युवत्याः अभिधानं न प्राप्नोति । एवं तर्हि एवं वक्ष्यामि । गोत्रात्यूनि प्रत्ययः भवति । स्त्रियां लुक। एवं अपि औपगवी माणविका अनुपसर्जनातिति ईकारः न प्राप्नोति । मा भूतेवं अण्यः अनुपसर्जनं इति । अणन्तातनुपसर्जनातिति एवं भविष्यति । न एवं शक्यं । इह हि दोषः स्यात। काशकृत्स्निन प्रोक्ता मीमांसा काशकृत्स्नी । तां अधीते काशकृत्स्ना ब्राह्मणी । अणन्तातिति ईकारः प्रसज्येत । न एषः दोषः । अध्येत्र्यां अभिधेयायां अणः ईकारेण भवितव्यं । यः च अत्र अध्येत्र्यां अभिधेयायां अण्लुप्तः सः यः च श्रूयते उत्पन्नः तस्मातीकारः इति कृत्वा पुनः न भविष्यति । इह तर्हि औपगवी माणविका भार्या अस्य औपगवीभार्यः जातिलक्षणः पुंवद्भावप्रतिषेधः न प्राप्नोति । मा भूतेवं । वृद्धिनिमित्तस्य इति एवं भविष्यति । यः तर्हि न वृद्धिनिमित्तः । ग्लुचुकायनी माणविका भार्या अस्य ग्लुचुकायनीभार्यः । तस्मात्स्त्रियाः युवत्याः युवसञ्ज्ञा एव पर्युदसितव्या । तस्यां च पर्युदस्तायां गोत्रप्रत्ययान्तं एतत्यूनि वर्तते । इह उत्पादयितरि अपत्ययुक्ते प्रत्ययान्तात्प्रतिषेधः वक्तव्यः परमप्रकृतेः च उत्पत्तिः वक्तव्या । सर्वेषु अपत्ययुक्तेषु प्रत्ययान्तात्प्रतिषेधः वक्तव्यः । (कात्यायन वार्तिक)तस्मात्प्रतिषेधः(वार्तिकान्त) । तस्मात्प्रतिषेधः वक्तव्यः । (कात्यायन वार्तिक)सञ्ज्ञाकारिभ्यः वा प्रत्ययोत्पत्तिः(वार्तिकान्त) । अथ वा सञ्ज्ञाकारिभ्यः प्रत्ययोत्पत्तिः वक्तव्या । यदि सञ्ज्ञाकारिभ्यः प्रत्ययोत्पत्तिः उच्यते कथं गार्ग्यायणः वात्स्यायनः इति । (कात्यायन वार्तिक)गोत्रात्यूनि च(वार्तिकान्त) । गोत्रात्यूनि इति एतत्वक्तव्यं । (कात्यायन वार्तिक)तत्च जात्यादिनिवृत्त्यर्थम्(वार्तिकान्त) । तत्च अवश्यं सञ्ज्ञाकारिग्रहणं कर्तव्यं । किं प्रयोजनं । जात्यादिनिवृत्त्यर्थं । जात्यादिभ्यः उत्पत्तिः मा भूतिति । जातिः न वर्तते । सङ्ख्या न वर्तते । सर्वनाम न वर्तते । जातिः न वर्तते । काकस्य अपत्यं कुररस्य अपत्यं इति । सङ्ख्या न वर्तते । नवानां अपत्यं दशानां अपत्यं इति । सर्वनाम न वर्तते । सर्वेषां अपत्यं विश्वेषां अपत्यं इति । यत्तावतुच्यते जातिः न वर्तते । काकस्य अपत्यं कुररस्य अपत्यं इति । येन एव हेतुना एकः काकः तेन एव हेतुना द्वितीयः तृतीयः च काकः भविष्यति । यतपि उच्यते सङ्ख्या न वर्तते । नवानां अपत्यं दशानां अपत्यं इति । सङ्ख्येयं अपेक्ष्य सङ्ख्या प्रवर्तते । तत्सापेक्षं सापेक्षं च असमर्थं भवति इति असामर्थ्यात्न भविष्यति । यतपि उच्यते सर्वनाम न वर्तते । सर्वेषां अपत्यं विश्वेषां अपत्यं इति । निर्देश्यं अपेक्ष्य सर्वनाम वर्तते । तत्सापेक्षं सापेक्षं च असमर्थं भवति इति असामर्थ्यात्न भविष्यति । यत्तावतुच्यते येन एव हेतुना एकः काकः तेन एव हेतुना द्वितीयः तृतीयः च काकः भविष्यति इति । न एतत्विवदामहे काकः न काकः इति । किं तर्हि । येन एव हेतुना एतत्वाक्यं भवति काकस्य अपत्यं कुररस्य अपत्यं इति तेन एव हेतुना वृत्तिः अपि प्राप्नोति । यदपि उच्यते सङ्ख्येयं अपेक्ष्य सङ्ख्या प्रवर्तते । तत्सापेक्षं सापेक्षं च असमर्थं भवति इति । भवति वै कस्य चितर्थात्प्रकरणात्वा अपेक्ष्यं निर्ज्ञातं । यदा निर्ज्ञातं तदा वृत्तिः प्राप्नोति । यदपि उच्यते निर्देश्यं अपेक्ष्य सर्वनाम वर्तते । तत्सापेक्षं सापेक्षं च असमर्थं भवति इति । भवति वै कस्य चितर्थात्प्रकरणात्वा अपेक्ष्यं निर्ज्ञातं । यदा निर्ज्ञातं तदा वृत्तिः प्राप्नोति । एवं तर्हि अनभिधानात्जात्यादिभ्यः उत्पत्तिः न भविष्यति । तत्च अवश्यं अनभिधानं आश्रयितव्यं । क्रियमाणे अपि हि सञ्ज्ञाकारिग्रहणे यत्र जात्यादिभ्यः उत्पद्यमानेन प्रत्ययेन अर्थस्य अभिधानं भवति भवति तत्र उत्पत्तिः । तत्यथा । (कात्यायन वार्तिक)कुतः चरति मायूरिः केन कापिञ्जलिः कृशः आहेयेन च दष्टस्य पाञ्चिः सुतमसः मतः(वार्तिकान्त) । तादायनिः , यादायनिः , कैमायनिः इति । ततेततनन्यार्थं सञ्ज्ञाकारिग्रहणं वा कर्तव्यं प्रत्ययान्तात्व प्रतिषेधः वक्तव्यः । उभयं न कर्तव्यं । गोत्रग्रहणं न करिष्यते । एकः अपत्ये प्रत्ययः भवति इति एव । यदि च इदानीं प्रत्ययान्तातपि प्रत्ययः स्यात्न एकः अपत्ये प्रत्ययः स्यात। यदि गोत्रग्रहणं न क्रियते कथं गार्ग्यायणः वात्स्यायनः इति । वक्तव्यं एव एतत्गोत्रात्यूनि अस्त्रियां इति । अथ अपि गोत्रग्रहणं क्रियते एवं अपि न दोषः । न एकग्रहणेन प्रत्ययः अभिसम्बध्यते : एकः गोत्रे प्रत्ययः भवति इति । किं तर्हि । प्रकृतिः
अभिसम्बध्यते : एका प्रकृतिः गोत्रे प्रत्ययं उत्पादयति । यदि च इदानीं प्रत्ययान्तातपि प्रत्ययः स्यात्न एका प्रकृतिः गोत्रे प्रत्ययं उत्पादयेत। अथ वा अस्थाने अयं यत्नः क्रियते । न हि इदं लोकात्भिद्यते । लोके सञ्ख्यां प्रवर्तमानां उपचरन्ति एकः इति वा प्रथमः इति वा । यावत्ब्रूयात्प्रथमः अपत्ये प्रत्ययं उत्पादयति तावतेकः गोत्रे इति ।
(पाणिनीयसूत्र ४,१।९५) कि.,२५२।२-१० रो.,५९०-५९१ (कात्यायन वार्तिक)इञः वृद्धावृद्धाभ्यां फिञ्फिनौ विप्रतिषेधेन(वार्तिकान्त) । इञः वृद्धावृद्धाभ्यां फिञ्फिनौ भवतः विप्रतिषेधेन । इञः अवकाशः दाक्षिः प्लाक्षिः । फिञः अवकाशः तादायनिः यादायनिः । इह उभयं प्राप्नोति तापसायनिः साम्मितिकायनिः । फिनः अवकाशः त्वचायनिः स्रुचायनिः । इञः सः एव । इह उभयं प्राप्नोति ग्लुचुकायनिः मुलुचुकायनिः । फिञ्फिनौ भवतः विप्रतिषेधेन । इह कस्मात्न भवति दाक्षिः प्लाक्षिः । बहुलवचनात। (कात्यायन वार्तिक)तद्राजः च(वार्तिकान्त) । तद्राजः च इञः भवति विप्रतिषेधेन । तद्राजसय अवकाशः ऐक्ष्वकः । इञः सः एव । इह उभयं प्राप्नोति पाञ्चालः वैदेहः वैदर्भः । तद्राजः भवति विप्रतिषेधेन ।
(पाणिनीयसूत्र ४,१।९६) कि.,२५२।१२-२१ रो.,५९१-५९२ (कात्यायन वार्तिक)बाह्वादिप्रभृतिषु येषां दर्शनं गोत्रभावे लौकिके ततः अन्यत्र तेषां प्रतिषेधः(वार्तिकान्त) । बाह्वादिप्रभृतिषु येषां दर्शनं गोत्रभावे लौकिके ततः अन्यत्र तेषां प्रतिषेधः वक्तव्यः । बाहोः अपत्यं बाहिः । यः हि बाहुः नाम बाहवः तस्य भवति । नडस्य अपत्यं नाडायनः । यः हि नडः नाम नाडिः तस्य भवति । (कात्यायन वार्तिक)सम्बन्धिशब्दप्रत्ययानां तत्सदृशात्प्रतिषेधः(वार्तिकान्त) । सम्बन्धिशब्दप्रत्ययानां च तत्सदृशात्प्रतिषेधः वक्तव्यः । श्वशुरस्य अपत्यं श्वशुर्यः । यः हि श्वशुरः नाम श्वाशुरिः तस्य भवति । प्रत्ययग्रहणेन न अर्थः । सम्बन्धिशब्दानां तत्सदृशात्प्रतिषेधः इति एव । इदं अपि सिद्धं भवति । मातृपितृभ्यां स्वसा । मातृष्वसा । अन्या मातृस्वसा इति ।
(पाणिनीयसूत्र ४,१।९७) कि.,२५३।२-६ रो.,५९२-५९३ (कात्यायन वार्तिक)सुधातृव्यासयोः(वार्तिकान्त) । सुधातृव्यासयोः इति वक्तव्यं : सौधातकिः , वयासकिः शुकः । अत्यल्पं इदं उच्यते । सुधातृव्यासवरुडनिषादचण्डालबिम्बानां इति वक्तव्यं : सौधातकिः , वैयासिकः शुकः , वारुडकिः , नैषादकिः , चाण्डालकिः , बैम्बकिः । तत्तर्हि वक्तव्यं । न वक्तव्यं । प्रकृत्यन्तराणि एतानि ।
(पाणिनीयसूत्र ४,१।९८।१) कि.,२५३।८-२५४।३ रो.,५९३-५९४ किमर्थः चकारः । स्वरार्थः । चितः अन्तः उन्दात्तः भवति इति अन्तोदात्तत्वं यथा स्यात। अथ ञकारः किमर्थः । ञकारः वृद्ध्यर्थः । ञ्णिति इति वृद्धिः यथा स्यात। एकेन ककारेण उभयं सिद्धं । अवश्यं अत्र विशेषणाऋथः अन्यः अनुबन्धः कर्तव्यः । क्व विशेषणार्थेन अर्थः । व्रातच्फञोः अस्त्रियां इति । फकः इति हि उच्यमाने नाडायनः अत्र अपि प्रसज्येत । अथ अपि फञः इति उच्यते एवं अपि आश्वायनः अत्र अपि प्रसज्येत । तस्मात्चकारः एव कर्तव्यः अन्तोदात्तत्वं अपि यथा स्यात। चकारे च इदानीं विशेषणार्थे क्रियमाणे अवश्यं वृद्ध्यर्थः अन्यः अनुबन्धः कर्तव्यः । सः च ञकारः एव कर्तव्यः सूत्रभेदः मा भूतिति । अथ क्रियमाने अपि वै चकारे अन्तोदात्तत्वं न प्राप्नोति । किं कारणं । परत्वात्ञ्निति इति आद्युदात्तत्वं प्राप्नोति । चित्करणसामर्थ्यातन्तोदात्तत्वं भविष्यति । ञित्करणसामर्थ्याताद्युदात्तत्वं प्राप्नोति । अस्ति अन्यत्ञित्करणे प्रयोजनं । किं । वृद्ध्यर्थः ञकारः । चित्करणे अपि तर्हि अन्यत्प्रयोजनं अस्ति । किं । विशेषणार्थः चकारः । शक्यः अत्र विशेषणार्थः अन्यः अनुबन्धः आसङ्क्तुं । तत्र चकारानुरोधातन्तोदात्तत्वं भवति । वृद्ध्यर्थः अपि तर्हि अन्यः शक्यः अनुबन्धः आसङ्क्तुं । तत्र ञकारानुरोधाताद्युदात्तत्वं प्राप्नोति । एवं तर्हि स्वरे योगविभागः करिष्यते । इदं अस्ति । चितः । चितः अन्तः उदात्तः भवति । ततः तद्धितस्य । तद्धितस्य च चितः अन्तः उदात्तः भवति इति । किमर्थं इदं । परत्वात्ञ्निति इति आद्युदात्तत्वं प्राप्नोति । तद्बाधनार्थं । ततः कितः । कितः तद्धितस्य अन्तः उदात्तः भवति । किं पुनः अत्र स्वरार्थेन चकारेण अनुबन्धेन यावता च्फञन्तात्ञ्यः विधीयते । तत्र ञ्निति इति आद्युदात्तत्वेन भवितव्यं । न एततस्ति । बहुषु लोपे कृते अन्तोदात्तत्वं यथा स्यात। कौञ्चायनाः इति ।
(पाणिनीयसूत्र ४,१।९८।२) कि.,२५४।४-१४ रो.,५९४-५९५ इह के चित्द्व्येकयोः फ्यञं विदधति बहुषु च फकं के चित्च्फञन्तात्ञ्यं । किं अत्र न्याय्यं । ञ्यवचनं एव न्याय्यं । द्व्येकयोः हि फ्यञि सति बहुषु च फकि क्रौञ्जायनानां अपत्यं माणवकः कौञ्जायन्यः कौञ्जायन्यौ केन यशब्दः श्रूयेत । द्व्येकयोः इति उच्यमानः न प्राप्नोति । इह कौञ्जायनस्य अपत्यं बहवः माणवकाः कौञ्जायनाः केन य शब्दः न श्रूयेत । द्व्येकयोः इति उच्यमानः प्राप्नोति । ततेतत्कथं कृत्वा ञ्यवचनं ज्यायः भवति । यदि तत्न अस्ति । आपत्यः वा गोत्रं । परमप्रकृतेः च आपत्यः । आपत्यात्जीववञ्श्यात्स्वार्थे द्वितीयः युवसञ्ज्ञः सः च अस्त्रियां । एकोगोत्रग्रहणानर्थक्यं च बहुवचनलोपिषु च सिद्धं इति । सति हि तस्मिन्द्व्येकयोः अपि फ्यञि सति बहुषु च फकि न दोषः भवति । तत्र कौञ्जायनानां अपत्यं माणवकः इति विगृह्य कुञ्जशब्दात्द्व्येकयोः उत्पत्तिः भविष्यति । कौञ्जायन्यः कौञ्जायन्यौ । कौञ्जायनस्य अपत्यं बहवः माणवकाः इति विगृह्य कुञ्जशब्दात्बहुषु उत्पत्तिः भविष्यति । कौञ्जायनाः इति ।
(पाणिनीयसूत्र ४,१।१०४) कि.,२५४।१६-२७ रो.,५९५-५९६ अनृष्यानन्तर्ये इति उच्यते । तत्र इदं सिध्यति कौशिकः विश्वामित्रः इति । किं कारणं । विश्वामित्रः तपः तेपे न अनृष्हिः स्यां इति । तत्रभवानृषिः सम्पन्नः । सः पुनः तपः तेपे न अनृष्हेः पुत्रः स्यां इति । तत्रभवान्गाधिः अपि ऋषिः सम्पन्नः । सः पुनः तपः तेपे न अनृष्हेः पौत्रः स्यां इति । तत्रभवान्कुशिकः अपि ऋषिः सम्पन्नः । ततेततृष्यानन्तर्यं भवति । तत्र अनृष्यानन्तर्ये इति प्रतिषेधः प्राप्नोति । न एषः दोषः । न एवं विज्ञायते ऋष्यानन्तर्ये न भवति इति । कथं तर्हि । ऋषौ अनन्तरे न इति । यदि एवं । (कात्यायन वार्तिक)अनृष्यानन्तर्यवचनं अनर्थकं सञ्ज्ञागोत्राधिकारात्(वार्तिकान्त) । अनृष्यानन्तर्यवचनं अनर्थकं । किं कारणं । सञ्ज्ञागोत्राधिकारात। सञ्ज्ञागोत्रे इति वर्तते । कः प्रसङ्गः यतनन्तेरे स्यात। न एव प्राप्नोति न अर्थः प्रतिषेधेन । एवं तर्हि सिद्धे सति यतनृष्यानन्तर्ये इति प्रतिषेधं शास्ति तत्ज्ञापयति आचार्यः बिदादिषु ये अनृषयः पठन्ते तेषां अनन्तरे अपि वृत्तिः भवति । किं एतस्य ज्ञापने प्रयोजनं । नानान्द्रः पौत्रः दौहित्रः इति एतत्सिद्धं भवति ।
(पाणिनीयसूत्र ४,१।१०८) कि.,२५५।२-४ रो.,५९६-५९७ किमर्थं इदं उच्यते न गर्गादिभ्यः यञिति एव सिद्धं । लुक्स्त्रियां इति वक्ष्यामि इति । यदि पुनः तत्र एव उच्येत । न एवं शक्यं । आङ्गिरसग्रहणं हि विच्छिद्येत ।
(पाणिनीयसूत्र ४,१।११२) कि.,२५५।६-२४ रो.,५९७-५९८ किमर्थं शिवादिभ्यः अण्विधीयते न यथाविहितं एव उच्येत । शिवादिभ्यः यथाविहितं इति इयति उच्यमाने इञ्प्रसज्येत । इञतो यथाविहितः । पुनर्वचनं इदानीं किमर्थं स्यात। पुनर्वचनं इदानीं किमर्थं स्यात। ये तस्य बाधकाः तद्बाधनार्थं । सः वै न अस्ति यः तं बाधेत । तत्र आरम्भसामर्थ्यात्यः विहितः न च प्राप्नोति सः भविष्यति । कः च असौ । अणेव । उत्तरार्थं तर्हि : अवृद्धाभ्यः नदीमानुषीभ्यः तन्नामिकाभ्यः इति । अत्र यथाविहितं इति इयति उच्यमाने ढक्प्रस्ज्येत । ढकतः यथाविहितः । पुनर्वचनं इदानीं किमर्थं स्यात। ये तस्य बाधकाः तद्बाधनार्थं । सः वै न अस्ति यः तं बाधेत । तत्र आरम्भसामर्थ्यात्यः विहितः न च प्राप्नोति सः भविष्यति । कः च असौ । अणेव । उत्तरार्थं एव तर्हि : ऋष्यन्धकवृष्णिकुरुभ्यः च इति । अत्र यथाविहितं इति इयति उच्यमाने इञ्प्रस्ज्येत । इञतः यथाविहितः । पुनर्वचनं इदानीं किमर्थं स्यात। ये तस्य बाधकाः तद्बाधनार्थं । सः वै न अस्ति यः तं बाधेत । तत्र आरम्भसामर्थ्यात्यः विहितः न च प्राप्नोति सः भविष्यति । कः च असौ । अणेव । उत्तरार्थं एव तर्हि : मातुः उत्सङ्ख्यासम्भद्रपूर्वायाः , कन्यायाः कनीन च इति । अत्र यथाविहितं इति इयति उच्यमाने ढक्प्रस्ज्येत । ढकतः यथाविहितः । पुनर्वचनं इदानीं किमर्थं स्यात। मातुः उकारं वक्ष्यामि कन्यायाः कनीनभावं इति । यदि एतावत्प्रयोजनं स्यात्तत्र एव अयं ब्रूयातः स्त्रीभ्यः ढक्, मातुः उकारः , कन्यायाः च कनीनभावः इति । इदं तर्हि प्रयोजनं : अयं ऋष्टिषेणशब्दः शिवादिषु पठ्यते । तत्र यथाविहितं इति इयति उच्यमाने इञ्प्रसज्येत । तं परत्वात्सेनान्तात्ण्यः बाधेत । तत्र आरम्भसामर्थ्यातिञ्प्रसज्येत । पुनरण्ग्रहणातणेव भवति
(पाणिनीयसूत्र ४,१।११४) कि.,२५६।२-२५७।१५ रो.,५५९-६०१ (कात्यायन वार्तिक)ऋषिस्त्र्यणः ढग्ढ्रकौ विप्रतिषेधेन(वार्तिकान्त) । ऋषिस्त्र्यणः ढग्ढ्रकौ भवतः विप्रतिषेधेन । ऋष्यणः अवकाशः : वासिष्ठः, वैश्वामित्रः । ढकः अवकाशः : दुलि दौलेयः, बलि बालेयः । इह उभयं प्राप्नोति : अत्रि , आत्रेयः । स्त्र्यणः अवकाशः : मकन्दिका माकन्दिकः । ढ्रकः अवकाशः : काणिकेरः । इह उभयं प्राप्नोति : पौणिकेरः , मौद्गलिकेरः । ढग्ढ्रकौ भवतः विप्रतिषेधेन । (कात्यायन वार्तिक)द्व्यचः ढकः ढ्रग्ढञौ(वार्तिकान्त) । द्व्यचः ढक्भवति इति एतस्मात्ढ्रग्ढञौ भवतः विप्रतिषेधेन । द्व्यचः ढक्भवति इति अस्य अवकाशः : दात्तेयः , गौप्तेयः । ढ्रकः सः एव । इह उभयं प्राप्नोति : नटी नाटेरः , दासी दासेरः । ढञः अवकाशः : कामण्डलेयः , भाद्रबाहेयः । ढकः सः एव । इह उभयं प्राप्नोति : जम्बू जाम्बेयः । ढ्रग्ढञौ भवतः विप्रतिषेधेन । (कात्यायन वार्तिक)न वा ऋष्यणः पुनर्वचनं अन्यनिवृत्त्यर्थम्(वार्तिकान्त) । न वा एषः युक्तः विप्रतिषेधः यः अयं ऋष्यणः ढकः च । किं कारणं । ऋष्यणः पुनर्वचनं अन्यनिवृत्त्यर्थं । सिद्धः अत्र अणुत्सर्गेण एव । तस्य पुनर्वचने एतत्प्रयोजनं ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थं । सः यथा एव तदपवादं इञं बाधते एवं ढकं अपि बाधेत । (कात्यायन वार्तिक)तस्मातृषिभ्यः अण्विधाने अत्र्यादिप्रतिषेधः(वार्तिकान्त) । तस्मातृषिभ्यः अण्विधाने अत्र्यादिप्रतिषेधः वक्तव्यः । न वक्तव्यः । मध्ये अपवादाः पूर्वान्विधीन्बाधन्ते इति एवं अयं ऋष्यणिञं बाधिष्यते ढकं न बाधिष्यते । अयं च अपि अयुक्तः विप्रतिषेधः यः अयं ढकः ड्रग्ढञोः च। किं कारणं । (कात्यायन वार्तिक)ढकः पुनर्वचनं अन्यनिवृत्त्यर्थं (वार्तिकान्त)। सिद्धः अत्र ढक्स्त्रीभ्यः ढकिति एव । तस्य पुनर्वचने एतत्प्रयोजनं ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थं । सः यथा एव तदपवादं तन्नामिकाणं बाधते एवं ढग्ढ्रञौ अपि बाधेत । (कात्यायन वार्तिक)तस्मात्तन्नामिकाणि अद्व्यचः(वार्तिकान्त) । तस्मात्तन्नामिकाणि अद्व्यचः इति वक्तव्यं । न वक्तव्यं । मध्ये अपवादाः पूर्वान्विधीन्बाधन्ते इति एवं अयं ढक्तन्नामिकाणं तदपवादं बाधिष्यते ढ्रग्ढञौ न बाधिष्यते । (कात्यायन वार्तिक)ऋष्यन्धकवृष्णिकुर्वणः सेनान्तात्ण्यः(वार्तिकान्त) । ऋष्यन्धकवृष्णिकुर्वणः सेनान्तात्ण्यः भवति विप्रतिषेधेन । ऋष्यणः अवकाशः : वासिष्ठः, वैश्वामित्रः । ण्यस्य अवकाशः : पाऋइषेण्यः, वारिषेण्यः । जातसेनः नां ऋषिः तस्मातुभयं प्राप्नोति । ण्यः भवति विप्रतिषेधेन । अन्धकाणः अवकाशः : श्वाफल्कः, श्वैत्रकः । ण्यस्य सः एव । उग्रसेनः नाम अन्धकः । तस्मातुभयं प्राप्नोति । ण्यः भवति विप्रतिषेधेन : औग्रसेन्यः । वृष्ण्यणः अवकाशः : वासुदेवः , बालदेवः । ण्यस्य सः एव । व्ष्वक्सेनः नाम वृष्णिः तस्मातुभयं प्राप्नोति । ण्यः भवति विप्रतिषेधेन : वैष्वक्सेन्यः । कुर्वणः अवकाशः : नाकुलः , साहदेवः । ण्यस्य सः एव । भीमसेनः नाम कुरुः तस्मातुभयं प्राप्नोति । ण्यः भवति विप्रतिषेधेन : भैमसेन्यः । सेनान्तात्ण्यः भवति विप्रतिषेधेन जातोग्रविष्वग्भीमेभ्यः इति वक्तव्यम्
(पाणिनीयसूत्र ४,१।११५) कि.,२५७।१७-१९ रो.,६०१ किमर्थं स्त्रीलिङ्गेन निर्देशः क्रियते न सङ्ख्यासम्भद्रपूर्वस्य इति एव उच्येत । स्त्रीलिङ्गः यः मातृशब्दः तस्मात्यथा स्यात। इह मा भूतः सम्मिमीते सम्माता, सम्मातुः अपत्यं साम्मात्रः इति
(पाणिनीयसूत्र ४,१।११६) कि.,२५७।२१-२५८।२ रो.,६०१-६०२ इदं विप्रतिषिद्धं । कः विप्रतिषेधः । अपत्यं इति वर्तते । यदि च कन्या न अपत्यं अथ अपत्यं न कन्या । कन्या च अपत्यं च इति विप्रतिषिद्धं । न एतत्विप्रतिषिद्धं । कथं । कन्याशब्दः अयं पुंसा अभिसम्बन्धपूर्वके सम्प्रयोगे निवर्तते । या च इदानीं प्राकभिसम्बन्धात्पुंसा सह सम्प्रयोगं गच्छति तस्यां कन्याशब्दः वर्तते एव । कन्यायाः कन्योक्तायाः कन्याभिमतायाः सुदर्शनायाः यतपत्यं सः कानीनः इति ।
(पाणिनीयसूत्र ४,१।१२०) कि.,२५८।३-१५ रो.,६०३-६०४ इदं सर्वेषु एव स्त्रीग्रहणेषु विचार्यते । स्त्रीप्रत्ययग्रहणं वा स्यात्स्त्रीशब्दग्रहणं वा स्त्र्यर्थग्रहणं वा । किं च अतः । यदि शब्दग्रहणं अर्थग्रहणं वा इडविडैडद्विड्पृथ्पार्थः उशिजाउशिजः शरत्शारदसः अत्र अपि प्राप्नोति । अथ प्रत्ययग्रहणं लैखाभ्रेयः वैमात्रेयः इति न सिध्यति । अस्तु प्रत्ययग्रहणं । कथं लैखाभ्रेयः वैमात्रेयः इति । शुभ्रादिषु पाठः करिष्यते । (कात्यायन वार्तिक)वडवायाः वृषे वाच्ये(वार्तिकान्त) । वडवायाः वृषे वाच्ये ढक्वक्तव्यः । वडवायाः वृषः वाडवेयः ।
(पाणिनीयसूत्र ४,१।१२८) कि.,२५८।१९-२४ रो.,६०४ (कात्यायन वार्तिक)चटकायाः पुल्Áलिङ्गनिर्देशः(वार्तिकान्त) । चटकायाः पुल्Áलिङ्गेन निर्देशः कर्तव्यः । इह अपि यथा स्यात। चटकस्य अपत्यं चाटकैरः । यदि पुल्Áलिन्ग्निर्देशः क्रियते चटकाया अपत्यं चाटकैरः इति न सिध्यति । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणं भवति इति एवं भविष्यति । (कात्यायन वार्तिक)स्त्रियां अपत्ये लुक्(वार्तिकान्त) । स्त्रियां अपत्ये लुक्वक्तव्यः । चटकायाः अपत्यं स्त्री चटका ।
(पाणिनीयसूत्र ४,१।१३०) कि.,२५९।२-६ रो.,६०४ (कात्यायन वार्तिक)आरग्वचनं अनर्थकं रका सिद्धत्वात्(वार्तिकान्त) । आरग्वचनं अनर्थकं । किं कारणं । रका सिद्धत्वात। गोधा आकारान्ता रक्च प्रत्ययः । एवं तर्हि सिद्धे सति यतारकं शास्ति तत्ज्ञापयति आचार्यः अन्येभ्यः अपि अयं भवति इति । किं एतस्य ज्ञापने प्रयोजनं । मौण्डारः जाण्डारः पाण्डारः इति एतत्सिद्धं भवति इति ।
(पाणिनीयसूत्र ४,१।१३१) कि.,२५९।८ रो.,६०४ क्षुद्राभ्यः इति उच्यते । का क्षुद्रा नाम । अनियतपुंस्का अङ्गहीना वा ।
(पाणिनीयसूत्र ४,१।१३३) कि.,२५९।१०-११ रो.,६०५ केन विहिते पितृष्वसुः ढकि लोपः इति उच्यते । एततेव ज्ञापयति भवति पितृष्वसुः ढकिति यतयं ढकि लोपं शास्ति ।
(पाणिनीयसूत्र ४,१।१३४)) कि.,२५९।१३-१५ रो.,६०५ ढकि लोपः इति उच्यते । तत्र इदं न सिध्यति मातृष्वस्रीयः इति । न एषः दोषः । एवं वक्ष्यामि । पितृष्वसुः छण्ढकि लोपः । ततः मातृष्वसुः च । पितृष्वसुः यतुक्तं तत्मातृष्वसुः भवति इति । किं पुनः तत। छण्ढकि लोपः च ।
(पाणिनीयसूत्र ४,१।१३७) कि.,२५९।१७-१९ रो.,६०५ (कात्यायन वार्तिक)राज्ञः अपत्ये जातिग्रहणम्(वार्तिकान्त) । राज्ञः अपत्ये जातिग्रहणं कर्तव्यं । राजन्यः नाम जातिः । क्व मा भूत। राजनः इति ।
(पाणिनीयसूत्र ४,१।१४५) कि.,२६०।२-६ रो.,६०६ (कात्यायन वार्तिक)व्यन्वचनं अनर्थकं प्रत्ययार्थाभावात्(वार्तिकान्त) । व्यन्वचनं अनर्थकं । किं कारणं । प्रत्ययार्थाभावात। किं इदं प्रत्ययार्थाभावातिति । अपत्यार्थाभावात। अपत्यं इति वर्तते अनपत्ये च अपि सपत्ने भ्रातृव्यशब्दः वर्तते । पाप्मना भ्रातृव्येण इति । अस्तु तावतपत्यं सपत्नः च तत्र भ्रातृव्यः इति । कथं पाप्मना भ्रातृव्येण इति । उपमानात्सिद्धं । भ्रातृव्यः इव भ्रातृव्यः ।
(पाणिनीयसूत्र ४,१।१४७) कि.,२६०।८-२६१।६ रो.,६०६-६०८ किमर्थः णकारः । वृद्ध्यर्थः । ञ्णिति इति वृद्धिः यथा स्यात। गार्गः जाल्मः । (कात्यायन वार्तिक)गोत्रस्त्रियाः प्रत्ययस्य णित्करणानर्थक्यं वृद्धत्वात्प्रातिपदिकस्य(वार्तिकान्त) । गोत्रस्त्रियाः प्रत्ययस्य णित्करणं अनर्थकं । किं कारणं । वृद्धत्वात्प्रातिपदिकस्य । वृद्धं एव एतत्प्रातिपदिकं । लुगर्थः तर्हि णकारः कर्तव्यः । यत्लुगन्तं अवृद्धं तत्र वृद्धिः यथात्स्यात। वातण्डः जाल्मः । (कात्यायन वार्तिक)लुगर्थं इति चेत्न लुक्प्रतिषेधात्(वार्तिकान्त) । लुगर्थं इति चेत्तत्न । किं कारणं । लुक्प्रतिषेधात। प्रतिषिध्यते अत्र लुक्गोत्रे अलुकचि इति । व्यवहितत्वातप्रतिषेधः । ईकारेण व्यवहितत्वात्प्रतिषेधः न प्राप्नोति । (कात्यायन वार्तिक)व्यवहितत्वातप्रतिषेधः इति चेत्न पुंवद्भावात्(वार्तिकान्त) । व्यवहितत्वातप्रतिषेधः इति चेत्तत्न । किं कारणं । पुंवद्भावात। पुंवद्भावः अत्र भवति भस्य तद्धिते अढे पुंवद्भावः भवति इति । (कात्यायन वार्तिक)फिनर्थं तु(वार्तिकान्त) । फिनर्थं तु णकारः कर्तव्यः । यत्फिनन्तं अवृद्धं तत्र वृद्धिः यथा स्यात। ग्लौचुकायनः जाल्मः । (कात्यायन वार्तिक)पुंवद्भावप्रतिषेधार्थं च(वार्तिकान्त) । पुंवद्भावप्रतिषेधार्थं च णकारः कर्तव्यः । गार्गा भार्या अस्य गार्गाभार्यः । वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः यथा स्यात। (कात्यायन वार्तिक)गोत्रात्यूनि अस्त्रियां इति वचनातप्रयोजनम्(वार्तिकान्त) । गोत्रात्यूनि अस्त्रियां इति वचनातप्रयोजनं एतत्भवति । न अस्ति गार्गा । (कात्यायन वार्तिक)अवंश्यत्वात्वा स्त्रियाः प्रयोजनम्(वार्तिकान्त) । अवंश्यत्वात्वा स्त्रियाः प्रयोजनं एतत्भवति । न स्त्री वंश्या । अस्ति गार्गा स्त्री । अपरः आह : द्वौ एव वंशौ मातृवंशः पितृवंशः च । यावता मातृवंशः अपि अस्ति न अस्ति गार्गा ।
(पाणिनीयसूत्र ४,१।१४८) कि.,२६१।८-१० रो.,६०९ गोत्रस्त्रियाः वृद्धात्ठक्फेः छ च फाण्टाहृति इमे चत्वारः योगाः । तत्र त्रयः कुत्सने त्र्तयः सौवीरगोत्रे । आद्यः योगः कुत्सने एव । परः सौवीरगोत्रे एव ।
(पाणिनीयसूत्र ४,१।१५०) कि.,२६१।१२-२१ रो.,६०९-६१० किमर्थः णकारः । वृद्ध्यर्थः । ञ्णिति इति वृद्धिः यथा स्यात। फाण्टाहृतः । (कात्यायन वार्तिक)फाण्टाहृतेः प्रत्ययस्य णित्करणानर्थक्यं वृद्धत्वात्प्रातिपदिकस्य(वार्तिकान्त) । फाण्टाहृतेः प्रत्ययस्य णित्करणं अनर्थकं । किं कारणं । वृद्धत्वात्प्रातिपदिकस्य । वृद्धं एव एतत्प्रातिपदिकं । (कात्यायन वार्तिक)पुंवद्भावप्रतिषेधार्थं तु(वार्तिकान्त) । पुंवद्भावस्य प्रतिषेधार्थः णकारः कर्तव्यः । फाण्टाहृता भार्या अस्य फाण्टाहृतभार्यः । वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः यथा स्यातिति । उक्तं वा । किं उक्तं । गोत्रात्यूनि अस्त्रियां इति वचनातप्रयोजनं । अवंश्यत्वात्वा स्त्रियाः प्रयोजनं इति ।
(पाणिनीयसूत्र ४,१।१५१) कि.,२६२।२-११ रो.,६१०-६११ (कात्यायन वार्तिक)वामरथस्य कण्वादिवत्स्वरवर्जम्(वार्तिकान्त) । वामरथस्य कण्वादिवद्भावः वक्तव्यः । किं अविशेषेण । न इति आह । स्वरं वर्जयित्वा । किं प्रयोजनं । वामरथ्यस्य छात्राः वामरथाः । कण्वादिभ्यः गोत्रे इति अण्यथा स्यात। यदि कण्वादिवतिति उच्यते प्रत्ययाश्रयं अनतिदिष्टं भवति । तत्र कः दोषः । वामरथाः । बहुषु लोपः न प्राप्नोति । वामरथानां सङ्घः । सङ्घाङ्कलक्षणेषु अञ्यञिञां अणिति अण्न प्राप्नोति । यदि पुनः यञ्वतिति उच्येत । एवं अपि प्रकृत्याश्रितं अनतिदिष्टं भवति । तत्रो कः दोषः । वामरथ्यस्य छात्राः वामरथाः । कण्वादिभ्यः गोत्रे इति अण्न प्राप्नोति । अस्तु तर्हि कण्वादिवतिति एव । कथं वामरथाः वामरथानां सङ्घः इति । यतयं स्वरवर्जं इति आह तत्ज्ञापयति आचार्यः प्रत्ययाश्रितं अपि अतिदिष्टं भवति इति ।
(पाणिनीयसूत्र ४,१।१५३) कि.,२६२।१३-२० रो.,६११-६१२ (कात्यायन वार्तिक)उदीचां अञ्विधौ तक्ष्णः अण्वचनम्(वार्तिकान्त) । उदीचां अञ्विधौ तक्ष्णः अण्वक्तव्यः । ताक्ष्णः । यदि पुनः अयं तक्षन्शब्दः शिवादिषु पठ्येत । (कात्यायन वार्तिक)शिवादिः इति चेत्ण्यविधिः(वार्तिकान्त) । शिवादिः इति चेत्ण्यः विधेयः । ताक्ष्ण्यः इति । (कात्यायन वार्तिक)सिद्धं तु उदीचां वा ण्यवचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । उदीचां वा ण्यवचनात। उदीचां वा ण्यः भवति इति वक्तव्यं । ण्येन मुक्ते यः यतः प्राप्नोति सः ततः भविष्यति ।
(पाणिनीयसूत्र ४,१।१५५) कि.,२६२।२२-२६३।१५ रो.,६१२-६१३ किं इदं कौसल्यकार्मार्ययोः विकृतयोः ग्रहणं क्रियते । एवं विकृताभ्यां यथा स्यात। अत्यल्पं इदं उच्यते : कौसल्यकार्मार्याभ्यां च इति । (कात्यायन वार्तिक)फिञ्प्रकरणे दगुकोसलकर्मारच्छागवृषणां युट्च(वार्तिकान्त) । फिञ्प्रकरणे दगुकोसलकर्मारच्छागवृषणां युट्च इति वक्तव्यं । दगु दागव्यायनिः कोसल कौसल्यायनिः कर्मार कर्मार्यायणिः छाग छाग्यायनिः वृष वार्ष्यायणिः । यदि युट्क्रियते युटि कृते अनादित्वातादेशः न प्राप्नोति । इदं इह सम्प्रधार्यं । युट्क्रियतां आदेशः इति । किं अत्र कर्तव्यं । परत्वातादेशः । नित्यः युट। कृते अपि आदेशे प्राप्नोति अकृते अपि प्राप्नोति । युटपि अनित्यः । अन्यस्य कृते आदेशे प्राप्नोति अन्यस्य अकृते । शब्दान्तरस्य च प्राप्नुवन्विधिः अनित्यः भवति । अन्तरङ्गः तर्हि युट। का अन्तरङ्गता । उत्पत्तिसन्नियोगेन युटुच्यते । उत्पन्ने प्रत्यये प्रकृतिप्रत्ययौ आश्रित्य अङ्गस्य आदेशः उच्यते । आदेशः अपि अन्तरङ्गः । कथं । वक्ष्यति एततायनादिषु उपदेशिवद्वचनं स्वरसिद्ध्यर्थं इति । अनवकाशः तर्हि युट। एवं तर्हि पूर्वान्तः करिष्यते । यदि पूर्वान्तः क्रियते दागव्यायनिः ओः गुणः न प्राप्नोति । अस्तु तर्हि परादिः एव । ननु च उक्तं युटि कृते अनादित्वातादेशः न प्राप्नोति इति । न एषः दोषः । सिद्धं तु आदिष्टस्य युड्वचनात। सिद्धं एतत। कथं । आदिष्टस्य युड्वचनात। युट्च आदिष्टस्य इति वक्तव्यं । तत्तर्हि वक्तव्यं । न वक्तव्यं । चेन सन्नियोगः करिष्यते । युट्च । किं च । यत्च अन्यत्प्राप्नोति । किं च अन्यत्प्राप्नोति । आदेशः इति ।
(पाणिनीयसूत्र ४,१।१५८) कि.,२६३।१७-२६४।१० रो.,६१३-६१४ यदि पुनः अयं कुट्परादिः क्रियेत । (कात्यायन वार्तिक)कुटि प्रत्ययादेः आदेशानुपपत्तिः अनादित्वात्(वार्तिकान्त) । कुटि सति प्रत्ययादेः आदेशः न उपपद्यते । किं कारणं । अनादित्वात। कुटि सति अनादित्वातादेशः न प्राप्नोति । एवं तर्हि पूर्वान्तः करिष्यते । पूर्वान्ते नलोपवचनं । यदि पूर्वान्तः क्रियते नलोपः वक्तव्यः । चार्मिकायणिः वार्मिकायणिः । नलोपः प्रातिपदिकान्तस्य इति नलोपः न प्राप्नोति । परादौ पुनः सति नलोपः प्रातिपदिकान्तस्य इति नलोपः सिध्यति । अस्तु तर्हि परादिः एव । ननु च उक्तं कुटि सति अनादित्वातादेशः न प्राप्नोति । सिद्धं तु आदिष्टस्य कुड्वचनात। सिद्धं एतत। कथं । कुट्च आदिष्टस्य इति वक्तव्यं । तत्तर्हि वक्तव्यं । न वक्तव्यं । चेन सन्नियोगः करिष्यते । कुट्च । किं च । यत्च अन्यत्प्राप्नोति । किं च अन्यत्प्राप्नोति । आदेशः । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं पूर्वान्ते नलोपवचनं इति । क्रियते एतत्न्यासे एव चर्मिवर्मिणोः नलोपः च इति । (कात्यायन वार्तिक)कारिभ्यः इञः अगोत्रात्फिञ्विप्रतिषेधेन(वार्तिकान्त) । कारिभ्यः इञ्भवति इति एतस्मातगोत्रात्फिञ्भवति विप्रतिषेधेन । कारिभ्यः इञ्भवति इति अस्य अवकाशः आयस्कारिः लौहकारिः । फिञः अवकाशः तापसायनिः साम्मितिकायनिः । इह उभयं प्राप्नोति । नापितायनिः । फिञ्भवति विप्रतिषेधेन ।
(पाणिनीयसूत्र ४,१।१६१) कि.,२६४।१२-२१ रो.,६१४-६१५ यदि षुक्पूर्वान्तः क्रियते मानुषाः बहुषु लोपः प्राप्नोति । मानुषाणां सङ्घः सङ्घाङ्कलक्षणेषु अञ्यञिञां इतण्प्राप्नोति । अस्तु तर्हि परादिः । यदि परादिः मानुषी अञन्तातीकारः न प्राप्नोति । अस्तु तर्हि पूर्वान्तः एव । कथं मानुषाः मानुषाणां सङ्घः इति । उभयत्र लौकिकस्य गोत्रस्य ग्रहणं न च एतत्लौकिकं गोत्रं । इह तर्हि मानुष्यकं इति हलः तद्धितस्य इति लोपः प्राप्नोति । परादौ अपि एषः दोषः । यत्हि हलः तद्धितस्य इति हल्ग्रहणं न ततङ्गविशेषणं शक्यं विज्ञातुं । इह तर्हि दोषः स्यात। वृकात्टेण्यण्वार्केणी इति । तस्मातुभाभ्यां एव वक्तव्यं प्रकृत्या अके राजन्यमनुष्ययुवानः इति ।
(पाणिनीयसूत्र ४,१।१६२) कि.,२६४।२३-२६५।८ रो.,६१६-६१७ (कात्यायन वार्तिक)पौत्रप्रभृतेः गोत्रसञ्ज्ञायां यस्य अपत्यं तस्य पौत्रप्रभृतिसञ्ज्ञाकरणम्(वार्तिकान्त) । पौत्रप्रभृतेः गोत्रसञ्ज्ञायां यस्य अपत्यविवक्षा तस्य पौत्रप्रभृतेः गोत्रसञ्ज्ञा भवति इति वक्तव्यं । गर्गः अपि हि कं चित्प्रति पौत्रः कुशिकः अपि । तत्र मा भूत। तत्तर्हि वक्तव्यं । न वक्तव्यं । समर्थानां प्रथमात्वा इति वर्तते । समर्थानां प्रथमस्य यतपत्यं पौत्रप्रभृति इति विज्ञायते । (कात्यायन वार्तिक)जीवद्वंश्यं च कुत्सितम्(वार्तिकान्त) । जीवद्वंश्यं च कुत्सितं गोत्रसञ्ज्ञं भवति इति वक्तव्यं । गार्ग्यः त्वं जाल्म। वात्स्यः त्वं जाल्म । का पुनः इह कुत्सा । पितृतः लोके व्यपदेशवता अस्वतन्त्रेण भवितव्यं । यः इदानीं पितृमान्स्वतन्त्रः भवति सः उच्यते गार्ग्यः त्वं असि जाल्म । न त्वं पितृतः व्यपदेशं अर्हसि ।
(पाणिनीयसूत्र ४,१।१६३) कि.,२६५।१०-२६६।१५ रो.,६१७-६१९ (कात्यायन वार्तिक)जीवति तु वंश्ये युवा इति पौत्रप्रभृत्यपेक्षं च(वार्तिकान्त) । जीवति तु वंश्ये युवा इति पौत्रप्रभृत्यपेक्षं च इति वक्तव्यं । तत्तर्हि वक्तव्यं । न वक्तव्यं । पौत्रप्रभृति इति वर्तते । एवं तर्हि अन्वाचष्टे पौत्रप्रभृति इति वर्तते इति । किं एतस्य अन्वाख्याने प्रयोजनं । (कात्यायन वार्तिक)तत्च दैवदत्त्यर्थम्(वार्तिकान्त) । देवदत्तस्य अपत्यं देवदत्तिः इति । अनन्तरं यतपत्यं तस्य युवसञ्ज्ञा मा भूतिति । देवदत्तस्य तर्हि पौत्रे युवसञ्ज्ञा प्राप्नोति । एततपि पौत्रप्रभृति भवति । न पौत्रप्रभृति इति अनेन अपत्यं अभिसम्बध्यते : पौत्रप्रभृति यतपत्यं इति । किं तर्हि । वंश्ये अभिसम्बध्यते : पौत्रप्रभृतिवंश्ये जीवति यतपत्यं इति । एवं अपि देवदत्तस्य द्वौ पुत्र तयोः कनीयसि युवसञ्ज्ञा प्राप्नोति भ्रातरि च ज्यायसि इति । एवं तर्हि अपत्यं एव अभिसम्बध्यते न तु पौत्रप्रभृतिसमानाधिकरणं अपत्यं । न एवं विज्ञायते पौत्रप्रभृति यतपत्यं इति । कथं तर्हि । पौत्रप्रभृतेः यतपत्यं इति । (कात्यायन वार्तिक)वृद्धस्य च पूजायाम्(वार्तिकान्त) । वृद्धस्य च पूजायां युवसञ्ज्ञा वक्तव्या । तत्रभवन्तः गार्ग्यायणाः तत्रभवन्तः वात्स्यायनाः । का पुनः इह पूजा । युवत्वं लोके ईप्सितं पूजा इति उपचर्यते । तत्रभवन्तः युवत्वेन उपचर्यमाणाः प्रीताः भवन्ति । (कात्यायन वार्तिक)आपत्यः वा गोत्रम्(वार्तिकान्त) । अथ वा आपत्यः गोत्रसञ्ज्ञः भवति इति वक्तव्यं । (कात्यायन वार्तिक)परमप्रकृतेः च आपत्यः(वार्तिकान्त) । परमप्रकृतेः च आपत्यः भवति इति वक्तव्यं । (कात्यायन वार्तिक)आपत्यात्जीवद्वंश्यात्स्वार्थे द्वितीयः युवसञ्ज्ञः(वार्तिकान्त) । आपत्यात्जीवद्वंश्यात्स्वार्थे द्वितीयः प्रत्ययः वक्तव्यः युवसञ्ज्ञः च भवति इति वक्तव्यं । (कात्यायन वार्तिक)सः च अस्त्रियाम्(वार्तिकान्त) । सः च अस्त्रियां इति वक्तव्यं । (कात्यायन वार्तिक)एकोगोत्रग्रहणानर्थक्यं च(वार्तिकान्त) । एवं च कृत्वा एकोगोत्रग्रहणं अनर्थकं भवति । (कात्यायन वार्तिक)बहुवचनलोपिषु च सिद्धम्(वार्तिकान्त) । बहुवचनलोपिषु च सिद्धं भवति । तत्र बिदाणां अपत्यं माणवकः इति विगृह्य बिदशब्दात्द्व्येकयोः उत्पत्तिः भविष्यति । बैदः बैदौ । बैदस्य अपत्यं बहवः माणवकाः इति विगृह्य बिदशब्दात्बहुषु उत्पत्तिः भविष्यति । बिदाः इति ।
(पाणिनीयसूत्र ४,१।१६५।१) कि.,२६६।१७-२० रो.,६२०-६२१ अन्यग्रहणं किमर्थं । भ्रातरि इति वर्तते । सपिण्डमात्रे यथा स्यात। अथ स्थविरतरग्रहणं किमर्थं । उभयतः विशिष्टे यथा स्यात्स्थानतः वयस्तः च । अथ जीवति इति वर्तमाने पुनः जीवतिग्रहणं किमर्थं । जीवतः जीवति यथा स्यात्मृते मा भूत। मृते हि मार्ग्यः मृतः इति एव भवितव्यं ।
(पाणिनीयसूत्र ४,१।१६५।२) कि.,२६६।२१-२६८।१८ रो.,६२१-६२५ अथ गोत्रयूनयोः समावेशः भवति उताहो न । किं च प्राप्नोति । बाढं प्राप्नोति । न हि अयं एकसञ्ज्ञाधिकारः । किं च अतः । (कात्यायन वार्तिक)गोत्रयोः समावेशे कः दोषः । तत्कृतं भवेत्(वार्तिकान्त) । गोत्रयोः समावेशे कः दोषः । तत्कृतं प्राप्नोति । गोत्राश्रयाः विधयः यूनि अपि प्राप्नुवन्ति । यास्कायनयः लाह्यायनयः । यस्कादिभ्यः गोत्रे इति लुक्प्राप्नोति । (कात्यायन वार्तिक)यस्कादिषु न दोषः अस्ति न यूनि इति अनुवर्तनात्(वार्तिकान्त) । यस्कादिषु न दोषः । किं कारणं । न यूनि इति अनुवर्तनात। न यूनि इति तत्र अनुवर्तते । क्व प्रकृतं । न तौल्वलिभ्यः इति । (कात्यायन वार्तिक)दोषः अत्रिबिदपञ्चालाः न यूनि इति अनुवर्तनात्(वार्तिकान्त) । यदि न यूनि इति अनुवर्तते अत्रयः बिदाः पञ्चालाः माणवकाः इति न सिध्यति । न एषः दोषः । सम्बन्धं अनुवर्तिष्यते । न तौल्वलिभ्यः । तद्राजस्य बहुषु तेन एव अस्त्रियां लुक्भवति तौल्वलिभ्यः यूनि न । यस्कादिभ्यः गोत्रे लुक्भवति यूनि न । तौल्वलिभ्यः इति निवृत्तं । यञञोः च अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यः च लुक्भवति । यूनि न इति निवृत्तं । इह तर्हि काण्व्ययनस्य छात्राः काण्व्यायनीयाः । कण्वादिभ्यः गोत्रे इति अण्प्राप्नोति । (कात्यायन वार्तिक)कण्वादिषु न दोषः अस्ति न यूनि अस्ति ततः परम्(वार्तिकान्त) । कण्वादिषु दोषः न अस्ति । किं कारणं । न यूनि अस्ति ततः परं । कण्वादिभ्यः यः विहितः तदन्तात्प्रातिपदिकातिति उच्यते । यः च अत्र कण्वादिभ्यः विहितः न तदन्तं प्रातिपदिकं यदन्तं च प्रातिपदिकं न असौ कण्वादिभ्यः । इह तर्हि औपगवस्य अपत्यं औपगविः इति एकः गोत्रे इति एतस्मात्नियमात्प्रत्ययः न प्राप्नोति । (कात्यायन वार्तिक)एकः गोत्रे प्रतिपदम्(वार्तिकान्त) । प्रतिपदं अत्र प्रत्ययाः विधीयन्ते गोत्रात्यूनि अस्त्रियां इति । तदन्तात्तर्हि अनेकः प्रत्ययः प्राप्नोति । (कात्यायन वार्तिक)गोत्रात्यूनि च तत्स्मरेत्(वार्तिकान्त) । गोत्रात्यूनि अस्त्रियां इति तत्स्मरेत। किं । एकः इति एव । गोत्रे तर्हि अलुकुक्तः । सः यूनि अपि प्राप्नोति । अस्तु । पुनः यूनि लुक्भविष्यति । न एवं शक्यं । फक्फिञोः दोषः स्यात। शालङ्केः यूनः छात्राः शालङ्काः पैलस्य पैलाः । फक्फिञोः अन्यतरस्यां इति अन्यतरस्यां श्रवणं प्रसज्येत । तस्मात्युवसञ्ज्ञायां गोत्रसञ्ज्ञायाः प्रतिषेधः वक्तव्यः । न वक्तव्यः । तुः नियामकः । तुः क्रियते । सः नियामकः भविष्यति : जीवति तु वंश्ये अपत्यं युवसञ्ज्ञं एव भवति इति । यदि तर्हि युवसञ्ज्ञायां गोत्रसञ्ज्ञा न भवति ये इष्यन्ते यूनि गोत्राश्रयाः विधयः ते न सिध्यन्ति । गार्ग्यायणानां समूहः गार्ग्यायणकं गार्ग्यायणानां किं चित्गार्ग्यायणकं गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः । गोत्राश्रयः वुञ्न प्राप्नोति । एवं तर्हि (कात्यायन वार्तिक)राजन्यात्वुञ्मनुष्यात्च ज्ञापकं लौकिकं परम्(वार्तिकान्त) । यतयं वुञ्विधौ राजन्यमनुष्ययोः ग्रहणं करोति तत्ज्ञापयति आचार्यः लौकिकं परं गोत्रग्रहणं इति । युवा च लोके गोत्रं इति उच्यते । किम्गोत्रः असि माणवक । गार्ग्यायणः । किम्गोत्रः असि माणवक । वात्स्यायनः । यदि एतत्ज्ञाप्यते औपगवेः यूनः छात्राः औपगवीयाः इति गोत्रे इति अण्प्राप्नोति । सामूहिकेषु ज्ञापकं । यदि सामूहिकेषु ज्ञापकं गार्ग्यायणानां किं चित्गार्ग्यायणकं गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः गोत्राश्रयः वुञ्न प्राप्नोति । वुञ्विधौ ज्ञापकं । वुञ्विधौ एतत्ज्ञापकं । यदि वुञ्विधौ ज्ञापकं शालङ्केः यूनः छात्राः शालङ्काः इञः गोत्रे इति अण्न प्राप्नोति । अस्तु तर्हि अविशेषेण । कथं औपगवेः यूनः छात्राः औपगवीयाः । इञः गोत्रे इति अण्प्राप्नोति । न एषः दोषः । गोत्रेण इञं विशेषयिष्यामः । गोत्रे यः इञ्विहितः इति ।
(पाणिनीयसूत्र ४,१।१६८।१) कि.,२६८।२०-२६९।३ रो.,६२५-६२६ (कात्यायन वार्तिक)क्षत्रियातेकराजात्सङ्घप्रतिषेधार्थम्(वार्तिकान्त) । क्षत्रियातेकराजातिति वक्तव्यं । किं प्रयोजनं । सङ्घप्रतिषेधार्थं । सङ्घात्मा भूत। पञ्चालानां अपत्यं विदेहानां अपत्यं इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । न हि अन्तरेण बहुषु लुकं पञ्चालाः इति एतत्भवति । यः तस्मातुत्पद्यते युवप्रत्ययः सः स्यात। युवप्रत्ययः चेत्तस्य लुक्तस्मिन्च अलुक्भविष्यति । इदं तर्हि क्षौद्रकाणां अपत्यं मालवानां अपत्यं इति । अत्र अपि क्षौद्रक्यः मालक्यः इति न एतत्तेषां दासे वा भवति कर्मकरे वा । किं तर्हि तेषां एव कस्मिन्चित। यावता तेषां एव कस्मिन्चित्तस्मातुत्पद्यते युवप्रत्ययः सः स्यात। युवप्रत्ययः चेत्तस्य लुक्तस्मिन्च अलुक्भविष्यति ।
(पाणिनीयसूत्र ४,१।१६८।२) कि.,२६९।४-८ रो.,६२६ अथ क्षत्रियग्रहणं किमर्थं । इह मा भूत। विदेहः नाम ब्राह्मणः तस्य अपत्यं वैदेहिः । (कात्यायन वार्तिक)क्षत्रियग्रहणानर्थक्ये च उक्तम्(वार्तिकान्त) । किं उक्तं । एकं तावतुक्तं : बाह्वादिप्रभृतिषु येषां दर्शनं गोत्रभावे लौकिके ततः अन्यत्र तेषां प्रतिषेधः इति । अपरं उक्तं : अनभिधानातिति ।
(पाणिनीयसूत्र ४,१।१६८।३) कि.,२६९।९-१३ रो.,६२६ (कात्यायन वार्तिक)क्षत्रियसमानशब्दात्जनपदात्तस्य राजनि अपत्यवत्(वार्तिकान्त) । क्षत्रियसमानशब्दात्जनपदात्तस्य राजनि अपत्यवत्प्रत्ययाः भवन्ति इति वक्तव्यं । पञ्चालानां राजा पाञ्चालः । पूरोः अण्वक्तव्यः । पौरवः । पाण्डोः ड्यण्वक्तव्यः । पाण्ड्यः ।
(पाणिनीयसूत्र ४,१।१७०) कि.,२६९।१५-२४ रो.,६२७ (कात्यायन वार्तिक)अणः ण्यङ्ण्येञः विप्रतिषेधेन(वार्तिकान्त) । अणः ण्यङ्ण्य इञिति एते भवन्ति विप्रतिषेधेन । अणः अवकाशः आङ्गः वाङ्गः । ञ्यङः अवकाशः आम्बष्ठ्यः सौवीर्यः । इह उभयं प्राप्नोति । दार्व्यः । ण्यस्य अवकाशः निचकः नैचक्यः । अणः सः एव । इह उभयं प्राप्नोति । नीपः नैप्यः । इञः अवकाशः आजमीढिः आजक्रन्दिः । अणः सः एव । इह उभयं प्राप्नोति । बुधः बौधिः । ण्यङ्ण्येञः भवन्ति विप्रतिषेधेन । (कात्यायन वार्तिक)ञ्यङः कुरुनादिभ्यः ण्यः(वार्तिकान्त) । ञ्यङः कुरुनादिभ्यः ण्यः भवति विप्रतिषेधेन । ञ्यङः अवकाशः आवन्त्यः कौन्त्यः । ण्यस्य सः एव। नैशः नाम जनपदः । तस्मातुभयं प्राप्नोति । ण्यः भवति विप्रतिषेधेन । नैश्यः ।
(पाणिनीयसूत्र ४,१।१७५) कि.,२७०।२-४ रो.,६२७ (कात्यायन वार्तिक)कम्बोजादिभ्यः लुग्वचनं चोडाद्यर्थम्(वार्तिकान्त) । कम्बोजादिभ्यः लुक्वक्तव्यः । किं प्रयोजनं । चोडाद्यर्थं । चोडः कडेरः केरलः ।
(पाणिनीयसूत्र ४,१।१७७।१) कि.,२७०।६-१० रो.,६२७-६२८ इह कस्मात्न भवति । आम्बष्ठ्या सौवीर्या । अतः इति उच्यते । न च एषः अकारः । तदन्तविधिना प्राप्नोति । अतः उत्तरं पठति (कात्यायन वार्तिक)अतः इति तदन्ताग्रहणं अवन्त्यादिभ्यः लुग्वचनात्(वार्तिकान्त) । अतः इति तदन्तस्य अग्रहणं । किं कारणं । अवन्त्यादिभ्यः लुग्वचनात। यतयं अवन्त्यादिभ्यः लुकं शास्ति तत्ज्ञापयति आचार्यः न अत्र तदन्तविधिः भवति इति ।
(पाणिनीयसूत्र ४,१।१७७।२) कि.,२७०।११-१४ रो.,६२८ पर्श्वादिभ्यः लुक्वक्तव्यः । पर्शूः रक्षाः असुरी । (कात्यायन वार्तिक)यौधेयादिप्रतिषेधः ज्ञापकः पार्श्वादिलुकः(वार्तिकान्त) । यतयं न प्राच्यभर्गादियौधेयादिभ्यः इति प्रतिषेधं शास्ति तत्ज्ञापयति आचार्यः भवति पर्श्वादिभ्यः लुकिति ।
(पाणिनीयसूत्र ४,२।१) कि.,२७१।२-५ रो.,६२९ रागातिति किं । देवदत्तेन रक्तं वस्त्रं । (कात्यायन वार्तिक)रक्तादीनां अर्थाभिधाने प्रत्ययविधानातुपाध्यानर्थक्यम्(वार्तिकान्त) । रक्तादीनां अर्थाभिधाने प्रत्ययविधानातुपाधिग्रहणं अनर्थकं । न हि अरागातुत्पद्यमानेन प्रत्ययेन अर्थस्य अभिधानं स्यात। अनभिधानात्ततः उत्पत्तिः न भविष्यति ।
(पाणिनीयसूत्र ४,२।२) कि.,२७१।७-१७ रो.,६२९-६३० (कात्यायन वार्तिक)ठक्प्रकरणे शकलकर्दमाभ्यां उपसङ्ख्यानम्(वार्तिकान्त) । ठक्प्रकरणे शकलकर्दमाभ्यां उपसङ्ख्यानं कर्तव्यं । शाकलिकं कार्दमिकं । (कात्यायन वार्तिक)नील्याः अन्(वार्तिकान्त) । नील्याः अन्वक्तव्यः । नील्या रक्तं नीलं । (कात्यायन वार्तिक)पीतात्कन्(वार्तिकान्त) ।पीतात्कन्वक्तव्यः । पीतेन रक्तं पीतकं । पीतकशब्दः वा प्रकृत्यन्तरं । तस्मात्लुक्वक्तव्यः । (कात्यायन वार्तिक)हरिद्रामहारजनाभ्यां अञ्(वार्तिकान्त) । हरिद्रामहारजनाभ्यां अञ्वक्तव्यः । हारिद्रं माहारजनं । रागातिति उच्यते । तत्र इदं न सिध्यति । हारिद्रौ कुक्कुटस्य पादौ । काषायौ गर्दभस्य कर्णौ इति । उपमानात्सिद्धं । हरिद्रौ इव हरिद्रौ । काषायौ इव काषायौ ।
(पाणिनीयसूत्र ४,२।३) कि.,२७१।१९-२७२।१७ रो.,६३०-६३१ अयुक्तः अयं निर्देशः । योगः हिं नाम भवति ययोः सन्निकर्षविप्रकर्षौ स्तः । न च कालनक्षत्रयोः सन्निकर्षविप्रकर्षौ स्तः । नित्ये हि कालनक्षत्रे । कथं तर्हि निर्देशः कर्तव्यः । (कात्यायन वार्तिक)नक्षत्रेण चन्द्रमसः योगात्तद्युक्तात्काले प्रत्ययविधानम्(वार्तिकान्त) । नक्षत्रेण चन्द्रमसः योगात्तद्युक्तात्काले प्रत्ययः भवति इति वक्तव्यं । पुष्येण युक्तः पुष्ययुक्तः , पुष्ययुक्तः चन्द्रमाः अस्मिन्काले : पौषं अहः , पौषी रात्रिः । (कात्यायन वार्तिक)तत्र उत्तरपदलोपः(वार्तिकान्त) । तत्र उत्तरपदलोपः वक्तव्यः । पुष्ययुक्तशब्दात्हि प्रत्ययः विधीयते । (कात्यायन वार्तिक)लिङ्गवचनानुपपत्तिः च(वार्तिकान्त) । लिङ्गवचनयोः च अनुपपत्तिः । चन्द्रमसः यत्लिङ्गं वचनं च तत्युक्तवद्भावेन प्राप्नोति । (कात्यायन वार्तिक)कालयोगात्सिद्धम्(वार्तिकान्त) । अस्तु नक्ष्त्रेण युक्तः कालः इति एव । नन्च उक्तं अयुक्तः अयं निर्देशः । योगः हिं नाम भवति ययोः सन्निकर्षविप्रकर्षौ स्तः न च कालनक्षत्रयोः सन्निकर्षविप्रकर्षौ स्तः । नित्ये हि कालनक्षत्रे इति । न एषः दोषः । पुष्यसमीपगते चन्द्रमसि पुष्यशब्दः वर्तते । तेन तत्सञ्ज्ञकेन कालः विशेष्यते । (कात्यायन वार्तिक)तथा च सम्प्रत्ययः(वार्तिकान्त) । एवं च कृत्वा लोके सम्प्रत्ययः भवति । पुष्यसमीपगते चन्द्रमसि वक्तारः भवन्ति पुष्येण अद्य । मघाभिः अद्य इति ।
(पाणिनीयसूत्र ४,२।४) कि.,२७२।१९-२७३।२ रो.,६३२ इह कस्मात्न भवति । पौषी रात्रिः पौषं अहः । अविशेषे इति उच्यते । विशेषः च अत्र गम्यते । रात्रिः इति उक्ते अहः न इति गम्यते । अहः इति उक्ते रात्रिः न इति गम्यते । इह अपि तर्हि न प्राप्नोति । अद्य पुष्यः इति । अत्र अपि हि विशेषः गम्यते । अद्य इति उक्ते न ह्यः न श्वः इति । यदि अपि अत्र विशेषः गम्यते अविशेषः अपि गम्यते । अद्य इति उक्ते न ज्ञायते रात्रौ वा दिवा वा इति । यतः अविशेषः तदाश्रयः लुप्भविष्यति । इह अपि तर्हि यदि अपि विशेषः गम्यते अविशेषः अपि तु गम्यते । रात्रिः इति उक्ते न ज्ञायते कदा इति । यतः अविशेषः तदाश्रयः लुप्प्राप्नोति । एवं तर्हि नक्षत्रेण युक्तः कालः इति अनुवर्तते । नक्षत्रेण युक्तस्य कालस्य अविशेषे । कः पुनः कालः नक्षत्रेण युज्यते । अहोरात्रः ।
(पाणिनीयसूत्र ४,२।५) कि.,२७३।४-५ रो.,६३२-६३३ इह कस्मात्न युक्तवद्भावः भवति । श्रवणा रात्रिः । निपातनातेतत्सिद्धं । किं निपातनं । फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः इति ।
(पाणिनीयसूत्र ४,२।७) कि.,२७३।७-२३ रो.,६३३-६३४ (कात्यायन वार्तिक)दृष्टं साम कलेः ढक्(वार्तिकान्त) । दृष्टं साम इति अत्र कलेः ढक्वक्तव्यः । कलिना दृष्टं साम कालेयं साम गीयते । अपरः आह : सर्वत्र अग्निकलिभ्यां ढक। सर्वत्र अग्निकलिभ्यां ढक्वक्तव्यः । अग्निना दृष्टं साम आग्नेयं । अग्नौ भवं आग्नेयं । अग्नेः आगतं आग्नेयं । अग्नेः स्वं आग्नेयं । अग्निः देवता अस्य आग्नेयं । कलिना दृष्टं साम कालेयं । कलेः आगतं कालेयं । कलौ भवं कालेयं । कलेः स्वं कालेयं । कलिः देवता अस्य कालेयः चरुः । (कात्यायन वार्तिक)दृष्टे सामनि जाते च अपि अण्डित्द्विः वा विधीयते(वार्तिकान्त) । दृष्टे सामनि जाते च अपि अण्डित्द्विः वा वक्तव्यः । उशनसा दृष्टं साम औशनसं औशनं । शतभिषजि जातः शातभिषजः शातभिषः । (कात्यायन वार्तिक)तीयातीकक्(वार्तिकान्त) । तीयातीकक्वक्तव्यः । द्वैतीयिकः तार्तीयिकः । (कात्यायन वार्तिक)न विद्यायाः(वार्तिकान्त) । विद्यायाः न भवति इति वक्तव्यं । द्वितीया विद्या तृतीया विद्या इति एव । (कात्यायन वार्तिक)गोत्रातङ्कवतिष्यते(वार्तिकान्त) । औपगवकं । (कात्यायन वार्तिक)दृष्टे सामनि जाते च अपि अण्डित्द्विः वा विधीयते । तीयातीकक्न विद्यायाः गोत्रातङ्कवतिष्यते ।(वार्तिकान्त)
(पाणिनीयसूत्र ४,२।९) कि.,२७४।२-८ रो.,६३४ किमर्थः डकारः । डिति इति लोपः यथा स्यात। न एततस्ति प्रयोजनं । यस्येतिलोपेन अपि एतत्सिद्धं । एवं तर्हि सिद्धे सति यत्ययतौ डितौ करोति तत्ज्ञापयति आचार्यः भवतः एते परिभाषे । अननुबन्धकग्रहणे न सानुबन्धकस्य तदनुबन्धकग्रहणे न अतदनुबन्धकस्य ग्रहणं इति । किं एतस्य ज्ञापने प्रयोजनं । अवामदेव्यं इति एतत्सिद्धं भवति । (कात्यायन वार्तिक)सिद्धे यस्येतिलोपेन किमर्थं ययतौ डितौ । ग्रहणं मा अतदर्थे भूत्वामदेवस्य नञ्स्वरे ।(वार्तिकान्त)
(पाणिनीयसूत्र ४,२।१०) कि.,२७४।१०-१४ रो.,६३५ (कात्यायन वार्तिक)परिवृतः रथः इति तदेकान्तग्रहणम्(वार्तिकान्त) । परिवृतः रथः इति अत्र तदेकान्तग्रहणं कर्तव्यं । येन परिवृतः रथः रथैकान्तः चेत्सः भवति इति वक्तव्यं । इह मा भूतः पुत्रैः परिवृतः रथः । छात्रैः परिवृतः रथः इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । कस्मात्न भवति : पुत्रैः परिवृतः रथः , छात्रैः परिवृतः रथः इति । अनभिधानात।
(पाणिनीयसूत्र ४,२।११) कि.,२७४।१६-१७ रो.,६३५ अयं योगः शक्यः अवक्तुं । कथं पाण्डुकम्बली पाण्डुकम्बलिनौ पाण्डुकम्बलिनः इति । इनिना एतत्मत्वर्थीयेन सिद्धं । पाण्डुकम्बलः अस्य अस्ति इति पाण्डुकम्बली ।
(पाणिनीयसूत्र ४,२।१३) कि.,२७४।१९-२७५।५ रो.,६३५-६३६ (कात्यायन वार्तिक)क्ॐआरापूर्ववचने इति उभयतः स्त्रियाः अपूर्वत्वे(वार्तिकान्त) । क्ॐआरापूर्ववचने इति अत्र उभयतः स्त्रियाः अपूर्वत्वे इति वक्तव्यं । अपूर्वपतिं कुमारीं उपपन्नः क्ॐआरः भर्ता । कुमारी अपूर्वपतिः पतिं उपपन्ना क्ॐआरी भार्या । (कात्यायन वार्तिक)क्ॐआरापूर्ववचने कुमार्याः अण्विधीयते अपूर्वत्वं यदा तस्याः कुमार्यां भवति इति वा(वार्तिकान्त) । अथ वा कुमार्यां भवः क्ॐआरः । यदि एवं क्ॐआरी भार्या इति न सिध्यति । (कात्यायन वार्तिक)पुंयोगात्स्त्र्यभिधानम्(वार्तिकान्त) । पुंयोगात्स्त्र्यभिधानं भविष्यति । क्ॐआरस्य भार्या क्ॐआरी इति ।
(पाणिनीयसूत्र ४,२।२१) कि.,२७५।७-१३ रो.,६३६-६३७ (कात्यायन वार्तिक)सा अस्मिन्पौर्णमासी इति सञ्ज्ञाग्रहणम्(वार्तिकान्त) । सा अस्मिन्पौर्णमासी इति सञ्ज्ञाग्रहणं कर्तव्यं । (कात्यायन वार्तिक)असञ्ज्ञायां गरीयानुप्संयोगः(वार्तिकान्त) । अक्रियमाणे हि सञ्ज्ञाग्रहणे गरीयानुप्संयोगः कर्तव्यः स्यात। मासार्धमासयोः इति वक्तव्यं स्यात। इह मा भूत। पौषी पौर्णमासी अस्मिन्पञ्चदशरात्रे दशरात्रे इति । संवत्सरपर्वणि इति च वक्तव्यं स्यात। भृतकमासे मा भूतिति । तत्तर्हि वक्तव्यं । न वक्तव्यं । इतिकरणः क्रियते । ततः चेत्विवक्षा ।
(पाणिनीयसूत्र ४,२।२५) कि.,२७५।१५-२१ रो.,६३७-६३८ यस्य इति लोपः कस्मात्न भवति । इकारोच्चारणसामर्थ्यात। अथ यत्कायं हविः कथं तस्य सम्प्रैषः कर्तव्यः । यदि तावत्किमः कादेशः कस्मै अनुब्रूहि इति भवितव्यं । अथ न किमः काय अनुब्रूहि इति भवितव्यं । यदि अपि किमः अथ अपि न किमः उभयथा कस्मै अनुब्रूहि इति भवितव्यं । सर्वस्य हि सर्वनामसञ्ज्ञा क्रियते । सर्वः च प्रजापतिः प्रजापतिः च कः । अपरः आह : यदि एव किमः अथ अपि न किमः उभयथा काय अनुब्रूहि इति भवितव्यं । सञ्ज्ञोपसर्जनयोः हि सर्वनामसञ्ज्ञा प्रतिषिध्यते । सञ्ज्ञा च एषा तत्रभवतः ।
(पाणिनीयसूत्र ४,२।२७) कि.,२७६।२-४ रो.,६३८ अथ यतपोनप्त्रियं अपान्नप्त्रियं हविः कथं तस्य सम्प्रैषः कर्तव्यः । अपोनपाते अनुब्रूहि । अपान्नपाते अनुब्रूहि । अपोनप्त्रपान्नप्तृभावः कस्मात्न भवति । प्रत्ययसन्नियोगेन ऋकारान्तत्वं उच्यते । तेन असति प्रत्यये न भवितव्यं ।
(पाणिनीयसूत्र ४,२।२८) कि.,२७६।६-१० रो.,६३९ (कात्यायन वार्तिक)छप्रकरणे पैङ्गाक्षीपुत्रादिभ्यः उपसङ्ख्यानम्(वार्तिकान्त) । छप्रकरणे पैङ्गाक्षीपुत्रादिभ्यः उपसङ्ख्यानं कर्तव्यं । पैङ्गाक्षीपुत्रीयं तार्णबिन्दवीयं । (कात्यायन वार्तिक)शतरुद्रात्घ च(वार्तिकान्त) । शतरुद्रात्घप्रत्ययः वक्तव्यः छः च वक्तव्यः । शतरुद्रियं शतरुद्रीयं ।
(पाणिनीयसूत्र ४,२।३४) कि.,२७६।१२-२७७।५ रो.,६३९-६४० कथं इदं विज्ञायते : भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिनर्थे इति । आहोस्वित्कालेभ्यः भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिनर्थे इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)कालेभ्यः भवे प्रत्ययमात्रप्रसङ्गः(वार्तिकान्त) । यदि विज्ञायते भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिनर्थे इति प्रत्ययमात्रं प्राप्नोति । (कात्यायन वार्तिक)यः कालेभ्यः भवे तस्य विधाने प्रातिपदिकमात्रात्प्रसङ्गः(वार्तिकान्त) । अथ विज्ञायते कालेभ्यः भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिनर्थे इति प्रातिपदिकमात्रात्प्राप्नुवन्ति । (कात्यायन वार्तिक)सिद्धं तु उभयनिर्देशात्(वार्तिकान्त) । सिद्धं एतत। कथं । उभयनिर्देशात। उभयनिर्देशः कर्तव्यः । कालेभ्यः भववत्कालेभ्यः इति । सः तर्हि उभयनिर्देशः कर्तव्यः । न कर्तव्यः । भववतिति वतिना निर्देशः अयं । यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण भवे प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन विशेषेण सा अस्य देवता इति अस्मिनर्थे भवन्ति ततः अमी भववत्कृताः स्युः । अथ हि प्रकृतिमात्रात्वा स्युः प्रत्ययमात्रं वा स्यात्न अमी भववत्कृताः स्युः ।
(पाणिनीयसूत्र ४,२।३५) कि.,२७७।७-११ रो.,६४० (कात्यायन वार्तिक)ठञ्प्रकरणे ततस्मिन्वर्तते इति नवयज्ञादिभ्यः उपसङ्ख्यानम्(वार्तिकान्त) । ठञ्प्रकरणे ततस्मिन्वर्तते इति नवयज्ञादिभ्यः उपसङ्ख्यानं कर्तव्यं । नवयज्ञः वर्तते अस्मिन्काले नावयज्ञिकः । पाकयज्ञिकः । (कात्यायन वार्तिक)पूर्णमासातण्(वार्तिकान्त) । पूर्णमासातण्वक्तव्यः । पूर्णमासः वर्तते अस्मिन्काले पौर्णमासी तिथिः ।
(पाणिनीयसूत्र ४,२।३६) कि.,२७०।१३-२७८।१० रो.,६४०-६४१ पितृव्यमातुल इति किं निपात्यते । (कात्यायन वार्तिक)पितृमातृभ्यां भ्रातरि व्यड्डुलचौ(वार्तिकान्त) । पितृमातृभ्यां भ्रातरि व्यड्डुलचौ प्रत्ययौ निपात्येते । पितुः भ्राता पितृव्यः । मातुः भ्राता मातुलः । मातामहपितामहेति किं निपात्यते । (कात्यायन वार्तिक)मातृपितृभ्यां पितरि डामहच्(वार्तिकान्त) । मातृपितृभ्यां पितरि डामहच्प्रत्ययः निपात्यते । मातुः पिता मातामहः । पितुः पिता पितामहः । (कात्यायन वार्तिक)मातरि षित्च(वार्तिकान्त) । षित्च वक्तव्यः । मातामही पितामही । (कात्यायन वार्तिक)महः वा छन्दसि आनङः अवग्रहदर्शनात्(वार्तिकान्त) । महः वा पुनः एषः भविष्यति छन्दसि आनङः अवग्रहदर्शनात। छन्दसि आनङः अवग्रहः दृश्यते । पिता-महः इति । (कात्यायन वार्तिक)अवेः दुग्धे सोढदूसमरीसचः(वार्तिकान्त) । अवेः दुग्धे सोढदूसमरीसचः इति एते प्रत्ययाः वक्तव्याः । अविसोढं अविदूसं अविमरीसं । (कात्यायन वार्तिक)तिलात्निष्फलात्पिञ्जपेजौ(वार्तिकान्त) । तिलात्निष्फलात्पिञ्जपेजौ वक्तव्यौ । तिलपिञ्जः तिलपेजः । (कात्यायन वार्तिक)पिञ्जः छन्दसि डित्च(वार्तिकान्त) । पिञ्जः छन्दसि डित्च वक्तव्यः । तिलपिञ्जं दण्डानतं ।
(पाणिनीयसूत्र ४,२।३८) कि.,२७८।१२-१७ रो.,६४२ किमर्थं भिक्षादिषु युवतिशब्दः पठ्यते न तस्य समूहः इति एव सिद्धं । न सिध्यति । अनुदात्तादिलक्षणः अञ्प्राप्तः । तद्बाधनार्थं । अतः उत्तरं पठति : (कात्यायन वार्तिक)भिक्षादिषु युवतिग्रहणानर्थक्यं पुंवद्भावस्य सिद्धत्वात्प्रत्ययविधौ(वार्तिकान्त) । भिक्षादिषु युवतिग्रहणं अनर्थकं । किं कारणं । पुंवद्भावस्य सिद्धत्वात्प्रत्ययविधौ । पुंवद्भावः अत्र भविष्यते भस अढे तद्धिते पुंवत्भवति इति । सिद्धः च प्रत्ययविधौ । सः च सिद्धः प्रत्ययविधौ ।
(पाणिनीयसूत्र ४,२।३९) कि.,२७८।२०-२७९।७ रो.,६४२-६४३ वृद्धात्च इति वक्तव्यं । वृद्धानां समूहः वार्धकं । (कात्यायन वार्तिक)अञः वुञ्पूर्वविप्रतिषिद्धम्(वार्तिकान्त) । अञः वुञ्भवति पूर्वविप्रतिषेधेन । अञः अवकाशः कपोत कापोतं । वुञः अवकाशः ग्लुचुकायनि ग्लौचुकायनकं । इह उभयं प्राप्नोति औपगवकं कापटवकं । वुञ्भवति पूर्वविप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । वक्ष्यति एतत्पूर्वः अपि वुञ्परं अञं बाधते इति । अथ वा इष्टवाची परशब्दः । विप्रतिषेधे परं यतिष्टं तत्भवति इति । (कात्यायन वार्तिक)ठक्तु विप्रतिषेधात्(वार्तिकान्त) । ठक्तु भवति विप्रतिषेधेन । ठकः अवकाशः सक्तु साक्तुकं । अञः सः एव । इह उभयं प्राप्नोति आपूपिकं शाष्कुलिकं मौदिकं । ठक्भवति विप्रतिषेधेन ।
(पाणिनीयसूत्र ४,२।४०) कि.,२७९।९ रो.,६४३ गणिकायः च इति वक्तव्यं । गणिकानां समूहः गाणिक्यं ।
(पाणिनीयसूत्र ४,२।४२) कि.,२७९।११-१७ रो.,६४३ किमर्थं ब्राह्मणादिभ्यः यन्विधीयते न यञ्प्रकृतः सः अनुवर्तिष्यते । न हि अस्ति विशेषः ब्राह्मणादिभ्यः यनः वा यञः वा । ततेव रूपं सः एव स्वरः । एवं तर्हि सिद्धे सति यत्ब्राह्मणादिभ्यः यनं शास्ति तत्ज्ञापयति आचार्यः अन्येभ्यः अपि अयं भवति इति । किं एतस्य ज्ञापने प्रयोजनं । यन्प्रकरणे पृष्ठातुपसङ्ख्यानं इति चोदयिष्यति । तन्न कर्तव्यं भवति । (कात्यायन वार्तिक)यन्प्रकरणे पृष्ठातुपसङ्ख्यानम्(वार्तिकान्त) । यन्प्रकरणे पृष्ठातुपसङ्ख्यानं कर्तव्यं । पृष्ठानां समूहः पृष्ठ्यः षडहः ।
(पाणिनीयसूत्र ४,२।४३) कि.,२७९।१९-२८०।६ रो.,६४४ गजसहायाभ्यां च इति वक्तव्यं । गजता सहायता । (कात्यायन वार्तिक)अह्नः खः(वार्तिकान्त) । अह्नः खः वक्तव्यः । अह्नां समूहः अहीनः । (कात्यायन वार्तिक)क्रतौ (वार्तिकान्त)। क्रतौ इति वक्तव्यं । इह मा भूत। आह्नाय धूतपाप्मानः भास्कराः जातमृत्यवः । पर्श्वाः सण। पर्श्वाः सण्वक्तव्यः । पर्शूनां समूहः पार्श्वं । यदि सण्क्रियते इत्सञ्ज्ञा न प्राप्नोति । एवं तर्हि णस्वक्तव्यः ।
(पाणिनीयसूत्र ४,२।४५।१) कि.,२८०।८-२८१।१४ रो.,६४४-६४७ खण्डिका शुक उलूक । किमर्थं कण्डिकादिषु उलूकशब्दः पठ्यते न अनुदात्तदेः इति एव सिद्धं । न सिध्यति । चाषोलूकयोः छन्दसि आद्युदात्तः प्रयोगः दृश्यते । चषेण किकिदीविना । यतुलूकः वदति । न एतयोः छन्दसि सामूहिकः दृश्यते । यत्र च दृश्यते तत्र एतौ अनुदात्तादी । इदं तर्हि प्रयोजनं । अयं औलूक्यः गोत्रं । तत्र गोत्राश्रयः वुञ्प्राप्तः । तद्बाधनार्थं । एततपि न अस्ति प्रयोजनं । बहुवचनान्तानां सामूहिकः बहुषु च लुक। तत्र लुकि कृते अनुदात्तादेः इति एव सिद्धं । न सिध्यति । गोत्रे अलुकचि इति अलुक्प्राप्नोति । (कात्यायन वार्तिक)अञ्सिद्धिः अनुदात्तादेः कः अर्थः क्षुद्रकमालवात्(वार्तिकान्त) । अनुदात्तादेः इति एव अञ्सिद्धः । किमर्थं क्षुद्रमालवशब्दः खण्डिकादिषु पठ्यते । गोत्राश्रयः वुञ्प्राप्तः तद्बाधनार्थं । (कात्यायन वार्तिक)गोत्रात्वुञ्न च तत्गोत्रम्(वार्तिकान्त) । गोत्रात्वुञ्भवति इति उच्यते न च क्षुद्रमालवकशब्दः गोत्रं । न च गोत्रसमुदायः गोत्रग्रहणेन गृह्यते । तत्यथा जनपदसमुदायः जनपदग्रहणेन न गृह्यते । काशिकोसलीयाः इति वुञ्न भवति । तदन्तविधिना प्राप्नोति । (कात्यायन वार्तिक)तदन्तात्न सः सर्वतः(वार्तिकान्त) । परिगणितेषु कार्येषु तदन्तविधिः । न च इदं तत्र परिगण्यते । (कात्यायन वार्तिक)ज्ञापकं स्यात्तदन्तत्वे(वार्तिकान्त) । एवं तर्हि ज्ञापयति आचार्यः भवति इह तदन्तविधिः इति । (कात्यायन वार्तिक)तथा च आपिशलेः विधिः(वार्तिकान्त) । एवं च कृत्वा आपिशलेः आचार्यस्य विधिः उपपन्नः भवति । धेनुः अनञि कं उत्पादयति । धेनूनां समूहः धैनुकं । अनञि इति किं । अधेनूनां समूहः आधेनवं । (कात्यायन वार्तिक)सेनायां नियमार्थं वा(वार्तिकान्त) । अथ वा नियमार्थः अयं आरम्भः । क्षुद्रकमालवशब्दात्सेनायां एव । क्व मा भूत। क्षौद्रकमालवकं अन्यतिति । (कात्यायन वार्तिक)यथा बाध्येत वा अञ्वुञा(वार्तिकान्त) । अथ वा ज्ञापयति आचार्यः पूर्वः अपि वुञ्परं अञं बाधते इति । ननु च उक्तं गोत्रात्वुञ्न च तत्गोत्रं इति । तदन्तविधिना प्राप्नोति । ननु च उक्तं तदन्तात्न सः सर्वतः इति । ज्ञापकं स्यात्तदन्तत्वे । एवं तर्हि ज्ञापयति आचार्यः भवति इह तदन्तविधिः इति । कथं पुनः एततुभयं शक्यं ज्ञापयितुं भवति च तदन्तविधिः पूर्वः च वुञ्परं अञं बाधते इति । उभयं ज्ञाप्यते ।
(पाणिनीयसूत्र ४,२।४५।२) कि.,२८१।१५-१७ रो.,६४७ (कात्यायन वार्तिक)अञ्प्रकरणे क्षुद्रकमालवात्सेनासञ्ज्ञायाम्(वार्तिकान्त) । अञ्प्रकरणे क्षुद्रकमालवात्सेनासञ्ज्ञायां इति वक्तव्यं । क्षौद्रकमालवी सेना चेत। क्व मा भूत। क्षौद्रकमालवकं अन्यत।
(पाणिनीयसूत्र ४,२।४९) कि.,२८१।१९-२५ रो.,६४७-६४८ पाश तृण धूम वात । (कात्यायन वार्तिक)पृथग्वातादर्शनातसमूहः(वार्तिकान्त) । पृथग्वातादर्शनातयुक्तः अयं सामूहिकः । न हि पृथक्वाताः दृश्यन्ते । न तर्हि इदानीं भवति वात्या इति । भवति । (कात्यायन वार्तिक)शीघ्रत्वे तु(वार्तिकान्त) । शीघ्रः वातः वात्या । अथ वा पृथक्वाताः अपि दृश्यन्ते । तत्यथा पूर्वः वातः उत्तरः वातः सर्वतः वातः । वाताः वान्तु दिशः दश ।
(पाणिनीयसूत्र ४,२।५०-५१) कि.,२८२।३-४ रो.,६४८ (कात्यायन वार्तिक)खलादिभः इनिः(वार्तिकान्त) । खलादिभः इनिः वक्तव्यः । खलिनी ऊहिनी कुन्दुमिनी इति ।
(पाणिनीयसूत्र ४,२।५२) कि.,२८२।६-२८३।३ रो.,६४८-६५० (कात्यायन वार्तिक)विषयाभिधाने जनपदे लु(वार्तिकान्त)P(कात्यायन वार्तिक) बहुवचनविषयात्(वार्तिकान्त) । विषयाभिधाने जनपदे लुप्बहुवचनविषयात्वक्तव्यः । अङ्गानां विषयः अङ्गाः । वङ्गाः सुह्माः पुण्ड्राः । (कात्यायन वार्तिक)गान्धार्यादिभ्यः वा(वार्तिकान्त) । गान्धार्यादिभ्यः वा इति वक्तव्यं । गान्धारः गान्धारयः वासातः वसातयः शैबः शिबयः । (कात्यायन वार्तिक)राजन्यादिभ्यः वा वुञ्(वार्तिकान्त) । राजन्यादिभ्यः वा वुञ्वक्तव्यः । राजन्याः राजन्यकः दैवयातवः दैवयातवकः । (कात्यायन वार्तिक)बैल्ववनादिभ्यः नित्यम्(वार्तिकान्त) । बैल्ववनादिभ्यः नित्यं इति वक्तव्यं । बैल्ववनकः आम्बरीषपुत्रकः आत्मकामेयकः । तत्तर्हि बहु वक्तव्यं । (कात्यायन वार्तिक)न वा अभिधेयस्य निवासविषयत्वात्निवासविवक्षायां लुब्विषयविवक्षायां प्रत्ययः(वार्तिकान्त) । न वा वक्तव्यं । किं कारणं । अभिधेयस्य निवासविषयत्वात। यतभिधेयं सः निवासः च विषयः च । अभिधेयस्य निवासविषयत्वात्निवासविवक्षायां लुप्विषयविवक्षायां प्रत्ययः भविष्यति । इदं तर्हि प्रयोजनं । एतत्ज्ञास्यामि इह नित्यः विधिः इह विभाषा इति । एततपि न अस्ति प्रयोजनं । यावता यतभिधेयं सः निवासः च विषयः च । अभिधेयस्य निवासविषयत्वात्निवासविवक्षायां लुप्विषयविवक्षायां प्रत्ययः ।
(पाणिनीयसूत्र ४,२।५५) कि.,२८३।५-७ रो.,६५० (कात्यायन वार्तिक)छन्दसः प्रत्ययविधाने नपुंसकात्स्वार्थे उपसङ्ख्यानम्(वार्तिकान्त) । छन्दसः प्रत्ययविधाने नपुंसकात्स्वार्थे उपसङ्ख्यानं कर्तव्यं । त्रिष्टुपेव त्रैष्टुभं अनुष्टुपेव आनुष्टुभं जगती एव जागतं ।
(पाणिनीयसूत्र ४,२।५९) कि.,२८३।९-११ रो.,६५०-६५१ किमर्थं इमौ उभौ अर्थौ निर्दिश्येते न यः अधीते वेत्ति अपि असौ यः तु वेत्ति अधीते अपि असौ । न एतयोः आवश्यकः समावेशः । भवति हि कः चित्सम्पाठं पठति न च वेत्ति कः चित्च वेत्ति न च सम्पाठं पठति ।
(पाणिनीयसूत्र ४,२।६०) कि.,२८३।१३-२८४।१५ रो.,६५१-६५३ उक्थादि इति उच्यते । कानि उक्थानि । सामानि । यदि एवं सामगमात्रे औक्थिकः इति प्राप्नोति । न एषः दोषः । तादर्थ्यात्ताच्छब्द्यं भविष्यति । उक्थार्थं उक्थं । इह उक्थानि अधीते औक्थिकः यज्ञं अधीते याज्ञिकः । यः इदानीं औक्थिक्यं याज्ञिकं च अधीते कथं तत्र भवितव्यं । औक्थिकः याज्ञिकः इति एव भवितव्यं । कथं । तस्येदम्प्रत्ययात्लुक। तस्येदम्प्रत्ययात्लुक। तस्येदम्प्रत्ययस्य च । सः तर्हि वक्तव्यः । न वक्तव्यः । इह अस्माभिः त्रैशब्द्यं साध्यं । उक्थानि अधीते औक्थिक्यं अधीते औक्थिकः इति । तत्र द्वयोः समानार्थयोः एकेन विग्रहः अपरस्मातुत्पत्तिः भविष्यति अविरविकन्यायेन । तत्यथा अवेः मांसं इति विगृह्य अविकशब्दातुत्पत्तिः भवति आविकं इति । एवं उक्थानि अधीते इति विगृह्य औक्थिकः इति भविष्यति । औक्थिक्यं अधीते इति विगृह्य वाक्यं एव। विद्यालक्षणकल्पसूत्रान्तातकल्पादेः इकक्स्मृतः । विद्या । वायसविद्यकः । विद्या लक्षण गोलक्षणिकः आश्वलक्षणिकः । लक्षण । कल्प । पाराशरकल्पिकः पारकल्पिकः । कल्प। सूत्र । वार्त्तिकसूत्रिकः साङ्ग्रहसूत्रिकः । अकल्पादेः इति किमर्थं । काल्पसूत्रः । विद्या च अनङ्गक्षत्रधर्मत्रिपूर्वा । विद्या च अनङ्गक्षत्रधर्मत्रिपूर्वा इति वक्तव्यं । आङ्गविद्यः क्षात्रविद्यः धार्मविद्यः त्रैविद्यः । आख्यानाख्यायिकेतिहासपुराणेभ्यः च ठक्वक्तव्यः । यावक्रीतिकः प्रैयङ्गविकः यायातिकः । आख्यान । आख्यायिका । वासवदत्तिकः स्ॐअनोत्तरिकः । ऐतिहासिकः पौराणिकः । (कात्यायन वार्तिक)सर्वसादेः द्विगोः च लः(वार्तिकान्त) । सर्वसादेः द्विगोः च लः वक्तव्यः । सर्ववेदः सर्वतन्त्रः । सवार्त्तिकः ससङ्ग्रहः । पञ्चकल्पः द्वितन्त्रः । (कात्यायन वार्तिक)अनुसूः लक्ष्यलक्षणे सर्वसादेः द्विगोः च लः इकन्पदोत्तरपदात्शतषष्टेः षिकन्पथः(वार्तिकान्त) ।
(पाणिनीयसूत्र ४,२।६२) कि.,२८४।१७-१८ रो.,६५४ अयं योगः शक्यः अवक्तुं । कथं अनुब्राह्मणी अनुब्राह्मणिनौ अनुब्राह्मणिनः । इनिना एव मत्वर्थीयेन सिद्धं ।
(पाणिनीयसूत्र ४,२।६३) कि.,२८४।२०-२२ रो.,६५४ अयुक्तः अयं निर्देशः । अधीते इति वर्तते न च वसन्तः नाम अध्ययनं अस्ति । न एषः दोषः । साहचर्यात्ताच्छब्द्यं भविष्यति । वसन्तसहचरितं अध्ययनं वसन्ते अध्ययनं इति ।
(पाणिनीयसूत्र ४,२।६४) कि.,२८४।२४ रो.,६५४ अयुक्तः अयं निर्देशः । प्रौक्तातिति भवितव्यं । सौत्रः निर्देशः ।
(पाणिनीयसूत्र ४,२।६५) कि.,२८५।२ रो.,६५५ सङ्ख्याप्रकृतेः इति वक्तव्यं । इह मा भूत। माहावार्त्तिकः कालपकः ।
(पाणिनीयसूत्र ४,२।६६।१) कि.,२८५।४-२० रो.,६५५-६५७ किमर्थं इदं उच्यते । (कात्यायन वार्तिक)अन्यत्र अभिधेयस्य अनित्यत्वात्छन्दोब्राह्मणानां तद्विषयवचनम्(वार्तिकान्त) । अन्यत्र अभिधेयं अनित्यं भवति । पाणिनीयं इति वा भवति पाणिनीयाः इति वा । अन्यत्र अभिधेयस्य अनित्यत्वात्छन्दोब्राह्मणानां अपि अनित्यता प्राप्नोति । इष्यते च तद्विषयता एव स्यातिति । तत्च अन्तरेण यत्नं न सिध्यति इति छन्दोब्राह्मणानां तद्विषयवचनं । एवमर्थं इदं उच्यते । अस्ति प्रयोजनं एतत। किं तर्हि इति । (कात्यायन वार्तिक)तत्र यथाधिकारं तद्विषयप्रसङ्गः(वार्तिकान्त) । तत्र यथाधिकारं तद्विषयता प्राप्नोति । अधीते वेद इति वर्तते । तेन अध्येतृवेदित्रोः एव तद्विषयता स्यात। ये अन्ये उपचाराः तत्र न स्यात। यथा इह भवति पाणिनीयं महत्सुविहितं इति एवं इह अपि स्यात्कठं महत्सुविहितं इति । (कात्यायन वार्तिक)सिद्धं तु प्रोक्ताधिकारे तद्विषयवचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । प्रोक्ताधिकारे एव तद्विषयता वक्तव्या । तेन प्रोक्तं । छन्दोब्राह्मणानि अध्येतृवेदित्रोः एव इति । तत्तर्हि अध्येतृवेदितृग्रहणं कर्तव्यं । ननु च इह अपि क्रियते । परार्थं एतद्भवति ततधीते तत्वेद इति । एवं तर्हि यावतिह छन्दोब्राह्मणग्रहणं तावतत्र अध्येतृवेदितृग्रहणं । ननु च तत्र अपि क्रियते । परार्थं तत्भविष्यति । पुराण्प्रोक्तेषु ब्राह्मणकल्पेषु शौनकादिभ्यः छन्दसि इति । इह वा छन्दोब्राह्मणग्रहणं क्रियते तत्र वा अध्येतृवेदितृग्रहणं । कः नु अत्र विशेषः ।
(पाणिनीयसूत्र ४,२।६६।२) कि.,२८५।२१-२८६।१९ रो.,६५७-६५९ (कात्यायन वार्तिक)याज्ञवक्क्यादिभ्यः प्रतिषेधः(वार्तिकान्त) । याज्ञवक्यादिभ्यः प्रतिषेधः वक्तव्यः । याज्ञवल्कानि ब्राह्मणानि । सौलभानि । किं प्रोक्ताधिकारे तद्विषयता क्रियते इति अतः याज्ञवक्क्यादिभ्यः प्रतिषेधः वक्तव्यः । न इति आह । सर्वथा याज्ञवक्क्यादिभ्यः प्रतिषेधः वक्तव्यः । (कात्यायन वार्तिक)इनिः वा प्रोक्ते तद्विषयः(वार्तिकान्त) । अथ वा इनिः प्रोक्ते तद्विषयः भवति इति वक्तव्यं । यदि इनिः प्रोक्ते तद्विषयः भवति इति उच्यते पैङ्गी कल्पः अत्र अपि प्राप्नोति । (कात्यायन वार्तिक)काश्यपकौशिकग्रहणं च कल्पे नियमार्थम्(वार्तिकान्त) । काश्यपकौशिकग्रहणं च कल्पे नियमार्थं द्रष्टव्यं । काश्यपकौशिकाभ्यां एव इनिः कल्पे तद्विषयः भवति न अन्येभ्यः इति । एवं अपि छणादीनां तद्विषयता न प्राप्नोति । तैत्तिरीयाः वारतन्तवीयाः । यदि पुनः छणादयः प्रोक्ते तद्विषयाः भवन्ति इति उच्येत । एवं अपि पैङ्गी कल्पः अत्र अपि प्राप्नोति । काश्यपकौशिकग्रहणं च कल्पे नियमार्थं इति एव । एवं अपि औत्सर्गिकाणां तद्विषयता न प्राप्नोति । क्रौडाः काङ्कताः मौदाः पैप्पलादाः । छणादयः च अपि औत्सर्गिकानध्येतृवेदित्रोः एव बाधेरन। ये अन्ये उपचाराः तत्र न बाधेरन। तित्तिरिणा प्रोक्ताः श्लोकाः इति । अस्ति तर्हि अविशेषेण । ननु च उक्तं याज्ञवक्यादिभ्यः प्रतिषेधः इति । वक्ष्यति एतत। याज्ञवक्यादिभ्यः प्रतिषेधः तुल्यकालत्वातिति । तत्र एव वक्तव्यं । तद्विषयता च न भवति इति । कथं काश्यपिनः कौशिकिनः इति । इनिः प्रोक्ते तद्विषयः भवति इति उच्यमाने अवश्यं काश्यपकौशिकग्रहणं कल्पे नियमार्थं द्रष्टव्यं । ततेव इदानीं विध्यर्थं भविष्यति । कथं पाराशरिणः भिक्षवः शैलालिनः नटाः । अत्र अपि तद्विषयता च इति अनुवर्तिष्यते ।
(पाणिनीयसूत्र ४,२।६७-७०) कि.,२८६।२४-२८७।१० रो.,६६०-६६१ किं पुनः अयं एकः योगः आहोस्वित्नानायोगाः । किं च अतः । यदि एकः योगः उत्तरेषु अर्थादेशनेषु देशे तन्नाम्नि देशे तन्नाम्नि इति अस्य अनुवृत्तिः कर्तव्या । न हि एकयोगे अनुवृत्तिः भवति । कथं ज्ञायते । यतयं ततधीते तत्वेद इति द्विः तद्ग्रहणं करोति । अथ नानायोगाः ओः अञिति एवमादि अनुक्रमणं यतेव सर्वान्त्यं अर्थादेशनं तस्य एव विषये स्यात। यथा इच्छसि तथा अस्तु । अस्तु तावतेकः योगः । ननु च उक्तं उत्तरेषु अर्थादेशनेषु देशे तन्नाम्नि देशे तन्नाम्नि इति अस्य अनुवृत्तिः कर्तव्या । न हि एकयोगे अनुवृत्तिः भवति इति । एकयोगे अपि अनुवृत्तिः भवति । कथं ज्ञायते । यतयं ततस्य अस्ति अस्मिनिति मतुपिति द्विः तद्ग्रहणं न करोति । कथं ततधीते तत्वेद इति । प्रमादकृतं आचार्यस्य शक्यं अकर्तुं । अथ वा पुनः सन्तु नानायोगाः । ननु च उक्तं ओः अञिति एवमादि अनुक्रमणं यतेव सर्वान्त्यं अर्थादेशनं तस्य एव विषये स्यातिति । न एषः दोषः । गोयूथवतधिकाराः । तत्यथा गोयूथं एकदण्डप्रघट्टितं सर्वं समं घोषं गच्छति तद्वतधिकाराः ।
(पाणिनीयसूत्र ४,२।७१) कि.,२८७।१३-१६ रो.,६६१ (कात्यायन वार्तिक)ओः अञ्विधेः नद्यां मतु(वार्तिकान्त)P(कात्यायन वार्तिक) विप्रतिषिद्धम्(वार्तिकान्त) । ओः अञ्विधेः नद्यां मतुप्भवति विप्रतिषेधेन । ओः अञः अवकाशहः कन्नतु कान्नवतं । मतुपः अवकाशः उदुम्बरावती मशकावती । इह उभयं प्राप्नोति । इक्षुमती द्रुमती । मतुप्भवति विप्रतिषेधेन ।
(पाणिनीयसूत्र ४,२।७२) कि.,२८७।१८-२१ रो.,६६१-६६२ अङ्गग्रहणं किमर्थं । यथा बह्वज्ग्रहणं अङ्गविशेषणं विज्ञायेत । बह्वचः अङ्गातिति । अथ अक्रियमाणे अङ्गग्रहणे बह्वज्ग्रहणं कस्य विशेषणं स्यात। मत्वन्तविशेषणं । तत्र कः दोषः । इह अपि प्रसज्येत । मालावतां अयं निवासः मालावतं । अस्ति च इदानीं अबह्वच्मत्वन्तः यदर्थः विधिः स्यात। अस्ति इति आह : स्ववान्, श्ववान।
(पाणिनीयसूत्र ४,२।८५) कि.,२८७।२३-२८८।५ रो.,६६२ किमर्थं नद्यां मतुप्विधीयते न ततस्य अस्ति अस्मिनिति मतुपिति एव सिद्धं । न्(कात्यायन वार्तिक)अद्यां मतुब्वचनं मत्वर्थे अण्विधानात्(वार्तिकान्त) । नद्यां मतुब्वचनं क्रियते मत्वर्थे अण्विधानात। अयं मत्वर्थे अण्विधीयते । सः विशेषविहितः सामान्यविहितं मतुपं बाधेत । (कात्यायन वार्तिक)निर्वृत्ताद्यर्थं च(वार्तिकान्त) । निर्वृत्ताद्यर्थं च नद्यां मतुब्वचनं क्रियते । निर्वृत्ताद्यर्थेषु मतुप्यथा स्यात।
(पाणिनीयसूत्र ४,२।८७) कि.,२८८।७ रो.,६६२ महिषात्च इति वक्तव्यं । महिष्मान।
(पाणिनीयसूत्र ४,२।९१) कि.,२८८।९-२८९।६ रो.,६६२-६६४ यदि पुनः अयं कुट्परादिः क्रियेत । (कात्यायन वार्तिक)कुटि प्रत्ययादेः आदेशानुपपत्तिः अनादित्वात्(वार्तिकान्त) । कुटि सति प्रत्ययादेः इति आदेशस्य अनुपपत्तिः । कुटि कृते अनादित्वातादेशः न प्राप्नोति । एवं तर्हि पूर्वान्तः करिष्यते । (कात्यायन वार्तिक)पूर्वान्ते ह्रस्वत्वम्(वार्तिकान्त) । यदि पूर्वान्तः ह्रस्वत्वं वक्तव्यं । कुञ्चकीयाः । परादौ पुनः सति के अणः इति ह्रस्वत्वं सिद्धं भवति । अस्तु तर्हि परादिः । ननु च उक्तं कुटि कृते अनादित्वातादेशः न प्राप्नोति इति । (कात्यायन वार्तिक)सिद्धं तु आदिष्टस्य कुड्वचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । कुटादिष्टस्य इति वक्तव्यं । तत्तर्हि वक्तव्यं । न वक्तव्यं । (कात्यायन वार्तिक)सन्नियोगात्सिद्धम्(वार्तिकान्त) । सन्नियोगः करिष्यते । कः एषः यत्नः चोद्यते सन्नियोगः नाम । चकारः कर्तव्यः । कुट्च । यत्च अन्यत्प्राप्नोति । किं च अन्यत्प्राप्नोति । आदेशः । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं । पूर्वान्ते ह्रस्वत्वं इति । निपातनातेतत्सिद्धं । किं निपातनं । क्रुञ्चाः ह्रस्वत्वं च इति । तत्तर्हि पूर्वान्ते सति निपातनं कर्तव्यं । परादौ अपि एषः दोषः । यत्हि तत्के अणः इति ह्रस्वत्वं न तत्कादिमात्रे शख्यं विज्ञातुं । इह अपि प्रसज्येत । नदीकल्पः परीवाहः कुमारीकाम्यति इति । तस्मातुभाभ्यां एतत्वक्तव्यं । क्रुञ्चाः ह्रस्वत्वं च इति ।
(पाणिनीयसूत्र ४,२।९२) कि.,२९०।२-२९१ ८ रो.,६६४-६७० शेषे इति उच्यते । कः शेषः नाम । अपत्यादिभ्यः चातुरर्थ्पर्यन्तेभ्यः ये अन्ये अर्थाः सः शेषः । किमर्थं पुनः शेषग्रहणं । शेषे घादयः यथा स्युः । स्वार्थे मा भूवनिति । न एततस्ति प्रयोजनं । इदं तावतयं प्रष्टव्यः । अणादयः स्वार्थे कस्मात्न भवन्ति इति । अपत्यादिषु अर्थेषु अणादयः विधीयन्ते । तेन स्वार्थे न भविष्यन्ति । इमे अपि तर्हि जातादिषु अर्थेषु विधीयन्ते । तेन स्वार्थे न भविष्यन्ति । कथं पुनः इह उच्यमानाः घादयः जातादिषु शक्याः विज्ञातुं । अनुवर्तिष्यन्ते तत्र घादयः । यदि अनुवर्तन्ते घादयः या या परा प्रकृतिः तस्याः तस्याः पूर्वे पूर्वे प्रत्ययाः प्राप्नुवन्ति । एवं तर्हि जातादिषु अर्थेषु घादीनपेक्षिष्यामहे । अयुक्ता एवं बहुनः अपेक्षा । अपेक्षमाणः अयं अनन्तरं योगं अपेक्षेत । बहुनः अपि अपेक्षा भवति । तत्यथा कषादिषु यथाविधि अनुप्रयोगः इति सामान्यकं सविशेषकं सर्वं अपेक्ष्यते । अथ वा पुनः अस्तु अनुवृत्तिः । ननु च उक्तं या या परा प्रकृतिः तस्याः तस्याः पूर्वे पूर्वे प्रत्ययाः प्राप्नुवन्ति इति । न एषः दोषः । सम्बन्धं अनुवर्तिष्यते । राष्ट्रावारपारात्घखौ । ग्रामात्यखञौ राष्ट्रावारपारात्घखौ । कत्त्र्यादिभ्यः ढकञ्राष्ट्रावारपारात्घखौ ग्रामात्यखञौ इति । अतः उत्तरं पठति । (कात्यायन वार्तिक)शेषवचनं घादीनां अपत्यादिषु अप्रसङ्गार्थम्(वार्तिकान्त) । शेषवचनं क्रियते शेषे घादयः यथा स्युः । अपत्यादिषु मा भूवनिति इति । कथं च प्राप्नुवन्ति । (कात्यायन वार्तिक)तस्येदंवचनात्प्रसङ्गः(वार्तिकान्त) । तस्येदंविशेषाः हि एते अपत्यं समूहः निवासः विकारः इति । (कात्यायन वार्तिक)विप्रतिषेधात्सिद्धम्(वार्तिकान्त) । अणादयः क्रियन्तां घातयः इति अणादयः भवन्ति विप्रतिषेधेन । (कात्यायन वार्तिक)न वा परत्वात्घादीनाम्(वार्तिकान्त) । न एषः युक्तः विप्रतिषेधः । किं कारणं । परत्वात्घादीनां । विप्रतिषेधे परं इति उच्यते । पूर्वे च अणादयः परे घादयः । परे अणादयः करिष्यन्ते । सूत्रविपर्यासः च एवं कृतः भवति । (कात्यायन वार्तिक)अणपवादत्वात्च अण्विषये घादिप्रसङ्गः(वार्तिकान्त) । अणपवादत्वात्च घादीनां अण्विषये घादयः प्राप्नुवन्ति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न अण्विषये घादयः भवन्ति इति यतयं फेः छ च इति फ्यन्तं छं शास्ति । न एततस्ति ज्ञापकं । फिनर्थं एतत्स्यात। सौवीरेषु इति वर्तते न च फिनन्तं सौवीरगोत्रं अस्ति । गोत्रग्रहणं सामुहिकेषु ज्ञापकं दैवयातवग्रहणं वैषयिकेषु भास्त्रायणग्रहणं नैवासिकेषु ।
(पाणिनीयसूत्र ४,२।९३) कि.,२९१।१०-१३ रो.,६७० (कात्यायन वार्तिक)अवारपारात्विगृहीतातपि(वार्तिकान्त) । अवारपारात्विगृहीतातपि इति वक्तव्यं । अवरीणः पारीणः अवारपारीणः । (कात्यायन वार्तिक)विपरीतात्च(वार्तिकान्त) । विपरीतात्च इति वक्तव्यं । पारावारीणः ।
(पाणिनीयसूत्र ४,२।९५) कि.,२९१।१५-१६ रो.,६७० ग्रामात्च इति वक्तव्यं । ग्रामेयकः । तत्तर्हि वक्तव्यं । न वक्तव्यं । कत्त्र्यादिभ्यः ढकञिति अत्र ग्रामातिति अनुवर्तिष्यते ।
(पाणिनीयसूत्र ४,२।९६) कि.,२९१।१८-२० रो.,६७०-६७१ अयं योगः शक्यः अवक्तुं । कथं कौलेयकः । कुलस्य अपत्यं । (कात्यायन वार्तिक)कुक्षिग्रीवात्तु कन्ढञः(वार्तिकान्त) । कुलस्य अपत्यं कौलेयकः इति भविष्यति । कुक्षिग्रीवातपि ढञन्तात्कन्भविष्यति ।
(पाणिनीयसूत्र ४,२।९९) कि.,२९२।२ रो.,६७१ बाह्ल्युर्दिपर्दिभ्यः च इति वक्तव्यं । बाह्लायनी और्दायनी पार्दायनी ।
(पाणिनीयसूत्र ४,२।१००) कि.,२९२।४-१४ रो.,६७१-६७२ अमनुष्ये इति किमर्थं । राङ्कवकः मनुष्यः । (कात्यायन वार्तिक)रङ्कोः अमनुष्यग्रहणानर्थक्यं मनुष्यतत्स्थयोः वुञ्विधानात्(वार्तिकान्त) । रङ्कोः अमनुष्यग्रहणं अनर्थकं । किं कारणं । मनुष्यतत्स्थयोः वुञ्विधानात। अयं मनुष्ये मनुष्यतत्स्थे च वुञ्विधीयते । सः बाधकः भविष्यति । एवं तर्हि ज्ञापयति आचार्यः अमनुष्ये मनुष्यस्थे ष्फगणौ भवतः इति । (कात्यायन वार्तिक)अमनुष्ये मनुष्यस्थे ष्फगणोः ज्ञापकं इति चेत्न अनिष्टत्वात्(वार्तिकान्त) । अमनुष्ये मनुष्यस्थे ष्फगणोः ज्ञापकं इति चेत्तत्न । किं कारणं । अनिष्टत्वात। न हि अमनुष्ये मनुष्यस्थे ष्फगणौ इष्येते । किं तर्हि । वुञेव इष्यते । (कात्यायन वार्तिक)अण्ग्रहनं च कच्छादिभ्यः अण्वचनात्(वार्तिकान्त) । अण्ग्रहनं च अनर्थकं । किं कारणं । कच्छादिभ्यः अण्वचनात। कच्छादिपाठातत्र अण्भविष्यति ।
(पाणिनीयसूत्र ४,२।१०४।१) कि.,२९२।१६-२९३।७ रो.,६७२-६७३ परिगणनं कर्तव्यं । (कात्यायन वार्तिक)अमेहक्वतसित्रेभ्यः त्यब्विधिः यो अव्ययात्स्मृतः(वार्तिकान्त) । अमा अमात्यः अमा । इह इहत्यः इह । क्व क्वत्यः क्व । तसि ततस्त्यः यतस्त्यः । त्र तत्रत्र्यः यत्रत्यः । इतरथा हि औत्तराहौपरिष्टपारतानां प्रतिषेधः वक्तव्यः स्यात। औत्तराहः औपरिष्टः पारतः । त्यप्नेः ध्रुवे । त्यप्नेः ध्रुवे वक्तव्यः । नित्यः । निसः गते । त्यप्वक्तव्यः इति । निष्ट्यः । अरण्यात्णः । अरण्यात्णः वक्तव्यः । आरण्याः सुमनसः । दूरातेत्यः डूरातेत्यः वक्तव्यः । दूरेत्यः । उत्तराताहञ। उत्तराताहञ्वक्तव्यः । औत्तराहः । (कात्यायन वार्तिक)अव्ययात्त्यपि आविष्टस्य उपसङ्ख्यानं छन्दसि(वार्तिकान्त) । अव्ययात्त्यपिति अत्र आविष्टस्य छन्दसि उपसङ्ख्यानं कर्तव्यं । आविष्ट्यः वर्धते चारुः [आसु (ऱ्)]।
(पाणिनीयसूत्र ४,२।१०४।२) कि.,२९३।८-२९९।५ रो.,६७४-६८३ (कात्यायन वार्तिक)अययतीररूप्योत्तरपदोदीच्यग्रामकोपधविधेः वृद्धात्छः विप्रतिषेधेन(वार्तिकान्त) । अययतीररूप्योत्तरपदोदीच्यग्रामकोपधविधेः वृद्धात्छः भवति विप्रतिषेधेन । अव्ययात्त्यप्भवति इति अस्य अवकाशः अमात्यः । छस्य अवकाशः शालीयः मालीयः । आरातुभयं प्राप्नोति । आरातीयः । तीरोत्तरपदादञ्भवति इति अस्य अवकाशः कखतीर काखतीरी । छस्य सः एव । वायस्तीरातुभयं प्राप्नोति । वायसतीरीयः । रूप्योत्तरपदात्ञः भवति इति अस्य अवकाशः चणाररूप्य चाणाररूप्या । छस्य सः एव । माणिरूप्यातुभयं प्राप्नोति । तं च अपि छं परत्वात्योपधलक्षणः वुञ्बाधते । माणिरूप्यकः । उदीच्यग्रामात्च बह्वचः अन्तोदात्तातञ्भवति इति अस्य अवकाशः शिवपुर शैवपुरः । छस्य सः एव । वाडवकर्षातुभयं प्राप्नोति । वाडवकर्षीयः । कोपधातण्भवति इति अस्य अवकाशः निलीनकः नैलीनकः । छस्य सः एव । औलूकातुभयं प्राप्नोति । औलूकीयः । (कात्यायन वार्तिक)तेभ्यः ठञ्ञिठौ(वार्तिकान्त) । तेभ्यः त्यबादिभ्यः ठञ्ञिठौ भवतः विप्रतिषेधेन । अव्ययात्त्यप्भवति इति अस्य अवकाशः अमात्यः । ठञ्ञिठयोः अवकाशः कारन्तविकी कारन्तविका [ऱः कारतन्तविकी कारतन्तविका] । आरात्नाम वाहीकग्रामः । तस्मातुभयं प्राप्नोति । आरात्की आरात्का । तीरोत्तरपदादञ्भवति इति अस्य अवकाशः कखतीर काखतीरी । ठञ्ञिठयोः सः एव । कास्तीरः [ऱः कास्तीरम्] नाम वाहीकग्रामः । तस्मातुभयं प्राप्नोति । कास्तीरिकी कास्तिरिका । रूप्योत्तरपदात्ञः भवति इति अस्य अवकाशः चणाररूप्य चाणाररूप्या । ठञ्ञिठयोः सः एव । दासरूपं नाम वाहीकग्रामः । तस्मातुभयं प्राप्नोति । तौ च अपि ठञ्ञिठौ परत्वात्योपधलक्षणः वुञ्बाधते । दासरूप्यकः । उदीच्यग्रामात्च बह्वचः अन्तोदात्तातञ्भवति इति अस्य अवकाशः शिवपुर शैवपुरः । ठञ्ञिठयोः सः एव । शाकलं नाम वाहीकग्रामः । तस्मातुभयं प्राप्नोति । शाकलिकी शाकलिका । कोपधातण्भवति इति अस्य अवकाशः निलीनकः नैलीनकः । ठञ्ञिठयोः सः एव । सौसुकं नाम वाहीकग्रामः । तस्मातुभयं प्राप्नोति । तौ च अपि ठञ्ञिठौ परत्वात्कोपधलक्षणः छः बाधते । सौसुकीयः । (कात्यायन वार्तिक)न वा ठञादीनां छापवादत्वात्तद्विषये च अभावातितरेषाम्(वार्तिकान्त) । न वा अर्थः विप्रतिषेधेन । किं कारणं । ठञादीनां छापवादत्वात। ठञादयः छापवादाः । तद्विषये च अभावातितरेषां । तद्विषये छविषये त्यबादीनां अभावः । (कात्यायन वार्तिक)कोपधातणः पुनर्वचनं अन्यनिवृत्त्यर्थम्(वार्तिकान्त) । अयं च अपि अयुक्तः विप्रतिषेधः यः अयं कोपधातणः छस्य च । किं कारणं । कोपधातणः पुनर्वचनं अन्यनिवृत्त्यर्थं । सिद्धः अत्र अणुत्सर्गेण एव । तस्य पुनर्वचने एतत्प्रयोजनं ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थं । सः यथा एव तदपवादं अञं बाधते एवं छं अपि बाधेत । (कात्यायन वार्तिक)तस्मातन्तोदात्ते कोपधप्रतिषेधः(वार्तिकान्त) । तस्मातन्तोदात्ते कोपधातञः प्रतिषेधः वक्तव्यः । न वक्तव्यः । मध्ये अपवादाः पूर्वान्विधीन्बाधन्ते इति एवं कोपधातणञं एव बाधिष्यते । छं न बाधिष्यते । (कात्यायन वार्तिक)छातोः देशे कालात्ठञ्(वार्तिकान्त) । छातोः देशे ठञ्कालात्ठञिति एतत्भवति विप्रतिषेधेन । छस्य अवकाशः शालीयः मालीयः । ओः देशे ठञ्भवति इति अस्य अवकाशः निषाहकर्षू नैषाहकर्षुकः [ऱः निषादकर्षूः नाम देशः नैषादकर्षुकः ] । इह उभयं प्राप्नोति । दाक्षिकर्षुकः । कालात्ठञ्भवति इति अस्य अवकाशः आर्धमासिकं सांवत्सरिकं । छस्य सः एव। मासातुभयं प्राप्नोति । मासिकं । (कात्यायन वार्तिक)नक्षत्रातण्(वार्तिकान्त) । नक्षत्रातण्छात्भवति विप्रतिषेधेन । अणः अवकाशः तैषः पौषः । छस्य सः एव । स्वातेः उभयं प्राप्नोति । सौवातः । (कात्यायन वार्तिक)अव्ययात्ट्युट्युलौ(वार्तिकान्त) । अव्ययात्ट्युट्युलौ छात्भवतः विप्रतिषेधेन । ट्युट्युलयोः अवकाशः दोषान्तनं दिवातनं । छस्य सः एव। प्रातःशब्दातुभयं प्राप्नोति । प्रातस्तनं । (कात्यायन वार्तिक)शरीरावयवात्यत्(वार्तिकान्त) । शरीरावयवात्यत्छात्भवति विप्रतिषेधेन । यतः अवकाशः दन्त्यं ओष्ठ्यं । छस्य सः एव । पादशब्दातुभयं प्राप्नोति । पद्यं । (कात्यायन वार्तिक)वर्गान्तात्च अशब्दे यत्खौ(वार्तिकान्त) । वर्गान्तात्च अशब्दे यत्खौ छात्भवतः विप्रतिषेधेन । यत्खयोः अवकाशः अक्रूरवग्यः अक्रूरवर्गीणः । छस्य सः एव । वासुदेववर्गातुभयं प्राप्नोति । वासुदेवावर्ग्यः वासुदेववर्गीणः । (कात्यायन वार्तिक)बह्वचः अन्तोदात्तात्वुञ्(वार्तिकान्त) । बह्वचः अन्तोदात्तात्ठञ्छात्भवति विप्रतिषेधेन । ठञः अवकाशः नतानन नातानतिकः । छस्य सः एव । सामस्तातुभयं प्राप्नोति । सामस्तिकः । (कात्यायन वार्तिक)आयस्थानेभ्यः ठक्(वार्तिकान्त) । आयस्थानेभ्यः ठक्छात्भवति विप्रतिषेधेन । ठकः अवकाशः शौल्किकं गौल्किकं । छस्य सः एव । आपणातुभयं प्राप्नोति । आपणिकं । विद्यायोनिसम्बन्धेभ्यः वुञ। विद्यायोनिसम्बन्धेभ्यः वुञ्छात्भवति विप्रतिषेधेन । वुञः अवकाशः औपाध्यायकं पैतामहकं । छस्य सः एव । इह उभयं प्राप्नोति । आचार्यकं मातुलकं । (कात्यायन वार्तिक)ऋतः ठञ्(वार्तिकान्त) । ऋतः ठञ्छात्भवति विप्रतिषेधेन । ठञः अवकाशः हौतृकं स्वासृकं । छस्य सः एव । इह उभयं प्राप्नोति । शास्तृकं भ्रातृकं । (कात्यायन वार्तिक)रूप्यमयटौ(वार्तिकान्त) । रूप्यमयटौ छात्भवतः विप्रतिषेधेन । रूप्यमयटोः अवकाशः देवदत्तरूप्यं देवदत्तमयं । छस्य सः एव । वायुदत्तातुभयं प्राप्नोति । वायुदत्तरूपं वायुदत्तमयं । (कात्यायन वार्तिक)अचित्तात्ठक्(वार्तिकान्त)
। अचित्तात्ठक्छात्भवति विप्रतिषेधेन । ठकः अवकाशः आपूपिकः शाष्कुलिकः मौदकिकः । छस्य सः एव । पायसातुभयं प्राप्नोति । पायसिकः । (कात्यायन वार्तिक)गोत्रक्षत्रियाख्येभ्यः बहुलं वुञ्(वार्तिकान्त) । गोत्रक्षत्रियाख्येभ्यः बहुलं वुञ्छात्भवति विप्रतिषेधेन । वुञः अवकाशः ग्लौचुकायनः त्रैगर्तकः । छस्य सः एव । इह उभयं प्राप्नोति । गार्गिकः वात्सकः मालवकः । (कात्यायन वार्तिक)णिनिः अन्तेवासिब्राह्मणेभ्यः(वार्तिकान्त) । णिनिः अन्तेवासिब्राह्मणेभ्यः छात्भवति विप्रतिषेधेन । णिनेः अवकाशः हारिद्रविणः त्ॐबुरविणः भाल्लविनः । छस्य सः एव । इह उभयं प्राप्नोति । आरुणिनः शाट्यायनिनः । (कात्यायन वार्तिक)पत्त्रपूर्वातञ्(वार्तिकान्त) । पत्त्रपूर्वातञ्छात्भवति विप्रतिषेधेन । अञः अवकाशः उष्ट्र औष्ट्रं औष्ट्ररथं । छस्य सः एव । इह उभयं प्राप्नोति । वामी वामं वामीरथं । (कात्यायन वार्तिक)द्वन्द्वात्वुन्वैरमैथुनिकयोः(वार्तिकान्त) । द्वन्द्वात्वुन्वैरमैथुनिकयोः छात्भवति विप्रतिषेधेन । वुनः अवकाशः अहिनकुलिका । छस्य सः एव । इह उभयं प्राप्नोति । काकोलूकिक श्वावराहिका । (कात्यायन वार्तिक)गोत्रचरणात्वुञ्(वार्तिकान्त) । गोत्रचरणात्वुञ्छात्भवति विप्रतिषेधेन । वुञः अवकाशः ग्लौचुकायनकं म्लौचुकायनकं काठकं कालापकं । छस्य सः एव । इह उभयं प्राप्नोति । गार्गकं वात्सकं मौदकं पैप्पलादकं । (कात्यायन वार्तिक)कण्वादीञः अण्विधेः(वार्तिकान्त) । कण्वादिभ्यः अण्भवति ईञः अण्भवति इति एतस्मात्वुञ्भवति विप्रतिषेधेन । कण्वादिभ्यः अण्भवति ईञः अण्भवति इति अस्य अवकाशः काण्वाः दण्डमाणवाः दाक्षाः दण्डमाणवाः । वुञः सः एव । इह उभयं प्राप्नोति । काण्वकं दाक्षकं । ट्(कात्यायन वार्तिक)हञ्ञिठाभ्यां ओः देशे ठञ्(वार्तिकान्त) । ठञ्ञिठाभ्यां ओः देशे ठञिति एतत्भवति विप्रतिषेधेन । ठञ्ञिठयोः अवकाशः कारन्तविकी कारन्तविका [ऱः कारतन्तविकी कारतन्तविका] । ओः देशे ठञ्भवति इति अस्य अवकाशः निषाहकर्षू नैषाहकर्षुकः [ऱः निषादकर्षूः नाम देशः नैषादकर्षुकः ] । इह उभयं प्राप्नोति । नापितवास्तुकः । ठञ्भवति विप्रतिषेधेन । (कात्यायन वार्तिक)न वा ठञः अनवकाशत्वात्(वार्तिकान्त) । न वा अर्थः विप्रतिषेधेन । किं कारणं । ठञः अनवकाशत्वात। अनवकाशः ठञ्ठञ्ञिठौ बाधिष्यते । ननु च इदानीं एव अवकाशः प्रक्¯प्तः । यत्वृद्धं अनुवर्णान्तं वाहीकग्रामः सः ठञ्ञिठयोः अवकाशः । यतवृद्धं उवर्णान्तं सः ठञः अवकाशः । यत्वृद्धं उवर्णान्तं वाहीकग्रामः तस्मातुभयं प्राप्नोति । एवं तर्हि न अयं अस्य विप्रतिषेधस्य उपालम्भः । कस्य तर्हि । छातोः देशे कालात्ठञिति एतस्य । ननु च तत्र अपि अवकाशः प्रक्¯प्तः । यत्वृद्धं उवर्णान्तं सः छस्य अवकाशः । यतवृद्धं उवर्णान्तं सः ठञः अवकाशः । यत्वृद्धं उवर्णान्तं देशः च तस्मातुभयं प्राप्नोति । एवं तर्हि वृद्धात्प्राचां इति अनेन वृद्धग्रहणेन किं क्रियते । यावत्ब्रूयात्पूर्वस्मिन्योगे वृद्धात्च अवृद्धात्च इति । यतेतस्मिन्योगे वृद्धग्रहणं ततनवकाशं । तस्य अनवकाशत्वातयुक्तः विप्रतिषेधः । (कात्यायन वार्तिक)योपधप्रस्थादीनां वुञ्(वार्तिकान्त) । योपधप्रस्थादीनां वुञ्ठञ्ञिठाभ्यां भवति विप्रतिषेधेन । योपधात्वुञ्भवति इति अस्य अवकाशः साङ्काश्य साङ्कास्यकः । ठञ्ञिठयोः सः एव । दासरूप्यं नाम वाहीकग्रामः । तस्मातुभयं प्राप्नोति । दासरूप्यकः । प्रस्थानान्तात्वुञ्भवति इति अस्य अवकाशः मालाप्रस्थ पालाप्रस्थकः । ठञ्ञिठयोः सः एव । पातानप्रस्थं नाम वाहीकग्रामः । तस्मातुभयं प्राप्नोति । पातानप्रस्थकः । पुरान्तात्वुञ्भवति इति अस्य अवकाशः काञ्चीपुर काञ्चीपुरकः । ठञ्ञिठयोः सः एव । नान्दीपुरं नाम वाहीकग्रामः । तस्मातुभयं प्राप्नोति । नान्दीपुरकः । वहान्तात्वुञ्भवति इति अस्य अवकाशः वातवह वातवहकः । ठञ्ञिठयोः सः एव । कौक्कुडीवहं नाम वाहीकग्रामः । तस्मातुभयं प्राप्नोति । कौक्कुडीवहकः । (कात्यायन वार्तिक)ओः च ठञः(वार्तिकान्त) । ओः च ठञः वुञ्भवति विप्रतिषेधेन । ओः ठञः अवकाशः नैषाहकर्षुकः [ऱः नैषादकर्षुकः ] । वुञः सः एव । आप्रीतमायोः उभयं प्राप्नोति । आप्रीतमायवकः । (कात्यायन वार्तिक)जनपदानां अकाणौ(वार्तिकान्त) । जनपदानां अकाणौ ओः ठञः भवतः विप्रतिषेधेन । अकस्य अवकाशः अङ्गाः आङ्गकः । ओः ठञः सः एव । जिह्नवः नाम जनपदः । तस्मातुभयं प्राप्नोति । जैह्नवकः । अणः अवकाशः । ऋषिक आर्षिकः । ओः ठञः सः एव । इक्ष्वाकवः नाम जनपदः । तस्मातुभयं प्राप्नोति । इक्ष्वाकः । (कात्यायन वार्तिक)न वा वुञपवादत्वातणः(वार्तिकान्त) । न वा अर्थः विप्रतिषेधेन । किं कारणं । वुञपवादत्वातणः । वुञपवादः अण। वुञ्च ओः ठञं बाधिष्यते । (कात्यायन वार्तिक)कोपधातणः अकान्तात्छः(वार्तिकान्त) । कोपधातण्भवति इति एतस्मातकान्तात्छः भवति विप्रतिषेधेन । कोपधातण्भवति इति अस्य अवकाशः निलीनक नैलीनकः । अकान्तात्छः भवति इति अस्य अवकाशः आरीहणक आरीहणकीयः । ब्राह्मणकः नाम जनपदः तस्मातुभयं प्राप्नोति । ब्राह्मणकीयः । (कात्यायन वार्तिक)धन्ववुञः च(वार्तिकान्त) । धन्ववुञः च छः भवति विप्रतिषेधेन । धन्वनः वुञ्भवति इति अस्य अवकाशः पारेधन्व पारेधन्वकः । छस्य सः एव । आष्टकं नाम धन्व । तस्मातुभयं प्राप्नोति । आष्टकीयः । (कात्यायन वार्तिक)न वा छस्य पुनर्वचनं छापवादनिवृत्त्यर्थम्(वार्तिकान्त)
| न वा अर्थः विप्रतिषेधेन | किं कारणं | छस्य पुनर्वचनं छापवादनिवृत्त्यर्थं | सिद्धः अत्र छः वृद्धात्छः इति एव | तस्य पुनर्वचने एतत्प्रयोजनं ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थं | सः यथा एव अन्यान्तदपवादान्बाधते एवं इमं अपि बाधिष्यते |
(पाणिनीयसूत्र ४,२।१२४) कि.,२९९।७-१४ रो.,६८४ (कात्यायन वार्तिक)जनपदतदवह्योः वुञ्विधाने अवयवमात्रात्प्रसङ्गः(वार्तिकान्त) । जनपदतदवह्योः वुञ्विधाने अवयवमात्रात्प्राप्नोति । मौञ्जः नाम वाहीकेषु ग्रामः । तस्मिन्भवः मौञ्जीयः । एवं तर्हि जनपदातेव जनपदावधेः । (कात्यायन वार्तिक)जनपदातिति चेत्वचनानर्थक्यम्(वार्तिकान्त) । जनपदातिति चेतवधिग्रहणं अनर्थकं । सिद्धं जनपदातिति एव । इदं तर्हि प्रयोजनं । जनपदात्जनपदावदेः वुञ्यथा स्यात। यतन्यत्प्राप्नोति तत्मा भूतिति । किं च अन्यत्प्राप्नोति । छः । गर्तोत्तरपदात्छविधेः जनपदात्वुञ्पूर्वविप्रतिषिद्धं वक्ष्यति । सः पूर्वविप्रतिषेधः न पठितव्यः भवति ।
(पाणिनीयसूत्र ४,२।१२९) कि.,२९९।१६-१९ रो.,६८४-६८५ अत्यल्पं इदं उच्यते : मनुष्ये इति । पथ्यध्यायन्यायविहारमनुष्यहस्तिषु इति वक्तव्यं : आरण्यकः पन्थाः आरण्यकः अध्यायः आरण्यकः न्यायः आरण्यकः विहारः आरण्यकः मनुष्यः आरण्यकः हस्ती । वा गोमयेषु इति वक्तव्यं । आरण्यकाः गोमयाः आरण्याः गोमयाः ।
(पाणिनीयसूत्र ४,२।१३०) कि.,२९९।२१-३००।८ रो.,६८५ (कात्यायन वार्तिक)कुरुयुगन्धरेभ्यः वावचनात्मनुष्यतत्स्थयोः वुञ्विधानम्(वार्तिकान्त) । कुरुयुगन्धरेभ्यः वावचनात्मनुष्यतत्स्थयोः वुञिति एतत्भवति विप्रतिषेधेन । कुरुयुगन्धरेभ्यः वावचनस्य अवकाशः कौरवः कौरवकः यौगन्धरः यौगन्धरकः । मनुष्यतत्स्थयोः वुञ्भवति इति अस्य अवकाशः अन्ये कच्छादयः । काच्छकः मनुष्यः काच्छकं अस्य ईक्षितं जल्पितं हसितं स्मितं । इह उभयं प्राप्नोति । कौरव्कः मनुष्यः कौरवकं अस्य ईक्षितं जल्पितं हसितं स्मितं । वुञ्भवति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । न हि कुरुशब्दस्य अन्ये कच्छादयः अवकाशः । कुरुशब्दस्य यः कच्चादिषु पाठः सः अनवकाशः । न खलु अपि कुरुशब्दः विभाषां प्रयोजयति । अनेन वुञ्कच्छादिपाठातण्भविष्यति । सा एषा युगन्धरार्था विभाषा ।
(पाणिनीयसूत्र ४,२।१३३) कि.,३००।१०-१५ रो.,६८६ किमर्थं साल्वानां कच्छादिषु पाठः क्रियते । (कात्यायन वार्तिक)साल्वानां कच्छादिषु पाठः अण्विधानार्थः(वार्तिकान्त) । साल्वानां कच्छादिषु पाठः अण्विधानार्थः क्रियते । अण्यथा स्यात। वुञ्मा भूतिति । (कात्यायन वार्तिक)न वा अपदातियोगवाग्रहणं अवधारणार्थम्(वार्तिकान्त) । न वा एतत्प्रयोजनं । किं कारणं । अपदातियोगवाग्रहणं अवधारणार्थं भविष्यति । अपदातौ एव साल्वात। गोयवाग्वोः एव च साल्वातिति ।
(पाणिनीयसूत्र ४,२।१३७) कि.,३००।१७-२२ रो.,६८६ (कात्यायन वार्तिक)गर्तोत्तरपदात्छविधेः जनपदात्वुञ्पूर्वविप्रतिषिद्धम्(वार्तिकान्त) । गर्त्तोत्तरपदात्छविधेः जनपदात्वुञ्भवति पूर्वविप्रतिषेधेन । गर्त्तोत्तरपदात्छः भवति इति अस्य अवकाशः श्वाविद्गर्त श्वाविद्गर्तीयः । वुञः अवकाशः अङ्गाः आङ्गकः । इह उभयं प्राप्नोति । त्रैगर्तकः । वुञ्भवति पूर्वविप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । उक्तं एव अवधिग्रहणस्य प्रयोजनं जनपदात्जनपदावदेः वुञ्यथा स्यात। यतन्यत्प्राप्नोति तत्मा भूतिति ।
(पाणिनीयसूत्र ४,२।१३८) कि.,३०१।२-६ रो.,६८७ (कात्यायन वार्तिक)गहादिषु पृथिवीमध्यस्य मध्यमभावः(वार्तिकान्त) । गहादिषु पृथिवीमध्यस्य मध्यमभावः वक्तव्यः । पृथिवीमध्ये भवः मध्यमीयः । (कात्यायन वार्तिक)चरणसम्बन्धेन निवासलक्षणः अण्(वार्तिकान्त) । चरणसम्बन्धेन निवासलक्षणः अण्वक्तव्यः । त्रयः प्राच्याः त्रयः माध्यमाः । सर्वे निवासलक्षणाः ।
(पाणिनीयसूत्र ४,२।१४१) कि.,३०१।८-१२ रो.,६८७-६८८ ईकान्तातपि इति वक्तव्यं इह यथा स्यात। ऐणीकीयः । तत्तर्हि वक्तव्यं । न वक्तव्यं । (कात्यायन वार्तिक)अकेकान्तग्रहणे कोपधग्रहणं सौसुकाद्यर्थम्(वार्तिकान्त) । अकेकान्तग्रहणे कोपधग्रहणं कर्तव्यं । किं प्रयोजनं । सौसुकाद्यर्थं । सौसुकीयः ।
(पाणिनीयसूत्र ४,३।१) कि.,३०२।२-७ रो.,६८९ (कात्यायन वार्तिक)युष्मदस्मद्भ्यां प्रत्ययविधाने योगविभागः(वार्तिकान्त) । युष्मदस्मद्भ्यां प्रत्ययविधाने योगविभागः कर्तव्यः । युष्मदस्मदोः अन्यतरस्यां छः भवति । युष्मदीयः अस्मदीयः । ततः खञ्च । खञ्च भवति युष्मदस्मदोः अन्यतरस्यां । यौष्मकीणः आस्माकीनः । किमर्थः योगविभागः । (कात्यायन वार्तिक)समसङ्ख्याप्रतिषेधार्थः(वार्तिकान्त) । सङ्ख्यातानुदेशः मा भूतिति ।
(पाणिनीयसूत्र ४,३।२) कि.,३०२।९-१६ रो.,६९० (कात्यायन वार्तिक)आदेशवचने च(वार्तिकान्त) । किं । योगविभागः कर्तव्यः । तस्मिनणि युष्माकास्माकौ भवतः । यौष्माकः आस्माकः । ततः खञि । खञि च युष्माकास्माकौ भवतः । यौष्माकीणः आस्माकीनः । किमर्थः योगविभागः । समसङ्ख्याप्रतिषेधार्थः इति एव । (कात्यायन वार्तिक)तत्र पुनः खञ्ग्रहणम्(वार्तिकान्त) । तत्र पुनः खञ्ग्रहणं कर्तव्यं । न हि अन्तरेण खञ्ग्रहणं योगाङ्गं उपजायते । तत्तर्हि वक्तव्यं । न वक्तव्यं । एवं वक्ष्यामि । तस्मिन्खञि युष्माकास्माकौ भवतः । ततः अणि च । अणि चयुष्माकास्माकौ भवतः इति ।
(पाणिनीयसूत्र ४,३।३) कि.,३०२।१८-३०३।७ रो.,६९०-६९१ (कात्यायन वार्तिक)एकार्थग्रहणं च(वार्तिकान्त) । एकार्थग्रहणं च कर्तव्यं । एकार्थयोः युष्मदस्मदोः इति वक्तव्यं । किमर्थं न एकवचने इति एव सिद्धं । न सिध्यति । किं कारणं । एकवचनाभावात। एकवचने इति उच्यते । न च अत्र एकवचनं पश्यामः । यदि पुनः एकवचनपरत्वेन अण्खञौ विशेष्येयातां । न एवं शक्यं । इह हि प्रसज्येयातां । युष्माकं छात्रः यौष्माकीणः । आस्माकीनः । इह च न स्यातां । तव छात्राः तावकीनाः । मामकीनाः । तस्मात्न एवं शक्यं । न चेतेवं एकार्थग्रहणं कर्तव्यं । न कर्तव्यं । न इदं पारिभाषिकस्य एकवचनस्य ग्रहणं । किं तर्हि । अन्वर्थग्रहणं । उच्यते वचनं । एकस्य अर्थस्य वचनं एकवचनं ।
(पाणिनीयसूत्र ४,३।४) कि.,३०३।९-१६ रो.,६९१-६९२ (कात्यायन वार्तिक)अर्धात्यद्विधाने सपूर्वात्ठञ्(वार्तिकान्त) । अर्धात्यद्विधाने सपूर्वात्ठञ्वक्तव्यः । बालेयार्धिकः गौतमार्धिकः । (कात्यायन वार्तिक)दिक्पूर्वपदात्यत्च(वार्तिकान्त) । दिक्पूर्वपदात्यत्च ठञ्च वक्तव्यः । पूर्वार्ध्यः पौर्वार्धिकः दक्षिणार्ध्यः दाक्षिणार्धिकः उत्तरार्ध्यः औत्तरार्धिकः । किमर्थं इदं उच्यते यदा आद्यन्यासे एव दिक्पूर्वपदातर्धातुभयं उच्यते । इदं अद्य अपूर्वं क्रियते : अर्धात्यद्विधाने सपूर्वात्ठञिति । तत्द्वेष्यं विजानीयातः सर्वं विकल्पते इति । तताचार्यः सुहृत्भूत्वा अन्वाचष्ते : दिक्पूर्वपदात्यथान्यासं एव भवति इति ।
(पाणिनीयसूत्र ४,३।१५) कि.,३०३।१८-३०४।५ रो.,६९२-६९३ (कात्यायन वार्तिक)श्वसः तुटि आदेशानुपपत्तिः अनादित्वात्(वार्तिकान्त) । श्वसः तुटि कृते आदेशानुपपत्तिः । किं कारणं । अनादित्वात। तुटि कृते अनादित्वातादेशः न प्राप्नोति । एवं तर्हि पूर्वान्तः करिष्यते । (कात्यायन वार्तिक)पूर्वान्ते कप्रतिषेधः(वार्तिकान्त) । यदि पूर्वान्तः कादेशस्य प्रतिषेधः वक्तव्यः । शौवस्तिकं । तान्तातिति कादेशः प्राप्नोति । अस्तु तर्हि परादिः । ननु च उक्तं श्वसः तुटि आदेशानुपपत्तिः अनादित्वातिति । (कात्यायन वार्तिक)सिद्धं तु आदिष्टस्य तुड्वचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । तुडादिष्टस्य इति वक्तव्यं । अथ वा चेन सन्नियोगः करिष्यते । तुट्च । किं च । यत्च अन्यत्प्राप्नोति । किं च अन्यत्प्राप्नोति । आदेशः ।
(पाणिनीयसूत्र ४,३।२२) कि.,३०४।७-१४ रो.,६९३-६९४ (कात्यायन वार्तिक)हेमन्तस्य अणि तलोपवचनानर्थक्यं हेम्नः प्रकृत्यन्तरत्वात्(वार्तिकान्त) । हेमन्तस्य अणि तलोपवचनं अनर्थकं । किं कारणं । हेम्नः प्रकृत्यन्तरत्वात। प्रकृत्यन्तरं हेमन्शब्दः । आतः च प्रकृत्यन्तरं । एवं हि आह । हेमन्हेमनागनीगन्ति कर्णौ । तस्मातेतौ हेमन्न शुष्यतः इति । (कात्यायन वार्तिक)अलोपदर्शनात्च(वार्तिकान्त) । अलोपः खलु अपि दृश्यते । पङ्क्तिः हैमन्ती इति । अपरः आह : हेमन्तस्य अण्वचनं अणि च तलोपवचनं अनर्थकं । किं कारणं । हेम्नः प्रकृत्यन्तरत्वातलोपदर्शनात्च इति एव । तत्र ऋतुभ्यः इति एव सिद्धं ।
(पाणिनीयसूत्र ४,३।२३।१) कि.,३०४।१६-१९ रो.,६९४ चिरपरुत्परारिभ्यः त्नः वक्तव्यः । चिरत्नं परुत्त्नं परारित्नं । प्रगस्य छन्दसि गलोपः च त्नः च वक्तव्यः । प्रत्नं आत्मानं । अग्रादिपश्चात्डिमुच्स्मृतः । अग्रिमं आदिमं पश्चिमं । अन्तात्च इति वक्तव्यं । अन्तिमम।
(पाणिनीयसूत्र ४,३।२३।२) कि.,३०४।२०-३०५।२० रो.,६९५-६९६ अथ सायचिरयोः किं निपात्यते । (कात्यायन वार्तिक)सायचिरयोः मकारान्तत्वं प्रत्ययसन्नियुक्तम्(वार्तिकान्त) । सायचिरयोः मकारान्तत्वं प्रत्ययसन्नियोगेन निपात्यते । सायन्तनं चिरन्तनं । न एततस्ति प्रयोजनं । मकारान्तः सायंशब्दः । कथं सायाह्नः । सायमः अह्ने मलोपः । सायमः अह्ने मलोपः वक्तव्यः । कथं सायतरे । तरे च इति वक्तव्यं । कथं सायं साये । वा सप्तम्यां इति वक्तव्यं । अथ प्राह्णप्रगयोः किं निपात्यते । (कात्यायन वार्तिक)प्राह्णप्रग्योः एकारान्तत्वम्(वार्तिकान्त) । प्राह्णप्रग्योः एकारान्तत्वं निपात्यते । प्राह्णेतनं प्रगेतनं । न एततस्ति प्रयोजनं । सप्तम्याः अलुका अपि सिद्धं । भवेत्सिद्धं यदा सप्तमी । यदा तु अन्या विभक्तिः तदा न सिध्यति । (कात्यायन वार्तिक)तुटि उक्तम्(वार्तिकान्त) । किं उक्तं । तुटि आदेशानुपपत्तिः अनादित्वातिति । तुटि कृते अनादित्वातादेशः न प्राप्नोति । एवं तर्हि पूर्वान्तः करिष्यते । (कात्यायन वार्तिक)पूर्वान्ते विसर्जनीयः(वार्तिकान्त) । यदि पूर्वान्तः विसर्जनीयः वक्तव्यः । प्रातस्तनं पुनस्तनं । परादौ पुनः सति खरवसानयोः विसर्जनीयः इति विसर्जनीयः सिद्धः भवति । अस्तु तर्हि परादिः । ननु च उक्तं तुटि कृते अनादित्वातादेशः न प्राप्नोति इति । (कात्यायन वार्तिक)सिद्धं तु आदिष्टस्य तुड्वचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । तुडादिष्टस्य इति वक्तव्यं । अथ वा चेन सन्नियोगः करिष्यते । तुट्च । किं च । यत्च अन्यत्प्राप्नोति । किं च अन्यत्प्राप्नोति । आदेशः ।
(पाणिनीयसूत्र ४,३।२४) कि.,३०५।२२-३०६।२७ रो.,६९७-७०० (कात्यायन वार्तिक)पूर्वाह्णापराह्णाभ्यां सुबन्तवचनं सप्तमीश्रवणाऋथम्(वार्तिकान्त) । पूर्वाह्णापराह्णाभ्यां सुबन्तत्वं वक्तव्यं । किं प्रयोजनं । सप्तमीश्रवणाऋथं । सप्तम्याः श्रवणं यथा स्यात। पूर्वाह्णेतनं अपराह्णेतनं । तत्तर्हि वक्तव्यं । न वक्तव्यं । आचार्यप्रवृत्तिः ज्ञापयति भवति अत्र सप्तमी इति यतयं घकालतनेषु कालनाम्नः इति सप्तम्याः अलुकं शास्ति । (कात्यायन वार्तिक)अलुग्वचनं ज्ञापकं इति चेतव्ययात्सप्तमीप्रसङ्गः(वार्तिकान्त) । अलुग्वचनं ज्ञापकं इति चेतव्ययात्सप्तमी प्राप्नोति । दोषातनं दिवातनं । अस्तु अव्ययातिति लुक्भविष्यति । इह अपि लुक्प्राप्नोति । पूर्वाह्णेतनं अपराह्णेतनं । अलुकत्र लुकं बाधिष्यते । इह अपि बाधेत । दोषातनं दिवातनं । समानाश्रयः लुकलुका बाध्यते । कः च समानाश्रयः । यः प्रत्ययाश्रयः । अत्र च प्राकेव प्रत्ययोत्पत्तेः लुक्भवति । न सिध्यति । इह हि सति प्रत्यये लुका भवितव्यं । सति लुकि अलुका भवितव्यं । तत्र च प्रत्ययः एव न अस्ति । कुतः लुक्भविष्यति । सा एषा ज्ञापकेन असती विभक्तिः आकृष्यते । सा यथा इह बाधिका भवति पूर्वाह्णेतनं अपराह्णेतनं एवं इह अपि स्यात्दोषातनं दिवातनं । एवं तर्हि न ब्रूमः अलुग्वचनं ज्ञापकं भवति अत्र सप्तमी इति । किं तर्हि । भवति सुबन्तातुत्पत्तिः इति । किं पुनः ज्ञाप्यं एतत्यावता समर्थानां प्रथमात्वा इति वर्तते सामर्थ्यं च सुबन्तेन । ज्ञाप्यं इति आह । कथं । ङ्याप्प्रातिपदिकातिति अपि वर्तते । तत्र कुतः एतत्सुबन्तातुत्पत्तिः भविष्यति न पुनः ङ्याप्प्रातिपदिकातिति । कथं यतुक्तं वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणे च प्रत्ययविधौ तत्सम्प्रत्ययार्थं इति । समर्थस्य यत्वृद्धं ङ्याप्प्रातिपदिकं इति एतत्विज्ञायते । यदि एतत्ज्ञप्यते कथं द्विपदः आगतं द्विपाद्रूप्यं प्रष्ठौहः आगतं प्रष्ठ्वाड्रूप्यं कीलालपः आगतं कीलालपारूप्यं पपुषः आगतं पपिवड्रूप्यं । पद्भावः ऊहाकारलोपः प्रसारणं इति एते विधयः प्राप्नुवन्ति । लुके कृते न भविष्यन्ति । इह तर्हि सामसु साधुः सामन्यः वेमन्यः नलोपः प्रातिपदिकान्तस्य इति नलोपः प्राप्नोति । लुकि कृते भत्वात्न भविष्यति । इदं इह सम्प्रधार्यं । लुक्क्रियतां नलोपः इति । किं अत्र कर्तव्यं । परत्वात्नलोपः । एवं तर्हि इदं इह सम्प्रधार्यं । नलोपः क्रियतां तद्धितोत्पत्तिः इति । किं अत्र कर्तव्यं । परत्वात्नलोपः । असिद्धः नलोपः । तस्य असिद्धत्वात्तद्धितोत्पत्तिः भविष्यति । परिगणितेषु कार्येषु नलोपः असिद्धः न च इदं तत्र परिगण्यते । इदं अपि तत्र परिगण्यते । कथं । सुब्विधिः इति सर्वविभक्त्यन्तः समासः : सुपः विधिः सुब्विधिः , सुबन्तात्विधिः सुब्विधिः इति ।
(पाणिनीयसूत्र ४,३।२५) कि.,३०७।२-१८ रो.,७००-७०१ किमर्थं जातादयः अर्थाः निर्दिश्यन्ते । जातादिषु अर्थेषु घादयः यथा स्युः । स्वार्थे मा भूवनिति । न एततस्ति प्रयोजनं । शेषे इति वर्तते । तेन स्वार्थे न भविष्यन्ति । अतः उत्तरं पठत। (कात्यायन वार्तिक)तत्रजातादिषु वचनं नियमार्थम्(वार्तिकान्त) । नियमार्थः अयं आरम्भः । जातादिषु एव घादयः यथा स्युः । इह मा भूवन। तत्र आस्ते तत्र शेते इति । यदि नियमः क्रियते दार्षदाः सक्तवः औलूखलः यावकः इति न सिध्यति । संस्कृतं इति एवं भविष्यति । भवेत्सिद्धं दार्षदाः सक्तवः इति । इदं तु न सिध्यति : औलूखलः यावकः इति । संस्कृतं हि नाम तत्भवति यत्ततः एव अपकृष्य अभ्यवह्रियते । न च यावकः उलूखलातेव अपकृष्य अभ्यवह्रियते । अवश्यं रन्धनादीनि प्रतीक्ष्याणि । तस्मात्न अर्थः अनेन नियमेन । कस्मात्न भवति : तत्र आस्ते तत्र शेते इति । अनभिधानात। तत्च अवश्यं अनभिधानं आश्रयितव्यं । क्रियमाणेषु अपि हि अर्थनिर्देशेषु यत्र जातादिषु उत्पद्यमानेन प्रत्ययेन अर्थस्य अभिधान न भवति न भवति तत्र प्रत्ययोत्पत्तिः । तत्यथा : अङ्गुल्या खनति वृक्षमूलातागतः इति । न तर्हि इदानीं जातादयः अर्थाः निर्देष्टव्याः । निर्देष्टव्याः च । किं प्रयोजनं । अपवादविधानार्थं । प्राविषः ठप। प्रावृषि जातः प्रावृषकः । क्व मा भूत। प्रावृषि भवः प्रावेषेण्याः बलाहकाः । यानि तु एतानि निरपवादानि अर्थापदेशानि तानि शक्यानि अकर्तुं । कृतलब्धक्रीतकुशलाः । स्रौघ्नः देवदत्तः इति ।
(पाणिनीयसूत्र ४,३।३४) कि.,३०७।२१-३०८।८ रो.,७०२ (कात्यायन वार्तिक)लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियां उपसङ्ख्यानम्(वार्तिकान्त) । लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियां उपसङ्ख्यानं कर्तव्यं । चित्रायां जाता चित्रा स्त्री चित्रा । रेवती रेवती स्त्री रेवती । रोहिणी रोहिणी स्त्री । (कात्यायन वार्तिक)फल्गुन्यषाढाभ्यां टानौ(वार्तिकान्त) । फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ । फल्गुनी । अषाढाः उपदधाति । (कात्यायन वार्तिक)श्रविष्ठाषाढाभ्यां छण्(वार्तिकान्त) । श्रविष्ठाषाढाभ्यां छण्वक्तव्यः । श्राविष्ठीयाः आषाढीयाः । (कात्यायन वार्तिक)न वा नक्षत्रेभ्यः बलुलं लुग्वचनात्(वार्तिकान्त) । न वा वक्तव्यः । किं कारणं । नक्षत्रेभ्यः बलुलं लुग्वचनात। नक्षत्रेभ्यः बलुलं लुकिति एवं अत्र लुक्भविष्यति ।
(पाणिनीयसूत्र ४,३।३९) कि.,३०८।१०-२३ रो.,७०३-७०४ (कात्यायन वार्तिक)प्रायभवग्रहणं अनर्थकं तत्रभवेन कृतत्वात्(वार्तिकान्त) । प्रायभवग्रहणं अनर्थकं । किं कारणं । तत्रभवेन कृतत्वात। यः हि राष्ट्रे प्रायेण भवति तत्र भवः असौ भवति । तत्र तत्र भवः इति एव सिद्धं । न सिध्यति । अनित्यभवः प्रायभवः । (कात्यायन वार्तिक)अनित्यभवः प्रायभवः इति चेत्मुक्तसंशयेन तुल्यम्(वार्तिकान्त) । यत्भवान्मुक्तसंशयं तत्र भवे उदाहरणं न्याय्यं मन्यते स्रौघ्नः देवदत्तः इति तेन एतत्तुल्यं । सः अपि हि अवश्यं उदक्देशादीनि अभिनिष्क्रामति । अथ एतत्भवान्प्रायभवे उदाहरणं न्याय्यं मन्यते तत्र भवे किं उदाहरणं । यत्तत्र नित्यं भवति । स्रौघ्नाः प्रासादाः स्रौघ्नाः प्राकाराः इति । एवं तर्हि तत्र भवति इति प्रकृत्य जीह्वामूलाङ्गुलेः छः विधीयते । सः यथा दृष्टापचरे अङ्गुलीयं इति भवति एवं प्रयभवे अपि भविष्यति । इदं तर्हि प्रयोजनं । प्रायभवः इति प्रकृत्य उपजानूपकर्णोपनीवेः ठकं वक्ष्यति । सः प्रायभवे एव यथा स्यात। तत्र भवे मा भूत। उपजानुभवं गडु इति । अथ इदानीं तत्र भवः इति प्रकृत्य शरीरावयवात्यत्विधीयते । सः अत्र कस्मात्न भवति । अनभिधानात। सः यथा एव अनभिधानात्यत्न भवति एवं ठकपि न भविष्यति ।
(पाणिनीयसूत्र ४,३।४२) कि.,३०९।२-९ रो.,७०४-७०५ (कात्यायन वार्तिक)विकारे कोशात्ढञ्(वार्तिकान्त) । विकारे कोशात्ढञ्वक्तव्यः । कोशस्य विकारः कौशेयं । (कात्यायन वार्तिक)सम्भूते हि अर्थानुपपत्तिः(वार्तिकान्त) । सम्भूते इति हि उच्यमाने अर्थस्य अनुपपत्तिः स्यात। न हि अदः कोशे सम्भवति । किं तर्हि । कोशस्य अदः विकारः । यदि विकारः इति उच्यते भस्मनि अपि प्राप्नोति । भस्म अपि कोशस्य विकारः । अथ सम्भूते इति उच्यमाने क्रिमौ कस्मात्न भवति । क्रिमिः अपि हि कोशे सम्भवति । अनभिधानात। यथा एव तर्हि अनभिधानात्क्रिमौ न भवति एवं भस्मनि अपि न भविष्यति । अर्थः च उपपन्नः भवति ।
(पाणिनीयसूत्र ४,३।४८) कि.,३०९।११-१३ रो.,७०५ अयुक्तः अयं निर्देशः । कालातिति वर्तते। न च कलापी नाम कलः अस्ति । न एषः दोषः । साहचर्यात्ताच्छब्द्यं भविष्यति । कलापिसहचरितः कालः कलापी कालः इति ।
(पाणिनीयसूत्र ४,३।५३) कि.,३०९।१५-२० रो.,७०५-७०६ तत्र इति वर्तमाने पुनः तत्रग्रहणं किमर्थं । (कात्यायन वार्तिक)तत्रप्रकरणे तत्र इति पुनर्वचनं कालनिवृत्त्यर्थम्(वार्तिकान्त) । तत्रप्रकरणे तत्र इति पुनर्वचनं क्रियते कालनिवृत्त्यर्थं । कालाधिकारः निवर्त्यते । न हि काकः वाश्यते इति एव अधिकाराः निवर्तन्ते । कः वा अभिसम्बन्धः यत्तत्रग्रहणं कालाधिकारं निवर्तयेत। एषः अभिसम्बन्धः । कालाभिसम्बद्धं तत्रग्रहणं अनुवर्तते । तत्रग्रहणं च तत्रग्रहणस्य निवर्तकं भवति । तस्मिन्निवृत्ते कालाधिकारः अपि निवर्तते ।
(पाणिनीयसूत्र ४,३।५८) कि.,३१०।२-६ रो.,७०६ (कात्यायन वार्तिक)ञ्यप्रकरणे परिमुखादिभ्यः उपसङ्ख्यानम्(वार्तिकान्त) । ञ्यप्रकरणे परिमुखादिभ्यः उपसङ्ख्यानं कर्तव्यं । पारिमुख्यं पारिहनव्यं । (कात्यायन वार्तिक)अव्ययीभावाद्विधाने उपकूलादिभ्यः प्रतिषेधः(वार्तिकान्त) । अव्ययीभावाद्विधाने उपकूलादिभ्यः प्रतिषेधः वक्तव्यः । औपकूलः औपमूलः औपशालः ।
(पाणिनीयसूत्र ४,३।६०) कि.,३१०।८-३११ ७ रो.,७०७-७०८ अत्यल्पं इदं उच्यते । (कात्यायन वार्तिक)समानस्य तदादेः च अध्यात्मादिषु च इष्यते(वार्तिकान्त) । समानस्य : सामानिकः । तदादेः : समानग्रामिकः समानदेशिकः । अध्यात्मादिषु च इष्यते । आध्यात्मिकः आधिदैविकः आधिभौतिकः । (कात्यायन वार्तिक)ऊर्ध्वन्दमात्च देहात्च(वार्तिकान्त) । ठञ्वक्तव्यः । और्ध्वन्दमिकं और्ध्वदेहिकं । (कात्यायन वार्तिक)लोकोत्तरपदस्य च(वार्तिकान्त) । ठञ्वक्तव्यः । ऐहलौकिकं पारलौकिकं । (कात्यायन वार्तिक)मुखपार्श्वतसोः ईयः(वार्तिकान्त) । मुख पार्श्व इति एताभ्यां तसन्ताभ्यां ईयः वक्तव्यः । मुखतीयः पार्श्वतीयः । (कात्यायन वार्तिक)कुक्जनस्य परस्य च(वार्तिकान्त) ।ईयः वक्तव्यः । जनकीयं परकीयं । (कात्यायन वार्तिक)ईयः कार्यः अथ मध्यस्य(वार्तिकान्त) । मध्यीयः । (कात्यायन वार्तिक)मण्मीयौ च प्रत्ययौ(वार्तिकान्त) । मण्मीयौ च अपि प्रत्ययौ वक्तव्यौ । माध्यमः मध्यमीयः । (कात्यायन वार्तिक)मध्य [ऱः मध्यः] मध्यं दिनण्च अस्मात्(वार्तिकान्त) । मध्यशब्दः मध्यशब्दं आपद्यते दिनण्च अस्मात्प्रत्ययः भवति । माध्यन्दिनः उद्गायति । (कात्यायन वार्तिक)स्थाम्नः लुकजिनात्तथा(वार्तिकान्त) । स्थाम्नः लुक्वक्तव्यः । अश्वत्थामा । अजिनान्तात्च लुक्वक्तव्यः । उलाजिनः सिंहाजिनः व्याघ्राजिनः । (कात्यायन वार्तिक)बाह्यः दैव्यः पाञ्चजन्यः गाम्भीर्यं च ञ्यः इष्यते(वार्तिकान्त) ।
(पाणिनीयसूत्र ४,३।६६।१) कि.,३११।९-३१२।२ रो.,७०९-७१० किमर्थं भवव्याख्यानयोः युगपतधिकारः क्रियते । (कात्यायन वार्तिक)भवव्याख्यानयोः युगपतधिकारः अपवादविधानार्थः(वार्तिकान्त) । भवव्याख्यानयोः युगपतधिकारः क्रियते अपवादविधानार्थः । युगपदपवादान्वक्ष्यामि इति । किं उच्यते अपवादविधानार्थः इति न पुनः निर्देशार्थः अपि स्यात। (कात्यायन वार्तिक)कृतनिर्देशौ हि तौ(वार्तिकान्त) । कृतनिर्देशौ हि एतौ अर्थौ । एकः तत्र भवः इति अपरः तस्य इदं इति । अथ व्याख्यातव्यनाम्नः ग्रहणं किमर्थं । (कात्यायन वार्तिक)तत्र व्याख्यातव्यनाम्नः ग्रहणं भवार्थम्(वार्तिकान्त) । तत्र व्याख्यातव्यनाम्नः ग्रहणं क्रियते भवार्थं । किं उच्यते भवार्थं इति न पुनः व्याख्यानार्थं अपि । (कात्यायन वार्तिक)व्याख्याने हि अवचनात्सिद्धम्(वार्तिकान्त) । व्याख्याने हि सति अन्तरेण वचनं सिद्धं । यत्प्रति व्याख्यानं इति एतत्भवति तस्मातुत्पत्तिः भविष्यति । किं प्रति एतत्भवति । व्याख्यातव्यनाम । यतुच्यते भवार्थं इति तत्न । व्याख्यानार्थं अपि व्याख्यातव्यनाम्नः ग्रहणं क्रियते । इह मा भूत। पाटलिपुत्रस्य व्याख्यानी सुकोसला इति । अथ क्रिअय्माणे अपि व्याख्यातव्यनाम्नः ग्रहणे कस्मातेव अत्र न भवति । अवयशः हि आख्यानं व्याख्यानं । पाटलिपुत्रं च अपि अवयवशः व्याचष्टे । ईदृशाः अस्य प्राकाराः इति । सत्यं एवं एतत। क्व चित्तु का चित्प्रसृततरा गतिः भवति । शब्दग्रन्थेषु च एषा प्रसृततरा गतिः भवति । निरुक्तं व्याख्यायते । व्याकरणं व्याख्यायते इति उच्यते । न कः चिताह । पाटलिपुत्रं व्याख्यायते इति ।
(पाणिनीयसूत्र ४,३।६६।२) कि.,३१२।३-१२ रो.,७१० (कात्यायन वार्तिक)भवे मन्त्रेषु लुग्वचनम्(वार्तिकान्त) । भवे मन्त्रेषु लुक्वक्तव्यः । अग्निष्टोमे भवः मन्त्रः अग्निष्टोमः । राजसूयः वाजपेयः । (कात्यायन वार्तिक)कल्पे च व्याख्याने(वार्तिकान्त) । कल्पे च व्याख्याने लुक्वक्तव्यः । अग्निष्टोमस्य व्याख्यानः कल्पः अग्निष्टोमः । राजसूयः वाजपेयः । सः तर्हि वक्तव्यः । (कात्यायन वार्तिक)न वा तादर्थ्यात्ताच्छब्द्यम्(वार्तिकान्त) । न वा वक्तव्यः । किं कारणं । तादर्थ्यात्ताच्छब्द्यं । तादर्थ्यात्ताच्छब्द्यं भविष्यति । अग्निष्टोमार्थः अग्निष्टोमः । राजसूयः वाजपेयः ।
(पाणिनीयसूत्र ४,३।६८) कि.,३१२।१४-२० रो.,७११ क्रतुग्रहणं किमर्थं । यज्ञेभ्यः इति इयति उच्यमाने ये एव सञ्ज्ञीभूतकाः यज्ञाः ततः उत्पत्तिः स्यातः आग्निष्टोमिकः राजसूयिकः वाजपेयिकः । यत्र वा यज्ञशब्दः अस्ति । नावयज्ञिकः पाकयज्ञिकः । इह न स्यात। पाञ्चौदनिकः साप्तौदनिकः शातौदनिकः । क्रतुग्रहणे पुनः क्रियमाणे न दोषः भवति । अथ यज्ञग्रहणं किमर्थं । क्रतुभ्यः इति इयति उच्यमाने ये एव सञ्ज्ञीभूतकाः क्रतवः ततः उत्पत्तिः स्यात। आग्निष्टोमिकः राजसूयिकः वाजपेयिकः । इह न स्यात। पाञ्चौदनिकः साप्तौदनिकः शातौदनिकः । यज्ञग्रहणे पुनः क्रियमाणे न दोषः भवति ।
(पाणिनीयसूत्र ४,३।७२) कि.,३१२।२२-२४ रो.,७११ (कात्यायन वार्तिक)नामाख्यातग्रहणं सङ्घातविगृहीतार्थम्(वार्तिकान्त) । नामाख्यातग्रहणं सङ्घातविगृहीतार्थं द्रष्टव्यं । नामिकः आख्यातिकः नामाख्यातिकः ।
(पाणिनीयसूत्र ४,३।८४) कि.,३१३।२-१३ रो.,७१२ अयुक्तः अयं निर्देशः । न हि असौ विदूरात्प्रभवति । किं तर्हि। वालवायात्प्रभवति विदूरे संस्क्रियते । एवं तर्हि । (कात्यायन वार्तिक)वालवायः विदूरं च(वार्तिकान्त) । वालवायः विदूरशब्दं आपद्यते ञ्यः च प्रत्ययः वक्तव्यः । (कात्यायन वार्तिक)प्रकृत्यन्तरं एव वा (वार्तिकान्त)। अथ वा प्रकृत्यन्तरं विदूरशब्दः वालवायस्य । न वै तत्र वालय्वायं विदूरः इति उपाचरन्ति । (कात्यायन वार्तिक)न वै तत्र इति चेत्ब्रूयात्जित्वरीवतुपाचरेत्(वार्तिकान्त) । तत्यथा वाणिजः वाराणसीं जित्वरीं इति उपाचरन्ति एवं वैयाकरणाः वालवायं विदुरः इति उपाचरन्ति । (कात्यायन वार्तिक)वालवायः विदूरं च । प्रकृत्यन्तरं एव वा । न वै तत्र इति चेत्ब्रूयात्जित्वरीवतुपाचरेत्(वार्तिकान्त)।
(पाणिनीयसूत्र ४,३।८६) कि.,३१३।१५-१८ रो.,७१३ अयुक्तः अयं निर्देशः । चेतनावतः एतत्भवति निष्क्रामणं वा अपक्रमणं वा द्वारं च अचेतनं । कथं तर्हि निर्देशः करत्व्यः । अभिनिष्क्रमणं द्वारं इति । सः तर्हि तथा निर्देशः करत्व्यः । न कर्तव्यः । अचेतनेषु अपि चेतनावतुपचारः दृश्यते । तत्यथा । अयं अस्य कोणः अभिनिःसृतः । अयं अभिप्रविष्टः इति ।
(पाणिनीयसूत्र ४,३।८७) कि.,३१३।२०-२२ रो.,७१३ (कात्यायन वार्तिक)अधिकृत्य कृते ग्रन्थे लु(वार्तिकान्त)P(कात्यायन वार्तिक) आख्यायिकाभ्यः बहुलम्(वार्तिकान्त) । अधिकृत्य कृते ग्रन्थे इति अत्र आख्यायिकाभ्यः बहुलं लुप्वक्तव्यः । वासवदत्ता सुमनोत्तरा । न च भवति । भैमरथी ।
(पाणिनीयसूत्र ४,३।८८) कि.,३१४।२-४ रो.,७१३ (कात्यायन वार्तिक)द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः(वार्तिकान्त) । द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः वक्तव्यः । दैवासुरं राक्षोसुरं दैवासुरी रक्षोसुरी ।
(पाणिनीयसूत्र ४,३।८९-९०) कि.,३१४।७-८ रो.,७१४ निवासाभिजनयोः कः विशेषः । निवासः नाम यत्र सम्प्रति उष्यते । अभिजनः नाम यत्र पूर्वैः उषितं ।
(पाणिनीयसूत्र ४,३।९८) कि.,३१४।१०-१३ रो.,७१४ किमर्थं वासुदेवशब्दात्वुन्विधीयते न गोत्रक्षत्रियाख्येभ्यः बहुलं वुञिति एव सिद्धं । न हि अस्ति विशेषः वासुदेवशब्दात्वुनः वा वुञः वा । ततेव रूपं सः एव स्वरः । इदं तर्हि प्रयोजनं । वासुदेवशब्दस्य पूर्वनिपातं वक्ष्यामि इति । अथ वा न एषा क्षत्रियाख्या । सञ्ज्ञा एषा तत्रभवतः ।
(पाणिनीयसूत्र ४,३।१००) कि.,३१४।१६-३१५।२ रो.,७१५ सर्ववचनं किमर्थं । (कात्यायन वार्तिक)सर्ववचनं प्रकृतिनिर्ह्रासार्थम्(वार्तिकान्त) । सर्ववचनं क्रियते प्रकृतिनिर्ह्रासार्थं । प्रकृतिनिर्ह्रासः यथा स्यात। (कात्यायन वार्तिक)तत्च मद्रवृज्यर्थम्(वार्तिकान्त) । तत्च मद्रवृज्यर्थं द्रष्टव्यं । माद्रः भक्तिः अस्य माद्रौ वा भक्तिः अस्य मद्रकः इति एव यथा स्यात। वार्ज्यः भक्तिः अस्य वार्ज्यौ वा भक्तिः अस्य वृजिकः इति एव यथा स्यात।
(पाणिनीयसूत्र ४,३।१०१) कि.,३१५।४-१९ रो.,७१६-७१७ (कात्यायन वार्तिक)प्रोक्तग्रहणं अनर्थकं तत्र अदर्शनात्(वार्तिकान्त) । प्रोक्तग्रहणं अनर्थकं । किं कारणं । तत्र अदर्शनात। ग्रामे ग्रामे काठकं कालापकं च प्रोच्यते । तत्र अदर्शनात। न च तत्र प्रत्ययः दृश्यते । (कात्यायन वार्तिक)ग्रन्थे च दर्शनात्(वार्तिकान्त) । यत्र च दृश्यते ग्रन्थः सः । तत्र कृते ग्रन्थे इति एव सिद्धं । छन्दोर्थं तर्हि इदं वक्तव्यं । न हि छन्दांसि क्रियन्ते । नित्यानि छन्दांसि । (कात्यायन वार्तिक)छन्दोर्थं इति चेत्तुलयम्(वार्तिकान्त) । छन्दोर्थं इति चेत्तुलयं एतत्भवति । ग्रामे ग्रामे काठकं कालापकं च प्रोच्यते । तत्र अदर्शनात। न च तत्र प्रत्ययः दृश्यते । ग्रन्थे च दर्शनात। यत्र च दृश्यते ग्रन्थः सः । तत्र कृते ग्रन्थे इति एव सिद्धं । ननु च उक्तं न हि छन्दांसि क्रियन्ते । नित्यानि छन्दांसि इति । यदि अपि अर्थः नित्यः या तु असौ वर्णानुपूर्वी स अनित्या । तद्भेदात्च एतत्भवति । काठकं कालापकं मौदकं पैप्पलादकं इति । न तर्हि इदानीं इदं वक्तव्यं । वक्तव्यं च । किं प्रयोजनं । यत्तेन प्रोक्तं न च तेन कृतं । माधुरी वृत्तिः । यदि तर्हि अस्य निबन्धनं अस्ति इदं एव वक्तव्यं । तत्न वक्तव्यं । ततपि अवश्यं वक्तव्यं । यत्तेन्कृतं न च तेन प्रोक्तं । वाररुचं काव्यं जालूकाः श्लोकाः ।
(पाणिनीयसूत्र ४,३।१०४) कि.,३१५।२१-३१६।१० रो.,७१८ (कात्यायन वार्तिक)प्रत्यक्षकारिग्रहणम्(वार्तिकान्त) । प्रत्यक्षकारिग्रहणं कर्तव्यं अन्तेवास्यन्तेवासिभ्यः मा भूतिति । तत्तर्हि वक्तव्यं । न वक्तव्यं । (कात्यायन वार्तिक)कलापिखाडायग्रहणं ज्ञापकं वैशम्पायनान्तेवासिषु प्रत्यक्षकारिग्रहणस्य(वार्तिकान्त) । यतयं कलापिखाडायग्रहणं करोति तत्ज्ञापयति आचार्यः न अन्तेवास्यन्तेवासिभ्यः भवति इति । कथं कृत्वा ज्ञापकं । वैशम्पायनान्तेवासी कठः कठान्तेवासी खाडायनः । वैशम्पायनान्तेवासी कलापी । यदि च अन्तेवास्यन्तेवासिभ्यः अपि स्यात्कलापिखाडायग्रहणं अनर्थकं स्यात। पश्यति तु आचार्यः न अन्तेवास्यन्तेवासिभ्यः भवति इति । ततः कलापिखाडायग्रहणं करोति । (कात्यायन वार्तिक)छन्दोग्रहणं च इतरथा हि अतिप्रसङ्गः(वार्तिकान्त) । छन्दोग्रहणं च कर्तव्यं । इतरथा हि अतिप्रसङ्गः । इतरथा हि अतिप्रसङ्गः स्यात। इह अपि प्रसज्येत । तित्तिरिणा प्रोक्ताः श्लोकाः इति ।
(पाणिनीयसूत्र ४,३।१०५) कि.,३१६।१२-१६ रो.,७१९ (कात्यायन वार्तिक)पुराणप्रोक्तेषु ब्राह्मणकल्पेषु याज्ञवल्क्यादिभ्यः प्रतिषेधः तुल्यकालत्वात्(वार्तिकान्त) । पुराणप्रोक्तेषु ब्राह्मणकल्पेषु इति अत्र याज्ञवल्क्यादिभ्यः प्रतिषेधः वक्तव्यः । याज्ञवल्कानि ब्राह्मणानि । सौलभानि इति । किं कारणं । तुल्यकालत्वात। एतानि अपि तुल्यकालानि इति ।
(पाणिनीयसूत्र ४,३।११६) कि.,३१६।१८-३१७।४ रो.,३१९-३२० (कात्यायन वार्तिक)कृते ग्रन्थे मक्षिकादिभ्यः अण्(वार्तिकान्त) । कृते ग्रन्थे इति अत्र मक्षिकादिभ्यः अण्वक्तव्यः । मक्षिकाभिः कृतं माक्षिकं । (कात्यायन वार्तिक)तद्विशेषेभ्यः च(वार्तिकान्त) । तद्विशेषेभ्यः च अण्वक्तव्यः । सरघाभिः कृतं सारघं । गार्मुतं पौत्तिकं । सः तर्हि वक्तव्यः । न वक्तव्यः । (कात्यायन वार्तिक)योगविभागात्सिद्धम्(वार्तिकान्त) । योगविभागः करिष्यते । कृते ग्रन्थे । ततः सञ्ज्ञायां । सञ्ज्ञायां च तेन कृते इति एतस्मिनर्थे यथाविहितं प्रत्ययः भवति । सरघाभिः कृतं सारघं । गार्मुतं पौत्तिकं । ततः कुलालादिभ्यः वुञ। सञ्ज्ञायां इति एव ।
(पाणिनीयसूत्र ४,३।१२०) कि.,३१८।२-३१९।१३ रो.,७२०-७२२ (कात्यायन वार्तिक)तस्य इदं इति असन्निहिते अप्राप्तिः इदमः प्रत्यक्षवाचित्वात्(वार्तिकान्त) । तस्य इदं इति असन्निहिते अप्राप्तिः । किं कारणं । इदमः प्रत्यक्षवाचित्वात। इदं इति एतत्प्रत्यक्षे वर्तते । तेन इह एव स्यात। तस्य इदं इति । तस्य अदः इति तस्य ततिति न स्यात। (कात्यायन वार्तिक)सिद्धं तु यद्योगा षष्ठी तत्र(वार्तिकान्त) । सिद्धं एतत। कथं । यद्योगा षष्ठी प्रवर्तते तत्र इति वक्तव्यं । (कात्यायन वार्तिक)अनन्तरादिषु च प्रतिषेधः(वार्तिकान्त) । अनन्तरादिषु च प्रतिषेधः वक्तव्यः । तस्य अनन्तरः तस्य समीपः इति । किं यद्योगा षष्ठी प्रवर्तते इति अतः अनन्तरादिषु प्रतिषेधः वक्तव्यः । न इति आह । सर्वथ अनन्तरादिषु प्रतिषेधः वक्तव्यः । (कात्यायन वार्तिक)सिद्धं तु परिगणनात्(वार्तिकान्त) । सिद्धं एतत। कथं । परिगणनं कर्तव्यं । (कात्यायन वार्तिक)स्वे ग्रामजनपद्मनुष्येभ्यः(वार्तिकान्त) । स्वे ग्रामजनपद्मनुष्येभ्यः इति वक्तव्यं । स्रौघ्नः माथुरः ग्राम । जनपद आङ्गकः वाङ्गकः जनपद । मनुष्य दैवदत्तः याज्ञदत्तः । (कात्यायन वार्तिक)पत्त्रात्वाह्ये(वार्तिकान्त) । पत्त्रात्वाह्ये इति वक्तव्यं । आश्वं आउष्ट्रं गार्दभं । (कात्यायन वार्तिक)रथात्रथाङ्गे(वार्तिकान्त) । रथात्रथाङ्गे इति वक्तव्यं । आश्वरथं औष्ट्ररथं गार्दभरथं । (कात्यायन वार्तिक)वहेः तुः अणिट्च(वार्तिकान्त) । वहेः त्रन्तातण्वल्तव्यः इट्च वक्तव्यः । संवोढुः स्वं सांवहित्रं । (कात्यायन वार्तिक)अग्नीधः शरणे रञ्भ च(वार्तिकान्त) । अग्नीधः शरणे रञ्वक्तव्यः भसञ्ज्ञा च वक्तव्या । अग्नीधः शरणं आग्नीध्रं । (कात्यायन वार्तिक)समिधां आधाने षेण्यण्(वार्तिकान्त) । समिधां आधाने षेण्यण्वक्तव्यः । समिधां आधानः मन्त्रः सामिधेन्यः मन्त्रः । सामिधेनी ऋक। चरणात्धर्माम्नाययोः । चरणात्धर्माम्नाययोः इति वक्तव्यं । कठानां धर्मः आम्नायः वा काठकं । कालापकं मौदुकं पैप्पलादकं इति । तत्तर्हि बहु वक्तव्यं । सूत्रं च भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं तस्य इदं इति असन्निहिते अप्राप्तिः इति । किं इदं भवान्प्रत्ययार्थं एव उपालम्भते न पुनः प्रकृत्यर्थं अपि । यथा एव हि इदं इति एतत्प्रत्यक्षे वर्तते एवं ततिति एतत्परोक्षे वर्तते । तेन इह एव स्यात। तस्य इदं इति । अस्य अमुष्य इति अत्र न स्यात। अस्ति अत्र विशेषः । एकशेषनिर्देशः अत्र भविष्यति । तस्य च अस्य च अमुष्य त तस्य इति भवति । इह अपि तर्हि एकशेषनिर्देशः भविष्यति । तत्च अदः च इदं च इदं इति एव । यतपि उच्यते अनन्तरादिषु च प्रतिषेधः वक्तव्यः इति । न वक्तव्यः । अनभिधानातनन्तरादिषु उत्पत्तिः न भविष्यति ।
(पाणिनीयसूत्र ४,३।१२५) कि.,३१९।१५-१६ रो.,७२३ (कात्यायन वार्तिक)वैरे देवासुरादिभ्यः प्रतिषेधः(वार्तिकान्त) । वैरे देवासुरादिभ्यः प्रतिषेधः वक्तव्यः । दैवासुरं राक्षोसुरं ।
(पाणिनीयसूत्र ४,३।१२७।१) कि.,३१९।१८-१९ रो.,७२३ (कात्यायन वार्तिक)सङ्घादिषु घोषग्रहणम्(वार्तिकान्त) । सङ्घादिषु घोषग्रहणं कर्तव्यः । गार्गः घोषः वात्सः घोषः ।
(पाणिनीयसूत्र ४,३।१२७।२) कि.,३१९।२०-३२०।४ रो.,७२३ किमर्थः णकारः । वृद्ध्यर्थः । ञ्णिति इति वृद्धिः यथा स्यात। (कात्यायन वार्तिक)सङ्घादिषु प्रत्ययस्य णित्करणानर्थक्यं वृद्धत्वात्प्रातिदिकस्य(वार्तिकान्त) । सङ्घादिषु प्रत्ययस्य णित्करणं अनर्थकं । किं कारणं । वृद्धत्वात्प्रातिदिकस्य । वृद्धं एव एतत्प्रातिपदिकं । (कात्यायन वार्तिक)लिङ्गपुंवद्भावप्रतिषेधार्थं तु(वार्तिकान्त) । लिङ्गपुंवद्भावप्रतिषेधार्थं तु णकारः कर्तव्यः । लिङ्गार्थं । वैदी । पुंवद्भावप्रतिषेधार्थं । बैदी स्थूणा अस्य बैदीस्थूणः । वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः यथा स्यात।
(पाणिनीयसूत्र ४,३।१३१) कि.,३२०।६-२१ रो.,७२४-७२५ (कात्यायन वार्तिक)कौपिञ्जलहस्तिपदादण्(वार्तिकान्त) । कौपिञ्जलहस्तिपदादण्वक्तव्यः । कौपिञ्जलाः हास्तिपदाः । (कात्यायन वार्तिक)आथर्वणिकस्य इकलोपः च(वार्तिकान्त) । आथर्वणिकस्य इकलोपः च अण्च वक्तव्यः । आथर्वणः धर्मः आथर्वणः आम्नायः । इदं आथर्वणार्थं आथर्वणिकार्थं च चतुर्ग्रहणं क्रियते । वसन्तादिषु अथर्वन्शब्दः आथर्वणशब्दः च पठ्यते । षष्थाध्याये प्रकृतिभावार्थं ग्रहणं क्रियते । इदं चतुर्थं इकलोपार्थं । द्विर्ग्रहणं शक्यं अकर्तुं । कथं । तेन प्रोक्तं इति प्रकृत्य ऋषिभ्यः लुक्वक्तव्यः वसिष्ठः अनुवाकः विश्वामित्रः अनुवाकः इति एवमर्थं । ततः वक्तव्यं अथर्वणः वा इति । तेन्सिद्धं अथर्वा आथर्वणः इति च । अथ वसन्तादिषु आथर्वणशब्दः पठितव्यः । तत्र न एव अर्थः प्रकृतिभावाऋथेन न अपि इकलोपार्थेन । यदि वसन्तादिषु आथर्वणशब्दः पठ्यते अथर्वाणं अधीते आथर्वणिकः इति न सिध्यति । न एषः दोषः । इह अस्माभिः त्रैशब्द्यं साध्यं । तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरस्मातुत्पत्तिः भविष्यति अविरविकन्यायेन । तत्यथा । अवेः मांसं इति विगृह्य अविकशब्दातुत्पत्तिः भवति । एवं आथर्वणं अधीते इति विगृह्य आथर्वणिकः इति भविष्यति अथर्वाणं अधीते इति विगृह्य वाक्यं एव । तत्र अभिसम्बन्धमात्रं कर्तव्यं आथर्वणिकानां इति । न च इदानीं अन्यताथर्वणिकानां स्वं भवितुं अर्हति अन्यततः धर्माताम्नायात्वा ।
(पाणिनीयसूत्र ४,३।१३४) कि.,३२०।२३-३२२।१५ रो.,७२५-७३० तस्य इति वर्तमाने पुनः तस्यग्रहणं किमर्थं । (कात्यायन वार्तिक)तस्यप्रकरणे तस्यपुनर्वचनं शैषिकनिवृत्त्यर्थम्(वार्तिकान्त) । तस्यप्रकरणे तस्य इति पुनर्वचनं क्रियते शैषिकनिवृत्त्यर्थं । शैषिकाः निवर्त्यन्ते । कथं च प्राप्नुन्वन्ति । (कात्यायन वार्तिक)तस्येदंवचनात्प्रसङ्गः(वार्तिकान्त) । तस्येदंविशेषाः हि एते अपत्यं समूहः विकारः निवासः इति । किमर्थं इदं उच्यते । (कात्यायन वार्तिक)बाधनार्थं कृतं भवेत्(वार्तिकान्त) । ये तस्य बाधकाः तद्बाधनार्थं । कथं पुनः अशैषिकं शैषिकं बाधेत । (कात्यायन वार्तिक)उत्सर्गः शेषः एव असौ(वार्तिकान्त) । यः हि उत्सर्गः सः अपि शेषः एव । के पुनः शैषिकाणां विकारावयवयोः प्राप्नुवन्ति यावता सर्वं अद्य अपवादैः व्याप्तं । इह न किं चितुच्यते । हलसीरात्ठकिति । कथं पुनः इच्छता अपि अपवादः प्राप्नुवन्शक्यः बाधितुं । तस्यग्रहणसामर्थ्यात। किं इदं भवानध्यारुह्य तस्यग्रहणस्य एव प्रयोजनं आह न पुनः सर्वस्य एव योगस्य । अवश्यं उत्तरार्थः अर्थनिर्देशः कर्तव्यः । समर्थविभक्तिः अपि तर्हि अवश्यं उत्तरार्था निर्देष्टव्या । प्रकृता समर्थविभक्तिः अनुवर्तते तस्य इदं इति । (कात्यायन वार्तिक)न वा सम्प्रत्ययः(वार्तिकान्त) । न वा सम्प्रत्ययः इयता सूत्रेण शैषिकाणां निवृत्तेः । न हि काकः वाश्यते इति एव अधिकाराः निवर्तन्ते । यदि खलु अपि विकारावयवयोः शैषिकाः न इष्यन्ते महता सूत्रेण निवृत्तिः वक्तव्या । (कात्यायन वार्तिक)अवयवे च अप्राण्योषधिवृक्षेभ्यः अनिवृत्तिः(वार्तिकान्त) । अवयवे च अप्राण्योषधिवृक्षेभ्यः अनिवृत्तिः इष्टा तत्र च निवृत्तिः प्राप्नोति । पाटलिपुत्रकाः प्रासादाः पाटलिपुत्रकाः प्राकाराः इति । (कात्यायन वार्तिक)अण्मयटोः च विप्रतिषेधानुपपत्तिः मयडुत्सर्गात्(वार्तिकान्त) । अण्मयटोः च विप्रतिषेधः न उपपद्यते । पठिष्यति हि विप्रतिषेधं : अणः वृद्धात्मयटिति । सः विप्रतिषेधः न उपपद्यते । किं कारणं । मयडुत्सर्गात। निवृत्तेषु हि शैषिकेषु वृद्धात्मयटुत्सर्गः । तस्य अणपवादः । उत्सर्गापवादयोः च अयुक्तः विप्रतिषेधः । (कात्यायन वार्तिक)अनुवृत्तौ हि छोत्सर्गापवादविप्रतिषेधात्मयट्(वार्तिकान्त) । अनुवर्तमानेषु हि शैषिकेषु वृद्धात्छः उत्सगः तस्य अण्मयटौ अपवादौ । अपवादविप्रतिषेधात्मयट्भविष्यति । यत्तावतुच्यते न वा सम्प्रत्ययः इयता सूत्रेण शैषिकाणां निवृत्तेः इति । सम्प्रत्ययः एव । न हि अत्र अण्दुर्लभः । सिद्धः अत्र अण्तस्य इदं इति एव । सः अयं पुनः तस्यग्रहणेन तस्य सापवादस्य अणः प्रसङ्गः इमं निरपवादकं अणं प्रतिपादयति । तत्र ये तावत्द्वितीयाः तानयं अपवादत्वात्बाधिष्यते ये तृतीयाः तान्परत्वात। ये चतुर्थाः तत्र के चित्पुरस्तातपवादाः अनन्तरान्विधीन्बाधन्ते इति एवं इमं न बाधिष्यन्ते के चित्मध्ये अपवादाः पूर्वान्विधीन्बाधन्ते इति । एतावन्तः च एते स्युः यतुत द्वितीयाः तृतीयाः चतुर्थाः वा । न पञ्चमाः सन्ति न षष्ठाः । यतपि उच्यते अवयवे च अप्राण्योषधिवृक्षेभ्यः अनिवृत्तिः इति प्राण्योषधिवृक्षेभ्यः निवृत्तिः उच्यते । तत्र कः प्रसङ्गः यतप्राण्योषधिवृक्षेभ्यः निवृत्तिः स्यात। यतपि उच्यते अण्मयटोः च विप्रतिषेधानुपपत्तिः मयडुत्सर्गातिति मा भूत्विप्रतिषेधः । पुरस्तातपवादाः अनन्तरान्विधीन्बाधन्ते इति एवं अणञं बाधिष्यते । मयटं न बाधिष्यते ।
(पाणिनीयसूत्र ४,३।१३५) कि.,३२२।१७-२१ रो.,७३०-७३१ किमर्थं विकारावयवयोः युगपदधिकारः । (कात्यायन वार्तिक)विकारावयवयोः उक्तम्(वार्तिकान्त) । किं उक्तं । तत्र तावतुक्तं भवव्याख्यानयोः युगपतधिकारः अपवादविधानार्थः । कृतनिर्देशौ हि तौ इति । इह अपि विकारावयवयोः युगपदधिकारः अपवादविधानार्थः । कृतनिर्देशौ हि तौ तस्य इदं इति ।
(पाणिनीयसूत्र ४,३।१३६) कि.,३२२।२३-३२३।२ रो.,७३१ किमर्थं बिल्वादिषु गवीधुकाशब्दः पठ्यते न कोपधातणिति एव सिद्धं । (कात्यायन वार्तिक)बिल्वादिषु गवीधुकाग्रहणं मयट्प्रतिषेधार्थम्(वार्तिकान्त) । बिल्वादिषु गवीधुकाग्रहणं क्रियते मयट्प्रतिषेधार्थं । मयटतः मा भूतिति ।
(पाणिनीयसूत्र ४,३।१४०) कि.,३२३।४-२४ रो.,७३१-७३३ (कात्यायन वार्तिक)अनुदात्तादेः अञः विधाने आद्युदात्तात्ङीषः उपसङ्ख्यानम्(वार्तिकान्त) । अनुदात्तादेः अञः विधाने आद्युदात्तात्ङीषः उपसङ्ख्यानं कर्तव्यं । कुवली कौवलं बदरी बादरं । तत्तर्हि वक्तव्यं । न वक्तव्यं । निघाते कृते अनुदात्तादेः इति एव सिद्धं । न सिध्यति । किं कारणं । (कात्यायन वार्तिक)पदस्य हि अनुदात्तादित्वम्(वार्तिकान्त) । पदस्य हि निघातः सुबन्तं च पदं । ङ्याप्प्रातिपदिकात्च प्रत्ययः विधीयते । (कात्यायन वार्तिक)न वा समर्थस्य अनुदात्तादित्वात्(वार्तिकान्त) । न वा कर्तव्यं । किं कारणं । समर्थस्य अनुदात्तादित्वात। समर्थं अनुदात्तादित्वेन विशेषयिष्यामः । न एवं शक्यं । इह हि प्रसज्येत । वाचः विकारः त्वचः विकारः इति । एतद्हि समर्थं अनुदात्तादि । इह च न स्यात्सर्वेषां विकारः इति । तस्मात्न एवं शक्यं । न चेतेवं उपसङ्ख्यानं कर्तव्यं । न कर्तव्यं । आचार्यप्रवृत्तिः ज्ञापयति यावति एव द्वितीयस्य स्वरस्य प्रादुर्भावः तावति एव पूर्वस्य निघातः इति यतयं भिक्षादिषु गर्भिणीशब्दस्य पाठं करोति । कथं कृत्वा ज्ञापकं । भिक्षादिषु गर्भिणीशब्दस्य पाठे एतत्प्रयोजनं अनुदात्तादिलक्षणः अञ्मा भूतिति । यदि च पदस्य निघातः गर्भशब्दः अयं आद्युदात्तः तस्मातिनन्तात्यः प्रत्ययः प्राप्नोति सः तावत्स्यात। तस्मिनवस्थिते निघातः । तत्र कः अनुदात्तादिलक्षणस्य अञः प्रसङ्गः । पश्यति तु आचार्यः यावति एव द्वितीयस्य स्वरस्य प्रादुर्भावः तावति एव पूर्वस्य निघातः इति । अतः भिक्षादिषु गर्भिणीशब्दं पठति । (कात्यायन वार्तिक)पदग्रहणं परिमाणार्थम्(वार्तिकान्त) । पदग्रहणं क्रियते परिमाणार्थं । वाक्यस्य मा भूतनुदात्तं पदं एकवर्जं इति ।
(पाणिनीयसूत्र ४,३।१४३) कि.,३२४।२-७ रो.,७३३ किमर्थं एतयोः इति उच्यते । (कात्यायन वार्तिक)मयड्वैतयोर्वचनं अपवादविषये अनिवृत्त्यर्थम्(वार्तिकान्त) । मयट्वा एतयोः इति उच्यते अपवादविषये अनिवृत्तिः यथा स्यात। बिल्वमयं बैल्वं । (कात्यायन वार्तिक)एतयोः इति अर्थनिर्देशः(वार्तिकान्त) । एतयोः इति अर्थनिर्देशः द्रष्टव्यः । द्वेष्यं विजानीयातः योगयोः वा प्रत्यययोः वा इति । तताचार्यः सुहृत्भूत्वा अन्वाचष्टे : एतयोः इति अर्थनिर्देशः इति ।
(पाणिनीयसूत्र ४,३।१५५) कि.,३२४।९-३२५।१८ रो.,७३३-७३६ किमर्थं इदं उच्यते । (कात्यायन वार्तिक)विकारावयवयोः विकारावयवयुक्तत्वात्मयट्प्रतिषेधार्थं ञितः च तत्प्रत्ययातञः विधानम्(वार्तिकान्त) । विकारः विकारेण युज्यते अवयवेन अवयवः । विकारावयवयोः विकारावयवयुक्तत्वात्मयट्प्राप्नोति । इष्यते च अञेव स्यातिति । तत्च अन्तरेण यत्नं न सिध्यति इति मयट्प्रतिषेधार्थं ञितः च तत्प्रत्ययातञः विधानं । एवमर्थं इदं उच्यते । (कात्यायन वार्तिक)न वा दृष्टः हि अवयवे समुदायशब्दः विकारे च प्रकृतिशब्दः तस्मात्मयडभावः(वार्तिकान्त) । न वा एतत्प्रयोजनं अस्ति । किं कारणं । दृष्टः हि अवयवे समुदायशब्दः । तत्यथा पूर्वे पञ्चालाः उत्तरे पञ्चालाः तैलं भुक्तं घृतं भुक्तं । विकारे च प्रकृतिशब्दः दृश्यते । तत्यथा । शालीन्भुङ्क्ते मुद्गैः । शालीविकारं मुद्गविकारेण इति । तस्मात्मयटतः न भविष्यति । न एतत्विवदामहे । अवयवे समुदायशब्दः अस्ति न अस्ति इति विकारे वा प्रकृतिशब्दः इति । किं तर्हि विकारावयवशब्दः अपि तु अस्ति । ततः उत्पत्तिः प्राप्नोति । (कात्यायन वार्तिक)विकारावयवशब्दात्प्रसङ्गः इति चेत्न तेन अनभिधानात्(वार्तिकान्त) । विकारावयवशब्दात्प्रसङ्गः इति चेत्तत्न । किं कारणं । तेन अनभिधानात। न हि विकारावयवशब्दातुत्पद्यमानेन प्रत्ययेन अर्थस्य अभिधानं स्यात। अनभिधानात्ततः उतपत्तिः न भविष्यति । तत्च अवश्यं अनभिधानं आश्रयितव्यं । (कात्यायन वार्तिक)अभिधाने हि अन्यतः अपि मयट्प्रसङ्गः(वार्तिकान्त) । अभिधाने हि सति अन्यतः अपि मयट्प्रसज्येत : बैल्वस्य विकारः इति । (कात्यायन वार्तिक)तस्मात्तत्प्रत्ययान्तात्लुग्वचनम्(वार्तिकान्त) । तस्मात्तत्प्रत्ययान्तात्लुक्वक्तव्यः । यदि लुकुच्यते कथं ग्ॐअयं भस्म द्रौवयं मानं कापित्थः रसः इति । अन्यत्र गोमयात्द्रुवयात्फलात्च लुक्वक्तव्यः । इह तर्हि औष्ट्रकी अञन्तातिति ईकारः न प्राप्नोति । इष्टं एव एतत्सङ्गृहीतं । औष्ट्रिका इति एव भवितव्यं । एवं हि सौनागाः पठन्ति । वुञः च अञ्कृतप्रसङ्गः इति । इह तर्हि पालाशी समितिति अनुपसर्जनलक्षणः ईकारः न प्राप्नोति । मा भूतेवं अञ्यः अनुपर्सर्जनं इति । अञन्तातनुपसर्जनातिति एवं भविष्यति । न एवं शक्यं । इह हि दोषः स्यात। काशकृत्स्निना प्रोक्ता मीमांसा काशकृत्स्नी तां अधीते काशकृत्स्ना ब्राह्मणी इति । अणन्तातिति ईकारः प्रसज्येत । तस्मातस्तु न तेन अनभिभानातिति एव । इह तर्हि कापोतः रसः इत्प्राणिशब्दः न उपपद्यते । न एषः दोषः । इदं तावतयं प्रष्टव्यः । अथ यः असौ आद्यः कपोतः सलोमकः सपक्षः न च सम्प्रति प्रणिति कथं तत्र प्राणिशब्दः वर्तते इति । अथ मतं एतत्प्रकृत्यन्वयाः विकाराः भवन्ति इति इह अपि न दोषः भवति ।
(पाणिनीयसूत्र ४,३।१५६।१) कि.,३२५।२०-३२६।६ रो.,७३७ कथं इदं विज्ञायते । क्रीते ये प्रत्ययाः विहिताः ते भवन्ति परिमाणात्विकारावयवयोः इति । आहोस्वित्परिमाणात्क्रीते ये प्रत्ययाः विहिताः ते भवन्ति विकारावयवयोः इति । किं च अतः । यदि विज्ञायते क्रीते ये प्रत्ययाः विहिताः ते भवन्ति परिमाणात्विकारावयवयोः इति प्रत्ययमात्रं प्राप्नोति । अथ विज्ञायते परिमाणात्क्रीते ये प्रत्ययाः विहिताः ते भवन्ति विकारावयवयोः इति प्रकृतिमात्रात्प्राप्नुवन्ति । तस्मात्(कात्यायन वार्तिक)क्रीतवत्परिमाणातङ्गं च(वार्तिकान्त) । अङ्गं च क्रीतवतिति वक्तव्यं । तत्तर्हि वक्तव्यं । न वक्तव्यं । क्रीतवतिति वतिनिर्देशः अयं । यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण क्रीते प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन विशेषेण विकारावयवयोः भवन्ति ततः अमी क्रीतवत्कृताः स्युः । अथ हि प्रकृतिमात्रात्वा स्युः प्रत्ययमात्रं वा स्यात्न अमी क्रीतवत्कृताः स्युः ।
(पाणिनीयसूत्र ४,३।१५६।२) कि.,३२६।७-३२७।१२ रो.,७३७-७४० (कात्यायन वार्तिक)अणः वृद्धात्मयट्(वार्तिकान्त) । अणः वृद्धात्मयटिति एतत्भवति विप्रतिषेधेन । अणः अवकाशः तित्तिडीक तैत्तिडीकं । मयटः अवकाशः काष्ठमयं । इह उभयं प्राप्नोति । शाकमयं । ओः अञः अनुदात्तादेः अञः च मयट्भवति विप्रतिषेधेन । ओः अञः अवकाशः आरडवं । मयटः सः एव । इह उभयं प्राप्नोति । दारुमयं । अनुदात्तादेः अञ्भवति इति अस्य अवकाशः कौवलं जरद्वृक्ष जारद्वृक्षं । मयटः सः एव । इह उभयं प्राप्नोति । आम्रमयं । (कात्यायन वार्तिक)मयटः प्राण्यञ्विप्रतिषेधेन(वार्तिकान्त) । मयटः प्राण्यञ्भवति विप्रतिषेधेन । प्राण्यञः अवकाशः गृध्र गार्ध्रं । मयटः सः एव । इह उभयं प्राप्नोति । चाषं भासं । प्राण्यञ्भवति विप्रतिषेधेन । (कात्यायन वार्तिक)न वा अनवकाशत्वातपवादः मयट्(वार्तिकान्त) । न वा एषः युक्तः विप्रतिषेधः यः अयं अञः मयटः च । किं कारणं । अनवकाशत्वातपवादः मयट। अनवकाशः मयट्सावकाशं अञं बाधिष्यते । सः कथं अनवकाशः । यदि अनुवर्तन्ते शैषिकाः । अथ निवृत्ताः शैषिकाः वृद्धं आद्युदात्तं मयटः अवकाशः । (कात्यायन वार्तिक)प्राण्यञः च(वार्तिकान्त) । अयं च अपि अयुक्तः विप्रतिषेधः यः अयं मयटः प्राण्यञः च । किं कारणं । अनवकाशत्वातपवादः मयटिति एव । अनवकाशः मयट। सः यथा एव ओः अञं अनुदात्तादेः अञं च बाधते एवं प्राण्यञं अपि बाधेत । (कात्यायन वार्तिक)तस्मात्मयड्विधाने प्राणिप्रतिषेधः(वार्तिकान्त) । तस्मात्मयड्विधाने प्राणिभ्यः प्रतिषेधः वक्तव्यः । सः तर्हि वक्तव्यः । न वक्तव्यः । मध्ये अपवादाः पूर्वान्विधीन्बाधन्ते इति एवं अयं मयटोः अञं अनुदात्तादेः अञं च बाधिष्यते । प्राण्यञं न बाधिष्यते । यदि एततस्ति मध्ये अपवादाः पुरस्तातपवादाः इति मा अनुवृतन्शैषिकाः । पुरस्तातपवादाः अनन्तरान्विधीन्बाधन्ते इति एवं अयं अणञं बाधिष्यते । मयटं न बाधिष्यते । (कात्यायन वार्तिक)अनुदात्तादेः अञः प्राण्यञ्विप्रतिषेधेन(वार्तिकान्त) । अनुदात्तादेः अञः प्राण्यञ्भवति विप्रतिषेधेन । अनुदात्तादेः अञ्भवति इति अस्य अवकाशः जरद्वृक्ष जारद्वृक्षं । प्राण्यञः सः एव । इह उभयं प्राप्नोति । कपोत कापोतं । प्राण्यञ्भवति विप्रतिषेधेन । कः पुनः अत्र विशेषः तेन वा सति अनेन वा । सापवादकः सः विधिः । अयं पुनः निरपवादकः । यदि तेन स्यातिह न स्यात। श्वाविधः विकारः शौवाविधं ।
(पाणिनीयसूत्र ४,३।१६३) कि.,३२७।१४-१८ रो.,७४०-७४१ (कात्यायन वार्तिक)फले लुग्वचनानर्थक्यं प्रकृत्यन्तरत्वात्(वार्तिकान्त) । फले लुग्वचनं अनर्थकं । किं कारणं । प्रकृत्यन्तरत्वात। प्रकृत्यन्तरं आमलकशब्दः फले वर्तते । एकान्तदर्शनात्प्राप्नोति । (कात्यायन वार्तिक)एकान्तदर्शनात्प्रसङ्गः इति चेत्वृक्षे लुग्वचनम्(वार्तिकान्त) । एकान्तदर्शनात्प्रसङ्गः इति चेत्वृक्षे लुक्वक्तव्यः । वृक्षः अपि फलैकान्तः ।
(पाणिनीयसूत्र ४,३।१६६) कि.,३२७।२०-३२८।३ रो.,७४१ (कात्यायन वार्तिक)लुप्प्रकरणे फलपाकशुषां उपसङ्ख्यानम्(वार्तिकान्त) । लुप्प्रकरणे फलपाकशुषां उपसङ्ख्यानं कर्तव्यं । व्रीहयः यवाः माषाः मुद्गाः तिलाः । (कात्यायन वार्तिक)पुष्पमूलेषु च बहुलम्(वार्तिकान्त) । पुष्पमूलेषु च बहुलं लुप्वक्तव्यः । मल्लिका करवीरं बिसं मृणालं । न च भवति । पाटलानि मूलानि ।
(पाणिनीयसूत्र ४,४।१) कि.,३२९।२-१० रो.,७४२ (कात्यायन वार्तिक)ठक्प्रकरणे तताह इति माशब्दादिभ्यः उपसङ्ख्यानम्(वार्तिकान्त) । ठक्प्रकरणे तताह इति माशब्दादिभ्यः उपसङ्ख्यानं कर्तव्यं । माशब्दिकः नैत्यशब्दिकः कार्यशब्दिकः । (कात्यायन वार्तिक)आहौ प्रभूतादिभ्यः(वार्तिकान्त) । आहौ प्रभूतादिभ्यः ठक्वक्तव्यः । प्रभूतं आह प्राभूतिकः । पार्याप्तिकः । (कात्यायन वार्तिक)पृच्छतौ सुस्नातादिभ्यः(वार्तिकान्त) । पृच्छतौ सुस्नातादिभ्यः ठक्वक्तव्यः । सौस्नातिकः सौखरात्रिकः सौखशायिकः । (कात्यायन वार्तिक)गच्छतौ परदारादिभ्यः(वार्तिकान्त) । गच्छतौ परदारादिभ्यः ठक्वक्तव्यः । पारदारिकः गौरुतल्पिकः ।
(पाणिनीयसूत्र ४,४।९) कि.,१२-१५ रो.,७४३ इह केषां चित्सांहितिकं षत्वं केषां चित्षिदर्थं । तत्र न ज्ञायते केषां सांहितिकं षत्वं केषां षिदर्थं इति । परिगणनं कर्तव्यं । (कात्यायन वार्तिक)आकर्षात्पर्पादेः भस्त्रादिभ्यः कुसीद्सूत्रात्च आवसथात्किसरादेः षितः षटेते ठगधिकारे(वार्तिकान्त) ।
(पाणिनीयसूत्र ४,४।१७) कि.,३२९।१७ रो.,७४३ वीवधात्च इति वक्तव्यं । वैवधिकः ।
(पाणिनीयसूत्र ४,४।२०) कि.,३३०।२-१२ रो.,७४३-७४५ नित्यग्रहणं किमर्थं । विभषा मा भूत। न एततस्ति प्रयोजनं । पूर्वस्मिनेव योगे विभाषाग्रहणं निवृत्तं । इदं तर्हि प्रयोजनं । (कात्यायन वार्तिक)त्रेः मम्नित्यवचनं विषयार्थम्(वार्तिकान्त) । नित्यं त्र्यन्तं मब्विषयं एव यथा स्यात। केवलस्य प्रयोगः मा भूत। अस्ति प्रयोजनं एतत। किं तर्हि इति। (कात्यायन वार्तिक)तत्र यथाधिकारं तद्विषयप्रसङ्गः(वार्तिकान्त) । तत्र यथाधिकारं तद्विषयता प्राप्नोति । निर्वृत्ते इत्वर्तते । तेन निर्वृत्ते एव त्र्यन्तं मब्विषयं स्यात। ये अन्ये उपचाराः तत्र न स्यात। कृत्रिमं महत्सुविहितं इति । एवं तर्हि भावे इति प्रकृत्य इमप्वक्तव्यः कुट्टिमा भूमिः सेकिमः असिः इति एवमर्थं । ततः वक्तव्यं त्रेः । त्रेः मप्भवति । ततः नित्यं । नित्यं त्र्यन्तातिमपिति । किमर्थं इदं । नित्यं त्र्यन्तं इमब्विषये एव यथा स्यात। केवलस्य प्रयोगः मा भूतिति ।
(पाणिनीयसूत्र ४,४।२३) कि.,३३०।१४-१५ रो.,७४५ अयं योगः शक्यः अवक्तुं । कथं चूर्णी चूर्णिनौ चूर्णिनः इति । इनिना एतत्मत्वर्थीयेन सिद्धं ।
(पाणिनीयसूत्र ४,४।२४) कि.,३३०।१७-३३१।२ रो.,७४५ (कात्यायन वार्तिक)लवणात्लुग्वचनानर्थक्यं रसवाचिव्तात्(वार्तिकान्त) । लवणात्लुग्वचनं अनर्थकं । किं कारणं । रसवाचिव्तात। रसवाची एषः लवणशब्दः । न एषः संसृष्टनिमित्तः । आतः च रसवाची । (कात्यायन वार्तिक)असंसृष्टे च दर्शनात्(वार्तिकान्त) । असंसृष्टे अपि हि लवणशब्दः वर्तते । तत्यथा । लवणं क्षीरं लवणं पानीयं इति । (कात्यायन वार्तिक)संसृष्टे च अदर्शनात्(वार्तिकान्त) । संसृष्टे अपि च यदा न उपलभ्यते तदा आह । अलवणः सूपः अलवणः शाकं इति ।
(पाणिनीयसूत्र ४,४।३०) कि.,३३१।४-१३ रो.,७४६ अयुक्तः अयं निर्देशः । यतसौ अल्पं दत्त्वा बहु गृह्णाति तत्गर्ह्यं । कथं तर्हि निर्देशः कर्तव्यः । (कात्यायन वार्तिक)प्रयच्छति गर्हाय(वार्तिकान्त) इति । सः तर्हि तथा निर्देशः कर्तव्यः । न कर्तव्यः । तादर्थ्यात्ताच्छब्द्यं भविष्यति । गर्ह्यार्थं गर्ह्यं । (कात्यायन वार्तिक)मेस्याल्लोपः वा(वार्तिकान्त) । मेस्याच्छब्दलोपः वा द्रष्टव्यः । द्विगुणं मे स्यातिति प्रयच्छति द्वैगुणिकः । त्रैगुणिकः । (कात्यायन वार्तिक)वृद्धेः वृधुषिभावः(वार्तिकान्त) । वृद्धेः वृधुषिभावः वक्तव्यः । वार्धुषिकः ।
(पाणिनीयसूत्र ४,४।४१) कि.,३३१।१५-१६ रो.,७४६ (कात्यायन वार्तिक)अधर्मात्च(वार्तिकान्त) । अधर्मात्च इति वक्तव्यं । आधर्मिकः ।
(पाणिनीयसूत्र ४,४।४९) कि.,३३१।१८-३३२।२ रो.,७४७ (कात्यायन वार्तिक)नृनराभ्यां अञ्वचनम्(वार्तिकान्त) । नृनराभ्यां च इति वक्तव्यं । नुः धर्म्या नारी । नरस्य अपि नारी । (कात्यायन वार्तिक)विशसितुः इड्लोपः(वार्तिकान्त) (कात्यायन वार्तिक)च(वार्तिकान्त) । विशसितुः इड्लोपः च अञ्च वक्तव्यः । विशसितुः धर्म्यं वैशस्त्रं । (कात्यायन वार्तिक)विभाजयितुः णिलोपः च(वार्तिकान्त) । विभाजयितुः णिलोपः च अञ्च वक्तव्यः । विभाजयितुः धर्म्यं वैभाजित्रं ।
(पाणिनीयसूत्र ४,४।५५) कि.,३३२।४-६ रो.,७४७ किं यस्य मृदङ्गः शिल्पं सः मार्दङ्गिकः । किं च अतः । कुम्भकारे प्राप्नोति । एवं तर्हि उत्तरपदलोपः द्रष्टव्यः । शिल्पं इव शिल्पं । मृदङ्ग्वादनं शिल्पं अस्य मार्दङ्गिकः । पैठरिकः ।
(पाणिनीयसूत्र ४,४।५९) कि.,३३२।८-१५ रो.,७४८ किमर्थं इदं उच्यते । न ककेव उच्यते का रूपसिद्धिः : शाक्तीकः याष्टीकः इति । शक्तियष्ट्योः ईकारः अन्ते कशब्दः च प्रत्ययः । न सिध्यति । विभाषा च एव हि शक्तियष्ट्योः ईकारः अपि च के अणः इति ह्रस्वत्वं प्रसज्येत । एवं तर्हि इककुच्यते । का रूपसिद्धिः । शाक्तीकः याष्टीकः इति । सवर्णदीर्घत्वेन सिद्धं । न सिध्यति । यस्य इति च लोपः प्राप्नोति । इकारोच्चारणसामार्थ्यात्न भविष्यति । यदि तर्हि प्राप्नुवन्विधिः उच्चारणसामर्थ्यात्बाध्यते सवर्णदीर्घत्वं अपि न प्राप्नोति । यं विधिं प्रति उपदेशः अनर्थकः सः विधिः बाध्यते । यस्य तु विधेः निमित्तं एव न असौ बाध्यते । यस्य इति लोपं च प्रति इकारोच्चारणं अनर्थकं सवर्णदीर्घत्वस्य तु निमित्तं एव ।
(पाणिनीयसूत्र ४,४।६०) कि.,३३२।१७-१९ रो.,७४९ किं यस्य अस्ति मतिः सः आस्तिकः । किं च अतः । चौरे अपि प्राप्नोति । एवं तर्हि इतिलोपः अत्र द्रष्टव्यः । अस्ति इति अस्य मतिः आस्तिकः । न अस्ति इति अस्य मतिः नास्तिकः । दिष्टं इति अस्य मतिः दैष्टिकः ।
(पाणिनीयसूत्र ४,४।६२) कि.,३३२।२१-३३३।२ रो.,७४९ किं यस्य छत्रधारणं शीलं सः छात्रः । किं च अतः । राजपुरुषे प्राप्नोति । एवं तर्हि उत्तरपदलोपः अत्र द्रष्टव्यः। छत्रं इव छत्रं । गुरुः छत्रं । गुरुणा शिष्यः छत्रवत्छाद्यः शिष्येण च गुरुः छत्रवत्परिपाल्यः ।
(पाणिनीयसूत्र ४,४।६५) कि.,३३३।४-९ रो.,७५० (कात्यायन वार्तिक)हितं भक्षाः इति चतुर्थीनिर्देशः(वार्तिकान्त) । हितं भक्षाः इति चतुर्थीनिर्देशः कर्तव्यः । (कात्यायन वार्तिक)इतरथा हि अनिर्देशः(वार्तिकान्त) । इतरथा हि निर्देशः न भवति । हितशब्देन च योगे चतुर्थी विधीयते । सा प्राप्नोति । सः तर्हि चतुर्थीनिर्देशः कर्तव्यः । न कर्तव्यः । एवं वक्ष्यामि । हितं भक्षाः तस्मै । ततः दीयते नियुक्तं । ततस्मै इति ।
(पाणिनीयसूत्र ४,४।७६) कि.,३३३।११-२२ रो.,७५०-७५१ (कात्यायन वार्तिक)वहत्यभिधाने रथशकटहलसीरेभ्यः प्रत्ययविधानानर्थक्यं विहितत्वात्(वार्तिकान्त) । वहतिति अभिधाने रथशकटहलसीरेभ्यः प्रत्ययविधानं अनर्थकं । किं कारणं । विहितत्वात। विहितः अत्र प्रत्ययः तस्य इदं इति । शब्दभेदातविधानं । शब्दभेदातविधिः सः भवति । अन्यः हि शब्दः रथं वहति अन्यः हि रथस्य वोढा इति । (कात्यायन वार्तिक)शब्दभेदातविधानं इति चेतर्थाश्रयत्वात्प्रत्ययविधानस्य अर्थसामान्यात्सिद्धम्(वार्तिकान्त) । शब्दभेदातविधानं इति चेतर्थाश्रयः प्रत्ययविधिः । सः एव अर्थ रथं वहति सः एव रथस्य वोढा इति । तत्र अर्थसामान्यात्सिद्धं । इदं तर्हि प्रयोजनं । यः द्वौ रथौ वहति सः द्विरथ्यः । यः द्वयोः रथयोः वोढा सः द्विरथः । तेन सति लुक्भवति । अनेन सति कस्मात्न भवति । प्राक्दीव्यतः इति उच्यते ।
(पाणिनीयसूत्र ४,४।८२) कि.,३३४।२-६ रो.,७५१-७५२ किं निपात्यते । जनन्याः जनीभावः निपात्यते यत्च प्रत्ययः । (कात्यायन वार्तिक)जन्याः इति निपातनानर्थक्यं पञ्चमीनिर्देशात्(वार्तिकान्त) । जन्याः इति निपातनं अनर्थकं । किं कारणं । पञ्चमीनिर्देशात। जननीशब्दातेषा पञ्चमी । इदं तर्हि प्रयोजनं । सर्वकालः प्रत्ययविधिः यथा विज्ञायेत । जनीं वहन्ति जन्याः । जनीं वोढारः जन्याः । जनीं अवाक्षुः जन्याः इति ।
(पाणिनीयसूत्र ४,४।८३) कि.,३३४।८-१३ रो.,७५२ (कात्यायन वार्तिक)विध्यति अकरणेन(वार्तिकान्त) । विध्यति अकरणेन इति वक्तव्यं । (कात्यायन वार्तिक)इतरथा ह अतिप्रसङ्गः(वार्तिकान्त) । अधनुषा इति उच्यमाने अत्रिप्रसङ्गः भवति । इह अपि प्रसज्येत । शर्कराभिः विध्यति । कण्टकैः विध्यति इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । कस्मात्न भवति शर्कराभिः विध्यति कण्टकैः विध्यति इति । अनभिधानात।
(पाणिनीयसूत्र ४,४।९०) कि.,३३४।१५-१९ रो.,७५२-७५३ गृहपतिना संयुक्ते इति उच्यते । तत्र दक्षिणाग्नौ अपि प्राप्नोति । दक्षिणाग्निः अपि गृहपतिना संयुज्यते । एवं तर्हि गृहपतिना संयुक्ते इति उच्यते सर्वः च गृहपतिना संयुक्तः । तत्र प्रकर्षगतिः भविष्यति : साधीयः यः गृहपतिना संयुक्तः इति । कः च साधीयः । यस्मिन्पत्नीसंयाज्याः क्रियन्ते । अथ वा गृहपतिः नाम मन्त्रः । सः यस्मिनुच्यते । अथ वा सञ्ज्ञायां इति वर्तते ।
(पाणिनीयसूत्र ४,४।१२८) कि.,३३४।२१-३३५।३ रो.,७५३ (कात्यायन वार्तिक)मासतन्वोः अनन्तरार्थे वा(वार्तिकान्त) । मासतन्वोः अनन्तरार्थे वा इति वक्तव्यं । मधु अस्मिनसिति मधु अनन्तरं वा मधव्यः माधवः । (कात्यायन वार्तिक)लुगकारेकाररेफाः च(वार्तिकान्त) । लुगकारेकाररेफाः च प्रत्ययाः वक्तव्याः । लुक्मधुः तपः नभः । अकारः इषः ऊर्जः । इकारः शुचिः । रेफः च शुक्रः ।
(पाणिनीयसूत्र ४,४।१४०) कि.,३३५।५-१५ रो.,७५३-७५४ (कात्यायन वार्तिक)अक्षरसमूहे छन्दसः उपसङ्ख्यानम्(वार्तिकान्त) । अक्षरसमूहे छन्दसः उपसङ्ख्यानं कर्तव्यं । ओ श्रावय इति चतुरक्षरं । अस्तु श्रौषटिति चतुरक्षरं । ये यजामहे इति पञ्चाक्षरं । यज इति द्व्यक्षरं । द्व्यक्षरः वषट्कारः । एषः वै सप्तदशाक्षरः छन्दस्यः प्रज्ञापतिः यज्ञं अनु विहितः । (कात्यायन वार्तिक)छन्दसि बहुभिर्वसव्यैरुपसङ्ख्यानम्(वार्तिकान्त) । छन्दसि बहुभिर्वसव्यैरुपसङ्ख्यानं । हस्तौ पृणस्व बहुविः वसव्यैः । (कात्यायन वार्तिक)अग्निरीशेवसव्यस्य(वार्तिकान्त) । अग्निरीशेवसव्यस्य उपसङ्ख्यानं कर्तव्यं । तत्तर्हि उपसङ्ख्यानं कर्तव्यं । न कर्तव्यं । स्वार्थविज्ञानात्सिद्धं । स्वार्थविज्ञानात्सिद्धं एतत। वसवः एव वसव्याः पान्तु ।

***अध्याय ५ ***
(पाणिनीयसूत्र ५,१।१) कि.।३३६।२-२३ रो. ईV।३-६ प्राग्वचनं किमर्थं । (कात्यायन वार्तिक)प्राग्वचने उक्तं । (वार्तिकान्त)किं उक्तं । तत्र तावतुक्तं प्राग्वचनं सकृद्विधानार्थं । अधिकारात्सिद्धं इति चेतपवादविषये अण्प्रसङ्गः इति । इह अपि प्राग्वचनं क्रियते सकृद्विधानार्थं । सकृत्विहितः प्रत्ययः विहितः यथा स्यात। योगे योगे तस्य ग्रहणं मा कार्षं इति । न एततस्ति प्रयोजनं । अधिकारातपि एतत्सिद्धं । अधिकारः प्रतियोगं तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते । अधिकारात्सिद्धं इति चेतपवादविषये छप्रसङ्गः । अधिकारात्सिद्धं इति चेतपवादविषये छः प्राप्नोति । उगवादिभ्यः यथ्छः च इति छः अपि प्राप्नोति । तस्मात्प्राग्वचनं कर्तव्यं । अथ क्रिय्माणे अपि प्राग्वचने कथं इदं विज्ञायते । प्राक्क्रीतात्याः प्रकृतयः आहोस्वित्प्राक्क्रीतात्ये अर्थाः इति । किं च अतः । यदि विज्ञायते प्राक्क्रीतात्याः प्रकृतयः इति सः एव दोषः अपवादविषये अपि छप्रसङ्गः इति । अथ विज्ञायते प्राक्क्रीतात्ये अर्थाः इति न दोषः भवति । समाने अर्थे प्रकृतिविशेषातुत्पद्यमानः यत्छं बाधिष्यते । यथा न दोषः तथा अस्तु। प्राक्क्रीतात्ये अर्थाः इति विज्ञायते । कुतः एतत। तथा हि अयं प्राधान्येन अर्थं प्रतिनिर्दिशति । इतरथा हि बह्व्यः तत्र प्रकृतयः पठ्यन्ते । ततः यां कां चितेवं प्रकृतिं अवधित्वेन उपाददीत । अथ वा पुनः अस्तु प्राक्क्रीतात्याः प्रकृतयः इति । ननु च उक्तं अपवादविषये अपि छप्रसङ्गः इति । न वा क्व चित्वावचनात। न वा एषः दोषः । किं कारणं । क्व चित्वावचनात। यतयं क्वच्वावचनं करोति विभाषा हविरपूपादिभ्यः इति तत्ज्ञापयति न अपवादविषये छः भवति इति । यदि एवं न अर्थः प्राग्वचनेन । अधिकारात्सिद्धं । ननु च उक्तं अधिकारात्सिद्धं इति चेतपवादविषये छप्रसङ्गः इति । परिहृतं एतत्ण वा क्व चित्वावचनातिति । अथ किमर्थं इयानवधिः गृह्यते न प्राक्ठञः इति एव उच्येत । एतत्ज्ञापयति आचार्यः अर्थेषु अयं भवति इति । किं एतस्य ज्ञापने प्रयोजनं । समाने अर्थे प्रकृतिविशेषातुत्पद्यमानः यत्छं बाधते ।
(पाणिनीयसूत्र ५,१।२।१) कि.।३३७।२-२१ रो. ईV।६-७ (कात्यायन वार्तिक)यञ्ञ्यौ अञः पूर्वविप्रतिषिद्धं सनङ्गूपानहौ प्रयोजनं (वार्तिकान्त)। यञ्ञ्यौ भवतः अञः पूर्वविप्रतिषेधेन । किं प्रयोजनं षनङ्गूपानहौ प्रयोजनं । यतः अवकाशः शङ्कव्यं दारु पिचव्यः कार्पासः । अञः अवकाशः वार्ध्रं वारत्रं । सनङ्गुः नाम चर्मविकारः । तस्मातुभयं प्राप्नोति । सनङ्गव्यं चर्म । ञ्यस्य अवकाशः औपानह्यं दारु । अञः सः एव । उपानत्नाम चर्मविकारः । तस्मातुभयं प्राप्नोति । औपानह्यं चर्म । (कात्यायन वार्तिक)ढञ्च(वार्तिकान्त) । ढञ्च भवति अञः पूर्वविप्रतिषेधेन । ढञः अवकाशः छादिषेयं तृणं । अञः सः एव । छदिः नां चर्मविकारः । तस्मातुभयं प्राप्नोति । छादिषेयं चर्म । ढञ्भवति पूर्वविप्रतिषेधेन । (कात्यायन वार्तिक)हविरपूपादिभ्यः विभाषायाः यत्(वार्तिकान्त)। हविरपूपादिभ्यः विभाषायाः यत्भवति पूर्वविप्रतिषेधेन । हविरपूपादिभ्यः विभाषायाः अवकाशः आमिक्ष्यं आमिक्षीयं पुरोडाश्यं पुरोडाशीयं । यतः सः एव । इह उभयं प्राप्नोति । चरव्याः तण्डुलाः । यत्भवति पूर्वविप्रतिषेधेन । (कात्यायन वार्तिक)अन्नविकारेभ्यः च (वार्तिकान्त)। अन्नविकारेभ्यः च विभाषायाः यत्भवति पूर्वविप्रतिषेधेन । अन्नविकारेभ्यः च विभाषायाः अवकाशः सुर्याः सुरीयाः । यतः सः एव । इह उभयं प्राप्नोति । सक्तव्याः धानाः इति । यत्भवति पूर्वविप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । इष्टवाची परशब्दः । विप्रतिषेधे परं यतिष्टं तत्भवति इति ।
(पाणिनीयसूत्र ५,१।२।२) कि.।३३७।२२-३३८।१५ रो. ईV।७-१० अयं नाभिशब्दः गवादिषु पठ्यते। तत्र एव उच्यते नाभि नभं च इति । तत्र चोद्यते । (कात्यायन वार्तिक)नाभेः नभभावे प्रत्ययानुपपत्तिः प्रकृत्यभावात्(वार्तिकान्त)। नाभेः नभभावे प्रत्ययानुपपत्तिः । किं कारणं । प्रकृत्यभावात। विकृतेः प्रकृतौ अभिधेयायां प्रत्ययेन भवितव्यं न च नाभिसञ्ज्ञिकायाः विकृतेः प्रकृतिः अस्ति । यतेव हि तन्मण्डलचक्राणां मण्डलचक्रं तत्नभ्यं इति उच्यते । (कात्यायन वार्तिक)सिद्धं तु शाखादिषु वचनात्ह्रस्वत्वं च(वार्तिकान्त) । सिद्धं एतत। कथं । शाखादिषु नाभिशब्दः पठितव्यः ह्रस्वत्वं च वक्तव्यं । नाभिः इव नभ्यं इति । कः पुनः इह उपमार्थः । यत्ततक्षधारणं परिवर्तनं वा । अपरः आह : यत्ततञ्जनोपाञ्जनं इति । न तर्हि इदानीं इदं वक्तव्यं नाभि नभं च इति । वक्तव्यं च । किं प्रयोजनं । यानि एतानि अरवन्ति चक्राणि तदर्थं । तत्र नाभिसञ्ज्ञिकायाः विकृतेः प्रकृतिः अस्ति । यानि च अपि अनरवन्ति चक्राणि तदर्थं अपि इदं वक्तव्यं । दृश्यते हि समुदायातवयवस्य पृथक्त्वं । तत्यथा वार्क्षी शाखा इति । गुणान्तरयोगात्च विकारशब्दः दृश्यते । तत्यथा वैभीतकः यूपः खादिरं चषालं इति । तत्र अवयवसमुदाये वृत्तिः भविष्यति । अथ यः नभ्यार्थः वृक्षः कथं तत्र भवितव्यं । नभ्यः वृक्षः नभ्या शिंशिपा इति । (कात्यायन वार्तिक)नभ्यात्तु लुग्वचनं (वार्तिकान्त)। नभ्यात्तु लुक्वक्तव्यः । सः तर्हि वक्तव्यः । न वक्तव्यः । तादर्थ्यात्ताच्छब्द्यं भविष्यति । नभ्यार्थः नभ्यः इति ।
(पाणिनीयसूत्र ५,१।३) कि.।३३८।१७-२१ रो. ईV।१० अयं योगः शक्यः अवक्तुं । कथं अशीतिशतं कम्बल्यं इति । निपातनातेतत्सिद्धं । किं निपातनं । अपरिमाणविस्ताचितकम्बलेभ्यः न तद्धितलुकि इति । इदं तर्हि प्रयोजनं सञ्ज्ञायां इति वक्ष्यामि इति । इह मा भूत। कम्बलीयाः ऊर्णाः । एततपि न अस्ति प्रयोजनं । परिमाणपर्युदासेन पर्युदासे प्राप्ते तत्र कम्बलग्रहणं क्रियते परिमाणार्थं परिमाणं च सञ्ज्ञा एव ।
(पाणिनीयसूत्र ५,१।४) कि.।३३८।२३-३३९।२ रो. ईV।१०-११ किं इयं प्राप्ते विभाषा आहोस्वितप्राप्ते । कथं च प्राप्ते कथं वा अप्राप्ते । उवर्णान्तातिति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते । (कात्यायन वार्तिक)हविरपूपादिभ्यः अप्राप्ते(वार्तिकान्त) । हविरपूपादिभ्यः अप्राप्ते विभाषा । प्राप्ते नित्यः विधिः । चरव्याः तण्डुलाः ।
(पाणिनीयसूत्र ५,१।६) कि.।३३९।४-५ रो. ईV।११ (कात्यायन वार्तिक)यत्प्रकरणे रथात्च (वार्तिकान्त)। यत्प्रकरणे रथात्च उपसङ्ख्यानं । रथाय हिता रथ्या ।
(पाणिनीयसूत्र ५,१।७) कि.।३३९।७-१८ रो. ईV।११-१२ वृषशब्दः अयं अकारान्तः गृह्यते । वृषन्शब्दः अपि नकारान्तः अस्ति । तस्य उपसङ्ख्यानं कर्तव्यं वृषशब्दः च आदेशः वक्तव्यः वृष्णे हितं इति विगृह्य वृष्यं इति एव यथा स्यात। तथा ब्रह्मन्शब्दः नकारान्तः गृह्यते । ब्राह्मणशब्दः च अकारान्तः अस्ति । तस्य उपसङ्ख्यानं कर्तव्यं ब्रह्मन्शब्दः च आदेशः वक्तव्यः ब्राह्मणेभ्यः हितं इति विगृह्य ब्रह्मण्यं इति एव यथा स्यात। तत्तर्हि वक्तव्यं । न वक्तव्यं । समानार्थौ एतौ वृषशब्दः वृषन्शब्दः च ब्रह्मन्शब्दः ब्राह्मणशब्दः च । आतः च समानार्थौ । एवं हि आह । कुतः नु चरसि ब्रह्मन। कुतः नु चरसि ब्राह्मण इति । तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरस्मातुत्पत्तिः भविष्यति अविरविकन्यायेन । तत्यथा । अवेः मांसं इति विगृह्य अविकशब्दातुत्पत्तिः भवति आविकं इति । एवं इह अपि वृषाय हितं इति विगृह्य वृष्यं इति भविष्यति । वृष्णे हितं इति विगृह्य वाक्यं एव । तथा ब्रह्मणे हितं इति विगृह्य ब्रह्मण्यं इति भविष्यति । ब्राह्मणेभ्यः हितं इति विगृह्य वाक्यं एव भविष्यति । त्रैशब्द्यं च इह साध्यं । तत्च एवं सति सिद्धं भवति ।
(पाणिनीयसूत्र ५,१।९।१) कि.।३३९।२०-३४०।१८ रो. ईV।१२-१४ (कात्यायन वार्तिक)भोगोत्तरपदात्खविधाने अनिर्देशः पूर्वपदार्थहितत्वात्(वार्तिकान्त)। भोगोत्तरपदात्खविधाने अनिर्देशः । अगमकः निर्देशः अनिर्देशः । किं कारणं । पूर्वपदार्थहितत्वात। उत्तरपदार्थप्रधानः तत्पुरुषः पूर्वपदार्थप्रधाने च प्रत्ययः इष्यते । पितृभोगाय हिते प्राप्नोति पित्रे च एव हिते इष्यते । एवं तर्हि भोगीनर्प्रत्ययः विज्ञास्यते । (कात्यायन वार्तिक)भोगीनरिति चेत्वावचनम्(वार्तिकान्त) । भोगीनरिति यदि प्रत्ययः विधीयते वावचनं कर्तव्यं मात्रीयः पित्रीयः इति अपि यथा स्यात। (कात्यायन वार्तिक)राजाचार्याभ्यां नित्यं (वार्तिकान्त)। राजाचार्याभ्यां नित्यं इति वक्तव्यं । राजभोगीनः । आचार्यातणत्वं च । आचार्यभोगीनः । किं भोगीनर्प्रत्ययः विधीयते इति अतः राजाचार्याभ्यां नित्यं इति वक्तव्यं । न इति आह । सर्वथा राजाचार्याभ्यां नित्यं इति वक्तव्यं । इह च ग्रामणिभोगीनः सेनानिभोगीनः इति उत्तरपदे इति ह्रस्वत्वं न प्राप्नोति । इह च अब्भोगिनः इति अपः भि इति तत्वं प्राप्नोति । सूत्रं च भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं भोगोत्तरपदात्खविधाने अनिर्देशः पूर्वपदार्थहितत्वातिति । न एषः दोषः । अयं भोगशब्दः अस्ति एव द्रव्यपदार्थकः । तत्यथा भोगवानयं देशः इति उच्यते यस्मिन्गावः सस्नानि च वर्तन्ते । अस्ति क्रियापदार्थकः । तत्यथा भोगवानयं ब्राह्मणः इति उच्यते यः सम्यक्स्नानादीः क्रियाः अनुभवति । तत्यः क्रियापदार्थकः तस्य अयं ग्रहणं । यः च पितृस्थाभ्यः क्रियाभ्यः हितः सम्बन्धातसौ पित्रे अपि हितः भवति । यदि सम्बन्धातस्तु द्रव्यपदार्थकस्य अपि ग्रहणं । यः अपि हि पितृद्रव्याय हितः सम्बन्धातसौ पित्रे हितः भवति । अथ वा भोगशब्दः शरीरवाची अपि द्र्श्यते । तत्यथा अहिः इव भोगैः पर्येति बाहुं इति। अहिः इव शरीरैः इति गम्यते । एवं पितृशरीराय हितः पितृभोगीणः इति ।
(पाणिनीयसूत्र ५,१।९।२) कि.।३४०।१९-३४१।६ रो. ईV।१४-१५ (कात्यायन वार्तिक)खविधाने पञ्चजनातुपसङ्ख्यानं (वार्तिकान्त)। खविधाने पञ्चजनातुपसङ्ख्यानं कर्तव्यं । पञ्चजनाय हितः पञ्चजनीनः । समानाधिकरणे इति वक्तव्यं । यः हि पञ्चानां जनाय हितः पञ्चजनीयः सः भवति । (कात्यायन वार्तिक)सर्वजनात्ठञ्च (वार्तिकान्त)। सर्वजनात्ठञ्वक्तव्यः खः च । सर्वजनाय हितः सार्वजनिकः सार्वजनीनः । समानाधिकरणे इति च वक्तव्यं । यः हि सर्वेषां जनाय हितः सर्वजनीयः सः । (कात्यायन वार्तिक)महाजनात्नित्यं (वार्तिकान्त)। महाजनात्नित्यं ठञ्वक्तव्यः । महाजनाय हितः माहाजनिकः । तत्पुरुषे इति वक्तव्यं बहुव्रीहौ मा भूतिति । महान्जनः अस्य महाजनः महाजनाय हितः महाजनीयः । यदि तर्हि अतिप्रसङ्गाः सन्ति इति उपाधिः क्रियते आद्यन्यासे अपि उपाधिः कर्तव्यः । आत्मन्विश्वजने समानाधिकरणे इति वक्तव्यं । यः हिस्विश्वेषां जनाय हितः विश्वजनीयः सः भवति । अथ मतं एततनभिधानाताद्यन्यासे न भविष्यति इति इह अपि न अर्थः उपाधिग्रहणेन । इह अपि अनभिधानात्न भविष्यति ।
(पाणिनीयसूत्र ५,१।१०) कि.।३४१।८-१३ रो. ईV। १५-१६ (कात्यायन वार्तिक)सर्वात्णस्य वावचनं (वार्तिकान्त)। सर्वात्णस्य वा इति वक्तव्यं । सार्वः सर्वीयः । (कात्यायन वार्तिक)पुरुषात्वधे (वार्तिकान्त)। पुरुषात्वधे इति वक्तव्यं : पौरुषेयः वधः । अत्यल्पं इदं उच्यते : पुरुषात्वधे इति । पुरुषात्वधविकारसमूहतेनकृतेषु इति वक्तव्यं : पौरुषेयः वधः , पौरुषेयः विकारः , पौरुषेयः समूहः , तेन कृतं पौरुषेयं ।
(पाणिनीयसूत्र ५,१।१२) कि.।३४१।१५-२० रो. ईV।१६ (कात्यायन वार्तिक)तदर्थं इति कृत्यनामभ्यः ठञ्(वार्तिकान्त) । तदर्थं इति कृत्यनामभ्यः ठञ्वक्तव्यः । इन्द्रमहार्थं ऐन्द्रमहिहं गाङ्गामहिहं काशेरुयज्ञिकं । (कात्यायन वार्तिक)न वा प्रयोजनेन कृतत्वात्(वार्तिकान्त) । न वा वक्तव्यं । किं कारणं । प्रयोजनेन कृतत्वात। यत्हि इन्द्रमहार्थं इन्द्रमहः तस्य प्रयोजनं भवति । तत्र प्रयोजनं इति एव सिद्धं ।
(पाणिनीयसूत्र ५,१।१३) कि.।३४१।२२-३४२।२० रो. ईV।१७-१९ (कात्यायन वार्तिक)उपध्यर्थं इति प्रत्ययानुपपत्तिः (वार्तिकान्त)। उपध्यर्थं इति प्रत्ययस्य इह अनुपपत्तिः । किं कारणं । उपध्यभावात। विकृतेः प्रकृतौ अभिधेयायां प्रत्ययेन भवितव्यं । न च उपधिसञ्ज्ञिकायाः विकृतेः प्रकृतिः अस्ति । यत्हि तत्रथाङ्गं ततौपधेयं इति उच्यते । (कात्यायन वार्तिक)सिद्धं तु कृदन्तस्य स्वार्थे अञ्वचनात्(वार्तिकान्त)। सिद्धं एतत। कथं । कृदन्तस्य स्वार्थे अञ्वक्तव्यः । उपधीयते उपधेयं । उपधेयं एव औपधेयं । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं उपध्यर्थं इति प्रत्ययानुपपत्तिः इति । न एततस्ति । अयं उपधिशब्दः अस्ति एव कर्मसाधनः । उपधीयते उपधिः इति । अस्ति भावसाधनः । उपधानं उपधिः इति । तत्यः भावसाधनः तस्य इदं ग्रहणं । एवं अपि न सिध्यति । किं कारणं । विकृतेः प्रकृतौ इति वर्तते । प्रकृतिविकृतिग्रहणं निवर्तिष्यते । तत्च अवश्यं निवर्त्यं इहार्थं उत्तराथं च । इहार्थं तावत। बालेयाः तण्डुलाः । उत्तरार्थं ऋषभोपानहोः ञ्यः । आर्षभ्यः वत्सः इति । अथ तदर्थं इति अनुवर्तते उताहो न । किं च अर्थः अनुवृत्त्या । बाढं अर्थः । ततस्य ततस्मिन्स्यातिति तदर्थे यथा स्यात। इह मा भूत। प्रासादः देवदत्तस्य स्यातिति । प्राकारः नगरस्य स्यातिति । यदि तदर्थं इति अनुवर्तते ऋषभोपानहोः ञ्यः ऋषभार्थः घासः उपानदर्थः तिलकल्कः इति अत्र अपि प्राप्नोति । एवं तर्हि अनुवर्तते प्रकृतिविकृतिग्रहणं । ननु च उक्तं बल्यृषभयोः न सिध्यति इति । किं पुनः भवान्विकारं मत्वा आह बल्यृषभयोः न सिध्यति इति । यदि तावत्यः प्रकृत्युपमर्देन भवति सः विकारः वैभीतकः यूपः खादिरं चषालं इति न सिध्यति । अथ मतं एततेव गुणान्तरयुक्तं विकारः इति बल्यृषभयोः अपि सिद्धं भवति । गुणन्तरयुक्ताः हि तण्डुलाः बालेयाः गुणान्तरयुक्तः च वत्सः आर्षभः । औपधेयं तु न सिध्यति । वचनात्स्वार्थिकः भविष्यति ।
(पाणिनीयसूत्र ५,१।१६) कि.।३४२।२२-३४३।६ रो. ईV।१९-२१ स्याद्ग्रहणं किमर्थं । इह मा भूत। प्रासादः देवदत्तस्य प्राकारः नगरस्य इति । अथ क्रियमाणे अपि स्याद्ग्रहणे इह कस्मात्न भवति । प्रासादः देवदत्तस्य स्यात। प्राकारः नगरस्य स्यातिति । शक्यार्थे लिङिति वक्तव्यं । न एवं शक्यं । इदानीं एव हि उक्तं न हि उपाधेः उपाधिः भवति विशेषणस्य वा विशेषणं इति । एवं तर्हि इतिकरणः क्रियते । ततः चेत्विवक्षा भवति । विवक्षा च द्वयी । अस्ति एव प्रायोक्त्री विवक्षा अस्ति लौकिकी । प्रयोक्ता हि मृद्व्या स्निग्धया श्लक्ष्णया जिह्वया मृदून्स्निग्धान्श्लक्ष्णान्शब्दान्प्रयुङ्क्ते । लौकिकी विवक्षा यत्र प्रायस्य सम्प्रत्ययः । प्रायः इति लोकः व्यपदिश्यते । न च प्रासादः देवदत्तस्य स्यात्प्राकारः नगरस्य स्यातिति अत्र उत्पद्यमानेन प्रत्ययेन प्रायस्य सम्प्रत्ययः स्यात। यदि एवं न अर्थः स्याद्ग्रहणेन । न हि प्रासादः देवदत्तस्य स्यात्प्राकारः नगरस्य स्यातिति अत्र उत्पद्यमानेन प्रत्ययेन प्रायस्य सम्प्रत्ययः स्यात।
(पाणिनीयसूत्र ५,१।१९।१) कि.।३४३।८-३४४।१० रो. ईV।२२-२५ किमर्थं सङ्ख्यायाः पृथग्ग्रहणं क्रियते न सङ्ख्या अपि परिमाणं एव तत्र परिमाणपर्युदासेन पर्युदासः भविष्यति । एवं तर्हि सिद्धे सति यत्सङ्ख्ययाः पृथग्ग्रहणं करोति तत्ज्ञापयति आचार्यः अन्या सङ्ख्या अन्यत्परिमाणं इति । किं एतस्य ज्ञापने प्रयोजनं । अपरिमाणबिस्ताचितकम्बएल्भ्यः न तद्धितलुकि इति द्वाभ्यां शताभ्यां क्रीता द्विशता त्रिशता परिमाणपर्युदासेन न भवति इति । यदि एतत्ज्ञाप्यते ततस्य परिमाणं सङ्ख्यायाः सञ्ज्ञासङ्घसूत्राध्ययनेषु इति विशेषणं न प्रकल्पते परिमाणं या सङ्ख्या इति । इह च क्रीतवत्परिमाणतिति सङ्ख्याविहितस्य प्रत्ययस्य अतिदेशः न प्रकल्पते । शतस्य विकारः शत्यः शतिकः । साहस्रः इति । यत्तावतुच्यते तत्ज्ञापयति आचार्यः अन्या सङ्ख्या अन्यत्परिमाणं इति । न्यायसिद्धं एव एतत। भेदमात्रं सङ्ख्या आह । यत्च इषीकान्तं यत्च अपरिमाणं सर्वस्य सङ्ख्या भेदमात्रं ब्रवीति । परिमाणं तु सर्वतः । सर्वतः मानं इति च अतः परिमाणं इति । प्रस्थस्य च समानाकृतेः न कुतः चित्विशेषः गम्यते न च उन्मानतः न परिमाणतः न प्रमाणतः । किं पुनः उन्मानं किं परिमाणं किं प्रमाणं । (कात्यायन वार्तिक)ऊर्ध्वमानं किल उन्मानम्(वार्तिकान्त) । ऊर्ध्वं यत्मीयते ततुन्मानं । (कात्यायन वार्तिक)परिमाणं तु सर्वतः (वार्तिकान्त)। सर्वतः मानं इति च अतः परिमाणं । कुत एतत। परिः सर्वतोभावे वर्तते । (कात्यायन वार्तिक)आयामः तु प्रमाणं स्यात्(वार्तिकान्त)। आयामविवक्षायां प्रमाणं इति एतत्भवति । सङ्ख्या बाह्या तु सर्वतः । आतः च सर्वतः सङ्ख्या बाह्या । (कात्यायन वार्तिक)भेदभावं ब्रवीति एषा न एषा मानं कुतः चन (वार्तिकान्त)। एवं च कृत्वा सङ्ख्यायाः पृथग्ग्रहणं क्रियते । यतपि उच्यते ततस्य परिमाणं सङ्ख्यायाः सञ्ज्ञासङ्घसूत्राध्ययनेषु इति विशेषणं न प्रकल्पते इति । आह अयं परिमाणं या सङ्ख्या इति । न च अस्ति सङ्ख्या परिमाणं । तत्र वचनातियती विवक्षा भविष्यति । यदपि उच्यते क्रीतवत्परिमाणतिति सङ्ख्याविहितस्य प्रत्ययस्य अतिदेशः न प्रकल्पते इति । सङ्ख्यायाः इति च तत्र वक्तव्यं ।
(पाणिनीयसूत्र ५,१।१९।२) कि.।३४४।११-३४५।७ रो. ईV।२५-२७ किं पुनः इमे ठगादयः प्राकर्हात्भवन्ति आहोस्वित्सह अर्हेण । कः च अत्र विशेषः । (कात्यायन वार्तिक)ठगादयः प्राकर्हात्चेतर्हे तद्विधिः(वार्तिकान्त) । ठगादयः प्राकर्हात्चेतर्हे तद्विधिः । अर्हे ठगादयः विधेयाः । शतं अर्हति शत्यः शतिकः । साहरः इति । वस्ने वसनात्सिद्धं । इह यः शतं अर्हति शतं तस्य वस्नः भवति । तत्र सः अस्य अंशवस्नभृतयः इति एव सिद्धं । (कात्यायन वार्तिक)वस्ने वचनात्सिद्धं इति चेत्मांसौदनिकादिषु अप्राप्तिः(वार्तिकान्त) । वस्ने वचनात्सिद्धं इति चेत्मांसौदनिकादिषु अप्राप्तिः । मांसौदनिकः अतिथिः श्वैतच्छत्रिकः कालायसूपिकः । तथा गुणानां परिप्रश्नः भवति । किं अयं ब्राह्मणः अर्हति । शतं अर्हति शत्यः शतिकः साहस्रः नैष्किकः इति न सिध्यति । सन्तु तर्हि सहार्हेण । (कात्यायन वार्तिक)आ अर्हात्चेत्भोजनादिषु अत्र्प्रसङ्गः (वार्तिकान्त)। आ अर्हात्चेत्भोजनादिषु अत्र्प्रसङ्गः भवति । भोजनं अर्हति । पानं अर्हति इति । किं उच्यते भोजनादिषु अत्र्प्रसङ्गः इति यदा छेदादिभ्यः इति उच्यते । अवश्यं मांसौदनिकाद्यर्थं योगविभागः कर्तव्यः । ततर्हति । ततः छेदादिभ्यः नित्यं इति । तस्मिन्क्रियमाणे भोजनादिषु अत्र्प्रसङ्गः भवति । (कात्यायन वार्तिक)उक्तं वा (वार्तिकान्त)। किं उक्तं । अनभिधानातिति । अनभिधानात्भोजनादिषु अतिप्रसङ्गः न भवति [ऱः भविष्यति] । अथ वा योगविभागः न करिष्यते । कथं मांसौदनिकः अतिथिः श्वैतच्छत्रिकः कालायसूपिकः । अस्मिन्दीयते अस्मै इति च एवं एतत्सिद्धं । अथ वा पुनः अस्तु प्राकर्हात। ननु च उक्तं ठगादयः प्राकर्हात्चेतर्हे तद्विधिः इति । परिहृतं एतत्वस्ने वचनात्सिद्धं इति । ननु च उक्तं वस्ने वचनात्सिद्धं इति चेत्मांसौदनिकादिषु अप्राप्तिः । मांसौदनिकः अतिथिः श्वैतच्छत्रिकः कालायसूपिकः । तथा गुणानां परिप्रश्नः भवति । किं अयं ब्राह्मणः अर्हति । शतं अर्हति शत्यः शतिकः साहस्रः नैष्किकः इति न सिध्यति । न एषः दोषः । अस्मिन्दीयते अस्मै इति च एवं एतत्सिद्धं ।
(पाणिनीयसूत्र ५,१।२०।१) कि.।३४५।९-२५ रो. ईV। २७-२९ असमासे इति किमर्थं । परमनिष्केण क्रीतं परमनैष्किकं । न एततस्ति । निष्कशब्दात्प्रत्ययः विधीयते । तत्र कः प्रसङ्गः यत्परमनिष्कशब्दात्स्यात। न एव प्राप्नोति न अर्थः प्रतिषेधेन । तदन्तविधिना प्राप्नोति । ग्रहणवता प्रातिपदिकेन तदन्तिविधिः प्रतिषिध्यते । (कात्यायन वार्तिक)निष्कादिषु असमासग्रहणं ज्ञापकं पूर्वत्र तदन्ताप्रतिषेधस्य (वार्तिकान्त)। निष्कादिषु असमासग्रहणं क्रियते ज्ञापकार्थं । किं ज्ञाप्यं । पूर्वत्र तदन्त्विधेः प्रतिषेधः न भवति इति । किं एतस्य ज्ञापने प्रयोजनं । प्राक्वतेः ठञिति अत्र तदन्तविधिः सिद्धः भवति । न एततस्ति प्रयोजनं । ग्रहणवता प्रातिपदिकेन तदन्तिविधिः प्रतिषिध्यते । न च ठञ्विधौ का चित्प्रकृतिः गृह्यते । इदं तर्हि प्रयोजनं । आ अर्हातगोपुच्छसङ्ख्यापरिमाणात्ठक। परमगोपुच्छेन क्रीतं पारमगोपुच्छिकं । अत्र तदन्तविधिः सिद्धः भवति । एततपि न अस्ति प्रयोजनं । विधौ प्रतिषेधः प्रतिषेधः च अयं । एवं तर्हि ज्ञापयति आचार्यः इतः उत्तरं तदन्तविधेः प्रतिषेधः न भवति इति । किं एतस्य ज्ञापने प्रयोजनं । पार्याणतुरायणचान्द्रायणं वर्तयति द्वैपारायणिकः त्रैपारायणिकः । अत्र तदन्तविधिः सिद्धः भवति । एततपि न अस्ति प्रयोजनं । वक्ष्यति एतत। प्राक्वतेः सङ्ख्यापूर्वपदानां तदन्तग्रहणं अलुकि । पूर्वत्र एव तर्हि प्रयोजनं । खलयवमाषतिलवृषब्रह्मणः च इति । कृष्णतिलेभ्यः हितः कृष्णतिल्यः । राजमाषेभ्यः हितं राजमाष्यं ।
(पाणिनीयसूत्र ५,१।२०।२) कि.।३४६।१-४ रो. ईV।२९-३० (कात्यायन वार्तिक)प्राक्वतेः सङ्ख्यापूर्वपदानां तदन्तग्रहणं अलुकि(वार्तिकान्त) । प्राक्वतेः सङ्ख्यापूर्वपदानां तदन्तग्रहणं अलुकि कर्तव्यं । पार्याणतुरायणचान्द्रायणं वर्तयति द्वैपारायणिकः त्रैपारायणिकः । अलुकि इति किमर्थं । द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पं । त्रिशूर्पं । द्विशूर्पेण क्रीतं द्वैशौर्पिकं । त्रैशौर्पिकं ।
(पाणिनीयसूत्र ५,१।२१) कि.।३४६।६-८ रो. ईV।३०-३१ (कात्यायन वार्तिक)शतप्रतिषेधे अन्यशतत्वे अप्रतिषेधः(वार्तिकान्त) । शतप्रतिषेधे अन्यशतत्वे प्रतिषेधः न भवति इति वक्तव्यम। इह मा भूत। शतेन क्रीतं शत्यं शाटकशतं इति । अन्यशतत्वे इति किं । शतकं निदानं ।
(पाणिनीयसूत्र ५,१।२२) कि.।३४६।१०-१८ रो. ईV।३१-३२ डतेः च इति वक्तव्यं इह अपि यथा स्यात। कतिभिः क्रीतं कतिकं । किं पुनः कारणं न सिध्यति । त्यन्तायाः न इति प्रतिषेधः प्राप्नोति । (कात्यायन वार्तिक)तिप्रतिषेधात्डतिग्रहणं इति चेतर्थवद्ग्रहणात्सिद्धम्(वार्तिकान्त) । अर्थवतः तिशब्दस्य ग्रहणं न च डतेः तिशब्दः अर्थवान। न एषा परिभाषा इह शक्या विज्ञातुं । न हि केवलेन प्रत्ययेन अर्थः गम्यते । केन तर्हि । सप्रकृतिकेन । क्व तर्हि एषा परिभाषा भवति । यानि एतानि शब्दसङ्घातग्रहणानि । तत्तर्हि वक्तव्यं । न वक्तव्यं । अर्थवद्ग्रहणात्सिद्धं । ननु च उक्तं न एषा परिभाषा इह शक्या विज्ञातुं । न हि केवलेन प्रत्ययेन अर्थः गम्यते इति । केवलेन अपि प्रत्ययेन अर्थः गम्यते । कथं । उक्तं अन्वयव्यतिरेकाभ्यां ।
(पाणिनीयसूत्र ५,१।२३) कि.।३४६।२०-३४७।८ रो. ईV।३२-३३ कस्य अयं इट्विधीयते । कनः इति आह । तत्कनः ग्रहणं कर्तव्यं । अक्रियमाणे हि कनः ग्रहणे प्रत्ययाधिकारात्प्रत्ययः अयं विज्ञायेत । टित्करणसामर्थ्यातादिः भविष्यति । अस्ति अन्यत्टित्करणे प्रयोजनं । टितः इति ईकारः यथा स्यात। अकारान्तप्रकरणे ईकारः न च एषः अकारान्तः । एवं अपि कुतः एतत्टित्करणसामर्थ्यातादिः भविष्यति न पुनः अकारान्तप्रकरणे सति अनकारान्तातपि ईकारः स्यात। तस्मात्कणः ग्रहणं कर्तव्यं । न कर्तव्यं । प्रकृतं अनुवर्तते । क्व प्रकृतं । सङ्ख्यायाः अतिशदन्तायाः कनिति । तत्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन च इह अर्थः । वतोः इति एषा पञ्चमी कनिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मातिति उत्तरस्य इति । प्रत्ययविधिः अयं । न च प्रत्ययविधौ पञ्चम्याः प्रकल्पिकाः भवन्ति । न अयं प्रत्ययविधिः । विहितः प्रत्ययः प्रकृतः च अनुवर्तते ।
(पाणिनीयसूत्र ५,१।२४) कि.।३४७।१०-१४ रो. ईV।३३-३४ असञ्ज्ञायां इति किमर्थं । त्रिंशत्कः विंशत्कः । कथं च अत्र कन्भवति । सङ्ख्यायाः कन्भवति इति । अतिशदन्तायाः इति प्रतिषेधः प्राप्नोति । एवं तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवति अत्र कनिति यतयं विंशतिकात्खः इति प्रत्ययान्तनिपातनं करोति । विंशतेः एतत्ज्ञापकं स्यात। न इति आह । योगापेक्षं ज्ञापकं । अथ वा योगविभागः करिष्यते । विंशतित्रिंशभ्यां कन्भवति इति । ततः ड्वुनसञ्ज्ञायां इति ।
(पाणिनीयसूत्र ५,१।२५) कि.।३४७।१६-२० रो. ईV।३४ (कात्यायन वार्तिक)टिथनर्धात्च(वार्तिकान्त) । टिथनर्धात्च इति वक्तव्यं । अर्धिकः अर्धिकी । (कात्यायन वार्तिक)कार्षापणात्वा प्रतिः च(वार्तिकान्त) । कार्षापणात्टिठन्वक्तव्यः वा च प्रतिः आदेशः वक्तव्यः । कार्षापणिकः कार्षापणिकी प्रतिकः प्रतिकी ।
(पाणिनीयसूत्र ५,१।२८) कि.।३४७।२२-३४९।४ रो. ईV।३५-३७ द्विगोः लुकि उक्तं । किं उक्तं । तत्र तावतुक्तं द्विगोः लुकि तन्निमित्तग्रहणम। अर्थविशेषासम्प्रत्यये अतन्निमित्तातपि इति । इह अपि द्विगोः लुकि तन्निमित्तग्रहणं कर्तव्यं । द्विगोः निमित्तं यः तद्धितः तस्य लुक्भवति इति वक्तव्यं । इह मा भूत। द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पं । त्रिशूर्पं । द्विशूर्पेण क्रीतं द्वैशौर्पिकं । त्रैशौर्पिकं । अर्थविशेषासम्प्रत्यये अतन्निमित्तातपि । अर्थविशेषस्य असम्प्रत्यये अतन्निमित्तातपि वक्तव्यं । किं प्रयोजनं । द्वयोः शूर्पयोः समाहारः द्विशूर्पी । द्विशूर्प्या क्रीतं इति विगृह्य द्विशूर्पं इति एव यथा स्यात। अथ क्रियमाणे अपि तन्निमित्तग्रहणे कथं इदं विज्ञायते । तस्य निमित्तं तन्निमित्तं तन्निमित्तातिति आहोस्वित्सः निमित्तं अस्य सः अयं तन्निमित्तः तन्निमित्तातिति । किं च अतः । यदि विज्ञायते तस्य निमित्तं तन्निमित्तं तन्निमित्तातिति क्रियमाणे अपि तन्निमित्तग्रहणे अत्र प्राप्नोति । द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पं । त्रिशूर्पं । द्विशूर्पेण क्रीतं द्वैशौर्पिकं । त्रैशौर्पिकं । अथ विज्ञायते सः निमित्तं अस्य सः अयं तन्निमित्तः तन्निमित्तातिति न दोषः भवति । यथ न दोषः तथा अस्तु । सः निमित्तं अस्य सः अयं तन्निमित्तः तन्निमित्तातिति विज्ञायते । कुतः एतत। यतयं आह अर्थविशेषासम्प्रत्यये अतन्निमित्तातपि इति । तत्तर्हि तन्निमित्तग्रहणं कर्तव्यं । न कर्तव्यं । द्विगोः इति न एषा पञ्चमी । का तर्हि । सम्बन्धषष्ठी । द्विगोः तद्धितस्य लुक्भवति । किं च द्विगोः तद्धितः । निमित्तं । यस्मिन्द्विगुः इति एतत्भवति । कस्मिन्च एतत्भवति । प्रत्यये । इदं तर्हि वक्तव्यं अर्थविशेषासम्प्रत्यये अतन्निमित्तातपि इति । एतत्च न वक्तव्यं । इह अस्माभिः त्रैशब्द्यं साध्यं । द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पं । त्रिशूर्पं । द्विशूर्पेण क्रीतं द्वैशौर्पिकं । त्रैशौर्पिकं इति । तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरस्मातुत्पत्तिः भविष्यति अविरविकन्यायेन । तत्यथा । अवेः मांसं इति विगृह्य अविकशब्दातुत्पत्तिः भवति । एवं इह अपि द्वाभ्यां शूर्पाभ्यां क्रीतं इति विगृह्य द्विशूर्पं इति भविष्यति । द्विशूर्प्या क्रीतं इति विगृह्य वाक्यं एव भविष्यति । अथ असञ्ज्ञायां इति किमर्थं । पाञ्चलोहितिकं पाञ्चकलापिकं । (कात्यायन वार्तिक)सञ्ज्ञाप्रतिषेधानर्थक्यं च तन्निमित्तत्वात्लोपस्य(वार्तिकान्त) । सञ्ज्ञाप्रतिषेधः च अनर्थकः । किं कारणं । तन्निमित्तत्वात्लोपस्य । न अन्तरेण तद्धितं तद्धितस्य च लुकं द्विगुः सञ्ज्ञा अस्ति । यः तस्मातुत्पद्यते न असु तन्निमित्तं स्यात। एवं तर्हि इदं स्यात। पञ्चानां लोहितानां समाहारः पञ्चलोहिती पञ्चलोहित्या क्रीतं । अत्र अपि पञ्चलोहितं इति एव भवितव्यं । कथं । उक्तं हि एततर्थविशेषासम्प्रत्यये अतन्निमित्तातपि इति । (कात्यायन वार्तिक)उक्तं सङ्ख्यात्वे प्रयोजनं तस्मातिह अध्यर्धग्रहणानर्थक्यम्(वार्तिकान्त) । उक्तं सङ्ख्यात्वे अध्यर्धग्रहणस्य प्रयोजनं । किं उक्तं । अध्यर्धग्रहणं च समासकन्विध्यर्थं लुकि च अग्रहणं इति । तस्मातिह अध्यर्धग्रहणानर्थक्यं । तस्मातिह अध्यर्धग्रहणं अनर्थकं । द्विगोः इति एव लुक्सिद्धः ।
(पाणिनीयसूत्र ५,१।२९) कि.।३४९।६-९ रो. ईV।३७ कार्षापणसहस्राभ्यां सुवर्णशतमानयोः उपसङ्ख्यानं कर्तव्यं । अध्यर्धसुवर्णं अध्यर्धसौवर्णिकं अध्यर्धशतमानं अध्यर्धशातमानं द्विशतमानं द्विशातमानं
(पाणिनीयसूत्र ५,१।३०-३१) कि.।३४९।१२-१८ रो. ईV।३७-३८ (कात्यायन वार्तिक)द्वित्रिभ्यां द्वैयोग्यम्(वार्तिकान्त) । द्वित्रिभ्यां इति यतुच्यते द्वैयोग्यं एतत्द्रष्टव्यं । किं इदं द्वैयोग्यं इति । द्वयोः योगयोः भवं द्वियोगं । द्वियोगस्य भावः द्वैयोग्यं इति । द्वेष्यं विजानीयातः अविशेषेण इतः उत्तरं द्वित्रिभ्यां इति । तताचार्यः सुहृत्भूत्वा अन्वाचष्टे : द्वित्रिभ्यां द्वैयोग्यं इति । (कात्यायन वार्तिक)तत्र च बहुग्रहणम्(वार्तिकान्त) । तत्र च बहुग्रहणं कर्तव्यं । बहुनिष्कं बहुनैष्किकं । बहुबिस्तं बहुबैस्तिकं ।
(पाणिनीयसूत्र ५,१।३३) कि.।३४९।२०-३५०।४ रो. ईV।३८ (कात्यायन वार्तिक)खार्याः ईकन्केवलायाः च(वार्तिकान्त) । खार्याः ईकन्केवलायाः च इति वक्तव्यं । खारीकं । (कात्यायन वार्तिक)काकिण्याः च उपसङ्ख्यानम्(वार्तिकान्त) ।काकिण्याः च उपसङ्ख्यानं कर्तव्यं । अध्यर्धकाकिणीकं द्विकाकिणीकं । (कात्यायन वार्तिक)केवलायाः च(वार्तिकान्त) । केवलायाः च इति वक्तव्यं । काकिणीकं ।
(पाणिनीयसूत्र ५,१।३५) कि.।३५०।६-११ रो. ईV।३८-३९ (कात्यायन वार्तिक)शतशाणाभ्यां वा(वार्तिकान्त) । शतशाणाभ्यां वा इति वक्तव्यं । अध्यर्धशतं अध्यर्धशत्यं पञ्चशतं पञ्चशत्यं अध्यर्धशाणं अध्यर्धशाण्यं पञ्चशाणं पञ्चशाण्यं । (कात्यायन वार्तिक)द्वित्रिपूर्वातण्च(वार्तिकान्त) । द्वित्रिपूर्वातण्च इति वक्तव्यं । द्विशाणं त्रिशाणं द्वैशाणं त्रैशाणं द्विशाण्यं त्रिशाण्यं ।
(पाणिनीयसूत्र ५,१।३७) कि.।३५०।१३-३५१।६ रो. ईV।३९-४० (कात्यायन वार्तिक)तेन क्रीतं इति करणात्(वार्तिकान्त) । तेन क्रीतं इति अत्र करणातिति वक्तव्यं । इह मा भूत। देवदत्तेन क्रीतं । यज्ञदत्तेन क्रीतं इति । (कात्यायन वार्तिक)अकर्त्रेकान्तात्(वार्तिकान्त) । अकर्त्रेकान्तातिति वक्तव्यं । इह मा भूत। देवदत्तेन पाणिना क्रीतं इति । (कात्यायन वार्तिक)सङ्ख्यैकवचनात्द्विगोः च उपसङ्ख्यानम्(वार्तिकान्त) । सङ्ख्यायाः इति वक्तव्यं । इह अपि यथा स्यात। पञ्चभिः क्रीतं पञ्चकं । किं पुनः कारणं न सिध्यति । एकवचनान्तातिति वक्ष्यति । तस्य अयं पुरस्तातपकर्षः । एकवचनात। एकवचनान्तातिति वक्तव्यं । इह मा भूत। शूर्पाभ्यां क्रीतं । शूर्पैः क्रीतं इति । द्विगोः च । द्विगोः च इति वक्तव्यं । इह अपि यथा स्यात। द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पं त्रिशूर्पं इति । यदि एकवचनान्तातिति उच्यते मुद्गैः क्रीतं मौद्गिकं माषैः क्रीतं माषिकं इति न सिध्यति । परिमाणस्य सङ्ख्यायाः यतेकवचनं तदन्तातिति वक्तव्यं । तत्तर्हि एकवचनान्तातिति वक्तव्यं । तस्मिन्च क्रियमाणे बहु वक्तव्यं भवति । न वक्तव्यं । कस्मात्न भवति शूर्पाभ्यां क्रीतं । शूर्पैः क्रीतं इति । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । अनभिधानातिति । यदि एवं करणातकर्त्रेकान्तातिति अपि न वक्तव्यं । कर्तुः कर्त्रेकान्तात्वा कस्मात्न भवति । अनभिधानात।
(पाणिनीयसूत्र ५,१।३८) कि.।३५१।८-१४ रो. ईV।४०-४१ संयोगनिपातयोः कः विशेषः । संयोगः नाम सः भवति इदं कृत्वा इदं अवाप्यते इति । उत्पातः नाम सः भवति यादृच्छिकः भेदः वा छेदः वा पद्मं वा पर्णं वा । (कात्यायन वार्तिक)तस्यनिमित्तप्रकरणे वातपित्तश्लेष्मभ्यः शमकोपनयोः उपसङ्ख्यानम्(वार्तिकान्त) । तस्यनिमित्तप्रकरणे वातपित्तश्लेष्मभ्यः शमकोपनयोः उपसङ्ख्यानं कर्तव्यं । वातस्य शमनं कोपनं वा वातिकं । पैत्तिकं श्लैष्मिकं । (कात्यायन वार्तिक)सन्निपातात्च(वार्तिकान्त) । सन्निपातात्च इति वक्तव्यं । सान्निपातिकं ।
(पाणिनीयसूत्र ५,१।३९) कि.।३५१।१६-१८ रो. ईV।४१ (कात्यायन वार्तिक)यत्प्रकरणे ब्रह्मवर्चसात्च(वार्तिकान्त) । यत्प्रकरणे ब्रह्मवर्चसात्च उपसङ्ख्यानं कर्तव्यं । ब्रह्मवर्चसस्य निमित्तं ब्रह्म्वर्चस्यः । उत्पातः वा ।
(पाणिनीयसूत्र ५,१।४७) कि.।३५१।२०-३५२।२ रो. ईV।४१ (कात्यायन वार्तिक)तदस्मिन्दीयते अस्मै इति च(वार्तिकान्त) । तदस्मिन्दीयते अस्मै इति च इति वक्तव्यं । पञ्च वृद्धिः वा आयः वा लाभः वा शुल्कः वा उपदा वा दीयते अस्मै पञ्चकः । सप्तकः । अष्टकः । नवकः । दशकः । तत्तर्हि उपसङ्ख्यानं कर्तव्यं । न कर्तव्यं । यत्हि यस्मै दीयते तस्मिनपि तत्दीयते । ततस्मिन्दीयते इति एव सिद्धं ।
(पाणिनीयसूत्र ५,१।४८) कि.।३५२।४-८ रो. ईV।४१-४२ (कात्यायन वार्तिक)ठन्प्रकरणे अनन्तातुपसङ्ख्यानम्(वार्तिकान्त) । ठन्प्रकरणे अनन्तातुपसङ्ख्यानं कर्तव्यं । द्वितीयकः । तृतीयकः । किं पुनः कारणं न सिध्यति । पूरणातिति उच्यते । न च एतत्पूरणान्तं । अना एतत्पर्यवपन्नं । पूरणं नाम अर्थः । तं अर्थं आह तीयशब्दः । पूरणं सः असौ भवति । पूरणन्तात्स्वार्थे भागे अन। सः अपि पूरणं भवति एव ।
(पाणिनीयसूत्र ५,१।५२) कि.।३५२।१०-११ रो. ईV।४२ (कात्यायन वार्तिक)तत्पचति इति द्रोणातण्च(वार्तिकान्त) । तत्पचति इति द्रोणातण्च इति वक्तव्यं । द्रोणं पचति । द्रौणी । द्रौणिकी ।
(पाणिनीयसूत्र ५,१।५५) कि.।३५२।१३-१५ रो. ईV।४२-४३ (कात्यायन वार्तिक)कुलिजात्च इति सिद्धे लुक्खग्रहणानर्थक्यं पूर्व्समिन्त्रिकभावात्(वार्तिकान्त) । कुलिजात्च इति एव सिद्धं । न अर्थः लुक्खग्रहणेन । किं कारणं । पूर्वस्मिन्त्रिकभावात। पूर्वस्मिन्योगे सर्वः एषः त्रिकः निर्दिश्यते । द्व्याढकी । द्व्याढिकी । द्व्याढकीना ।
(पाणिनीयसूत्र ५,१।५७-५८।१) कि.।३५२।१८-३५४।६ रो. ईV।४३-४६ (कात्यायन वार्तिक)सञ्ज्ञायां स्वार्थे(वार्तिकान्त) । सञ्ज्ञायां स्वार्थे प्रत्ययः उत्पाद्यः । पञ्च एव पञ्चकाः शकुनयः । त्रिकाः शालङ्कायनाः । सप्तकाः ब्रह्मवृक्षाः । (कात्यायन वार्तिक)ततः परिमाणिनि(वार्तिकान्त) । ततः परः प्रत्ययः परिमाणिनि इति वक्तव्यं । पञ्चकः सङ्घः । दशकः सङ्घः । (कात्यायन वार्तिक)जीवितपरिमाणे च उपसङ्ख्यानम्(वार्तिकान्त) । जीवितपरिमाणे च उपसङ्ख्यानं कर्तव्यं । षष्टिः जीवितपरिमाणं अस्य षाष्टिकः । साप्ततिकः । (कात्यायन वार्तिक)जीवितपरिमाणे च इति अनर्थकं वचनं कालातिति सिद्धत्वात्(वार्तिकान्त) । जीवितपरिमाणे च इति अनर्थकं वचनं । किं कारणं । कालातिति सिद्धत्वात। कालातिति एव सिद्धं । इह यस्य षष्टिः जीवितपरिमाणं षष्तिं असु भूतः भवति । तत्र तं अधीष्टः भृतः भूतः भावी इति एव सिद्धं । अवश्यं च एततेवं विज्ञेयं । (कात्यायन वार्तिक)इह वचने हि लुक्प्रसङ्गः(वार्तिकान्त) । इह हि क्रियमाणे लुक्प्रसज्येत : द्विषाष्टिकः । त्रिषाष्टिकः । अनेन सति लुक्भवति । तेन सति कस्मात्न भवति । आ अर्हातिति उच्यते । न सिध्यति । किं कारणं । न हि इमे कालशब्दाः । किं तर्हि सङ्ख्याशब्दाः इमे । इमे अपि कालशब्दाः । कथं । सङ्ख्या सङ्ख्येये वर्तते । यदि तर्हि यः यः काले वर्तते सः सः कालशब्दः रमणीयादिषु अत्रिप्रसङ्गः भवति । रमणीयं कालं भूतः । शोभनं कालं भूतः । अथ मतं एतथ। काले दृष्टः शब्दः कालशब्दः कालं यः न व्यभिचरति इति न रमणीयादिषु अत्रिप्रसङ्गः भवति । जीवितपरिमाणे तु उपसङ्ख्यानं कर्तव्यं । इह च उपसङ्ख्यानं कर्तव्यं । वार्षशतिकः । वार्षसहस्रिकः इति । किं पुनः कारणं न सिध्यति । न हि वर्षशतशब्दः सङ्ख्या । किं तर्हि सङ्ख्येये वर्तते वर्षशतशब्दः । एवं तर्हि (कात्यायन वार्तिक)अन्येभ्यः अपि दृश्यते खारशताद्यर्थम्(वार्तिकान्त) । अन्येभ्यः अपि दृश्यते इति वक्तव्यं । किं प्रयोजनं । खारशताद्यर्थं । खारशतिकः राशिः । खारसहस्त्रिकः राशिः । अयं तर्हि दोषः । इह वचने हि लुक्प्रसङ्गः इति । न ब्रूमः यत्र क्रियमाणे दोषः तत्र कर्तव्यं इति । किं तर्हि । यत्र क्रियमाणे न दोषः तत्र कर्तव्यं । क्व च क्रियमाणे न दोषः । परं अर्हात। तत्तर्हि उपसङ्ख्यानं कर्तव्यं । न कर्तव्यं । कालातिति एव सिद्धं । ननु च उक्तं न इमे कालशब्दाः । किं तर्हि । सङ्ख्याशब्दाः इति । ननु च उक्तं इमे अपि कालशब्दाः । कथं । सङ्ख्या सङ्ख्येये वर्तते । ननु च उक्तं यदि तर्हि यः यः काले वर्तते सः सः कालशब्दः रमणीयादिषु अत्रिप्रसङ्गः भवति इति । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । अनभिधानातिति । अनभिधानात्रमणीयादिषु उत्पत्तिः न भविष्यति ।
(पाणिनीयसूत्र ५,१।५७-५८।२) कि.।३५४।७-९ रो. ईV।४६ (कात्यायन वार्तिक)स्तोमे डविधिः पञ्चदशाद्यर्थः(वार्तिकान्त) । स्तोमे डः विधेयः । किं प्रयोजनं । पञ्चदशाद्यर्थः । पञ्चदशः स्तोमः । सप्तदशः स्तोमः इति ।
(पाणिनीयसूत्र ५,१।५९) कि.।३५५।२-३५७।८ रो. ईV।४६-५६ इमे विंशत्यादयः सप्रकृतिकाः सप्रत्ययकाः निपात्यन्ते । तत्र न ज्ञायते का प्रकृतिः कः प्रत्ययः कः प्रत्ययार्थः इति । तत्र वक्तव्यं इयं प्रकृतिः अयं प्रत्ययः अयं प्रत्ययार्थः इति । इमे ब्रूमः द्विशब्दातयं दशदर्थाभिदाहिनः स्वार्थे शतिच्प्रत्ययः निपात्यते विन्भावः च । द्वौ दशतौ विंशतिः । (कात्यायन वार्तिक)विंशत्यादयः दशात्चेत्समासवचनानुपपत्तिः(वार्तिकान्त) । विंशत्यादयः दशात्चेत्समासः न उपपद्यते । विंशतिगवं इति । किं कारणं । द्रव्यं अनभिहितं । तस्य अनभिहितत्वात्षष्ठी प्राप्नोति । षष्ठ्यन्तं च समासे पूर्वं निपतति । तत्र गोविंशतिः इति प्राप्नोति । न च एवं भवितव्यं । भवितव्यं च विंशतिगवं तु न सिध्यति । इह च त्रिंशत्पूली चत्वारिंशत्पूली समानाधिकरणलक्षणः समासः न प्राप्नोति । वचनं च विधेयं । विंशतिः । द्वित्वात्दशतोः द्वयोः द्विवचनं इति द्विवचनं प्राप्नोति । एवं तर्हि परिमाणिनि विंशत्यादयः भविष्यन्ति । (कात्यायन वार्तिक)परिमाणिनि चेत्पुनः स्वार्थे प्रत्ययविधानम्(वार्तिकान्त) । परिमाणिनि चेत्पुनः स्वार्थे प्रत्ययः विधेयः । विंशकः सङ्घः । (कात्यायन वार्तिक)षष्ठीवचनविधिः च(वार्तिकान्त) । षष्ठी च विधेया । गवां विंशतिः । द्रव्यं अभिहितं । तस्य अभिहितत्वात्षष्ठी न प्राप्नोति । एकवचनं च विधेयं । विंशतिः गावः । गोभिः सामानाधिकरण्यात्बहुषु बहुवचनं इति बहुवचनं प्राप्नोति । (कात्यायन वार्तिक)अनारम्भः वा प्रातिपदिकविज्ञानात्यथा सहस्रादिषु(वार्तिकान्त) । अनारम्भः वा पुनः विंशत्यादीनां न्याय्यः । कथं सिध्यति । प्रातिपदिकविज्ञानात। कथं प्रातिपदिकविज्ञानं । विंशत्यादयः अव्युत्पन्नानि प्रातिपदिकानि यथा सहस्रादिषु । तत्यथा सहस्रं अयुतं अर्बुदं इति न च अनुगमः क्रियते भवति च अभिधानं । यथा सहस्रादिषु इति उच्यते । अथ सहस्रादिषु अपि कथं भवितव्यं । सहस्रं गवां । सहस्रं गावः । सहस्रगवं । गोसहस्रं इति । यावता अत्र अपि सन्देहः न असूया कर्तव्या यत्र अनुगमः क्रियते । ननु च उक्तं विंशत्यादयः दशात्चेत्समासवचनानुपपत्तिः । परिमाणिनि चेत्पुनः स्वार्थे प्रत्ययविधानं । षष्ठीवचनविधिः च इति । न एषः दोषः । समुदाये विंशत्यादयः भविष्यन्ति । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । सङ्घः इति वर्तते । सङ्घः समूहः समुदायः इति अनर्थान्तरं । ते एते विंशत्यादयः समुदाये सन्तः भाववचनाः भवन्ति भाववचनाः सन्तः गुणवचनाः भवन्ति गुणवचनाः सन्तः अविशिष्टाः भवन्ति अन्यैः गुणवचनैः । अन्येषु च गुणवचनेषु कदा चित्गुणः गुणिविशेषकः भवति । तत्यथा शुक्लः पटः इति । कदा चित्गुणिना गुणः व्यपदिश्यते : पटस्य शुक्लः इति । तत्यदा तावतुच्यते विंशत्यादयः दशात्चेत्समासवचनानुपपत्तिः इति सामानाधिकरण्यं तदा गुणगुणिनोः । वचनपरिहारः तिष्ठतु तावत। परिमाणिनि चेत्पुनः स्वार्थे प्रत्ययविधानं इति संहनने वृत्तः संहनने वर्तिष्यते । सङ्ख्यासंहनने वृत्तः द्रव्यसंहनने वर्तिष्यते । अथ षष्ठी तदा गुणिना गुणः विशेष्यते । वचनपरिहारः उभयोः अपि । यदि तर्हि इमे विंशत्यादयः गुणवचनाः स्युः सधर्मभिः अन्यैः गुणवचनैः भवितव्यं । अन्ये च गुणवचनाः द्रव्यस्य लिङ्गसङ्ख्ये अनुवर्तन्ते । तत्यथा । शुक्लं वस्त्रं । शुक्ला शाटी । शुक्लः कम्बलः । शुक्लौ कम्बलौ । शुक्लाः कम्बलाः इति । यतसौ द्रव्यं श्रितः गुणः तस्य यत्लिङ्गं वचनं च तत्गुणस्य अपि भवति । विंशत्यादयः पुनः न अनुवर्तन्ते । अन्ये अपि वै गुणवचनाः न अवश्यं द्रव्यस्य लिङ्गसङ्ख्ये अनुवर्तन्ते । तत्यथा । गावः धनं । पुत्रा अपत्यं । इन्द्राग्नी देवता । विश्वेदेवाः देवता । यावन्तः ते वाशितां अनुयन्ति सर्वे ते दक्षिणा समृद्ध्यै इति । अथ अत्र अननुवृत्तौ हेतुः शक्यः वक्तुं । बाढं शक्यः वक्तुं । कामं तर्हि उच्यतां । इह कदा चित्गुणः प्राधान्येन विवक्षितः भवति । तत्यथा : पञ्च उडुपशतानि तीर्णानि । पञ्च फलकशतानि तीर्णानि । अश्वैः युद्धं । असिभिः युद्धं इति । न च असयः युध्यन्ते । असिगुणाः पुरुषाः युध्यन्ते गुणः तु खलु प्राधान्येन विवक्षितः । इह तावत्गावः धनं इति धिनोतेः धनं एकः गुणः । सः प्राधान्येन विवक्षितः । पुत्राः अपत्यं इति अपतनातपत्यं एकः गुणः । सः प्राधान्येन विवक्षितः । इन्द्राग्नी देवता । विश्वेदेवाः देवता इति दिवेः ऐश्वर्यकर्मणः देवः । तस्मात्स्वार्थे तल। एकः गुणः । सः प्राधान्येन विवक्षितः । यावन्तः ते वाशितां अनुयन्ति सर्वे ते दक्षिणा समृद्ध्या इति दक्षेः वृद्धिकर्मणः दक्षिणा एकः गुणः । सः प्राधान्येन विवक्षितः । तस्य एकत्वातेकवचनं भविष्यति । विंशत्यादिषु च अपि एकः गुणः । सः प्राधान्येन विवक्षितः । तस्य एकत्वातेकवचनं भविष्यति । अयं तर्हि विंशत्यादिषु भाववचनेषु दोषः । गोविंशतिः आनीयतां इति भावानयने चोदिते द्रव्याननं न प्राप्नोति । न एषः दोषः । इदं तावतयं प्रष्टव्यः : अथ इह गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति कथं आकृतौ चोदितायां द्रव्ये आरम्भणलम्भनप्रोक्षणविशसनादीनि क्रियन्ते इति । असम्भवात। आकृतौ आरम्भणादीनां सम्भवः न अस्ति इति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि क्रियन्ते । इदं अपि एवञ्जातीयकं एव । असम्भवात्भावानयनस्य द्रव्यानयनं भविष्यति । अथ वा अव्यतिरेकात।
(पाणिनीयसूत्र ५,१।६४, ७६) कि.।३५७।११-२० रो. ईV।५६-५८ (कात्यायन वार्तिक)छेदादिपथिभ्यः विग्रहदर्शनात्नित्यग्रहणानर्थक्यम्(वार्तिकान्त) । छेदादिपथिभ्यः नित्यग्रहणं अनर्थकं । किं कारणं । विग्रहदर्शनात। विग्रहः दृश्यते । छेदं अर्हति । पन्थानं गच्छति इति । विकारार्थं तर्हि इदं नित्यग्रहणं क्रियते । विकारेण विग्रहः मा भूतिति । विरागविरङ्गं च । पन्थः ण नित्यं इति । (कात्यायन वार्तिक)विकारार्थं इति चेतकङादिभिः तुल्यम्(वार्तिकान्त) । विकारार्थं इति चेतकङादिभिः तुल्यं एतत। यथा अकङादिभिः विकारैः विग्रहः न भवति एवं आभ्यां अपि न भविष्यति । किं पुनः इह अकर्तव्यं नित्यग्रहणं क्रियते आहोस्वितन्यत्र कर्तव्यं न क्रियते । इह अकर्तव्यं क्रियते । एषः एव न्यायः यतुत सन्नियोगशिष्टानां अन्यतरापाये उभयोः अपि अभावः । तत्यथा । देवदत्तयज्ञदत्ताभ्यां इदं कर्तव्यं इति । देवदत्तापाये यज्ञदत्तः अपि न करोति ।
(पाणिनीयसूत्र ५,१।७१) कि.।३५७।२२-२४ रो. ईV।५८ (कात्यायन वार्तिक)यज्ञर्त्विग्भ्याम्तत्कर्म अर्हति इति उपसङ्ख्यानं (वार्तिकान्त)। यज्ञर्त्विग्भ्याम्तत्कर्म अर्हति इति उपसङ्ख्यानं कर्तव्यं । य्जञकर्म अर्हति यज्ञियः देशः । ऋत्विक्कर्म अर्हति आर्त्विजीनं ब्राह्मणकुलं इति ।
(पाणिनीयसूत्र ५,१।७२) कि.।३५८।२-१० रो. ईV।५८-५९ (कात्यायन वार्तिक)तत्वर्तयति इति अनिर्देशः तत्र अदर्शनात्(वार्तिकान्त) । तत्वर्तयति इति अनिर्देशः । अगमकः निर्देशः अनिर्देशः । पारायणं कः वर्तयति । यः परस्य करोति । तुरायणं कः वर्तयति । यः चरुपुरोडाशान्निर्वपति । तत्र अदर्शनात। न च तत्र प्रत्ययः दृश्यते । (कात्यायन वार्तिक)इङ्यज्योः च दर्शनात्(वार्तिकान्त) । इङ्यज्योः च प्रत्ययः दृश्यते । यः पारायणं अधीते सः पारायणिकः इति उच्यते । यः तुरायणेन यजते सः तौरायणिकः इति उच्यते । यः च एव अधीते यः परस्य करोति उभौ तौ वर्तयतः । यः च यजते यः च यः चरुपुरोडाशान्निर्वपति उभौ तौ वर्तयतः । उभयत्र कस्मात्न भवति । अनभिधानात।
(पाणिनीयसूत्र ५,१।७४) कि.।३५८।१२-१८ रो. ईV।५९ (कात्यायन वार्तिक)योजनं गच्छति इति क्रोशशतयोजनशतयोः उपसङ्ख्यानम्(वार्तिकान्त) । योजनं गच्छति इति क्रोशशतयोजनशतयोः उपसङ्ख्यानं कर्तव्यं । क्रोशशतं गच्छति इति क्रौशशतिकः । योजनशतं गच्छति इति यौजनशतिकः इति । (कात्यायन वार्तिक)ततः अभिगमनं अर्हति इति च(वार्तिकान्त) । ततः अभिगमनं अर्हति इति च क्रोशशतयोजनशतयोः उपसङ्ख्यानं कर्तव्यं । क्रोशशतातभिगमनं अर्हति क्रौशशतिकः भिक्षुः । योजनशतातभिगमनं अर्हति यौजनशतिकः गुरुः ।
(पाणिनीयसूत्र ५,१।७७) कि.।३५८।२०-३५९।१० रो. ईV।६० (कात्यायन वार्तिक)आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वपदातुपसङ्ख्यानम्(वार्तिकान्त) । आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वपदातुपसङ्ख्यानं कर्तव्यं । वारिपथेन गच्छति वारिपथिकः । वारिपथेन आहृतं वारिपथिकं । वारि । जङ्गल । जङ्गलपथेन गच्छति जाङ्गलपथिकः । जङ्गलपथेन आहृतं जाङ्गलपथिकं । जङ्गल । स्थल । स्थलपथेन गच्छति स्थालपथिकः । स्थलपथेन आहृतं स्थालपथिकं । स्थल । कान्तार । कान्तारपथेन गच्छति कान्तारपथिकः । कान्तारपथेन आहृतं कान्तारपथिकं । (कात्यायन वार्तिक)अजपथशङ्कुपथाभ्यां च(वार्तिकान्त) । अजपथशङ्कुपथाभ्यां च इति वक्तव्यं । अजपथेन गच्छति आजपथिकः । अजपथेन आहृतं आजपथिकम। शङ्कुपथेन गच्छति शाङ्कुपथिकः । शङ्कुपथेन आहृतं शाङ्कुपथिकं । (कात्यायन वार्तिक)मधुकमरिचयोः अण्स्थलात्(वार्तिकान्त) । मधुकमरिचयोः अण्स्थलात्वक्तव्यः । स्थालपथं मधुकं । स्थालपथं मरिचं ।
(पाणिनीयसूत्र ५,१।८०) कि.।१२-१८ रो. ईV।६०-६१ (कात्यायन वार्तिक)अधीष्टभृतयोः द्वितीयानिर्देशः अनर्थकः तत्र अदर्शनात्(वार्तिकान्त) । अधीष्टभृतयोः द्वितीयानिर्देशः अनर्थकः । किं कारणं । तत्र अदर्शनात। न हि असौ मासं अधीष्यते । किं तर्हि मुहूर्तं अधीष्टः मासं तत्कर्म करोति । (कात्यायन वार्तिक)सिद्धं तु चतुर्थीनिर्देशात्(वार्तिकान्त) । सिद्धं एतत। कथं । चतुर्थीनिर्देशात। चतुर्थीनिर्देशः कर्तव्यः । तस्मै अधीष्टः इति । सः तर्हि चतुर्थीनिर्देशः कर्तव्यः । न कर्तव्यः । तादर्थ्यात्ताच्छब्द्यं भविष्यति । मासार्थः मुहूर्तः मासः ।
(पाणिनीयसूत्र ५,१।८४) कि.।३५९।२०-२२ रो. ईV।६१-६२ (कात्यायन वार्तिक)अवयसि ठन्च इति अनन्तरस्य अनुकर्षः(वार्तिकान्त) । अवयसि ठन्च इति अनन्तरस्य अनुकर्षः द्रष्टव्यः । द्वेष्यं विजानीयातः यपपि अनुवर्तते इति । तताचार्यः सुहृत्भूत्वा अन्वाचष्टे : अवयसि ठन्च इति अनन्तरस्य अनुकर्षः इति ।
(पाणिनीयसूत्र ५,१।९०) कि.।३६०।२-६ रो. ईV।६२ (कात्यायन वार्तिक)षष्टिके सञ्ज्ञाग्रहणम्(वार्तिकान्त) । षष्टिके सञ्ज्ञाग्रहणं कर्तव्यं । मुद्गाः अपि हि षष्टिरात्रेणे पच्यन्ते । तत्र मा भूतिति । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । अनभिधानातिति ।
(पाणिनीयसूत्र ५,१।९४) कि.।३६०।८-३६१।५ रो. ईV।६२-६४) (कात्यायन वार्तिक)ततस्य ब्रह्मचर्यं इति महानाम्न्यादिभ्यः उपसङ्ख्यानम्(वार्तिकान्त) । ततस्य ब्रह्मचर्यं इति महानाम्न्यादिभ्यः उपसङ्ख्यानं कर्तव्यं । महानाम्नीनां ब्रह्मचर्यं माहानाम्निकं । आदित्यव्रतिकं । (कात्यायन वार्तिक)तत्चरति इति च(वार्तिकान्त) । तत्चरति इति च महानाम्न्यादिभ्यः उपसङ्ख्यानं कर्तव्यं । महानाम्नीः चरति माहानाम्निकः । आदित्यव्रतिकः । न एषः युक्तः निर्देशः तत्चरति इति । महानाम्न्यः नाम ऋचः । न च ताः चर्यन्ते । व्रतं तासां चर्यते । न एषः दोषः । साहचर्यात्ताच्छब्यं भविष्यति । महानाम्नीसहचरितं व्रतं महानाम्न्यः व्रतं इति । (कात्यायन वार्तिक)अवान्तरदीक्षादिभ्यः डिनिः(वार्तिकान्त) । अवान्तरदीक्षादिभ्यः डिनिः वक्तव्यः । अवान्तरदीक्षी । तिलव्रती । (कात्यायन वार्तिक)अष्टाचत्वारिंशतः ड्वुन्च(वार्तिकान्त) । अष्टाचत्वारिंशतः ड्वुन्च डिनिः च वक्तव्यः । अष्टाचत्वारिंशकः । अष्टाचत्वारिंशी । (कात्यायन वार्तिक)चातुर्मास्यानां यलोपः च(वार्तिकान्त) । चातुर्मास्यानां यलोपः च ड्वुन्च डिनिः च वक्तव्यः । चातुर्मासिकः । चातुर्मासी । अथ किं इदं चातुर्मास्यानां इति । (कात्यायन वार्तिक)चतुर्मासात्ण्यः यज्ञे तत्र भवे(वार्तिकान्त) । चतुर्मासात्ण्यः वक्तव्यः यज्ञे तत्र भवे इति एतस्मिनर्थे । चतुर्षु मासेषु भवानि चातुर्मास्यानि यज्ञाः । (कात्यायन वार्तिक)सञ्ज्ञायां अण्(वार्तिकान्त)। सञ्ज्ञायां अण्वक्तव्यः । चतुर्षु मासेषु भवा चातुर्मासी पौणमासी ।
(पाणिनीयसूत्र ५,१।९५) कि.।३६१।७-१२ रो. ईV।६४ आख्याग्रहणं किमर्थम। तस्य दक्षिणा यज्ञेभ्यः इति इयति उच्यमाने ये एते सञ्ज्ञीभूतकाः यज्ञाः ततः उतपत्तिः स्यात। अग्निष्टोमिक्यः । राजसूयिकः । वाजपेयिक्यः । यत्र वा यज्ञशब्दः अस्ति । नावयज्ञिक्यः । पाकयज्ञिक्यः । इह न स्यात। पाञ्चौदनिक्यः । दाशौदनिक्यः । आख्याग्रहणे पुनः क्रियमाणे न दोषः भवति । ये च सञ्ज्ञीभूतकाः यत्र च यज्ञशब्दः अस्ति यत्र च न अस्ति तदाख्यामात्रात्सिच्छं भवति ।
(पाणिनीयसूत्र ५,१।९६) कि.।३६१।१४-२२ रो. ईV।६५-६६ (कात्यायन वार्तिक)कार्यग्रहणं अनर्थकं तत्रभवेन कृतत्वात्(वार्तिकान्त)। कार्यग्रहणं अनर्थकं । किं कारणं । तत्रभवेन कृतत्वात। यत्हि मासे कार्यं मासे भवं तत्भवति । तत्र तत्र भवः इति एव सिद्धं । किं इदं भवान्कार्यग्रहणं एव प्रत्याचष्टे न पुनः दीयतेग्रहणं अपि । यथा एव हि यत्मासे कार्यं तत्मासे भवं भवति एवं यतपि मासे दीयते ततपि मासे भवं भवति । तत्र तत्र भवः इति एव सिद्धं । न सिध्यति । न तत्मासे दीयते । किं तर्हि मासे गते । एवं तर्हि औपश्लेषिकं अधिकरणं विज्ञास्यते । एवं तर्हि योगविभागोत्तरकालं इदं पठितव्यं । तस्य दक्षिणा यज्ञाख्येभ्यः । तत्र च दीयते । ततः कार्यं भववत्कालातिति ।
(पाणिनीयसूत्र ५,१।९७) कि.।३६२।२-११ रो. ईV।६६ (कात्यायन वार्तिक)अण्प्रकरणे अग्निपदादिभ्यः उपसङ्ख्यानम्(वार्तिकान्त) । अण्प्रकरणे अग्निपदादिभ्यः उपसङ्ख्यानं कर्तव्यं । त्रीणि इमानि अण्ग्रहणानि । व्युष्टादिभ्यः अण। समयः ततस्य प्राप्तं । ऋतोः अण। प्रयोजनं । विशाखाषाढातण्मन्थदण्डयोः इति । तत्र न ज्ञायते कतरस्मिनण्प्रकरणे अग्निपदादिभ्यः उपसङ्ख्यानं । अविशेषात्सर्वत्र । व्युष्टादिभ्यः अण्भवति इति उक्त्वा अग्निपदादिभ्यः च इति वक्तव्यं । अग्निपदे दीयते कार्यं वा आग्निपदं । पैलुमूलं । समयः ततस्य प्राप्तं । ऋतोः अण। अग्निपदादिभ्यः च इति वक्तव्यं । उपवस्ता प्राप्तः अस्य औपवस्त्रं । प्राशिता प्राप्तः अस्य प्राशित्रं । प्रयोजनं । विशाखाषाढातण्मन्थदण्डयोः ।अग्निपदादिभ्यः च इति वक्तव्यं । चूडा प्रयोजनं अस्य चौडं । श्रद्धा प्रयोजनं अस्य श्राद्धं ।
(पाणिनीयसूत्र ५,१।१११) कि.।३६२।१३-२१ रो. ईV।६६-६७ (कात्यायन वार्तिक)छप्रकरणे विशिपूरिपदिरुहिप्रकृतेः अनात्सपूर्वपदातुपसङ्ख्यानम्(वार्तिकान्त) । छप्रकरणे विशिपूरिपदिरुहिप्रकृतेः अनात्सपूर्र्वपदातुपसङ्ख्यानं कर्तव्यं । विशि । गेहानुप्रवेशनीयं । पूरि । प्रपापूरणीयं । पदि । गोप्रपदनीयं । अश्वप्रपदनीयं । रुहि । प्राशादारोहणीयं । (कात्यायन वार्तिक)स्वर्गादिभ्यः यत्(वार्तिकान्त) ष्वर्गादिभ्यः यत्प्रत्ययः भवति । स्वर्ग्यं । धन्यं । यशस्यं । आयुष्यं । (कात्यायन वार्तिक)पुण्याहवाचनादिभ्यः लुक्(वार्तिकान्त) । पुण्याहवाचनादिभ्यः लुक्वक्तव्यः । पुण्याहवाचनं । शान्तिवाचनं । स्वस्तिवाचनं ।
(पाणिनीयसूत्र ५,१।११३) कि.।३६२।२३-३६३।२ रो. ईV।६७ (कात्यायन वार्तिक)एकागारात्निपातनानर्थक्यं ठञ्प्रकरणात्(वार्तिकान्त) । एकागारात्निपातनं अनर्थकं । किं कारणं । ठञ्प्रकरणात। ठञ्प्रकृतः । सः अनुवर्तिष्यते । इदं तर्हि प्रयोजनं । चौरे इति वक्ष्यामि इति । इह मा भूत। एकागारं प्रयोजनं अस्य भिक्षोः इति । यदि एतावत्प्रयोजनं स्यातेकागारात्चौरे इति एव ब्रूयात।
(पाणिनीयसूत्र ५,१।११४) कि.।३६३।४-९ रो. ईV।६८-६९ (कात्यायन वार्तिक)आकालात्निपातनानर्थक्यं ठञ्प्रकरणात्(वार्तिकान्त) । आकालात्निपातनं नर्थकं । किं कारणं । ठञ्प्रकरणात। ठञ्प्रकृतः । सः अनुवर्तिष्यते । इदं तर्हि प्रयोजनं । एतस्मिन्विशेषे निपातनं करिष्यामि समानकालस्य आद्यन्तविवक्षायां इति । (कात्यायन वार्तिक)आकालात्ठन्च(वार्तिकान्त) । आकालात्ठन्च वक्तव्यः । आकालिकी । आकालिका ।
(पाणिनीयसूत्र ५,१।११५) कि.।३६३।११-३६४।१० रो. ईV।६९-७५ इदं अयुक्तं वर्तते । किं अत्र अयुक्तं । यत्तत्तृतीयासमर्थं क्रिया चेत्सा भवति इति उच्यते । कथं च तृतीयासमर्थं नाम क्रिया स्यात। न एषः दोषः । सर्वे एते शब्दाः गुणसमुदायेषु वर्तन्ते । ब्राह्मणः क्षत्रियः । वैश्यः शूद्रः इति । आतः च गुणसमुदाये एवं हि आह । (कात्यायन वार्तिक)तपः श्रुतं च योनिः च इति एतद्ब्राह्मणकारकं । तपःश्त्रुताभ्यां यः हीनः जातिब्राह्मणः एव सः(वार्तिकान्त) । तथा गौरः शुच्याचारः पिङ्गलः कपिलकेशः इति एतानपि अभ्यन्तरान्ब्राह्मणे गुणन्कुर्वन्ति । समुदायेषु च शब्दाः वृत्ताः अवयवेषु अपि वर्तन्ते । तत्यथा : पूर्वे पञ्चालाः , उत्तरे पञ्चालाः , तैलं भुक्तं , घृतं भुक्तं , शुक्लः , नीलः , कृष्णः इति । एवं अयं ब्राह्मणशब्दय समुदाये वृत्तः अवयवेषु अपि वर्तते । यदि तर्हि तृतीयासमर्थं विशेष्यते प्रत्ययार्थः अविशेषितः भवति । तत्र कः दोषः । तृतीयासमर्थात्क्रियावाचिनः गुणतुल्ये अपि प्रत्ययः स्यात। पुत्रेण तुल्यः स्थूलः । पुत्रेण तुल्यः पिङ्गलः । अस्तु तर्हि प्रत्ययार्थविशेषणं । यत्तत्तुल्यं क्रिया चेत्सा भवति इति । एवं अपि तृतीयासमर्थं अविशेषितं भवति । तत्र कः दोषः । तृतीयासमर्थातक्रियावाचिनः क्रियातुल्ये अपि प्रत्ययः प्राप्नोति । न एषः दोषः । यत्तत्तुल्यं क्रिया चेत्सा भवति इति उच्यते । तुलया च सम्मितं तुल्यं । यदि च तृतीयासमर्थं अपि क्रिया प्रत्ययार्थः अपि क्रिया ततः तुलयं भवति । अथ वा पुनः अस्तु यत्तत्तृतीयासमर्थं क्रिया चेत्सा भवति इति एव । ननु च उक्तं प्रत्ययार्थः अविशेषितः इति । तत्र कः दोषः । तृतीयासमर्थात्क्रियावाचिनः गुणतुल्ये अपि प्रत्ययः स्यात। पुत्रेण तुल्यः स्थूलः । पुत्रेण तुल्यः पिङ्गलः इति । न एषः दोषः । यत्तत्तृतीयासमर्थं क्रिया चेत्सा भवति इति उच्यते । तुलया च सम्मितं तुल्यं । यदि च तृतीयासमर्थं अपि क्रिया प्रत्ययार्थः अपि क्रिया ततः तुलयं भवति । किं पुनः अत्र ज्यायः । प्रत्ययार्थविशेषणं एव ज्यायः । कुतः एतत। एवं च एव कृत्वा आचार्येण सूत्रं पठितं । वतिना सामानाधिकरण्यं कृतं । अपि च वतेः अव्ययेषु पाठः न कर्तव्यः भवति । क्रियायां अयं भवन्लिङ्गसङ्ख्याभ्यं न योक्ष्यते ।
(पाणिनीयसूत्र ५,१।११६) कि.।३६५।१२-१७ रो. ईV।७५-७७ किमर्थं इदं उच्यते न तेन तुल्यं क्रिया चेत्वतिः इति एव सिद्धं । न सिध्यति । तृतीयासमर्थात्तत्र प्रत्ययः यदा अन्येन कर्तव्यां क्रियां अन्यः करोति तदा प्रत्ययः उत्पाद्यते । न च का चिदिवशब्देन योगे तृतीया विधीयते । ननु च सपतमी अपि न विधीयते । एवं तर्हि सिद्धे सति यतिवशब्देन योगे सप्तमीसमर्थात्वतिं शास्ति तत्ज्ञापयति आचार्यः भवति इवशब्देन योगे सप्तमी इति । किं एतस्य ज्ञापने प्रयोजनं । देवेषु इव नाम । ब्राह्मणेषु इव नाम । एषः प्रयोगः उपपन्नः भवति ।
(पाणिनीयसूत्र ५,१।११७) कि.।३६४।१९-२२ रो. ईV।७७-७९ किमर्थं इदं उच्यते न तेन तुल्यं क्रिया चेत्वतिः इति एव सिद्धं । न सिध्यति । तृतीयासमर्थात्तत्र प्रत्ययः यदा अन्येन कर्तव्यां क्रियां अन्यः करोति तदा प्रत्ययः उत्पाद्यते । इह पुनः द्वितीयासमर्थातात्मार्हायां क्रियायां अर्हतिकर्तरि निश्चितबलाधाने प्रत्ययः उत्पाद्यते । ब्राह्मणवत्भवान्वर्तते । एतत्वृत्तं ब्राह्मणः अर्हति इति ।
(पाणिनीयसूत्र ५,१।११८।१) कि.।३६५।२-६ रो. ईV।७९ अर्थग्रहणं किमर्थं । न उपसर्गात्छन्दसि धातवु इति एव उच्येत । धातुः वै शब्दः । शब्दे कार्यस्य असम्भवातर्थे कार्यं विज्ञास्यते । कः पुनः धात्वर्थः । क्रिया । इदं तर्हि प्रयोजनं । उत्तरपदलोपः यथा विज्ञायेत । धातुकृतः अर्थः धात्वर्थः इति । कः पुनः धातुकृतः अर्थः । साधनं । किं प्रयोजनं । साधने अयं भवन्लिङ्गसङ्ख्याभ्यं योक्ष्यते । उद्गतानि उद्वतः । निगतानि निवतः इति ।
(पाणिनीयसूत्र ५,१।११८।२) कि.।३६५।७-१२ रो. ईV।८० (कात्यायन वार्तिक)स्त्रीपुंसाभ्यां वत्युपसङ्ख्यानम्(वार्तिकान्त) । स्त्रीपुंसाभ्यां वत्युपसङ्ख्यानं कर्तव्यं । स्त्रीवत। पुंवतिति । किं पुनः कारणं न सिध्यति । इमौ नञ्स्नञौ प्राक्भवनातिति उच्येते । तौ विशेषविहितौ सामान्यविहितं वतिं बाधेयातां । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न वत्यर्थे नञ्स्नञौ भवतः इति यतयं स्त्रियाः पुंवतिति निर्देशं करोति । एवं अपि स्त्रीवतिति न सिध्यति । योपापेक्षं ज्ञापकं ।
(पाणिनीयसूत्र ५,१।११९।१) कि.।३६५।१४-३६६।६ रो. ईV।८१-८२ (कात्यायन वार्तिक)स्त्रीपुंसाभ्यां त्वतलोः उपसङ्ख्यानम्(वार्तिकान्त) । स्त्रीपुंसाभ्यां त्वतलोः उपसङ्ख्यानं कर्तव्यं । स्त्रीभावः स्त्रीत्वं स्त्रीता । किं पुनः कारणं न सिध्यति । इमौ नञ्स्नञौ प्राक्भवनातिति उच्येते । तौ विशेषविहितौ सामान्यविहितं वतिं बाधेयातां । (कात्यायन वार्तिक)वावचनं च(वार्तिकान्त) । वावचनं च कर्तव्यं । किं प्रयोजनं । नञ्स्नञौ अपि यथा स्यातां । स्त्रीभावः स्त्रैणं । पुम्म्भावः प्ॐस्नं इति । (कात्यायन वार्तिक)अपवादसमावेशात्वा सिद्धम्(वार्तिकान्त) । अपवादसमावेशात्वा सिद्धं एतत। तत्यथा इमनिच्प्रभृतिभिः अपवादैः समावेशः भवति एवं आभ्यां अपि भविष्यति । न एव ईश्वरः आज्ञापपयति न अपि धर्मसूत्रकाराः पठन्ति इमनिच्प्रभृतिभिः अपवादैः समावेशः भवति इति । किं तर्हि आ च त्वातिति एतस्मात्यत्नातिमनिच्प्रभृतिभिः अपवादैः समावेशः भवति । न च एतौ अत्र अभ्यन्तरौ । एतौ अपि अत्र अभ्यन्तरौ । कथं । अपवादसदेशाः अपवादाः भवन्ति इति । एतत्च एव न जानीमः अपवादसदेशाः अपवादाः भवन्ति इति । अपि च कुतः एततेतौ अपि अत्र अभ्यन्तरौ न पुनः पूर्वौ वा स्यातां परौ वा । एवं तर्हि वक्ष्यति आ च त्वातिति अत्र चकारकरणस्य प्रयोजनं । नञ्स्नञ्भ्यां अपि समावेशः भवति इति ।
(पाणिनीयसूत्र ५,१।११९।२) कि.।३६६।४-३६८।४ रो. ईV।८३-९३ (कात्यायन वार्तिक)तस्य भावः इति अभिप्रायादिषु अतिप्रसङ्गः(वार्तिकान्त) । तस्य भावः इति अभिप्रायादिषु अतिप्रसङ्गः भवति । इह अपि प्राप्नोति । अभिप्रायः देवदत्तस्य मोदकेषु भोजने । ये नः भावाः ते नः भावाः पुत्राः पुत्रैः चेष्टन्ते इति । (कात्यायन वार्तिक)सिद्धं तु यस्य गुणस्य भावात्द्रव्ये शब्दनिवेशः तदभिधाने त्वतलौ(वार्तिकान्त) । सिद्धं एतत। कथं । यस्य गुणस्य भावात्द्रव्ये शब्दनिवेशः तदभिधाने तस्मिन्गुणे वक्तव्ये प्रत्ययेन भवितव्यं । न च अभिप्रायादीनां भावात्द्रव्ये देवदत्तशब्दः वर्तते । किं पुनः द्रव्यं के पुनः गुणाः । शब्दस्पर्शरूपरसगन्धाः गुणाः । ततः अन्यत्द्रव्यं । किं पुनः अन्यत्शब्दादिभ्यः द्रव्यं आहोस्वितनन्यत। गुणस्य अयं भावात्द्रव्ये शब्दनिवेशं कुर्वन्ख्यापयति अन्यत्शब्दादिभ्यः द्रव्यं इति । अनन्यत्शब्दादिभ्यः द्रव्यं । न हि अन्यतुपलभ्यते । पशोः खलु अपि विशसितस्य पर्णशते न्यस्तस्य न अन्यत्शब्दादिभ्यः उपलभ्यते । अन्यत्शब्दादिभ्यः द्रव्यं तत्तु अनुमानगम्यं । तत्यथा ओषधिवनस्पतीनां वृद्धिह्रासौ । ज्योतिषां गतिः इति । कः असौ अनुमानः । इह समाने वर्ष्मणि परिणाहे च अन्यत्तुलाग्रं भवति लोहस्य अन्यत्कार्पासानां । यत्कृतः विशेषः तत्द्रव्यं । तथा कः चित्स्पृशनेव छिनत्ति कः चित्लम्बमानः अपि न छिनत्ति । यत्कृतः विशेषः तत्द्रव्यं । कः चितेकेन एव प्रहारेण व्यपवर्गं करोति कः चित्द्वाभ्यां अपि अन्करोति । यत्कृतः विशेषः तत्द्रव्यं । अथ वा यस्य गुणान्तरेषु अपि प्रादुर्भावत्सु तत्त्वं न विहन्यते तत्द्रव्यं । किं पुनः तत्त्वं । तद्भावः तत्त्वं । तत्यथा आमलकादीनां फलानां रक्तादयः पीतादयः च गुणाः प्रादुः भवन्ति । आमलकं बदरं इति एव भवति । अन्वर्थं खलु अपि निर्वचनं । गुणसन्द्रावः द्रव्यं इति । यदि तर्हि षष्ठीसमर्थात्गुणे प्रत्ययाः उतप्द्यन्ते किं इयता सूत्रेण । एतावत्वक्तव्यं : षष्ठीसमर्थात्गुणे इति । षष्ठीसमर्थात्गुणे इति इयति उच्यमाने द्विगुणा रज्जुः त्रिगुणा रज्जुः अत्र अपि प्राप्नोति । न एषः दोषः । गुणशब्दः अयं बह्वर्थः । अस्ति एव समेषु अवयवेषु वर्तते । तत्यथा द्विगुणा रज्जुः त्रिगुणा रज्जुः इति । अस्ति द्रव्यपदार्थकः । तत्यथा गुणवानयं देशः इति उच्यते यस्मिन्गावः सस्यानि च वर्तन्ते । अस्ति अप्राधान्ये वर्तते । तत्यथा यः यत्र अप्रधानं भवति सः आह गुणभूताः वयं अत्र इति । अस्ति आचारे वर्तते । तत्यथा गुणवानयं ब्राह्मणः इति उच्यते यः सम्यकाचारं करोति । अस्ति संस्कारे वर्तते । तत्यथा संस्कृतं अन्नं गुणवतिति उच्यते । अथ वा सर्वत्र एव अयं गुणशब्दः समेषु अवयवेषु वर्तते । तत्यथा द्विगुणं अध्ययनं त्रिगुणं अध्ययनं इति उच्यते । चर्चागुणान्क्रमगुणान्च अपेक्ष्य भवति न संहितागुणान्चर्चागुणान्च । यदि एवं गुणवतन्नं इति गुणशब्दः न उपपद्यते । न हि अन्नस्य सूपादयः गुणाः समाः भवन्ति । न अवश्यं वर्ष्मतः परिमाणतः एव वा साम्यं भवति । किं तर्हि युक्तितः अपि । आतः च युक्तितः । यः हि मुद्गप्रस्थे लवणप्रस्थं प्रक्षिपेत्न अदः युक्तं स्यात। यदि तावतदेः अन्नं न अदः अत्तव्यं स्यात। अथ अनितेः अन्नं न अदः जग्द्व्हा प्राण्यात। शुक्लादिषु तर्हि वर्त्यभावात्वृत्तिः न प्राप्नोति । शुक्लत्वं । शुक्लता इति । किं पुनः कारणं शुक्लादयः एव उदाह्रियन्ते न पुनः वृक्षादयः अपि । वृक्षत्वं वृक्षता इति । अस्ति अत्र विशेषः । उभयवचनाः हि एते द्रव्यं च आहुः गुणं च । यतः द्रव्यवचनाः ततः वृत्तिः भविष्यति । इमे अपि तर्हि उभयवचनाः । कथं । आरभ्यते मतुब्लोपः गुणवचनेभ्यः मतुपः लुक्भवति इति । यतः द्रव्यवचनाः ततः वृत्तिः भविष्यति । डित्थादिषु तर्हि वर्त्यभावात्वृत्तिः न प्राप्नोति । डित्थत्वं । डित्थता । डाम्भिट्टत्वं इति । अत्र अपि कः चित्प्राथमकल्पिकः डित्थः डाम्भिट्टः च । तेन कृतां क्रियां गुणं वा यः कः चित्करोति सः उच्यते डित्थत्वं ते एतत्डाम्भिट्टत्वं ते एतत। एवं डित्थाः कुर्वन्ति । एवं डाम्भिट्टाः कुर्वन्ति । यः तर्हि प्राथमकल्पिकः डित्थः डाम्भिट्टः च तस्य वर्त्यभावात्वृत्तिः न प्राप्नोति । न एषः दोषः । यथा एव तस्य काथञ्चित्कः प्रयोगः एवं वृत्तिः अपि भविष्यति । (कात्यायन वार्तिक)यत्वा सर्वे भावाः स्वेन भावेन भवन्ति सः तेषां भावः तदभिधाने(वार्तिकान्त) । किं एभिः त्रिभिः भावग्रहणैः क्रियते । एकेन शब्दः प्रतिनिर्दिश्यते द्वाभ्यां अर्थः । यत्वा सर्वे शब्दाः स्वेन अर्थेन भवन्ति । सः तेषां अर्थः इति तदभिधाने वा त्वतलौ भवतः इति वक्तव्यं । न एवं अन्यत्र भवति । न हि तेन रक्तं रागातिति अत्र शब्देन रक्ते प्रत्ययाः उत्पद्यन्ते । शब्दे असम्भवातर्थेन रक्ते प्रत्ययाः भविष्यन्ति । तत्तर्हि अन्यतरत्कर्तव्यं । सूत्रं च भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं तस्य भावः इति अभिप्रायादिषु अतिप्रसङ्गः इति । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । अनभिधानातिति । अनभिधानातभिप्रायादिषु उतपत्तिः न भविष्यति ।
(पाणिनीयसूत्र ५,१।११९।३) कि.।३६८।५-३६९।२ रो. ईV।९३-९५ (कात्यायन वार्तिक)त्वतल्भ्यां नञ्समासः पूर्वविप्रतिषिद्धं त्वतलोः स्वरसिद्ध्यर्थम्(वार्तिकान्त) । त्वतल्भ्यां नञ्समासः भवति पूर्वविप्रतिष्धेन । किं प्रयोजनं । त्वतलोः स्वरसिद्ध्यर्थं । त्वतलोः स्वरसिद्धिः यथा स्यात। त्वतलोः अवकाशः भावस्य वचनं प्रतिषेधस्य अवचनं । ब्राह्मणत्वं । ब्राह्म्णता । नञ्समासस्य अवकाशः प्रतिषेधस्य वचनं भावस्य अवचनं । अब्राह्मणः । अवृषलः । उभयवचने उभयं प्राप्नोति । अब्राह्मणत्वं । अब्राह्मणता । नञ्समासः भवति पूर्वविप्रतिष्धेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । न अत्र त्वतलौ प्राप्नुतः । किं कारणं । असामर्थ्यात। कथं असामर्थ्यं । सापेक्षं असमर्थं भवति इति । यावता ब्राह्मणशब्दः प्रतिषेधं अपेक्षते । नञ्समासः अपि तर्हि न प्राप्नोति । किं कारणं । असामर्थ्यातेव । कथं असामर्थ्यं । सापेक्षं असमर्थं भवति इति । यावता ब्राह्मणशब्दः भावं अपेक्षते । प्रधानं तदा ब्राह्मणशब्दः । भवति च प्रधानस्य सापेक्षस्य अपि समासः । इदं तर्हि प्रयोजनं । नञ्समादातन्यः भाववचनः स्वरोत्तरपदवृद्ध्यर्थं इति वक्ष्यति । तत्र व्यवस्थार्थं इदं वक्तव्यं । (कात्यायन वार्तिक)वा छन्दसि(वार्तिकान्त) । वा छन्दसि नञ्समासः वक्तव्यः । निर्वीर्यतां वै यजमानः आशास्ते अपशुतां । अयोनित्वाय । अशिथिलत्वाय । अगोतां अनपत्यतां । भवेतिदं युक्तं उदाहरणं । अयोनित्वाय । अशिथिलत्वाय इति । इदं तु अयुक्तं अपशुतां इति । न हि असौ समासभावं आशास्ते । किं तर्हि । उत्तरपदाभावं आशास्ते । न पशोः भावः इति । (कात्यायन वार्तिक)नञ्समासातन्यः भाववचनः(वार्तिकान्त) । नञ्समासातन्यः भाववचनः भवति विप्रतिषेधेन । किं प्रयोजनं । स्वरोत्तरपदवृद्ध्यर्थं । स्वरार्थं उत्तरपदवृद्ध्यर्थं च । स्वरार्थं तावत। अप्रथिमा । अम्रदिमा । उत्तरपदवृद्ध्यर्थं । अशौक्ल्यं । अकार्ष्ण्यं ।
(पाणिनीयसूत्र ५,१।१२०) कि.।३६९।४-१६ रो. ईV।९५-९७ किमर्थः चकारः । अनुकर्षणार्थः । त्वतलौ अनुकृष्येते । न एततस्ति प्रयोजनं । प्रकृतौ त्वतलौ अनुवर्तिष्येते । अतः उत्तरं पठति । (कात्यायन वार्तिक)आ च त्वातिति चकारकरणं अपवादसमावेशार्थम्(वार्तिकान्त) । आ च त्वातिति चकारकरणं क्रियते अपवादसमावेशार्थं । इमनिच्प्रभृतिभिः अपवादैः समावेशः यथा स्यात। न एततस्ति प्रयोजनं । आ त्वातिति एवं इमनिच्प्रभृतिभिः अपवादैः समावेशः भविष्यति । इदं तर्हि प्रयोजनं । आ त्वात्याः प्रकृतयः ताभ्यः च त्वतलौ यथा स्यातां यतः च उच्येते । एततपि न अस्ति प्रयोजनं । आ त्वातिति एव याः प्रकृतयः ताभ्यः त्वतलौ भविष्यतः यतः च उच्येते । इदं तर्हि प्रयोजनं । आ त्वात्ये अर्थाः तत्र त्वतलौ यथा स्यातां यत्र च उच्येते । एततपि न अस्ति प्रयोजनं । आ त्वातिति एव आ त्वात्ये अर्थाः तत्र त्वतलौ भविष्यतः यत्र च उच्येते । इदं तर्हि प्रयोजनं । आ त्वात्याः प्रकृतयः ताभ्यः च त्वतलौ यथा स्यातां यस्याः च प्रकृतेः अतस्मिन्विशेषे अन्यः प्रत्ययः उत्पद्यते । किं कृतं भवति । स्त्रीपुंसाभ्यां त्वतलोः उपसङ्ख्यानं चोदितं । तत्न वक्तव्यं भवति ।
(पाणिनीयसूत्र ५,१।१२१) कि.।३६९।१९-३७०।१२ रो. ईV।९७-१०० कस्य अयं प्रतिषेधः । त्वतलोः इति आह । न एततसि प्रयोजनं । इष्येते नञ्पूर्वात्तत्पुरुषात्त्वतलौ : अब्राह्मणत्वं अब्राह्मणता इति । अतः उत्तरं पठति । (कात्यायन वार्तिक)न नञ्पूर्वातिति उत्तरस्य प्रतिषेधः(वार्तिकान्त) । न नञ्पूर्वातिति उत्तरस्य भावप्रत्ययस्य प्रतिषेधः क्रियते । न एततस्ति प्रयोजनं । परिगणिताभ्यः प्रकृतिभ्यः उत्तरः भावप्रत्ययः विधीयते । न च तत्र का चित्नञ्पूर्वा प्रकृतिः गृह्यते । तदन्तविधिना प्राप्नोति । ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते । यत्र तर्हि तदन्तविधिः अस्ति । पत्यन्तपुरोहितादिभ्यः यकिति । यदि एतावत्प्रयोजनं स्यात्तत्र एव अयं ब्रूयातपत्यन्तात्यक्भवति नञ्पूर्वात्तत्पुरुषातिति । एवं तर्हि ज्ञापयति आचारयः उत्तरः भावप्रत्ययः नञ्पूर्वात्बहुव्रीहेः भवति इति । न इष्यते । त्वतलौ एव इष्येते : अविद्यमानाः पृथवः अस्य अपृथुः , अपृथोः भावः अपृथुत्वं अपृथुता इति । एवं तर्हि ज्ञापयति आचारयः उत्तरः भावप्रत्ययः अन्यपूर्वात्तत्पुरुषात्भवति इति । न इष्यते । त्वतलौ एव इष्येते : परमः पृथुः परमपृथुः , परमपृथोः भावः परमपृथुत्वं परमपृथुता । एवं तर्हि ज्ञापयति आचारयः उत्तरः भावप्रत्ययः सापेक्षात्भवति इति । किं एतस्य ज्ञापने प्रयोजनं । नञ्समासातन्यः भाववचनः स्वरोत्तरपदवृद्ध्यर्थं इति उक्तं । ततुपपन्नं भवति । एततपि न अस्ति प्रयोजनं । आचार्यप्रवृत्तिः ज्ञापयति सर्वे एते तद्धिताः सापेक्षात्भवन्ति इति यतयं नञः गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थाः तद्धिताः इति आह ।
(पाणिनीयसूत्र ५,१।१२२) कि.।३७०।१४-१९ रो. ईV।१००-१०१ वावचनं किमर्थं । वाक्यं अपि यथा स्यात। न एततस्ति प्रयोजनं । प्रकृटा महाविभाषा । तया वाक्यं अपि भविष्यति । इदं तर्हि प्रयोजनं । त्वतलौ अपि यथा स्यातां । एततपि न अस्ति प्रयोजनं । आ च त्वातिति एतस्मात्यत्नात्त्वतलौ अपि भविष्यतः । अतः उत्तरं पठति । (कात्यायन वार्तिक)पृथ्वादिभ्यः वावचनं अण्समावेशार्थम्(वार्तिकान्त) । पृथ्वादिभ्यः वावचनं क्रियते अण्समावेशः यथा स्यात। पार्थवं । प्रथिमा ।
(पाणिनीयसूत्र ५,१।१२४) कि.।३७०।२१-३७१।२ रो. ईV।१०१ (कात्यायन वार्तिक)ब्राह्मणादिषु चातुर्वर्ण्यादीनां उपसङ्ख्यानम्(वार्तिकान्त) । ब्राह्मणादिषु चातुर्वर्ण्यादीनां उपसङ्ख्यानं कर्तव्यं । चातुर्वर्ण्यं । चातुर्वैद्यं । चातुराश्रम्यं । (कात्यायन वार्तिक)अर्हतः नुं च(वार्तिकान्त) । अर्हतः नुं च ष्यञ्च वक्तव्यः । अर्हतः भावः आर्हन्त्यं आर्हती ।
(पाणिनीयसूत्र ५,१।१२५) कि.।३७१।४-६ रो. ईV।१०१-१०२ किं इदं नलोपे वर्णग्रहणं आहोस्वित्सङ्घातग्रहणं । किं च अतः । यदि वर्णग्रहणं स्तेयं । नलोपे कृते अयादेशः प्राप्नोति । अथ सङ्घातग्रहणं अन्त्यस्य लोपः कस्मात्न भवति । सिद्धः अन्त्यस्य लोपः यस्य इति एव । तत्र आरम्भसामर्थ्यात्सर्वस्य भविष्यति ।
(पाणिनीयसूत्र ५,१।१३०) कि.।३७१।८-१० रो. ईV।१०२ (कात्यायन वार्तिक)अण्प्रकरणे श्रोत्रियस्य(वार्तिकान्त) । अण्प्रकरणे श्रोत्रियस्य उपसङ्ख्यानं कर्तव्यं घलोपः च । श्रोत्रियस्य भावः श्रौत्रं ।
(पाणिनीयसूत्र ५,२।४) कि.।३७२।२-२१ रो. ईV।१०३-१०५ (कात्यायन वार्तिक)तिलादिभ्यः खञ्च(वार्तिकान्त) । तिलादिभ्यः खञ्च इति वक्तव्यं । तिल्यं । तैलीनं । किमर्थं इदं उच्यते न यता मुक्ते धान्यानां भवने क्षेत्रे खञिति एव सिद्धं । न सिध्यति । किं कारणं । (कात्यायन वार्तिक)उमाभङ्गयोः अधान्यत्वात्(वार्तिकान्त) । धान्यानां भवने क्षेत्रे खञिति उच्यते । न च उमाभङ्गे धान्ये । चमेषु यत्पठ्यते तत्धान्यं । न च एते तत्र पठ्येते । तत्तर्हि खञ्ग्रहणं कर्तव्यं । न कर्तव्यं । प्रकृतं अनुवर्तते । क्व प्रकृतं । धान्यानां भवने क्षेत्रे खञिति । यदि ततनुवर्तते व्रीहिशालयोः ढक्यवयवकषष्टिकात्यतिति खञ्च इति खञपि प्राप्नोति । सम्बन्धं अनुवर्तिष्यते । धान्यानां भवने क्षेत्रे खञ। व्रीहिशालयोः ढक्भवति । धान्यानां भवने क्षेत्रे खञ। यवयवकषष्टिकात्यत्भवति । धान्यानां भवने क्षेत्रे खञ्भवति । विभाषा तिलमाषोमाभङ्गणुभ्यः । भवनेक्षेत्रेग्रहणं अनुवर्तते । धान्यानां इति निवृत्तं । अथ वा मण्डूकप्लुतयः अधिकाराः । यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वतधिकाराः । अथ वा अन्यवचनात्चकाराकरणात्प्रकृतापवादः विज्ञायते यथा उत्सर्गेण प्रसक्तस्य अपवादः । अन्यस्य प्रत्ययस्य वचनात्चकारस्य च अनुकर्षणार्थस्य अकरणात्प्रकृतस्य खञः ढग्यतौ बाधकौ भविष्यतः यथा उत्सर्गेण प्रसक्तस्य अपवादः बाधकः भवति । अथ वा एतत्ज्ञापयति अनुवर्तन्ते च नाम विधयः न च अनुवर्तनातेव भवन्ति । किं तर्हि । यत्नात्भवन्ति । अथ वा यता मुक्ते धान्यानां भवने क्षेत्रे खञिति एव सिद्धं । ननु च उक्तं । न सिध्यति । किं कारणं । उमाभङ्गयोः अधान्यत्वातिति । न एषः दोषः । धिनोतेः धान्यं । एते च अपि धिनुतः । अथ वा शणसप्तदशानि धान्यानि ।
(पाणिनीयसूत्र ५,२।६) कि.।३७२।२३-३७३।२ रो. ईV।१०५ सम्मुख इति किं निपात्यते । (कात्यायन वार्तिक)सम्मुख इति समस्य अन्तलोपः(वार्तिकान्त) । सम्मुख इति समस्य अन्तलोपः निपात्यते । सममुखस्य दर्शनः सम्मुखीनः ।
(पाणिनीयसूत्र ५,२।९) कि.।३७३।४-६ रो. ईV।१०५-१०६ अयानयं नेयः इति उच्यते । तत्र न ज्ञायते कः अयः कः अनयः इति । अयः प्रदक्षिणं । अनयः प्रसव्यं । प्रदक्षिणप्रसव्यगमिनां शाराणां यस्मिन्परैः पदानां असमावेशः सः अयानयः । अयानयं नेयः अयानयीनः शारः ।
(पाणिनीयसूत्र ५,२।१०) कि.।३७३।८-१५ रो. ईV।१०६-१०७ परोवर इति किं निपात्यते । (कात्यायन वार्तिक)परोवर इति परसोत्ववचनम्(वार्तिकान्त) । परोवर इति परस्य ओत्वं निपात्यते । यदि एवं परस्यौत्ववचनं इति प्राप्नोति । शकन्धुन्यायेन निर्देशः । अथ वा न एवं विज्ञायते परस्य ओत्वं निपात्यते इति । कथं तर्हि । परस्य शब्दरूपस्य आदेः उत्वं निपात्यते इति । परान्च अवरान्च अनुभवति परोवरीणः । अथ परम्पर इति किं निपात्यते । (कात्यायन वार्तिक)परपरतराणां परम्परभावः (वार्तिकान्त)। परपरतराणां परम्परभावः निपात्यते । परान्च परतरान्च अनुभवति परम्परीणः ।
(पाणिनीयसूत्र ५,२।१२) कि.।३७३।१७-३७४।९ रो. ईV।१०७-१०८ इह समांसमीना गौः सुपः धातुप्रातिपदिकयोः इति सुब्लुक्प्राप्नोति । समां समां विजायते इति यलोपवचनातलुग्विज्ञानं । समां समां विजायते इति यलोपवचनातलुग्विज्ञानं भविष्यति । यतयं यलोपं शास्ति तत्ज्ञापयति आचार्यः न अत्र लुक्भवति इति । (कात्यायन वार्तिक)समां समां विजायते इति यलोपवचनातलुग्विज्ञानं इति चेतुत्तरपदस्य लुग्वचनम्(वार्तिकान्त) । समां समां विजायते इति यलोपवचनातलुग्विज्ञानं इति चेतुत्तरपदस्य लुक्वक्तव्यः । (कात्यायन वार्तिक)सिद्धं तु पूर्वपदस्य यलोपवचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । पूर्वपदस्य यलोपः वक्तव्यः । (कात्यायन वार्तिक)अनुत्पत्तौ उत्तरपदस्य च वावचनम्(वार्तिकान्त) । अनुत्पत्तौ पूर्वपदस्य उत्तरपदस्य च यलोपः वा वक्तव्यः । समां समां विजायते । समायां समायां विजायते इति ।
(पाणिनीयसूत्र ५,२।१४) कि.।३७४।११-१४ रो. ईV।१०८ आगवीनः इति किं निपात्यते । (कात्यायन वार्तिक)गोः आङ्पूर्वात तस्य गोः प्रतिदानात्कारिणि खः(वार्तिकान्त) । गोः आङ्पूर्वात तस्य गोः प्रतिदानात्कारिणि खः निपात्यते । अ तस्य गोः प्रतिदानात्कर्मकारी आगवीनः कर्मकरः ।
(पाणिनीयसूत्र ५,२।२०) कि.।३७४।१६-१८ रो. ईV।१०९ किं यः शालायां अधृष्टः सः शालीनः कूपे वा यतकार्यं तत्कौपीनं । न इति आह । उत्तरपदलोपः अत्र द्रष्टव्यः । शालाप्रवेशनं अर्हति अधृष्टः सः शालीनः । कूपावतरणं अर्हति अकार्यं तत्कौपीनं ।
(पाणिनीयसूत्र ५,२।२१) कि.।३७४।२०-२१ रो. ईV।१०९-११० व्रातेन जीवति इति उच्यते । किं व्रातं नाम । नानाजातीयाः अनियतवृत्तयः उत्सेधजीविनः सङ्घाः व्राताः । तेषां कर्म व्रातं । व्रातकर्मणा जीवति इति व्रातीनः ।
(पाणिनीयसूत्र ५,२।२३) कि.।३७५।२-६ रो. ईV।११० हैयङ्गवीनं इति किं निपात्यते । (कात्यायन वार्तिक)ह्योगोदोहस्य हियङ्ग्वादेशः सञ्ज्ञायां तस्य विकारे(वार्तिकान्त) । ह्योगोदोहस्य हियङ्ग्वादेशः निपात्यते सञ्ज्ञायां विषये तस्य विकारे इति एतस्मिनर्थे । ह्योगोदोहस्य विकारः हैयङ्गवीनं घृतं । सञ्ज्ञायां इति किमर्थं । ह्योगोदोहस्य विकारः उदश्वित। अत्र मा भूतिति ।
(पाणिनीयसूत्र ५,२।२५) कि.।३७५।८-१३ रो. ईV।११०-१११ मूले इति वक्तव्यं । पक्षस्य मूलं पक्षतिः । तत्तर्हि वक्तव्यं । न वक्तव्यं । मूले इति वर्तते । क्व प्रकृतं । तस्य पाकमूले पील्वादिकर्णाइदिभ्यः कुणब्जाहचौ इति । यदि ततनुवर्तते पाके अपि प्राप्नोति । मूले इति अनुवर्तते । पाके इति निवृत्तं । कथं पुनः एकयोगनिर्दिष्टयोः एकदेशः अनुवर्तेत एकदेशः वा निवर्तेत । एकयोगनिर्दिष्टानां अपि एकदेशानुवृत्तिः भवति । तत्यथा । सङ्ख्यावयादेः ङीप। दामहायनान्तात्च । सङ्ख्यादेः इति अनुवर्तते । अव्ययादेः इति निवृत्तं ।
(पाणिनीयसूत्र ५,२।२७) कि.।३७५।१५-१७ रो. ईV।१११ इह नाना इति सहार्थः गम्येत । द्वौ हि प्रतिषेधौ प्रकृतं अर्थं गमयतः । न न सः सह एव इति । न एषः दोषः । न अयं प्रत्ययार्थः । किं तर्हि प्रकृतिविशेषणं एतत। वि नञिति एताभ्यां असहवाचिभ्यां नानाञौ भवतः । कस्मिनर्थे । स्वाऋथे ।
(पाणिनीयसूत्र ५,२।२८) कि.।३७५।१९-३७६।६ रो. ईV।१११-११२ कस्मिनर्थे शालजादयः भवन्ति । न सह इति वर्तते । भवेत्सिद्धं विशाले शृङ्गे विशङ्कटे शृङ्गे इति । इह खलु सङ्कटं इति सङ्गतार्थः गम्यते । प्रकटं इति प्रगरार्थः गम्यते । उत्कटं इति उद्गतार्थः गम्यते । एवं तर्हि साधने शालजादयः भवन्ति । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । उपसर्गेभ्यः इमे विधीयन्ते । उपसर्गाः च पुनः एवमात्मकाः यत्र कः चित्क्रियावाचै शब्दः प्रयुज्यते तत्र क्रियाविशेषं आहुः । यत्र हि न प्रयुज्यते ससाधनं तत्र क्रियां आहुः । ते एते उपसर्गेभ्यः विधीयमानाः ससाधनायां क्रियायां भविष्यन्ति । एवं अपि भवेत्सिद्धं विशाले शृङ्गे इति । इदं तु न सिध्यति । विशालः । विशङ्कटः इति । एततपि सिद्धं । कथं । अकारः मत्वर्थीयः । विशाले अस्य स्तः विशालः । विशङ्कटे अस्य स्तः विशङ्कटः इति ।
(पाणिनीयसूत्र ५,२।२९) कि.।३७६।८-३७७।४ रो. ईV।११२-११४ (कात्यायन वार्तिक)कटच्प्रकरणे अलाबूतिलोमाभ्यः रजसि उपसङ्ख्यानम्(वार्तिकान्त) । कटच्प्रकरणे अलाबूतिलोमाभ्यः रजसि अभिधेये उपसङ्ख्यानं कर्तव्यं । अलाबूकटः । तिलकटः । उमाकटः । (कात्यायन वार्तिक)भङ्गायाः च(वार्तिकान्त) । भङ्गायाः च इति वक्तव्यं । भङ्गाकटः । (कात्यायन वार्तिक)गोष्ठादयः स्थानादिषु पशुनामादिभ्यः(वार्तिकान्त) । गोष्ठादयः प्रत्ययाः स्थानादिषु अर्थेषु पशुनामादिभ्यः वक्तव्याः । गोगोष्ठं । अविगोष्ठं । कटच्च वक्तव्यः । अविकटः उष्ट्रकटः । पटच्च वक्तव्यः । अविपटः उष्ट्रपटः । गोयुगशब्दः च प्रत्ययः वक्तव्यः । उष्ट्रगोयुगं । खरगोयुगं । तैलशब्दः च प्रत्ययः वक्तव्यः । इङ्गुदतैलं । सर्षपतैलं । शाकटशब्दः च प्रत्ययः वक्तव्यः । इक्षुशाकटं । मूलशाकटं । शाकिनशब्दः च प्रत्ययः वक्तव्यः । इक्षुशाकिनं मूलशाकिनं । (कात्यायन वार्तिक)उपमानात्वा सिद्धम्(वार्तिकान्त) । उपमानात्वा सिद्धं एतत। गवां स्थानं गोष्ठं । यथा गवं तद्वतुष्ट्राणां । कटच्वक्तव्यः इति । यथा नानाद्रव्याणां सङ्घातः कटः एवं अवयः संहताः अविकटः । पटत्च वक्तयः इति । यथा पटः प्रस्तीर्णः एवं अवयः प्रस्तीर्णाः अविपटः । गोयुगशब्दः च प्रत्ययः वक्तव्यः इति । गोः युगं गोयुगं । यथा गोः तद्वतुष्ट्रस्य । उष्ट्रगोयुगं । तैलशब्दः च प्रत्ययः वक्तव्यः इति । प्रकृत्यन्तरं तैलशब्दः विकारे वर्तते । एवं च कृत्वा तिलतैलं इति अपि सिद्धं भवति । शाकटशब्दः च प्रत्ययः वक्तव्यः एव । शाकिनशब्दः च प्रत्ययः वक्तव्यः एव ।
(पाणिनीयसूत्र ५,२।३३) कि.।३७७।६-१४ रो. ईV।११५ इनच्पिटच्काः प्रत्ययाः वक्तव्याः चिकचिचिकिति एते च प्रकृत्यादेशाः वक्तव्याः । चिकिनः । चिपिटः । चिक्कः । (कात्यायन वार्तिक)क्लिन्नस्य चिल्पिल्लः च अस्य चक्षुषी(वार्तिकान्त) । क्लिन्नस्य चिल्पिलिति एतौ प्रकृत्यादेशौ वक्तव्यौ लः च प्रत्ययः अस्य चक्षुषी इति एतस्मिनर्थे । क्लिन्ने अस्य चक्षुषी चिल्लः । पिल्लः । चुल्च वक्तव्यः । चुल्लः । यदि अस्य इति उच्यते चिल्ले चक्षुषी पिल्ले चक्षुषी इति न सिध्यति । तस्मान्न अर्थः अस्य ग्रहणे । कथं चिल्लः पिल्लः इति । अकारः मत्वर्थीयः । चिल्ले अस्य स्तः चिल्लः । पिल्ले अस्य स्तः पिल्लः इति ।
(पाणिनीयसूत्र ५,२।३७) कि.।३३७।१६-३७८।१७ रो. ईV।११५-११८ प्रमाणे इति किमयं प्रत्ययार्थः । (कात्यायन वार्तिक)प्रमाणं प्रत्ययार्थः न (वार्तिकान्त)। प्रमाणे इति न अयं प्रत्ययार्थः । क्व तर्हि प्रत्ययाः भवन्ति । (कात्यायन वार्तिक)तद्वति(वार्तिकान्त) । कुतः एतत। (कात्यायन वार्तिक)अस्य इति वर्तनात्(वार्तिकान्त) । अस्य इति वर्तते । क्व प्रकृतं । तदस्य सञ्जातं तारकादिभ्यः इतचिति । (कात्यायन वार्तिक)प्रथमः च द्वितीयः च ऊर्ध्वमाने मतौ मम(वार्तिकान्त) । ऊरुद्वयसं । ऊरुदघ्नं । (कात्यायन वार्तिक)प्रमाणे लः(वार्तिकान्त) । प्रमाणे लः वक्तव्यः : शमः , दिष्टिः , वितस्तिः । (कात्यायन वार्तिक)द्विगोः नित्यम्(वार्तिकान्त) । द्विगोः नित्यं लः वक्तव्यः । द्विशतं । त्रिशतं । द्विदिष्टिः । त्रिदिष्टिः । द्विवितस्तिः । त्रिवितस्तिः । किमर्थं इदं उच्यते । संशये श्राविणं वक्ष्यति यस्य अस्यं पुरस्तातपकर्षः । (कात्यायन वार्तिक)डट्स्तोमे(वार्तिकान्त) । डट्स्तोमे वक्तव्यः । पञ्चदशः स्तोमः । (कात्यायन वार्तिक)शच्शनोः डिनिः(वार्तिकान्त) । शच्शनोः डिनिः वक्तव्यः । त्रिंशिनः मासाः । पञ्चदशिनः अर्धमासाः । विंशतेः च इति वक्तव्यं । विंशिनः अङ्गिरसः । (कात्यायन वार्तिक)प्रमाणपरिमाणाभ्यां सङ्ख्यायाः च संशये(वार्तिकान्त) । मात्रच्वक्तव्यः । शममात्रं । दिष्टिमात्रं । वितस्तिमात्रं । कुडवमात्रं । पञ्चमात्राः । दशमात्राः । (कात्यायन वार्तिक)वत्वन्तात्स्वार्थे द्वयसज्मात्रचौ बहुलम्(वार्तिकान्त) । वत्वन्तात्स्वार्थे द्वयसज्मात्रचौ बहुलं वक्तव्यौ । तावतेव तावद्द्वयसं । तावन्मात्रं । यावतेव यावद्द्वयसं । यावन्मात्रं । [प्रमाणं प्रत्ययार्थः न तद्वति अस्य इति वर्तनात। प्रथमः च द्वितीयः च ऊर्ध्वमाने मतौ मम । प्रमाणे लः । द्विगोः नित्यं । डट्स्तोमे । शच्शनोः डिनिः । प्रमाणपरिमाणाभ्यां सङ्ख्यायाः च संशये (ऱीV।११८)]
(पाणिनीयसूत्र ५,२।३९।१) कि.।३७८।१९-३७९।१ रो. ईV।११८-११९ किमर्थं परिमाणे इति उच्यते न प्रमाणे इति वर्तते । एवं तर्हि सिद्धे सति यत्परिमाणग्रहणं करोति तत्ज्ञापयति आचार्यः अन्यत्प्रमाणं अन्यत्परिमाणं इति । (कात्यायन वार्तिक)डावतौ अर्थवैशेष्यात्निर्देशः पृथकुच्यते(वार्तिकान्त) । न एतत्ज्ञापकसाध्यं अन्यत्प्रमाणं अन्यत्परिमाणं इति । उक्तः अत्र विशेषः । (कात्यायन वार्तिक)मात्राद्यप्रतिघाताय(वार्तिकान्त) । एवं च कृत्वा मात्रादीनां प्रतिघातः न भवति । (कात्यायन वार्तिक)भावः सिद्धः च डावतोः(वार्तिकान्त) । डावत्वन्तात्मात्रजादीनां भावः सिद्धः भवति ।
(पाणिनीयसूत्र ५,२।३९।२) कि.।३७९।२-५ रो. ईV। ११९-१२० (कात्यायन वार्तिक)वतुप्प्रकरणे युष्मदस्मद्भ्यां छन्दसि सादृशे उपसङ्ख्यानम्(वार्तिकान्त) । वतुप्प्रकरणे युष्मदस्मद्भ्यां छन्दसि सादृशे उपसङ्ख्यानं कर्तव्यं । न त्वावानन्यः दिव्यः न पर्थिवः न जातः न जनिष्यते । त्ववतः पुरूवसो । यज्ञं विप्रस्य मवतः । त्वत्सदृशस्य । मत्सदृशस्य इति । [डावतौ अर्थवैशेष्यात्निर्देशः पृथकुच्यते । मात्राद्यप्रतिघाताय । भावः सिद्धः च डावतोः (ऱीV।१२०)]
(पाणिनीयसूत्र ५,२।४०) कि.।३७९।७-१० रो. ईV।१२० केन विहितस्य किमिदम्भ्यां वतुपः वः घत्वं उच्यते । एततेव ज्ञापयति आचार्यः भवति किमिदम्भ्यां वतुपिति यतयं किमिदम्भ्यां उत्तरस्य वतुपः वः घत्वं शास्ति । अथ वा योगविभागः करिष्यते । किमिदम्भ्यां वतुप्भवति । ततः वः घः इति । वः च अस्य घः भवति इति ।
(पाणिनीयसूत्र ५,२।४१) कि.।३७९।१२-१५ रो. ईV।१२०-१२१ बहुषु इति वक्तव्यं । इह मा भूत। कियान। कियन्तौ । तत्तर्हि वक्तव्यं । न वक्तव्यं । किं इति एतत्परिप्रश्ने वर्तते परिप्रश्नः च अनिर्ज्ञाते अनिर्ज्ञातं च बहुषु । द्व्येकयोः पुनः निर्ज्ञातं । निर्ज्ञातत्वात्द्व्येकयोः परिप्रश्नः न भवति । परिप्रश्नाभावात्किं एव तावत्न अस्ति कुतः प्रत्ययः ।
(पाणिनीयसूत्र ५,२।४२) कि.।३७९।१७-३८०।४ रो. ईV।१२१-१२२ इह कस्मात्न भवति । बहवः अवयवाः अस्याः सङ्ख्यायाः इति । अवयवे या सङ्ख्या इति उच्यते । न च का चित्सङ्ख्या अस्ति यस्याः बहुशब्दः अवयवः स्यात। ननु च इयं अस्ति सङ्ख्या इति एव । न एषा सङ्ख्या । सञ्ज्ञा एषा । (कात्यायन वार्तिक)अवयवविधाने अवयविनि प्रत्ययः(वार्तिकान्त) । अवयवविधाने अवयविनि प्रत्ययः भवति इति वक्तव्यं । इह मा भूत। पञ्च अवयवाः । दश अवयवाः इति । अथ अवयविनि इति उच्यमाने अवयवस्वामिनि कस्मात्न भवति । पञ्च पश्ववयवाः देवदत्तस्य इति । अवयवशब्दः अयं गुणशब्दः अस्य इति च वर्तते । तेन यं प्रति अवयवः गुणः तस्मिनवयविनि प्रत्ययेन भवितव्यं । कं च प्रति अवयवः गुणः । समुदायं । यदि एवं अवयविनि इति अपि न वक्तव्यं । अवयवेषु कस्मात्न भवति । अस्य इति वर्तते ।
(पाणिनीयसूत्र ५,२।४४) कि.।३८०।६-१२ रो. ईV।१२२-१२३ किमर्थं उदात्तः इति उच्यते । उदात्तः यथा स्यात। न एततस्ति प्रयोजनं । प्रत्ययस्वरेण अपि एषः स्वरः सिद्धः । न सिध्यति । चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वं प्रसज्येत । अथ उदात्तः इति उच्यमाने कुतः एततादेः उदात्तत्वं भविष्यति न पुनः अन्तस्य इति । उदात्तवचनसामर्थ्यात्यस्य अप्राप्तः स्वरः तस्य भविष्यति । कस्य च अप्राप्तः । आदेः । अन्तस्य पुनः चित्स्वरेण एव सिद्धं ।
(पाणिनीयसूत्र ५,२।४५) कि.।३८०।१२-३८१।५ रो. ईV।१२३-१२५ इह कस्मात्न भवति । एकादश माषाः अधिकाः अस्मिन्कार्षापणशते इति । (कात्यायन वार्तिक)अधिके समानजातौ(वार्तिकान्त) । समानजातौ अधिके इष्यते । अथ इह कस्मात्न भवति । एकादश कार्षापणाः अधिकाः अस्यां कार्षापणत्रिंसति इति । (कात्यायन वार्तिक)इष्टं शतसहस्रयोः(वार्तिकान्त) । शतसहस्रयोः अधिके इष्यते । अथ एकादशं शतसहस्रं इति कस्य आधिक्ये भवितव्यं । (कात्यायन वार्तिक)यस्य सङ्ख्या तदाधिक्ये डः कर्तव्यः मतः मम(वार्तिकान्त) । यदि तावत्शतानि सङ्ख्यायन्ते शताधिक्ये भवितव्यं । अथ सहस्राणि सङ्ख्यायन्ते सहस्राधिक्ये भवितव्यं । (कात्यायन वार्तिक)डविधाने परिमाणशब्दानां आधिक्यस्य अधिकरणाभावातनिर्देशः(वार्तिकान्त) । डविधाने परिमाणशब्दानां आधिक्यस्य अधिकरणाभावातनिर्देशः । अगमकः निर्देशः अनिर्देशः । न हि एकादशानां शतं अधिकरणं । (कात्यायन वार्तिक)सिद्धं तु पञ्चमीनिर्देशात्(वार्तिकान्त) । सिद्धं एतत। कथं । पञ्चमीनिर्देशात। पञ्चमीनिर्देशः कर्तव्यः । ततस्मातधिकं इति । सः तर्हि पञ्चमीनिर्देशः कर्तव्यः । न कर्तव्यः । यदि अपि तावत्व्यापके वैषयिके वा अधिकरणे सम्भवः न अस्ति औपश्लेषिकं अधिकरणं विज्ञास्यते । एकादश कार्षापणाः उपश्लिष्टाः अस्मिन्शते एकादशं शतं ।
(पाणिनीयसूत्र ५,२।४६) कि.।३८१।७-१६ रो. ईV।१२५-१२६ किमर्थं शद्ग्रहणे अन्तग्रहणं । (कात्यायन वार्तिक)शद्ग्रहणे अन्तग्रहणं प्रत्ययग्रहणे यस्मात्सः तदादेः अधिकार्थम्(वार्तिकान्त) । शद्ग्रहणे अन्तग्रहणं क्रियते । प्रत्ययग्रहणे यस्मात्सः विहितः तदादेः तदन्तस्य ग्रहणं भवति इति इह न प्राप्नोति : एकत्रिंशं शतं । इष्यते च अत्र अपि स्यातिति । तत्च अन्तरेण यत्नं न सिध्यति इति अन्तग्रहणं । एवमर्थं इदं उच्यते । अस्ति प्रयोजनं एतत। किं तर्हि इति । (कात्यायन वार्तिक)सङ्ख्याग्रहणं च(वार्तिकान्त) । सङ्ख्याग्रहणं च कर्तव्यं । इह मा भूत। गोत्रिंशतधिकरं अस्मिन्शते इति । (कात्यायन वार्तिक)विंशतेः च(वार्तिकान्त) । विंशतेः च अन्तग्रहणं कर्तव्यं । इह अपि यथा स्यात। एकविंशं शतं । चकारात्सङ्ख्याग्रहणं च कर्तव्यं । इह मा भूत। गोविंशतिः अधिकं अस्मिन्शते इति ।
(पाणिनीयसूत्र ५,२।४७) कि.।३८१।१८-३८२।१६ रो. ईV।१२६-१२९ (कात्यायन वार्तिक)निमाने गुणिनि(वार्तिकान्त) । निमाने गुणिनि इति वक्तव्यं । किं प्रयोजनं । गुणेषु मा भूत। (कात्यायन वार्तिक)भूयसः(वार्तिकान्त) । भूयसः इति च वक्तव्यं । किं प्रयोजनं । भूयसः वाचिकायाः सङ्ख्यायाः उत्पत्तिः यथा स्यातल्पीयसः वाचिकायाः सङ्ख्यायाः उत्पत्तिः मा भूतिति । (कात्यायन वार्तिक)एकः अन्यतरः(वार्तिकान्त) । एकः चेतन्यतरः भवति इति वक्तव्यं । इह मा भूत। द्वौ यवानां त्रयः उदश्वितः इति । (कात्यायन वार्तिक)समानानाम्(वार्तिकान्त) । समानानां च इति वक्तव्यं । इह मा भूत। एकः यवानां अध्यर्धः उदश्वितः इति । तत्तर्हि बहु वक्तव्यं । न वक्तव्यं । यत्तावतुच्यते । गुणिनि इति वक्तव्यं इति । न वक्तव्यं । गुणेषु कस्मात्न भवति । अस्य इति वर्तते । यतुक्तं भूयसः इति वक्तव्यं इति । न वक्तव्यं । अल्पीयसः वाचिकायाः सङ्ख्यायाः उत्पत्तिः कस्मात्न भवति । अनभिधानात। यतुक्तं एकः चेतन्यतरः भवति इति वक्तव्यं इति । न वक्तव्यं । कस्मात्न भवति द्वौ यवानां त्रयः उदश्वितः इति । तन्त्रं विभक्तिनिर्देशः । यतपि उच्यते समानानां च इति वक्तव्यं इति । न वक्तव्यं । कस्मात्न भवति एकः यवानां अध्यर्धः उदश्वितः इति । अनभिधानात। (कात्यायन वार्तिक)निमेये च अपि दृश्यते(वार्तिकान्त) । निमेये च अपि प्रत्ययः दृश्यते । द्विमयाः यवाः । त्रिमयाः । किं पुनः इह निमानं किं निमेयं यावता उभयं त्यज्यते । सत्यं एवं एतत। क्व चित्तु का चित्प्रसृततरा गतिः भवति । तत्यथा । समाने त्यागे धान्यं विक्रीणिते यवान्विक्रीणीते इति उच्यते । न कः चिताह कार्षापणं विक्रीणिते इति । अथ वा येन अधिगम्यते तत्निमानं । यतधिमयते तत्निमेयं ।
(पाणिनीयसूत्र ५,२।४८) कि.।३८२।१८-३८३।२२ रो. ईV।१२९-१३३ (कात्यायन वार्तिक)तस्य पूरणे इति अतिप्रसङ्गः(वार्तिकान्त) । तस्य पूरणे इति अतिप्रसङ्गः भवति । इह अपि प्रप्नोति । पञ्चानां उष्ट्रिकाणां पूरणः घटः । (कात्यायन वार्तिक)सिद्धं तु सङ्ख्यापूरणे इति वचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । सङ्ख्यापूरणे इति वक्तव्यं । एवं अपि घटे प्राप्नोति । सङ्ख्येयं हि असौ अद्भिः पूरयति । सङ्ख्यापूरणे इति ब्रूमः न सङ्ख्येयपूरणे इति । (कात्यायन वार्तिक)यस्य वा भावातन्यसङ्ख्यात्वं तत्र(वार्तिकान्त) । अथ वा यस्य भावातन्या सङ्ख्या प्रवर्तते तत्र इति वक्तव्यं । एवं अपि द्वितीये अध्याये अष्टमः इति प्राप्नोति । सर्वेषां हि तेषां भावात्सङ्ख्या प्रवर्तते । चरमोपजाते पूर्वस्मिन्च अनपगते इति वक्तव्यं । एवं अपि एकादशीद्वादश्यौ सौविष्टकृती । इदं द्वितीयं इदं तृतीयं । दश दशमानि इति न सिध्यति । सूत्रं च भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं तस्य पूरणे इति अतिप्रसङ्गः इति । परिहृतं एतत्सिद्धं सङ्ख्यापूरणे इति वचनातिति । तत्तर्हि सङ्ख्याग्रहणं कर्तव्यं । न कर्तव्यं । प्रकृतं अनुवर्तते । क्व प्रकृतं । सङ्ख्यायाः गुणस्य निमाने मयटिति । एवं तर्हि न इयं वृत्तिः उपालभ्यते । किं तर्हि । वृत्तिस्थानं उपालभ्यते । वृत्तिः एव अत्र न प्राप्नोति । किं कारणं । प्रत्ययार्थाभावात। न एषः दोषः । वचनात्स्वाऋथिकः भविष्यति । अथ वा पूर्वस्याः सङ्ख्यायाः परापेक्षायाः उत्पत्तिः वक्तव्या उत्तरा च साङ्ख्या आदेशः वक्तव्यः । अथ वा न्यूने अयं कृत्स्नशब्दः द्रष्टव्यः : चतुर्षु पञ्चशब्दः । अथ वा सर्वे एव द्व्यादयः अन्योन्यं अपेक्षन्ते । यदि एवं द्वितीये अध्याये अष्टमः इति प्राप्नोति । भवति एव । (कात्यायन वार्तिक)प्रकृत्यर्थात्बहिः सर्वा वृत्तिः प्रायेण लक्ष्यते । पूरणे स्यात्कथं वृत्तिः । वचनातिति लक्ष्यतां । तस्याः पूर्वा तु या सङ्ख्या तस्याः [ऱ्तस्यां ] भवतु तद्धितः । आदेशः च ओत्तरा सङ्ख्या तथा न्याय्या भविष्यति । न्यूने वा कृत्स्नशब्दः अयं पूर्वस्यां उत्तरां यदि सामर्थ्यं च तया तस्याः तथा न्याय्या भविष्यति । अन्योन्यं वा व्यपाश्रित्य सर्वस्मिन्द्व्यादयः यदि प्रवर्तन्ते तथा न्याय्या वृत्तिः भवति पूरणे । बहूनां वाचिका सङ्ख्या पूरणः च एकः इष्यते । अन्यत्वातुभयोः न्याय्या वार्क्षी शाखा निदर्शनम्(वार्तिकान्त) ।
(पाणिनीयसूत्र ५,२।४९) कि.।३८३।२४-३८४।७ रो. ईV।१३३-१३४ (कात्यायन वार्तिक)मडादिषु यस्य आदिः तन्निर्देर्देशः(वार्तिकान्त) । मडादिषु यस्य आदिः क्रियते तन्निर्देर्देशः कर्तव्यः । अस्य आदिः भवति इति वक्तव्यं । अकिर्यमाणे हि प्रत्ययाधिकारात्प्रत्ययः अयं विज्ञायेत । तत्र कः दोषः । (कात्यायन वार्तिक)प्रत्ययान्तरे हि स्वरे दोषः(वार्तिकान्त) । प्रत्ययान्तरे हि सति स्वरे दोषः स्यात। विंशतितमः । एषः स्वरः प्रसज्येत । विंशतितमः इति च इष्यते । सः तर्हि तथा निर्देशः कर्तव्यः । न कर्तव्यः । प्रकृतं डड्ग्रहणं अनुवर्तते । क्व प्रकृतं । तस्य पूरणे डटिति । तत्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन च अर्थः । नान्तातिति पञ्चमी डटिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति । तस्मातिति उत्तरस्य इति । प्रत्ययविधिः अयं न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति । न अयं प्रत्ययविधिः । विहितः प्रत्ययः प्रकृतः च अनुवर्तते ।
(पाणिनीयसूत्र ५,२।५१।१) कि.।३८४।९-१० रो. ईV।१३४ (कात्यायन वार्तिक)चतुरः छयतौ आद्यक्षरलोपः च(वार्तिकान्त) । चतुरः छयतौ वक्तव्यौ आद्यक्षरलोपः च वक्तव्यः । तुरीयं । तुर्यं ।
(पाणिनीयसूत्र ५,२।५१।२) कि.।३८४।११-१७ रो. ईV।१३४-१३५ अथ किमर्थं थट्थुकौ पृथक्क्रियेते न सर्वं थटेव स्यात्थुकेव वा । (कात्यायन वार्तिक)थट्थुकोः पृथक्करणं पदान्तविधिप्रतिषेधाऋथम्(वार्तिकान्त) । थट्थुकोः पृथक्करणं क्रियते पदान्तविधिप्रतिषेधाऋथं । पदान्तविध्यर्थं पदान्तप्रतिषेधाऋथं च । पदान्तविध्यर्थं तावत। पर्णमयानि पञ्चथानि भवन्ति । रथः सप्तथः । पदन्तस्य इति नलोपः यथा स्यात। पदान्तप्रतिषेधाऋथं । षष्ठः । पदान्तस्य इति जश्त्वं मा भूत। इह चतुर्थः इति पदान्तस्य इति विसर्जनीयः मा भूतिति ।
(पाणिनीयसूत्र ५,२।५२) कि.।३८४।१९-३८५।१३ रो. ईV।१३५-१३६ बहुकतिपयवतूनां लिङ्गविशिष्टातुत्पत्तिः । बहुकतिपयवतूनां लिङ्गविशिष्टादुत्पत्तिः वक्तव्या । इह अपि यथा स्यात। बह्वीनां पूरणी बहुतिथी । कतिपयानां पूरणी कतिपयथी । तावतीनां पूरणी तावतिथी । (कात्यायन वार्तिक)बहुकतिपयवतूनां लिङ्गविशिष्टादुत्पत्तिः सिद्धा(वार्तिकान्त) । कथं । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणं भवति इति । (कात्यायन वार्तिक)पुंवद्वचनं च (वार्तिकान्त)। पुंवद्भावः च वक्तव्यः । बह्वीनां पूरणी बहुतिथी । किमर्थं न भस्य अढे तद्धिते पुंवत्भवति इति सिद्धं । भस्य इति उच्यते । यजादौ च भं भवति । न च अत्र यजादिं पश्यामः । किं कारणं । तिथुका व्यविहितत्वात्न प्राप्नोति । इदं इह सम्प्रधार्यं । तिथुक्क्रियतां पुंवद्भावः इति । किं अत्र कर्तव्यं । परत्वात्पुंवद्भावः । नित्यः तिथुक। कृते अपि पुंवद्भावे प्राप्नोति अकृते अपि प्राप्नोति । तिथुकपि अनित्यः । अन्यस्य कृते पुंवद्भावे प्राप्नोति अन्यस्य अकृते । शब्दान्तरस्य च प्राप्नुवन्विधिः अनित्यः भवति । अन्तरङ्गः तर्हि तिथुक। का अन्तरङ्गता । उत्पत्तिसन्नियोगेन तिथुकुच्यते उत्पन्ने प्रत्यय्ते प्रकृतिप्रत्ययौ आश्रित्य पुंवद्भावः । पुंवद्भावः अपि अन्तरङ्गः । कथं । उक्तं एतत्सिद्धः च प्रत्ययविधौ इति । उभयोः अन्तरङ्गयोः परत्वात्पुंवद्भावः । पुंवद्भावे कृते पुनःप्रसङ्गविज्ञानात्तिथुक्सिद्धः : बहुतिथी ।
(पाणिनीयसूत्र ५,२।५८) कि.।३८५।१५-२० रो. ईV।१३६-१३७ असङ्ख्यादेः इति किमर्थं । इह मा भूत। एकषष्टः । द्विषष्टः । असङ्ख्यादेः इति शक्यं अवक्तुं । कस्मात्न भवति एकषष्टः । द्विषष्टः इति । षष्टिशब्दात्प्रत्ययः विधीयते । कः प्रसङ्गः यतेकषष्टिशब्दात्स्यात। न एव प्राप्नोति न अर्थः प्रतिषेधेन । तदन्तविधिना प्राप्नोति । ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते । एवं तर्हि ज्ञापयति आचार्यः भवति इह तदन्तविधिः इति । किं एतस्य ज्ञापने प्रयोजनं । एकविंशतितमः । एतत्सिद्धं भवति ।
(पाणिनीयसूत्र ५,२।५९) कि.।३८५।२२-३८६।१४ रो. ईV।१३७-१४० (कात्यायन वार्तिक)छप्रकरणे अनेकपदातपि(वार्तिकान्त) । छप्रकरणे अनेकपदातपि इति वक्तव्यं । इह अपि यथा स्यातः अस्यवामीयं , कयाशुभीयं । किं पुनः कारणं न सिध्यति । अप्रातिपदिकत्वात। (कात्यायन वार्तिक)सिद्धं तु प्रातिपदिकविज्ञानात्(वार्तिकान्त) । सिद्धं एतत। कथं । प्रातिपदिकविज्ञानात। कथं प्रातिपदिकविज्ञानं । (कात्यायन वार्तिक)स्वं रूपं शब्दस्य अशब्दसञ्ज्ञा इति वचनात्(वार्तिकान्त) । स्वं रूपं शब्दस्य अशब्दसञ्ज्ञा भवति इति । एवं यः असौ आम्नाये अस्यवामशब्दः पठ्यते सः अस्य पदार्थः । किं पुनः अन्ये आम्नायशब्दाः अन्ये इमे । ओं इति आह । कुतः एतत। (कात्यायन वार्तिक)आम्नायशब्दानां अन्यभाव्यं स्वरवर्णानुपूर्वीदेशकालनियतत्वात्(वार्तिकान्त) । स्वरः नियतः आम्नाये अस्यवामशब्दस्य । वर्णानुपूर्वी खलु अपि आम्नाये नियता अस्यवामशब्दस्य । देशः खलु अपि आम्नाये नियतः । श्मशाने न अध्येयं । चतुष्पथे न अध्येयं इति । कालः खलु अपि आम्नाये नियतः । न अमावास्यायां न चतुर्दशायां इति । (कात्यायन वार्तिक)पदैकदेशसुबलोपदर्शनात्च(वार्तिकान्त) । पदैकदेशः खलु अपि आम्नाये दृश्यते । अस्यवामीयं । ननु च एषः सुब्लोपः स्यात। सुबलोपदर्शनात्च । सुबलोपः खलु अपि दृश्यते । अस्यवामीयं इति । यदि तर्हि अन्ये आम्नायशब्दाः अन्ये इमे मत्वर्थः न उपपद्यते । अस्यवामशब्दः अस्मिनस्ति इति । न सञ्ज्ञा सञ्ज्ञिनं व्यभिचरति ।
(पाणिनीयसूत्र ५,२।६०) कि.।३८६।१६-१८ रो. ईV।१४० (कात्यायन वार्तिक)अध्यायानुवाकाभ्यां वा लुक्(वार्तिकान्त) । अध्यायानुवाकाभ्यां वा लुक्वक्तव्यः । स्तम्भः । स्तम्भीयः । गर्दभाण्डः । गर्दभाण्डीयः । अनुकः । अनुकीयः ।
(पाणिनीयसूत्र ५,२।६५) कि.।३८६।२०-३८७।३ रो. ईV।१४०-१४१ (कात्यायन वार्तिक)धनहिरण्यात्कामाभिधाने(वार्तिकान्त) । धनहिरण्यात्कामाभिधाने इति वक्तव्यं । (कात्यायन वार्तिक)षष्थ्यर्थे हि अनिष्टप्रसङ्गः(वार्तिकान्त) । षष्थ्यर्थे हि सति अनिष्टः प्राप्नोति । धने कामः अस्य इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । कस्मात्न भवति धने कामः अस्य इति । अनभिधानात।
(पाणिनीयसूत्र ५,२।७२) कि.।३८७।५-८ रो. ईV।१४१ किं यः शीतं करोति सः शीतकः यः वा उष्णं करोति स उष्णकः । किं च अतः । तुषारे आदित्ये च प्राप्नोति । एवं तर्हि उत्तरपदलोपः अत्र द्रष्टव्यः । शीतं इव शीतं । उष्णं इव उष्णं । यः आशु कर्तव्यानर्थान्चिरेण करोति सः उच्यते शीतकः इति । यः पुनः आशु कर्तव्यानर्थानाशु एव करोति सः उच्यते उष्णकः इति ।
(पाणिनीयसूत्र ५,२।७३) कि.।३८७।१०-१३ रो. ईV।१४१-१४२ अधिकं इति किं निपात्यते । अद्यारूढस्य उत्तरपदलोपः च कन्च प्रत्ययः । अध्यारूढं अधिकं इति । भवेत्सिद्धं अध्यारूढः द्रोणः खार्यां अधिकः द्रोणः खार्यां इति । इदं तु न सिध्यति । अध्यारूढा द्रोणेन खारी । अधिका द्रोणेन खारी इति । गत्यर्थानां हि क्तः कर्तरि विधीयते । गत्यर्थानां वै क्तः कर्मणि अपि विधीयते ।
(पाणिनीयसूत्र ५,२।७५) कि.।३८७।१५-१७ रो. ईV।१४२) किं यः पार्श्वेन अन्विच्छति सः पार्व्श्वकः । किं च अतः । राजपुरुषे प्राप्नोति । एवं तर्हि उत्तरपदलोपः अत्र द्रष्टव्यः । पार्श्वं इव पार्श्वं । यः ऋजुना उपायेन अन्वेष्टव्यानर्थाननृजुना उपायेन अन्विच्छति सः उच्यते पार्श्वकः इति ।
(पाणिनीयसूत्र ५,२।७६) कि.।३८७।१९-३८८।२ रो. ईV।१४२ किं यः अयःशुलेन अन्विच्छति सः आयःशूलिकः । किं च अतः । शिवभागवते प्राप्नोति । एवं तर्हि उत्तरपदलोपः अत्र द्रष्टव्यः । अयःशुलं इव अयःशुलं । यः मृदुना उपायेन अन्वेष्टव्यानर्थान्रभसेन उपायेन अन्विच्छति सः उच्यते आयःशूलिकः इति ।
(पाणिनीयसूत्र ५,२।७७) कि.।३८८।४-८ रो. ईV।१४३ (कात्यायन वार्तिक)तावतिथं ग्रहणं इति लुक्वावचनानर्थक्यं विभाषाप्रकरणात्(वार्तिकान्त) । तावतिथं ग्रहणं इति लुक्वावचनं अनर्थकं । किं कारणं । विभाषाप्रकरणात। प्रकृता महाविभाषा । तया एतत्सिद्धं । त्(कात्यायन वार्तिक)आवतिथेन गृह्णाति इति लुक्च(वार्तिकान्त) । तावतिथेन गृह्णाति इति उपसङ्ख्यानं कर्तव्य लुक्च वक्तव्यः । षष्थेन गृह्णाति षट्कः ।
(पाणिनीयसूत्र ५,२।७९) कि.।३८८।१०-१७ रो. ईV।१४३-१४४ (कात्यायन वार्तिक)शृङ्खलं अस्य बन्धनं करभे इति अनिर्देशः(वार्तिकान्त) । शृङ्खलं अस्य बन्धनं करभे इति अनिर्देशः । अगमकः निर्देशः अनिर्देशः । न हि तस्य शृङ्खलबन्धनं । शृङ्खलवत्या असौ रज्ज्वा बध्यते । (कात्यायन वार्तिक)सिद्धं तु तद्वन्निर्देशात्लुक्च(वार्तिकान्त) । सिद्धं एतत। कथं । तद्वन्निर्देशः कर्तव्यः लुक्च वक्तव्यः । शृङ्खलवत्बन्धनं इति । सः तर्हि तद्वन्निर्देशः कर्तव्यः । न कर्तव्यः । इह यत्न अन्तरेण यस्य प्रवृत्तिः भवति तत्तस्य निमित्तत्वाय कल्पते । न च अन्तरेण शृङ्खलं बन्धनं प्रवर्तते । अथ वा साहचर्यात्ताच्छब्द्यं भविष्यति । शृङ्खलसहचरितं बन्धनं श्र्ङ्खलं बन्धनं इति ।
(पाणिनीयसूत्र ५,२।८२) कि.।३८८।१९-२० रो. ईV।१४४ (कात्यायन वार्तिक)प्राये सञ्ज्ञायां वटकेभ्यः इनिः(वार्तिकान्त) । प्राये सञ्ज्ञायां वटकेभ्यः इनिः वक्तव्यः । वटकिनी पौर्णमासी ।
(पाणिनीयसूत्र ५,२।८४) कि.।३८९।२-७ रो. ईV। १४४-१४५ किं निपात्यते । (कात्यायन वार्तिक)श्रोत्रियन्छन्दः अधीते इति वाक्यार्थे पदवचनम्(वार्तिकान्त) । छन्दः अधीते इति अस्य वाक्यस्य अर्थे श्रोत्रियनिति एतत्पदं निपात्यते । (कात्यायन वार्तिक)छन्दसः वा श्र्तोत्रभावः ततधीते इति घन्च(वार्तिकान्त) । छन्दसः वा श्र्तोत्रभावः निपात्यते ततधीते इति एतस्मिनर्थे घन्च प्रत्ययः । छन्दः अधीते शृओत्रियः ।
(पाणिनीयसूत्र ५,२।८५) कि.।३८९।९-१२ रो. ईV।१४५ (कात्यायन वार्तिक)इनिठनोः समानकालग्रहणम्(वार्तिकान्त) । इनिठनोः समानकालग्रहणं कर्तव्यं । अद्य भुक्ते श्रः श्राद्धिकः इति मा भूत। (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । अनभिधानातिति ।
(पाणिनीयसूत्र ५,२।९१) कि.।३८९।१४-१६ रो. ईV।१४५-१४६ सञ्ज्ञायां इति किमर्थं । त्रिभिः साक्षात्दृष्टं भवति यः च ददाति यस्मै च दीयते यः च उपद्रष्टा । तत्र सर्वत्र प्रत्ययः प्राप्नोति । सञ्ज्ञाग्रहणसामर्थ्यात्धनिकान्तेवासिनोः न भवति ।
(पाणिनीयसूत्र ५,२।९२) कि.।३८९।१८-३९०।६ रो. ईV।१४६-१४७ किं निपात्यते । (कात्यायन वार्तिक)क्षेत्रियः श्रोत्रियवत्(वार्तिकान्त)। क्षेत्रियः श्रोत्रियवत्निपात्यते । परक्षेत्रे चिकित्स्यः इति एतस्य वाक्यस्य अर्थे क्षेत्रियचिति एतत्पदं निपात्यते । (कात्यायन वार्तिक)परक्षेत्रात्वा तत्र चिकित्स्यः इति परलोपः घच्च(वार्तिकान्त) । परक्षेत्रात्वा तत्र चिकित्स्यः इति एतस्मिनर्थे परलोपः निपात्यते घच्च । परक्षेत्रे चिकित्स्यः क्षेत्रियः ।
(पाणिनीयसूत्र ५,२।९४।१) कि.।३९१।२-२३ रो. ईV।१४७-१५३ किमर्थं इमौ अर्थौ उभौ निर्दिश्येते : अस्य अस्मिनिति न यत्यस्य भवति तस्मिनपि तत्भवति यत्च यस्मिन्भवति तत्तस्य अपि भवति । न एतयोः आवश्यकः समावेशः । भवन्ति हि देवदत्तस्य गावः न च ताः तस्मिनाधृताः भवन्ति । भवन्ति च पर्वते वृक्षाः न च ते तस्य भवन्ति । अथ अस्तिग्रहणं किमर्थं । सत्तायां अर्थे प्रत्ययः यथा स्यात। न एततस्ति प्रयोजनं । न सत्तां पदार्थः व्यभिचरति । इदं तर्हि प्रयोजनं : सम्प्रतिसत्तायां यथा स्यात्, भूतभविष्यत्सत्तायां मा भूतः गावः अस्य आसन। गावः अस्य भवितारः इति । न तर्हि इदानीं इदं भवति : गोमानासीत। गोमान्भविता इति । भवति न तु एतस्मिन्वाक्ये । यदि एतस्मिन्वाक्ये स्यात्यथा इह अस्तेः प्रयोगः न भवति गोमान्यवमानिति एवं इह अपि न स्यातः गोमानासीत। गोमान्भविता इति । सति अपि अस्तेः प्रयोगे यथा इह बहुवचनं श्रूयते गावः अस्य आसन्गावः अस्य भवितारः एवं इह अपि स्यात। गोमानासीत। गोमान्भविता इति । का तर्हि इयं वाचोयुक्तिः । गोमानासीत। गोमान्भविता इति । एषा एषा वाचोयुक्तिः । न एषा गवां सत्ता कथ्यते । किं तर्हि । गोमत्सत्ता एषा कथ्यते । अस्ति अत्र वर्तमानकालः अस्तिः । कथं तर्हि भूतभविष्यत्सत्ता गम्यते । धातुसम्बन्धे प्रत्ययाः इति । इदं तर्हि प्रयोजनं । अस्तियुक्तात्यथा स्यात। अनन्तरादियुक्तात्मा भूतिति । गावः अस्य अनन्तराः । गावः अस्य समीपे इति । अथ क्रियमाणे अपि अस्त्रिग्रहणे इह कस्मात्न भवति । गावः अस्य सन्ति अनन्तराः । गावः अस्य सन्ति समीपे इति । असामर्थ्यात। कथं असामर्थ्यं । सापेक्षं असर्मर्थं भवति इति । यथा एव तर्हि क्रियमाणे अस्त्रिग्रहणे असामर्थ्यातनन्तरादिषु न भवन्ति एवं अक्रियमाणे अपि न भविष्यति । अस्ति अत्र विशेषः । क्रियमाणे अस्त्रिग्रहणे न अन्तरेण तृतीयस्य पदस्य प्रयोगं अन्तरादयः अर्थाः गम्यन्ते । अक्रियमाणे पुनः अस्त्रिग्रहणे अन्तरेण अपि तृतीयस्य पदस्य प्रयोगं अन्तरादयः अर्थाः गम्यन्ते ।
(पाणिनीयसूत्र ५,२।९४।२) कि.।३९१।२४-३९२।१९ रो. ईV।१५३-१५६ अथ इह कस्मात्न भवति । चित्रगुः । शबलगुः इति । बहुव्रीह्युक्तत्वात्मत्वर्थस्य । अथ इह कस्मात्न भवति । चित्राः गावः अस्य सन्ति इति । कुतः कस्मात्न भवति । किं अवयवाताहोस्वित्समुदायात। अवयवात्कस्मात्न भवति । असामर्थ्यात। कथं असामर्थ्यं । सापेक्षं असर्मर्थं भवति इति । समुदायात्तर्हि कस्मात्न भवति । अप्रातिपदिकत्वात। ननु च भोः आकृतौ शास्त्राणि प्रवर्तन्ते । तत्यथा सुप्सुपा इति वर्तमाने अन्यस्य च अन्यस्य च समासः भवति । सत्यं एवं एतत। आकृतिः तु प्रत्येकं परिसमाप्यते । यावति एतत्परिसमाप्यते ङ्याप्प्रातिपदिकातिति तावतः उत्पत्त्या भवितव्यं । अवयवे च एतत्परिसमाप्यते न समुदाये । अथ इह कस्मात्न भवति । पञ्च गावः अस्य सन्ति पञ्चगुः । दशगुः इति । प्रत्येकं असामर्थ्यात्समुदायातप्रातिपदिकत्वात्समासात्समासेन उक्तत्वात। न एतत्सारं । उक्ते अपि हि प्रत्ययार्थे उत्पद्यते द्विगोः तद्धितः । तत्यथा द्वैमातुरः पाञ्चनापितिः इति । न एषः द्विगुः । कः तर्हि । बहुव्रीहिः । अपवादत्वात्द्विगुः प्राप्नोति । अन्तरङ्गत्वात्बहुव्रीहिः भविष्यति । का अन्तरङ्गता । अन्यपदार्थे बहुव्रीहिः वर्तते विशिष्टे अन्यपदार्थे तद्धितार्थे द्विगुः । तस्मिन्च अस्य तद्धिते अस्तिग्रहणं क्रियते । यदि तर्हि अतिप्रसङ्गाः सन्ति बहुव्रीहौ अपि अस्तिग्रहणं कर्तव्यं अस्तियुक्तात्यथा स्यातनन्तरादियुक्तात्मा भूतिति । अथ न सन्ति तद्धितविधौ अपि न अर्थः अस्तिग्रहणेन । सत्यं एवं एतत। क्रियते तु इदानीं तद्धितविधौ अस्तिग्रहणं । तत्वै क्रियमाणं अपि प्रत्ययविध्यर्थं न उपाध्यर्थं । अस्तिमानिति मतुप्यथा स्यात। किं च कारणं न स्यात। अप्रातिपदिकत्वात। न एषः दोषः । अव्ययं एषः अस्तिशब्दः । न एष अस्तेः लट। कथं अव्ययत्वं । विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा । निपातः अव्ययं इति अव्ययसञ्ज्ञा । एवं अपि न सिध्यति । किं कारणं । अस्तिसामानाधिकरण्ये मतुप्विधीयते । न च अस्तेः अस्तिना सामानाधिकरण्यं । ततेतत्क्रियमाणं अपि प्रत्ययविध्यर्थं न उपाध्यर्थं । तस्मात्द्विगोः तद्धितस्य प्रतिषेधः वक्तव्यः यदि तत्न अस्ति सर्वत्र मत्वर्थे प्रतिषेधः इति । सति हि तस्मिन्तेन एव सिद्धं ।
(पाणिनीयसूत्र ५,२।९४।३) कि.।३९२।२०-३९३।१० रो. ईV।१५६-१५९ अथ मत्वर्थीयात्मत्वर्थीयेन भवितव्यं । न भवितव्यं । किं कारणं । अर्थगत्यर्थः शब्दप्रयोगः । अर्थं सम्प्रत्याययिष्यामि इति शब्दः प्रयुज्यते । तत्र एकेन उक्तत्वात्तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यं । किं कारणं । उक्तार्थानां अप्रयोगः इति । न तर्हि इदानीं इदं भवति : दण्डिमती शाला । हस्तिमती उपपत्यका इति । भवति । अर्थान्तरे वृत्तातर्थान्तरे वृत्तिः । षष्ठ्यर्थे वा वृत्तं सप्तम्यर्थे वर्तते सप्तम्यर्थे वा वृत्तं षष्ठ्यर्थे वर्तते । अथ मत्वन्तात्मतुपा भवितव्यं : गोमन्तः अस्य सन्ति । यवमन्तः अस्य सन्ति इति । न भवितव्यं । किं काऋअणं । यस्य गोमन्तः सन्ति गावः अपि तस्य सन्ति । तत्र उक्तः गोभिः अभिसम्बन्धे प्रत्ययः इति कृत्वा तद्धितः न भविष्यति । न तर्हि इदानीं इदं भवति : दण्डिमती शाला । हस्तिमती उपपत्यका इति । भवति । अर्थान्तरे वृत्तातर्थान्तरे वृत्तिः । षष्ठ्यर्थे वा वृत्तं सप्तम्यर्थे वर्तते सप्तम्यर्थे वा वृत्तं षष्ठ्यर्थे वर्तते । इह अपि सप्तम्यर्थे वा वृत्तं षष्ठ्यर्थे वर्तते षष्ठ्यर्थे वा वृत्तं सप्तम्यर्थे वर्तते । अन्यथाजातीयकः खलु अपि गोभिः अभिसम्बन्धे प्रत्ययः अन्यथाजातीयकः तद्वता । येन एव खलु अपि हेतुना एतत्वाक्यं भवति गोमन्तः अस्य सन्ति , यवमन्तः अस्य सन्ति इति तेन एव हेतुना वृत्तिः अपि प्राप्नोति । तस्मात्मत्वर्थीयात्मतुबादेः प्रतिषेधः वक्तव्यः । तं च अपि ब्रुवता समान्वृत्तौ सरूपः इति वक्तव्यं । भवति हि दण्डिमती शाला हस्तिमती उपपत्यका इति । (कात्यायन वार्तिक)शैषिकात्मतुबर्थीयात्शैषिकः मतुबर्थीयः सरूपः प्रत्ययः न इष्टः । सनन्तात्न सनिष्यते(वार्तिकान्त) ।
(पाणिनीयसूत्र ५,२।९४।४) कि.।३९३।११-३९४।६ रो. ईV।१५९-१६१ किं पुनः इमे मतुप्प्रभृतयः सन्मात्रे भवन्ति । एवं भवितुं अर्हति । (कात्यायन वार्तिक)मतुप्प्रभृतयः सन्मात्रे चेततिप्रसङ्गः(वार्तिकान्त) । मतुप्प्रभृतयः सन्मात्रे चेततिप्रसङ्गः भवति । इह अपि प्राप्नोति । व्रीहिः अस्य । यवः अस्य इति । तस्मात्भूमादिग्रहणं कर्तव्यं । के पुनः भूमादयः । (कात्यायन वार्तिक)भूमनिन्दाप्रशंसासु नित्ययोगे अतिशायने संसर्गे अस्तिविवक्षायां भवन्ति मतुबादयः(वार्तिकान्त) । भूम्नि : गोमान्यवमान। निन्दायां : ककुदावर्ती सङ्खादकी । प्रशंसयां : रूपवान्वर्णवान। नित्ययोगे : क्षीरिणः वृक्षाः , कण्टकिनः वृक्षाः इति । अतिशायने : उदरिणी कन्या । संसर्गे : दण्डी छत्री । तत्तर्हि भूमादिग्रहणं कर्तव्यं । न कर्तव्यं । कस्मात्न भवति । व्रीहिः अस्य । यवः अस्य इति । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त)। किं उक्तं । अनभिधानातिति । इतिकरणः खलु अपि क्रियते । ततः चेत्विवक्षा । भूमादियुक्तस्य एव च विवक्षा । गोमान्यवमान। भूमादियुक्तस्य एव सत्ता कथ्यते । न हि कस्य चित्यवः न अस्ति । सङ्खादकी ककुदावर्तिनी । निन्दाउक्तस्य एव सत्ता कथ्यते । न हि कः चित्न सङ्खादकी । रूपवान्वर्णवान। प्रशंसायुक्तस्य एव सत्ता कथ्यते । न हि कस्य चित्रूपं न अस्ति । क्षीरिणः वृक्षाः । कण्टकिनः वृक्षाः इति । नित्ययुक्तस्य एव सत्ता कथ्यते । न हि कस्य चित्क्षिरं न अस्ति । उदरिणी कन्या इति । अतिशायनयुक्तस्य एव सत्ता कथ्यते । न हि कस्य चितुदरं न अस्ति । दण्डी छत्री । संसर्गयुक्तस्य एव सत्ता कथ्यते । न हि कस्य चित्दण्डः न अस्ति । यावतीभिः खलु अपि गोभिः वाहदोहप्रसवाः कल्पन्ते तावतीषु सत्ता कथ्यते । कस्य चित्तिसृभिः कल्पन्ते कस्य चित्शतेन अपि न प्रकल्पन्ते । (कात्यायन वार्तिक)सन्मात्रे च ऋषिदर्शनात्(वार्तिकान्त) । सन्मात्रे च पुनः ऋषिः दर्शयति मतुपं । यवमतीभिः अद्भिः यूपं प्रोक्षति इति ।
(पाणिनीयसूत्र ५,२।९४।५) कि.।३९४।७-१५ रो. ईV।१६१-१६२ (कात्यायन वार्तिक)गुणवचनेभ्यः मतुपः लुक्(वार्तिकान्त) । गुणवचनेभ्यः मतुपः लुक्वक्तव्यः । शुक्लः कृष्णः इति । अव्यतिरेकात्सिद्धं । न गुणः गुणिनं व्यभिचरति इति । (कात्यायन वार्तिक)अव्यतिरेकात्सिद्धं इति चेत्दृष्टः व्यतिरेकः(वार्तिकान्त) । दृश्यते व्यतिरेकः । तत्यथ पटस्य शुक्लः इति । (कात्यायन वार्तिक)तथा च लिङ्गवचनसिद्धिः(वार्तिकान्त) । एवं च कृत्वा लिङ्गवचनानि सिद्धानि भवन्ति । शुक्लं वस्त्रं । शुक्ला शाटी । शुक्लः कम्बलः । शुक्लौ कम्बलौ । शुक्लाः कम्बलाः इति । यतसौ द्रव्यं श्रितः भवति गुणः तस्य यत्लिङ्गं वचनं च तत्गुणस्य अपि भवति ।
(पाणिनीयसूत्र ५,२।९५) कि.।३९४।१७-२२ रो. ईV।१६२-१६३ किमर्थं इदं उच्यते न ततस्य अस्ति अस्मिनिति एव मतुप्सिद्धः । (कात्यायन वार्तिक)रसादिभ्यः पुनर्वचनं अन्यनिर्वृत्त्यर्थम्(वार्तिकान्त) । रसादिभ्यः पुनर्वचनं क्रियते अन्येषां मत्वर्थीयानां प्रतिषेधार्थं । मतुपेव यथा स्यात। ये अन्ये मत्वर्थीयाः प्राप्नुवन्ति ते मा भूवनिति । न एततस्ति प्रयोजनं । दृश्यन्ते हि अन्ये रसादिभ्यः मत्वर्थीयाः । रसिकः नटः । उर्वशी वै रूपिणी अप्सरसां । स्पर्शिकः वायुः इति ।
(पाणिनीयसूत्र ५,२।९६) कि.।३९५।२-४ रो. ईV।१६३ इह कस्मात्न भवति : चिकीर्षा अस्य अस्ति , जिहीर्षा अस्य अस्ति इति । प्राण्यङ्गातिति वक्तव्यं । तत्तर्हि वक्तव्यं । न वक्तव्यं । कस्मात्न भवति : चिकीर्षा अस्य अस्ति , जिहीर्षा अस्य अस्ति इति । अनभिधानात।
(पाणिनीयसूत्र ५,२।९७) कि.।३९५।६-३९६।५ रो. ईV।१६३-१६५ सिध्मादिषु यानि अकारान्तानि तेभ्यः लचा मुक्ते इनिठनौ प्रप्नुतः इनिठनौ च न इष्येते । (कात्यायन वार्तिक)लचन्यतरस्यां इति समुच्चयः(वार्तिकान्त) । लचन्यतरस्यां इति समुच्चयः अयं न विभाषा । लच्च मतुप्च । कथं पुनः एतत्ज्ञायते लचन्यतरस्यां इति समुच्चयः अयं न विभाषा इति । (कात्यायन वार्तिक)पिच्छादिभ्यः तुन्दादीनां नानायोगकरणं ज्ञापकं असमावेशस्य(वार्तिकान्त) । यतयं पिच्छादिभ्यः तुन्दादीनां नानायोगं करोति तत्ज्ञापयति आचार्यः समुच्चयः अयं न विभाषा इति । यदि विभाषा स्यात्नानायोगकरणं अनर्थकं स्यात। तुन्दादीनि अपि पिच्छादिषु एव पठेत। न एततस्ति ज्ञापकं । अस्ति हि अन्यत्नानायोगकरणे प्रयोजनं । किं । तुन्दादिषु यानि अनकारान्तानि तेभ्यः इनिठनौ यथा स्यातां । यानि तर्हि अकारान्तानि तेषां पाठः किमर्थः । ज्ञापकार्थः एव । अपरः आह : पिच्छादिभ्यः तुन्दादीनां नानायोगकरणं ज्ञापकं असमावेशस्य । यतयं तुन्दादिभ्यः पिच्छादीनां नानायोगं करोति तत्ज्ञापयति आचार्यः समुच्चयः अयं न विभाषा इति । यदि विभाषा स्यात्नानायोगकरणं अनर्थकं स्यात। पिच्छादीनि अपि तुन्दादिषु एव पठेत। न एततस्ति ज्ञापकं । अस्ति हि अन्यत्नानायोगकरणे प्रयोजनं । किं । पिच्छादिषु यानि अनकारान्तानि तेभ्यः इनिठनौ यथा स्यातां । यानि तर्हि अकारान्तानि तेषां पाठः किमर्थः । ज्ञापकार्थः एव । (कात्यायन वार्तिक)वस्य च पुनर्वचनं सर्वविभाषार्थम्(वार्तिकान्त) । वस्य खलु अपि पुनर्वचनं क्रियते सर्वविभाषार्थं । केशात्वः अन्यतरस्यां इति । एततेव ज्ञापयति आचार्यः समुच्चयः अयं न विभाषा इति । द्युद्रुभ्यां नित्यार्थं एके अन्यतरस्याङ्ग्रहणं इच्छन्ति । कथं । विभाषामध्ये अयं योगः क्रियते । विभाषामध्ये ये विधयः नित्याः ते भवन्ति इति ।
(पाणिनीयसूत्र ५,२।१००) कि.।३९६।७-१३ रो. ईV।१६५ (कात्यायन वार्तिक)नप्रकरणे दद्र्वाः ह्रस्वत्वं च(वार्तिकान्त) । नप्रकरणे दद्र्वाः उपसङ्ख्यानं कर्तव्यं ह्रस्वत्वं च नप्रकरणे दद्र्वाः ह्रस्वत्वं च वक्तव्यं । दद्रुणः । अत्यल्पं इदं उच्यते । शाकीपलालीदद्रूणां ह्रस्वत्वं च इति वक्तव्यं । शाकिनं , पलालिनं , दद्रुणं । (कात्यायन वार्तिक)विष्वकिति उत्तरपदलोपः च अकृतसन्धेः(वार्तिकान्त) । विष्वकिति उपसङ्ख्यानं कर्तव्यं उत्तरपदलोपः च अकृतसन्धेः वक्तव्यः । विष्वक्गतानि अस्य विषुणः ।
(पाणिनीयसूत्र ५,२।१०१) कि.।३९६।१५-१६ रो. ईV।१६६ (कात्यायन वार्तिक)वृत्तेः च(वार्तिकान्त) । वृत्तेः च इति वक्तव्यं । वार्त्तं ।
(पाणिनीयसूत्र ५,२।१०२-१०३।१) कि.।३९६।१९-२२ रो. ईV।१६६ किमर्थं तपःशब्दात्विन्विधीयते न असन्तातिति एव सिद्धं । त्(कात्यायन वार्तिक)अपसः विन्वचनं अण्विधानात्(वार्तिकान्त) । तपसः विन्वचनं क्रियते । तपःशब्दातन्विधीयते । सः विशेषविहितः सामान्य्विहितं विनं बाधेत ।
(पाणिनीयसूत्र ५,२।१०२-१०३।२) कि.।३९७।१-३ रो. ईV।१६७ (कात्यायन वार्तिक)अण्प्रकरणे ज्योत्स्नादिभ्यः उपसङ्ख्यानम्(वार्तिकान्त) । अण्प्रकरणे ज्योत्स्नादिभ्यः उपसङ्ख्यानं कर्तव्यं । ज्यौत्स्नः । तामिस्रः । कौण्डलः । कौतपः । वैपादिकः ।
(पाणिनीयसूत्र ५,२।१०७।१) कि.।३९७।५-७ रो. ईV।१६७ अयं मधुशब्दः अस्ति एव द्रव्यपदार्थकः अस्ति रसवाची । आतः च रसवाची अपि । मधुनि एव हि मधु इदं मधुरं इति प्रसज्यते । तत्यः रसवाची तस्य इदं ग्रहणं । यदि हि द्रव्यपदार्थकस्य ग्रहणं स्यातिह अपि प्रसज्येत । मधु अस्मिन्घटे अस्ति ।
(पाणिनीयसूत्र ५,२।१०७।२) कि.।३९७।८-१० रो. ईV।१६७-१६८ (कात्यायन वार्तिक)रप्रकरणे खमुख्कुञ्जेभ्यः उपसङ्ख्यानम्(वार्तिकान्त) । खरः । मुखरः । कुञ्जरः । नगात्च इति वक्तव्यं । नगरं ।
(पाणिनीयसूत्र ५,२।१०९) कि.।३९७।१२-२० रो. ईV।१६८-१६९ (कात्यायन वार्तिक)वप्रकरणे मणिहिरण्याभ्यां उपसङ्ख्यानम्(वार्तिकान्त) । वप्रकरणे मणिहिरण्याभ्यां उपसङ्ख्यानं वक्तव्यं । मणिवः । हिरण्यवः । (कात्यायन वार्तिक)छन्दसि ईवनिपौ च(वार्तिकान्त) । छन्दसि ईवनिपौ च वक्तव्यौ वः च मतुप्च । रथीः अभूत्मुद्गलनी गविष्टौ । सुमङ्गलीः इयं वधुः । ऋतवानं । मघवानं ईमहे । उत्वा च उद्वती च । (कात्यायन वार्तिक)मेधारथाभ्यां इरनिरचौ(वार्तिकान्त) । मेधारथाभ्यां इरनिरचौ वक्तव्यौ । मेधिरः । रथिरः । अपरः आह : वाप्रकरणे अन्येभ्यः अपि दृश्यते इति वक्तव्यं । बिम्बावं । कुररावं इष्टकावं ।
(पाणिनीयसूत्र ५,२।११२) कि.।३९७।२२-२४ रो. ईV।१६९ (कात्यायन वार्तिक)वलच्प्रकरणे अन्येभ्यः अपि ड्र्श्यते(वार्तिकान्त) । वलच्प्रकरणे अन्येभ्यः अपि ड्र्श्यते इति वक्तव्यं । भ्रातृवलः । पुत्रवलः । उत्सङ्गवलः ।
(पाणिनीयसूत्र ५,२।११५) कि.।३९८।२-११ रो. ईV।१६९-१७० (कात्यायन वार्तिक)इनिठनोः एकाक्षरात्प्रतिषेधः(वार्तिकान्त) । इनिठनोः एकाक्षरात्प्रतिषेधः वक्तव्यः : स्ववान्, खवान। अत्यल्पं इदं उच्यते । एकाक्षरात्कृतः जातेः सप्तम्यां च न तौ स्मृतौ । एकाक्षरातः स्ववान्, खवान। कृतः : कारकवान्, हारकवान। जातेः : वृक्षवान्, प्लक्षवान्, व्याघ्रवान्, सिंहवान। सप्तम्यां च न तौ । दण्डाः अस्यां शालायां सन्ति इति । यदि कृतः न इति उच्यते कार्यी कार्यिकः इति न सिध्यति । तथा च यदि जातेः न इति उच्यते तुण्डली तुण्डलिकः इति न सिध्यति । एवं तर्हि न अयं समुच्चयः कृतः च जातेः च इति । किं तर्हि । जातिविशेषणं कृद्ग्रहणं : कृत्या जातिः इति । कथं कारकवान्, हारकवान। अनभिधानात्न भविष्यति । यदि एवं न अर्थः अनेन । कथं स्ववान्, वृक्षवान्, सिंहवान्, व्याघ्रवान्दण्डाः अस्यां शालायां सन्ति इति । अनभिधानात्न भविष्यति ।
(पाणिनीयसूत्र ५,२।११६) कि.।३९८।१३-१७ रो. ईV।१७० (कात्यायन वार्तिक)शिखादिभ्यः इनिः वक्तव्यः इकन्यवखदादिषु(वार्तिकान्त) । किं प्रयोजनं । नियमार्थं । इनिः एव शिखादिभ्यः इकनेव यव्खदादिभ्यः । (कात्यायन वार्तिक)शिखायवखदादिभ्यः नियमस्य अवचनं निवर्तकत्वात्(वार्तिकान्त) । शिखायवखदादिभ्यः नियमस्य अवचनं । किं कारणं । निवर्तकत्वात। किं निवर्तकं । अनभिधानं ।
(पाणिनीयसूत्र ५,२।११८) कि.।३९८।१९-३९९।२ रो. ईV।१७०-१७१ नित्यग्रहणं किमर्थं । विभाषा मा भूत। न एततस्ति प्रयोजनं । पूर्वस्मिनेव योगे विभाषाग्रहणं निवृत्तं । एवं तर्हि सिद्धे सति यत्नित्यग्रहणं करोति तत्ज्ञापयति आचार्यः प्राकेतस्मात्योगात्विभाषा इति अनुवर्तते । अथ अतः इति अनुवर्तते उताहो न । किं च अतः । यदि अनुवर्तते एकगविकः न सिध्यति । समासान्ते कृते भविष्यति । एवं अपि गौशकटिकः न सिध्यति । अथ निवृत्तं इह अपि प्राप्नोति । गोविंशतिः अस्य अस्ति इति । निवृत्तं । कस्मात्न भवति : गोविंशतिः अस्य अस्ति इति । अनभिधानात्न भविष्यति ।
(पाणिनीयसूत्र ५,२।१२०) कि.।३९९।४ रो. ईV।१७१ (कात्यायन वार्तिक)यप्प्रकरणे अन्येभ्यः अपि दृश्यते(वार्तिकान्त) । यप्प्रकरणे अन्येभ्यः अपि दृश्यते इति वक्तव्यम। हिम्याः पर्वताः । गुण्याः ब्राह्मणाः ।
(पाणिनीयसूत्र ५,२।१२२) कि.।३९९।७-४००।८ रो. ईV।१७१-१७२ (कात्यायन वार्तिक)छन्दोविन्प्रकरणे अष्टृआमेखलाद्वयोभयरुजाहृदयानां दीर्घः च(वार्तिकान्त) । छन्दोविन्प्रकरणे अष्टृआमेखलाद्वयोभयरुजाहृदयानां दीर्घः च इति वक्तव्यं । अष्ट्रावी । मेखलावी । द्वयावी । उभयावी । रुजावी । हृदयावी । मर्मणः च इति वक्तव्यं । ममावी । (कात्यायन वार्तिक)सर्वत्र आमयस्य(वार्तिकान्त) । सर्वत्र आमयस्य उपसङ्ख्यानं कर्तव्यं । आमयावी । (कात्यायन वार्तिक)शृङ्गवृन्दाभ्यां आरकन्(वार्तिकान्त) । शृङ्गवृन्दाभ्यां आरकन्वक्तव्यः । शृङ्गारकः । वृदारकः । (कात्यायन वार्तिक)फलबर्हाभ्यां इनच्(वार्तिकान्त) । फलबर्हाभ्यां इनच्वक्तव्यः । फलिनः । बर्हिणः । (कात्यायन वार्तिक)हृदयात्चालुः अन्यतरस्याम्(वार्तिकान्त) । हृदयात्चालुः वक्तव्यः अन्यतरस्यां । हृदयालुः । हृदयी । हृदयिकः । हृदयवान। (कात्यायन वार्तिक)शीतोष्णतृप्रेभ्यः तत्न सहते(वार्तिकान्त) । शीतोष्णतृप्रेभ्यः तत्न सहते इति चालुः वक्तव्यः । शीतालुः । उष्णालुः । तृप्रालुः । (कात्यायन वार्तिक)हिमात्चेलुः(वार्तिकान्त) । हिमात्चेलुः वक्तव्यः तत्न सहते इति एतस्मिनर्थे । हिमेलुः । (कात्यायन वार्तिक)बलात्च ऊलः(वार्तिकान्त) । बलात्च ऊलः वक्तव्यः तत्न सहते इति एतस्मिनर्थे । बलूलः । (कात्यायन वार्तिक)वातात्समूहे च(वार्तिकान्त) । वातात्समूहे च तत्न सहते इति एतस्मिनर्थे ऊलः वक्तव्यः । वातूलः । (कात्यायन वार्तिक)पर्वमरुद्भ्यां तप्(वार्तिकान्त) । पर्वमरुद्भ्यां तप्वक्तव्यः । पर्वतः । मरुत्तः । (कात्यायन वार्तिक)ददातिवृत्तं वा(वार्तिकान्त) । ददातिवृत्तं वा पुनः एतत्भविष्यति । मरुद्भिः दत्तः मरुत्तः ।
(पाणिनीयसूत्र ५,२।१२५) कि.।४००।१०-११ रो. ईV।१७३ कुत्सिते इति वक्तव्यं । यः हि सम्यक्बहु भाषते वाग्मी इति एव सः भवति । तत्तर्हि वक्तव्यं । न वक्तव्यं । नानायोगकरणसामर्थ्यात्न भविष्यति ।
(पाणिनीयसूत्र ५,२।१२६) कि.।४००।१३-१४ रो. ईV।१७३ इह कस्मात्न भवति । स्वं अस्य अस्ति इति । न एषः दोषः । न अयं प्रत्ययार्थः । किं तर्हि प्रकृतिविशेषणं एतत। स्वामिनैश्वर्ये निपात्यते इति ।
(पाणिनीयसूत्र ५,२।१२९) कि.।४००।१६ रो. ईV।१७४ पिशाचात्च इति वक्तव्यं । पिशाचकी वैश्रवणः ।
(पाणिनीयसूत्र ५,२।१३५) कि.।४००।१८-४०१।१० रो. ईV।१७४-१७६ (कात्यायन वार्तिक)इनिप्रकरणे बलात्बाहूरुपूर्वपदातुपसङ्ख्यानम्(वार्तिकान्त) । इनिप्रकरणे बलात्बाहूरुपूर्वपदातुपसङ्ख्यानं कर्तव्यं । बाहुबली । ऊरुबली । (कात्यायन वार्तिक)सर्वादेः च(वार्तिकान्त) । सर्वादेः च इनिः वक्तव्यः । सर्वधनी । सर्वबीजी । सर्वकेशी । (कात्यायन वार्तिक)अर्थात्च असन्निहिते(वार्तिकान्त) । अर्थात्च असन्निहिते इनिः वक्तव्यः । अर्थी । असन्निहिते इति किमर्थं । अर्थवान। (कात्यायन वार्तिक)तदन्तात्च(वार्तिकान्त) । तदन्तात्च इति वक्तव्यं । धान्यार्थी । हिरण्यार्थी । किमर्थं तदन्तातिति उच्यते न तदन्तविधिना सिद्धं । ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते । एवरं तर्हि इनन्तेन सह समासः भविष्यति । धान्येन अर्थी धान्यार्थी । सः हि समासः न प्राप्नोति । यदि पुनः अयं अर्थयतेः णिनिः स्यात। एवं अपि क्रियां एव कुर्वाणे स्यात। तूष्णीं अपि आसीनः यः तत्समर्थानि आचरति सः अभिप्रायेण गम्यते अर्थ्यं अनेन इति । एवं तर्हि अयं अर्थशब्दः अस्ति एव द्रव्यपदार्थकः । तत्यथा अर्थवानयं देशः इति उच्यते यस्मिन्गावः सस्यानि च वर्तन्ते । अस्ति क्रियापदार्थकः भावसाधनः । अर्थनं अर्थः इति । तत्यः क्रियापदार्थकः तस्य इदं ग्रहणं । एवं च कृत्वा अर्थिकप्रत्यर्थिकौ अपि सिद्धौ भवतः ।
(पाणिनीयसूत्र ५,३।१) कि.।४०२।२-१३ रो. ईV।१७७-१७८ विभक्तित्वे किं प्रयोजनं । (कात्यायन वार्तिक)विभक्तित्वे प्रयोजनं इत्प्रतिषेधः(वार्तिकान्त) । इदानीं । न विभक्तौ तुस्माः इति इत्प्रतिषेधः सिद्धः भवति । यदि एवं किमः अत्क्व प्रेप्स्यन्दीप्यसे क्व अर्धमासाः । अत्र अपि प्राप्नोति । (कात्यायन वार्तिक)तौ च उक्तम्(वार्तिकान्त) । किं उक्तं । विभक्तौ तवर्गप्रतिषेधः अतद्धिते इति । (कात्यायन वार्तिक)इदमः विभक्तिस्वरः च(वार्तिकान्त) । इदमः विभक्तिस्वरः च प्रयोजनं । इतः । इह । इदमः तृतीयादिः विभक्तिः उदात्ता भवति इति एषः स्वरः भवति । (कात्यायन वार्तिक)त्यदादिविधयः च(वार्तिकान्त) । त्यदादिविधयः च प्रयोजनं । यतः । यत्र । विभक्तौ इति त्यदादिविधयः सिद्धाः भवन्ति ।
(पाणिनीयसूत्र ५,३।२) कि.।४०२।१५-२० रो. ईV।१७८ (कात्यायन वार्तिक)बहुग्रहणे सङ्ख्याग्रहणम्(वार्तिकान्त) । बहुग्रहणे सङ्ख्याग्रहणं कर्तव्यं । इह मा भूत। बहौ । बहोः इति । अथ किमर्थं किमः उपसङ्ख्यानं क्रियते न सर्वनाम्नः इति एव सिद्धं । (कात्यायन वार्तिक)द्व्यातिप्रतिषेधात्किमः उपसङ्ख्यानम्(वार्तिकान्त) । द्व्यातिप्रतिषेधात्किमः उपसङ्ख्यानं क्रियते । अद्व्यादिभ्यः इति प्रतिषेधे प्राप्ते किमः उपसङ्ख्यानं क्रियते ।
(पाणिनीयसूत्र ५,३।५।१) कि.।४०३।२-१५ रो. ईV।१७८-१७९ क्व अयं नकारः श्रूयते । न क्व चित्श्रूयते । लोपः अस्य भवति नलोपः प्रातिपदिकान्तस्य इति । यदि न क्व चित्श्रूयते किमर्थं उच्चार्यते । अनेकाल्शित्सर्वस्य इति सर्वादेशः यथा स्यात। क्रियमाणे अपि नकारे सर्वादेशः न प्राप्नोति । किं कारणं । नलोपे कृते एकाल्त्वात। इदं इह सम्प्रधार्यं । नलोपः क्रियतां सर्वादेशः इति । किं अत्र कर्तव्यं । परत्वात्नलोपः । असिद्धः नलोपः । तस्य असिद्धत्वात्सर्वादेशः भवति । परिगणितेषु कार्येषु नलोपः असिद्धः न च इदं तत्र परिगण्यते । एवं तर्हि आनुपूर्व्या सिद्धं एतत। न अकृते सर्वादेशे प्रातिपदिकसञ्ज्ञा प्राप्नोति न च अकृतायां प्रातिपदिकसञ्ज्ञायां नलोपः प्राप्नोति । ततानुपूर्व्या सिद्धं । न एततस्ति प्रयोजनं । अलः अन्त्यस्य विधयः भवन्ति इति अकारस्य अकारवचने प्रयोजनं न अस्ति इति कृत्वा अन्तरेण नकारं सर्वादेशः भविष्यति । अस्ति अन्यतकारस्य अकारवचने प्रयोजनं । किं । ये अन्ये अकारादेशाः प्राप्नुवन्ति तद्बाधनार्थं । तत्यथा मः राजि समः क्वौ इति मकारस्य मकारवचनसामर्थ्यातनुस्वारादयः न भवन्ति । तस्मात्नकारः कर्तव्यः । न कर्तव्यः । क्रियते न्यासे एव ।प्रश्लिष्टनिर्देशः अयं अ अ अ इति । सः अनेकाल्शित्सर्वस्य इति सर्वादेशः भविष्यति ।
(पाणिनीयसूत्र ५,३।५।२) कि.।४०३।१६-२४ रो. ईV।१८० (कात्यायन वार्तिक)एतदः इति योगविभागः(वार्तिकान्त) । एतदः इति योगविभागः कर्तव्यः । एतदः एत इतिति एतौ आदेशौ भवतः ततः अन। अन्च भवति एतदः इति । केन विहितेन थकारे एतदः आदेशः उच्यते । (कात्यायन वार्तिक)एतदः च थमः उपसङ्ख्यानम्(वार्तिकान्त) । एतदः च थमः उपसङ्ख्यानं कर्तव्यं । एतत्प्रकारं इत्थं । तत्तर्हि उपसङ्ख्यानं कर्तव्यं । न कर्तव्यं । एतत्ज्ञापयति भवति अत्र थमुः इति यतयं थकारादौ आदेशं शास्ति । कुतः नु खलु एतज्ज्ञापकातत्र थमुः भविष्यति । न पुनः यः एव असौ अविशेषविहितः थकारादिः तस्मिनादेशः स्यात। इदमा थकारादिं विशेषयिष्यामः । इदमः यः थकारादिः इति ।
(पाणिनीयसूत्र ५,३।७, १०) कि.।४०४।३-२३ रो. ईV।१८०-१८२ इदं विचार्यते : इमे तसिलादयः विभक्त्यादेशः वा स्युः परे वा इति । कथं च आदेशः स्युः कथं वा परे । यदि पञ्चम्याः सप्तम्याः इति षष्ठी तदा आदेशाः । अथ पञ्चमी ततः परे । कुतः सन्देहः । समानः निर्देशः । कः च अत्र विशेषः । (कात्यायन वार्तिक)तसिलादयः विभक्त्यादेशाः चेत्सुब्लुक्स्वरगुणदीर्घैत्त्वौत्त्वस्मायादिविधिप्रतिषेधः(वार्तिकान्त) । तसिलादयः विभक्त्यादेशाः चेत्सुब्लुक्स्वरगुणदीर्घैत्त्वौत्त्वस्मायादिविधिप्रतिषेधः वक्तव्यः । सुब्लुक। ततस्त्यः । यतस्त्यः । तत्रत्यः । यत्रत्यः । सुपः धातुप्रातिपदिकयोः इति सुब्लुक्प्राप्नोति । सुब्लुक। स्वर । यदा । तदा । अनुदात्तौ सुप्पितौ इति एषः स्वरः प्राप्नोति । स्वर । गुण । कस्मात। कुतः । घेः ङिति इति गुणः प्राप्नोति । गुण । दीर्घ । तस्मिन। तर्हि । अतः दीर्घः यञि सुपि च इति दीर्घत्वं प्राप्नोति । दीर्घ । एत्त्व। तेषु । तत्र । बहुवचने झलि एतिति एत्त्वं प्राप्नोति । एत्त्व । औत्त्व । कस्मिन। कुत्र । इदुद्भ्यां औतत्च घेः इति औत्त्वं प्राप्नोति । औत्त्व । स्मायादिविधिः । तस्मात। ततः । तस्मिन। तत्र । ङसिङ्योः स्मात्स्मिनौ इत्स्मादयः प्राप्नुवन्ति । (कात्यायन वार्तिक)पञ्चमीनिर्देशात्सिद्धम्(वार्तिकान्त) । सन्तु परे । यदि परे समानशब्दानां प्रतिषेधः वक्तव्यः । तस्मात्तस्यति । यस्मात्तस्यति । पञ्चम्यन्तस्य तसेः तसिल्भवति इति तसिल्प्राप्नोति । (कात्यायन वार्तिक)अनादेशे स्वार्थविज्ञानात्समानशब्दाप्रतिषेधः(वार्तिकान्त) । अनादेशे स्वार्थविज्ञानात्समानशब्दाप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । तसिल्कस्मात्न भवति । स्वार्थविज्ञानात। पञ्चम्यन्तात्परस्य तसेः स्वार्थे वर्तमानस्य तसिला भवितव्यं । न च अत्र पञ्चम्यन्तात्परः तसिः स्वार्थे वर्तते ।
(पाणिनीयसूत्र ५,३।८) कि.।४०५।२-८ रो. ईV।१८२-१८३ किमर्थं तसेः तसिलुच्यते । (कात्यायन वार्तिक)तसेः तसिल्वचनं स्वरार्थम्(वार्तिकान्त) । तसेः तसिल्वचनं क्रियते स्वरार्थं । लिति प्रत्ययात्पूर्वं उदात्तं भवति इति एषः स्वरः यथा स्यात। ननु च अयं तसिल्तसिं बाधिष्यते । न सिध्यति । परत्वात्तसिः प्राप्नोति । तसिलः अवकाशः । ततः हीयते । ततः अवरोहति । तसेः अवकाशः । ग्रामतः आगच्छति । नगरतः आगच्छति । इह उभयं प्राप्नोति । ततः आगच्छति । यतः आगच्छति । परत्वात्तसिः प्राप्नोति । तस्मात्सुष्थु उच्यते तसेः तसिल्वचनं स्वरार्थं इति ।
(पाणिनीयसूत्र ५,३।९) कि.।४०५।१०-१२ रो. ईV।१८३ पर्यभिभ्यां च इति यतुच्यते तत्सर्वोभयार्थे द्रष्टव्यं । यावत्सर्वतः तावत्परितः । यावतुभयतः तावतभितः ।
(पाणिनीयसूत्र ५,३।१४) कि.।४०५।१४-२२ रो. ईV।१८३ इह कस्मात्न भवति । सः । तौ । ते । भवदादिभिः योगे इति वक्तव्यं । के पुनः भवदादयः । भवान। दीर्घायुः । देवानाम्प्रियः । आयुष्मानिति । सः भवान। तत्र भवान। ततः भवान। तं भवन्तं । तत्र भवन्तं । ततः भवन्तं । तेन भवता । तत्र भवता ततः भवता । तस्मै भवते । तत्र भवते । ततः भवते । तस्मात्भवतः । तत्र भवतः । ततः भवतः । तस्मिन्भवति । तत्र भवति । ततः भवति । सः दीर्घायुः । तत्र दीर्घायुः । ततः दीर्घायुः । तं दीर्घायुषं । तत्र दीर्घायुषं । ततः दीर्घायुषं । सः देवानाम्प्रियः । तत्र देवानाम्प्रियः । ततः देवानाम्प्रियः । तं देवानाम्प्रियं । तत्र देवानाम्प्रियं । ततः देवानाम्प्रियं । सः आयुष्मान। तत्र आयुष्मान। ततः आयुष्मान। तं आयुष्मन्तं । तत्र आयुष्मन्तं । ततः आयुष्मन्तं ।
(पाणिनीयसूत्र ५,३।१७) कि.।४०६।२-३ रो. ईV।१८४ अधुना इति किं निपात्यते । इदमः अश्भावः धुना च प्रत्ययः इदमः वा लोपः अधुना च प्रत्ययः । अस्मिन्काले अधुन ।
(पाणिनीयसूत्र ५,३।१८) कि.।४०६।५-१० रो. ईV।१८४ इदानीं । इदमः तृतीयादिविभक्तिः उदात्ता भवति इति एषः स्वरः प्राप्नोति । (कात्यायन वार्तिक)दानीं इति निपातनात्स्वरसिद्धिः(वार्तिकान्त) । दानीं इति निपातनात्स्वरसिद्धिः भविष्यति । आद्युदात्तनिपातनं करिष्यते । सः निपातनस्वरः विभक्तिस्वरस्य बाधकः भविष्यति । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । आदौ सिद्धं इति ।
(पाणिनीयसूत्र ५,३।१९) कि.।४०६।१२-१४ रो. ईV।१८४ (कात्यायन वार्तिक)तदः दावचनं अनर्थकं विहितत्वात्(वार्तिकान्त) । तदः दावचनं अनर्थकं । किं कारणं । विहितत्वात। विहितः अत्र प्रत्ययः सर्वैकान्यकिंयत्तदः काले दा इति ।
(पाणिनीयसूत्र ५,३।२०) कि.।४०६।१६-१८ रो. ईV।१८४ (कात्यायन वार्तिक)तयोः इति प्रातिपदिकनिर्देशः(वार्तिकान्त) । तयोः इति प्रातिपदिकनिर्देशः द्रष्टव्यः । द्वेष्यं विजानीयातःयोगयोः वा प्रत्यययोः वा इति । तताचार्यः सुहृत्भूत्वा अन्वाचष्टे : तयोः इति प्रातिपदिकनिर्देशः इति ।
(पाणिनीयसूत्र ५,३।२२) कि.।४०७।२-४०८।२ रो. ईV।१८५-१८६ सद्यः इति किं निपात्यते । (कात्यायन वार्तिक)समानस्य सभावः द्यः च अहनि(वार्तिकान्त) । समानस्य सभावः निपात्यते द्यः च प्रत्ययः अहनि अभिधेये । समाने अहनि सद्यः । परुत्परारि इति किं निपात्यते । (कात्यायन वार्तिक)पूर्वपूर्वतयोः परभावः उदारी च संवत्सरे(वार्तिकान्त) । पूर्वपूर्वतयोः परभावः निपात्यते उदारी च प्रत्ययौ संवत्सरे अभिधेये । पूर्वस्मिन्संवत्सरे परुत। पूर्वतरे संवत्सरे परारि । ऐषमः इति किं निपात्यते । (कात्यायन वार्तिक)इदमः समसण्(वार्तिकान्त) । इदमः समसण्प्रत्ययः निपात्यते संवत्सरे अभिधेये । अस्मिन्संवत्सरे ऐषमः । परेद्यवि इति किं निपात्यते । (कात्यायन वार्तिक)परस्मातेद्यवि अहनि(वार्तिकान्त) । परस्मातेद्यवि प्रत्ययः निपात्यते अहनि अभिधेये । परस्मिनहनि परेद्यवि । अद्य इति किं निपात्यते । (कात्यायन वार्तिक)इदमः अश्भावः द्यः च(वार्तिकान्त) । इदमः अश्भावः निपात्यते द्यः च प्रत्ययः अहनि अभिधेये । अस्मिनहनि अद्य । पूर्वेद्युः अन्येद्युः अन्यतरेद्युः इतरेद्युः अपरेद्युः अधरेद्युः उभयेद्युः उत्तरेद्युः इति किं निपात्यते । पूर्वान्यान्यतरेरापराधरोभयोत्तरेभ्यः एद्युसुच। पूर्वान्यान्यतरेरापराधरोभयोत्तरेभ्यः एद्युसुच्प्रत्ययः निपात्यते अहनि अभिधेये । पूर्वस्मिनहनि पूर्वेद्युः । अन्यस्मिनहनि अन्येद्युः । अन्यतरस्मिनहनि अन्यतरेद्युः । इतरस्मिनहनि इतरेद्युः । अपरस्मिनहनि अपरेद्युः । अधरस्मिनहनि अधरेद्युः । उभयोः अह्नोः उभयेद्युः । उत्तरस्मिनहनि उत्तरेद्युः । (कात्यायन वार्तिक)द्युः च उभयात्(वार्तिकान्त)। उभयशब्दात्द्युः च वक्तव्यः । तस्मात्मनुष्येभ्यः उभयद्युः ।
(पाणिनीयसूत्र ५,३।२७) कि.।४०८।५ रो. ईV।१८७ इह कस्मात्न भवति । पूर्वस्मिन्देशे वसति इति । न एषः देशः । देशविशेषणं एतत।
(पाणिनीयसूत्र ५,३।२८) कि.।४०८।७-२२ रो. ईV।१८८-१९० किमर्थं अतसुच्क्रियते न तसुचेव क्रियते । तत्र अयं अपि अर्थः । स्वरार्थः चकारः न कर्तव्यः भवति । प्रत्ययस्वरेण एव सिद्धं । का रूपसिद्धिः : दक्षिणतः ग्रामस्य । उत्तरतः ग्रामस्य । दक्षिणोत्तरशब्दौ अकारान्तौ । तसुशब्दः प्रत्ययः । भवेत्सिद्धं यदा अकारान्तौ । यतु तु खलु आकारान्तौ तदा न सिध्यति । तदा अपि सिद्धं । कथं । पुंवद्भावेन । कथं पुंवद्भावः । तसिलादिषु आ कृत्वसुचः इति । न सिध्यति । भाषितपुंस्कस्य पुंवद्भावः न च एतौ भाषितपुंस्कौ । ननु च भो दक्षिणशब्दः उत्तरशब्दः च पुंसि भाष्येते । समानायां आकृतौ यत्भाषितपुंस्कं इति उच्यते आकृत्यन्तरे च एतौ भाषितपुंस्कौ । दक्षिणा उत्तरा इति दिक्शब्दौ । दक्षिणः उत्तरः इति व्यवस्थाशब्दौ । यदि पुनः दिक्शब्दाः अपि व्यवस्थाशब्दाः स्युः । कथं यानि दिगपदिष्टानि कार्याणि । दिशः यदा व्यवस्थां वक्ष्यन्ति । यदि तरि यः यः दिशि वर्तते सः सः दिक्शब्दः रमणीयादिषु अतिप्रसङ्गः भवति । रमणीया दिक्शोभना दिकिति । अथ मतं एतत्दिशि दृष्टः दिग्दृष्टः दिग्दृष्टः शब्दः दिक्शब्दः दिशं यः न व्यभिचरति इति रमणीयादिषु अतिप्रसङ्गः न भवति । पुंवद्भावः तु प्राप्नोति । एवं तर्हि सर्वनाम्नः वृत्तिमात्रे पुंवद्भावः वक्तव्यः दक्षिणोत्तरपूर्वाणां इति एवमर्थं । विशेषणार्थं तर्हि । क्व विशेषणार्थेन अर्थः । षष्ठी अतसर्थप्रत्ययेन इति । षष्ठी तसर्थप्रत्ययेने इति उच्यमाने इह अपि स्यात। ततः ग्रामात। यतः ग्रामातिति ।
(पाणिनीयसूत्र ५,३।३१) कि.।४०९।२-४ रो. ईV।१९१ उपरि उपरिष्टातिति किं निपात्यते । (कात्यायन वार्तिक)ऊर्ध्वस्य उपभावः रिलिष्टातिलौ च(वार्तिकान्त) । ऊर्ध्वस्य उपभावः रिलिष्टातिलौ च प्रत्ययौ निपात्येते । उपरि उपरिष्तात।
(पाणिनीयसूत्र ५,३।३२) कि.।४०९।६-१६ रो. ईV।१९१ पश्चातिति किं निपात्यते । (कात्यायन वार्तिक)अपरस्य पश्चभावः आतिः च प्रतययः(वार्तिकान्त) । अपरस्य पश्चभावः निपात्यते आतिः च प्रतययः । पश्चात। (कात्यायन वार्तिक)दिक्पूर्वपदस्य च(वार्तिकान्त) । दिक्पूर्वपदस्य च अपरस्य पश्चभावः वक्तव्यः आतिः च प्रतययः । दक्षिणपश्चात। उत्तरपश्चात। (कात्यायन वार्तिक)अर्धोत्तरपदस्य च समासे(वार्तिकान्त) । अर्धोत्तरपदस्य च समासे अपरस्य पश्चभावः वक्तव्यः । दक्षिणपश्चार्धः । उत्तरपश्चार्धः । (कात्यायन वार्तिक)अर्धे च(वार्तिकान्त) । अर्धे च परतः अपरस्य पश्चभावः वक्तव्यः । पश्चार्धः ।
(पाणिनीयसूत्र ५,३।३५) कि.।४०९।१८-२० रो. ईV।१९१ (कात्यायन वार्तिक)अपञ्चम्याः इति प्राकसः(वार्तिकान्त) । अपञ्चम्याः इति यतुच्यते प्राकसः तत्द्रष्टव्यं । द्वेष्यं विजानीयातः अविशेषेण उत्तरं अपञ्चम्याः इति । तताचार्यः सुहृत्भूत्वा अन्वाचष्टे : अपञ्चम्याः इति प्राकसः इति ।
(पाणिनीयसूत्र ५,३।३६) कि.।४१०।२-५ रो. ईV।१९१ किमर्थः चकारः । स्वरार्थः । चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वं यथा स्यात। न एततस्ति प्रयोजनं । एकाचयं । तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन । प्रत्ययस्वरेण एव सिद्धं । विशेषणार्थः तर्हि । क्व विशेषणार्थेन अर्थः । अन्यारादितरर्तेदिक्शब्दाञ्चूऊत्तरपदाजाहियुक्ते ।
(पाणिनीयसूत्र ५,३।४२) कि.।४१०।७-१५ रो. ईV।१९२-१९३ विधार्थे इति उच्यते । कः विधार्थः नाम । विधायाः अर्थः विधार्थः । यदि एवं एका गोविधा । एका हस्तिविधा । अत्र अपि प्राप्नोति । एवं तर्हि (कात्यायन वार्तिक)धाविधानं धात्वर्थपृथग्भावे(वार्तिकान्त) । धाविधानं धात्वर्थपृथग्भावे इति वक्तव्यं । कः पुनः धात्वर्थपृथग्भावः । किं यत्तत्देवदत्तः कंसपात्र्यां पाणिना ओदनं भुङ्क्ते इति । न इति आह । कारकपृथक्त्वं एतत। यत्तर्हि तत्काल्ये भुङ्के सायं भुङ्क्ते इति । न इति आह । कालपृथक्त्वं एतत। यत्तर्हि शीतं भुङ्क्ते उष्णं भुङ्क्ते इति । न इति आह । गुणपृथक्त्वं एतत। कः तर्हि धात्वर्थपृथग्भावः । कारकाणां प्रवृत्तिविशेषः क्रिया । यदि एवं क्रियाप्रकारे अयं भवति । विधयुक्तगताः च प्रकारे भवन्ति । एवंविधं । एवंयुक्तं । एवङ्गतं । एवम्प्रकारं इति ।
(पाणिनीयसूत्र ५,३।४४) कि.।४१०।१७-२० रो. ईV।१९४ (कात्यायन वार्तिक)सहभावे ध्यमुञ्(वार्तिकान्त) । सहभावे ध्यमुञ्वक्तव्यः । एइकध्यं राशिं कुरु । सः तर्हि वक्तव्यः । न वक्तव्यः । अधिकरणविचाले इति उच्यते न च सः एव अधिकरणविचालः यतेकं अनेकं क्रियते । यतपि अनेकं एकं क्रियते सः अपि अधिकरणविचालः ।
(पाणिनीयसूत्र ५,३।४५) कि.।४११।२-३ रो. ईV।१९४-१९५ (कात्यायन वार्तिक)धमुञन्तात्स्वार्थे डदर्शनम्(वार्तिकान्त) । धमुञन्तात्स्वार्थे डः दृश्यते सः च विधेयः । पथि द्वैधानि । संशये द्वैधानि ।
(पाणिनीयसूत्र ५,३।४७) कि.।४११।५-१० रो. ईV।१९५ (कात्यायन वार्तिक)पाशपि कुत्सितग्रहणम्(वार्तिकान्त) । पाशपि कुत्सितग्रहणं कर्तव्यं । वैयाकरणपाशः । याज्ञिकपाशः । यः हि यापयितव्यः याप्यः तत्र मा भूतिति । अथ वैयाकरणः शरीरेण कृशः व्याकरणेन च शोभनः कर्तव्यः वैयाकरणपाशः इति । न कर्तव्यः । कथं । यस्य भावात्द्रव्ये शब्दनिवेशः तदभिधाने तद्गुणे वक्तव्ये प्रत्ययेन भवितव्यं । न च कार्श्यस्य भावात्द्रव्ये वैयाकरणशब्दः ।
(पाणिनीयसूत्र ५,३।४८) कि.।४११।१२-१५ रो. ईV।१९५ पूरणग्रहणं शक्यं अकर्तुं । न हि अपूरणः तीयशब्दः अस्ति यत्र दोषः स्यात। ननु च अयं अस्ति मुखतीयः पार्श्वतीयः इति । अर्थवद्ग्रहणे न अनर्थकस्य इति एवं अस्य न भविष्यति । उत्तरार्थं तर्हि पूरणग्रहणं कर्तव्यं । प्राकेकादशभ्यः अच्छन्दसि इति पूरणात्यथा स्यात।
(पाणिनीयसूत्र ५,३।५२) कि.।४११।१७-४१२।१० रो. ईV।१९१९६-१९७ (कात्यायन वार्तिक)एकाताकिनिचि द्विबह्वर्थे प्रत्ययविधानम्(वार्तिकान्त) । एकाताकिनिचि द्विबह्वर्थे प्रत्ययः विधेयः । एकाकिनौ । एकाकिनः इति । किं पुनः कारणं न सिध्यति । एकशब्दः अयं सङ्ख्यापदं सङ्ख्यायाः च सङ्ख्येयं अर्थः । (कात्यायन वार्तिक)सिद्धं तु सङ्ख्यादेशवचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । द्विबह्वर्थायाः सङ्ख्यायाः एकशब्दः आदेशः वक्तव्यः । (कात्यायन वार्तिक)असहायस्य वा(वार्तिकान्त) । असहायस्य वा एकशब्दः आदेशः वक्तव्यः । असहायः एकाकी । असहायौ एकाकिनौ । असहायाः एकाकिनः । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं एकाताकिनिचि द्विबह्वर्थे प्रत्ययविधानं इति । न एषः दोषः । अयं एकशब्दः अस्ति एव सङ्ख्यापदं । तत्यथा एकः द्वौ बहवः इति । अस्ति अन्यार्थे वर्तते । तत्यथा सधमादः द्युम्नः एकाः ताः । अन्याः इति अर्थः । अस्ति असहायवाची । तत्यथा । एकाग्नयः । एकहलानि । एकाकिभिः क्षुद्रकैः जितं इति । तत्यः असहायवाची तस्य एषः प्रयोगः ।
(पाणिनीयसूत्र ५,३।५५।१) कि.।४१३।२-४१४।१४ रो. ईV।१९७-२०५ अतिशायने इति उच्यते । किं इदं अतिशायने इति । देश्याः सूत्रनिबन्धाः क्रियन्ते । यावत्ब्रूयात्प्रकर्षे अतिशये इति तावततिशायने इति । कस्य पुनः प्रकर्षे प्रत्ययः उत्पद्यते । ङ्याप्प्रातिपदिकातिति वर्तते । ङ्याप्प्रातिपदिकस्य प्रकर्षे । ङ्याप्प्रातिपदिकं वै शब्दः न च शब्दस्य प्रकर्षापकर्षौ स्तः । शब्दे असम्भवातर्थे कार्यं विज्ञास्यते । कः पुनः ङ्याप्प्रातिपदिकार्थः । द्रव्यं । न वै द्रव्यसय प्रकर्षे इष्यते । एवं तर्हि गुणः । एवं अपि गुणग्रहणं कर्तव्यं । द्रव्यं अपि ङ्याप्प्रातिपदिकार्थः गुणः अपि । तत्र कुतः एतत्गुणस्य प्रकर्षे भविष्यति न पुनः द्रव्यस्य प्रकर्षे इति । क्रियमाणे च अपि गुणग्रहणे समानगुणग्रहणं कर्तव्यं शुक्लात्कृष्णे मा भूतिति । न तर्हि इदानीं इदं भवति : अध्वर्युः वै श्रेयान। पापीयान्प्रतिप्रस्थाता । अन्धानां काणतमः इति । समानगुणे एषा स्पर्धा भवति । अध्वर्युः वै श्रेयानन्येभ्यः प्रशस्येभ्यः । पापीयान्प्रतिप्रस्थाता अन्येभ्यः पापेभ्यः । अन्धानां काणतमः इति कणिः अयं सौक्ष्म्ये वर्तते । सर्वे इमे किं चित्पश्यन्ति । अयं एषां काणतमः इति । अदूरविप्रकर्षे इति वक्तव्यं । इह मा भूत। महान्सर्षपः । महान्हिमवानिति । जातेः न इति वक्तव्यं । इह मा भूतः वृक्षः अयं प्लक्षः अयं इति । न तर्हि इदानीं इदं भवति : गोतरः । गोतरा । अश्वतरः इति । न एषः जातेः प्रकर्षः । कस्य तर्हि । गुणस्य । गौः अयं शकटं वहति । गोतररः अयं यः शकटं वहति सीरं च । गौः इयं या समां समां विजायते । गोतरा इयं या समां समां विजायते स्त्रीवत्सा च । अश्वः अयं यः चत्वारि योजनानि गच्छति । अश्वतरः अयं यः अष्टौ योजनानि गच्छति । तथा तिङः च इति अत्र क्रियाग्रहणं कर्तव्यं साधनप्रकर्षे मा भूत। न एषः दोषः । यत्तावतुच्यते गुणग्रहणं कर्तव्यं इति । न कर्तव्यं । यस्य प्रकर्षः अस्ति तस्य प्रकर्षे भविष्यति । गुणस्य च एव प्रकर्षः न द्रव्यस्य । कथं ज्ञायते । एवं हि दृश्यते लोके । इह समाने आयामे विस्तारे पटस्य अन्यः अर्घः भवति काशिकस्य अन्यः माथुरस्य । गुणान्तरं खलु अपि शिल्पिनः उत्पादयमानाः द्रव्यान्तरेण प्रक्षालयन्ति । अन्येन शुद्धं धौतकं कुर्वन्ति अन्येन शैफालिकं अन्येन माध्यमिकं । यतपि उच्यते क्रियमाणे च अपि गुणग्रहणे समानगुणग्रहणं कर्तव्यं शुक्लात्कृष्णे मा भूतिति । न कर्तव्यं । समानगुणे एव स्पर्धा भवति । नहि आढ्याभिरूपौ स्पर्धेते । वाचकेन खलु अपि उत्पत्तव्यं न च शुक्लात्कृष्णे प्रत्ययः उत्पद्यमानः वाचकः स्यात। यतपि उच्यते अदूरविप्रकर्षे इति वक्तव्यं इति । न वक्तव्यं । अदूरविप्रकर्षे एव स्पर्धा भवति । न हि निष्कधनः शतनिष्कधनेन स्पर्धते । यतपि उच्यते जातेः न इति वक्तव्यं इति । न वक्तव्यं । जननेन या प्राप्यते सा जातिः न च एतस्य अर्थस्य प्रकर्षापकर्षौ स्तः । यतपि उच्यते तिङः च इति अत्र क्रियाग्रहणं कर्तव्यं साधनप्रकर्षे मा भूतिति । न कर्तव्यं । साधनं वै द्रव्यं न च द्रव्यस्य प्रकर्षापकर्षौ स्तः । किं पुनः एकं शौक्ल्यं आहोस्वित्नाना । किं च अतः । यदि एकं प्रकर्षः न उपपद्यते । न हि तेन एव तस्य प्रकर्षः भवति । अथ नाना समानगुणग्रहणं कर्तव्यं शुक्लात्कृष्णे मा भूतिति । अस्ति एकं शौक्ल्यं तत्तु विशेषवत। किङ्कृतः विशेषः । अल्पत्वमहत्त्वकृतः । अथ वा पुनः अस्तु एकं निर्विशेषं च । ननु च उक्तं प्रकर्षः न उपपद्यते । न हि तेन एव तस्य प्रकर्षः भवति इति । गुणान्तरेण प्रच्छादात्प्रकर्षः भविष्यति । अथ वा पुनः अस्तु नाना । ननु च उक्तं समानगुणग्रहणं कर्तव्यं शुक्लात्कृष्णे मा भूतिति । न कर्तव्यं । समानगुणे एव स्पर्धा भवति । नहि आढ्याभिरूपौ स्पर्धेते । वाचकेन खलु अपि उत्पत्तव्यं न च शुक्लात्कृष्णे प्रत्ययः उत्पद्यमानः वाचकः स्यात।
(पाणिनीयसूत्र ५,३।५५।२) कि.।४१४।१५-४१५।१७ रो. ईV।२०५-२०९ किमन्तात्पुनः उत्पत्त्या भवितव्यं । द्वितीयान्ताततिशय्यमानात। शुक्लं अतिशेते शुक्लतरः । कृष्णं अतिशेते कृष्णतरः । यदि द्वितीयान्ताततिशय्यमानात्कालः अतिशेते कालीं कालितरः इति प्राप्नोति कालतरः इति च इष्यते । तथा काली अतिशेते कालं कालतरः इति प्राप्नोति कालितरा इति च इष्यते । तथा गार्ग्यः अतिशेते गर्गान्गर्गतरः इति प्राप्नोति गार्ग्यतरः इति च इष्यते । तथा गर्गाः अतिशेरते गार्ग्यं गार्ग्यतराः इति प्राप्नोति गर्गतराः इति च इष्यते । एवं तर्हि प्रथमान्तात्स्वार्थिकः भविष्यति । कालः अतिशेते कालतरः । काली अतिशेते कालितरा । गार्ग्यः अतिशेते गार्ग्यतरः । गर्गाः अतिशेरते गर्गतराः । यदि प्रथमान्तात्स्वार्थिकः कुमारितरा किशोरितरा अव्यतिरिक्तं वयः इति कृत्वा वयसि प्रथमे इति ङीप्प्राप्नोति । तरपा उक्तत्वात्स्त्रीप्रत्ययः न भविष्यति । टापपि तर्हि न प्राप्नोति । उक्ते अपि हि भवन्ति एते टाबादयः । उक्तं एतत्स्वार्थिकाः टाबादयः इति । ङीपपि तर्हि प्राप्नोति । एवं तर्हि गुणः अभिधीयते । एवं अपि लिङ्गवचनानि न सिध्यन्ति । शुक्लतरं । शुक्लतरा । शुक्लतरः । शुक्लतरौ । शुक्लतराः इति । आश्रयतः लिङ्गवचनानि भविष्यन्ति । गुणवचनानां हि शब्दानां आश्रयत लिङ्गवचनानि भवन्ति । शुक्लं वस्त्रं , शुक्ला शाटी शुक्लः कम्बलः , शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति । यतसौ द्रव्यं श्रितः भवति गुणः तस्य यत्लिङ्गं वचनं च तत्गु अस्य अपि भविष्यति । अथ वा क्रिया अभिधीयते । एवं अपि लिङ्गवचनानि न सिध्यन्ति । आश्रयतः लिङ्गवचनानि भविष्यन्ति । एवं अपि द्विवचनं प्राप्नोति । यः च अतिशेते यः च अतिशय्यते उभौ तौ तस्य आश्रयौ भवतः । न एषः दोषः । कथं । शेतिः अकर्मकः । अकर्मकाः अपि धातवः सोपसर्गाः सकर्मकाः भवन्ति । कर्मापदिष्टाः विधयः कर्मस्थभावकानां कर्मस्थक्रियाणं वा भवन्ति कर्तृस्थभावकः च शेतिः । अथ यदि एव द्वितीयान्तातुत्पत्तिः प्रथमान्तात्वा स्वार्थिकः अथ अपि गुणः अभिधीयते अथ अपि क्रिया किं गतं एततियता सूत्रेण आहोस्वितन्यतरस्मिन्पक्षे भूयः सूत्रं कर्तव्यं । गतं इति आह । कथं । यदा तावत्द्वितीयान्तातुत्पत्तिः प्रथमान्तात्वा स्वार्थिकः तदा कृत्यल्युटः बहुलं इति एवं अत्र ल्युट्भविष्यति । यदा गुणः अभिधीयते तदा न्यायसिद्धं एव । यदा लपि क्रिया तदा अपि न्यायसिद्धं एव । अथ वा अतिशाययति इति अतिशायनं । कः प्रयोज्यार्थः । गुणाः गुणिनं प्रयोजयन्ति गुणी वा गुणान्प्रयोजयति । कः पुनः इह शेत्यर्थः । इह यः यत्र भवति शेते असौ तत्र । गुणाः च गुणिनि शेरते । (कात्यायन वार्तिक)शेत्यर्थः कारितार्थः वा निर्देशः अयं समीक्षितः । शेत्यर्थे न अस्ति वक्तव्यं । कारितार्थे ब्रवीमि ते । गुणी वा गुणसंयोगात्गुणः वा गुणिना यदि अभिव्यज्येत संयोगात्कारितार्थः भविष्यति(वार्तिकान्त) ।
(पाणिनीयसूत्र ५,३।५५।३) कि.।४१५।१८-४१६।१५ रो. ईV।२०९-२११ इह अस्य अपि सूक्ष्माणि वस्त्राणि अस्य अपि सूक्ष्माणि वस्त्राणि इति परत्वातातिशायिकः प्राप्नोति । (कात्यायन वार्तिक)अतिशायने बहुव्रीहौ उक्तम्(वार्तिकान्त) । किं उक्तं । पूर्व्पदातिशये आतिशायिकात्बहुव्रीहिः सूक्ष्मवस्त्रतराद्यर्थः । उत्तरपदातिशये आतिशायिकः बहुव्रीहेः बह्वाढ्यतराद्यर्थः इति । इह त्रीणि शुक्लानि वस्त्राणि प्रकर्षापकर्षयुक्तानि । तत्र पूर्वं अपेक्ष्य उत्तरे द्वे तरबन्ते । तत्र द्वयोः तरबन्तयोः एकस्मात्प्रकर्षयुक्तात्शुक्लतरशब्दातुत्पत्तिः प्राप्नोति शुक्लशब्दातेव च इष्यते । (कात्यायन वार्तिक)शुक्लतरस्य शुक्लभावात्प्रकृतेः प्रत्ययविज्ञानम्(वार्तिकान्त) । शुक्लतरशब्दे शुक्लशब्दः अस्ति । तस्मातुत्पत्तिः भविष्यति । न एतत्विवदामहे शुक्लतरशब्दे शुक्लशब्दः अस्ति न अस्ति इति । किं तर्हि । शुक्लतरशब्दः अपि अस्ति । ततः उत्पत्तिः प्राप्नोति । (कात्यायन वार्तिक)तदन्तात्च स्वार्थे छन्दसि दर्शनं श्रेष्ठमाय इति(वार्तिकान्त) । तदन्तातातिशायिकान्तात्च स्वार्थे छन्दसि आतिशायिकः दृश्यते । देवो वः सवित प्रर्पयतु श्रेष्ठमाय कर्मणे । एवं तर्हि मध्यमात्शुक्लशब्दात्पूर्वपरापेक्षातुत्पत्तिः वक्तव्या । मध्यमः च शुक्लशब्दः पूर्वं अपेक्ष्य प्रकृष्टः परं अपेक्ष्य न्यूनः न च न्यूनः प्रवर्तते । अथ वा उत्पद्यतां । लुक्भविष्यति । वाचकेन खलु अपि उत्पत्तव्यं न च शुक्लतरशब्दातुत्पद्यमानः वाचकः स्यात। न खलु अपि बहूनां प्रकर्षे तरपा भवितव्यं । केन तर्हि । तमपा । (कात्यायन वार्तिक)पूर्वेण स्पर्धमानः अयं लभते सितः । परस्मिन्न्यूनतां एति न च न्यूनः प्रवर्तते । अपेक्ष्य मध्यमः पूर्वं आधिक्यं लभते सितः । परस्मिन्न्यूनतां एति यथा अमात्यः स्थिते नृपे । अस्तु वा अपि तरः तस्मात। न अपशब्दः भविष्यति । वाचकः चेत्प्रयोक्तव्यः वाचकः चेत्प्रयुज्यताम्(वार्तिकान्त) ।
(पाणिनीयसूत्र ५,३।५७) कि.।४१६।१७-४१७।७ रो. ईV।२१२-२१५ द्विवचने इति उच्यते । तत्र इदं न सिध्यति । दन्तोष्ठस्य दन्ताः स्निग्धतराः । पाणिपादस्य पादौ सुकुमारतरौ । अस्माकं च देवदत्तस्य च देवदत्तः अभिरूपतरः इति । यदि पुनः द्व्यर्थोपपदे इति उच्येत । तत्र अयं अपि अर्थः । विभज्योपपदग्रहणं न कर्तव्यं । इह अपि शङ्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति द्व्यर्थोपपदे इति एव सिद्धं । न एवञ्जातीयका द्व्यर्थता शक्या विज्ञातुं । इह अपि प्रस्ज्येत । शङ्काश्यकानां पाटलिपुत्रकाणां च पाटलिपुत्रकाः अभिरूपतमाः इति । अवश्यं खलु अपि विभज्योपपदग्रहणं कर्तव्यं यः हि बहूनां विभागः तदर्थं । शङ्काश्यकेभ्यः च पाटलिपुत्रकेभ्यः च माथुराः अभिरूपतराः इति । तत्तर्हि द्व्यर्थोपपदे इति वक्तव्यं । न वक्तव्यं । न इदं पारिभाषिकस्य द्विवचनस्य ग्रहणं । किं तर्हि अन्वर्थग्रहणं । उच्यते वचनं । द्वयोः अर्थयोः वचनं द्विवचनं इति । एवं अपि (कात्यायन वार्तिक)तरबीयसुनोः एकद्रव्यस्य उत्कर्षापकर्षयोः उपसङ्ख्यानम्(वार्तिकान्त) । तरबीयसुनोः एकद्रव्यस्य उत्कर्षापकर्षयोः उपसङ्ख्यानं वक्तव्यं । परुत्भवान्पटुः आसीत। पटुतरः च ऐषमः इति । (कात्यायन वार्तिक)सिद्धं तु गुणप्रधानत्वात्(वार्तिकान्त) । सिद्धं एतत। कथं । गुणप्रधानत्वात। गुणप्रधानः अयं निर्देशः क्रियते । गुणान्तरयोगात्च अन्यत्वं भवति । तत्यथा तं एव गुणान्तरयुक्तं वक्तारः भवन्ति अन्यः भवान्संवृत्तः इति ।
(पाणिनीयसूत्र ५,३।५८) कि.।४१७।९-१२ रो. ईV।२१५ एवकारः किमर्थः । नियमार्थः । न एततस्ति प्रयोजनं । सिद्धे विधिः आरभ्यमाणः अन्तरेण एवकारं नियमार्थः भविष्यति । इष्टतः अवधारणार्थः तर्हि । यथा एवं विज्ञायेत । अजादी गुणवचनातेव इति । मा एवं विज्ञायि । अजादी एव गुणवचनातिति । किं च स्यात्न व्यञ्जनादी गुणवचनात्स्यातां ।
(पाणिनीयसूत्र ५,३।६०) कि.।४१७।१४-४१८।४ रो. ईV।२१५-२१७ इदं अयुक्तं वर्तते । किं अत्र अयुक्तं । अजादी गुणवचनातेव इति उक्त्वा अगुणवचनानां अपि अजाद्योः आदेशाः उच्यन्ते । न एषः दोषः । एततेव ज्ञापयति भवतः एतेभ्यः अगुणवचनेभ्यः अपि अजादी इति यतयं अजाद्योः परतः आदेशान्शास्ति । एवं अपि तयोः इति वक्तव्यं स्यात। तयोः परतः इति । यदि पुनः अयं विधिः विज्ञायेत । न एवं शक्यं । व्यञ्जनादी हि न स्यातां उपाधीनां च सङ्करः स्यात्पुनर्विधानातजाद्योः । ननु च एते विशेषाः अनुवर्तेरन। यदि अपि एते अनुवर्तेरन्व्यञ्जनादी तर्हि न स्यातां । एवं तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवतः एतेभ्यः अगुणवचनेभ्यः अपि अजादी इति यतयं अजाद्योः परतः आदेशान्शास्ति । ननु च उक्तं तयोः इति वक्तव्यं इति । न वक्तव्यं । प्रकृतं अजादीग्रहणं अनुवर्तते । क्व प्रकृतं । अजादी गुणवचनातेव इति । तत्वै प्रथमानिर्दिष्टं सप्तमीनिर्दिष्टेन च इह अर्थः । अर्थात्विभक्तिविपरिणामः भविष्यति । तत्यथा । उच्चानि देवदत्तस्य गृहाणि । आमन्त्रयस्व एनं । देवदत्तं इति गम्यते । देवदत्तस्य गाव अश्वा हिरण्यं इति । आढ्यः वैधवेयः । देवदत्तः इति गम्यते । पुरस्तात्षष्ठीनिर्दिष्टं सतर्थात्द्वितीयानिर्दिष्टं प्रथमानिर्दिष्टं च भवति । एवं इह अपि पुरस्तात्प्रथमानिर्दिष्टं सतर्थात्सप्तमीनिर्दिष्टं भविष्यति ।
(पाणिनीयसूत्र ५,३।६६।१) कि.।४१८।६-२५ रो. ईV।२१७-२२० स्त्रीलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च । तेन स्त्रीलिङ्गातेव उत्पत्तिः स्यातेकवचनान्तात्च । पुन्नपुंसकलिङ्गात्द्विवचनबहुवचनान्तात्च न स्यात। न एषः दोषः । न अयं प्रत्ययार्थः । किं तर्हि । प्रकृत्यर्थविशेषणं एतत। प्रशंसायां यत्प्रातिपदिकं वर्तते तस्मात्रूपप्भवति । कस्मिनर्थे । स्वार्थे इति । स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते । (कात्यायन वार्तिक)प्रकृतेः लिङ्गवचनाभावात्तिङ्प्रकृतेः अम्भाववचनम्(वार्तिकान्त) । प्रकृतेः लिङ्गवचनाभावात्तिङ्प्रकृतेः रूपपः अम्भावः वक्तव्यः । पचतिरूपं । पचतोरूपं । पचन्तिरूपं इति । (कात्यायन वार्तिक)सिद्धं तु क्रियाप्रधानत्वात्(वार्तिकान्त) । सिद्धं एतत। कथं । क्रियाप्रधानत्वात। क्रियाप्रधानं आख्यातं एका च क्रिया । द्रव्यप्रधानं नाम । कथं पुनः ज्ञयते क्रियाप्रधानं आख्यातं भवति द्रव्यप्रधानं नाम इति । यत्क्रियां पृष्टः तिङा आचष्टे । किं देवदत्तः करोति । पचति इति । द्रव्यं पृष्टः कृता आचष्टे । कतरः देवदत्तः । यः कारकः हारकः इति । यदि तर्हि एका क्रिया द्विवचनबहुवचनानि न सिद्यन्ति । पचतः । पचन्ति इति । न एतानि क्रियापेक्षाणि । किं तर्हि साधनापेक्षाणि । इह अपि तर्हि प्राप्नुवन्ति । पचतिरूपं । पचतोरूपं । पचन्तिरूपं इति । तिङा उक्तत्वात्तस्य अभिसम्बन्धस्य न भविष्यति । एकवचनं अपि तर्हि न प्राप्नोति । समयात्भविष्यति । द्विवचनबहुवचनानि अपि तर्हि समयात्प्राप्नुवन्ति । एवं तर्हि एकवचनं उत्सर्गः करिष्यते । तस्य द्विबह्वोः द्विवचनबहुवचने अपवावौ भविष्यतः । एवं अपि नपुंसकत्वं वक्तव्यं । न वक्तव्यं । लिङ्गं अशिष्यं लोकाश्रयत्वात्लिङ्गस्य ।
(पाणिनीयसूत्र ५,३।६६।२) कि.।४१९।१-६ रो. ईV।२२१-२२२ (कात्यायन वार्तिक)वृषलादिभ्यः उपसङ्ख्यानम्(वार्तिकान्त) । वृषलादिभ्यः उपसङ्ख्यानं कर्तव्यं । वृषलरूपः । दस्युरूपः । चोररूपः इति । (कात्यायन वार्तिक)सिद्धं तु प्रकृत्यर्थवैशिष्ट्यवचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । प्रकृत्यर्थस्य वैशिष्ट्ये इति वक्तव्यं । वृषलरूपः अयं । अपि अयं पलाण्डुना सुरां पिबेत। चोररूपः अयं । अपि अयं अक्ष्णोः अञ्जनं हरेत। दस्युरूपः अयं । अपि अयं धावतः लोहितं पिबेत।
(पाणिनीयसूत्र ५,३।६७) कि.।४१९।८-४२०।१७ रो. ईV।२२२-२२६ (कात्यायन वार्तिक)ईषदसमाप्तौक्रियाप्रधानत्वात्लिङ्गवचनानुपपत्तिः(वार्तिकान्त) । ईषदसमाप्तौ क्रियाप्रधानत्वात्लिङ्गवचनयोः अनुपपत्तिः । पटुकल्पः । पटुकल्पौ । पटुकल्पाः इति । एकः अयं अर्थः ईषदसमाप्तिः नाम । तस्य एकत्वातेकवचनं प्राप्नोति । (कात्यायन वार्तिक)प्रकृत्यर्थविशेषणत्वाद्सिद्धम्(वार्तिकान्त) । सिद्धं एतत। कथं । न अयं प्रत्ययार्थः । किं तर्हि प्रकृत्यर्थविशेषणं एतत। ईषदसमाप्तौ यत्प्रातिपदिकं वर्तते तस्मात्कल्पबादयः भवन्ति । कस्मिनर्थे । स्वार्थे इति । स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते । (कात्यायन वार्तिक)प्रकृत्यर्थे चेत्लिङ्गवचनानुपपत्तिः(वार्तिकान्त) । प्रकृत्यर्थे चेत्लिङ्गवचनयोः अनुपपत्तिः । गुडकल्पा द्राक्षा । तैलकल्पा प्रसन्ना । पयस्कल्पा यवागूः इति । (कात्यायन वार्तिक)सिद्धं तु तत्सम्बन्धे उत्तरपदार्थे प्रत्ययवचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । तत्सम्बन्धे ईषदसमाप्तिसम्बन्धे उत्तरपदार्थे प्रत्ययः भवति इति वक्तव्यं । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं ईषदसमाप्तौक्रियाप्रधानत्वात्लिङ्गवचनानुपपत्तिः इति । परिहृतं एतत्प्रकृत्यर्थविशेषणत्वाद्सिद्धं इति । ननु च उक्तं प्रकृत्यर्थे चेत्लिङ्गवचनानुपपत्तिः इति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति स्वार्थिकाः अतिवर्तन्ते अपि लिङ्गवचनानि इति यतयं णचः स्त्रियां अञिति स्त्रीग्रहणं करोति । यदि एतत्ज्ञाप्यते बहुगुडः द्राक्षा । बहुतैलं प्रसन्ना । बहुपयः यवागूः इति अत्र अपि प्राप्नोति । न अपि अतिवर्तन्ते । किं पुनः इह उदाहरणं । पटुकल्पः । मृदुकल्पः इति । न एततस्ति । निर्ज्ञातस्य अर्थस्य समाप्तिः वा भवति विसमाप्तिः वा गुणः च अनिर्ज्ञातः । इदं तर्हि । गुडकल्पा द्राक्षा । तैलकल्पा प्रसन्ना । पयस्कल्पा यवागूः इति । द्रव्यं अपि अनिर्ज्ञातं । इदं तर्हि । कृतकल्पं । भुक्तकल्पं । पीतकल्पं इति । (कात्यायन वार्तिक)क्तान्तात्प्रत्ययविधानानुपपत्तिः क्तस्य भूतकाललक्षणत्वात्कल्पादीनां च असमाप्तिवचनात्(वार्तिकान्त) । क्तान्तात्प्रत्ययविधानेः अनुपपत्तिः । किं कारणं । क्तस्य भूतकाललक्षणत्वात। भूतकाललक्षणः क्तः । कल्पादीनां च असमाप्तिवचनात। विसमाप्तिवचनाः च कल्पादयः । न च अस्ति सम्भवः यत्भूतकालः च स्यातसमाप्तिः च इति । (कात्यायन वार्तिक)सिद्धं तु आशंसायां भूतवद्वचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । आशंसायां भूतवत्च इति एवं अत्र क्तः भविष्यति । इदं च अपि उदाहरणं पटुकल्पः । मृदुकल्पः इति । ननु च उक्तं निर्ज्ञातस्य अर्थस्य समाप्तिः वा भवति विसमाप्तिः वा गुणः च अनिर्ज्ञातः इति । लोकतः व्यवहारं दृष्ट्वा गुणस्य निर्ज्ञानं । तत्यथा पटुः अयं ब्राह्मणः इति उच्यते यः लघुना उपायेन अथान्साधयति । पटुकल्पः अयं इति उच्यति यः न तथा साधयति । इदं च अपि उदाहरणं गुडकल्पा द्राक्षा । तैलकल्पा प्रसन्ना । पयस्कल्पा यवागूः इति । ननु च उक्तं द्रव्यं अपि अनिर्ज्ञातं इति । लोकतः द्रव्यं अपि निर्ज्ञातं ।
(पाणिनीयसूत्र ५,३।६८।१) कि.।४२०।१९-४२२।४ रो. ईV।२२६-२२९ विभाषाग्रहणं किमर्थं । विभाषा बहुच्यथा स्यात। बहुचा मुक्ते वाक्यं अपि यथा स्यात। न एततस्ति प्रयोजनं । प्रकृता महाविभाषा । तया वाक्यं भविष्यति । इदं तर्हि प्रयोजनं । कल्पादयः अपि यथा स्युः इति । एततपि न अस्ति प्रयोजनं । बहुचुच्यते कल्पादयः अपि । ततुभयं वचनात्भविष्यति । न एवं शक्यं । अक्रियमाणे हि विभाषाग्रहणे अनवकाशः बहुच्कल्पादीन्बाधेत । कल्पादयः अपि अनवकाशाः । ते वचनात्भविष्यन्ति । सावकाशाः कल्पादयः । कः अवकाशः । तिङन्तानि अवकाशः । अथ सुब्ग्रहणं किमर्थं । सुबन्तातुत्पत्तिः यथा स्यात। प्रातिपदिकात्मा भूतिति । न एततस्ति प्रयोजनं । न अस्ति अत्र विशेषः सुबन्तातुत्पत्तौ सत्यां प्रातिपदिकात्वा । यदि एवं इह अपि न अर्थः सुब्ग्रहणेन । सुपः आत्मनः क्यचिति । इह अपि न अस्ति अत्र विशेषः सुबन्तातुत्पत्तौ सत्यां प्रातिपदिकात्वा । अयं अस्ति विशेषः । सुबन्तातुत्पत्तौ सत्यां पदसञ्ज्ञा सिद्धा भवति । प्रातिपदिकातुत्पत्तौ सत्यां पदसञ्ज्ञा न प्राप्नोति । ननु च प्रातिपदिकातपि उत्पत्तौ सत्यां पदसञ्ज्ञा सिद्धा । कथं । आरभ्यते नः क्ये इति । तत्च अवश्यं कर्तव्यं सुबन्तातुत्पत्तौ नियमार्थं । ततेव प्रातिपदिकातुत्पत्तौ सत्यां विध्यर्थं भविष्यति । इदं तर्हि प्रयोजनं । सुबन्तातुत्पत्तिः यथा स्यात। तिङन्तात्मा भूतिति । एततपि न अस्ति प्रयोजनं । ङ्याप्प्रातिपदिकातिति वर्तते । अतः उत्तरं पठति । (कात्यायन वार्तिक)बहुचि सुब्ग्रहणात्पूर्वत्र तिङः विधानम्(वार्तिकान्त) । बहुचि सुब्ग्रहणं क्रियते पूर्वत्र तिङः विधिः यथा विज्ञायेत । न एततस्ति प्रयोजनं । प्रकृतं तिङ्ग्रहणं अनुवर्तते । क्व प्रकृतं । अतिशायने तमबिष्ठनौ । तिङः च इति । एवं तर्हि बहुचि सुब्ग्रहणं पूर्वत्र तिङः विधानात। बहुचि सुब्ग्रहणं क्रियते । किं कारणं । पूर्वत्र तिङः विधानात। पूर्वत्र तिङः च इति अनुवर्तते । ततिह अपि प्राप्नोति । ननु च तिङ्ग्रहणं निवर्तेत । अवश्यं उत्तरार्थं अनुवर्त्यं अव्ययसर्वनाम्नां अकच्प्राक्टेः इति पचतकि जल्पतकि इति एवमर्थं । यदि सुब्ग्रहणं क्रियते स्वरः न सिध्यति । बहुपटवः एवं स्वरः प्रसज्येत बहुपटवः इति च इष्यते । पठिष्यति हि आचार्यः चितः सप्रकृतेः बह्वकजर्थं इति । स्वरः कथं । (कात्यायन वार्तिक)स्वरः प्रातिपदिकत्वात्(वार्तिकान्त) । सुब्लुकि कृते प्रातिपदिकत्वात्स्वरः भविष्यति । अथ तुग्रहणं किमर्थं । (कात्यायन वार्तिक)तुग्रहणं नित्यपूर्वार्थम्(वार्तिकान्त) । तुग्रहणं क्रियते नित्यं पूर्वः यथा स्यात। विभाषा मा भूतिति । न एततस्ति प्रयोजनं । न विभाषाग्रहणेन पूर्वं अभिसम्बध्यते । किं तर्हि । बहुचभिसम्बध्यते : विभाषा बहुच्भवति इति । यदा च भवति तदा पूर्वः भवति । इदं तर्हि प्रयोजनं । प्राकुत्पत्तेः यत्लिङ्गं वचनं च ततुत्पन्ने अपि प्रत्यये यथा स्यात। बहुगुडः द्राक्षा । बहुतैलं प्रसन्ना । बहुपयः यवागूः इति । एततपि न अस्ति प्रयोजनं । स्वाऋथिकः अयं स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते । एवं तर्हि सिद्धे सति यत्तुग्रहणं करोति तत्ज्ञापयति आचार्यः स्वार्थिकाः अतिवर्तन्ते अपि लिङ्गवचनानि इति । किं एतस्य ज्ञापने प्रयोजनं । गुडकल्पा द्राक्षा , तैलकल्पा प्रसन्ना , पयस्कल्पा यवागूः इति एतत्सिद्धं भवति ।
(पाणिनीयसूत्र ५,३।६८।२) कि.।४२२।५-१० रो. ईV।२२९-२३० (कात्यायन वार्तिक)तमादिभ्यः कल्पादयः विप्रतिषेधेन(वार्तिकान्त) । तमादिभ्यः कल्पादयः भवन्ति विप्रतिषेधेन । तमादीनां अवकाशः प्रकर्षस्य वचनं ईषदसमाप्तेः अवचनं । पटुतरः । पटुतमः । कल्पादीनां ईषदसमाप्तेः वचनं प्रकर्षस्य अवचनं । पटुकल्पः । मृदुकल्पः । उभयवचने उभयं प्राप्नोति । पटुकल्पतरः । मृदुकल्पतरः । कल्पादयः भवन्ति विप्रतिषेधेन । यदि एवं ईषदसमाप्तेः प्रकर्षे तमादिः प्रत्ययः प्राप्नोति प्रकृतेः एव च इष्यते । (कात्यायन वार्तिक)तमादिः ईषत्प्रधानात्(वार्तिकान्त) । तमादिः ईषत्प्रधानातपि भवति । अस्य प्रकर्षः अस्ति । तस्य प्रकर्षे भविष्यति । कस्य च प्रकर्षः अस्ति। प्रकृतेः एव ।
(पाणिनीयसूत्र ५,३।७१-७२।१) कि.।४२२।१६-२१ रो. ईV।२३० किं अयं सुबन्तस्य प्राक्टेः भवति आहोस्वित्ङ्याप्प्रातिपदिकस्य । कुतः सन्देहः । उभयं प्रकृतं । अन्यतरत्शक्यं विशेषयितुं । किं च अतः । यदि सुबन्तस्य युष्मकाभिः अस्मकाभिः युष्मकासु अस्मकासु युवकयोः आवकयोः इति न सिध्यति । अथ प्रातिपदिकस्य त्वयका मयका त्वयकि मयकि इति अत्र अपि प्राप्नोति । अस्तु सुबन्तस्य । कथं युष्मकाभिः अस्मकाभिः युष्मकासु अस्मकासु युवकयोः आवकयोः इति । अनोकारसकारभकारादौ इति वक्तव्यं ।
(पाणिनीयसूत्र ५,३।७१-७२।२) कि.।४२२।२२-४२३।२ रो. ईV।२३०-२३१ (कात्यायन वार्तिक)अकच्प्रकरणे तूष्णीमः काम्(वार्तिकान्त) । अकच्प्रकरणे तूष्णीमः कां वक्तव्यः । आसितव्यं किल तूष्णीकां एतत्पश्यतः चिन्तितं । (कात्यायन वार्तिक)शीले कः मलोपः च(वार्तिकान्त) । शीले कः मलोपः च वक्तव्यः । तूष्णीशीलः । तूष्णीकः ।
(पाणिनीयसूत्र ५,३।७१-७२।३) कि.।४२३।३-८ रो. ईV।२३१ इह भिनत्ति छिनत्ति इति शनमि कृते शप्प्राप्नोति । बहुकृतं बहुभुक्तं बहुपीतं इति बहुचि कृते कल्पादयः प्राप्नुवन्ति । उच्चकैः नीचकैः अकचि कृते कादयः प्राप्नुवन्ति । ननु च श्नम्बहुजकचः अपवादाः ते बाधकाः भविष्यन्ति । (कात्यायन वार्तिक)श्नम्बहुजकक्षु नानादेशत्वातुत्सर्गप्रतिषेधः(वार्तिकान्त) । श्नम्बहुजकक्षु नानादेशत्वातुत्सर्गप्रतिषेधः वक्तव्यः । समानदेशैः अपवादैः उत्सर्गाणां बाधनं भवति । नानादेशत्वात्न प्राप्नोति ।
(पाणिनीयसूत्र ५,३।७१-७२।४) कि.।४२३।९-२४ रो. ईV।२३१-२३२ (कात्यायन वार्तिक)कविधेः तमादयः पूर्वविप्रतिषिद्धम्(वार्तिकान्त) । कविधेः तमादयः भवन्ति पूर्वविप्रतिषेधेन । कविधेः अवकाशः कुत्सादीनां वचनं प्रकर्षस्य अवचनं । पटुकः । मृदुकः । तमादीनां अवकाशः प्रकर्षस्य वचनं कुत्सादीनां अवचनं । पटुतरः । पटुतमः । उभयवचने उभयं प्राप्नोति । पटुतरकः । पटुतमकः । तमादयः भवन्ति पूर्वविप्रतिषेधेन । (कात्यायन वार्तिक)कदा चित्छिन्नकतरादयः(वार्तिकान्त) । कदा चित्छिन्नकतरादयः भवन्ति विप्रतिषेधेन । छिन्नकतरं । छिन्नकतमं ।(कात्यायन वार्तिक) एकदेशिप्रधानः च समासः(वार्तिकान्त) । एकदेशिप्रधानः च समासः कविधेः भवति पूर्वविप्रतिषेधेन । अर्धपिप्पलिका । अर्धकोशातकिका । (कात्यायन वार्तिक)उत्तरपदार्थप्रधानः च सञ्ज्ञायां कन्विध्यर्थम्(वार्तिकान्त) । उत्तरपदार्थप्रधानः च समासः कविधेः भवति पूर्वविप्रतिषेधेन । किं प्रयोजनं । सञ्ज्ञायां कन्विध्यर्थं । सञ्ज्ञायां कन्यथा स्यात। नवग्रामकं । नवराष्ट्रकं । नवनगरकं । (कात्यायन वार्तिक)कदा चित्द्वन्द्वः(वार्तिकान्त) । कदा चित्द्वन्द्वः कविधेः भवति पूर्वविप्रतिषेधेन । प्लक्षकन्यग्रोदकौ । प्लक्षन्यग्रोधकौ इति ।
(पाणिनीयसूत्र ५,३।७४।) कि.।४२४।२-२४ रो. ईV।२३२-२३७ इह कुत्सितकः अनुकम्पितकः इति स्वशब्देन उक्तत्वात्तस्य अर्थस्य प्रत्ययः न प्राप्नोति । न एषः दोषः । कुत्सितस्य अनुकम्पायां भविष्यति अनुकम्पितस्य कुत्सायां । अथ वा (कात्यायन वार्तिक)स्वार्थं अभिधायः शब्दः निरपेक्षः द्रव्यं आह समवेतं । समवेतस्य च वचने लिङ्गं वचनं विभक्तिं च । अभिधाय तान्विशेषानपेक्षमाणः च कृत्स्नमात्मानं प्रियकुत्सनादिषु पुनः प्रवर्तते असौ विभक्त्यन्तः(वार्तिकान्त) । कथं पुनः इदं विज्ञायते : कुत्सितादीनां अर्थे इति आहोस्वित्कुत्सितादिसमानाधिकरणातिति । कः च अत्र विशेषः । (कात्यायन वार्तिक)कुत्सिदादीनां अर्थे चेत्लिङ्गवचनानुपपत्तिः(वार्तिकान्त) । कुत्सिदादीनां अर्थे चेत्लिङ्गवचनयोः अनुपपत्तिः । पटुकं । पटुका । पटुकः । पटुकौ । पटुकाः इति । एकः अयं अर्थः कुत्सितं नाम । तस्य एकत्वातेकवचनं एव प्राप्नोति । अस्ति तर्हि कुत्सितादिसमानाधिकरणातिति । (कात्यायन वार्तिक)कुत्सिदादिसमानाधिकरणातिति चेततिप्रसङ्गः यथा टाबादिषु(वार्तिकान्त) । कुत्सिदादिसमानाधिकरणातिति चेततिप्रसङ्गः भवति यथा टाबादिषु । कथं च टाबादिषु । उक्तं तत्र स्त्रीसमानाधिकरणातिति चेत्भूतादिषु अतिप्रसङ्गः इति । एवं इह अपि कुत्सिदादिसमानाधिकरणातिति चेततिप्रसङ्गः भवति । इदं घृतकं । इदं तैलकं । इदम्शब्दातपि प्राप्नोति । (कात्यायन वार्तिक)सिद्धं तु येन कुत्सितादिवचनं तद्युक्तात्स्वार्थे प्रत्ययविधानात्(वार्तिकान्त) । सिद्धं एतत। कथं । येन कुत्सितादयः अर्थाः गम्यन्ते तद्युक्तात्स्वार्थे प्रत्ययः भवति इति वक्तव्यं । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं कुत्सिदादीनां अर्थे चेत्लिङ्गवचनानुपपत्तिः इति । न एषः दोषः । न अयं प्रत्ययार्थः । किं तर्हि प्रकृत्यर्थविशेषणं एतत। कुत्सितादिषु यत्प्रातिपदिकं वर्तते तस्मात्कादयः भवन्ति । कस्मिनर्थे । स्वार्थे । स्वाऋथिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते ।
(पाणिनीयसूत्र ५,३।८३।१) कि.।४२५।२-१२ रो. ईV।२३७ (कात्यायन वार्तिक)चतुर्थ्यात्(वार्तिकान्त) । चतुर्थ्यात्लोपः वक्तव्यः । बृहस्पतिदत्तकः । बृहस्पतिकः । प्रजापतिदत्तकः । प्रजापतिकः । (कात्यायन वार्तिक)अनजादौ च(वार्तिकान्त) । अनजादौ च लोपः वक्तव्यः । देवदत्तकः । देवकः । यज्ञदत्तकः । यज्ञकः । (कात्यायन वार्तिक)लोपः पूर्वपदस्य च(वार्तिकान्त) । पूर्वपदस्य च लोपः वक्तव्यः । देवदत्तकः । दत्तकः । यज्ञदत्तकः । दत्तकः । (कात्यायन वार्तिक)अप्रत्यये तथा एव इष्टः(वार्तिकान्त) । देवदत्तः । दत्तः । यज्ञदत्तः । दत्तः । (कात्यायन वार्तिक)उवर्णात्लः इलस्य च(वार्तिकान्त) । उवर्णातिलस्य च लोपः वक्तव्यः । भानुदत्तकः । भानुलः । वसुदत्तकः । वसुलः ।
(पाणिनीयसूत्र ५,३।८३।२) कि.।४२५।१३-२२ रो. ईV।२३७-२३८ अथ ठग्ग्रहणं किमर्थं न इके कृते अजादौ इति एव सिद्धं । (कात्यायन वार्तिक)ठग्ग्रहणं उकः द्वितीयत्वे कविधानार्थम्(वार्तिकान्त) । ठग्ग्रहणं क्रियते उकः द्वितीयत्वे कविधिः यथा स्यात। वायुदत्तकः । वायुकः । पितृदत्तकः । पितृकः । (कात्यायन वार्तिक)अजादिलक्षणे हि माथिकादिवत्प्रसङ्गः(वार्तिकान्त) । अजादिलक्षणे हि माथिकादिवत्प्रसज्येत । तत्यथ मथितं पण्यं अस्य माथितिकः इति अकारलोपे कृते तान्तातिति कादेशः न भवति एवं इह अपि न स्यात। (कात्यायन वार्तिक)द्वितीयातचः लोपे सन्ध्यक्षरद्वितीयत्वे तदादेः लोपवचनम्(वार्तिकान्त) । द्वितीयातचः लोपे कर्तव्ये सन्ध्यक्षरद्वितीयत्वे तदादेः लोपः वक्तव्यः । लहोडः । लहिकः । कहोडः । कहिकः ।
(पाणिनीयसूत्र ५,३।८४) कि.।४२६।२-१५ रो. ईV।२३८-२४० (कात्यायन वार्तिक)वरुणादीनां च तृतीयात्सः च अकृतसन्धीनाम्(वार्तिकान्त) । वरुणादीनां च तृतीयात्लोपः उच्यते । सः च अकृतसन्धीनां वक्तव्यः । सुपर्याशीर्दत्तः । सुपरिकः , सुपरियः , सुपरिलः । इह षडङ्गुलिः षडिकः इति अजादिलोपे कृते पदसञ्ज्ञा न प्राप्नोति । तत्र कः दोषः । जश्त्वं न स्यात। (कात्यायन वार्तिक)षडिके जश्त्वे उक्तम्(वार्तिकान्त) । किं उक्तं । सिद्धं अचः स्थानिवत्वातिति । यदि एवं (कात्यायन वार्तिक)वाचिकादिषु पदवृत्तप्रतिषेधः(वार्तिकान्त) । वाचिकादिषु पदवृत्तस्य प्रतिषेधः वक्तव्यः । (कात्यायन वार्तिक)सिद्धं एकाक्षरपूर्वपदानां उत्तरपदलोपवचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । एकाक्षरपूर्वपदानां उत्तरपदस्य लोपः वक्तव्यः । इह अपि तर्हि प्राप्नोति । षडङ्गुलिः । षडिकः इति । (कात्यायन वार्तिक)षषः ठाजादिवचनात्सिद्धम्(वार्तिकान्त) । षषः ठाजादिवचनात्सिद्धं एतत।
(पाणिनीयसूत्र ५,३।८५-८६) कि.।४२६।१८-२१ रो. ईV।३४० किमर्थं इमौ उभौ अर्थौ निर्दिश्येते न यतल्पं ह्रस्वं अपि तत्भवति यत्च ह्रस्वं अल्पं अपि तत्भवति । न एतयोः आवश्यकः समावेशः । अल्पं घृतं । अल्पं तैलं इति उच्यते । न कः चिताह ह्रस्वं घृतं । ह्रस्वं तैलं इति । तथा ह्रस्वः पटः । ह्रस्वः शाटकः इति उच्यते । न कः चिताह अल्पः पटः । अल्पः शाटकः इति ।
(पाणिनीयसूत्र ५,३।८८) कि.।४२७।२-७ रो. ईV।२४१ (कात्यायन वार्तिक)कुटीशमीशुण्डाभ्यः प्रत्ययसन्नियोगेन पुंवद्भावः(वार्तिकान्त) । कुटीशमीशुण्डाभ्यः प्रत्ययसन्नियोगेन पुंवद्भावः वक्तव्यः । कुटी । कुटीरः । शमी । शमीरः । शुण्डा । शुण्डारः इति । किं पुनः कारणं न सिध्यति । स्वार्थिकः अयं स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । स्वाऋथिकाः अतिवर्तन्ते अपि लिङ्गवचनानि इति ।
(पाणिनीयसूत्र ५,३।९१) कि.।४२७।९-१३ रो. ईV।२४१ (कात्यायन वार्तिक)वत्सादिभ्यः तनुत्वे कार्श्ये प्रतिषेधः(वार्तिकान्त) । वत्सादिभ्यः तनुत्वे कार्श्ये प्रतिषेधः वक्तव्यः । कृशः वत्सः वत्सतरः इति मा भूतिति । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । यस्य गुणस्य हि भावात्द्रव्ये शब्दनिवेशः तदभिधाने तस्मिन्गुणे वक्तव्ये प्रत्ययेन भवितव्यं । न च कार्श्यस्य सद्भावात्द्रव्ये वत्सशब्दः ।
(पाणिनीयसूत्र ५,३।९२-९३) कि.।४२७।१६-४२८।४ रो. ईV। २४२ (कात्यायन वार्तिक)किमादीनां द्विबह्वर्थे प्रत्ययविधानातुपाध्यानर्थक्यम्(वार्तिकान्त) । किमादीनां द्विबह्वर्थे प्रत्ययविधानातुपाधिग्रहणं अनर्थकं । किं कारणं । बहिर्धारणं निर्धारणं । यावता द्वयोः एकस्य एव बहिर्धारणं भवति । अपरः आह : बहूनां जतिपरिप्रश्ने डतमचिति अत्र बहुग्रहणं अनर्थकं । किं कारणं । किं इति एतत्परिप्रश्ने वर्तते परिप्रश्नः च अनिर्ज्ञाते अनिर्ज्ञातं च बहुषु । द्व्येकयोः पुनः निर्ज्ञातं । निर्ज्ञातत्वात्द्व्येकयोः परिप्रश्नः न । परिप्रश्नाभावात्किं एव न अस्ति । कुतः प्रत्ययः ।
(पाणिनीयसूत्र ५,३।९४) कि.।४२८।६-९ रो. ईV।२४२-२४३ प्राग्वचनं किमर्थं । विभाषा यथा स्यात। (कात्यायन वार्तिक)प्राग्वचनानर्थक्यं च विभाषाप्रकरणात्(वार्तिकान्त) । प्राग्वचनं अनर्थकं । किं कारणं । प्रकृता महाविभाषा । तय एव सिद्धं ।
(पाणिनीयसूत्र ५,३।९५) कि.।४२८।११-१५ रो. ईV।२४३ अवक्षेपणे कन्विधीयते कुत्सिते कः । कः एतयोः अर्थयोः विशेषः । अवक्षेपणं करणं कुत्सितं कर्म । अवक्षेपणं वै कुत्सितं करणं । तेन यत्कुत्य्स्यते ततपि कुत्सितं भवति । तत्र कुत्सितं इति एव सिद्धं भवति । एवं तर्हि यत्परस्य कुत्सार्थं उपादीयते ततिह उदाहरणं । व्याकरणकेन नाम अयं गर्वितः । याज्ञिक्येन नाम अयं गर्वितः । यत्स्वकुत्सार्थं कुत्सार्थं उपादीयते तत्तत्र उदाहरणं । देवदत्तकः । यज्ञदत्तकः ।
(पाणिनीयसूत्र ५,३।९८) कि.।४२८।१७-२० रो. ईV।२४३ किमर्थं मनुष्ये लुपुच्यते न लुकेव उच्येत । (कात्यायन वार्तिक)लिङ्गसिद्ध्यर्थं लुप्मनुष्ये(वार्तिकान्त) । लिङ्गसिद्ध्यर्थं मनुष्ये लुपुच्यते । चञ्चा इव चञ्चा । वध्रिका इव वध्रिका । खरकुटी इव खरकुटी । किमर्थं मनुष्ये लुपुच्यते न लुकेव उच्येतः १।१।७२।५
(पाणिनीयसूत्र ५,३।९९) कि.।४२९।२-४ रो. ईV।२४४ अपण्ये इति उच्यते । तत्र इदं न सिध्यति । शिवः । स्कन्दः । विशाखः इति । किं कारणं । मौर्यैः हिरण्याऋथिभिः अर्चाः प्रकल्पिताः । भवेत्तासु न स्यात। याः तु एताः सम्प्रतिपूजार्थाः तासु भविष्यति ।
(पाणिनीयसूत्र ५,३।१०६) कि.।४२९।६-९ रो. ईV।२४४-२४५ ततिति अनेन किं प्रतिनिर्दिश्यते । छः । कथं पुनः समासः नाम छविषयः स्यात। एवं तर्हि इवार्थः । यदि तर्हि समासः अपि इवार्थे प्रत्ययः अपि समासेनोक्तत्वात्प्रत्ययः न प्राप्नोति । एवं तर्हि द्वौ इवार्थौ । कथं । काकागमनं इव तालपतनं इव काकतालं । काकतालं इव काकतालीयं ।
(पाणिनीयसूत्र ५,३।११८) कि.।४२९।१२-१६ रो. ईV।२४५-२४६ (कात्यायन वार्तिक)अणः गोत्रात्गोत्रवचनम्(वार्तिकान्त) । अणः गोत्रात्गोत्रग्रहणं कर्तव्यं । गोत्रातिति वक्तव्यं । इह मा भूत। आभिजितः मुहूर्तः । आभिजितः स्थालीपाकः इति । गोत्रं इति च वक्तव्यं । किं प्रयोजनं । आभिजितकः । गोत्राश्रयः वुञ्यथा स्यात। गोत्रं इति शक्यं अकर्तुं । कथं आभिजितकः । गोत्रातयं स्वार्थिकः गोत्रं एव भवति ।
(पाणिनीयसूत्र ५,४।१) कि.।४३०।२-४ रो. ईV।२४७ (कात्यायन वार्तिक)पादशतग्रहणं अनर्थकं अन्यत्र अपि दर्शनात्(वार्तिकान्त) । पादशतग्रहणं अनर्थकं । किं कारणं । अन्यत्र अपि दर्शनात। अन्यत्र अपि हि वुन्दृश्यते । द्विमोदिकां ददाति ।
(पाणिनीयसूत्र ५,४।३) कि.।४३०।६-७ रो. ईV।२४७ (कात्यायन वार्तिक)कन्प्रकरणे चञ्चद्ब्र्हतोः उपसङ्ख्यानम्(वार्तिकान्त) । कन्प्रकरणे चञ्चद्ब्र्हतोः उपसङ्ख्यानं कर्तव्यं । च~चत्कः । बृहत्कः ।
(पाणिनीयसूत्र ५,४।४) कि.।४३०।९-१६ रो. ईV।२४७-२४८ (कात्यायन वार्तिक)अनत्यन्तगतौ क्तान्तात्तमादयः पूर्वविप्रतिषिद्धम्(वार्तिकान्त) । अनत्यन्तगतौ क्तान्तात्तमादयः भवन्ति पूर्वविप्रतिषेधेन । अनत्यन्तगतौ क्तान्तात्कन्भवति इति अस्य अवकाशः अनत्यन्तगतेः वचनं प्रकर्षस्य अवचनं । भिन्नकं । छिन्नकं । तमादीनां अवकाशः प्रकर्षस्य वचनं अनत्यन्तगतेः अवचनं । पटुतरः । पटुतमः । उभयवचने उभयं प्राप्नोति । भिन्नतरकं । छिन्नतरकं । तमादयः भवन्ति पूर्वविप्रतिषेधेन । (कात्यायन वार्तिक)तदन्तात्च स्वार्थे कन्वचनम्(वार्तिकान्त) । तदन्तात्च स्वार्थे कन्वक्तव्यः । भिन्नतरकं ।
(पाणिनीयसूत्र ५,४।५) कि.।४३१।२-४ रो. ईV।२४८ सामिवचने प्रतिषेधानर्थक्यं प्रकृत्यभिहितत्वात। सामिवचने प्रतिषेधः अनर्थकः । किं कारणं । प्रकृत्यभिहितत्वात। प्रकृत्यभिहितः सः अर्थः इति कृत्वा कन्न भविष्यति ।
(पाणिनीयसूत्र ५,४।७) कि.।४३१।६-२३ रो. ईV।२४८-२५१ (कात्यायन वार्तिक)अध्युत्तरपदात्प्रत्ययविधानानुपपत्तिः विग्रहाभावात्(वार्तिकान्त) । अध्युत्तरपदात्प्रत्ययविधेः अनुपपत्तिः । किं कारणं । विग्रहाभावात। विग्रहपूर्विका तद्धितोत्पत्तिः । न च अध्युत्तरपदेन विग्रहः दृश्यते । (कात्यायन वार्तिक)तस्मात्तत्र इदं इति सधीनर्(वार्तिकान्त) । तस्मात्तत्र इदं इति सधीनर्प्रत्ययः वक्तव्यः । राजनि इदं राजाधीनं । यदि सधीनर्क्रियते सकारस्य इत्सञ्ज्ञा न प्राप्नोति । इह च श्र्यधीनः भ्र्वधीनः इति अङ्गस्य इति इयङुवङौ स्यातां । सूत्रं च भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं अध्युत्तरपदात्प्रत्ययविधानानुपपत्तिः विग्रहाभावातिति । न एषः दोषः । अस्ति कारणं येन अत्र विग्रहः न भवति । किं कारणं । नित्यप्रत्ययः अयं । के पुनः नित्यप्रत्ययाः । तमादयः प्राक्कनः ञ्यादयः प्राक्वुनः आमादयः प्राक्मयटः बृहतीजात्यन्ताः समासान्ताः च इति । एवं तर्हि न अयं प्रत्ययविधिः उपालभ्यते । किं तर्हि । प्रकृतिः उपालभ्यते । अध्युत्तरपदा प्रकृतिः न अस्ति । किं कारणं । विग्रहाभावात। विग्रहपूर्विका समासवृत्तिः । न च अधिना विग्रहः दृश्यते । एवं तर्हि बहुव्रीहिः भविष्यति । किं कृतं भवति । भवति वै कः चितस्वपदविग्रहः अपि बहुव्रीहिः । तत्यथा शोभनं मुखं अस्याः सुमुखी इति । न एवं शक्यं । इह हि महदधीनं इति आत्त्वकपौ प्रसज्येयातां । एवं तर्हि अव्ययीभावः भविष्यति । एवं अपि अधेः पूर्वनिपातः प्राप्नोति । राजदन्तादिषु पाठः करिष्यते । अथ वा सप्तमीसमासः अयं । अधिः शौण्डादिषु पठ्यते ।
(पाणिनीयसूत्र ५,४।८) कि.।४३२।२-५ रो. ईV।२५१ दिग्ग्रहणं किमर्थं । अस्त्रियां इति इयति उच्यमाने प्राचीना ब्राह्मणी अवाचीना शिखा इति अत्र अपि प्रसज्येत । दिग्ग्रहणे पुनः क्रियमाणे न दोषः भवति । अथ स्त्रीग्रहणं किमर्थं यावता दिक्शब्दः स्त्रीविषयः एव । भवति वै कः चित्दिक्शब्दः अस्त्रीविषयः अपि । तत्यथा प्राक्प्राचीनं । प्रत्यक्प्रतीचीनं । उचकुदीचीनं ।
(पाणिनीयसूत्र ५,४।१४) कि.।४३२।७-१० रो. ईV।२५२ स्त्रीग्रहणं किमर्थं न स्वार्थिकः अयं स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते । एवं तर्हि सिद्धे सति यत्स्त्रीग्रहणं करोति तत्ज्ञापयति आचार्यः स्वार्थिकाः अतिवर्तन्ते अपि लिङ्गवचनानि । किं एतस्य ज्ञापने प्रयोजनं । गुडकल्पा द्राक्षा । तैलकल्पा प्रसन्ना पयस्कल्पा यवागूः इति एतत्सिद्धं भवति ।
(पाणिनीयसूत्र ५,४।१९) कि.।४३२।१२-४३३।१० रो. ईV।२५२-२५६ सकृदादेशे अभ्यावृत्तिग्रहणं निवर्त्यं । किं प्रयोजनं । पुनः पुनः आवृत्तिः अभ्यावृत्तिः । न च एकस्य पुनः पुनः आवृत्तिः भवति । अथ क्रियाग्रहणं अनुवर्तते आहोस्वित्न । किं च अर्थः अनुवृत्त्या । बाढं अर्थः । इह मा भूतः एकः भुङ्क्ते इति । अथ अनुवर्तमाने अपि क्रियाग्रहणे इह कस्मात्न भवति । एकः पाकः इति । पूर्वयोः च योगयोः कस्मात्न भवति । द्वौ पाकौ। त्रयः पाकाः । चत्वारः पाकाः । पञ्च पाकाः । दश पाकाः इति । न एतत्क्रियागणनं । किं तर्हि । द्रव्यगणनं एतत। कथं । कृदभिहितः भावः द्रव्यवत्भवति इति । इह अपि तर्हि द्रव्यगणनात्न प्राप्नोति । सकृत्भुक्त्वा । सकृत्भोक्तुं इति । पूर्वयोः च योगयोः द्विः भुक्त्वा द्विः बोक्तुं त्रिः भुक्त्वा त्रिः भोक्तुं पञ्चकृत्वा भुक्त्वा पञ्चकृत्वा भोक्तुं दशकृत्वा भुक्त्वा दशकृत्वा भोक्तुं इति द्रव्यगणनान्न प्राप्नोति । यदि खलु अपि पुनः पुनः आवृत्तिः अभ्यावृत्तिः द्विः आवृत्ते सकृतिति स्यात्त्रिः आवृत्ते द्विः इति । एवं तर्हि अनुवर्तते अभ्यावृत्तिग्रहणं न तु पुनः पुनः आवृत्तिः अभ्यावृत्तिः । किं तर्हि अभिमुकःई प्रवृत्तिः अभ्यावृत्तिः । पूर्वा च परे प्रति अभिमुकःई परे च पूर्वां प्रति अभिमुख्यौ । यतपि उच्यते अनुवर्तमाने अपि क्रियाग्रहणे इह कस्मात्न भवति । एकः पाकः इति । पूर्वयोः च योगयोः कस्मात्न भवति । द्वौ पाकौ। त्रयः पाकाः । चत्वारः पाकाः । पञ्च पाकाः । दश पाकाः इति परिहृतं एतत। न एतत्क्रियागणनं । किं तर्हि । द्रव्यगणनं एतत। कथं । कृदभिहितः भावः द्रव्यवत्भवति इति । ननु च उक्तं इह अपि तर्हि द्रव्यगणनात्न प्राप्नोति । सकृत्भुक्त्वा । सकृत्भोक्तुं इति । पूर्वयोः च योगयोः द्विः भुक्त्वा द्विः बोक्तुं त्रिः भुक्त्वा त्रिः भोक्तुं पञ्चकृत्वा भुक्त्वा पञ्चकृत्वा भोक्तुं दशकृत्वा भुक्त्वा दशकृत्वा भोक्तुं इति द्रव्यगणनान्न प्राप्नोति । न एषः दोषः । क्रियागणनात्भविष्यति । कथं । कृदभिहितः भावः द्रव्यवतपि क्रियावतपि भवति ।
(पाणिनीयसूत्र ५,४।२४) कि.।४३३।१२-१४ रो. ईV।२५६ देवतान्तातिति उच्यते । तत इदं न सिध्यति । पितृदेवत्यं इति । किं कारणं । न हि ल्पितरः देवता । न एषः दोषः । दिवेः ऐश्वर्यकर्मणः देवः । तस्मात्स्वार्थे तल। एवं च कृत्वा देवदेवत्यं अपि सिद्धं भवति ।
(पाणिनीयसूत्र ५,४।२७) कि.।४३३।१६-२० रो. ईV।२५६ (कात्यायन वार्तिक)तलि स्त्रीलिङ्गवचनम्(वार्तिकान्त) । तलि स्त्रीलिङ्गं वक्तव्यं । देवता । किं पुनः कारणं न सिध्यति । देवशब्दः अयं पुंलिङ्गः स्वार्थिकः च अयं । स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । स्वार्थिकाः अतिवर्तन्ते अपि लिङ्गवचनानि इति ।
(पाणिनीयसूत्र ५,४।३०) कि.।४३३।२२-४३५।३ रो. ईV।२५७-२५९ (कात्यायन वार्तिक)लोहितात्लिङ्गबाधनं वा(वार्तिकान्त) । लोहितात्लिङ्गबाधनं वा इति वक्तव्यं । लोहितिक । लोहिनिका । (कात्यायन वार्तिक)अक्षरसमूहे छन्दसः उपसङ्ख्यानम्(वार्तिकान्त) । अक्षरसमूहे छन्दसः उपसङ्ख्यानं कर्तव्यं । ओ श्रावय इति चतुरक्षरं । अस्तु श्रौषटिति चतुरक्षरं । ये यजामहे इति पञ्चाक्षरं । यज इति द्व्यक्षरं । द्व्यक्षरः वषट्कारः । एषः वै सप्तदशाक्षरः छन्दस्यः प्रज्ञापतिः यज्ञं अनु विहितः । (कात्यायन वार्तिक)छन्दसि बहुभिर्वसव्यैरुपसङ्ख्यानम्(वार्तिकान्त) । छन्दसि बहुभिर्वसव्यैरुपसङ्ख्यानं । हस्तौ पृणस्व बहुविः वसव्यैः । (कात्यायन वार्तिक)अग्निरीशेवसव्यस्य(वार्तिकान्त) । अग्निरीशेवसव्यस्य उपसङ्ख्यानं कर्तव्यं । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । स्वार्थविज्ञानात्सिद्धं इति । अपस्यः वसानाः । अपः वसानाः । स्वे ओक्ये । स्वे ओके । कव्यः असि हव्यसूदन । कविः असि । रौद्रेण अनीकेन कव्यतायै । कवितयै । आमुष्यायणस्य । अमुष्यपुत्रस्य । क्षेम्यस्य ईशे । क्षेमस्य ईशे । क्षेम्यं अध्यवस्यति । क्षेमं अध्यवस्यति । आयुः वर्चस्यं । वर्चः एव वर्चस्यं । निष्केवल्यं । निष्केवलं । उक्थ्यं । उक्थं । जन्यं ताभिः सजन्यं ताभिः । जनं ताभिः सजनं ताभिः । स्तोमैः जनयामि नव्यं । नवं । प्र नः नव्येभिः । नवैः । ब्रह्म पूर्व्यं । पाथः पूर्व्यं । तनुषु पूर्व्यं । पूर्वं । पूर्व्याहः । पूर्वाहः । पूर्व्याः विशः । पूर्वाः विशः । पूर्व्यासः । पूर्वासः । सः प्र पूर्व्यः । सः प्र पूर्वः । अग्निं वै पूर्व्यं । पूर्वं । तं जुषस्व यविष्ठ्य । यविष्ठ । होत्रवाहं यविष्ठ्यं । यविष्ठं । त्वं ह यत्यविष्ठ्य । यविष्ठ । समावत्वसति समावत्गृह्णाति । समं वसति समं गृह्णाति । समावत्देवयज्ञे हस्तौ । समं । समावत्वीर्यावहानि । समानि । समावत्वीर्याणि करोति । समानि । उ ईवते उ लोकं । यः ईवते ब्रह्मणे । यः इयते । (कात्यायन वार्तिक)नवस्य नूत्नप्तनखाः च(वार्तिकान्त) । नवस्य नू इति अयं आदेशः वक्तव्यः त्नप्तनखाः च प्रत्ययाः वक्तव्याः । नूत्नं । नूतनं । नवीनं । (कात्यायन वार्तिक)नः च पुराणे प्रात्(वार्तिकान्त) । नः च पुराणे प्रात्वक्तव्यः त्नप्तनखाः च प्रत्ययाः वक्तव्याः । प्रणं । प्रत्नं । प्रतनं । प्रीणं ।
(पाणिनीयसूत्र ५,४।३६) कि.।४३५।५-४३६।४ रो. ईV।२५९-२६० ततिति अनेन किं प्रतिनिर्दिश्यते । वाकेव । यतेव वाचा व्यवहिर्यते तत्कर्मणा क्रियते । (कात्यायन वार्तिक)अण्प्रकरणे कुलालवरुडनिषादचण्डालामित्रेभ्यः छन्दसि(वार्तिकान्त) । अण्प्रकरणे कुलालवरुडनिषादचण्डालामित्रेभ्यः छन्दसि उपसङ्ख्यानं कर्तव्यं । कौलालः । वाऋउडः । नैषादः । चाण्डालः । आमित्रः । (कात्यायन वार्तिक)भागरूपनामभ्यः धेयः(वार्तिकान्त) । भागरूपनामभ्यः धेयः वक्तव्यः । भागधेयं । रूपधेयं । नामधेयं । (कात्यायन वार्तिक)मित्रात्छन्दसि(वार्तिकान्त) । मित्रात्छन्दसि धेयः वक्तव्यः । मित्रधेये यतस्व । (कात्यायन वार्तिक)अणमित्रात्च(वार्तिकान्त) । अणमित्रात्च इति वक्तव्यं । मैत्रः । आमित्रः । सान्नाय्यानुजावरानुषूकचातुष्प्राश्यराक्षोघ्नवैयातवैकृतवारिवस्कृताग्रायणाग्रहायणसान्तपनानि निपात्न्यन्ते । सान्नाय्यं । आनुजावरः । आनुषूकः । चातुष्प्राश्यः । राक्षोघ्नः । वैयातः । वैकृतः । वारिवस्कृतः । आग्रायणः । आग्रहायणः । सान्तपनः । (कात्यायन वार्तिक)अग्नीध्रसाधारणातञ्(वार्तिकान्त) । अग्नीध्रसाधारणातञ्वक्तव्यः । आग्नीध्रं । साधारणं । (कात्यायन वार्तिक)अयवसमरुद्भ्यां छन्दसि(वार्तिकान्त) । अयवसमरुद्भ्यां छन्दसि अञ्वक्तव्यः । आयवसे वर्धन्ते । मारुतं शर्धः । (कात्यायन वार्तिक)नवसूरमर्तयविष्ठेभ्यः यत्(वार्तिकान्त) । नवसूरमर्तयविष्ठेभ्यः यत्वक्तव्यः । नव्यः । सूर्यः । मर्त्यः । यविष्थ्यः । (कात्यायन वार्तिक)क्षेमात्यः(वार्तिकान्त) । क्षेमात्यः वक्तव्यः । क्षेम्यः तिष्ठन्प्रतरणः सुवीरः ।
(पाणिनीयसूत्र ५,४।४२) कि.।४३६।६-९ रो. ईV।२६०-२६१ (कात्यायन वार्तिक)बह्वल्पार्थात्मङ्गलवचनम्(वार्तिकान्त) [ऱः (कात्यायन वार्तिक)मङ्गलामङ्गलवचनम्] (वार्तिकान्त)। बह्वल्पार्थात्मङ्गलवचनं [मङ्गलामङ्गलवचनं ] कर्तव्यं । बहुशः देहि । अनिष्टेषु श्राद्धादिषु मा भूत। इष्टेषु प्राशित्रादिषु यथा स्यात। अल्पशः देहि । इष्टेषु प्राशित्रादिषु मा भूत। अनिष्टेषु श्राद्धादिषु यथा स्यात।
(पाणिनीयसूत्र ५,४।४४) कि.।४३६।११-१२ रो. ईV। २६१ (कात्यायन वार्तिक)तसिप्रकरणे आद्यादिभ्यः उपसङ्ख्यानम्(वार्तिकान्त) । तसिप्रकरणे आद्यादिभ्यः उपसङ्ख्यानं कर्तव्यं । आदितः । मध्यतः । अन्ततः ।
(पाणिनीयसूत्र ५,४।५०) कि.।४३६।१४-४३७।३ रो. ईV।२६१-२६२ (कात्यायन वार्तिक)च्विविधौ अभूततद्भावग्रहणम्(वार्तिकान्त) । च्विविधौ अभूततद्भावग्रहणं कर्तव्यं । इह मा भूत। सम्पद्यन्ते यवाः । सम्पद्यन्ते शालयः इति । अथ क्रियमाणे अपि वा अभूततद्भावग्रहणे इह कस्मात्न भवति । सम्पद्यन्ते अस्मिन्क्षेत्र शालयः इति । (कात्यायन वार्तिक)प्रकृतिविवक्षाग्रहणं च(वार्तिकान्त) । प्रकृतिविवक्षाग्रहणं च कर्तव्यं । (कात्यायन वार्तिक)समीपादिभ्यः उपसङ्ख्यानम्(वार्तिकान्त) । समीपादिभ्यः उपसङ्ख्यानं कर्तव्यं । समीपी भवति । अभ्याशी भवति । अन्तिकी भवति । किं पुनः कारणं न सिध्यति । न हि असमीपं समीपं भवति । किं तर्हि । असमीपस्थं समीपस्थं भवति । तत्तर्हि वक्तव्यं । न वक्तव्यं । तात्स्थ्यात्ताच्छब्द्यं भविष्यति ।
(पाणिनीयसूत्र ५,४।५७) कि.।४३७।५-१२ रो. ईV।२६२-२६३ किमर्थः चकारः । स्वरार्थः । चितः अन्तः उदात्ततः भवति इति उदात्तत्वं यथा स्यात। न एततस्ति प्रयोजनं । एकाचयं । तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन । प्रत्ययस्वरेण एव सिद्धं । अतः उत्तरं पठति । (कात्यायन वार्तिक)डाचि चित्करणं विशेषणार्थम्(वार्तिकान्त) । डाचि चित्करणं क्रियते विशेषणार्थं । क्व विशेषणाऋथेन अर्थः । लोहितादिडाज्भ्यः क्यषिति । डा इति हि उच्यमाने इडा अतः अपि प्रसज्येत । अर्थवद्ग्रहणे न अनर्थकस्य इति एवं एतस्य न भविष्यति । इह तर्हि प्राप्नोति । नाभा पृथिव्याः निहितः दविद्युतत। तस्मात्चकारः कर्तव्यः ।
(पाणिनीयसूत्र ५,४।६७) कि.।४३७।१४ रो. ईV।२६३ भद्रात्च इति वक्तव्यं । भद्रा करोति ।
(पाणिनीयसूत्र ५,४।६८) कि.।४३७।१६-४३८।२१ रो. ईV।२६३-२६५ अन्तग्रहणं किमर्थं । अन्तः यथा स्यात। न एअततस्ति प्रयोजनं । प्रत्यय्परत्वेन अपि एतत्सिद्धं । इदं तर्हि प्रयोजनं । तद्ग्रहणेन ग्रहणं यथा स्यात। कानि पुनः तद्ग्रहणस्य प्रयोजनानि । (कात्यायन वार्तिक)प्रयोजनं अव्ययीभावद्विगुद्वन्द्वतत्पुरुषबहुव्रीहिसञ्ज्ञाः(वार्तिकान्त) । अव्ययीभावः प्रयोजनं । प्रतिराजं । उपराजं । अव्ययीभावः च समासः नपुंसकलिङ्गः भवति इति नपुंसकलिङ्गता यथा स्यात। न एततस्ति प्रयोजनं । लिङ्गं अशिष्यं लोकाश्रयत्वात्लिङ्गस्य । इदं तर्हि प्रयोजनं । न अव्ययीभावाततः अं तु अपञ्चम्याः इति एषः विधिः यथा स्यात। अव्ययीभाव । द्विगु । द्विगुसञ्ज्ञा च प्रयोजनं । पञ्चगवं । दशगवं । द्विगुः च समासः नपुंसकलिङ्गः भवति इति नपुंसकलिङ्गता यथा स्यात। न एततस्ति प्रयोजनं । लिङ्गं अशिष्यं लोकाश्रयत्वात्लिङ्गस्य । इदं तर्हि प्रयोजनं । द्विपुरी । त्रिपुरी । द्विगोः अकारान्तातिति ईकारः यथा स्यात। एततपि न अस्ति प्रयोजनं । पुरशब्दः अयं अकारान्तः । तेन समासः भविष्यति । आतः च अकारान्तः इति आह । क्षेमे सुभिक्षे कृतसञ्चयानि पुराणि विनयन्ति कोपं इति । इदं तर्हि प्रयोजनं । द्विधुरी त्रिधुरी । द्विगोः अकारान्तातिति ङीप्यथा स्यात। द्विगु । द्वन्द्व । द्वन्द्वसञ्ज्ञा च प्रयोजनं । वाक्त्वचं । स्रक्त्वचं । द्वन्द्वः च समासः नपुंसकलिङ्गः भवति इति नपुंसकलिङ्गता यथा स्यात। न एततस्ति प्रयोजनं । लिङ्गं अशिष्यं लोकाश्रयत्वात्लिङ्गस्य । इदं तर्हि प्रयोजनं । इदं तर्हि प्रयोजनं । कोशः च निषत्च कोशनिषदं । कोशनिषदिनी । द्वन्द्वोपतापगर्ह्यात्प्राणिस्थातिनिः इति इनिः यथा स्यात। द्वन्द्व । तत्पुरुष । तत्पुरुषसञ्ज्ञा च प्रयोजनं । परमधुरा उत्तमधुरा । परवत्लिङ्गं द्वन्द्वतत्पुरुषयोः इति परवल्लिङ्गता यथा स्यात। न एततस्ति प्रय्जोनं । उत्तरपदार्थप्रधानः तत्पुरुषः । इदं तर्हि प्रयोजनं । अर्धधुरा । एततपि न अस्ति प्रयोजनं । लिङ्गं अशिष्यं लोकाश्रयत्वात्लिङ्गस्य । इदं तर्हि प्रयोजनं । इदं तर्हि । निर्धुरः । अव्ययं तत्पुरुषे प्रकृतिस्वरं भवति इति एषः स्वरः यथा स्यात। तत्पुरुष । बहुव्रीहि । बहुव्रीहिसञ्ज्ञा च प्रयोजनं । उच्चधुरः । नीचधुरः । बहुव्रीहौ प्रकृत्या पूर्वपदं भवति इति एषः स्वरः यथा स्यात।
(पाणिनीयसूत्र ५,४।६९।१) कि.।४३८।२३-२६ रो. ईV।२६५ इदं विप्रतिषिद्धं । कः प्रतिषेधः । परिगणिताभ्यः प्रकृतिभ्यः समासान्तः विधीयते न च तत्र का चित्पूजनान्ता प्रकृतिः निर्दिश्यते । न एतत्विप्रतिषिद्धं । न एवं विज्ञायते । याभ्यः प्रकृतिभ्यः समासान्तः विधीयते न चेत्ताः पूजनान्ताः भवन्ति इति । कथं तर्हि । न चेत्ताः पूजनात्पराः भवन्ति इति ।
(पाणिनीयसूत्र ५,४।६९।२) कि.।४३९।१-५ रो. ईV।२६५ (कात्यायन वार्तिक)पूजायां स्वतिग्रहणम्(वार्तिकान्त) । पूजायां स्वतिग्रहणं कर्तव्यं । सुराजा । अतिराजा । क्व मा भूत। परमगवः । उत्तमगवः । (कात्यायन वार्तिक)प्राग्बहुव्रीहिग्रहणं च(वार्तिकान्त) । प्राग्बहुव्रीहिग्रहणं च कर्तव्यं । इह मा भूत। स्वक्षः । अत्यक्षः इति ।
(पाणिनीयसूत्र ५,४।७०) कि.।४३९।७-८ रो. ईV।२६६ क्षेपे इति किमर्थं । कस्य राजा किंराजा । क्षेपे इति शक्यं अकर्तुं । कस्मात्न भवति कस्य राजा किंराजा इति । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।
(पाणिनीयसूत्र ५,४।७३) कि.।४३९।१०-१७ रो. ईV।२६६ (कात्यायन वार्तिक)डच्प्रकरणे सङ्ख्यायाः तत्पुरुषस्य उपसङ्ख्यानं निस्त्रिंशाद्यर्थम्(वार्तिकान्त) । डच्प्रकरणे सङ्ख्यायाः तत्पुरुषस्य उपसङ्ख्यानं कर्तव्यं । किं प्रयोजनं । निस्त्रिंशाद्यर्थं । निस्त्रिंशानि वर्षाणि । निश्चत्वारिंशानि वर्षाणि । (कात्यायन वार्तिक)अन्यत्र अधिकलोपात्(वार्तिकान्त) । अन्यत्र अधिकलोपातिति वक्तव्यं । इह मा भूत। एकाधिका विंशतिः एकविंशतिः । द्व्यधिका विंशतिः द्वाविंशतिः । अव्ययादेः इति वक्तव्यं । इह मा भूत। गोत्रिंशत। गोचत्वारिंशतिति । तत्तर्हि वक्तव्यं । यदि अपि एततुच्यते अथ वा एतर्हि अन्यत्र अधिकलोपातिति एतत्न क्रियते ।
(पाणिनीयसूत्र ५,४।७४) कि.।४३९।१९-४४०।५ रो. ईV।२६६-२६७ अनक्षे इति कथं इदं विज्ञायते । न चेतक्षधूरन्तः समासः इति आहोस्वित्न चेतक्षः समासार्थः इति । किं च अतः । यदि विज्ञायते न चेतक्षधूरन्तः समासः इति सिद्धं अक्षस्य धूः अक्षधूः इति । इदं तु न सिध्यति । दृढधूः अयं अक्षः । अस्तु तर्हि न चेतक्षः समासार्थः इति । सिद्धं दृढधूः अक्षः इति । इदं तु न सिध्यति । अक्षस्य धूः अक्षधूः इति । एवं तर्हि न एवं विज्ञायते न चेतक्षधूरन्तः समासः इति न अपि न चेतक्षः समासार्थः इति । कथं तर्हि । न चेतक्षस्य धूः इति । एवं च कृत्वा न अपि न चेतक्षधूरन्तः समासः इति विज्ञायते न अपि न चेतक्षः समासार्थः इति । अथ च उभयोः न भवति ।
(पाणिनीयसूत्र ५,४।७६) कि.।४४०।७-८ रो. ईV।२६७ अदर्शनातिति उच्यते । तत्र इदं न सिध्यति । कवराक्षं । अदर्शनातिति शक्यं अकर्तुं । कथं ब्राह्मणक्षि क्षत्रियाक्षि । अप्राण्यङ्गातिति वक्तव्यं ।
(पाणिनीयसूत्र ५,४।७७) कि.।४४०।१३-२३ रो. ईV।२६८ आद्याः त्रयः बहुव्रीहयः । अद्रष्टा चतुर्णां अचतुरः । विद्रष्टा चतुर्णां विचतुरः । सुद्रष्टा चतुर्णां सुचतुरः । ततः परे एकादश द्वन्द्वाः । स्त्रीपुंस धेन्वनडुह ऋक्साम वाङ्मनस अक्षिभ्रुव दारगव ऊर्वष्ठीव पदष्ठीव नक्तन्दिव रात्रिन्दिव अहर्दिव । ततः अव्ययीभावः । सह रजसा सरजसं । ततः तत्पुरुषः । निश्रितं श्रेयः निःश्रेयसं । ततः षष्ठीसमासः । पुरुषस्य आयुः पुरुषायुषं । ततः द्विगू । द्वे आयुषी द्व्यायुषं । त्रीणि आयूंषि त्र्यायुषं । ततः द्वन्द्वः । ऋक्च यजुः च र्ग्यजुषं । जातादयः उक्षान्ताः समानाधिकरणाः । जातः उक्षा जातोक्षः । महानुक्षा महोक्षः । वृद्धः उक्षा वृद्धोक्षः । ततः अव्ययीभावः । शुनः समीपं उपशुनं । ततः सप्तमीसमासः गोष्ठे श्वा गोष्ठश्वः । (कात्यायन वार्तिक)चतुरः अच्प्रकरणे त्र्युपाभ्यां उपसङ्ख्यानम्(वार्तिकान्त) । चतुरः अच्प्रकरणे त्र्युपाभ्यां उपसङ्ख्यानं कर्तव्यं । त्रिचतुराः । उपचतुराः ।
(पाणिनीयसूत्र ५,४।७८) कि.।४४१।२ रो. ईV।२६८ पल्यराजभ्यां च इति वक्तव्यं । पल्यवर्चसं । राजवर्चसं ।
(पाणिनीयसूत्र ५,४।८७) कि.।४४१।४-६ रो. ईV।२६८ (कात्यायन वार्तिक)अहर्ग्रहणं द्वन्द्वार्थम्(वार्तिकान्त) । अहर्ग्रहणं द्वन्द्वार्थं द्रष्टव्यं । किं उच्यते द्वन्द्वार्थं इति न पुनः तत्पुरुषार्थं अपि स्यात। तत्पुरुषाभावात। न हि रात्र्यन्तः अहरादिः तत्पुरुषः अस्ति ।
(पाणिनीयसूत्र ५,४।८८) कि.।४४१।८-१० रो. ईV।२६९ (कात्यायन वार्तिक)अह्नः अह्नवचनानर्थक्यं च अह्नः टखोः नियमवचनात्(वार्तिकान्त) । अह्नः अह्नवचनं अनर्थकं । किं कारणं । अह्नः टखोः नियमवचनात। अह्नः टखोः एव इति एतत्नियमार्थं भविष्यति ।
(पाणिनीयसूत्र ५,४।१०३) कि.।४४१।१२-१३ रो. ईV।२६८ अनसन्तात्नपुंसकात्छन्दसि वा इति वक्तव्यं । ब्रह्मसामं । ब्रह्मसाम । देवच्छन्दसं । देवच्छन्दः ।
(पाणिनीयसूत्र ५,४।११३) कि.।४४१।१५-४४२।३ रो. ईV।२६९-२७० किमर्थं षच्प्रत्ययान्तरं विधीयते न टच्प्रकृतः सः अनुवर्तिष्यते । अतः उत्तरं पठति । (कात्यायन वार्तिक)षचि प्रत्ययान्तरकरणं अनन्तोदात्तार्थम्(वार्तिकान्त) । षचि प्रत्ययान्तरं क्रियते । किं प्रयोजनं । अनन्तोदात्तार्थं । अनन्तोदात्ताः प्रयोजयन्ति । चक्रसक्थं । चक्रसक्थी ।
(पाणिनीयसूत्र ५,४।११५) कि.।४४२।५-७ रो. ईV।२७० किमर्थं मूर्ध्नः ष प्रत्ययान्तरं विधीयते न षच्प्रकृतः सः अनुवर्तिष्यते । (कात्यायन वार्तिक)मूर्ध्नः च षवचनम्(वार्तिकान्त) । किं । अनन्तोदात्तार्थं इति एव । द्विमूर्धः । त्रिमूर्धः ।
(पाणिनीयसूत्र ५,४।११६) कि.।४४२।९-२० रो. ईV।२७१ (कात्यायन वार्तिक)अपि प्रधानपूरणीग्रहणम्(वार्तिकान्त) । अपि प्रधानपूरणीग्रहणं कर्तव्यं । प्रधानं या पूरणी इति वक्तव्यं । इह मा भूत। कल्याणी पञ्चमी अस्य पक्षस्य कल्याणपञ्चमीकः पक्षः । अथ इह कथं भवितव्यं । कल्याणी पञ्चमी असां रात्रीणां इति । कल्याणीपञ्चमाः रात्रयः इति भवितव्यं । रत्रयः अत्र प्रधानं । (कात्यायन वार्तिक)नेतुः नक्षत्रे उपसङ्ख्यानम्(वार्तिकान्त) । नेतुः नक्षत्रे उपसङ्ख्यानं कर्तव्यं । पुष्यनेत्राः । मृगनेत्राः । (कात्यायन वार्तिक)छन्दसि च(वार्तिकान्त) । छन्दसि च नेतुः उपसङ्ख्यानं कर्तव्यं । बृहस्पतिनेत्राः । सोमनेत्राः । (कात्यायन वार्तिक)मासात्भृतिप्रत्ययपूर्वपदात्ठज्विधिः(वार्तिकान्त) । मासात्भृतिप्रत्ययपूर्वपदात्ठच्विधेयः । पञ्चकमासिकः । षट्कमासिकः । दशकमासिकः ।
(पाणिनीयसूत्र ५,४।११८) कि.।४४३।२-३ रो. ईV।२७२ खरखुराभ्यां च नस्वक्तव्यः । खरणाः । खुरणाः । शितिनाः अर्चनाः अहिनाः इति नैगमाः । शितिनाः अर्चनाः अहिनाः ।
(पाणिनीयसूत्र ५,४।११९) कि.।४४३।५ रो. ईV।२७२ वेः ग्रः वक्तव्यः । विग्रः ।
(पाणिनीयसूत्र ५,४।१३१) कि.।४४३।७-८ रो. ईV।२७२ (कात्यायन वार्तिक)ऊधसः अनङि स्त्रीग्रहणम्(वार्तिकान्त) । ऊधसः अनङि स्त्रीग्रहणं कर्तव्यं इह मा भूत। महोधाः पर्जन्यः इति ।
(पाणिनीयसूत्र ५,४।१३५) कि.।४४३।१०-१३ रो. ईV।२७२-२७३ (कात्यायन वार्तिक)गन्धस्य इत्त्वे तदेकान्तग्रहणम्(वार्तिकान्त) । गन्धस्य इत्त्वे तदेकान्तग्रहणं कर्तव्यं इह मा भूत। शोभनाः गन्धाः अस्य सुगन्धः आपणिकः इति । अथ अनुलिप्ते कथं भवितव्यं । यदि तावत्यतनुगतं ततभिसमीक्षितं सुगन्धिः इति भवितव्यं । अथ यत्प्रविशीर्णं सुगन्धः इति भवितव्यं ।
(पाणिनीयसूत्र ५,४।१५४) कि.।४४३।१४-४४४।११ रो. ईV।२७३-२७५ शेषातिति उच्यते । कः शेषः नाम । याभ्यः प्रकृतिभ्यः समासान्तः नि विधीयते सः शेषः । किमर्थं पुनः शेषग्रहणं क्रियते । याभ्यः प्रकृतिभ्यः समासान्तः विधीयते ताभ्यः मा भूतिति । न एततस्ति प्रयोजनं । ये प्रतिपदं विधीयन्ते ते तत्र बाधकाः भविष्यन्ति । अनवकाशाः हि विधयः बाधकाः भवन्ति सावकाशाः च समासान्ताः । कः अवकाशः । विभाषा कप। यदा न कप्सः अवकाशः । कपः प्रसङ्गे उभयं प्राप्नोति । परत्वात्कप्प्राप्नोति । तस्मात्शेषग्रहणं कर्तव्यं । किं पुनः इदं शेषग्रहणं कबपेक्षं यस्मात्बहुव्रीहेः कपिति आहोस्वित्समासान्तापेक्षं यस्मात्बहुव्रीहेः समासान्तः न विहितः इति । किं च अतः । यदि विज्ञायते कबपेक्षं अनृचः बह्वृचः इति अत्र अपि प्राप्नोति । अथ समासान्तापेक्षं अनृक्कं बह्वृक्कं सूक्तं इति न सिध्यति । अस्तु कबपेक्षं । कथं अनृचः बह्वृचः इति । विशेषे एतत्वक्तव्यं । अनृचः माणवे बह्वृचः चरणशाखायां इति । इदं तर्हि ऊधसः अनङि स्त्रीग्रहणं चोदितं । तस्मिन्क्रियमाणे अपि प्राप्नोति । एवं तर्हि न एव कबपेक्षं शेषग्रहणं न अपि समासान्तापेक्षं । किं तर्हि अनन्तरः यः बहुव्रीह्यधिकारः सः अपेक्ष्यते । अनन्तरे बहुव्रीह्यधिकारे यस्मात्बहुव्रीहेः समासान्तः न विहितः इति । कथं अनृचः बह्वृचः इति । वक्तव्यं एव अनृचः माणवे बह्वृचः चरणशाखायां इति ।
(पाणिनीयसूत्र ५,४।१५६) कि.।४४४।१३-१७ रो. ईV।२७५-२७६ (कात्यायन वार्तिक)ईयसः उपसर्जनदीर्घत्वं च(वार्तिकान्त) । ईयसः उपसर्जनदीर्घत्वं च वक्तव्यं । बह्व्यः श्रेयस्यः अस्य बहुश्रेयसी । विद्यमानश्रेयसी । (कात्यायन वार्तिक)पुंवद्वचनात्सिद्धम्(वार्तिकान्त) । पुंवद्भावः अत्र भवति ईयसः बहुव्रीहौ पुंवद्वचनं इति ।
.
अध्याय ६
(पाणिनीयसूत्र ६,१।१।१) कि.।१।१-३।२३ रो. ईV।२७९-२८७ एकाचः इति किं अयं बहुव्रीहिः । एकः अचस्मिन्सः एकाच। एकाचः इति । आहोस्वित्तत्पुरुषः अयं समानाधिकरणः । एकः अचेकाच। एकाचः । किं च अतः । यदि बहुव्रीहिः सिद्धं पपाच पपाठ । इयाय । आर इति न सिध्यति । अथ तत्पुरुषः समानाधिकरणः सिद्धं इयाय । आर इति । पपाच पपाठ इति न सिध्यति । अतः उत्तरं पठति । (कात्यायन वार्तिक)एकाचः द्वे प्रथमस्य इति बहुव्रीहिनिर्देशः(वार्तिकान्त) । एकाचः द्वे प्रथमस्य इति बहुव्रीहिनिर्देशः अयं । एकवर्णेषु कथं । (कात्यायन वार्तिक)एकवर्णेषु व्यपदेशिवद्वचनात्(वार्तिकान्त) । व्यपदेशिवतेकस्मिन्कार्यं भवति इति वक्तव्यं । एवं एकवर्णेषु द्विर्वचनं भविष्यति । एकाचः द्वे भवतः इति उच्यते । तत्र न ज्ञायते कस्य एकाचः द्वे भवतः इति । वक्ष्यति लिटि धातोः अनभ्यासस्य इति । तेन धातोः एकाचः इति विज्ञायते । यदि धातोः एकाचः सिद्धं पपाच पपाठ । जजागार पुपुत्रीयिषति इति न सिध्यति । धातोः इति न एषा एकाच्समानाधिकरणा षष्ठी । धातोः एकाचः इति । किं तर्हि अवयवयोगा एषा षष्ठी । धातोः यः एकाचवयवः इति । अवयवयोगा एषा षष्ठी इति चेत्सिद्धं जजागार पुपुत्रीयिषति इति । पपाच पपाठ इति न सिध्यति । एषः अपि व्यपदेशिवद्भावेन धातोः एकाचवयवः भवति । एकाचः द्वे प्रथमस्य इति उच्यते । तेन यत्र एव प्रथमः च अप्रथमः च तत्र द्विर्वचनं स्यात। जजागार पुपुत्रीयिषति इति । पपाच पपाठ इति अत्र न स्यात। (कात्यायन वार्तिक)प्रथमत्वे च(वार्तिकान्त) । प्रथमत्वे च किं । व्यपदेशिवद्वचनात्सिद्धं इति एव । सः तर्हि व्यपदेशिवद्भावः वक्तव्यः । न वक्तव्यः । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । तत्र व्यपदेशिवद्वचनं । एकाचः द्वे प्रथमार्थं । षत्वे च आदेशसम्प्रत्ययार्थं । अवचनात्लोकविज्ञानात्सिद्धं इति एव । (कात्यायन वार्तिक)योगविभागः वा(वार्तिकान्त) । अथ वा योगविभागः करिष्यते । एकाचः द्वे भवतः । किमर्थः योगविभागः । (कात्यायन वार्तिक)एकाज्मात्रस्य द्विर्वचनार्थः(वार्तिकान्त) । एकाज्मात्रय्त द्विर्वचनं यथा स्यात। इयाय पपाच । ततः प्रथमस्य । प्रथमस्य एकाचः द्वे भवतः । इदं इदानीं किमर्थं । नियमाऋथं । यत्र प्रथमः च अप्रथमः च अस्ति तत्र प्रथमस्य एकाचः द्विर्वचनं यथा स्यात। अप्रथमस्य मा भूत। जजागार पुपुत्रीयिषति इति । (कात्यायन वार्तिक)एकाचः अवयवैकाच्त्वातवयवानां द्विर्वचनप्रसङ्गः(वार्तिकान्त) । एकाचः अवयवैकाच्त्वातवयवानां द्विर्वचनं प्राप्नोति । नेनिजति इति अत्र निज्शब्दः अपि एकाचिज्शब्दः अपि एकाचिकारः अपि एकाच्निशब्दः अपि । तत्र निज्शब्दस्य द्विर्वचने रूपं सिद्धं दोषाः च न सन्ति । इज्शब्दस्य द्विर्वचने रूपं न सिध्यति दोषाः च न सन्ति । इकारस्य द्विर्वचने रूपं न सिधति दोषाः च न सन्ति । निशब्दस्य द्विर्वचने रूपं सिद्धं दोषाः तु सन्ति । तत्र कः दोषः । (कात्यायन वार्तिक)तत्र जुस्भाववचनम्(वार्तिकान्त) । तत्र जुस्भावः वक्तव्यः । अनेनिजुः । पर्यवेविषुः । अभ्यस्तात्झेः जुस्भावः भवति इति जुस्भावः न प्राप्नोति जकारेणव्यवधानात। (कात्यायन वार्तिक)स्वरः च(वार्तिकान्त) । स्वरः च न सिध्यति । नेनिजति । यत्परिवेविषति इति । अभ्यस्तानां आदिः उदात्तः भवति अजादौ लसार्वधातुके इति एषः स्वरः न प्राप्नोति । (कात्यायन वार्तिक)अद्भावः च(वार्तिकान्त) । अद्भावः च न सिध्यति । नेनिजति । परिवेविषति इति । अभ्यस्तातिति अद्भावः न प्राप्नोति । (कात्यायन वार्तिक)नुम्प्रतिषेधः च(वार्तिकान्त) । नुम्प्रतिषेधः च न सिध्यति । नेनिजत। परिवेविषत। न अभ्यास्तात्शतुः इत्नुम्प्रतिषेधः न प्राप्नोति जकारेणव्यवधानात। (कात्यायन वार्तिक)शास्त्रहानिः च(वार्तिकान्त) । शास्त्रहानिः च भवति । समुदायैकाचः शास्त्रं हीयते । (कात्यायन वार्तिक)सिद्धं तु तत्समुदायैकाच्त्वात्शास्त्राहानेः(वार्तिकान्त) । सिद्धं एतत। कथं । तत्समुदायैकाच्त्वात। किं इदं तत्समुदायैकाच्त्वातिति । तस्य समुदायः तत्समुदायः । एकाज्भावः एकाच्त्वं । तत्समुदायस्य एकाच्त्वं तत्समुदायैकाच्त्वं । तत्समुदायैकाच्त्वात। तत्समुदायैकाचः द्विर्वचनं भविष्यति । कुतः । शास्त्राहानेः । एवं हि शास्त्रं अहीनं भवति । ननु च समुदायैकाचः द्विर्वचने क्रियमाणे अपि अवयवैकाचः शास्त्रं हीयते । न हीयते । किं कारणं । अवयवात्मकत्वात्समुदायस्य । अवयवात्मकः समुदायः । अभ्यन्तरः हि समुदाये अवयवः । तत्यथा वृक्षः प्रचलन्सहावयवैः प्रचलति । (कात्यायन वार्तिक)तत्र बहुव्रीहिनिर्देशे अनच्कस्य द्विर्वचनं अन्यपदार्थत्वात्(वार्तिकान्त) । तत्र बहुव्रीहिनिर्देशे अनच्कस्य द्विर्वचनं प्राप्नोति । आटतुः । आटुः । किं कारणं । अन्यपदार्थत्वात्बहुव्रीहेः । अन्यपदार्थे बहुव्रीहिः वर्तते । तेन यतन्यतचः तस्य द्विर्वचनं स्यात। तत्यथा चित्रगुः आनीयतां इति उक्ते यस्य ताः गावः सन्ति सः आनीयते न गावः । (कात्यायन वार्तिक)सिद्धं तु तद्गुणसंविज्ञानात्पाणिनेः यथा लोके(वार्तिकान्त) । सिद्धं एतत। कथं । तद्गुणसंविज्ञानात्भगवतः पाणिनेः आचार्यस्य यथा लोके । लोके शुक्लवाससं आनय । लोहितोष्णीषाः प्रचरन्ति इति । तद्गुणः आनीयते तद्गुणाः च प्रचरन्ति । एवं इह अपि ।
(पाणिनीयसूत्र ६,१।१।२) कि.।३।२४-५।१९ रो. ईV।२८७-२९३ अथ यस्य द्विर्वचनं आरभ्यते किं तस्य स्थाने भवति आहोस्वित्द्विःप्रयोगः इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)स्थाने द्विर्वचने णिलोपवचनं समुदायादेशत्वात्(वार्तिकान्त) । स्थाने द्विर्वचने णिलोपः वक्तव्यः । आटिटत। आशिशत। किं कारणं । समुदायादेशत्वात। समुदायस्य समुदायः आदेशः । तत्र सम्प्रमुग्धत्वात्प्रकृतिप्रत्ययसमुदायस्य नष्टः णिः भवति इति णेः अनिटि इति णिलोपः न प्राप्नोति । इदं इह सम्प्रधार्यं । द्विर्वचनं क्रियतां णिलोपः इति किं अत्र कर्तव्यं । परत्वात्णिलोपः । नित्यं द्विर्वचनं । कृते अपि णिलोपे प्राप्नोति अकृते अपि । द्विर्वचनं अपि नित्यं । अन्यस्य कृते णिलोपे प्राप्नोति अन्यस्य अकृते । शब्दान्तरस्य च प्राप्नुवन्विधिः अनित्यः भवति । नित्यं एव द्विर्वचनं । कथं । रूपस्य स्थानिवत्वात। (कात्यायन वार्तिक)यत्च सन्यङन्तस्य द्विर्वचने(वार्तिकान्त) । यत्च सन्यङन्तस्य द्विर्वचने चोद्यं ततिह अपि चोद्यं । किं पुनः तत। सन्यङन्तस्य चेतशेः सनि अनिटः । दीर्घकुत्वप्रसारणषत्वं अधिकस्य द्विर्वचनात। आबृध्योः च अभ्यस्तविप्रतिषेधः । सङाश्रये च समुदायस्य समुदायादेशत्वात्झलाश्रये च अव्यपदेशः आमिश्रत्वातिति । अस्तु तर्हि द्विःप्रयोगः द्विर्वचनं । (कात्यायन वार्तिक)द्विःप्रयोगः इति चेत्णकारषकारादेशादेः एत्त्ववचनं लिटि(वार्तिकान्त) । द्विःप्रयोगः इति चेत्णकारषकारादेशादेः एत्त्वं लिटि वक्तव्यं । नेमतुः । नेमुः । सेहे । सेहाते । सहिरे । अनादेशादेः इति प्रतिषेधः प्राप्नोति । स्थाने पुनः द्विर्वचने सति समुदायस्य समुदायः आदेशः । तत्र सम्प्रमुग्धत्वात्प्रकृतिप्रत्ययस्य नष्टः सः आदेशादिः भवति । द्विःप्रयोगे अपि द्विर्वचने सति न दोषः । वक्ष्यति तत्र लिड्ग्रहणस्य प्रयोजनं । लिटि यः आदेशादिः तदादेः न इति । (कात्यायन वार्तिक)इड्वचनं च यङ्लोपे(वार्तिकान्त) । इट्च यङ्लोपे वक्तव्यः । बेभिदिता । बेभिदितुं । एकाचः उपदेशे अनुदात्तातिति इट्प्रतिषेधः प्राप्नोति । स्थाने पुनः द्विर्वचने सति समुदायस्य समुदायः आदेशः । तत्र सम्प्रमुग्धत्वात्प्रकृतिप्रत्ययस्य नष्टः सः भवति यः एकाचुपदेशे अनुदात्तः । द्विःप्रयोगे अपि द्विर्वचने सति न दोषः । एकाज्ग्रहणेन अङ्गं विशेषयिष्यामः । एकाचः अङ्गातिति । ननु च एकैकं अत्र अङ्गं । समुदाये या वाक्यपरिसमाप्तिः तस्य अङ्गसञ्ज्ञा भविष्यति । कुतः एतत। शास्त्राहानेः । एवं हि शास्त्रं अहीनं भवति ।(कात्यायन वार्तिक) इड्दीर्घप्रतिषेधः च(वार्तिकान्त) । इटः दीर्घत्वस्य च प्रतिषेधः वक्तव्यः । जरीगृहिता । जरीगृहितुं । ग्रहः अलिटि दीर्घः इति दीर्घत्वं प्राप्नोति । स्थाने पुनः द्विर्वचने समुदायस्य समुदायः आदेशः । तत्र सम्प्रमुग्धत्वात्प्रकृतिप्रत्ययस्य नष्टः ग्रहिः । द्विःप्रयोगे अपि द्विर्वचने न दोषः । ग्रहिणा अङ्गं विशेषयिष्यामः । ग्रहेः अङ्गातिति । ननु च एकैकं अत्र अङ्गं । समुदाये या वाक्यपरिसमाप्तिः तस्य अङ्गसञ्ज्ञा भविष्यति । कुतः एतत। शास्त्राहानेः । एवं हि शास्त्रं अहीनं भवति ।(कात्यायन वार्तिक) पदादिविधिप्रतिषेधः च(वार्तिकान्त) । पदादिलक्षण विधेः प्रतिषेधः वक्तव्यः । सिषेच । सुष्वाप । सात्पदाद्योः इति षत्वप्रतिषेधः प्राप्नोति । स्थाने पुनः द्विर्वचने सति समुदायस्य समुदायः आदेशः । तत्र सम्प्रमुग्धत्वात्प्रकृतिप्रत्ययस्य नष्टः सः पदादिः भवति । द्विःप्रयोगे च अपि द्विर्वचने न दोषः । सुप्तिङ्भ्यां पदं विशेषयिष्यामः । यस्मात्सुप्तिङ्विधिः तदादि सुबन्तं तिङन्तं च । ननु च एकैकस्मात्[अपि अत्र (ऱ्)] सुप्तिङ्विधिः । समुदाये या वाक्यपरिसमाप्तिः तया पदसञ्ज्ञा भविष्यति । कुतः एतत। शास्त्राहानेः । एवं हि शास्त्रं अहीनं भवति । (कात्यायन वार्तिक)तौ एव सुप्तिङौ ततः परौ सा एव च प्रकृतिः आद्या । आदिग्रहणं प्रकृतं । समुदायपदत्वं एतेन (वार्तिकान्त)।
(पाणिनीयसूत्र ६,१।२।१) कि.।५।२१-२४ रो. ईV।२९४ (कात्यायन वार्तिक)द्वितीयस्य इति अवचनं अजादेः इति कर्मधारयात्पञ्चमी(वार्तिकान्त) । द्वितीयस्य इति शक्यं अवक्तुं । कथं । अजादेः इति न एषा बहुव्रीहेः षष्ठी । अचादिः यस्य सः अयं अजादिः । अजादेः । किं तर्हि कर्मधारयात्पञ्चमी । अचादिः अजादिः । अजादेः परस्य इति । तत्र अन्तरेण द्वितीयग्रहणं द्वितीयस्य एव भविष्यति ।
(पाणिनीयसूत्र ६,१।२।२) कि.।६।१-८।७ रो. ईV।२९४-३०१ (कात्यायन वार्तिक)द्वितीयद्विर्वचने प्रथमनिवृत्तिः प्राप्तत्वात्(वार्तिकान्त) । द्वितीयद्विर्वचने प्रथमस्य निवृत्तिः वक्तव्या । अटिटिषति । अशिशिषति इति । किं कारणं । प्राप्तत्वात। प्राप्नोति एकाचः द्वे प्रथमस्य इति । ननु च द्वितीयद्विर्वचनं प्रथमद्विर्वचनं बाधिष्यते । कथं अन्यस्य उच्यमानस्य बाधकं स्यात। असति खलु अपि सम्भवे बाधनं भवति अस्ति च सम्भवः यतुभयं स्यात। (कात्यायन वार्तिक)न वा प्रथमविज्ञाने हि द्वितीयाप्राप्तिः अद्वितीयत्वात्(वार्तिकान्त) । न वा वक्तव्यं । किं कारणं । प्रथमविज्ञाने हि सति द्वितीयस्य अप्राप्तिः स्यात। किं कारणं । अद्वितीयत्वात। न हि इदानीं प्रथमद्विर्वचने कृते द्वितीयः द्वितीयः भवति । कः तर्हि । तृतीयः । तत्यथा द्वयोः आसीनयोः तृतीये उपजाते न द्वितीयः द्वितीयः भवति । कः तर्हि । तृतीयः । न हि किं चितुच्यते अकृते द्विर्वचने यः द्वितीयः तस्य भवितव्यं इति । किं तर्हि कृते द्विर्वचने यः द्वितीयः तस्य भविष्यति । अनारम्भसमं एवं स्यात। अटेः प्रथमस्य द्विर्वचनं स्यात। हलादिशेषः । द्वितीयस्य द्विर्वचनं । हलादिशेषः । त्रयाणां अकाराणां पररूपत्वे अटिषति इति एवं रूपं स्यात। न अनारम्भसमं । अटेः प्रथमस्य द्विर्वचनं । हलादिशेषः । इत्त्वं । द्वितीयस्य द्विर्वचनं । हलादिशेषः । इत्त्वं ड्वयोः इकारयोः सवर्णदीर्घत्वं । अभ्यासस्य असवर्णे इति इयङादेशः । इयटिषति इति एतत्रूपं यथा स्यात। ओणेः च उवणिषति इति । न अनिष्टार्था शास्त्रप्रवृत्तिः भवितुं अर्हति । (कात्यायन वार्तिक)यथा वा आदिविकारे अलः अन्त्यविकाराभावः(वार्तिकान्त) । यथा वा आदिविविधौ अलः अन्त्यविधिः न भवति एवं द्वितीयद्विर्वचने प्रथमद्विर्वचनं न भविष्यति । विषमः उपन्यासः । न अप्राप्ते अलः अन्त्यविधौ आदिविधिः आरभ्यते । सः तस्य बाधकः भविष्यति । इदं अपि एवञ्जातीयकं । न अप्राप्ते प्रथमद्विर्वचने द्वितीयद्विर्वचनमारभ्यते । तत्बाधकं भविष्यति । यतपि उच्यते असति खलु अपि सम्भवे बाधनं भवति अस्ति च सम्भवः यतुभयं स्यातिति । न एततस्ति । सति अपि सम्भवे बाधनं भवति । तत्यथा दधि ब्राह्मणेभ्यः दीयतां तक्रं कौण्डिन्याय इति । सति अपि दधिदानस्य सम्भवे तक्रदानं निवर्तकं भवति । एवं इह अपि सति अपि सम्भवे प्रथमद्विर्वचनस्य द्वितीयद्विर्वचनं बाधिष्यते । तत्र पूर्वस्य अचः निवृत्तौ व्यञ्जनस्य अनिवृत्तिः वक्तव्या । अटिटिषति इति । यथा एव अचः निवृत्तिः भवति एवं व्यञ्जनस्य अपि प्राप्नोति । (कात्यायन वार्तिक)तत्र पूर्वस्य अचः निवृत्तौ व्यञ्जनानिवृत्तिः अशासनात्पूर्वस्य(वार्तिकान्त) । तत्र पूर्वस्य अचः निवृत्तौ व्यञ्जनस्य अनिवृत्तिः सिद्धा । कुतः । अशासनात्पूर्वस्य । न इह वयं पूर्वस्य प्रतिषेधं शिष्मः । किं तर्हि द्वितीयस्य द्विर्वचनं आरभामहे । व्यञ्जनानि पुनः नटभार्यवत्भवन्ति । तत्यथा । नटानां स्त्रियः रङ्गं गताः यः यः पृच्छति कस्य यूयं कस्य यूयं इति तं तं तव तव इति आहुः । एवं व्यञ्जनानि यस्य यस्य अचः कार्यं उच्यते तं तं भजन्ते । (कात्यायन वार्तिक)न्द्रादिप्रतिषेधात्च(वार्तिकान्त) । यतयं न न्द्राः संयोगादयः इति प्रतिषेधं शास्ति तत्ज्ञापयति आचार्यः पूर्वनिवृत्तौ व्यञ्जनस्य अनिवृत्तिः इति । (कात्यायन वार्तिक)तत्र द्वितीयाभावे प्रथमाद्विर्वचनं प्रतिषिद्धत्वात्(वार्तिकान्त) । तत्र द्वितीयस्य एकाचः अभावे प्रथमस्य द्विर्वचनं न प्राप्नोति । आटतुः । आटुः । किं कारणं । प्रतिषिद्धत्वात। अजादेः द्वितीयस्य इति प्रतिषेधात। न एष दोषः । सति तस्मिन्प्रतिषेधः । सति द्वितीयद्विर्वचने प्रथमस्य प्रतिषेधः । (कात्यायन वार्तिक)सति तस्मिन्प्रतिषेधः इति चेत्हलादिशेषे दोषः(वार्तिकान्त) । सति तस्मिन्प्रतिषेधः इति चेत्हलादिशेषे दोषः भवति । हलादिशेषे सति आद्ये हलि अनाद्यस्य लोपः स्यात। इह एव स्यात। पपाच । पपाठ इति । इह न स्यात। आटतुः । आटुः इति । (कात्यायन वार्तिक)लोकवत्हलादिशेषे(वार्तिकान्त) । लोकवत्हलादिशेषे सिद्धं । तत्यथा लोके ईश्वरः आज्ञापयति ग्रामात्ग्रामात्मनुष्याः आनीयन्तां प्रागाङ्गं ग्रामेभ्यः ब्राह्मणाः आनीयन्तां इति । येषु तत्र ग्रामेषु ब्राह्मणाः न सन्ति न तर्हि इदानीं ततः अन्यस्य आनयनं भवति । यथा तत्र क्व चितपि ब्राह्मणस्य सत्ता (ऱः सर्वत्र) अब्राह्मणस्य निवर्त्तिका भवति एवं इह अपि क्व चितपि हलाद्यः सन्सर्वस्य अनाद्यस्य हलः निवर्तकः भवति । (कात्यायन वार्तिक)क्व चितन्यत्र लोपः इति चेत्द्विर्वचनम्(वार्तिकान्त) । क्व चितन्यत्र लोपः इति चेत्द्विर्वचनं अपि एवं प्राप्नोति । क्व चितपि द्वितीयः सन्सर्वस्य प्रथमस्य निवर्तकः स्यात। तस्मातस्तु सति तस्मिन्प्रतिषेधः इति एव। ननु च उक्तं सति तस्मिन्प्रतिषेधः इति चेत्हलादिशेषे दोषः इति । प्रतिविधास्यते हलादिशेषे ।
(पाणिनीयसूत्र ६,१।३) कि.।८।९-२२ रो. ईV।३०१-३०२ किमर्थं इदं उच्यते । (कात्यायन वार्तिक)न्द्रादेः द्विर्वचनप्रसङ्गः तत्र न्द्राणां प्रतिषेधः(वार्तिकान्त) । न्द्रादेः एकाचः द्विर्वचनं प्राप्नोति । तत्र न्द्राणां संयोगादीनां प्रतिषेधः उच्यते । (कात्यायन वार्तिक)ईर्ष्यतेः तृतीयस्य(वार्तिकान्त) । ईर्ष्यतेः तृतीयस्य द्वे भवतः इति वक्तव्यं । के चित्तावताहुः एकाचः इति । ईर्ष्यिषिषति । अपरः आह :व्यञ्जनस्य इति : ईर्ष्यियिषति । (कात्यायन वार्तिक)कण्ड्वादीनां च(वार्तिकान्त) । कण्ड्वादीनां च तृतीयस्य द्वे भवतः इति वक्तव्यं । कण्डूयियिषति । असूयियिषति । (कात्यायन वार्तिक)वा नामधातूनाम्(वार्तिकान्त) । वा नामधातूनां तृतीयस्य द्वे भवतः इति वक्तव्यं । अश्वीयियिषति । अशिश्वीयिषति । अपरः आह यथेष्टं वा । यथेष्टं वा नामधातूनां इति । पुपुत्रीयिषति । पुतित्रीयिषति । पुत्रीयियिषति ।
(पाणिनीयसूत्र ६,१।४) कि.।९।२-७ रो. ईV।३०२ पूर्वः अभ्यासः इति उच्यते । कस्य पूर्वः अभ्याससञ्ज्ञः भवति । द्वे इति वर्तते । द्वयोः इति वक्तव्यं । सः तर्हि तथा निर्देशः कर्तव्यः । न कर्तव्यः । अर्थात्विभक्तिविपरिणामः भविष्यति । तत्यथा । उच्चानि देवदत्तस्य गृहाणि । आमन्त्रयस्व एनं । देवदत्तं इति गम्यते । देवदत्तस्य गावः अश्वाः हिरण्यं इति । आढ्यः वैधवेयः । देवदत्तः इति गम्यते । पुरस्तात्षष्ठीनिर्दिष्टं सतर्थात्द्वितीयानिर्दिष्टं प्रथमानिर्दिष्टं च भवति । एवं इह अपि पुरस्तात्प्रथमानिर्दिष्टं सतर्थात्षष्ठीनिर्दिष्टं भविष्यति ।
(पाणिनीयसूत्र ६,१।५) कि.।९।९-११।३ रो. ईV।३०२-३०७ (कात्यायन वार्तिक)अभ्यस्तसञ्ज्ञायां सहवचनम्(वार्तिकान्त) । अभ्यस्तसञ्ज्ञायां सहग्रहणं कर्तव्यं । किं प्रयोजनं । (कात्यायन वार्तिक)आद्युदात्तत्वे पृथगप्रसङ्गार्थम्(वार्तिकान्त) । आद्युदात्तत्वं सह भूतयोः यथा स्यात। एकैकस्य मा भूतिति । यस्मिनेव अभ्यस्तकार्ये अदोषः ततेव पठितं अनुदात्तं पदं एकवर्जं इति । न अस्ति यौगपद्येन सम्भवः । पर्यायः तर्हि प्रसज्येत । पर्यायः च । पूर्वस्य तावत्परेण रूपेण व्यवहितत्वात्न भविष्यति । परस्य तर्हि स्यात। तत्र आचार्यप्रवृत्तिः ज्ञापयति न परस्य भवति इति यतयं बिभेत्यादीनां पिति प्रत्ययात्पूर्वं उदात्तं भवति इति आह । एवं व्यवधानात्न पूर्वस्य ज्ञापकात्न परस्य उच्यते च इदं अभ्यस्तानां आदिः उदात्तः भवति इति । तत्र सः एव दोषः पर्यायः प्रसज्येत । तस्मात्सहग्रहणं कर्तव्यं । न कर्तव्यं । उभेग्रहणं क्रियते । तत्सहार्थं विज्ञास्यते । अस्ति अन्यतुभेग्रहणस्य प्रयोजनं । किं । उभेग्रहणं सञ्ज्ञिनिर्देशार्थं । अन्तरेण अपि उभेग्रहणं प्रक्¯प्तः सञ्ज्ञिनिर्देशः । कथं । द्वे इति वर्तते । इदं तर्हि प्रयोजनं । यत्र उभे शब्दरूपे श्रूयेते तत्र अभ्यस्तसञ्ज्ञा यथा स्यात। इह मा भूतः ईर्त्सन्ति , ईप्सन्ति , ईर्त्सन्, ईप्सन्, ऐर्त्सन्, ऐप्सन। किं च स्यात। अद्भावः नुम्प्रतिषेधः जुस्भावः इति एते विधयः प्रसज्येरन। अद्भावे तावत्न दोषः । सप्तमे योगविभागः करिष्यते । इदं अस्ति : अतभ्यस्तात। ततः आत्मनेपदेषु । आत्मनेपदेषु च अत्भवति । अनतः इति उभयोः शेषः । यतपि उच्यते नुम्प्रतिषेधः इति एकादेशे कृते व्यपवर्गाभावात्न भविष्यति । इदं इह सम्प्रधार्यं । नुम्प्रतिषेधः क्रियतां एकादेशः इति । किं अत्र कर्तव्यं । परत्वात्नुम्प्रतिषेधः । नित्यः एकादेशः । कृते अपि नुम्प्रतिषेधे प्राप्नोति अकृते अपि । एकादेशः अपि नित्यः । अन्यस्य कृते नुम्प्रतिषेधे प्राप्नोति अन्यस्य अकृते । शब्दान्तरस्य च प्राप्नुवन्विधिः अनित्यः भवति । अन्तरङ्गः तर्हि एकादेशः । का अन्तरङ्गता । वर्णौ आश्रित्य एकादेशः । विधिविषये नुम्प्रतिषेधः विधिः च नुमः सर्वनामस्थाने प्राक्तु सर्वनामस्थानोत्पत्तेः एकादेशः । तत्र नित्यत्वात्च अन्तरङ्गत्वात्च एकादेशः । एकादेशे कृते व्यपवर्गाभावात्न भविष्यति । यतपि उच्यते जुस्भावः इति एकादेशे कृते व्यपवर्गाभावात्न भविष्यति । एकादेशे इति उच्यते केन च अत्र एकादेशः । अन्तिना । न अत्र अन्तिभावः प्राप्नोति । किं कारणं । जुस्भावेन बाध्यते । न अत्र जुस्भावः प्राप्नोति । किं कारणं । शपा व्यवहितत्वात। एकादेशे कृते न अस्ति व्यवधानं । एकादेशः पूर्वविधौ स्थानिवत्भवति इति व्यवधानं एव । किं पुणः कारणं निमित्तवानन्तिः एकादेशं तावत्प्रतीक्षते न पुनः तावति एव निमित्तं अस्ति इति अन्तिभावेन भाव्यं । इह अपि तर्हि तावति एव निमित्तं अस्ति इति अन्तिभावः स्यात। अनेनिजुः । पर्यवेविषुः इति । अस्तु । अन्तिभावे कृते स्थानिवद्भावात्झिग्रहणेन ग्रहणात्जुस्भावः भविष्यति । अथ वा यदि अपि निमित्तवानन्तिः अयं तस्य जुस्भावः अपवादः । न च अपवादविषये उत्सर्गाः अभिनिविशन्ते । पूर्वं हि अपवादाः अभिनिविशन्ते पश्चातुत्सर्गाः । प्रकल्प्य वा अपवादविषयं ततः उतस्र्गः प्रवर्तते । न तावतत्र कदा चितपि अन्तिभावः भवति । अपवादं जुस्भावं प्रतीक्षते । न खलु अपि क्व चितभ्यस्तानां झेः च आनन्तर्यं । सर्वत्र विकरणैः व्यवधानं । तेन अनेन अवश्यं विकरणनाशः प्रतीक्ष्यः क्व चित्लुका क्व चित्श्लुना क्व चितेकादेशेन । सः यथा श्लुलुकौ प्रतीक्षते एवं एकादेशं अपि प्रतीक्षते । एवं तर्हि इदं इह व्यपदेश्यं सताचार्यः न व्यपदिशति । किं । स्थानिवद्भावं । स्थानिवद्भावात्व्यवधानं । व्यवधानात्न भविष्यति । पूर्वविधौ स्थानिवद्भावः न च अयं पूर्वस्य विधिः । पूर्वस्मातपि विधिः पूर्वविधिः । ततेततसति प्रयोजने उभेग्रहणं सहार्थं विज्ञास्यते । कथं कृत्वा एकैकस्य अभ्यस्तसञ्ज्ञा प्राप्नोति । प्रत्येकं वाक्यपरिसमाप्तिः दृष्टा । तत्यथा । वृद्धिगुणसञ्ज्ञे प्रत्येकं भवतः । ननु च अयं अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति । तत्यथा । गर्गाः शतं दण्ड्यन्तां इति । अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकं दण्डयन्ति । सति एतस्मिन्दृष्टान्ते यदि तत्र प्रत्येकं इति उच्यते इह अपि सहग्रहणं कर्तव्यं । अथ तत्र अन्तरेण प्रत्येकं इति वचनं प्रत्येकं गुण्वृद्धिसञ्ज्ञे भवतः इह अपि न अर्थः सहग्रहणेन ।
(पाणिनीयसूत्र ६,१।६) कि.।११।६-१९ रो. ईV।३०७-३०९ (कात्यायन वार्तिक)जक्षित्यादिषु सप्तग्रहणं वेवीत्यर्थम्(वार्तिकान्त) । जक्षित्यादिषु सप्तग्रहणं कर्तव्यं । सप्त जक्षित्यादयः अभ्यस्तसञ्ज्ञकाः भवन्ति इति वक्तव्यं । किं प्रयोजनं । वेवीत्यर्थं । वेवीतेः अभ्यस्तसञ्ज्ञा यथा स्यात। वेव्यते । (कात्यायन वार्तिक)अपरिगणनं वा आगणान्तत्वात्(वार्तिकान्त) । न वा अर्थः परिगणनेन । अस्तु आगणान्तं अभ्यस्तसञ्ज्ञा । इह अपि तर्हि प्राप्नोति । आङः शासु । अस्तु । अभ्यस्तकार्याणि कस्मात्न भवन्ति । भूयिष्ठानि परस्मैपदेषु आत्मनेपदी च अयं । स्वरः तर्हि प्राप्नोति । यत्र अपि अस्य आत्मनेपदेषु अभ्यस्तकार्यं स्वरः तत्र अपि अनुदात्तेतः परं लसार्वधातुकं अनुदात्तं भवति इति अनुदात्तत्वे कृते न अस्ति विशेषः धातुस्वरेण उदात्तत्वे सति अभ्यस्तस्वरेण वा । षसिवशी छान्दसौ । दृष्टानुविधिः छन्दसि भवति । चर्करीतं अभ्यस्तं एव । ह्नुङः तर्हि प्राप्नोति । अस्तु । अभ्यस्तकार्याणि कस्मात्न भवन्ति । भूयिष्ठानि परस्मैपदेषु आत्मनेपदी च अयं । स्वरः तर्हि प्राप्नोति । अह्न्विङोः इति प्रतिषेधविधानसामर्थ्यात्स्वरः न भविष्यति । अथ वा सप्त एव इमे धातवः पठ्यन्ते । जक्षभ्यस्तसञ्ज्ञः भवति । इत्यादयः च षट। जक्षित्यादयः षटिति ।
(पाणिनीयसूत्र ६,१।७) कि.।११।२१-१२।९ रो. ईV।३०९-३१० (कात्यायन वार्तिक)तुजादिषु छन्दःप्रत्ययग्रहणम्(वार्तिकान्त) । तुजादिषु छन्दःप्रत्ययग्रहणं कर्तव्यं । छन्दसि तुजादीनां दीर्घः भवति इति वक्तव्यं । अस्मिन्च अस्मिन्च प्रत्यये इति वक्तव्यं । इह मा भूत। तुतोज शबलान्हरान। (कात्यायन वार्तिक)अनारम्भः वा अपरिगणितत्वात्(वार्तिकान्त) । अनारम्भः वा छन्दसि दीर्घत्वस्य न्याय्यः । कुतः । अपरिगणितत्वात। न हि छन्दसि दीर्घत्वस्य परिगणनं कर्तुं शक्यं । किं कारणं । (कात्यायन वार्तिक)अन्येषां च दर्शनात्(वार्तिकान्त) । येषां अपि दीर्घत्वं न आरभ्यते तेषां अपि छन्दसि दीर्घत्वं दृश्यते । तत्यथा पूरुषः । नारकः इति । (कात्यायन वार्तिक)अनेकान्तत्वात्च(वार्तिकान्त) । येषां च अपि आरभ्यते तेषां अपि अनेकान्तः । यस्मिनेव च प्रत्यये दीर्घत्वं दृश्यते तस्मिनेव च न दृश्यते । मामहानः उक्थपात्रं । ममहानः इति च ।
(पाणिनीयसूत्र ६,१।८) कि.।१२।११-१३।५ रो. ईV।३१०-३११ धातोः इति किमर्थं । ईहां चक्रे । न एततस्ति । लिटि इति उच्यते न च अत्र लिटं पश्यामः । प्रत्ययलक्षणेन । न लुमता तस्मिनिति प्रत्ययलक्षणप्रतिषेधः । इदं तर्हि । ससृवांसः विशृण्विरे । (कात्यायन वार्तिक)लिटि द्विर्वचने जागर्तेः वावचनम्(वार्तिकान्त) । लिटि द्विर्वचने जागर्तेः वा इति वक्तव्यं । यः जागर तं ऋचः कामयन्ते । यः जजागार तं ऋचः कामयन्ते । अनभ्यासस्य इति किं । कृष्णः नोनाव वृषभः यदि इदं । नोनूयतेः नोनाव । (कात्यायन वार्तिक)अभ्यासप्रतिषेधानर्थक्यं च छन्दसि वावचनात्(वार्तिकान्त) । अभ्यासप्रतिषेधः च अनर्थकः । किं कारणं । छन्दसि वावचनात। अवश्यं छन्दसि वा द्वे भवतः इति वक्तव्यं । किं प्रयोजनं । (कात्यायन वार्तिक)प्रयोजनं आदित्यान्याचिषामहे(वार्तिकान्त) । यियाचिषामहे इति प्राप्ते । देवता नो दाति प्रियाणि । ददाति प्रियाणि । मघवा दातु । मघवा ददातु । सः नः स्तुतः वीरवत्धातु । वीरवत्दधातु । यावता इदानीं छन्दसि वा द्वे भवतः इति उच्यते धातुग्रहणेन अपि न अर्थः । कस्मात्न भवति ससृवांसः विशृण्विरे इति । छन्दसि वावचनात। ततेतत्धातुग्रहणं सान्न्यासिकं तिष्ठतु तावत।
(पाणिनीयसूत्र ६,१।९) कि.।१३।७-१६।७ रो. ईV।३११-३१७ किं इयं षष्ठी आहोस्वित्सप्तमी । कुतः सन्देहः । समानः निर्देशः । किं च अतः । यदि षष्ठी सन्यङन्तस्य द्विर्वचनेन भवितव्यं । अथ सप्तमी सन्यङोः परतः पूर्वस्य द्विर्वचनं । कः च अत्र विशेषः । (कात्यायन वार्तिक)सन्यङोः परतः इति चेतिटः द्विर्वचनं परादित्वात्(वार्तिकान्त) । सन्यङोः परतः इति चेतिटः द्विर्वचनं कर्तव्यं । अटिटिषति । अशिशिषति । किं पुनः कारणं न सिध्यति । परादित्वात। इट्परादिः । (कात्यायन वार्तिक)हन्तेः च ईटः(वार्तिकान्त) । हन्तेः च ईटः द्विर्वचनं कर्तव्यं । जेघ्नीयते । ननु च यस्य अपि सन्यङन्तस्य द्विर्वचनं तस्य अपि स्थानिवद्भावप्रसङ्गः । ईटि स्थानिवद्भावातीटः द्विर्वचनं न प्राप्नोति । न एषः दोषः । द्विर्वचननिमित्ते अचि स्थानिवतिति उच्यते न च असौ द्विर्वचननिमित्तं । यस्मिनपि द्विर्वचनं यस्य अपि द्विर्वचनं सर्वः असौ द्विर्वचननिमित्तं । तस्मातीटः द्विर्वचनं । तस्मातुभाभ्यां ईटः द्विर्वचनं कर्तव्यं । यः च उभयोः दोषः न तं एकः चोद्यः भवति । (कात्यायन वार्तिक)एकाचः उपदेशे अनुदात्तातिति उपदेशवचनं उदात्तविशेषणं चेत्सनः इट्प्रतिषेधः(वार्तिकान्त) । एकाचः उपदेशे अनुदात्तातिति उपदेशवचनं उदात्तविशेषणं चेत्सनः इट्प्रतिषेधः वक्तव्यः । बिभित्सति । चिच्छित्सति । द्विर्वचने कृते उपदेशे अनुदात्तातेकाचः श्रूयमाणातिति इट्प्रतिषेधः न प्राप्नोति । अस्तु तर्हि सन्यङन्तस्य । (कात्यायन वार्तिक)सन्यङन्तस्य इति चेतशेः सनि अनिटः(वार्तिकान्त) । सन्यङन्तस्य इति चेतशेः सनि अनिटः द्विर्वचनं वक्तव्यं । इयक्षमाणाः भृगुभिः सजोषाः । यस्य अपि सन्यङोः परतः द्विर्वचनं तेन अपि अत्र अवश्यं इडभावे यत्नः कर्तव्यः । किं कारणं । अशेः हि प्रतिपदं इट्विधीयते स्मिपूङ्रञ्ज्वशां सनि इति । तेन एव द्वितीयद्विर्वचनं अपि न भविष्यति । अथ वा न एततशेः रूपं । यजेः एषः छान्दसः वर्णलोपः । तत्यथा तुभ्य इदं अग्ने । तुभ्यं इदं अग्ने इति प्राप्ते । अम्बानां चरुं । नाम्बानां चरुं इति प्राप्ते । आव्याधिनीः उगणाः । सुगणाः इति प्राप्ते । इष्कर्तरं अध्वरस्य । निष्कर्तारं इति प्राप्ते । शिवा उद्रस्य भेषजी । शिवा रुद्रस्य भेषजी इति प्राप्ते । अश्यर्थः वै गम्यते । कः पुनः अशेः अर्थः । अश्नोतिः व्यप्तिकर्मा । यजिः अपि अश्यर्थे वर्तते । कथं पुनः अन्यः नाम अन्यस्य अर्थे वर्तते । बह्वर्थाः अपि धातवः भवन्ति इति । तत्यथा । वपिः प्रकिरणे दृष्टः छेदने च अपि वर्तते । केशान्वपति इति । ईडिः स्तुदिचोदनायाच्ञासु दृष्टः ईरणे च अपि वर्तते । अग्निः वै इतः वृष्टिं ईट्टे । मरुतः अमुतः च्यावयन्ति । करोतिः अयं अभूतप्रादुर्भावे दृष्टः निर्मलीकरणे च अपि वर्तते । पृष्ठं कुरु । पादौ कुरु । उन्मृदान इति गम्यते । निक्षेपणे च अपि दृश्यते । कटे कुरु । घटे कुरु । अश्मानं इतः कुरु । स्थापय इति गम्यते । एवं तर्हि (कात्यायन वार्तिक)दीर्घकुत्वप्रसारणषत्वं अधिकस्य द्विर्वचनात्(वार्तिकान्त)। दीर्घत्वं द्विर्वचनाधिकस्य न सिध्यति । चिचीषति । तुष्टूषति । समुदायस्य समुदायः आदेशः । तत्र सम्प्रमुग्धत्वात्प्रकृतिप्रत्ययस्य नष्टः सन्भवति । तत्र अजन्तानां सनि इति दीर्घत्वं न प्राप्नोति । इदं इह सम्प्रधार्यं दीर्घत्वं क्रियतां द्विर्वचनं इति किं अत्र कर्तव्यं । परत्वात्दीर्घत्वं । नित्यं द्विर्वचनं । कृते अपि दीर्घत्वे प्राप्नोति अकृते अपि प्राप्नोति । दीर्घत्वं अपि नित्यं । कृते अपि द्विर्वचने प्राप्नोति अकृते अपि प्राप्नोति । अनित्यं दीर्घत्वं । न हि कृते द्विर्वचने प्राप्नोति । किं कारणं । समुदायस्य समुदायः आदेशः । तत्र सम्प्रमुग्धत्वात्प्रकृतिप्रत्ययस्य अजन्तता न अस्ति इति दीर्घत्वं न प्राप्नोति । द्विर्वचनं अपि अनित्यं । अन्यस्य कृते दीर्घत्वे प्राप्नोति अन्यस्य अकृते । शब्दान्तरस्य च प्राप्नुवन्विधिः अनित्यः भवति । उभयोः अनित्ययोः परत्वात्दीर्घत्वं । यत्तर्हि न अकृते द्विर्वचने दीर्घत्वं तत्न सिध्यति । जुहूषति इति । कुत्वं द्विर्वचनाधिकस्य न सिध्यति । जिघांसति । जङ्घन्यते । किं कारणं । समुदायस्य समुदायः आदेशः । तत्र सम्प्रमुग्धत्वात्प्रकृतिप्रत्ययस्य नष्टः हन्तिः भवति । तत्र अभ्यासात्हन्तिहकारस्य इति कुत्वं न सिध्यति । सम्प्रसारणं च द्विर्वचनाधिकस्य न सिध्यति । जुहूषति। जोहूयते । समुदायस्य समुदायः आदेशः । तत्र सम्प्रमुग्धत्वात्प्रकृतिप्रत्ययस्य नष्टः हवयतिः भवति । तत्र ह्वः सम्प्रसारणं अभ्यस्तस्य इति सम्प्रसारणं न प्राप्नोति । न एषः दोषः । वक्ष्यति हि एतत्ह्वः अभ्यस्तनिमित्तस्य इति । यावता च इदानीं ह्वः अभ्यस्तनिमित्तस्य इति उच्यते सः अपि अदोषः भवति यतुक्तं यत्तर्हि न अकृते द्विर्वचने दीर्घत्वं तत्न सिध्यति इति । षत्वं च द्विर्वचनाधिकस्य न सिध्यति । पिपक्षति । यियक्षति । समुदायस्य समुदायः आदेशः । तत्र सम्प्रमुग्धत्वात्प्रकृतिप्रत्ययस्य नष्टः सन्भवति । तत्र इण्कुभ्यां उत्तरस्य प्रत्ययसकारस्य इति षत्वं न प्रापोति । इदं इह सम्प्रधार्यं द्विर्वचनं क्रियतां षत्वं इति किं अत्र कर्तव्यं । परत्वात्षत्वं । पूर्वत्रासिद्धे षत्वं सिद्धासिद्धयोः च न अस्ति सम्प्रधारणा । (कात्यायन वार्तिक)आबृध्योः च अभ्यस्तविधिप्रतिषेधः(वार्तिकान्त) । आबृध्योः च अभ्यस्ताश्रयः विधिः प्राप्नोति । सः प्रतिषेध्यः । ईप्सति । ईर्त्सति । ईप्सन। ईर्त्सन। ऐप्सन। ऐर्त्सन। किं च स्यात। अद्भावः नुम्प्रतिषेधः जुस्भावः इति एते विधयः प्रसज्येरन। न एषः दोषः । उक्ताः अत्र परिहाराः । (कात्यायन वार्तिक)सङाश्रये च समुदायस्य समुदायादेशत्वात्झलाश्रये च अव्यपदेशः आमिश्रत्वात्(वार्तिकान्त) । सङाश्रये च कार्ये समुदायस्य समुदायादेशत्वात्झलाश्रये च अव्यपदेशः । किं कारणं । आमिश्रत्वात। आमिश्रीभूतं इदं भवति । तत्यथा । क्षीरोदके सम्पृक्ते । आमिश्रत्वात्न ज्ञायते कियत्क्षीरं कियतुदकं इति । कस्मिनवकाशे क्षीरं कस्मिनवकाशे उदकं इति । एवं इह अपि आमिश्रत्वात्न ज्ञायते का प्रकृतिः कः प्रत्ययः कस्मिनवकाशे प्रकृतिः कस्मिनवकाशे प्रत्ययः इति । तत्र कः दोषः । सङि झलि इति कुत्वादीनि न सिध्यन्ति । इदं इह सम्प्रधार्यं द्विर्वचनं क्रियतां कुत्वादीनि इति किं अत्र कर्तव्यं । परत्वात्कुत्वादीनि । पूर्वत्रासिद्धे कुत्वादीनि सिद्धासिद्धयोः च न अस्ति सम्प्रधारणा । एवं तर्हि पूर्वत्रासिद्धीयं अद्विर्वचने इति वक्तव्यम। तत्च अवश्यं वक्तव्यं । विभाषिताः प्रयोजयन्ति । द्रोग्धा द्रोग्धा । द्रोढा द्रोढा । यावता च इदानीं पूर्वत्रासिद्धीयं अद्विर्वचने इति उच्यते सः अपि अदोषः भवति यतुक्तं षत्वं न सिध्यति । इह स्थाने द्विर्वचने णिलोपः अपरिहृतः । सन्यङोः परतः द्विर्वचने इटः द्विर्वचनं वक्तव्यं । सन्यङन्तस्य द्विर्वचने हन्तेः कुत्वं अपरिहृतं । तत्र सन्यङन्तस्य द्विर्वचनं द्विःप्रयोगः च इति एषः पक्षः निर्दोषः । तत्र इदं अपरिहृतं सनः इटः प्रतिषेधः इति । एतस्य अपि परिहारं वक्ष्यति उभयविशेषणत्वात्सिद्धं इति । कथं जेघ्नीयते । वक्ष्यति एतत्यङ्प्रकरणे हन्तेः हिंसायां घ्नी इति ।
(पाणिनीयसूत्र ६,१।१२।१) कि.।१६।९-२३ रो. ईV।३१७-३१८ दाश्वानिति किं निपात्यते । (कात्यायन वार्तिक)दाशेः वसौ द्वित्वेट्प्रतिषेधौ(वार्तिकान्त) । दाशेः वसौ द्वित्वेट्प्रतिषेधौ निपात्येते । दाश्वंसः दाशुषः सुतं । दाश्वान। साह्वानिति किं निपात्यते । (कात्यायन वार्तिक)सहेः दीर्घत्वं च(वार्तिकान्त) । किं च । द्वित्वेट्प्रतिषेधौ च । साह्वान्बलाहकः । साह्वान। मीढ्वानिति किं निपात्यते । (कात्यायन वार्तिक)मिहेः ढत्वं च(वार्तिकान्त) । किं च । यत्च पूर्वयोः । किं च पूर्वयोः । द्वित्वेट्प्रतिषेधौ दीर्घत्वं च । मीढ्वः तोकय तनयाय मृडय । यथा इयं इन्द्र मीढ्वः । मह्यर्थः वै गम्यते । कः पुनः मह्यर्थः । महतिः दानकर्मा । अतः किं । इत्वं अपि निपात्यं । (कात्यायन वार्तिक)मह्यर्थः इति चेत्मिहेः तदर्थत्वात्सिद्धम्(वार्तिकान्त) । मह्यर्थः इति चेत्मिहिः अपि मह्यर्थे वर्तते । कथं पुनः अन्यः नाम अन्यस्य अर्थे वर्तते । बह्वर्थाः अपि धातवः भवन्ति इति । अस्ति पुनः अन्यत्र अपि क्व चित्मिहिः मह्यर्थे वर्तते । अस्ति इति आह । मिहेः मेघः । मेघः च कस्मात्भवति । अपः ददाति इति ।
(पाणिनीयसूत्र ६,१।१२।२) कि.।१७।१-११ रो. ईV।३१८-३१९ (कात्यायन वार्तिक)द्विर्वचनप्रकरणे कृञादीनां के(वार्तिकान्त) । द्विर्वचनप्रकरणे कृञादीनां के उपसङ्ख्यानं कर्तव्यं । चक्रं । चिक्लिदं । चक्नं इति । कादिषु इति वक्तव्यं इह अपि यथा स्यात। बभ्रुः । ययुः इति । (कात्यायन वार्तिक)चरिचलिपतिवदीनां अचि आक्च अभ्यासस्य(वार्तिकान्त) । चरिचलिपतिवदीनां अचि द्वे भवतः इति वक्तव्यं आक्च अभ्यासस्य । चराचरः । चलाचलः । पतापतः । वदावदः । (कात्यायन वार्तिक)हन्तेः घः च(वार्तिकान्त) । हन्तेः घः च वक्तव्यः । अचि द्वे भवतः आक्च अभ्यासस्य । घनाघनः । (कात्यायन वार्तिक)पाटेः णिलुक्च दीर्घः च अभ्यासस्य ऊक्च(वार्तिकान्त) । पाटयतेः णिलुक्च वक्तव्यः । अचि द्वे भवतः इति वक्तव्यं । दीर्घः च अभ्यासस्य ऊक्च आगमः । पाटुपटः ।
(पाणिनीयसूत्र ६,१।१२।३) कि.।१७।१२-१९।१० रो. ईV।३१९-३२३ (कात्यायन वार्तिक)द्विर्वचनं यणयवायावादेशाल्लोपोपधालोपणिलोपकिकिनोरुत्त्वेभ्यः(वार्तिकान्त) । यणयवायावादेशाल्लोपोपधालोपणिलोपकिकिनोरुत्त्वेभ्यः द्विर्वचनं भवति विप्रतिषेधेन । द्विर्वचनस्य अवकाशः । बिभिदतुः । बिभिदुः । यणादेशस्य अवकाशः । दधि अत्र । मधु अत्र । इह उभयं प्राप्नोति । चक्रतुः । चक्रुः । अयवायावादेशानां अवकाशः । चयनं । चायकः । लवनं । लावकः । द्विर्वचनस्य सः एव । इह उभयं प्राप्नोति । चिचाय । चिचयिथ । लुलाव । लुलविथ । आल्लोपस्य अवकाशः । । गोदः । कम्बलदः । द्विर्वचनस्य सः एव । इह उभयं प्राप्नोति । ययतुः । ययुः । तस्थतुः । तस्थुः । उपधालोपास्य अवकाशः । श्लेष्मघ्नं मधु । पित्तघ्नं घृतं । द्विर्वचनस्य सः एव । इह उभयं प्राप्नोति । आटितत। आशिशत। उत्त्वस्य अवकाशः निपूर्ताः पिण्डाः । द्विर्वचनस्य सः एव । इह उभयं प्राप्नोति । मित्रात्वरुणौ ततुरिः । दूरे ह्यध्वा जगुरिः । द्विर्वचनं भवति पूर्वविप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । इष्टवाची परशब्दः । विप्रतिषेधे परं यतिष्टं तत्भवति इति । (कात्यायन वार्तिक)द्विर्वचनात्प्रसारणात्त्वधात्वादिविकाररीत्वेत्त्वोत्त्वगुणवृद्धिविधयः(वार्तिकान्त) । द्विर्वचनात्प्रसारणात्त्वधात्वादिविकाररीत्वेत्त्वोत्त्वगुणवृद्धिविधयः भवन्ति विप्रतिषेधेन । द्विर्वचनस्य अवकाशः । बिभिदतुः । बिभिदुः । सम्प्रसारणस्य अवकाशः । इष्टं । सुप्तं । इह उभयं प्राप्नोति । ईजतुः । ईजुः । न एततस्ति प्रयोजनं । अस्तु अत्र द्विर्वचनं । द्विर्वचने कृते परस्य रूपस्य किति इति भविष्यति पूर्वस्य लिटि अभ्यासस्य उभयेषां इति । इदं तर्हि सोषुप्यते । इदं च अपि उदाहरणं । ईजतुः , ईजुः इति । ननु च उक्तं । अस्तु अत्र द्विर्वचनं । द्विर्वचने कृते परस्य रूपस्य किति इति भविष्यति पूर्वस्य लिटि अभ्यासस्य उभयेषां इति । न सिध्यति । न सम्प्रसारणे सम्प्रसारणं इति प्रतिषेधः प्राप्नोति । अकारेण व्यव्हितत्वात्न भविष्यति । एकादेशे कृते न अस्ति व्यवधानं । एकादेशः पूर्वविधौ स्थानिवत्भवति इति स्थानिवद्भावात्व्यवधानं एव । एवं तर्हि समानाङ्गग्रहणं तत्र चोदयिष्यति । आत्त्वस्य अवकाशः । ग्लाता । म्लाता । द्विर्वचनस्य सः एव । इह उभयं प्राप्नोति । जग्ले । मम्ले । धात्वादिविकाराणां अवकाशः । नमति । सिञ्चति । द्विर्वचनस्य सः एव । इह उभयं प्राप्नोति । ननाम । सिसेच । सस्नौ । रीत्वस्य अवकाशः । मात्रीयति । पित्रीयति । द्विर्वचनस्य सः एव । इह उभयं प्राप्नोति । चेक्रीयते । जेह्रीयते । ईत्वस्य अवकाशः । पीयते । गीयते । द्विर्वचनस्य सः एव । इह उभयं प्राप्नोति । पेपीयते । जेगीयते । इत्त्वोत्त्वयोः अवकाशः । आस्तीर्णं । निपूर्ताः । द्विर्वचनस्य सः एव । इह उभयं प्राप्नोति । आतेस्तीर्यते । निपोपूर्यते । गुणवृद्ध्योः अवकाशः । चेता । गौः । द्विर्वचनस्य सः एव । इह उभयं प्राप्नोति । चिचाय । चिचयिथ । लुलाव । लुलविथ । न एततस्ति प्रयोजनं । अस्तु अत्र द्विर्वचनं । द्विर्वचने कृते परस्य रूपस्य गुणवृद्धी भविष्यतः । इदं तर्हि प्रयोजनं । इयाय । इययिथ । ननु च उक्तं न एततस्ति प्रयोजनं । अस्तु अत्र द्विर्वचनं । द्विर्वचने कृते परस्य रूपस्य गुणवृद्धी भविष्यतः । न सिध्यति । अन्तरङ्गत्वात्सवर्णदीर्घत्वं प्राप्नोति । वार्णाताङ्गं बलीयः इति गुणवृद्धी भविष्यतः । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । आचार्यप्रवृत्तिः ज्ञापयति वार्णाताङ्गं बलीयः भवति इति यतयं अभ्यासस्य असवर्णे इति असवर्णग्रहणं करोति । कथं कृत्वा ज्ञापकं । न हि अन्तरेण गुणवृद्धी असवर्णपरः अभ्यासः भवति । न एततस्ति ज्ञापकं । अर्त्यर्थं एतत्स्यात। इयृतः । इयृथः । [उवोण । उवोणिथः (ऱ्)] । यत्तर्हि दीर्घः इणः किति इति दीर्घत्वं शास्ति । एतस्य अपि अस्ति वचने प्रयोजनं । किं । सवर्णदीर्घबाधनार्थं एतत्स्यात। सः यथा एव तर्हि सवर्णदीर्घत्वं बाधते एवं यणादेशं अपि बाधेत । एवं तर्हि यणादेशे योगविभागः करिष्यते । इदं अस्ति इणः यण्भवति । ततः एः अनेकाचः । एः च अनेकाचः इणः यण्भवति । ततः असंयोगपूर्वस्य । एः अनेकाचः इति एव । असवर्णग्रहणं एव तर्हि ज्ञापकं । ननु च उक्तं अर्त्यर्थं एतत्स्यातिति । न एकं उदाहरणं असवर्णग्रहणं प्रयोजयति । एवं अपि स्थानिवद्भावातियङ्न प्राप्नोति । अथ सति अपि विप्रतिषेधे यावता स्थानिवद्भावः कथं एव एतत्सिध्यति । यः अनादिष्टातचः पूर्वः तस्य विधिं प्रति स्थानिवद्भावः । आदिष्टात्च एषः अचः पूर्वः भवति ।
(पाणिनीयसूत्र ६,१।१३।१) कि.।२०।२-२२ रो. ईV।३२३-३२६ (कात्यायन वार्तिक)ष्यङः सम्प्रसारणे पुत्रपत्योः तदादौ अतिप्रसङ्गः(वार्तिकान्त) । ष्यङः सम्प्रसारणे पुत्रपत्योः तदादौ अतिप्रसङ्गः भवति । पुत्रपत्यादौ सम्प्रसारणं प्राप्नोति । कारीषगन्ध्यापुत्रकुलं , कारीषगन्ध्यापतिकुलं । वर्णग्रहणात्सिद्धं । वर्णग्रहणे एतत्भवति यस्मिन्विधिः तदादौ इति न च इदं वर्णग्रहणं । (कात्यायन वार्तिक)वर्णग्रहणे इति चेत्तदन्तप्रतिषेधः(वार्तिकान्त) । वर्णग्रहणे इति चेत्तदन्तस्य प्रतिषेधः वक्तव्यः । पुत्रपत्यन्ते सम्प्रसारणं प्राप्नोति । कारीषगन्ध्यापरमपुत्रः , कारीषगन्ध्यापरमपतिः । क्ॐउदगन्ध्यापरमपुत्रः , क्ॐउदगन्ध्यापरमपतिः । किं कारणं । यत्र हि तदादिविधिः न अस्ति तदन्तविधिना तत्र भवितव्यं । (कात्यायन वार्तिक)सिद्धं तु उत्तरपदवचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । उत्तरपदवचनात। पुत्रपत्योः उत्तरपदयोः इति वक्तव्यं । तत्तर्हि वक्तव्यं । न वक्तव्यं । पूर्वपदं उत्तरपदं इति सम्बन्धिशब्दौ एतौ । सति पूर्वपदे उत्तरपदं भवति सति च उत्तरपदे पूर्वपदं इति । न च अत्र पुत्रपती उत्तरपदे । इह अपि तर्हि न प्राप्नोति । कारीषगन्धीपुत्रः , कारीषगन्धीपतिः इति । किं कारणं । पूर्वपदं इति उच्यते । न हि अत्र ष्यङ्पूर्वपदं अस्ति । ष्यङन्तं एतत्पूर्वपदं । कथं । प्रत्ययग्रहणे यस्मात्सः तदादेः ग्रहणं भवति । यदि प्रत्ययग्रहणे यस्मात्सः तदादेः ग्रहणं भवति इति उच्यते परमकारीषगन्धीपुत्रः , परमकारीषगन्धीपतिः इति न सिध्यति । प्रत्ययग्रहणे यस्मात्सः तदादेः ग्रहणं भवति अस्त्रीप्रत्ययेन इति । यदि अस्त्रीप्रत्ययेन इति उच्यते अतिक्रान्तः कारीषगन्ध्यां अतिकारीषगन्ध्यः , तस्य पुत्रः अतिकारीषगन्ध्यपुत्रः , अतिकारीषगन्ध्यपतिः इति अत्र अपि प्राप्नोति । अस्त्रीप्रत्ययेन अनुपसर्जनेन । यः हि उपसर्जनं स्त्रीप्रत्ययः भवति एषा तत्र परिभाषा प्रत्ययग्रहणे यस्मात्सः तदादेः ग्रहणं भवति इति ।
(पाणिनीयसूत्र ६,१।१३।२) कि.।२०।२३-२३।२५ रो. ईV।३२६-३३० ष्यङन्ते यावन्तः यणः तेषां सर्वेषां सम्प्रसारणं प्राप्नोति । वाराहिपुत्रः , तार्णकर्णीपुत्रः । तत्र अप्रत्ययस्थस्य प्रतिषेधः वक्तव्यः । (कात्यायन वार्तिक)यथागृहीतस्य आदेशवचनातप्रत्ययस्थे सिद्धम्(वार्तिकान्त) । निर्दिश्यमानस्य आदेशाः भवन्ति इति एवं अप्रत्ययस्थस्य न भविष्यति । (कात्यायन वार्तिक)अनन्त्यविकारे अन्त्यसदेशस्य वा(वार्तिकान्त) । अथ वा अनन्त्यविकारे अन्त्यसदेशस्य कार्यं भवति इति एषा परिभाषा कर्तव्या । कः पुनः अत्र विशेषः एषा वा परिभाषा क्रियेत अप्रत्ययस्थस्य वा प्रतिषेधः उच्येत । अवश्यं एषा परिभाषा कर्तव्या । बहूनि एतस्याः परिभाषायाः प्रयोजनानि । कानि । (कात्यायन वार्तिक)प्रयोजनं न सम्प्रसारणे सम्प्रसारणम्(वार्तिकान्त) । न सम्प्रसारणे सम्प्रसारणं इति एतत्न वक्तव्यं भवति । कथं व्यधेः विद्धः इति । अनन्त्यविकारे अन्त्यसदेशस्य कार्यं भवति इति न दोषः भवति । न एततस्ति प्रयोजनं । क्रियते न्यासे एव । (कात्यायन वार्तिक)सान्तमहतः दीर्घत्वे(वार्तिकान्त) । सान्तमहतः दीर्घत्वे प्रयोजनं । पयांसि, यशांसि । प इति अस्य अपि प्राप्नोति । अनन्त्यविकारे अन्त्यसदेशस्य कार्यं भवति इति न दोषः भवति । एततपि न अस्ति प्रयोजनं । नोपधायाः इति तत्र वर्तते । एवं अपि अनांसि, मनांसि इति अत्र अपि प्राप्नोति । न एषः दोषः । सान्तसंयोगेन नोपधां विशेषयिष्यामः । सान्तसंयोगस्य नोपाधायाः इति । एवं अपि हंसशिरांसि , ध्वंसशिरांसै इति अत्र अपि प्राप्नोति । न एषः दोषः । हम्मतेः हंसः । कः पुनः आह हम्मतेः हंसः इति । किं तर्हि हन्तेः हंसः । हन्ति अध्वानं इति । एवं तर्हि सर्वनामस्थाने इति वर्तते । सर्वनामस्थानपरतया सान्तसंयोगं विशेषयिष्यामः । सर्वनामस्थानपरस्य सान्तसंयोगस्य नोपाधायाः इति । (कात्यायन वार्तिक)अन्कारान्तस्य अल्लोपे(वार्तिकान्त) । अन्कारान्तस्य अल्लोपे प्रयोजनं । तक्ष्णा , तक्ष्णे इति । त इति अत्र अपि प्राप्नोति । अनन्त्यविकारे अन्त्यसदेशस्य कार्यं भवति इति न दोषः भवति । एततपि न अस्ति प्रयोजनं । अना अकारं विशेषयिष्यामः । अनः यः अकारः इति । एवं अपि अनसा , अनसे इति अत्र अपि प्राप्नोति । अन्कारेण अङ्गं विशेषयिष्यामः । अन्कारान्तस्य अङ्गस्य अनः यः अकारः इति । एवं अपि अनस्तक्ष्णा , अनस्तक्ष्णे इति अत्र अपि प्राप्नोति । एवं तर्हि कार्यकालं सञ्ज्ञापरिभाषं । यत्र कार्यं तत्र उपस्थितं द्रष्टव्यं । भस्य इति उपस्थितं इदं भवति यचि भं इति । तत्र यजादिपरत्या अन्कारं विशेषयिष्यामः अना अकारं । यजादिपरस्य अनः यः अकारः इति । (कात्यायन वार्तिक)मृजेः वृद्धिविधौ(वार्तिकान्त) । मृजेः वृद्धिविधौ प्रयोजनं । न्यमार्ट। अटः अपि वृद्धिः प्राप्नोति । अनन्त्यविकारे अन्त्यसदेशस्य कार्यं भवति इति न दोषः भवति । एततपि न अस्ति प्रयोजनं । यथापरिभाषितं इकः गुणवृद्धी इति इकः एव वृद्धिः भविष्यति । एवं अपि मिमार्जिषति इति अत्र प्राप्नोति । अस्तु । अभ्यासनिर्ह्रासेन ह्रस्वः भविष्यति । (कात्यायन वार्तिक)वसोः सम्प्रसारणे च(वार्तिकान्त) । वसोः सम्प्रसारणे च प्रयोजनं । विदुषः पश्य । विदिवकारस्य अपि प्राप्नोति । अनन्त्यविकारे अन्त्यसदेशस्य कार्यं भवति इति न दोषः भवति । एततपि न अस्ति प्रयोजनं । न सम्प्रसारणे सम्प्रसारणं इति प्रतिषेधः भविष्यति । दकारेण (ऱः इद्कारेण) व्यवहितत्वात्न प्राप्नोति । एवं तर्हि निर्दिश्यमानस्य आदेशाः भवन्ति इति न भविष्यति । (कात्यायन वार्तिक)युवादीनां च(वार्तिकान्त) । युवादीनां च सम्प्रसारणे प्रयोजनं । यूनः , यूना , यूने । यकारस्य अपि प्राप्नोति । अनन्त्यविकारे अन्त्यसदेशस्य कार्यं भवति इति न दोषः भवति । एततपि न अस्ति प्रयोजनं । न सम्प्रसारणे सम्प्रसारणं इति न भविष्यति । उकारेण व्यवहितत्वात्न प्राप्नोति । एकादेशे कृते न अस्ति व्यवधानं । एकादेशः पूर्वविधौ स्थानिवत्भवति इति स्थानिवद्भावात्व्यवधानं एव । एवं तर्हि समानाङ्गग्रहणं अत्र चोदयिष्यति । (कात्यायन वार्तिक)र्वोः उपधाग्रहणं च(वार्तिकान्त) । र्वोः उपधाग्रहणं च न कर्तव्यं भवति । इह कस्मात्न भवति । अबिभः भवान। अनन्त्यविकारे अन्त्यसदेशस्य कार्यं भवति इति न दोषः भवति । एततपि न अस्ति प्रयोजनं । क्रियते न्यासे एव । (कात्यायन वार्तिक)आदित्यदादिविधिसंयोगादिलोपकुत्वढत्वभष्भावषत्वणत्वेषु अतिप्रसङ्गः(वार्तिकान्त) । आदिविधौ अतिप्रसङ्गः भवति । धात्वादेः षः सः । णः नः । इह एव स्यात। नेता , सोता । इह न स्यात। नमति , सिञ्चति । आदि । त्यदादिविधि । इह एव स्यात। तत्, सः । त्यत्, स्यः इति अत्र न स्यात। त्यदादिविधि । संयोगादिलोप । इह एव स्यात। मङ्क्ता । मङ्क्तव्यं इति अत्र न स्यात। संयोगादिलोप । कुत्व । इह एव स्यात। पक्ता । पक्तव्यम्भष्भाव । इति अत्र न स्यात। कुत्व । ढत्व । इह एव स्यात। लेढा । लेढव्यं इति अत्र न स्यात। ढत्व । भष्भाव । इह एव स्यात। अभुत्सि । अभुत्सातां इति अत्र न स्यात। भष्भाव । षत्व । इह एव स्यात। द्रष्टा । द्रष्टव्यं इति अत्र न स्यात। षत्व । णत्व । इह एव स्यात। माषावापेण । माषावापाणां इति अत्र न स्यात। णत्व । एते दोषाः समाः भूयांसः वा । तस्मात्न अर्थः अनया परिभाषया । न हि दोषा सन्ति इति परिभाषा न कर्तव्या लक्षणं वा न प्रणेयं । न हि भिक्षुकाः सन्ति इति स्थाल्यः न अधिश्रीयन्ते न च मृगाः सन्ति इति यवाः न उप्यन्ते । दोषाः खलु अपि साकल्येन परिगणिताः प्रयोजनानां उदाहरणमात्रं । कुत एतत। न हि दोषाणां लक्षणं अस्ति । तस्मात्यानि एतस्याः परिभाषायाः प्रयोजनानि तदर्थं एषा परिभाषा कर्तव्या प्रतिविधेयं च दोषेषु । इदं प्रतिविधीयते । (कात्यायन वार्तिक)उदात्तनिर्देशात्सिद्धम्(वार्तिकान्त) । यत्र एषा परिभाषा इष्यते तत्र उदात्तनिर्देशः कर्तव्यः । ततः वक्तव्यं अनन्त्यविकारे अन्त्यसदेशस्य कार्यं भवति उदात्तनिर्देशे इति । सः तर्हि उदात्तनिर्देशः कर्तव्यः । न कर्तव्यः । यत्र एव अन्त्यसदेशः च अनन्त्यसदेशः च युगपत्समवस्थितौ तत्र एषा परिभाषा भवति । दोषेषु च अन्यत्र अन्त्यसदेशः अन्यत्र अनन्त्यसदेशः । प्रयोजनेषु पुनः तत्र एव अन्त्यसदेशः च अनन्त्यसदेशः च । तथाजातीयकानि खलु अपि आचार्येण प्रयोजनानि पठितानि यानि उभयवन्ति । इदं एकं यथा दोषः तथा र्वोः उपधाग्रहणं इति । तत्च अपि क्रियते न्यासे एव ।
(पाणिनीयसूत्र ६,१।१४) कि.।२४।२-५ रो. ईV।३३१ मातच। कारीषगन्ध्या माता अस्य कारीषगन्धीमातः , कारीषगन्ध्यामातः । मातच। मातृक । कारीषगन्धीमातृकः , कारीषगन्ध्यामातृकः । मातृक । मातृ । कारीषगन्धीमाता , कारीषगन्ध्यामाता । मातृ ।
(पाणिनीयसूत्र ६,१।१६) कि.।२४।८-२५।५ रो. ईV।३३१-३३३ वयिग्रहणं किमर्थं न वेञ्यजादिषु पठ्यते वेञः च वयिः आदेशः क्रियते तत्र यजादीनां किति इति एव सिद्धं । तत्र एतत्स्यात। ङिदर्थः अयं आरम्भः इति । तत्च न । लिटि अयं आदेशः लिट्च कितेव । अतः उत्तरं पठति । (कात्यायन वार्तिक)वयिग्रहणं वेञः प्रतिषेधात्(वार्तिकान्त) । वयिग्रहणं क्रियते वेञः प्रतिषेधात। वेञः लिटि प्रतिषेधं वक्ष्यति । सः वयेः मा भूतिति । यथा एव हि वेञ्ग्रहणात्विधिः प्रार्थ्यते एवं प्रतिषेधः अपि प्राप्नोति । (कात्यायन वार्तिक)न वा यकारप्रतिषेधः ज्ञापकः अप्रतिषेधस्य(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । यतयं लिटि वयः यः इति वयेः यकारस्य सम्प्रसारणप्रतिषेधं शास्ति तत्ज्ञापति आचार्यः न वेञ्ग्रहणात्सम्प्रसारणप्रतिषेधः भवति इति । न एततस्ति ज्ञापकं । पिति अभ्यासार्थं एतत्स्यात। वयेः पित्सु वचनेषु अभ्यासस्य यकारस्य सम्प्रसारणं मा भूतिति । ननु च वेञ्ग्रहणात्वयेः पित्सु अपि वचनेषु अभ्यासयकारस्य सम्प्रसारणप्रतिषेधः सिद्धः । न सिध्यति । किं कारणं । किति इति तत्र अनुवर्तते । एवं अपि वयेः पित्सु अपि वचनेषु अभ्यासयकारस्य सम्प्रसारणं न प्राप्नोति । किं कारणं । हलादिशेषेण बाध्यते । न अत्र हलादिशेषः प्राप्नोति । किं कारणं । वक्ष्यति हि एततभ्याससम्प्रसारणं हलादिशेषात्विप्रतिषेधेन इति । सः एषः वयेः यकारस्य सम्प्रसारणप्रतिषेधः पिति अभ्यासार्थः न ज्ञापकार्थः भवति । (कात्यायन वार्तिक)पिति अभ्यासार्थं इति चेत्न अविशिष्टत्वात्(वार्तिकान्त) । पिति अभ्यासार्थं इति चेत्तत्न । किं कारणं । अविशिष्टत्वात। अविशेषेण प्रतिषेधः । निवृत्तं तत्र किति इति । आतः च अविशेषेण । वेञः अपि हि पित्सु वचनेषु अभ्यासस्य सम्प्रसारणं न इष्यते । ववौ वविथ इति । विकृतिग्रहणं खलु अपि प्रतिषेधे क्रियते न च विकृतिः प्रकृतिं गृह्णाति ।
(पाणिनीयसूत्र ६,१।१७।१) कि.।२५।७-१० रो. ईV।३३३ ग्रहिवृश्चतिपृच्छतिभृज्जतीनां अविशेषः । यतुच्यते वृश्चेः अविशेषः इति तत्न । यदि अत्र रेफस्य सम्प्रसारणं न स्यात्वकारस्य प्रसज्येत । रेफस्य पुनः सम्प्रसारणे सति उः अदत्त्वस्य स्थानिवद्भावात्न सम्प्रसारणे सम्प्रसारणं इति प्रतिषेधः सिद्धः भवति । तस्मात्वक्तव्यं ग्रहेः अविषेषः पृच्छतिभृज्जत्योः अविशेषः इति ।
(पाणिनीयसूत्र ६,१।१७।२) कि.।२५।११-२२ रो. ईV। ३३३-३३४ अथ उभयग्रहणं किमर्थं । उभयेषां अभ्यासस्य सम्प्रसारणं यथा स्यात्वचिस्वपियजादीनां ग्रहादीनां च । न एततस्ति प्रयोजनं । प्रकृतं उभयेषां ग्रहणं अनुवर्तते । यदि अनुवर्तते ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च इति यजादीनां ङिति अपि प्राप्नोति । न एषः दोषः । सम्बन्धं अनुवर्तिष्यते । वचिस्वपियजादीनां किति । ग्रहादीनां ङिति च वचिस्वपियजादीनां किति । ततः लिटि अभ्यासस्य उभयेषां । किति ङिति इति निवृत्तं । अथ वा मण्डूकगतयः अधिकाराः । यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वतधिकाराः । अथ वा एकयोगः करिष्यते । वचिस्वपियजादीनां किति ग्रहादीनां ङिति च इति । ततः लिटि अभ्यासस्य इति । न च एकयोगे अनुवृत्तिः भवति । अथ वा उभयं निवृत्तं । ततपेक्षिष्यामहे । इदं तर्हि उभयेषाङ्ग्रहणस्य प्रयोजनं । उभयेषां अभ्यासस्य सम्प्रसारणं एव यथा स्यात। यतन्यत्प्राप्नोति तत्मा भूतिति । किं च अन्यत्प्राप्नोति । हलादिशेषः । अभ्याससम्प्रसारणं हलादिशेषात्विप्रतिषेधेन इति वक्ष्यति । सः पूर्वविप्रतिषेधः न पठितव्यः भवति ।
(पाणिनीयसूत्र ६,१।१७।३) कि.।२५।२३-२७।३ रो. ईV।३३४-३३६ (कात्यायन वार्तिक)अभ्याससम्प्रसारणं हलादिशेषात्विप्रतिषेधेन(वार्तिकान्त) । अभ्याससम्प्रसारणं हलादिशेषात्भवति [भवति हलादिशेषातः ऱ्] विप्रतिषेधेन । अभ्याससम्प्रसारणस्य अवकाशः : इयाज, उवाप । हलादिशेषस्य अवकाशः : बिभिदतुः , बिभिदुः । इह उभयं प्राप्नोति विव्याध , विव्यधिथ । अभ्याससम्प्रसारणं भवति पूर्वविप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । (कात्यायन वार्तिक)न वा सम्प्रसारणाश्रयबलीयस्त्वातन्यत्र अपि(वार्तिकान्त) । न वा वक्तव्यः । किं कारणं । सम्प्रसारणाश्रयबलीयस्त्वातन्यत्र अपि । सम्प्रसारणं सम्प्रसारणाश्रयं च बलीयः भवति इति वक्तव्यं । अन्यत्र अपि न अवश्यं इह एव वक्तव्यं । किं प्रयोजनं । (कात्यायन वार्तिक)प्रयोजनं रमाल्लोपेयिअङ्यणः(वार्तिकान्त) । रं । भृष्टः, भृष्टवान। सम्प्रसारणं च प्राप्नोति रम्भावः च । परत्वात्रम्भावः स्यात। सम्प्रसारणं बलीयः भवति इति वक्तव्यं सम्प्रसारणं यथा स्यात। रं । आल्लोपः । जुहुवतुः , जुहुवुः । सम्प्रसारणं च प्राप्नोति आल्लोपः च । परत्वाताल्लोपः स्यात। सम्प्रसारणं बलीयः भवति इति वक्तव्यं सम्प्रसारणं यथा स्यात। सम्प्रसारणे कृते पूर्वत्वं च प्राप्नोति आल्लोपः च । परत्वाताल्लोपः स्यात। सम्प्रसारणाश्रयं बलीयः भवति इति वक्तव्यं पूर्वत्वं यथा स्यात। इयङ। शुशुवतुः , शुशुवुः । सम्प्रसारणं च प्राप्नोति इयङादेशः च । परत्वातियङादेशः स्यात। सम्प्रसारणं बलीयः भवति इति वक्तव्यं सम्प्रसारणं यथा स्यात। यण। सम्प्रसारणे कृते पूर्वत्वं च प्राप्नोति यणादेशः च । परत्वात्यणादेशः स्यात। सम्प्रसारणाश्रयं बलीयः भवति इति वक्तव्यं पूर्वत्वं यथा स्यात। इयङ। न एतानि सन्ति प्रयोजनानि । यत्तावतुच्यते रं इति इदं इह सम्प्रधार्यं : रम्भावः क्रियतां सम्प्रसारणं इति । किं अत्र कर्तव्यं । परत्वात्रम्भावः । नित्यं सम्प्रसारणं । कृते अपि रम्भाबे प्राप्नोति अकृते अपि । रम्भावः अपि नित्यः । कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि । कथं । यः असौ ऋकारे रेफः तस्य च उपधायाः च प्राप्नोति । अनित्यः रम्भावः । न हि कृते सम्प्रसारणे प्राप्नोति । किं कारणं । उपदेशे इति वर्तते । तत्च अवश्यं उपदेशग्रहणं अनुवर्त्यं बरीभृज्यते इति एवमर्थं । आल्लोपेयङ्यणः इति । नित्यं सम्प्रसारणं । अन्तरङ्गं पूर्वत्वं । ततेततनन्यार्थं सम्प्रसारणाश्रयं बलीयः भवति इति वक्तव्यं पूर्वविप्रतिषेधः वा वक्तव्यः । उभयं न वक्तव्यं । उक्तं अत्र उभयेषाङ्ग्रहणस्य प्रयोजनं उभयेषां अभ्यासस्य सम्प्रसारणं एव यथा स्यात। यतन्यत्प्राप्नोति तत्मा भूतिति ।
(पाणिनीयसूत्र ६,१।१७।४) कि.।२७।४-७ रो. ईV।३३६ (कात्यायन वार्तिक)व्यचेः कुटादित्वं अनसि अञ्णिति सम्प्रसारणार्थम्(वार्तिकान्त) । व्यचेः कुटादित्वं अनसि इति वक्तव्यं । किं प्रयोजनं । अञ्णिति सम्प्रसारणार्थं । अञ्णिति सम्प्रसारणं यथा स्यात। उद्विचिता , उद्विचितुं , उद्विचितव्यं । अनसि इति किमर्थं । उरुव्यचाः कण्टकः ।
(पाणिनीयसूत्र ६,१।१८) कि.।२७।९-१० रो. ईV।३३६-३३७ चङ्ग्रहणं शक्यं अकर्तुं । कथं । ङिति इति वर्तते न च अन्यः स्वापेः ङितस्ति अन्यततः चङः ।
(पाणिनीयसूत्र ६,१।२०) कि.।२७।१२-१६ रो. ईV।३३७ (कात्यायन वार्तिक)वशेः यङि प्रतिषेधः(वार्तिकान्त) । वशेः यङि प्रतिषेधः वक्तव्यः सम्प्रसारणस्य । वावश्यते । क्व मा भूत। उष्टः , उशन्ति इति । सः तर्हि तथा प्रतिषेधः वक्तव्यः । न वक्तव्यः । यङि इति वर्तते । एवं तर्हि अन्वाचष्टे यङि इति वर्तते इति । न एततन्वाख्येयं अधिकाराः अनुवर्तन्ते इति । एषः एव न्यायः यतुत अधिकाराः अनुवर्तेरनिति ।
(पाणिनीयसूत्र ६,१।२७) कि.।२७।१८-२८।५ रो. ईV।३३७-३३८ किं निपात्यते । (कात्यायन वार्तिक)श्रास्रप्योः शृभावः(वार्तिकान्त) । श्रास्रप्योः शृभावः निपात्यते । क्षीरहविषोः इति वक्तव्यं । शृतं क्षीरं । शृतं हविः । क्व मा भूत। श्राणा यवागूः , श्रपिता यवागूः इति । (कात्यायन वार्तिक)श्रपेः शृतं अन्यत्र हेतोः(वार्तिकान्त) । श्रपेः शृतं अन्यत्र हेतोः इति वक्तव्यं इह मा भूत। श्रपितं क्षीरं देवदत्तेन यज्ञदत्तेन इति ।
(पाणिनीयसूत्र ६,१।२८) कि.।२८।७-१२ रो. ईV।३३८-३३९ (कात्यायन वार्तिक)आङ्पूर्वातन्धूधसोः(वार्तिकान्त) । आङ्पूर्वातन्धूधसोः इति वक्तव्यं । आपीनः अन्धुः , आपीनं ऊधः । किं प्रयोजनं । नियमार्थं । आङ्पूर्वातन्धूधसोः एव । क्व मा भूत। आप्यानः चन्द्रमाः इति । उभयतः नियमः च अयं द्रष्टव्यः । आङ्पूर्वातेव अन्धूधसोः , अन्धूधसोः एव आङ्पूर्वातिति । क्व मा भूत। प्रप्यानः अन्धुः , प्रप्यानं ऊधः । आङ्पूर्वात्च एष नियमः द्रष्टव्यः । भवति हि पीनं मुखं , पीनाः शम्बट्यः , श्लक्ष्णपीनमुखी कन्या इति ।
(पाणिनीयसूत्र ६,१।३०) कि.।२८।१४-२९।६ रो. ईV।३३९-३४० (कात्यायन वार्तिक)श्वेः लिटि अभ्यासलक्षणप्रतिषेधः(वार्तिकान्त) । श्वेः लिटि अभ्यासलक्षणं सम्प्रसारणं नित्यं प्राप्नोति । तस्य प्रतिषेधः वक्तव्यः । शिश्वियतुः , शिश्वियुः । किं उच्यते लिटि अभ्यासलक्षणस्य इति न पुनः किल्लक्षणस्य अपि । किल्लक्षणं अपि हि नित्यं अत्र प्राप्नोति । किल्लक्षणं श्वयतिलक्षणं बाधिष्यते । यथा एव तर्हि किल्लक्षणं श्वयतिलक्षणं बाधते एवं अभ्यासलक्षणं अपि बाधेत । न ब्रूमः अपवादत्वात्किल्लक्षणं श्वयतिलक्षणं बाधिष्यते इति । किं तर्हि । परत्वात। श्वयतिलक्षणस्य अवकाशः पिति वचनानि । शुशाव, शुशविथ , शिश्वाय, शिश्वयिथ । किल्लक्षणस्य अवकाशः अन्ये कितः । शूनः, शूनवान। इह उभयं प्राप्नोति । शिश्वियतुः , शिश्वियुः इति । श्वयतिलक्षणं भवति विप्रतिषेधेन । अभ्यासलक्षणातपि तर्हि श्वयतिलक्षणं भविष्यति विप्रतिषेधेन । अभ्यासलक्षणस्य अवकाशः अन्ये यजादयः । इयाज, उवाप । श्वयतिलक्षणस्य अवकाशः परं धातुरूपं । शुशुवतुः , शुशुवुः , शुशुविथ । श्वयतेः अभ्यासस्य उभयं प्राप्नोति । शिशिवियतुः , शिश्वियुः । श्वयतिलक्षणं भविष्यति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । न हि श्वयतेः अभ्यासस्य अन्ये यजादयः अवकाशः । श्वयतेः यजादिषु यः पाठः सः अनवकाशः । तस्य अनवकाशत्वातयुक्तः विप्रतिषेधः । तस्मात्सुष्ठु उक्तं श्वेः लिटि अभ्यासलक्षणप्रतिषेधः इति ।
(पाणिनीयसूत्र ६,१।३२-३३) कि.।२९।८-३०।१४ रो. ईV।३४१-३४४ (कात्यायन वार्तिक)ह्वः सम्प्रसारणे योगविभागः(वार्तिकान्त) । ह्वः सम्प्रसारणे योगविभागः कर्तव्यः । ह्वः सम्प्रसारणं भवति णौ च संश्चङोः । ततः अभ्यस्तस्य च । अभ्यस्तस्य च ह्वः सम्प्रसारणं भवति इति । किमर्थः योगविभागः । (कात्यायन वार्तिक)णौ संश्चङ्विषयाऋथः(वार्तिकान्त) । णौ च संश्चङ्विषये ह्वः सम्प्रसारणं यथा स्यात। जुहावयिषति , अजूहवत। किं पुनः कारणं न सिध्यति । ह्वः अभ्यस्तस्य इति उच्यते न च एतत्ह्वः अभ्यस्तं । कस्य तर्हि । ह्वाययतेः । ह्वः एततभ्यस्तं । कथं । एकाचः द्वे प्रथमस्य । एवं तर्हि ह्वयतेः अभ्यस्तस्य इति उच्यते न च अत्र ह्वयतिः अभ्यस्तः । कः तर्हि । ह्वाययतिः । ह्वयतिः एव अत्र अभ्यस्तः । कथं । एकाचः द्वे प्रथमस्य इति । एवं अपि (कात्यायन वार्तिक)अभ्यस्तिनिमित्ते अनभ्यस्तप्रसारणार्थम्(वार्तिकान्त) । अभ्यस्तिनिमित्ते इति वक्तव्यं । किं प्रयोजनं । अनभ्यस्तप्रसारणार्थं । अनभ्यस्तस्य प्रसारणं यथा स्यात। जुहूषति , जोहूयते । (कात्यायन वार्तिक)अभ्यस्तप्रसारणे हि अभ्यासप्रसारणाप्राप्तिः(वार्तिकान्त) । अभ्यस्तप्रसारणे हि अभ्यासप्रसारणस्य अप्राप्तिः स्यात। न सम्प्रसारणे सम्प्रसारणं इति प्रतिषेधः प्रसज्येत । न एषः दोषः । व्यवहितत्वात्न भविष्यति । (कात्यायन वार्तिक)समानाङ्गे प्रसारणप्रतिषेधात्प्रतिषेधः(वार्तिकान्त) । समानाङ्गे प्रसारणप्रतिषेधात्प्रतिषेधः प्राप्नोति । समानाङ्गग्रहणं तत्र चोदयिष्यति । (कात्यायन वार्तिक)कृदन्तप्रतिषेधार्थं च(वार्तिकान्त) । कृदन्तप्रतिषेधार्थं च अभ्यस्तिनिमित्ते इति वक्तव्यं । किं प्रयोजनं । ह्वायकं इच्छति ह्वायकीयति । ह्वायकीयतेः सन। जिह्वायकीयिषति । सः तर्हि निमित्तशब्दः उपादेयः । न हि अन्तरेण निमित्तशब्दं निमित्तार्थः गम्यते । अन्तरेण अपि निमित्तशब्दं निमित्तार्थः गम्यते । तत्यथा : दधित्रपुसं प्रत्यक्षः ज्वरः । ज्वरनिमित्तं इति गम्यते । नड्वलोदकं पादरोगः । पादरोगनिमित्तं इति गम्यते । आयुः घृतं । आयुषः निमित्तं इति गम्यते । अथ वा अकारः मत्वर्थीयः । अभ्यस्तं अस्मिनस्ति सः अयं अभ्यस्तः । अभ्यस्तस्य इति । अथ वा अभ्यस्तस्य इति न एषा ह्वयतिसमानाधिकरणा षष्ठी । का तर्हि । सम्बन्धषष्ठी । अभ्यस्तस्य यः ह्वयतिः । किं च अभ्यस्तस्य ह्वयतिः । प्रकृतिः । ह्वः अभ्यस्तस्य प्रकृतेः इति । योगविभागः तु कर्तव्यः एव । न अत्र ह्वयतिः अभ्यस्तस्य प्रकृतिः । किं तर्हि । ह्वाययतिः ।
(पाणिनीयसूत्र ६,१।३६) कि.।३०।१७-३१।२ रो. ईV।३४४-३४५ अपस्पृधेथां इति किं निपात्यते । स्पर्धेः लङि आत्मनेपदानां मध्यमपुरुषस्य द्विवचने आथामि द्विर्वचनं सम्प्रसारणं अकारलोपः च निपात्यते । इन्द्रः च विष्णो यतपस्पृधेथां । अस्पृधेथां इति भाषायां । अपरः आह : अपपूर्वात्स्पर्धेः लङि आत्मनेपदानां मध्यमपुरुषस्य द्विवचने आथामि द्विर्वचनं सम्प्रसारणं अकारलोपः च निपात्यते । इन्द्रः च विष्णो यतपस्पृधेथां । अपास्पृधेथां इति भाषायां । श्राताः श्रितं इति किं निपात्यते । श्रीणातेः क्ते श्राभावश्रिभावौ निपात्येते । क्व पुनः श्राभावः क्व वा श्रिभावः । सोमे श्राभावः अन्यत्र श्रिभावः । न तर्हि इदानीं इदं भवति : श्रितः सोमः इति । बहुवचने श्राभावः । न तर्हि इदानीं इदं भवति : श्रिताः नः ग्रहाः इति । सोमबहुत्वे श्राभावः अन्यत्र श्रिभावः ।
(पाणिनीयसूत्र ६,१।३७।१) कि.।३१।४-३२।१४ रो. ईV।३४५-३४७ किमर्थं इदं उच्यते । वचिस्पवियजादीनां ग्रहादीनां च सम्प्रसारणं उक्तं । तत्र यावन्तः यणः सर्वेषां सम्प्रसारणं प्राप्नोति । इष्यते च परस्य यथा स्यात्न पूर्वस्य तत्च अन्तरेण यत्नं न सिध्यति इति न सम्प्रसारणे सम्प्रसारणं । किं अन्ये अपि एवं विधयः भवन्ति । अतः दीर्घः यञि । सुपि च इति । घटाभ्यां । अकारमात्रस्य दीर्घत्वं कस्मात्न भवति । अस्ति अत्र विशेषः । इयं अत्र परिभाषा उपतिष्ठते । अलः अन्त्यस्य इति । ननु च इदानीं एतया परिभाषया इह (ऱः इह अपि) शक्यं उपस्थातुं । न इति आह । न हि वचिस्पवियजादीनां ग्रहादीनां च अन्त्यः यणस्ति । एवं तर्हि अनन्त्यविकारे अन्त्यसदेशस्य कार्यं भवति इति अन्त्यसस्देशः यः यण्तस्य कार्यं भविष्यति । न एतस्याः परिभाषायाः सन्ति प्रयोजनानि । एवं तर्हि आचार्यप्रवृत्तिः ज्ञापयति न सर्वस्य यणः सम्प्रसारणं भवति इति यतयं प्यायः पीभावं शास्ति । कथं कृत्वा ज्ञापकं । पीभाववचने एतत्प्रयोजनं आपीनः अन्धुः , आपीनं ऊधः एतत्रूपं यथा स्यातिति । यदि च अत्र सर्वस्य यणः सम्प्रसारणं स्यात्पीभाववचनं अनर्थकं स्यात। सम्प्रसारणे कृते सम्प्रसारणपरपूर्वत्वे च द्वयोः इकारयोः एकादेशे सिद्धं रूपं स्यातापीनः अन्धुः , आपीनं ऊधः इति । पश्यति तु आचार्यः न सर्वस्य यणः सम्प्रसारणं भवति इति । ततः अयं प्यायः पीभावं शास्ति । न एततस्ति ज्ञापकं । सिद्धे हि विधिः आरभ्यमाणः ज्ञापकार्थः भवति न च प्यायः सम्प्रसारणेन सिध्यति । सम्प्रसारणे हि सति अन्त्यस्य प्रसज्येत । एवं अपि ज्ञापकं एव । कथं । प्यायः इति न एषा स्थानषष्ठी । का तर्हि । विशेषणषष्ठी । प्यायः यः यणिति । ततेतत्ज्ञापयति आचार्यः न सर्वस्य यणः सम्प्रसारणं भवति इति यतयं प्यायः पीभावं शास्ति । एवं अपि अनैकान्तिकं एतत। एतावत्ज्ञाप्यते न सर्वस्य यणः सम्प्रसारणं भवति इति । तत्र कुतः एतत्परस्य भविष्यति न पूर्वस्य इति । उच्यमाने अपि एतस्मिन्कुतः एतत्परस्य भविष्यति न पूर्वस्य इति । एकयोगक्षणं खलु अपि सम्प्रसारणं । तत्यदि तावत्परं अभिनिर्वृत्तं पूर्वं अपि अभिनिर्वृत्तं एव । प्रसक्तस्य अनभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुं न अभिनिर्वृत्तस्य । यः हि भुक्तवन्तं ब्रूयात्मा भुक्थाः इति किं तेन कृतं स्यात। अथ अपि पूर्वं अनभिनिर्वृत्तं परं अपि अनभिनिर्वृत्तं एव । तत्र निमित्तसंश्रयः अनुपपन्नः न सम्प्रसारणे सम्प्रसारणं इति । न एषः दोषः । यत्तावतुच्यते उच्यमाने अपि एतस्मिन्कुतः एतत्परस्य भविष्यति न पूर्वस्य इति । इह इङ्गितेन चेष्टितेन निमिषितेन महता वा सूत्रप्रबन्धेन आचार्याणां अभिप्रायः गम्यते । एततेव ज्ञापयति परस्य भविष्यति न पूर्वस्य इति यतयं न सम्प्रसारणे सम्प्रसारणं इति प्रतिषेधं शास्ति । यतपि उच्यते एकयोगलक्षणं खलु अपि सम्प्रसारणं । तत्यदि तावत्परं अभिनिर्वृत्तं पूर्वं अपि अभिनिर्वृत्तं एव । प्रसक्तस्य अनभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुं इति । अस्तु उभयोः अभिनिर्वृत्तिः । न वयं पूर्वस्य प्रतिषेधं शिष्मः । किं तर्हि । सम्प्रसारणाश्रयं यत्प्राप्नोति तस्य प्रतिषेधं । ततः पूर्वत्वे प्रतिषिद्धे यणादेशेन सिद्धं । यतपि उच्यते अथ अपि पूर्वं अनभिनिर्वृत्तं परं अपि अनभिनिर्वृत्तं एव । तत्र निमित्तसंश्रयः अनुपपन्नः इति । तादर्थ्यात्ताच्छब्द्यं भविष्यति । तत्यथा इन्द्रार्था स्थूणा इन्द्रः इति एवं इह अपि सम्प्रसारणार्थं सम्प्रसारणं । तत्यत्प्रसारणार्थं प्रसारणं तस्मिन्प्रतिषेधः भविष्यति ।
(पाणिनीयसूत्र ६,१।३७।२) कि.।३२।१५-३३।८ रो. ईV।३४७-३४९ अथ सम्प्रसारणं इति वर्तमाने पुनः सम्प्रसारणग्रहणं किमर्थं । (कात्यायन वार्तिक)प्रसारणप्रकरणे पुनः प्रसारणग्रहणं अतः अन्यत्र प्रसारणप्रतिषेधार्थम्(वार्तिकान्त) । सम्प्रसारणप्रकरणे पुनः प्रसारणग्रहणे (ऱः सम्प्रसारणग्रहणे) एतत्प्रयोजनं । विदेशस्थं अपि यत्सम्प्रसारणं तस्य अपि प्रतिषेधः यथा स्यात। व्यथः लिटि । विव्यथे । न एततस्ति प्रयोजनं । हलादिशेषापवादः अत्र सम्प्रसारणं । इदं तर्हि श्वयुवमघोनां अतद्धिते । यूना , यूने । उच्यमाने अपि एतस्मिन्न सिध्यति । किं कारणं । उकारेण व्यवधानात। एकादेशे कृते न अस्ति व्यवधानं । एकादेशः पूर्वविधौ स्थानिवत्भवति इति स्थानिवद्भावात्व्यवधानं एव । एवं तर्हि (कात्यायन वार्तिक)समानाङ्गग्रहणं च(वार्तिकान्त) । समानाङ्गग्रहणं च कर्तव्यं । न सम्प्रसारणे सम्प्रसारणं समानाङ्गे इति वक्तव्यं । (कात्यायन वार्तिक)तत्र उपोषुषि दोषः(वार्तिकान्त) । तत्र उपोषुषि दोषः भवति । (कात्यायन वार्तिक)न वा यस्य अङ्गस्य प्रसारणप्राप्तिः तस्मिन्प्राप्तिप्रतिषेधात्(वार्तिकान्त) । न वा एषः दोषः । किं कारणं यस्य अङ्गस्य प्रसारणप्राप्तिः तस्मिन्द्वितीया या प्राप्तिः सा प्रतिषिध्यते । अत्र च वसिः क्वसौ अङ्गं क्वसन्तं पुनः विभक्तौ । अथ वा यस्य अङ्गस्य प्रसारणप्राप्तिः इति अनेन किं क्रियते । यावत्ब्रूयात्प्रसक्तस्य अनभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुं इति । अत्र च यदा वसेः न तदा क्वसोः यदा च क्वसोः अभिनिर्वृत्तं तदा वसेः भवति । अथ वा यस्य अङ्गस्य प्रसारणप्राप्तिः इति अनेन किं क्रियते । यावत्ब्रूयातसिद्धं बहिरङ्गं अन्तरङ्गे इति । असिद्धत्वात्बहिरङ्गलक्षणस्य वसौसम्प्रसारणस्य अन्तरङ्गलक्षणः प्रतिषेधः न भविष्यति ।
(पाणिनीयसूत्र ६,१।३७।३) कि.।३३।९-१७ रो. ईV।३४९-३५० (कात्यायन वार्तिक)ऋचि त्रेः उत्तरपदादिलोपः छन्दसि(वार्तिकान्त) । ऋचि त्रेः सम्प्रसारणं वक्तव्यं । उत्तरपदादिलोपः छन्दसि वक्तव्यः । तृचं सूक्तं । तृचं साम । छन्दसि इति किं । त्र्यृचानि । (कात्यायन वार्तिक)रयेः मतौ बहुलम्(वार्तिकान्त) । रयेः मतौ सम्प्रसारणं बहुलं वक्तव्यं । आ रेवानेतु नः विशः । न च भवति । रयिमन्पुष्टिवर्धनः । (कात्यायन वार्तिक)कक्ष्यायाः सञ्ज्ञायाम्(वार्तिकान्त) । कक्ष्यायाः सञ्ज्ञायां मतौ सम्प्रसारणं वक्तव्यं । कक्षीवन्तं यः आशिजः । कण्वः कक्षीवान। सञ्ज्ञायां इति किं । कष्यावान्हस्ती ।
(पाणिनीयसूत्र ६,१।३९) कि.।३३।१९-३४।२ रो. ईV।३५० वश्चास्यग्रहणं शक्यं अकर्तुं । अन्यतरस्यां किति वेञः न सम्प्रसारणं भवति इति एव सिद्धं । कथं । सम्प्रसारणे कृते उवङादेशे च द्विर्वचनं सवर्णदीर्घत्वं । तेन सिद्धं ववतुः, ववुः , ऊवतुः, ऊवुः । वयेः अपि नित्यं यकारस्य प्रतिषेधः सम्प्रसारणस्य ऊयतुः , ऊयुः । त्रैशब्यं च इह साध्यं । तत्च एवं सति सिद्धं भवति । यदि एवं ववौ, वविथ इति न सिध्यति । ल्यपि च इति अनेन चकारेण लिटपि अनुकृष्यते । तस्मिन्नित्ये प्रसारणप्रतिषेधे प्राप्ते इयं किति विभाषा आरभ्यते ।
(पाणिनीयसूत्र ६,१।४५।१) कि.।३४।६-३५।१९ रो. ईV।३५१-३५५ कथं इदं विज्ञायते : एच्यः उपदेशे इति आहोस्वितेजन्तन्तं यतुपदेशे इति । किं च अतः । यदि विज्ञायते : एच्यः उपदेशे इति ढौकिता त्रौकिता इति अत्र अपि प्राप्नोति । अथ विज्ञायते : एजन्तन्तं यतुपदेशे इति न दोषः भवति । ननु च एजन्तन्तं यतुपदेशे इति अपि विज्ञायमाने अत्र अपि प्राप्नोति । एततपि व्यपदेशिवद्भावेन एजन्तं भवति उपदेशे । अर्थवता व्यपदेशिवद्भावः । ननु च एच्यः उपदेशे इति अपि विज्ञायमाने न दोषः भवति । अशिति इति उच्यते न च अत्र अशितं पश्यामः । ननु च ककारः एव अत्र अशित। न ककारे भवितव्यं । किं कारणं । नञिवयुक्तं अन्यसदृशाधिकरणे । तथा हि अर्थगतिः । नञ्युक्तं इवयुक्तं च अन्यस्मिन्तत्सदृशे कार्यं विज्ञायते । तथा हि अर्थः गम्यते । तत्यथा लोके : अब्राह्मणं आनय इति उक्ते ब्राह्मणसदृशं आनयति । न असौ लोष्टं आनीय कृती भवति । एवं इह अपि अशिति इति शित्प्रतिषेधातन्यस्मिनशिति शित्सदृशे कार्यं विज्ञास्यते । किं च अन्यत्शित्सदृशं । प्रत्ययः । इह तर्हि : ग्लै : ग्लानीयं , म्लै : म्लानीयं , वेञः वानीयं , शो : निशामीयं : परत्वातायादयः प्राप्नुवन्ति । ननु च एजन्तन्तं यतुपदेशे इति अपि विज्ञायमाने परत्वातायादयः प्राप्नुवन्ति । सन्तु । आयादिषु कृतेषु स्थानिवद्भावातेज्ग्रहणेन ग्रहणात्पुनः आत्त्वं भविष्यति । ननु च एच्यः उपदेशे इति अपि विज्ञायमाने परत्वातायादिषु कृतेषु स्थानिवद्भावातेज्ग्रहणेन ग्रहणातात्त्वं भविष्यति । न भविष्यति । अनल्विधौ स्थानिवद्भावः अल्विधिः च अयं । एवं तर्हि एजन्तन्तं यतुपदेशे इति अपि विज्ञायमाने हूतः , हूतवानिति अत्र अपि प्राप्नोति । भवतु एव अत्र आत्त्वं । श्रवणं कस्मात्न भवति । पूर्वत्वं अस्य भविष्यति । न सिध्यति । इदं इह सम्प्रधार्यं : आत्त्वं क्रियतां पूर्वत्वं इति । किं अत्र कर्तव्यं । परत्वात्पूर्वत्वं । एवं तर्हि इदं इह सम्प्रधार्यं । आत्त्वं क्रियतां सम्प्रसारणं इति । किं अत्र कर्तव्यं । परत्वातात्त्वं । नित्यं सम्प्रसारणं । कृते अपि आत्त्वे प्राप्नोति अकृते अपि । आत्त्वं अपि नित्यं । कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि । अनित्यं आत्त्वं । न हि कृते सम्प्रसारणे प्राप्नोति । किं कारणं । अन्तरङ्गं पूर्वत्वं । तेन बाध्यते । यस्य लक्षणन्तरेण निमित्तं विहन्यते न ततनित्यं । न च सम्प्रसारणं एव आत्त्वस्य निमित्तं हन्ति । अवश्यं लक्षणान्तरं पूर्वत्वं प्रतीक्ष्यं । उभयोः नित्ययोः परत्वातात्त्वे कृते सम्प्रसारणं सम्प्रसारणपूर्वत्वं । कार्यकृतत्वात्पुनः आत्त्वं न भविष्यति । अथ अपि कथं चितात्त्वं अनित्यं स्यातेवं अपि न दोषः । उपदेशग्रहणं न करिष्यते । यदि न क्रियते चेता स्तोता इति अत्र अपि प्राप्नोति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न परनिमित्तकस्य आत्त्वं भवति इति यतयं क्रीङ्जीणां णौ आत्त्वं शास्ति । न एततस्ति ज्ञापकं । नियमार्थं एतत्स्यात। क्रीङ्जीणां णौ एव इति । यत्तर्हि मीनातिमिनोतिदीङां ल्यपि च इति अत्र एज्ग्रहणं अनुवर्तयति । इह तर्हि ग्लै ग्लानीयं , म्लै म्लानीयं , वेञ्वानीयं , शो निशामीयं परत्वातायादयः प्राप्नुवन्ति । अत्र अपि आचार्यप्रवृत्तिः ज्ञापयति न आयादयः आत्त्वं बाधन्ते इति यतयं अशिति इति प्रतिषेधं शास्ति । यदि हि बाधेरन्शिति अपि बाधेरन। अथ वा पुनः अस्तु एच्यः उपदेशे इति । ननु च उक्तं ग्लै ग्लानीयं , म्लै म्लानीयं , वेञ्वानीयं , शो निशामीयं परत्वातायादयः प्राप्नुवन्ति इति । अत्र अपि शित्प्रतिषेधः ज्ञापकः न आयादयः आत्त्वं बाधन्ते इति । (कात्यायन वार्तिक)आत्त्वे एशि उपसङ्ख्यानम्(वार्तिकान्त) । आत्त्वे एशि उपसङ्ख्यानं कर्तव्यं । जग्ले मम्ले । अशिति इति प्रतिषेधः प्राप्नोति । न एषः दोषः । न एवं विज्ञायते । शकारः इत्यस्य सः अयं शित। न शितशित। अशिति इति । कथं तर्हि । शकारः इत्शित। न शित्शितशित। अशिति इति । यदि एवं स्तनन्धयः इति अत्र अपि प्राप्नोति । अत्र अपि शप्शित्भवति ।
(पाणिनीयसूत्र ६,१।४५।२) कि.।३५।२०-३७।५ रो. ईV।३५५-३५८ किं पुनः अयं पर्युदासः : यतन्यत्शितः इति आहोस्वित्प्रसज्य अयं प्रतिषेधः : शिति न इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)अशिति एकादेशे प्रतिषेधः आदिवत्त्वात्(वार्तिकान्त) । अशिति एकादेशे प्रतिषेधः वक्तव्यः : ग्लायन्ति म्लयन्ति । किं कारणं । आदिवत्त्वात। शिदशितोः एकादेशः आदिवत्स्यात। अस्ति अन्यत्शितः इति कृत्वा आत्त्वं प्राप्नोति । (कात्यायन वार्तिक)प्रत्ययविधिः(वार्तिकान्त) । प्रत्ययविधिः च न सिध्यति । सुग्लः सुम्लः । आकारान्तलक्षणः प्रत्ययविधिः न प्राप्नोति । अनिष्टस्य प्रत्ययस्य श्रवणं प्रसज्येत । (कात्यायन वार्तिक)अभ्यासरूपं च(वार्तिकान्त) । अभ्यासरूपं च न सिध्यति : जग्ले मम्ले । इवर्णाभ्यासता प्राप्नोति । (कात्यायन वार्तिक)अयवायावां प्रतिषेधः च(वार्तिकान्त) । अयवायावां च प्रतिषेधः वक्तव्यः : ग्लै : ग्लानीयं , म्लै : म्लानीयं , वेञः वानीयं , शो : निशामीयं : परत्वातायादयः प्राप्नुवन्ति । अस्तु तर्हि प्रसज्य प्रतिषेधः शिति न इति । (कात्यायन वार्तिक)शिति प्रतिषेधे श्लुलुकोः उपसङ्ख्यानं ररीध्वं त्राध्वं शिशीते(वार्तिकान्त) । शिति प्रतिषेधे श्लुलुकोः उपसङ्ख्यानं कर्तव्यं । दिवः नः वृष्टिं मरुतः ररीध्वं । लुक। त्राध्वं नः देवा निजुरः वृकस्य । शिशीते शृङ्गे रक्षसे विनिक्षे । न एषः दोषः । इह तावत्दिवः नः वृष्टिं मरुतः ररीध्वं इति । न एतत्रै इति अस्य रूपं । कस्य तर्हि । रातेः दानकर्मणः । शिशीते शृङ्गे इति न एतत्श्यतेः रूपं । कस्य तर्हि । शीङः । श्यत्यर्थः वै गम्यते । कः पुनः श्यतेः अर्थः । श्यतिः निशाने वर्तते । शीङपि श्यत्यर्थे वर्तते । कथं पुनः अन्यः नाम अन्यस्य अर्थे वर्तते । बह्वर्थाः अपि धातवः भवन्ति इति । तत्यथा । वपिः प्रकिरणे दृष्टः छेदने च अपि वर्तते । केशान्वपति इति । ईडिः स्तुदिचोदनायाच्ञासु दृष्टः ईरणे च अपि वर्तते । अग्निः वै इतः वृष्टिं ईट्टे । मरुतः अमुतः च्यावयन्ति । करोतिः अयं अभूतप्रादुर्भावे दृष्टः निर्मलीकरणे च अपि वर्तते । पृष्ठं कुरु । पादौ कुरु । उन्मृदान इति गम्यते । निक्षेपणे च अपि दृश्यते । कटे कुरु । घटे कुरु । अश्मानं इतः कुरु । स्थापय इति गम्यते । सर्वेषां एव परिहारः । शिति इति उच्यते न च अत्र शितं पश्यामः । प्रत्ययलक्षणेन । न लुमता तस्मिनिति प्रत्ययलक्षणप्रतिषेधः । त्राध्वं इति लुङि एषः व्यत्ययेन भविष्यति । अथ वा पुनः अस्तु पर्युदासः । ननु च उक्तं अशिति एकादेशे प्रतिषेधः आदिवत्त्वातिति । न एषः दोषः । एकादेशः पूर्वविधौ स्थानिवत्भवति इति स्थानिवद्भावात्व्यवधानं । यतपि प्रत्ययविधिः इति । आचार्यप्रवृत्तिः ज्ञापयति भवति एजन्तेभ्यः आकारान्तलक्षणः प्रत्ययविधिः इति यतयं ह्वावामः च इति अणं कबाधनार्थं शास्ति । यतपि अभ्यासरूपं इति : प्रत्याख्यायते सः योगः । अथ अपि क्रियते एवं अपि न दोषः । कथं । लिटि इति अनुवर्तते । द्विलकारकः च अयं निर्देशः : लिटि लकारादौ इति । एवं च कृत्वा सः अपि अदोषः भवति यतुक्तं आत्त्वे एशि उपसङ्ख्यानं इति । यतपि उक्तं अयवायावां प्रतिषेधः च इति । शिति प्रतिषेधः ज्ञापकः न अयादयः आत्त्वं बाधन्ते इति ।
(पाणिनीयसूत्र ६,१।४५।३) कि.।३७।६-१६ रो. ईV।३५८-३५९ (कात्यायन वार्तिक)प्रातिपदिकप्रतिषेधः(वार्तिकान्त) । प्रातिपदिकानां प्रतिषेधः वक्तव्यः । गोभ्यां , गोभिः , नौभ्यां , नौभिः । सः तर्हि वक्तव्यः । न वक्तव्यः । आचार्यप्रवृत्तिः ज्ञापयति न प्रातिपदिकानां आत्त्वं भवति इति यतयं रायः हलः इति आत्त्वं शास्ति । न एततस्ति ज्ञापकं । नियमार्थं एतत्स्यात। रायः हलि एव इति । यत्तर्हि आ ओतः अम्शसोः इति आत्त्वं शास्ति । एतस्य अपि अस्ति वचने प्रयोजनं । अमि वृद्धिबाधनार्थं एतत्स्यात्शसि प्रतिषेधार्थं च । तस्मात्प्रातिपदिकानां प्रतिषेधः वक्तव्यः । न वक्तव्यः । (कात्यायन वार्तिक)धात्वधिकारात्प्रातिपदिकस्याप्राप्तिः(वार्तिकान्त) । धात्वधिकारात्प्रातिपदिकस्य आत्त्वं न भविष्यति । धातोः इति वर्तते । क्व प्रकृतं । लिटि धातोः अनभ्यासस्य इति । अथ अपि निवृत्तं एवं अपि अदोषः । उपदेशे इति उच्यते उद्देशः च प्रातिपदिकानां न उपदेशः ।
(पाणिनीयसूत्र ६,१।४८) कि.।३७।१८-२२ रो. ईV।३५९ (कात्यायन वार्तिक)आत्त्वे णौ लीयतेः उपसङ्ख्यानं प्रलम्भनशालीनीकरणयोः(वार्तिकान्त) । आत्त्वे णौ लीयतेः उपसङ्ख्यानं कर्तव्यं । किं प्रयोजनं । प्रलम्भने च अर्थे शालीनीकरणे च नित्यं आत्त्वं यथा स्यात। प्रलम्भने तावत। जटाभिः आलापयते । श्मश्रुभिः आलापयते । शालीनीकरणे । श्येनः वार्तिकं उल्लापयते । रथी रथिनं उपलपयते ।
(पाणिनीयसूत्र ६,१।४९) कि.।३८।२-८ रो. ईV।३६०-३६१ (कात्यायन वार्तिक)सिध्यतेः अज्ञानार्थस्य(वार्तिकान्त) । सिध्यतेः अज्ञानार्थस्य इति वक्तव्यं । (कात्यायन वार्तिक)इतरथा हि अनिष्टप्रसङ्गः(वार्तिकान्त) । अपारलौकिके इति उच्यमाने अनिष्टं प्रसज्येत । अन्नं साधयति ब्राह्मणेभ्यः दास्यामि इति । अस्ति पुनः अयं सिध्यतिः क्व चितन्यत्र वर्तते । अस्ति इति आह । तपः तापसं सेधयति । ज्ञानं अस्य प्रकाशयति । स्वानि एव एनं कर्माणि सेधयन्ति । ज्ञानं अस्य प्रकाशयन्ति इति अर्थः ।
(पाणिनीयसूत्र ६,१।५०।१) कि.।३८।१०-३९।१२ रो. ईV।३६१-३६३ (कात्यायन वार्तिक)मीनात्यादीनां आत्त्वे उपदेशवचनं प्रत्ययविध्यर्थम्(वार्तिकान्त) । मीनात्यादीनां आत्त्वे उपदेशिवद्भावः वक्तव्यः । उपदेशावस्थायां आत्त्वं भवति इति वक्तव्यं । किं प्रयोजनं । प्रत्ययविध्यर्थं । उपदेशावस्थायां आत्त्वे कृते इष्टः प्रत्ययविधिः यथा स्यात। के पुनः प्रत्ययाः उपदेशिवद्भावं प्रयोजयन्ति । काः । काः तावत्न प्रयोजयन्ति । किं कारणं । एचः इति उच्यते न च केषु एचस्ति । णघञ्युज्विधयः तर्हि प्रयोजयन्ति । ण । अवदायः । आतः इति णः सिद्धः भवति । घञ। अवदायः वर्तते । आतः इति घञ्सिद्धः भवति । किं च भो आतः इति भञुच्यते । न खलु अपि आतः इति उच्यते आतः तु विज्ञायते । कथं । अविशेषेण घञुत्सर्गः । तस्य इवर्णान्तातुवर्णान्तात्च अजपौ अपवादौ । तत्र उपदेशावस्थायां आत्त्वे कृते अपवादस्य निमित्तं न अस्ति इति कृत्वा उत्सर्गेण घञ्सिद्धः भवति । एवं च कृत्वा न च आतः इति उच्यते आतः तु विज्ञायते । युच। ईषदवदानं स्ववदानं । आतः इति युच्सिद्धः भवति । इदं विप्रतिषिद्धं एचः उपदेशः इति । यदि एचः न उपदेशे अथ उपदेशे न एचः । एचः च उपदेशे च इति विप्रतिषिद्धं । न एतत्विप्रतिषिद्धं । आह अयं एचः उपदेशे इति । यदि एचः न उपदेशे अथ उपदेश न एचः । ते वयं विषयं विज्ञास्यामः । एज्विषये इति । तत्तर्हि उपदेशग्रहणं कर्तव्यं । न कर्तव्यं । प्रकृतं अनुवर्तते । क्व प्रकृतं । आतेचः उपदेशे इति । तत्वै प्रकृतिविशेषणं विषयविशेषणेन च इह अर्थः । न च अन्यार्थं प्रकृतं अन्यार्थं भवति । न खलु अपि अन्यत्प्रकृतं अनुवर्तनातन्यत्भवति । न हि गोधा सर्पन्ती सर्पणातहिः भवति । यत्तावतुच्यते न च अन्यार्थं प्रकृतं अन्यार्थं भवति इति अन्यार्थं अपि प्रकृतं अन्यार्थं भवति टत्यथा । शाल्यर्थं कुल्याः प्रणीयन्ते ताभ्यः च पाणीयं पीयते उपश्पृश्यते च शालयः च भाव्यन्ते । यतपि उच्यते न खलु अपि अन्यत्प्रकृतं अनुवर्तनातन्यत्भवति । न हि गोधा सर्पन्ती सर्पणातहिः भवति इति । भवेत्द्रव्येषु एततेवं स्यात। शब्दः तु खलु येन येन विशेषेण अभिसम्बध्यते तस्य तस्य विशेषकः भवति । तत्यथ गौः शुक्लः अश्वः च । शुक्लः इति गम्यते ।
(पाणिनीयसूत्र ६,१।५०।२) कि.।३९।१३-१६ रो. ईV।३६४ (कात्यायन वार्तिक)निमिमीलियां खलचोः प्रतिषेधः(वार्तिकान्त) । निमिमीलियां खलचोः प्रतिषेधः वक्तव्यः । ईषन्निमयं , सुनिमयं , निमयः वर्तते । मि । मी । ईषप्रमयं , सुप्रमयं , प्रमयः वर्तते , प्रमयः । मी । ली । ईषद्विलयं , सुविलयं , विलयः वर्तते , विलयः ।
(पाणिनीयसूत्र ६,१।५१) कि.।३९।१८ रो. ईV।३६४ किं इदं लीयतेः इति । लिनातिलीयत्योः यका निर्देशः ।
(पाणिनीयसूत्र ६,१।५६) कि.।३९।२०-२३ रो. ईV।३६४-३६५ हेतुभये इति किमर्थं । कुञ्चिकया एनं भाययति । अहिना एनं भाययति । हेतुभये इति उच्यमाने अपि अत्र प्राप्नोति । एततपि हि हेतुभयं । हेतुभये इति न एवं विज्ञायते । हेतोः भयं हेतुभयं । हेतुभये इति । कथं तर्हि । हेतुः एव भयं हेतुभयं । हेतुभये इति । यदि सः एव हेतुः भयं भवति इति ।
(पाणिनीयसूत्र ६,१।५८) कि.।४०।२-८ रो. ईV।३६५ (कात्यायन वार्तिक)अमि सङ्ग्रहणम्(वार्तिकान्त) । अमि सङ्ग्रहणं । किं इदं सङिति । प्रत्याहारग्रहणं । क्व सन्निविष्टानां प्रत्याहारः । सनः प्रभृति आ महिङः ङकारात। किं प्रयोजनं ।(कात्यायन वार्तिक) क्विप्प्रतिषेधाऋथम्(वार्तिकान्त) । क्विबन्तस्य मा भूत। रज्जुसृड्भ्यां , रज्जुसृड्भिः , देवदृग्भ्यां , देवदृग्भिः । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । धातोः स्वरूपग्रहणे तत्प्रत्ययविज्ञानात्सिद्धं इति ।
(पाणिनीयसूत्र ६,१।६०) कि.।४०।१०-१५ रो. ईV।३६५-३६६ (कात्यायन वार्तिक)शीर्षन्छन्दसि प्रकृत्यन्तरम्(वार्तिकान्त) । शीर्षन्छन्दसि प्रकृत्यन्तरं द्रष्टव्यं । किं प्रयोजनं । किं प्रयोजनं । (कात्यायन वार्तिक)आदेशप्रतिषेधार्थम्(वार्तिकान्त) । आदेशः मा विज्ञायि । प्रकृत्यन्तरं यथा विज्ञायेत । किं च स्यात। अस्कारान्तस्य छन्दसि श्रवणं न स्यात। शिरः मे शीर्यशः मुखं (ऱः शीर्यते मुखे ) । इदं ते शिरः भिनद्मि इति । तत्वै अथर्वणः शिरः ।
(पाणिनीयसूत्र ६,१।६१) कि.।४०।१७-४१।१६ रो. ईV।३६६-३६८ (कात्यायन वार्तिक)ये च तद्धिते शिरसः आदेशार्थम्(वार्तिकान्त) । ये च तद्धिते इति अत्र शिरसः ग्रहणं कर्तव्यं । किं प्रयोजनं ।आदेशार्थं । आदेशः यथा विज्ञायेत । प्रकृत्यन्तरं मा विज्ञायि । किं च स्यात। यकारादौ तद्धिते अस्कारान्तस्य श्रवणं प्रसज्येत । शीर्षण्यः हि मुख्यः भवति । शीर्षण्यः खरः । (कात्यायन वार्तिक)वा केशेषु(वार्तिकान्त) । वा केशेषु शिरसः शीर्षन्भावः वक्तव्यः । शीर्षण्याः केशाः , शिरस्याः । (कात्यायन वार्तिक)अचि शीर्षः(वार्तिकान्त) । अचि परतः शिरसः शीर्षभावः वक्तव्यः । हास्तिशीर्षिः , स्थौल्यशीर्षिः, पैलुशीर्षिः । (कात्यायन वार्तिक)छन्दसि च(वार्तिकान्त) । छन्दसि च शिरसः शीर्षभावः वक्तव्यः । द्वे शीर्षे । इह हास्तिशीर्ष्या पैलुशीर्ष्या इति शिरसः ग्रहणेन ग्रहणात्शीर्षन्भावः प्राप्नोति । अस्तु । नः तद्धिते इति टिलोपः भविष्यति । न सिध्यति । ये च अभावकर्मणोः इति प्रकृतिभावः प्रसज्येत । यदि पुनः ये अचि तद्धिते इति उच्येत । किं कृतं भवति । इञि शीर्षन्भावे कृते टिलोपेन सिद्धं । न एवं शक्यं । इह हि स्थूलशिरसः इदं स्थौलशीर्षं इति अनणि इति प्रकृतिभावः प्रसज्येत । तस्मात्न एवं शक्यं । न चेतेवं शिरसः ग्रहणेन ग्रहणात्शीर्षन्भावः प्राप्नोति । पाक्षिकः एषः दोषः । कतरस्मिन्पक्षे । ष्यङ्विधौ द्वैतं भवति । अणिञोः वा आदेशः ष्यङणिञ्भ्यां वा परः इति । तत्यदा तावदणिञोः आदेशः तदा एषः दोषः । यदा हि अणिञ्भ्यां परः न तदा दोषः भवति अणिञ्भ्यां व्यवहितत्वात।
(पाणिनीयसूत्र ६,१।६३) कि.।४१।१९-४२।६ रो. ईV।३६८-३६९ शस्प्रभृतिषु इति उच्यते । अशस्प्रभृतिषु अपि दृश्यते । शला दोषणी । ककुत्दोषणी । याचते महादेवः । (कात्यायन वार्तिक)पदादिषु मांस्पृत्स्नूनां उपसङ्ख्यानम्(वार्तिकान्त) । पदादिषु मांस्पृत्स्नूनां उपसङ्ख्यानं कर्तव्यं । मांस। यत्नीक्षणं मांस्पचन्याः । मांसपचन्याः इति प्राप्ते । मांस। पृत। पृत्सु मर्त्यं । पृतनासु मर्त्यं इति प्राप्ते । पृत। स्नु । न ते दिवः न पृथिव्यः अधि स्नुषु । अधि सानुषु इति प्राप्ते । (कात्यायन वार्तिक)नस्नासिकायाः यत्तस्क्षुद्रेषु(वार्तिकान्त) । यत्तस्क्षुद्रेषु परतः नासिकायाः नस्भावः वक्तव्यः । यत। नस्यं । यत। तस। नस्तः । तस। क्षुद्र । नःक्षुद्रः । अवर्णनगरयोः इति वक्तव्यं । इह मा भूत। नासिक्यः वर्णः , नासिक्यं नगरं । तत्तर्हि वक्तव्यं । न वक्तव्यं । इह तावत्नासिक्यः वर्णः इति । परिमुखादिषु पाठः करिष्यते । नासिक्यं नगरं इति । सङ्काशादिषु पाठः करिष्यते ।
(पाणिनीयसूत्र ६,१।६४) कि.।४२।८-४३।१० रो. ईV।३६९-३७१ धातुग्रहणं किमर्थं । इह मा भूतः षोडन्, षण्डः , षोडिकः । अथ आदिग्रहणं किमर्थं । इह मा भूतः पेष्टा पेष्टुं । न एततस्ति प्रयोजनं । अस्तु अत्र सत्वं । सत्वे कृते इणः उत्तरस्य आदेशसकारस्य इति षत्वं भविष्यति । इदं तर्हि : लषिता लषितुं । इदं च अपि उदार्हरणं : पेष्टा पेष्टुं । ननु च उक्तं अस्तु अत्र सत्वं । सत्वे कृते इणः उत्तरस्य आदेशसकारस्य इति षत्वं भविष्यति इति । न एवं शक्यं । इह हि पेक्ष्यति इति षत्वस्य असिद्धत्वात्षढोः कः सि इति कत्वं न स्यात। (कात्यायन वार्तिक)सादेशे सुब्धातुष्ठिवुष्वष्कतीनां प्रतिषेधः(वार्तिकान्त) । सादेशे सुब्धातुष्ठिवुष्वष्कतीनां प्रतिषेधः वक्तव्यः । सुब्धातु : षोडीयति षण्डीयति । ष्ठिवु : ष्ठीवति । ष्वष्कः ष्वष्कते । सुब्धातूनां तावत्न वक्तव्यः । उपदेशे इति वर्तते उद्देशः च प्रातिपदिकानां न उपदेशः । यदि एवं न अर्थः धातुग्रहणेन । कस्मात्न भवति षोडन्, षण्डः , षोडिकः इति । उपदेशे इति वर्तते उद्देशः च प्रातिपदिकानां न उपदेशः । ष्ठिवेः अपि द्वितीयः वर्णः ठकारः । यदि ठकारः तेष्ठीव्यते इति न सिध्यति । एवं तर्हि थकारः । यदि थकारः टुष्ठ्यूषति टेष्ठीव्यतिए इति न सिध्यति । एवं तर्हि द्वौ इमौ ष्ठिवू । अकस्य द्वितीयः वर्णः ठकारः अपरस्य थकारः । यस्य थकारः तस्य सत्वं प्राप्नोति । एवं तर्हि द्वौ इमौ द्विषकारौ ष्ठिवुष्वष्कती । किं कृतं भवति । पूर्वस्य सत्वे कृते परेण सन्निपाते ष्टुत्वं भविष्यति । न एवं शक्यं । इह हि श्वलिट्ष्ठीवति मधुलिट्ष्वष्कते ष्टुत्वस्य असिद्धत्वात्डः सि धुटिति धुट्प्रसज्येत । एवं तर्हि यकारादी द्विषकारौ ष्ठिवुष्वष्कती । किं यकारः न श्रूयते । लुप्तनिर्दिष्टः यकारः । अथ किमर्थं षकारं उपदिश्य तस्य सकारः आदेशः क्रियते न सकारः एव उपदिश्येत । लघ्वर्थं इति आह । कथं । अविशेषेण अयं षकारं उपदिश्य सकारं आदेशं उक्त्वा लघुना उपायेन षत्वं निर्वर्तयति आदेशप्रत्यययोः इति । इतरथा हि येषां षत्वं इष्यते तेषां तत्र ग्रहणं कर्तव्यं स्यात। के पुनः षोपदेशाः धातवः । पठितव्याः । कः अत्र भवतः पुरुषकारः । यदि अन्तरेण पाठं किं चित्शक्यते वक्तुं ततुच्यतां । अन्तरेण अपि पाठं किं चित्शक्यते वक्तुं । कथं । अज्दन्त्यपराः सादयः षोपदेशाः स्मिङ्स्वदिस्विदिस्वञ्जिस्वपयः च सृपिसृजिस्तृस्त्यासेकृसृवर्जं ।
(पाणिनीयसूत्र ६,१।६५) कि.।४३।१२-१८ रो. ईV।३७२ अथ किमर्थं णकारं उपदिश्य तस्य नकारः आदेशः क्रियते न नकारः एव उपदिश्येत । लघ्वर्थं इति आह । कथं । अविशेषेण अयं णकारं उपदिश्य नकारं आदेशं उक्त्वा लघुना उपायेन णत्वं निर्वर्तयति उपसर्गातसमासे अपि णोपदेशस्य इति । इतरथा हि येषां णत्वं इष्यते तेषां तत्र ग्रहणं कर्तव्यं स्यात। के पुनः णोपदेशाः धातवः । पठितव्याः । कः अत्र भवतः पुरुषकारः । यदि अन्तरेण पाठं किं चित्शक्यते वक्तुं ततुच्यतां । अन्तरेण अपि पाठं किं चित्शक्यते वक्तुं । कथं । सर्वे नादयः णोपदेशाः नृतिनन्दिनर्दिनक्किनाटिनाथृनाधृन्®वर्जं ।
(पाणिनीयसूत्र ६,१।६६।१) कि.।४३।२०-४४।७ रो. ईV।३७२-३७४ (कात्यायन वार्तिक)व्योः लोपे क्वौ उपसङ्ख्यानम्(वार्तिकान्त) । व्योः लोपे क्वौ उपसङ्ख्यानं कर्तव्यं इह अपि यथा स्यात। कण्डूयतेः अप्रत्ययः कण्डूः इति । किं पुनः कारणं न सिध्यति । वलि इति उच्यते न च अत्र वलादिं पश्यामः । ननु च अयं क्विपेव वलादिः भवति । क्विब्लोपे कृते वलाद्यभावात्न प्राप्नोति । इदं इह सम्प्रधार्यं । क्विब्लोपः क्रियतां यलोपः इति । किं अत्र कर्तव्यं । परत्वात्क्विब्लोपः नित्यत्वात्च । नित्यः खलु अपि क्विब्लोपः । कृते अपि यलोपे प्राप्नोति अकृते अपि प्राप्नोति । नित्यत्वात्परत्वात्च क्विब्लोपः । क्विब्लोपे कृते वलाद्यभावात्यलोपः न प्राप्नोति । एवं तर्हि प्रत्ययलक्षणेन भविष्यति । वर्णाश्रये न अस्ति प्रत्ययलक्षणं । यदि वा कानि चित्वर्णाश्रयाणि प्रत्ययलक्षणेन भवन्ति तथा इदं अपि भविष्यति । अथ वा एवं वक्ष्यामि । लोपः व्योः वलि । ततः वेः । व्यन्तयोः च व्योः लोपः भवति । ततः अपृक्तस्य । अपृक्तस्य च लोपः भवति । वेः इति एव ।
(पाणिनीयसूत्र ६,१।६६।२) कि.।४४।८-४५।२ रो. ईV।३७४-३७५ (कात्यायन वार्तिक)वलोपाप्रसिद्धिः ऊड्भाववचनात्(वार्तिकान्त) । वलोपस्य अप्रसिद्धिः । आस्रेमाणं , जीरदानुः इति । किं कारणं । ऊड्भाववचनात। च्छ्वोः शूटनुनासिके च इति ऊठ्प्राप्नोति । (कात्यायन वार्तिक)अतिप्रसङ्गः व्रश्चादिषु(वार्तिकान्त) । व्रश्चादिषु च अतिप्रसङ्गः भवति । इह अपि प्राप्नोति । व्रश्चनः , व्रीहिः , व्रणः इति । उपदेशसामर्थ्यात्सिद्धं । उपदेशसामर्थ्यात्व्रश्चादिषु लोपः न भविष्यति । (कात्यायन वार्तिक)उपदेशसामर्थ्यात्सिद्धं इति चेत्सम्प्रसारणहलादिशेषेषु सामर्थ्यम्(वार्तिकान्त) । उपदेशसामर्थ्यात्सिद्धं इति चेतस्ति अन्यतुपदेशवचने प्रयोजनं । सम्प्रसारणहलादिशेषेषु कृतेषु वकारस्य श्रवणं यथा स्यात। (ऱः वृक्णः ) वृक्णवान्, (ऱ्वृश्चति ) विव्रश्चिषति इति । (कात्यायन वार्तिक)न वा बहिरङ्गलक्षणत्वात्(वार्तिकान्त) । न वा एतत्प्रयोजनं अस्ति । किं कारणं । बहिरङ्गलक्षणत्वात। बहिरङ्गाः सम्प्रसारणहलादिशेषाः । अन्तरङ्गः लोपः । असिद्धं बहिरङ्गं अन्तरङ्गे । (कात्यायन वार्तिक)अनारम्भः वा(वार्तिकान्त) । अनारम्भः वा पुनः वलोपस्य न्याय्यः । कथं आस्रेमाणं , जीरदानुः इति । (कात्यायन वार्तिक)आस्रेमाणं जीरदानुः इति वर्णलोपात्(वार्तिकान्त) । आस्रेमाणं , जीरदानुः इति छान्दसात्वर्णलोपात्सिद्धं । (कात्यायन वार्तिक)यथा संस्फानः गयस्फानः(वार्तिकान्त) । तत्यथा संस्फयनः , संस्फानः , गयस्फानः, गयस्फानः इति ।
(पाणिनीयसूत्र ६,१।६७) कि.।४५।४-२० रो. ईV।३७५-३७६ दर्विजागृव्योः प्रतिषेधः वक्तव्यः : दर्विः , जागृविः । किं उच्यते दर्विजागृव्योः प्रतिषेधः वक्तव्यः इति यदा अपृक्तस्य इति उच्यति । भवति वै किं चिताचार्याः क्रियमाणं अपि चोदयन्ति । तत्वा कर्तव्यं दर्विजागृव्योः वा प्रतिषेधः वक्तव्यः ।(कात्यायन वार्तिक)वेः लोपे दर्विजागृव्योः अप्रतिषेधः अनुनासिकपरत्वात्(वार्तिकान्त) । वेः लोपे दर्विजागृव्योः अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । लोपः कस्मात्न भवति । अनुनासिकपरत्वात। अनुनासिकपरस्य विशब्दस्य ग्रहणं न च अत्र अनुनासिकपरः विशब्दः । शुद्धपरः च अत्र विशब्दः । यदि अनुनासिकपरस्य विशब्दस्य ग्रहणं इति उच्यते घृतस्पृक्, दलस्पृक्, अत्र न प्राप्नोति । न हि एतस्मात्विशब्दातनुनासिकं परं पश्यामः । अनुनासिकपरत्वातिति न एवं विज्ञायते । अनुनासिकः परः अस्मात्सः अयं अनुनासिकपरः , अनुनासिकपरत्वातिति । कथं तर्हि । अनुनासिकः परः अस्मिन्सः अयं अनुनासिकपरः , अनुनासिकपरत्वातिति । एवं अपि प्रियदर्वि , अत्र प्राप्नोति । असिद्धः अत्र अनुनासिकः । एवं अपि धात्वन्तस्य प्रतिषेधः वक्तव्यः । इवि दिवि धिवि । (कात्यायन वार्तिक)धात्वन्तस्य च अर्थवद्ग्रहणात्(वार्तिकान्त) । अर्थवतः विशब्दस्य ग्रहणं । न धात्वन्तः अर्थवान। (कात्यायन वार्तिक)वस्य वा अनुनासिकत्वात्सिद्धम्(वार्तिकान्त) । अथ वा वकारस्य एव इदं अनुनासिकस्य ग्रहणं । सन्ति हि यणः सानुनासिकाः निरनुनासिकाः च ।
(पाणिनीयसूत्र ६,१।६८) कि.।४६।२-४७।१२ रो. ईV।३७७-३८० यदि पुनः अयं अपृक्तलोपः संयोगान्तलोपः विज्ञायेत । किं कृतं भवति । द्विहलपृक्तग्रहणं तिस्योः च ग्रहणं न कर्तव्यं भवति । (कात्यायन वार्तिक)हलन्तातपृक्तलोपः संयोगान्तलोपः चेत्नलोपाभावः यथा पचनिति । (वार्तिकान्त)हलन्तातपृक्तलोपः संयोगान्तलोपः चेत्नलोपाभावः । राजा तक्षा । संयोगान्तलोपस्य असिद्धत्वात्नलोपः न प्राप्नोति यथा पचनिति । तत्यथा पचन्, यजनिति अत्र संयोगान्तलोपस्य असिद्धत्वात्नलोपः न भवति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति सिद्धः संयोगान्तलोपः नलोपे इति यतयं न ङिसम्बुद्ध्योः इति सम्बुद्धौ प्रतिषेधं शास्ति । इह अपि तर्हि प्राप्नोति पचन्, यजन। तुल्यजातीयस्य ज्ञापकं भवति । कः च तुल्यजातीयः । यः सम्बुद्धौ अनन्तरः । (कात्यायन वार्तिक)वस्वादिषु दत्वं संयोगादिलोपबलीयस्त्वात्(वार्तिकान्त) । वस्वादिषु दत्वं न सिध्यति । उखास्रत्, पर्णद्व्हत। किं कारणं । (कात्यायन वार्तिक)संयोगादिलोपबलीयस्त्वात्(वार्तिकान्त)। संयोगान्तलोपात्संयोगादिलोपः बलीयान। (कात्यायन वार्तिक)यथा कूटतटिति(वार्तिकान्त) । तत्यथा कूटतट्, काष्ठतटिति अत्र संयोगान्तलोपात्संयोगादिलोपः बलीयान्भवति । ननु च दत्वे कृते न भविष्यति । असिद्धं दत्वं । तस्य असिद्धत्वात्प्राप्नोति । सिद्धकाण्डे पठितं वस्वादिषु दत्वं सौ दीर्घत्वे इति । तत्र सौ दीर्घत्वग्रहणं न करिष्यते । वस्वादिषु दत्वं इति एव । एवं अपि अपदान्तत्वात्न प्राप्नोति । अथ सौ अपि पदं भवति राजा तक्षा नलोपे कृते विभक्तेः श्रवणं प्राप्नोति । सा एषा उभयतस्पाशा रज्जुः भवति । (कात्यायन वार्तिक)रात्तलोपः नियमवचनात्(वार्तिकान्त) । रात्तस्य लोपः वक्तव्यः । अबिभः भवान। अजागः भवान। किं पुनः कारणं न सिध्यति । नियमवचनात। रात्सस्य इति एतस्मात्नियमात्न प्राप्नोति । न एषः दोषः । रात्सस्य इति अत्र तकारः अपि निर्दिश्यते । यदि एवं कीर्तयतेः अप्रत्ययः कीः इति प्राप्नोति । कीर्तिति च इष्यते । यथालक्षणं अप्रयुक्ते । (कात्यायन वार्तिक)रोः उत्त्वं च(वार्तिकान्त) । रोः उत्त्वं च वक्तव्यं । अभिनः अत्र, अच्छिनः अत्र । संयोगान्तलोपस्य असिद्धत्वाततः अति इति उत्त्र्वं न प्राप्नोति । (कात्यायन वार्तिक)न वा संयोगान्तलोपस्य उत्त्वे सिद्धत्वात। (वार्तिकान्त)न वा वक्तव्यं । किं कारणं । संयोगान्तलोपस्य उत्त्वे सिद्धत्वात। संयोगान्तलोपः उत्त्वे सिद्धः भवति । (कात्यायन वार्तिक)यथा हरिवः मेदिनं इति (वार्तिकान्त)। तत्यथा हरिवः मेदिनं त्वा इति अत्र संयोगान्तलोपः उत्त्वे सिद्धः भवति । सः एव दर्हि दोषः सा एषा उभयतस्पाशा । तस्मातशक्यः अपृक्तलोपः संयोगान्तलोपः विज्ञातुं । न चेत्विज्ञायते द्विहलपृक्तग्रहणं तिस्योः च ग्रहणं कर्तव्यं एव ।
(पाणिनीयसूत्र ६,१।६९।१) कि.।४७।१४-४८।२७ रो. ईV।३८०-३८३ (कात्यायन वार्तिक)सम्बुद्धिलोपे डतरादिभ्यः प्रतिषेधः(वार्तिकान्त) । सम्बुद्धिलोपे डतरादिभ्यः प्रतिषेधः वक्तव्यः । हे कतरत्, हे कतमत। किं उच्यते डतरादिभ्यः प्रतिषेधः वक्तव्यः इति यदा अपृक्तस्य इति अनुवर्तते । (कात्यायन वार्तिक)अपृक्ताधिकारस्य निवृत्तत्वात्(वार्तिकान्त) । निवृत्तः अपृक्ताधिकारः । किं डतरादिभ्यः प्रतिषेधं वक्ष्यामि इति अपृक्ताधिकारः निवर्त्यते । न इति आह । (कात्यायन वार्तिक)तत्च अमर्थम्(वार्तिकान्त) । सः च अवश्यं अपृक्ताधिकारः निवर्त्यः । किमर्थं । अमर्थं । अमः लोपः यथा स्यात। हे कुण्ड , हे पीठ । निवृत्ते अपि अपृक्ताधिकारे अमः लोपः न प्राप्नोति । न हि लोपः सर्वापहारी । मा भूत्सर्वस्य लोपः । अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य लोपे कृते द्वयोः अकारयोः पररूपेण सिद्धं रूपं स्यात्हे कुण्ड , हे पीठ इति । यदि एतत्लभ्येत कृतं स्यात। तत्तु न लभ्यते । किं कारणं । अत्र हि तस्मातिति उत्तरस्य आदेः परस्य इति अकारस्य लोपः प्राप्नोति । अकारलोपे च सति मकारे अतः दीर्घः यञि सुपि च इति दीर्घत्वे हे कुण्डां , हे पीठां इति एतत्रूपं प्रसज्येत । एवं तर्हि हलः लोपः सम्बुद्धिलोपः । तत्हल्ग्रहणं कर्तव्यं । न कर्तव्यं । प्रकृतं अनुवर्तते । क्व प्रकृतं । हल्ङ्याब्भ्यः दीर्घात्सुतिसि अपृक्तं हलिति । तत्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन च इह अर्थः । न एषः दोषः । एङ्ह्रस्वातिति एषा पञ्चमी हलिति अस्याः प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मातिति उत्तरस्य इति । एवं अपि प्रथमयोः पूर्वसवर्णदीर्घत्वे कृते हे पीठा इति एतत्रूपं प्रसज्येत । अमि पूर्वत्वं अत्र बाधकं भविष्यति । अमि इति उच्यते न च अत्र अमं पश्यामः । एकदेशविकृतं अनन्यवत्भवति इति । अथ वा इदं इह सम्प्रधार्यं । सम्बुद्धिलोपः क्रियतां एकादेशः इति । किं अत्र कर्तव्यं । परत्वातेकादेशः । एवं अपि एकादेशे कृते व्यपवर्गाभावात्सम्बुद्धिलोपः न प्राप्नोति । अन्तादिवद्भावेन व्यपवर्गः भविष्यति । उभयतः आश्रये न अन्तादिवत। न उभयतः आश्रयः करिष्यते । कथं । न एवं विज्ञायते । ह्रस्वातुत्तरस्याः सम्बुद्धेः लोपः भवति इति । कथं तर्हि । ह्रस्वातुत्तरस्य हलः लोपः भवति सः चेत्सम्बुद्धेः इति । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । सिद्धं अनुनासिकोपधत्वातिति । एवं अपि दलोपः साधीयः प्राप्नोति । दुक्करणात्वा । अथ वा दुक्डतरादीनां इति वक्ष्यामि । डित्करणात्वा । अथ वा डितयं शब्दः करिष्यते । सः तर्हि डकारः कर्तव्यः । न कर्तव्यः । क्रियते न्यासे एव । द्विडकारः निर्देशः अद्ड्डतरादिभ्यः इति । एवं अपि लोपः प्राप्नोति । विहितविशेषणं ह्रस्वग्रहणं । यस्मात्ह्रस्वात्सम्बुद्धिः विहिता इति ।
(पाणिनीयसूत्र ६,१।६९।२) कि.।४९।१-१० रो. ईV।३८३-३८४ (कात्यायन वार्तिक)अपृक्तसम्बुद्धिलोपाभ्यां लुक्(वार्तिकान्त) । अपृक्तसम्बुद्धिलोपाभ्यां लुक्भवति विप्रतिषेधेन । अपृक्तलोपस्य अवकाशः गोमान्, यवमान। लुकः अवकाशः त्रपु, जतु । इह उभयं प्राप्नोति । तत्ब्राह्मणकुलं , यत्ब्राह्मणकुलं । सम्बुद्धिलोपस्य अवकाशः हे अग्ने, हे वायो । लुकः सः एव । इह उभयं प्राप्नोति । हे त्रपु , हे जतु । लुक्भवति विप्रतिषेधेन । सः तर्हि विप्रतिषेधः वक्तव्यः । (कात्यायन वार्तिक)न वा लोपलुकोः लुगवधारणात्यथा अनडुह्यते इति(वार्तिकान्त) । न वा अर्थः विप्रतिषेधेन । किं कारणं । लोपलुकोः लुगवधारणात। लोपलुकोः हि लुकवधार्यते । लुक्लोपयणयवायावेकादेशेभ्यः । यथा अनडुह्यते इति । तत्यथा अनड्वानिव आचरति अनडुह्यते इति अत्र लोपलुकोः लुकवधार्यते एवं इह अपि ।
(पाणिनीयसूत्र ६,१।७०) कि.।४९।१२-१९ रो. ईV।३८४ अयं योगः शक्यः अवक्तुं । कथं अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानां इति । पूर्वसवर्णेन अपि एतत्सिद्धं । न सिध्यति । नुमा व्यवहितत्वात्पूर्वसवर्णः न प्राप्नोति । छन्दसि नपुंसकस्य पुंवद्भावः वक्तव्यः मधोः गृह्णाति , महोः तृप्ता इव आसते इति एवमर्थं । तत्र पूंवद्भावेन नुमः निवृत्तिः । नुमि निवृत्ते पूर्वसवर्णेन सिद्धं । भवेत्सिद्धं अग्ने त्री ते वजिना त्री षधस्था इति । इदं तु न सिध्यति त ता पिण्डानां इति । इदं अपि सिद्धं । कथं । साप्तमिके पूर्वसवर्णे कृते पुनः षाष्ठिकः भविष्यति । एवं अपि जसि गुणः प्राप्नोति । वक्ष्यति एतत। जसादिषु छन्दोवावचनं प्राक्णौ चङि उपधायाः इति ।
(पाणिनीयसूत्र ६,१।७१) कि.।४९।२१-५१।६ रो. ईV।३८५-३८६ (कात्यायन वार्तिक)तुकि पूर्वान्ते नपुंसकोपसर्जनह्रस्वत्वं द्विगुस्वरः च(वार्तिकान्त) । तुकि पूर्वान्ते नपुंसकोपसर्जनह्रस्वत्वं द्विगुस्वरः च न सिध्यति । आराशस्त्रि छत्रं , धानाशष्कुलि छत्रं । निष्कौशाम्बि छत्रं , निर्वाराणसि छत्रं । पञ्चारत्नि छत्रं , दशारत्नि छत्रं । तुके कृते अनन्त्यत्वातेते विधयः न प्राप्नुवन्ति । (कात्यायन वार्तिक)न वा बहिरङ्गलक्षणत्वात्(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । बहिरङ्गलक्षणत्वात। बहिरङ्गलक्षणः तुक। अन्तरङ्गाः एते विधयः । असिद्धं बहिरङ्गं अन्तरङ्गे । इदं तर्हि ग्रामणिपुत्रः , सेनानिपुत्रः इति ह्रस्वत्वे कृते तुक्प्राप्नोति । (कात्यायन वार्तिक)ग्रामणिपुत्रादिषु च अप्राप्तिः(वार्तिकान्त) । ग्रामणिपुत्रादिषु च अप्राप्तिः । किं कारणं । बहिरङ्गलक्षणत्वातेव । अथ वा परादिः करिष्यते । (कात्यायन वार्तिक)परादौ संयोगादेः इति अतिप्रसङ्गः(वार्तिकान्त) । परादौ संयोगादेः इति अतिप्रसङ्गः भवति । अपच्छायात। वा अन्यस्य संयोगादेः इति एत्वं प्रसज्येत । (कात्यायन वार्तिक)विलोपवचनं च(वार्तिकान्त) । वेः च लोपः वक्तव्यः । अग्निचित्, सोमसुत। अपृक्तस्य इति वेः लोपः न प्राप्नोति । न एषः दोषः । अपृक्तग्रहणं न करिष्यते । यदि न क्रियते दर्विः , जागृविः , अत्र अपि प्राप्नोति । अनुनासिकपरस्य विशब्दस्य ग्रहणं शुद्धपरः च अत्र विशब्दः । एवं अपि सतुक्कस्य लोपः प्राप्नोति । निर्दिश्यमानस्य आदेशाः भवन्ति इति एवं न भविष्यति । (कात्यायन वार्तिक)इट्प्रतिषेधः च(वार्तिकान्त) । इट्प्रतिषेधः च वक्तव्यः । परीतत। सतुक्कस्य वलादिलक्षणः इट्प्रसज्येत । एवं तर्हि अभक्तः । (कात्यायन वार्तिक)अभक्ते स्वरः(वार्तिकान्त) । यदि अभक्तः तर्हि स्वरे दोषः भवति । दधि छादयति , मधु छादयति । तिङतिङः इति निघातः न प्राप्नोति । ननु च तुकेव अतिङ। न तुकः परस्य निघातः प्राप्नोति । किं कारणं । नञिवयुक्तं अन्यसदृशाधिकरणे । तथा हि अर्थगतिः । नञ्युक्ते इवयुक्ते वा अन्यस्मिन्तत्सदृशे कार्यं विज्ञायते । तथा हि अर्थः गम्यते । तत्यथा । अब्राह्मणं आनय इति उक्ते ब्राह्मणसदृशं एव आनयति । न असौ लोष्टं आनीय कृती भवति । एवं इह अपि अतिङिति तिङ्प्रतिषेधातन्यस्माततिङः तिङ्सदृशात्कार्यं विज्ञास्यते । किं च अन्यततिङ्तिङ्सदृशं । पदं ।
(पाणिनीयसूत्र ६,१।७२) कि.।५१।८-११ रो. ईV।३८७-३८८ अयं योगः शक्यः अवक्तुं । कथं । अधिकरणं नाम त्रिप्रकारं व्यापकं औपश्लेषिकं वैषयिकं इति । शब्दस्य च शब्देन कः अन्यः अभिसम्बन्धः भवितुं अर्हति अन्यततः उपश्लेषात। इकः यणचि । अचि उपश्लिष्टस्य इति । तत्र अन्तरेण संहिताग्रहणं संहितायां एव भविष्यति ।
(पाणिनीयसूत्र ६,१।७४) कि.।५१।१३-१७ रो. ईV।३८८ अथ किमर्थं आङ्माङोः सानुबन्धकयोः निर्देशः । (कात्यायन वार्तिक)आङ्माङोः सानुबन्धकनिर्देशः गतिकर्मप्रवचनीयप्रतिषेधसम्प्रत्ययार्थः(वार्तिकान्त) । आङ्माङोः सानुबन्धकयोः निर्देशः क्रियते आङः गतिकर्मप्रवचनीयसम्प्रत्ययार्थः माङः प्रतिषेधसम्प्रत्ययार्थः । इह मा भूत। आ छाया, आच्छाया । प्रमा छन्दः , प्रमाच्छन्दः ।
(पाणिनीयसूत्र ६,१।७५-७६) कि.।५१।२०-२२ रो. ईV।३८९ (कात्यायन वार्तिक)दीर्घात्पदान्तात्वा विश्वजनादीनां छन्दसि(वार्तिकान्त) । दीर्घात्पदान्तात्वा इति अत्र विश्वजनादीनां छन्दसि उपसङ्ख्यनं कर्तव्यं । विश्वजनस्य छत्रं , विश्वजनस्य च्छत्रं । न छायां कुरवः अपरां , नच्छायां कुरवः अपरां ।
(पाणिनीयसूत्र ६,१।७७।१) कि.।५२।२-५३।६ रो. ईV।३८९-३९१ इग्ग्रहणं किमर्थं । इह मा भूत। अग्निचितत्र , सोमसुतत्र । न एततस्ति प्रयोजनं । जश्त्वं अत्र बाधकं भविष्यति । (कात्यायन वार्तिक)जश्त्वं न सिद्धं यणं अत्र पश्य (वार्तिकान्त)। असिद्धं अत्र जश्त्वं । तस्य असिद्धत्वात्यणादेशः प्राप्नोति । (कात्यायन वार्तिक)यः च अपदान्तः हलचः च पूर्वः(वार्तिकान्त) । यः च अपदान्तः हलचः च पूर्वः तस्य प्राप्नोति । पचति इति । एवं तर्हि (कात्यायन वार्तिक)दीर्घस्य यण्(वार्तिकान्त) । दीर्घस्य यणादेशं वक्ष्यामि । तत्दीर्घग्रहणं कर्तव्यं । न कर्तव्यं । प्रकृतं अनुवर्तते । क्व प्रकृतं । दीर्घात्पदान्तात्वा इति । तत्वै पञ्चमीनिर्दिष्टं षष्ठीनिर्दिष्टेन च इह अर्थः । अचि इति एषा सप्तमी दीर्घातिति पञ्चम्याः षष्ठीं प्रकल्पयिष्यति तस्मिनिति निर्दिष्टे पूर्वस्य इति । भवेत्सिद्धं कुमारी अत्र , ब्रह्मबन्ध्वर्थं इति । इदं तु न सिध्यति । दधि अत्र , मधु अत्र इति । (कात्यायन वार्तिक)ह्रस्वः इति प्र्तवृत्तम्(वार्तिकान्त) । ह्रस्वग्रहणं अपि प्रकृतं अनुवर्तते । क्व प्रकृतं । ह्रस्व्यस्य पिति कृति तुकिति । यदि ततनुवर्तते दीर्घात्पदान्तात्वा इति ह्रस्वातपि पदान्तात्विकल्पेन प्राप्नोति । (कात्यायन वार्तिक)सम्बन्धवृत्त्या(वार्तिकान्त) । सम्बन्धं अनुवर्तिष्यते । ह्रस्व्यस्य पिति कृति तुक। संहितायां ह्रस्व्यस्य पिति कृति तुक। छे च ह्रस्व्यस्य पिति कृति तुक। आङ्माङोः च ह्रस्व्यस्य पिति कृति तुक। दीर्घात्पदान्तात्वा ह्रस्व्यस्य पिति कृति तुक। ततः इकः यणचि । ह्रस्व्यस्य इति वर्तते । पिति कृति तुकिति निवृत्तं । इह तर्हि प्राप्नोति चयनं , चायकः , लवणं , लावकः । अयादयः अत्र बाधकाः भविष्यन्ति । इह तर्हि प्राप्नोति खट्वा इन्द्रः , माला इन्द्रः , खट्वा एलका , माला एलका । (कात्यायन वार्तिक)गुणवृद्धिबाध्यः(वार्तिकान्त) । गुणवृद्धी अत्र बाधिके भविष्यतः । इदं तर्हि प्रयोजनं । इकः अचि यणेव स्यात। यतन्यत्प्राप्नोति तत्मा भूतिति । किं च अन्यत्प्राप्नोति । शाकलं । सिन्नित्यसमासयोः शाकलप्रतिषेधं चोदयिष्यति । स न वक्तव्यः भवति ।
(पाणिनीयसूत्र ६,१।७७।२) कि.।५३।७-५४।४ रो. ईV।३९१-३९३ (कात्यायन वार्तिक)यणादेशः प्लुतपूर्वस्य च(वार्तिकान्त) । यणादेशः प्लुतपूर्वस्य च इति वक्तव्यं । अग्ना३इ* इन्द्रं , अग्ना३यिन्द्रं , पटा३उ* उदकं , पटा३वुदकं , अग्ना३इ* आशा , अग्ना३याशा , पटा३उ* आशा , पटा३वाशा । किं पुनः कारणं न सिध्यति । असिद्धः प्लुतः प्लुतविकारौ च इमौ । सिद्धः प्लुतः स्वरसन्धिषु । कथं ज्ञायते । यतयं प्लुतप्रगृह्याः अचि इति प्लुतस्य प्रकृतिभावं शास्ति तत्ज्ञापयति आचार्यः सिद्धः प्लुतः स्वरसन्धिषु इति । कथं कृत्वा ज्ञापकं । सतः हि कार्यिणः कार्येण भवितव्यं । इदं तर्हि प्रयोजनं (कात्यायन वार्तिक)दीर्घशाकलप्रतिषेधार्थम्(वार्तिकान्त) । दीर्घत्वं शाकलं च मा भूतिति । एततपि न अस्ति प्रयोजनं । आरभ्यते प्लुतपूर्वस्य यणादेशः तयोः य्वौ अचि संहितायां इति । तत्दीर्घशाकलप्रतिषेधार्थं भविष्यति । तत्न वक्तव्यं भवति । ननु च तस्मिनपि उच्यमाने इदं न वक्तव्यं भवति । अवश्यं इदं वक्तव्यं यौ प्लुतपूर्वौ इदुतौ अप्लुतविकारौ तदर्थं । भो३इ इन्द्रं , भो३यिन्द्रं , भो३इ इह भो३यिह इति । यद्तर्हि अस्य निबन्धनं अस्ति इदं एव वक्तव्यं । तत्न वक्तव्यं । ततपि अवश्यं स्वरार्थं वक्तव्यं । अनेन हि सति उदात्तस्वरितयोः यणः इति एषः स्वरः प्रसज्येत । तेन पुनः सति असिद्धत्वात्न भविष्यति । यदि तर्हि तस्य निबन्धनं अस्ति ततेव वक्तव्यं । इदं न वक्तव्यं । ननु च उक्तं इदं अपि अवश्यं वक्तव्यं यौ प्लुतपूर्वौ इदुतौ अप्लुतविकारौ तदर्थं । भो३इ इन्द्रं , भो३यिन्द्रं , भो३इ इह भो३यिह इति । छान्दसं एतत्दृष्टानुविधिः छन्दसि भवति । यत्तर्हि न छान्दसं भो३यिन्द्रं , भो३यिह इति साम गायति । एषः अपि छन्दसि दृष्टस्य अनुप्रयोगः क्रियते । (कात्यायन वार्तिक)जश्त्वं न सिद्धं यणं अत्र पश्य । यः च अपदान्तः हलचः च पूर्वः । दीर्घस्य यण। ह्रस्वः इति प्र्तवृत्तं । सम्बन्धवृत्त्या । गुणवृद्धिबाध्यः । नित्ये च यः शाकलभाक्समासे तदर्थं एतद्भगवान्चकार । सामर्थ्ययोगात्न हि किं चितस्मिन्पश्यामि शास्त्रे यतनर्थकं स्यात्(वार्तिकान्त) ।
(पाणिनीयसूत्र ६,१।७९।१) कि.।५४।६-१६ रो. ईV।३९३-३९४ (कात्यायन वार्तिक)वान्तादेशे स्थानिनिर्देशः(वार्तिकान्त) । वान्तादेशे स्थानिनिर्देशः कर्तव्यः । ओकारौकारयोः इति वक्तव्यं एकारैकारयोः मा भूतिति । सः तर्हि कर्तव्यः । न कर्तव्यः । वान्तग्रहणं न करिष्यते । एचः यि प्रत्यये अयादयः भवन्ति इति एव सिद्धं । यदि वान्तग्रहणं न क्रियते चेयं , जेयं इति अत्र अपि प्राप्नोति । क्षय्यजय्यौ शक्यार्थे इति एतत्नियमार्थं भविष्यति । क्षिज्योः एव इति । तयोः तर्हि शक्यार्थातन्यत्र अपि प्राप्नोति । क्षेयं पापं , जेयः वृषलः इति । उभयतः नियमः विज्ञास्यते । क्षिज्योः एव एचः तयोः च शक्यार्थे एव इति । इह अपि तर्हि नियमात्न प्राप्नोति । लव्यं , पव्यं , अवश्यलाव्यं , अवश्यपाव्यं । तुल्यजातीयस्य नियमः । कः च तुल्यजातीयः । यथाजातीयकः क्षिज्योः एच। कथञ्जातीयकः क्षिज्योः एच। एकारः । एवं अपि रायं इच्छति , रैयति , अत्र अपि प्राप्नोति । रायिः छान्दसः । दृष्टानुविधिः छन्दसि भवति ।
(पाणिनीयसूत्र ६,१।७९।२) कि.।५४।१७-२२ रो. ईV। ३९४ (कात्यायन वार्तिक)गोः यूतौ छन्दसि(वार्तिकान्त) । गोः यूतौ छन्दसि उपसङ्ख्यानं कर्तव्यं । अ नः मित्रावरुणा घृतैः गव्यूतिं उक्षतं । गोयूतिं इति एव अन्यत्र । (कात्यायन वार्तिक)अध्वपरिमाणे च(वार्तिकान्त) । अध्वपरिमाणे च गोः यूतौ उपसङ्ख्यानं कर्तव्यं । गव्यूतिं अध्वानं गतः । गोयूतिं इति एव अन्यत्र ।
(पाणिनीयसूत्र ६,१।८०) कि.।५४।२४-५५।२ रो. ईV।३९४ एवकारः किमर्थः । नियमार्थः । न एतत्प्रयोजनं । न एततस्ति प्रयोजनं । सिद्धे विधिः आरभ्यमाणः अन्तरेण एवकारं नियमार्थङ्भविष्यति । इष्टतः अवधारणार्थः तर्हि । यथा एवं विज्ञायेत । धातोः तन्निमित्तस्य एव इति । मा एवं विज्ञायि । धातोः एव तन्निमित्तस्य इति । किं च स्यात। अधातोः तन्निमित्तस्य न स्यात। शङ्कव्यं दारु , पिचव्यः कार्पासः इति ।
(पाणिनीयसूत्र ६,१।८२) कि.।५५।४-५ रो. ईV।३९५ ततिति अनेन किं प्रतिनिर्दिश्यते । सः एव क्रीणात्यर्थः । इह मा भूत। क्रेयं नः धान्यं । न च अस्ति क्रय्यं इति ।
(पाणिनीयसूत्र ६,१।८३) कि.।५५।७-१७ रो. ईV।३९५-३९६ (कात्यायन वार्तिक)भय्यादिप्रकरणे ह्रदय्याः उपसङ्ख्यानम्(वार्तिकान्त) । भय्यादिप्रकरणे ह्रदय्याः उपसङ्ख्यानं कर्तव्यं । ह्रदय्याः आपः । (कात्यायन वार्तिक)अव्शरस्य च(वार्तिकान्त) । शरस्य च ह्रदस्य च अतः अव्वक्तयः । ह्रदव्याः आपः । शरव्याः वै तेजनं । शरव्यस्य पशूनभिघातकः स्यात। (कात्यायन वार्तिक)शरुवृत्तात्वा सिद्धम्(वार्तिकान्त) । शरुवृत्तात्वा सिद्धं पुनः सिद्धं एतत। (कात्यायन वार्तिक)ऋञ्जती शरुः इति अपि दृश्यते(वार्तिकान्त) । ऋञ्जती शरुः इति अपि शरुशब्दप्रवृत्तिः दृश्यते । (कात्यायन वार्तिक)शरुहस्तः इति च लोके(वार्तिकान्त) । शरुहस्तः इति च लोके शरहस्तं उपाचरन्ति ।
(पाणिनीयसूत्र ६,१।८४।१) कि.।५६।२-५७।६ रो. ईV।३९६-३९८ एकवचनं किमर्थं । (कात्यायन वार्तिक)एकवचनं पृथकादेशप्रतिषेधार्थम्(वार्तिकान्त) । एकवचनं क्रियते एकः आदेशः यथा स्यात। पृथकादेशः मा भूतिति । (कात्यायन वार्तिक)न वा द्रव्यवत्कर्मचोदनायां द्वयोः एकस्य अभिनिर्वृत्तेः(वार्तिकान्त) । न वा एतत्प्रयोजनं अस्ति । किं कारणं । द्रव्यवत्कर्मचोदनायां द्वयोः एकस्य अभिनिर्वृत्तेः एकः आदेशः भविष्यति । तत्यथा द्रव्येषु कर्मचोदनायां द्वयोः एकस्य अभिनिर्वृत्तिः भवति । अनयोः पूलयोः कटं कुरु । अनयोः मित्पिण्डयोः घटं कुरु इति । न च उच्यते एकं इति एकं च असौ करोति । किं पुनः कारणं द्रव्येषु कर्मचोदनायां द्वयोः एकस्य अभिनिर्वृत्तिः भवति । (कात्यायन वार्तिक)तत्च एकवाक्यभावात्(वार्तिकान्त) । एकवाक्यभावात्द्रव्येषु कर्मचोदनायां द्वयोः एकस्य अभिनिर्वृत्तिः भवति । आतः च एकवाक्यभावात। व्याकरणे अपि हि अन्यत्र द्वयोः स्थानिनोः एकः आदेशः भवति । ज्वरत्वरस्रिव्यविमवां उपधायाः च । भ्रस्जः रोपधयोः रं अन्यतरस्यां इति । यत्तावतुच्यते एकवाक्यभावातिति तत्न । अर्थात्प्रकरणात्वा लोके द्वयोः एकस्य अभिनिर्वृत्तिः भवति । आतः च अर्थात्प्रकरणात्वा । व्याकरणे अपि हि अन्यत्र द्वयोः स्थानिनोः द्वौ आदेशौ भवतः । रदाभ्यां निष्ठातः नः पूर्वस्य च दः । उभौ साभ्यासस्य इति । कथं यत्ततुक्तं व्याकरणे अपि हि अन्यत्र द्वयोः स्थानिनोः एकः आदेशः भवति । ज्वरत्वरस्रिव्यविमवां उपधायाः च । भ्रस्जः रोपधयोः रं अन्यतरस्यां इति । इह तावथ्ज्वरत्वरस्रिव्यविमवां उपधायाः च इति । स्तां द्वौ ऊठौ । न अस्ति दोषः । सवर्णदीर्घत्वेन सिद्धं । इह भ्रस्जः रोपधयोः रं अन्यतरस्यां इति । वक्ष्यति हि एतत। भ्रस्जः रोपधयोः लोपः आगमः रं विधीयते इति । यतुच्यते अर्थात्प्रकरणात्वा इति तत्न । किं कारणं । एकवाक्यभावातेव लोके द्वयोः एकस्य अभिनिर्वृत्तिः भवति । आतः च एकवाक्यभावात। अङ्ग हि भवान्ग्राम्यं पांसुलपादं अप्रकरणज्ञं आगतं ब्रवीतु अनयोः पूलयोः कटं कुरु । अनयोः मित्पिण्डयोः घटं कुरु इति । एकं एव असौ करिष्यति । कथं यतुक्तं व्याकरणे अपि हि अन्यत्र द्वयोः स्थानिनोः द्वौ आदेशौ भवतः । रदाभ्यां निष्ठातः नः पूर्वस्य च दः । उभौ साभ्यासस्य इति । इह तावत्रदाभ्यां निष्ठातः नः पूर्वस्य च दः इति द्वे वाक्ये । कथं । योगविभागः करिष्यते । रदाभ्यां निष्ठातः नः । ततः पूर्वस्य च दः इति । इह उभौ साभ्यासस्य इति उभौग्रहणसामर्थ्यात्द्वौ आदेशौ भविष्यतः ।
(पाणिनीयसूत्र ६,१।८४।२) कि.।५७।७-५८।१७ रो. ईV।३९९-४०२ (कात्यायन वार्तिक)तत्र अवयवे शास्त्रार्थसम्प्रत्ययः यथा लोके(वार्तिकान्त) टत्र अवयवे शास्त्रार्थसम्प्रत्ययः प्राप्नोति यथा लोके । तत्यथा लोके । वसन्ते ब्राह्मणः अग्नीनादधीत इति सकृताधाय कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति । तथा गर्भाष्टमे ब्राह्मणः उपनेयः इति सकृतुपनीय कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति । तथा त्रिः हृदयङ्गमाभिः अद्भिः अशब्दाभिः उपस्पृशेतिति सकृतुपस्पृश्य कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति । एवं इह अपि खट्वेन्द्रे कृतः शास्त्रार्थः इति कृत्वा मालेन्द्रादिषु न स्यात। (कात्यायन वार्तिक)सिद्धं तु धर्मोपदेशने अनवयवविज्ञानात्यथा लौकिकवैदिकेषु(वार्तिकान्त) । सिद्धं एतत। कथं । धर्मोपदेशनं इदं शास्त्रं । धर्मोपदेशने च अस्मिन्शास्त्रे अनवयवेन शास्त्रार्थः सम्प्रतीयते यथा लौकिकेषु वैदिकेषु च कृतान्तेषु । लोके तावतः ब्राह्मणः न हन्तव्यः । सुरा न पेया इति । ब्राह्मणमात्रं न हन्यते सुरामात्रं च न पीयते । यदि च अवयवेन शास्त्रार्थसम्प्रत्ययः स्यातेकं च ब्राह्मणं अहत्वा एकां च सुरां अपीत्वा अन्यत्र कामचारः स्यात। तथा पूर्ववयाः ब्राह्मणः प्रत्युत्थेयः इति पूर्ववयोमात्रं प्रत्युत्थीयते । यदि अवयवेन शास्त्रार्थसम्प्रत्ययः स्यातेकं पूर्ववयसं प्रत्युत्थाय अन्यत्र कामचारः स्यात। तथा वेदे खलु अपि । वसन्ते ब्राह्मणः अग्निष्टोमादिभिः क्रतुभिः यजेत इति अग्न्याधाननिमित्तं वसन्ते वसन्ते इज्यते । यदि अवयवेन शास्त्रार्थसम्प्रत्ययः स्यात्सकृतिष्ट्वा पुनः इज्या न प्रवर्तेत । उभयथा इह लोके दृश्यते । अवयवेन अपि शास्त्रार्थसम्प्रत्ययः अनवयवेन अपि । कथं पुनः इदं उभयं लभ्यं । लभ्यं इति आह । कथं । इह तावत्वसन्ते ब्राह्मणः अग्नीनादधीत इति । अग्न्याधानं यज्ञमुखप्र्तिपत्त्यर्थं । सकृताधाय कृतः शास्त्रार्थः प्रतिपन्नं यज्ञं इति कृत्वा पुनः प्रवृत्तिः न भवति । अतः अत्र अवयवेन शास्त्रार्थः सम्प्रतीयते । तथा गर्भाष्टमे ब्राह्मणः उपनेयः इति । उपनयनं संस्कारार्थं । सकृत्च असौ उपनीतः संस्कृतः भवति । अतः अत्र अपि अवयवेन शास्त्रार्थः सम्प्रतीयते । तथा त्रिः हृदयङ्गमाभिः अद्भिः अशब्दाभिः उपस्पृशेतिति । उपस्पर्शनं शौचार्थं । सकृत्च असौ उपस्पृश्य शुचिः भवति । अतः अत्र अपि अवयवेन शास्त्रार्थः सम्प्रतीयते । इह इदानीं ब्राह्मणः न हन्तव्यः । सुरा न पेया इति । ब्राह्मणवधे सुरापाने च महान्दोषः उक्तः । सः ब्राह्मणवधमात्रे सुरापानमात्रे च प्रसक्तः । अतः अत्र अनवयवेन शास्त्रार्थः सम्प्रतीयते । तथा पूर्ववयाः ब्राह्मणः प्रत्युत्थेयः इति । पूर्ववयसः अप्रत्युत्थाने दोषः उक्तः प्रत्युत्थाने च गुणः । कथं । (कात्यायन वार्तिक)ऊर्ध्वं प्राणाः हि उत्क्रामन्ति यूनः स्थविरे आयति । प्रत्युत्थानाभाभिवादाभ्यां पुनः तान्प्रतिपद्यते(वार्तिकान्त) इति । सः च प्रूर्ववयोमात्रे प्रसक्तः । अतः अत्र अपि अनवयवेन शास्त्रार्थः सम्प्रतीयते । तथा वसन्ते ब्राह्मणः अग्निष्टोमादिभिः क्रतुभिः यजेत इति इज्यायाः किं चित्प्रयोजनं उक्तं । किं । स्वर्गे लोके अप्सरसः एनं जायाः भूत्वा उपशेरते इति । तत्च द्वितीयस्याः तृतीयस्याः च इज्यायाः भवितुं अर्हति । अतः अत्र अपि अनवयवेन शास्त्रार्थः सम्प्रतीयते । तथा शब्दस्य अपि ज्ञाने प्रयोगे प्रयोजनं उक्तं । किं । एकः शब्दः सम्यक्ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुक्भवति इति । यदि एकः शब्दः सम्यक्ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुक्भवति किमर्थं द्वितीयः तृतीयः च प्रयुज्यते । न वै कामानां तृप्तिः अस्ति ।
(पाणिनीयसूत्र ६,१।८४।३) कि.।५८।१८-५९।८ रो. ईV।४०२-४०३ अथ पूर्वग्रहणं किमर्थं । (कात्यायन वार्तिक)पूर्वपरग्रहणं परस्य आदेशप्रतिषेधार्थम्(वार्तिकान्त) । पूर्वपरग्रहणं क्रियते परस्य आदेशप्रतिषेधार्थं । परस्य आदेशः मा भूत। आत्गुणः इति । कथं च प्राप्नोति । (कात्यायन वार्तिक)पञ्चमीनिर्दिष्टात्हि परस्य(वार्तिकान्त) । पञ्चमीनिर्दिष्टात्हि परस्य कार्यं उच्यते । तत्यथा द्व्यन्तरुपसर्गेभ्यः अपः ईतिति । (कात्यायन वार्तिक)षष्ठीनिर्दिष्टार्थं तु(वार्तिकान्त) । षष्ठीनिर्दिष्टार्थं च पूर्वपरग्रहणं क्रियते । षष्ठीनिर्देशः यथा पकल्पेत । (कात्यायन वार्तिक)अनिर्दिष्टे हि षष्ठ्यर्थाप्रसिद्धिः(वार्तिकान्त) । अक्रियमाणे हि पूर्वपरग्रहणे षष्ठ्यर्थस्य अप्रसिद्धिः स्यात। कस्य । स्थानेयोगत्वस्य । न एषः दोषः । आतिति एषा पञ्चमी अचि इति सप्तम्याः षष्ठीं प्रकल्पयिष्यति तस्मातिति उत्तरस्य इति । तथा च अचि इति एषा सप्तमी आतिति पञ्चम्याः षष्ठीं प्रकल्पयिष्यति तस्मिनिति निर्दिष्टे पूर्वस्य इति । एवं तर्हि सिद्धे सति यत्पूर्वग्रहणं करोति तत्ज्ञापयति आचार्यः न उभे युगपत्प्रकल्पिके भवतः इति । किं एतस्य ज्ञापने प्रयोजनं । यतुक्तं : सप्तमीपञ्चम्योः च भावातुभयत्र षष्ठीप्रक्¯प्तिः तत्र उभयकार्यप्रसङ्गः इति । सः न दोषः भवति ।
(पाणिनीयसूत्र ६,१।८५।१) कि.।५९।१०-६०।६ रो. ईV। ४०४-४०६ किमर्थं इदं उच्यते । (कात्यायन वार्तिक)अन्तादिवद्वचनं आमिश्रस्य आदेशवचनात्(वार्तिकान्त) । अन्तादिवतिति उच्यते आमिश्रस्य आदेशवचनात। आमिश्रस्य अयं आदेशः उच्यते । सः न एव पूर्वग्रहणेन गृह्यते न अपि परग्रहणेन । तत्यथा क्षीरोदके सम्पृक्ते आमिश्रत्वात्न एव क्षीरग्रहणेन गृह्यते न अपि उदकग्रहणेन । इष्यते च ग्रहणं स्यातिति । तत्च अन्तरेण यत्नं न सिध्यति इति अन्तादिवच्वचनं । एवमर्थं इदं उच्यते । अस्ति प्रयोजनं एतत। किं तर्हि इति । (कात्यायन वार्तिक)तत्र यस्य अन्तादिवत्तन्निर्देशः(वार्तिकान्त) । तत्र यस्य अन्तादिवद्भावः इष्यते तन्निर्देशः कर्तव्यः । अस्य अन्तवत्भवति अस्य आदिवत्भवति इति वक्तव्यं । (कात्यायन वार्तिक)सिद्धं तु पूर्वपराधिकारात्(वार्तिकान्त) । सिद्धं एतत। कथं । पूर्वपराधिकारात। पूर्वपरयोः इति वर्तते । पूर्वस्य कार्यं प्रति अन्तवत्भवति । परस्य कार्यं प्रति आदिवत्भवति । अथ यत्र उभयं आश्रीयते किं तत्र पूर्वस्य अन्तवत्भवति आहोस्वित्परस्य आदिवत्भवति । उभयतः आश्रये न अन्तादिवत। किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । लौकिकः अयं दृष्टान्तः । तत्यथा लोके यः द्वयोः तुल्यबलयोः प्रेष्यः भवति सः तयोः पर्यायेण कार्यं करोति । यदा तु तं उभौ युगपत्प्रेषयतः नानादिक्षु च कार्ये भवतः तत्र यदि असौ अविरोधाऋथी भवति ततः उभयोः न करोति । किं पुनः कारणं उभयोः न करोति । यौगपद्यासम्भवात। न अस्ति यौगपद्येन सम्भवः ।
(पाणिनीयसूत्र ६,१।८५।२) कि.।६०।७-६३।७ रो. ईV।४०६-४११ अथ अन्तवत्त्वे कानि प्रयोजनानि । (कात्यायन वार्तिक)अन्तवत्त्वे प्रयोजनं बह्वच्पूर्वपदात्ठज्विधाने(वार्तिकान्त) । अन्तवत्त्वे बह्वच्पूर्वपदात्ठज्विधाने प्रयोजनं । द्वादशान्यिकः । पूर्वपदोत्तरपदयोः एकादेशः पूर्वपदसय अन्तवत्भवति यथा शक्येत कर्तुं बहुच्पूर्वपदात्ठच्भवति इति । क्व तर्हि स्यात। यत्र कृते अपि एकादेशे बह्वच्पूर्वपदं भवति । तरयोदशान्यिकः । (कात्यायन वार्तिक)प्रत्ययैकादेशः पूर्वविधौ(वार्तिकान्त) । प्रत्ययैकादेशः पूर्वविधौ प्रयोजनं । मधु पिबन्ति । शिदशितोः एकादेशः शितः अन्तवत्भवति यथा शक्येत कर्तुं शिति इति पिबादेशः । क्व तर्हि स्यात। यत्र एकादेशः न भवति । पिबति । (कात्यायन वार्तिक)वैभक्तस्य णत्वे(वार्तिकान्त) । वैभक्तस्य णत्वे प्रयोजनं । क्षीरपेण , सुरापेण । उत्तरपदविभक्त्योः एकादेशः उत्तरपदस्य अन्तवत्भवति यथा शक्येत कर्तुं एकाजुत्तरपदे णः भवति इति । क्व तर्हि स्यात। यत्र एकादेशः न भवति । क्षीरपाणां , सुरापाणं । (कात्यायन वार्तिक)अदसः ईत्त्वोत्त्वे(वार्तिकान्त) । अदसः ईत्त्वोत्त्वे प्रयोजनं । अमी अत्र , अमी आसते , अमू अत्र , अमू आसाते । अदस्विभक्त्योः एकादेशः अदसः अन्तवत्भवति यथा शक्येत कर्तुं अदसः असेः दातु दः मः एतः ईत्बहुवचने इति । क्व तर्हि स्यात। यत्र एकादेशः न भवति । अमीभिः , अमूभ्यां । स्वरितत्वे प्रयोजनं । कार्या , हार्या । तिदतिरोः एकादेशः तितः अन्तवत्भवति यथा शक्येत कर्तुं तित्स्वरितं इति । क्व तर्हि स्यात। यत्र एकादेशः न भवति । कार्यः , हार्यः । (कात्यायन वार्तिक)स्वरितत्वं विप्रतिषेधात्(वार्तिकान्त) । स्वरितत्वं क्रियतां एकादेशः इति किं अत्र कर्तव्यं । परत्वात्स्वरितत्वं भविष्यति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । नित्यः एकादेशः । कृते अपि स्वरितत्वे प्राप्नोति अकृते अपि । अनित्यः एकादेशः । अन्यथास्वरस्य कृते स्वरितत्वे प्राप्नोति अन्यथास्वरस्य अकृते स्वरितत्वे प्राप्नोति । स्वरभिन्नस्य च प्राप्नुवन्विधिः अनित्यः भवति । अन्तरङ्गः तर्हि एकादेशः । का अन्तरङ्गता । वर्णौ आश्रित्य एकादेशः पदस्य स्वरितत्वं । स्वरितत्वं अपि अन्तरङ्गं । कथं । उक्तं एतत्पदग्रहणं परिमाणार्थं इति । उभयोः अन्तरङ्गयोः परत्वात्स्वरितत्वं । स्वरितत्वे कृते आन्तर्यतः स्वरितानुदात्तयोः एकादेशः स्वरितः भविष्यति । (कात्यायन वार्तिक)लिङ्गविशिष्तग्रहणात्वा(वार्तिकान्त) । अथ वा प्रातिपदिकग्रहणे लिङ्गविशिष्तस्य अपि ग्रहणं भवति इति एवं अत्र स्वरितत्वं भविष्यति । पूर्वपदान्तोदात्तत्वं च प्रयोजनं । गुडोदकं , मथितोदकं । पूर्वपदोत्तरपदयोः एकादेशः पूर्वपदस्य अन्तवत्भवति यथा शक्येत कर्तुं उदके अकेवले पूर्वपदस्य अन्तः उदात्तः भवति इति । क्व तर्हि स्यात। यत्र अकादेशः न भवति । उदश्विदुदकं । (कात्यायन वार्तिक)पूर्वपदान्तोदात्तत्वं च(वार्तिकान्त) । पूर्वपदान्तोदात्तत्वं च विप्रतिषेधात। पूर्वपदान्तोदात्तत्वं क्रियतां एकादेशः इति किं अत्र कर्तव्यं । परत्वात्पूर्वपदान्तोदात्तत्वं । पूर्वपदान्तोदात्तत्वस्य अवकाशः उदश्विदुदकं । एकादेशस्य अवकाशः दण्डाग्रं , क्षुपाग्रं । इह उभयं प्राप्नोति । मथितोदकं , गुडोदकं । पूर्वपदान्तोदात्तत्वं भवति विप्रतिषेधेन । सः च अवश्यं विप्रतिषेधः आश्रययितव्यः । (कात्यायन वार्तिक)एकादेशे हि स्वरिताप्रसिद्धिः(वार्तिकान्त) । एकादेशे हि स्वरितस्य अप्रसिद्धिः स्यात। यः हि मन्यते अस्तु अत्र एकादेशः एकादेशे कृते पूर्वपदान्तोदात्तत्वं भविष्यति इति स्वरितत्वं तस्य न सिध्यति स्वरितः वा अनुदात्ते पदादौ इति । मथितोदकं , गुडोदकं । कृदन्तप्रकृतिस्वरत्वं च प्रयोजनं । प्राटिता , प्राशिता । कृद्गत्योः एकादेशः गतेः अन्तवत्भवति यथा शक्येत कर्तुं गतिकारकोपपदात्कृदन्तं उत्तरपदं प्रकृतिस्वरं भवति इति । क्व तर्हि स्यात। यत्र न अकादेशः । प्रकारकः , प्रकरणं ।(कात्यायन वार्तिक) कृदन्तप्रकृतिस्वरत्वं च(वार्तिकान्त) । कृदन्तप्रकृतिस्वरत्वं च विप्रतिषेधात। कृदन्तप्रकृतिस्वरत्वं क्रियतां एकादेशः इति किं अत्र कर्तव्यं । परत्वात्कृदन्तप्रकृतिस्वरत्वं भवति विप्रतिषेधेन । कृदन्तप्रकृतिस्वरत्वस्य अवकाशः प्रकारकः , प्रकरणं । एकादेशस्य अवकाशः दण्डाग्रं , क्षुपाग्रं । इह उभयं प्राप्नोति । प्राटिता , प्राशिता । कृदन्तप्रकृतिस्वरत्वं भवति विप्रतिषेधेन । सः च अवश्यं विप्रतिषेधः आश्रययितव्यः । (कात्यायन वार्तिक)एकादेशे हि अ प्रसिद्धिः उत्तरपदस्य अपरत्वात्(वार्तिकान्त) । यः हि मन्यते अस्तु अत्र एकादेशः एकादेशे कृते कृदन्तप्रकृतिस्वरत्वं भविष्यति इति कृदन्तप्रकृतिस्वरत्वं तस्य न सिध्यति । किं कारणं । उत्तरपदस्य अपरत्वात। न हि इदानीं एकादेशे कृते उत्तरपदं परं भवति । ननु च अन्तादिवद्भावेन परं । उभयतः आश्रये न अन्तादिवत। (कात्यायन वार्तिक)उत्तरपदवृद्धिः च एकादेशात्(वार्तिकान्त) । उत्तरपदवृद्धिः च एकादेशात्भवति विप्रतिषेधेन । उत्तरपदवृद्धेः अवकाशः पूर्वत्रैगर्तकः, अपरत्रैगर्तकः । एकादेशस्य अवकाशः दण्डाग्रं , क्षुपाग्रं । इह उभयं प्राप्नोति । पूर्वैषुकामशमः , अपरैषुकामशः । उत्तरपदवृद्धिः भवति विप्रतिषेधेन । (कात्यायन वार्तिक)एकादेशप्रसङ्गः तु अन्तरङ्गबलीयस्त्वात्(वार्तिकान्त) । एकादेशः तु प्राप्नोति । किं कारणं । अन्तरङ्गस्य बलीयस्त्वात। अन्तरङ्गं बलीयः । तत्र कः दोषः । (कात्यायन वार्तिक)तत्र वृद्धिविधानम्(वार्तिकान्त) । तत्र वृद्धिः विधेया । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति पूर्वोत्तरपदयोः तावत्कार्यं भवति न एकादेशः इति यतयं न इन्द्रस्य परस्य इति प्रतिषेधं शास्ति । कथं कृत्वा ज्ञापकं । इन्द्रे द्वौ अचौ । तत्र एकः यस्य ईति च इति लोपेन ह्रियते अपरः एकादेशेन । ततः अनच्कः इन्द्रः सम्पन्नः । तत्र कः प्रसङ्गः वृद्धेः । पश्यति तु आचार्यः पूर्वपदोत्तरपद्योः तावत्कार्यं भवति न एकादेशः इति ततः न इन्द्रस्य परस्य इति प्रतिषेधं शास्ति ।
(पाणिनीयसूत्र ६,१।८५।३) कि.।६३।८-६४।८ रो. ईV।४११-४१२ अथ आदिवत्त्वे कानि प्रयोजनानि । (कात्यायन वार्तिक)आदिवत्त्वे प्रयोजनं प्रगृह्यसञ्ज्ञायाम्(वार्तिकान्त) । आदिवत्त्वे प्रगृह्यसञ्ज्ञायां प्रयोजनं । अग्नी इति , वायू इति । द्विवचनाद्विवचनयोः एकादेशः द्विवचनस्य आदिवत्भवति यथा शक्येत कर्तुं ईदूदेत्द्विवचनं प्रगृह्यं इति । क्व तर्हि स्यात। यत्र एकादेशः न भवति । त्रपुणी इति , जतुनी इति । (कात्यायन वार्तिक)सुप्तिङाब्विधिषु(वार्तिकान्त) । सुप्तिङाब्विधिषु प्रयोजनं । सुप। वृक्षे तिष्ठति । प्लक्षे तिष्ठति । सुबसुपोः एकादेशः सुपः आदिवत्भवति यथा शक्येत कर्तुं सुबन्तं पदं इति । क्व तर्हि स्यात। यत्र एकादेशः न भवति । वृक्षः तिष्ठति । प्लक्षः तिष्थति । सुप। तिङ। पचे, यजे इति । तिङतिङोः एकादेशः तिङः आदिवत्भवति यथा शक्येत कर्तुं तिङन्तं पदं इति । क्व तर्हि स्यात। यत्र एकादेशः न भवति । पचति , यजति । तिङ। आप। खट्वा , माला । अबनापोः एकादेशः आपः आदिवत्भवति यथा शक्येत कर्तुं आबन्तात्सोः लोपः भवति इति । क्व तर्हि स्यात। यत्र एकादेशः न भवति । क्रुञ्चा , उष्णिहा , देवदिशा । (कात्यायन वार्तिक)आङ्ग्रहणे पदविधौ(वार्तिकान्त) । आङ्ग्रहणे पदविधौ प्रयोजनं । अद्य आहते । कदा आहते । आङनाङोः एकादेशः आङः आदिवत्भवति यथा शक्येत कर्तुं आङः यमहनः इति आत्मनेपदं भवति इति । क्व तर्हि स्यात। यत्र एकादेशः न भवति । आहते । (कात्यायन वार्तिक)आटः च वृद्धिविधौ(वार्तिकान्त) । आटः च वृद्धिविधौ प्रयोजनं । अद्य ऐहिष्ट । कदा ऐहिष्ट । आटः अद्यशब्दस्य च एकादेशः आटः आदिवत्भवति यथा शक्येत कर्तुं आटः च अचि वृद्धिः भवति इति । क्व तर्हि स्यात। यत्र एकादेशः न । ऐहिष्ट , ऐक्षिष्ट । (कात्यायन वार्तिक)कृदन्तप्रातिपदिकत्वे च(वार्तिकान्त) । कृदन्तप्रातिपदिकत्वे च प्रयोजनं । धारयः , पारयः । कृदकृतोः एकादेशः कृतः आदिवत्भवति यथा शक्येत कर्तुं कृदन्तं प्रातिपदिकं इति । क्व तर्हि स्यात। यत्र एकादेशः न । कारकः , हारकः ।
(पाणिनीयसूत्र ६,१।८५।४) कि.।६४।९-६५।६ रो. ईV।४१३-४१४ (कात्यायन वार्तिक)न अभ्यासादीनां ह्रस्वत्वे(वार्तिकान्त) । अभ्यासादीनां ह्रस्वत्वे न अन्तादिवत्भवति इति वक्तव्यं । के पुनः अभ्यासादयः । अभ्यासोहाम्बार्थनदीनपुंसकोपसर्जनह्रस्वत्वानि । अभ्यासह्रस्वत्वं । उपेयाज , उपोवाप । ऊहेः ह्रस्ववं । उपोह्यते , प्रोह्यते , परोह्यते । अम्बार्थनदीनपुंसकोपसर्जनह्रस्वत्वानि । अम्ब अत्र , अक्क अत्र । कुमारि इदं , किशोरि इदं । आराशस्त्रि इदं , धानाशष्कुलि इदं । निष्कौशाम्बि इदं , निर्वाराणसि इदं । अभ्यासोहाम्बार्थनदीनपुंसकोपसर्जनग्रहणेन ग्रहणात्ह्रस्वत्वं प्राप्नोति । (कात्यायन वार्तिक)न वा बहिरङ्गलक्षणत्वात्(वार्तिकान्त) । न वा एतत्वक्तव्यं । किं कारणं । बहिरङ्गलक्षणत्वात। अन्तरङ्गं ह्रस्वत्वं । बहिरङ्गाः एते विधयः । असिद्धं बहिरङ्गं अन्तरङ्गे । (कात्यायन वार्तिक)वर्णाश्रयविधौ च(वार्तिकान्त) । वर्णाश्रयविधौ च न अन्तादिवत्भवति इति वक्तव्यं । किं प्रयोजनं । (कात्यायन वार्तिक)प्रयोजनं खट्वाभिः जुहाव अस्यै अश्वः इति(वार्तिकान्त) । इह खट्वाभिः , मालाभिः , अतः भिसः ऐस्भवति इति ऐस्भावः प्राप्नोति । न एषः दोषः । तपरकरणसामर्थ्यात्न भविष्यति । अस्ति अन्यत्तपरकरणे प्रयोजनं । किं । कीलालपाभिः , शुभंयाभिः । जुहाव । आतः औ णलः इति औत्वं प्राप्नोति । अस्यै अश्वः इति । एङः पदान्तातति इति पूर्वत्वं प्राप्नोति । (कात्यायन वार्तिक)न वा अताद्रूप्यातिदेशात्(वार्तिकान्त) । न वा वक्तव्यं । किं कारणं । अताद्रूप्यातिदेशात। न इह ताद्रूप्यं अतिदिश्यते । रूपाश्रयाः वै एते विधयः अताद्रूप्यात्न भविष्यन्ति ।
(पाणिनीयसूत्र ६,१।८६।१) कि.।६५।८-६६।७ रो. ईV।४१४-४१५ किमर्थं इदं उच्यते । (कात्यायन वार्तिक)षत्वतुकोः असिद्धवचनं आदेशलक्षणप्रतिषेधाऋथं उत्सर्गलक्षणभावार्थं च(वार्तिकान्त) । षत्वतुकोः असिद्धत्वं उच्यते आदेशलक्षणप्रतिषेधाऋथं उत्सर्गलक्षणभावार्थं च । आदेशलक्षणप्रतिषेधाऋथं तावत। कोसिञ्चत। योसिञ्चत। एकादेशे कृते इणः इति षत्वं प्राप्नोति । असिद्धत्वात्न भवति । उत्सर्गलक्षणभावार्थं च । अधीत्य , प्रेत्य । एकादेशे कृते ह्रस्वस्य इति तुक्न प्राप्नोति । असिद्धत्वात्भवति । अस्ति प्रयोजनं एतत। किं तर्हि इति । (कात्यायन वार्तिक)तत्र उत्सर्गलक्षणाप्रसिद्धिः उत्सर्गाभावात्(वार्तिकान्त) । तत्र उत्सर्गलक्षणस्य कार्यस्य अप्रसिद्धिः । अधीत्य , प्रेत्य इति । किं कारणं । उत्सर्गाभावात। ह्रस्वस्य इति उच्यते न च अत्र ह्रस्वं पश्यामः । ननु च अत्र अपि असिद्धवचनात्सिद्धं । (कात्यायन वार्तिक)असिद्धवचनात्सिद्धं इति चेत्न अन्यस्य असिद्धवचनातन्यस्य भावः(वार्तिकान्त) । असिद्धवचनात्सिद्धं इति चेत्तत्न । किं कारणं । अन्यस्य असिद्धवचनातन्यस्य भावः । न हि अन्यस्य असिद्धवचनातन्यस्य प्रादुर्भावः भवति । न हि देवदत्तस्य हन्तरि हते देवदत्तस्य प्रादुर्भावः भवति । (कात्यायन वार्तिक)तस्मात्स्थानिवद्वचनं असिद्धत्वं च(वार्तिकान्त) । तस्मात्स्थानिवद्भावः वक्तव्यः असिद्धत्वं च । अधीत्य , प्रेत्य इति स्थानिवद्भावः । कोसिञ्चत्, योसिञ्चतिति अत्र असिद्धत्वं । (कात्यायन वार्तिक)स्थानिवद्वचनानर्थक्यं शास्त्रासिद्धत्वात्(वार्तिकान्त) । स्थानिवद्वचनं अनर्थकं । किं कारणं । शास्त्रासिद्धत्वात। न अनेन कार्यासिद्धत्वं क्रियते । किं तर्हि । शास्त्रासिद्धत्वं अनेन क्रियते । एकादेशशास्त्रं तुक्शास्त्रे असिद्धं भवति इति ।
(पाणिनीयसूत्र ६,१।८६।२) कि.।६६।८-२३ रो. ईV।४१६-४१८ सम्प्रसारणङीट्सु सिद्धः । सम्प्रसारणङीट्सु सिद्धः एकादेशः इति वक्तव्यं । शकहूषु , परिवीषु । सम्प्रसारण । ङि । वृक्षे च्छत्रं , वृक्षे छत्रं । ङि । इट। अपचे च्छत्रं , अपचे छत्रं । (कात्यायन वार्तिक)सम्प्रसारणङीट्सु सिद्धः पदान्तपदाद्योः एकादेशस्य असिद्धवचनात्(वार्तिकान्त)। सम्प्रसारणङीट्सु सिद्धः एकादेशः । कुतः । पदान्तपदाद्योः एकादेशस्य असिद्धवचनात। पदान्तपदाद्योः एकादेशः असिद्धः भवति इति उच्यते न च एषः पदान्तपदाद्योः एकादेशः । यदि पदान्तपदाद्योः एकादेशः असिद्धः सुसस्याः ओषधीः कृधि , सुपिप्पलाः ओषधीः कृधि , अत्र षत्वं प्राप्नोति । तुग्विधिं प्रति पदान्तपदाद्योः एकादेशः असिद्धः । षत्वं प्रति एकादेशमात्रं असिद्धं भवति । यदि षत्वं प्रति एकादेशमात्रं असिद्धं शकहूषु , परिवीषु , अत्र षत्वं न प्राप्नोति । अस्तु तर्हि अविशेषेण । कथं सुसस्याः ओषधीः कृधि , सुपिप्पलाः ओषधीः कृधि इति । न एषः दोषः । भ्रातुष्पुत्रग्रहणं ज्ञापकं एकादेशनिमित्तात्षत्वप्रतिषेधस्य । यतयं कस्कादिषु भ्रातुष्पुत्रग्रहणं करोति तत्ज्ञापयति आचार्यः न एकादेशनिमित्तात्षत्वं भवति इति । यदि एतत्ज्ञाप्यते शकहूषु , परिवीषु इति अत्र षत्वं न प्राप्नोति । तुल्यजातीयकस्य ज्ञापकं । किं च तुल्ज्यजातीयं । यः कुप्वोः । यदि एवं वेञः अप्रत्यये परतः उः इति प्राप्नोति उतिति च इष्यते । यथालक्षणं अप्रयुक्ते । अथ वा न एवं विज्ञायते । पूर्वस्य च पदादेः परस्य च पदान्तस्य इति । कथं तर्हि । परस्य च पदादेः पूर्वस्य च पदान्तस्य इति ।
(पाणिनीयसूत्र ६,१।८७।१) कि.।६६।२५-६८।३ रो. ईV।४१८-४२० गुणग्रहणं किमर्थं न आतेकः भवति इति एव उच्येत । (कात्यायन वार्तिक)आतेकः चेत्गुणः केन(वार्तिकान्त) । आतेकः चेत्गुणः केन इदानीं भविष्यति । खट्वेन्द्रः , मालेन्द्रः , खट्वोदकं , मालोदकं । (कात्यायन वार्तिक)स्थाने अन्तरतमः हि सः(वार्तिकान्त) । स्थाने प्राप्यमाणानां अन्तरतमः आदेशः भवति । ऐदौतौ अपि तर्हि प्रप्नुतः । (कात्यायन वार्तिक)ऐदौतौ न एचि तौ उक्तौ (वार्तिकान्त)। ऐदौतौ न भविष्यतः । किं कारणं । एचि हि ऐदौतौ उच्येते । इह तर्हि खट्वर्श्यः , मालर्श्यः , ऋकारः तर्हि प्राप्नोति । (कात्यायन वार्तिक)ऋकारः न उभयान्तरः(वार्तिकान्त) । उभयोः यः अन्तरतमः तेन भवितव्यं । न च ऋकारः उभयोः अन्तरतमः । आकारः तर्हि प्राप्नोति । (कात्यायन वार्तिक)आकारः न ऋति धातौ सः(वार्तिकान्त) । आकारः न भविष्यति । किं कारणं । ऋति धातौ आकारः उच्यते । तत्नियमार्थं भविष्यति । ऋकारादौ धातौ एव न अन्यत्र इति । प्लुतः तर्हि प्राप्नोति । (कात्यायन वार्तिक)प्लुतः च विषये स्मृतः(वार्तिकान्त) । विषये प्लुतः उच्यते । यदा च सः विषयः भवितव्यं तदा प्लुतेन । (कात्यायन वार्तिक)आन्तर्यात्त्रिमात्रचतुर्मात्राः (वार्तिकान्त)। इदं तर्हि प्रयोजनं । आन्तर्यतः त्रिमात्रचतुर्मात्राणां स्थाने त्रिमात्रचतुर्मात्राः आदेशाः मा भूवनिति । खट्वा इन्द्रः खट्वेन्द्रः । खट्वा उदकं खट्वोदकं । खट्वा ईषा खट्वेषा । खट्वा ऊढा खट्वोढा । खट्वा एलका खट्वैलका । खट्वा ओदनः खट्वौदनः खट्वा ऐतिकायनः खट्वैतिकायनः । खट्वा औपगवः खट्वौपगवः । अथ क्रियमाणे अपि गुणग्रहणे कस्मातेव अत्र त्रिमात्रचतुर्मात्राणां स्थाने त्रिमात्रचतुर्मात्राः आदेशाः न भवन्ति । (कात्यायन वार्तिक)तपरत्वात्ने ते स्मृताः(वार्तिकान्त) । तपरे गुणवृद्धी । ननु च भोः तः परः यस्मात्सः अयं तपरः । न इति आह । तातपि परः तपरः इति । यदि तातपि परः तपरः ®दोः अपिति इह एव स्यात। यवः स्तवः । लवः पवः इति अत्र न स्यात। न एषः तकारः । कः तर्हि । दकारः । किं दकारे प्रयोजनं । अथ किं तकारे प्रयोजनं । यदि असन्देहार्थः तकारः दकारः अपि ।
(पाणिनीयसूत्र ६,१।८७।२) कि.।४-१० रो. ईV।४२० (कात्यायन वार्तिक)गुणे ङिशीतां उपसङ्ख्यानं दीर्घत्वबाधनार्थम्(वार्तिकान्त) । गुणे ङिशीतां उपसङ्ख्यानं कर्तव्यं । ङि । वृक्षे इन्द्रः , प्लक्षे इन्द्रः । शी । ये इन्द्रं , ते इन्द्रं । इट। अपचे इन्द्रं , अयजे इन्द्रं । किं प्रयोजनं । दीर्घत्वबाधनार्थं । सवर्णदीर्घत्वं मा भूतिति । (कात्यायन वार्तिक)न वा बहिरङ्गलक्षणत्वात्(वार्तिकान्त) । न वा कर्तव्यं । किं कारणं । बहिरङ्गलक्षणत्वात। बहिरङ्गलक्षणं सवर्णदीर्घत्वं । असिद्धं बहिरङ्गं अन्तरङ्गे ।
(पाणिनीयसूत्र ६,१।८७।३) कि.।६८।११-१४ रो. ईV।४२० (कात्यायन वार्तिक)आतेकः चेत्गुणः केन । स्थाने अन्तरतमः हि सः । ऐदौतौ न एचि तौ उक्तौ । ऋकारः न उभयान्तरः । आकारः न ऋति धातौ सः । प्लुतः च विषये स्मृतः । आन्तर्यात्त्रिमात्रचतुर्मात्राः । तपरत्वात्ने ते स्मृताः(वार्तिकान्त) ।
(पाणिनीयसूत्र ६,१।८९।१) कि.।६८।१६-६९।६ रो. ईV।४२१-४२२ किं इदं एत्येधत्योः रूपग्रहणं आहोस्वित्धातुग्रहणं । किं च अतः । यदि रूपग्रहणं सिद्धं उपैति , प्रैति । उपैषि , प्रैषि इति न सिध्यति । अथ धातुग्रहणं सिद्धं एतत्भवति । किं तर्हि इति । (कात्यायन वार्तिक)इणि इकारादौ वृद्धिप्रतिषेधः(वार्तिकान्त) । इणि इकारादौ वृद्धेः प्रतिषेधः वक्तव्यः । उपेतः प्रेतः इति । (कात्यायन वार्तिक)योगविभागात्सिद्धम्(वार्तिकान्त) । योगविभागः करिष्यते । वृद्धिः एचि । ततः एत्येधत्योः । एत्येधत्योः च एचि वृद्धिः भवति । तत ऊठि । ऊठि च वृद्धिः भवति । एवं अपि आ इतः एतः । उपेतः , प्रेतः इति अत्र अपि प्राप्नोति । आङि पररऊपं अत्र बाधकं भविष्यति । न अप्राप्ते पररूपं इयं वृद्धिः आरभ्यते । सा यथा एङि पररूपं बाधते एवं आङि पररूपं बाधेत । न बाधते । किं कारणं । येन न अप्राप्ते तस्य बाधनं भवति । न च अप्राप्ते एङि पररूपं इयं वृद्धिः आरभ्यते । आङि पररूपे पुनः प्राप्ते च अप्राप्ते च । अथवा पुरस्तातपवादाः अनन्तरान्विधीन्बाधन्ते इति इयं वृद्धिः एङि पररूपं बाधिष्यते न आङि पररूपं ।
(पाणिनीयसूत्र ६,१।८९।२) कि.।६९।७-२१ रो. ईV।४२२-४२३ (कात्यायन वार्तिक)अक्षातूहिन्याम्(वार्तिकान्त) । अक्षातूहिन्यां वृद्धिः वक्तव्या । अक्षौहिणी । (कात्यायन वार्तिक)प्रातूहोढोढ्येषैष्येषु(वार्तिकान्त) । प्रातूह, ऊढ, ऊढि, एष, एष्य इति एतेषु वृद्धिः वक्तव्या । प्रौहः , प्रौढः , प्रुढिः , प्रैषः , प्रैष्यः । (कात्यायन वार्तिक)स्वातीरेरिणोः(वार्तिकान्त) । स्वातीर , ईरिनिति एतयोः वृद्धिः वक्तव्या । स्वैरः , स्वैरी । ईरिन्ग्रहणं शक्यं अकर्तुं । कथं स्वरी इति । इनिना एतत्मत्वर्थीयेन सिद्धं । स्वैरः अस्य अस्ति इति स्वैरी । (कात्यायन वार्तिक)ऋते च तृतीयासमासे(वार्तिकान्त) । ऋते च तृतीयासमासे वृद्धिः वक्तव्या । सुखार्तः , दुःखार्तः । ऋते इति किं । सुखेतः , दुःखेतः । तृतीयाग्रहणं किं । परमर्तः । समासे इति किं । सुखेनर्तः । (कात्यायन वार्तिक)प्रवत्सतरकम्बल्वसनानां च ऋणे(वार्तिकान्त) । प्रवत्सतरकम्बल्वसनानां च ऋणे वृद्धिः वक्तव्या । प्रार्णं , वत्सतराणं , वसनार्णं । (कात्यायन वार्तिक)ऋणदशाभ्यां च(वार्तिकान्त) ।ऋणदशाभ्यां च वृद्धिः वक्तव्या । ऋणार्णं , दशार्णं ।
(पाणिनीयसूत्र ६,१।९०) कि.।७०।२-५ रो. ईV।४२३ किमर्थः चकारः । वृद्धेः अनुकर्षणार्थः । न एततस्ति प्रयोजनं । प्रकृता वृद्धिः अनुवर्तिष्यते । इदं तर्हि प्रयोजनं । आतः अचि वृद्धिः एव यथा स्यात। यतन्यत्प्राप्नोति तत्मा भूतिति । किं च अन्यत्प्राप्नोति । पररूपं । उसि ओमाङ्क्षु आटः पररूपप्रतिषेधं चोदयिष्यति । सः न वक्तव्यः भवति ।
(पाणिनीयसूत्र ६,१।९१।१) कि.।७०।७-१४ रो. ईV।४२३-४२४ धातौ इति किमर्थं । इह मा भूत। प्रर्षभं वनं । (कात्यायन वार्तिक)उपसर्गात्वृद्धिविधौ धातुग्रहणे उक्तम्(वार्तिकान्त) । किं उक्तं । गत्युपसर्गसञ्ज्ञाः क्रियायोगे यत्क्रियायुक्ताः प्रादयः तं प्रति इति वचनं इति । क्रियमाणे अपि धातुग्रहणे प्रर्च्छकः इति प्राप्नोति । यत्क्रियायुक्ताः प्रादयः तं प्रति इति वचनात्न भवति । इदं तर्हि प्रयोजनं । उपसर्गातृति धातौ वृद्धिः एव यथा स्यात। यतन्यत्प्राप्नोति तत्मा भूतिति । किं च अन्यत्प्राप्नोति । ह्रस्वत्वं । ऋति अकः इति । ऋति ह्रस्वातुपसर्गात्वृद्धिः पूर्वविप्रतिषेधेन इति चोदयिष्यति । सः न वक्तव्यः भवति ।
(पाणिनीयसूत्र ६,१।९१।२) कि.।७०।१५-७३।१४ रो. ईV।४२४-४३१ (कात्यायन वार्तिक)छे तुकः सम्बुद्धिगुणः(वार्तिकान्त) । छे तुक्भवति इति अस्मात्सम्बुद्धिगुणः भवति विप्रतिषेधेन । छे तुक्भवति इति अस्य अवकाशः । इच्छति , गच्छति । सम्बुद्धिगुणस्य अवकाशः । अग्ने, वायो । इह उभयं प्राप्नोति । अग्नेच्छत्रं , अग्ने छत्रं , वायोच्छत्रं , वायो छत्रं । सम्बुद्धिगुणः भवति विप्रतिषेधेन । सः तर्हि विप्रतिषेधः वक्तव्यः । (कात्यायन वार्तिक)न वा बहिरङ्गलक्षणत्वात्(वार्तिकान्त)। न वा वक्तव्यः । किं काऋअणं । बहिरङ्गलक्षणत्वात। बहिरङ्गलक्षणः तुकन्तरङ्गलक्षणः सम्बुद्धिगुणः । असिद्धं बहिरङ्गं अन्तरङ्गे । अन्तरेण विप्रतिषेधं अन्तरेण अपि च एतां परिभाषां सिद्धं । कथं । इदं इह सम्प्रधार्यं । सम्बुद्धिलोपः क्रियतां गुणः इति । किं अत्र कर्तव्यं । परत्वात्गुणः । नित्यः सम्बुद्धिलोपः । कृते अपि गुणे प्राप्नोति अकृते अपि । गुणः अपि नित्यः । कृते अपि समुबुद्धिलोपे प्राप्नोति अकृते अपि । अनित्यः गुणः । न हि कृते सम्बुद्धिलोपे प्राप्नोति । तावति एव छेन आनन्तर्यं । तत्र तुका भवितव्यं । तस्मात्सुष्ठु उच्यते । छे तुकः सम्बुद्धिगुणः । न वा बहिरङ्गलक्षणत्वातिति । (कात्यायन वार्तिक)सम्प्रसारणदीर्घत्वण्यल्लोपाभ्यासगुणादयः च(वार्तिकान्त) । सम्प्रसारणदीर्घत्वण्यल्लोपाभ्यासगुणादयः च तुकः भवन्ति विप्रतिषेधेन । सम्प्रसारणदीर्घत्वस्य अवकाशः । हूतः , जीनः , संवीतः , शूनः । तुकः अवकाशः । अग्निचित्, सोमसुत। इह उभयं प्राप्नोति । परिवीषु , शकहूषु । णिलोपस्य अवकाशः ।कारणा , हारणा । तुकः सः एव । इह उभयं प्राप्नोति । प्रकार्य गतः । प्रहार्य गतः । अल्लोपस्य अवकाशः । चिकीर्षिता , जिहीर्षिता । तुकः सः एव । इह उभयं प्राप्नोति । प्रचिकीर्ष्य गतः , प्रजिहीर्ष्य गतः । अभ्यासगुणादयः च तुकः भवन्ति विप्रतिषेधेन । के पुनः अभ्यासगुणादयः । ह्रस्वत्वात्त्वेत्त्वगुणाः । ह्रस्वत्वस्य अवकाशः । पपतुः , पपुः , तस्थतुः , तस्थुः । तुकः सः एव । इह उभयं प्राप्नोति । अपचच्छतुः , अपचच्छुः । अत्त्वस्य अवकाशः । चक्रतुः , चक्रुः । तुकः सः एव । इह उभयं प्राप्नोति । अपचच्छृदतुः , अपचच्छृदुः । इत्त्वस्य अवकाशः । पिपक्षति , यियक्षति । तुकः सः एव । इह उभयं प्राप्नोति । चिच्छादयिषति , चिच्छर्दयिषति । गुणस्य अवकाशः । लोलूयते , बेभिद्यते । तुकः सः एव । इह उभयं प्राप्नोति । चेच्छिद्यते , चोच्छुप्यते । (कात्यायन वार्तिक)यणदेशातात्गुणः(वार्तिकान्त) । यणदेशातात्गुणः भवति विप्रतिषेधेन । यणदेशस्य अवकाशः । दधि अत्र , मधु अत्र । आत्गुणस्य अवकाशः । खट्वेन्द्रः , खट्वोदकं । इह उभयं प्राप्नोति । वृक्षः अत्र, प्लक्शः अत्र । (कात्यायन वार्तिक)इरुर्गुणवृद्धिविधयः च(वार्तिकान्त) । इरुर्गुणवृद्धिविधयः च यणदेशात्भवन्ति विप्रतिषेधेन । इरुरोः अवकाशः । आस्तीर्णं , निपूर्ताः पिण्डाः । यणदेशस्य अवकाशः । चक्रतुः , चक्रुः । इह उभयं प्राप्नोति । दूरे हि अध्वा जगुरिः । मित्रावरुणौ ततुरिः । किरति , गिरति । गुणवृद्ध्योः अवकाशः । चेता , गौः । यणदेशस्य सः एव । इह उभयं प्राप्नोति । चयनं , चायकः , लवनं , लावकः । (कात्यायन वार्तिक)भलोपधातुप्रातिपदिकप्रत्ययसमासान्तोदात्तनिवृत्तिस्वराः एकादेशात्च(वार्तिकान्त) । भलोपधातुप्रातिपदिकप्रत्ययसमासान्तोदात्तनिवृत्तिस्वराः एकादेशात्च यणदेशात्च भवन्ति विप्रतिषेधेन । भलोपस्य अवकाशः । गार्ग्यः , वात्स्यः । एकादेशयणादेशयोः अवकाशः । दधीन्द्रः , मधूदकं । दधि अत्र , मधु अत्र। इह उभयं प्राप्नोति । दाक्षी , दाक्षायणः , प्लाक्षी , प्लाक्षायणः । अचि भलोपः एकादेशात्भवति विप्र्तिषेधेन । अचि भलोपस्य अवकाशः । दाक्षी , दाक्षायणः , प्लाक्षी , प्लाक्षायणः । एकादेशस्य अवकाशः । दण्डाग्रं , क्षुपाग्रं । इह उभयं प्राप्नोति । गाङ्गेयः गाङ्गः । धातुस्वरस्य अवकाशः । पचति , पठति । एकादेशयणादेशयोः सः एव । इह उभयं प्राप्नोति । श्र्यर्थं , श्रीषा । प्रातिपदिकस्वरस्य अवकाशः । आम्रः । एकादेशयणादेशयोः सः एव । इह उभयं प्राप्नोति । अग्न्युदकं , वृक्षार्थं । प्रत्ययस्वरस्य अवकाशः । चिकीर्षुः , औपगवः । एकादेशयणादेशयोः सः एव । इह उभयं प्राप्नोति । चिकीर्षुअर्थं , औपगवार्थं । समासान्तोदात्तस्य अवकाशः । राजपुरुषः , ब्राह्मणकम्बलः । एकादेशयणादेशयोः सः एव । इह उभयं प्राप्नोति । राजवैद्यर्थं , राजवैदी ईहते । उदात्तनिवृत्तिस्वरस्य अवकाशः । नदी , कुमारी । एकादेशयणादेशयोः सः एव । इह उभयं प्राप्नोति । कुमार्यर्थं , कुमारी ईहते । (कात्यायन वार्तिक)अल्लोपाल्लोपौ च आर्धधातुके(वार्तिकान्त) । अल्लोपाल्लोपौ च आर्धधातुके एकादेशात्भवतः विप्रतिषेधेन । अल्लोपस्य अवकाशः । चिकीर्षिता , जिहीर्षिता । एकादेशस्य अवकाशः । पचन्ति , पठन्ति । इह उभयं प्राप्नोति । चिकीर्षकः , जिहीर्षकः । आल्लोपस्य अवकाशः । पपिः सोमं , ददिः गः । एकादेशस्य अवकाशः । यान्ति , वान्ति । इह उभयं प्राप्नोति । ययतुः , ययुः । (कात्यायन वार्तिक)इयङुवङ्गुणवृद्धिटित्किन्मित्पूर्वपदविकाराः च(वार्तिकान्त) । इयङुवङ्गुणवृद्धिटित्किन्मित्पूर्वपदविकाराः च एकादेशयणादेशाभ्यां भवन्ति विप्रतिषेधेन । इयङुवङोः अवकाशः । श्रियौ , श्रियः , भ्रुवौ , भ्रुवः । एकादेशयणादेशयोः सः एव । इह उभयं प्राप्नोति । चिक्षियिव , चिक्षियिम , लुलुवतुः , लुलुवुः , पुपुवतुः , पुपुवुः । गुणवृद्ध्योः अवकाशः । चेता , गौः । एकादेशयणादेशयोः सः एव । इह उभयं प्राप्नोति । साधुचायी , सुचायी , नग्नम्भावुकः अध्वर्युः , शयिता , शयितुं । टितः अवकाशः । अग्नीनां , इन्दूनां । एकादेशयणादेशयोः सः एव । इह उभयं प्राप्नोति । वृक्षाणां , प्लक्षाणां । कितः अवकाशः । साधुदायी , सुष्ठुदायी । एकादेशयणादेशयोः सः एव । इह उभयं प्राप्नोति । दायकः , धायकः । मितः अवकाशः । त्रपुणी , जतुनी । एकादेशयणादेशयोः सः एव । इह उभयं प्राप्नोति । अस्थीनि , दधीनि , अतिसखीनि ब्राह्मणकुलानि । पूर्वपदविकाराणां अवकाशः । होतापोतारौ । एकादेशयणादेशयोः सः एव । इह उभयं प्राप्नोति । नेष्टोद्गातारौ आग्नेन्द्रं । उत्तरपदविकाराः च इति वक्तव्यं । उत्तरपदविकाराणां अवकाशः । समीपं , दुरीपं । एकादेशयणादेशयोः सः एव । इह उभयं प्राप्नोति । प्रेपं , परेपं ।
(पाणिनीयसूत्र ६,१।९३) कि.।७३।१६-७५।८ रो. ईV।४३१-४३३ (कात्यायन वार्तिक)ओतः तिङि प्रतिषेधः(वार्तिकान्त) । ओतः तिङि प्रतिषेधः वक्तव्यः । अचिनवं , असुनवं । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । गोग्रहणं करिष्यते । आ गोतः इति वक्तव्यं । (कात्यायन वार्तिक)गोग्रहणे द्योः उपसङ्ख्यनम्(वार्तिकान्त) । गोग्रहणे द्योः उपसङ्ख्यनं कर्तव्यं । द्यं गच्छ । (कात्यायन वार्तिक)समासात्च प्रतिषेधः(वार्तिकान्त) । समासात्च प्रतिषेधः वक्तव्यः । चित्रगुं पश्य । शबलगुं पश्य । ननु च आ ओतः इति उच्यमाने अपि समासात्प्रतिषेधः वक्तव्यः । न वक्तव्यः । ह्रस्वत्वे कृते न भविष्यति । इदं इह सम्प्रधार्यं । आत्वं क्रियतां ह्रस्वत्वं इति किं अत्र कर्तव्यं । परत्वातात्वं । (कात्यायन वार्तिक)न वा बहिरङ्गलक्षणत्वात्(वार्तिकान्त) । न वा वक्तव्यः । किं कारणं । बहिरङ्गलक्षणत्वात। बहिरङ्गलक्षणं आत्वं । अन्तरङ्गं ह्रस्वत्वं । असिद्धं बहिरङ्गं अन्तरङ्गे । ननु च आ गोतः इति उच्यमाने अपि समासात्प्रतिषेधः न वक्तव्यः । कथं । ह्रस्वत्वे कृते न भविष्यति । स्थानिवद्भावात्प्राप्नोति । ननु च आ ओतः इति उच्यमाने अपि स्थानिवद्भावात्प्राप्नोति । न इति आह । अनल्विधौ स्थानिवद्भावः । आ गोतः इति उच्यमाने अपि न दोषः । प्रतिषिध्यते अत्र स्थानिवद्भावः । गोः पूर्वणित्वात्वस्वरेषु स्थानिवत्न भवति इति । सः एव तर्हि दोषः । गोग्रहणे द्योः उपसङ्ख्यनं इति । सूत्रं च भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं ओतः तिङि प्रतिषेधः इति । (कात्यायन वार्तिक)सुबधिकारात्सिद्धम्(वार्तिकान्त) । सुपि इति वर्तते । क्व प्रकृतं । वा सुपि आपिशलेः इति । यदि अनुवर्तते इह अपि विभाषा प्राप्नोति । सुब्ग्रहणं अनुवर्तते । वाग्रहणं निवृत्तं । कथं पुनः एकयोगनिर्दिष्टयोः एकदेशः अनुवर्तते एकदेशः न । (कात्यायन वार्तिक)एकयोगे च एकदेशानुवृत्तिः अन्यत्र अपि(वार्तिकान्त) । एकयोग्निर्दिष्टानां अपि एकदेशानुवृत्तिः भवति । अन्यत्र अपि । न अवश्यं इह एव । क्व अन्यत्र । अलुगधिकारः प्राकानङः । उत्तरपदाहिकारः प्राकङ्गाधिकारः । एवं अपि (कात्यायन वार्तिक)अमि उपसङ्ख्यानं वृद्धिबलीयस्त्वात्(वार्तिकान्त) । अमि उपसङ्ख्यानं कर्तव्यं । गां पश्य । किं पुनः कारणं न सिध्यति । वृद्धिबलीयस्त्वात। परत्वात्वृद्धिः प्राप्नोति । (कात्यायन वार्तिक)न वा अनवकाशत्वात्(वार्तिकान्त) । न वा वक्तव्यं । किं कारणं । अनवकाशत्वात। अनवकाशं आत्वं वृद्धिं बाधिष्यते । सावकाशं आत्वं । कः अवकाशः । द्यां गच्छ । (कात्यायन वार्तिक)द्योः च सर्वनामस्थाने वृद्धिविधिः(वार्तिकान्त) । द्योः च सर्वनामस्थाने वृद्धिः विधेया । किं प्रयोजनं । (कात्यायन वार्तिक)यत्द्यावः इन्द्र इति दर्शनात्(वार्तिकान्त) । यत्द्यवः इन्द्र ते शतं शतं भुमीः उत स्युः । यावता च इदानीं द्योः अपि सर्वनामस्थाने वृद्धिः उच्यते अनवकाशं आत्वं वृद्धिं बाधिष्यते ।
(पाणिनीयसूत्र ६,१।९४) कि.।७५।१०-७६।५ रो. ईV।४३४-४३५ (कात्यायन वार्तिक)पररूपप्रकरणे तुन्वोः वि निपाते उपसङ्ख्यानम्(वार्तिकान्त) । पररूपप्रकरणे तु , नु, इति एतयोः वकारादौ निपाते उपसङ्ख्यानं कर्तव्यं । तु वै त्वै , नु वै न्वै । वकारादौ इति किमर्थं । त्वावत्, न्वावत। निपाते इति किमर्थं । तु वानि , नु वानि । (कात्यायन वार्तिक)न वा निपातैकत्वात्(वार्तिकान्त) । न वा कर्तव्यं । किं कारणं । निपातैकत्वात। एकः एव अयं निपातः । त्वै , न्वै । (कात्यायन वार्तिक)एवे च अनियोगे(वार्तिकान्त) । एवे च अनियोगे पररूपं वक्तव्यं । इह एव , इहेव । अद्येव । अनियोगे इति किमर्थं । इहैव भव म स्म गाः । अत्रैव त्वं इह वयं सुशेवाः । (कात्यायन वार्तिक)शकन्ध्वादिषु च(वार्तिकान्त) । शकन्ध्वादिषु च पररूपं वक्तव्यं । शक-अन्धुः शकन्धुः , कुल-अटा , कुलटा , सीम-अन्तः सीमन्तः । केशेषु इति वक्तव्यं । यः हि सीम्नः अन्तः सीमान्तः सः भवति । (कात्यायन वार्तिक)ओत्वोष्ठयोः समासे वा (वार्तिकान्त)। ओत्वोष्ठयोः समासे वा पररूपं वक्तव्यं । स्थूलौतुः , स्थूलोतुः । बिम्बौष्थी , बिम्बोष्ठी । (कात्यायन वार्तिक)एमनादिषु छन्दसि(वार्तिकान्त) । एमनादिषु छन्दसि पररूपं वक्तव्यं । अपं त्वेमन्सादयामि अपं तोदयन्सादयामि इति ।
(पाणिनीयसूत्र ६,१।९५) कि.।७६।८-१४ रो. ईV।४३५ किमर्थः चकारः । एङि इति अनुकृष्यते । किं प्रयोजनं । इह मा भूत। अद्य आ ऋश्यात्, अद्यार्श्यात्, कदार्श्यात। न एततस्ति प्रयोजनं । अद्यर्श्यातिति एव भवितव्यं । एवं हि सौनागाः पठन्ति । चः अनर्थकः अनधिकारातेङः । (कात्यायन वार्तिक)उस्योमाङ्क्षु आटः प्रतिषेधः(वार्तिकान्त) । उसि पररूपे ओमाङोः च आटः प्रतिषेधः वक्तव्यः । औस्रीयत्, औढीयत्, औङ्कारीयत। सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । उक्तं आतः च इति अत्र चकारस्य प्रयोजनं । वृद्धिः एव यथा स्यात। यतन्यत्प्राप्नोति तत्मा भूतिति ।
(पाणिनीयसूत्र ६,१।९६) कि.।७६।१६-२१ रो. ईV।४३६ अपदान्तातिति किमर्थं । का , उस्रा , कोस्रा । अपदान्तातिति शक्यं अकर्तुं । कस्मात्न भवति का , उस्रा , कोस्रा । अर्थवद्ग्रहणे न अनर्थकस्य इति । न एषा परिभाषा इह शक्या विज्ञातुं । इह हि दोषः स्यात। भिन्द्या-उस्, भिन्द्युः , छिन्द्या-उस्, छिन्द्युः । एवं तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवं न भविष्यति । उत्तरार्थं तर्हि अपदान्तग्रहणं कर्तव्यं । अतः गुणे अपदान्तात्यथा स्यात। इह मा भूत। दण्डाग्रं , क्षुपाग्रं इति ।
(पाणिनीयसूत्र ६,१।९८) कि.।७७।२-३ रो. ईV।४३६ (कात्यायन वार्तिक)इतौ अनेकाज्ग्रहणं श्रदर्थम्(वार्तिकान्त) । इतौ अनेकाज्ग्रहणं कर्तव्यं । किं प्रयोजनं । श्रदर्थं । श्रतिति ।
(पाणिनीयसूत्र ६,१।९९) कि.।७७।५-९ रो. ईV।४३७ (कात्यायन वार्तिक)नित्यं आम्रेडिते डाचि(वार्तिकान्त) । नित्यं आम्रेडिते डाचि पररूपं कर्तव्यं । पटपटायति । (कात्यायन वार्तिक)अकारन्तातनुकरणात्वा(वार्तिकान्त) । अथ वा अकारान्तं एतदुदाहरणं । भवेत्सिद्धं यदा अकारान्तं । यदा तु खलु अच्छब्दान्तं तदा न सिध्यति । विचित्राः तद्धितवृत्तयः । न अतः तद्धितः उत्पद्यते ।
(पाणिनीयसूत्र ६,१।१०१) कि.।७७।११-४ रो. ईV।४३७ (कात्यायन वार्तिक)सवर्णदीर्घत्वे ऋति ऋवावचनम्(वार्तिकान्त) । सवर्णदीर्घत्वे ऋति ऋ वा भवति इति वक्तव्यं । होतृ ऋकारः , होत्®कारः । (कात्यायन वार्तिक)लृति लृवावचनम्(वार्तिकान्त) । लृति ¯ वा भवति इति वक्तव्यं । होतृ ¯कारः , होत्â¯कारः ।
(पाणिनीयसूत्र ६,१।१०२।१) कि.।७८।२-१९ रो. ईV।४३८-४४१ प्रथम्योः इति उच्यते । कयोः इह प्रथम्योः ग्रहणं । किं विभक्त्योः आहोस्वित्प्रत्यययोः । विभक्त्योः इति आह । कथं ज्ञायते । अचि इति वर्तते न च अजादौ प्रथमौ प्रत्ययौ स्तः । ननु च एवं विज्ञायते । अजादी यौ प्रथमौ अजादीनां वा यौ प्रथमौ इति । यत्तर्हि तस्मात्शसः नः पुंसि इति अनुक्रान्तं पूर्वसवर्णं प्रतिनिर्दिशति तत्ज्ञापयति आचार्यः विभक्त्योः ग्रहणं इति । अथ वा सुपि इति वर्तते । अथं किमर्थं पूर्वसवर्णदीर्घः अमि पूर्वत्वं च उच्यते न प्रथम्योः पूर्वसवर्णः इति एव सिद्धं । न सिध्यति । प्रथम्योः पूर्वसवर्णः इति उच्यमाने अमि अपि दीर्घः प्राप्नोति । वृक्षं , प्लक्षं । न एषः दोषः । यत्पूर्वस्मिन्योगे दीर्घग्रहणं ततुत्तरत्र निवृत्तं । एवं अपि इदं इह पूर्वसवर्णग्रहणं क्रियते । तेन अमि अपि पूर्वसवर्णः प्रसज्येत । वृक्षं , प्लक्षं । द्विमात्रः प्राप्नोति । न एषः दोषः । सवर्णग्रहणं न करिष्यते । यदि सवर्णग्रहणं न क्रियते कुतः व्यवस्था । आन्तर्यतः । यदि एवं अग्नी वायू त्रिमात्रः प्राप्नोति वृक्षं , प्लक्षं द्विमात्रः । तस्मात्सवर्णग्रहणं कर्तव्यं । तस्मिन्च क्रियमाणे दीर्घग्रहणं अनुवर्तते । तस्मिननुवर्तमाने अमि पूर्वः इति अपि वक्तव्यं । अथ किमर्थं पृथकुच्यते न इह एक एव उच्येत । प्रथमयोः पूर्वसवर्णः अमि च इति । यदि प्रथमयोः पूर्वसवर्णदीर्घः अमि च इति उच्यते तन अमि अपि दीर्घः प्रसज्येत । वृक्षं , प्लक्षं । न एषः दोषः । दीर्घग्रहणं निवर्तयिष्यते । एवं अपि पूर्वसवर्णः प्रसज्येत । सवर्णग्रहणं न करिष्यते । यदि सवर्णग्रहणं न क्रियते पूर्वस्मिन्योगे विप्रतिषिद्धं । यदि पूर्वः न दीर्घः अथ दीर्घः न पूर्वः । पूर्वः दीर्घः च इति विप्रतिषिद्धं । तस्मातुभयं आरब्धव्यं पृथक्च कर्तव्यं ।
(पाणिनीयसूत्र ६,१।१०२।२) कि.।७८।२०-८०।२१ रो. ईV।४४१-४४६ (कात्यायन वार्तिक)प्रथमयोः इति योगविभागः सवर्णदीर्घार्थः(वार्तिकान्त) । प्रथमयोः इति योगविभागः कर्तव्यः । प्रथमयोः एकः सवर्णदीर्घः भवति । ततः पूर्वसवर्णः । पूर्वसवर्णदीर्घः भवति एकः प्रथमयोः इति । किमर्थः योगविभागः । सवर्णदीर्घत्वं यथा स्यात। (कात्यायन वार्तिक)एकयोगे हि जश्शहोः पररूपप्रसङ्गः(वार्तिकान्त) । एकयोगे हि सति जश्शहोः पररूपं प्रसज्येत । वृक्षाः , प्लक्षाः , वृक्षान्, प्लक्षान। ननु च पूर्वसवर्णदीर्घत्वं पररूपं बाधिष्यते । न उत्सहते बाधितुं । किं कारणं । (कात्यायन वार्तिक)आद्गुणयणादेशयोः अपवादाः वृद्धिसवर्णदीर्घपूर्वसवर्णादेशाः तेषां पररूपं स्वरसन्धिषु(वार्तिकान्त) । आद्गुणयणादेशौ उत्सर्गौ । तयोः अपवादाः वृद्धिसवर्णदीर्घपूर्वसवर्णादेशाः तेषां सर्वेषां पररूपं अपवादः । तत्सर्वबाधकं । सर्वबाधकत्वात्प्राप्नोति । अथ क्रियमाणे अपि योगविभागे यावता पररूपं अपवादः कस्मातेव न बाधते । योगविभागः अन्यशास्त्रनिवृत्तियर्थः । योगविभागः अन्यशास्त्रनिवृत्तियर्थः विज्ञायते । (कात्यायन वार्तिक)योगविभागः अन्यशास्त्रनिवृत्तियर्थः चेतमि अतिप्रसङ्गः (वार्तिकान्त)। योगविभागः अन्यशास्त्रनिवृत्तियर्थः चेतमि अतिप्रसङ्गः भवति । वृक्षं , प्लक्षं । यथा एव हि योगविभागः पररूपं बाधते एवं अमि पूर्वत्वं अपि बाधेत । (कात्यायन वार्तिक)नकाराभावः च तस्मातिति अनन्तरनिर्देशात्(वार्तिकान्त) । नत्वस्य च अभावः । वृक्षान्, प्लक्षान। किं कारणं । च तस्मातिति अनन्तरनिर्देशात। तस्मातिति अनेन अनन्तरः योगः प्रतिनिर्दिश्यते । किं पुनः कारणं तस्मातिति अनेन अनन्तरः योगः प्रतिनिर्दिश्यते । इह मा भूत। एतान्गाः पश्य [ऱः एतान्गाः चतुरः बलिवर्दान्पश्य] इति । अस्तु तर्हि एकयोगः एव । ननु च उक्तं एकयोगे हि जश्शहोः पररूपप्रसङ्गः इति । न एषः दोषः । (कात्यायन वार्तिक)इज्ग्रहणं तु ज्ञापकं पररूपाभावस्य(वार्तिकान्त) । यतयं न आतिचि इति इज्ग्रहणं करोति तत्ज्ञापयति आचार्यः न जश्शसोः पररूपं भवति इति । कथं कृत्वा ज्ञापकं । इज्ग्रहणस्य इदं प्रयोजनं । इह मा भूत। वृक्षाः , प्लक्षाः , वृक्षान्, प्लक्षान। यदि च जश्शसोः पररूपं स्यातिज्ग्रहणं अनर्थकं स्यात। पश्यति तु आचार्यः न जश्शसोः पररूपं भवति इति । ततः इज्ग्रहणं करोति । न एततस्ति ज्ञापकं । उत्तरार्थं एतत्स्यात। दीर्घात्जसि च इचि च इति । यदि उत्तरार्थं एतत्स्यातत्र एव अयं इज्द्ग्रहणं कुर्वीत । इह अपि तर्हि क्रियमाणं यदि उत्तरार्थं न ज्ञापकं भवति । एवं तर्हि यदि उत्तरार्थं एतत्स्यात्न एव अयं इज्द्ग्रहणं कुर्वीत न अपि जस्ग्रहणं । एतावतयं ब्रूयात। दीर्घात्शसि पूर्वसवर्णः भवति इति । तत्नियमार्थं भविष्यति । दीर्घात्शसि एव न अन्यत्र इति । सः अयं एवं लघीयसा न्यासेन सिद्धे यतिज्ग्रहणं करोति तत्ज्ञापयति आचार्यः न जश्शसोः पररूपं भवति इति । अथ वा पुनः अस्तु योगविभागः । ननु च उक्तं योगविभागः अन्यशास्त्रनिवृत्तियर्थः चेतमि अतिप्रसङ्गः इति । न एषः दोषः । अमि अपि योगविभागः करिष्यते । अमि । अमि यतुक्तं तत्न भवति इति । ततः पूर्वः । पूर्वः च भवति अमि इति । यतपि उच्यते नकाराभावः च तस्मातिति अनन्तरनिर्देशातिति । कः पुनः अर्हति तस्मातिति अनेन अनन्तरं योगं प्रतिनिर्देष्टुं । एवं किल प्रतिनिर्दिश्यते । तस्मात्पूर्वसवर्णदीर्घातिति । तत्च न । एवं प्रतिनिर्दिश्यते । तस्मातकः सवर्णातिति । अथ वा तस्मात्प्रथम्योः दीर्घातिति । अथ वा पुनः अस्तु अमि एकयोगः । ननु च उक्तं योगविभागः अन्यशास्त्रनिवृत्तियर्थः चेतमि अतिप्रसङ्गः इति । न एषः दोषः । मध्ये अपवादाः पूर्वान्विधीन्बाधन्ते इति एवं अयं योगविभागः पररूपं बाधिष्यते अमि पूर्वत्वं न बाधिष्यते । यदि एततस्ति मध्ये अपवादाः पुरस्तातपवादाः इति न अर्थः एकेन अपि योगविभागेन । पुरस्तातपवादाः अनन्तरान्विधीन्बाधन्ते इति एवं पररूपं सवर्णदीर्घत्वं बाधिष्यते प्रथमयोः पूर्वसवर्णदीर्घत्वं न बाधिष्यते । अथ वा सप्तमे योगविभागः करिष्यते । इदं अस्ति अतः दीर्घः यञि सुपि च इति । ततः वक्ष्यामि बहुवचने । बहुवचने च अतः दीर्घः भवति । एकारः च भवति बहुवचने झलि इति । इह अपि तर्हि प्राप्नोति । वृषाणां , प्लक्षाणां । तत्र कः दोषः । दीर्घत्वे कृते ह्रस्वाश्रयः नुट्न प्राप्नोति । इदं इह सम्प्रधार्यं । दीर्घत्वं क्रियतां नुटिति किं अत्र कर्तव्यं । परत्वात्दीर्घत्वं । नित्यं खलु अपि दीर्घत्वं । कृते अपि नुटि प्राप्नोति अकृते अपि । नित्यत्वात्परत्वात्च दीर्घत्वे कृते ह्रस्वाश्रयः नुट्न प्राप्नोति । एवं तर्हि आद्ग्रहणं इह अपि प्रकृतं अनुवर्तते । क्व प्रकृतं । आत्जसेः असुकिति । तेन कृते अपि दीर्घत्वे नुट्भविष्यति । इह अपि तर्हि प्राप्नोति । कीलालपां , शुभंयां । आतः लोपः अत्र बाधकः भविष्यति । इदं इह सम्प्रधार्यं । लोपः क्रियतां नुटिति किं अत्र कर्तव्यं । परत्वात्नुट। एवं तर्हि ह्रस्वनद्यापः नुटिति अत्र आतः धातोः इति आतः लोपः सम्बन्धं अनुवर्तिष्यते । इह अपि तर्हि प्राप्नोति । कीलालपानां ब्राह्मणकुलानां । नपुंसकस्य न इति अनुवर्तिष्यते ।
(पाणिनीयसूत्र ६,१।१०३) कि.।८०।२३-८१।१९ रो. ईV।४४६-४४८ किं इदं नत्वं पुंसां बहुत्वे भवति आहोस्वित्पुंशब्दात्बहुषु । कः च अत्र विशेषः । (कात्यायन वार्तिक)नत्वं पुंसां बहुत्वे चेत्पुंशब्दातिष्यते स्त्रियाम्(वार्तिकान्त) । तत्न सिध्यति । भ्रूकुंसान्पश्य इति । (कात्यायन वार्तिक)नपुंसके तथा एव इष्टम्(वार्तिकान्त) । तत्न सिध्यति । षण्ढान्पश्य । पण्डकान्पश्य इति । (कात्यायन वार्तिक)स्त्रीशब्दात्च प्रसज्यते (वार्तिकान्त)। स्त्रीशब्दात्च प्राप्नोति : चञ्चाः पश्य , वध्रिकाः पश्य , खरकुटीः पश्य । अस्तु तर्हि पुंशब्दात्बहुषु । (कात्यायन वार्तिक)पुंशबातिति चेतिष्टं स्थूरापत्यं न सिध्यति (वार्तिकान्त)। स्थूरान्पश्य इति । (कात्यायन वार्तिक)कुण्डिन्याः अररकायाः(वार्तिकान्त) । अपत्यं च न सिध्यति । कुण्डिनान्पश्य । अररकान्पश्य । (कात्यायन वार्तिक)पुंस्प्राधान्यात्प्रसिध्यति (वार्तिकान्त)। पुंस्प्रधाना एते शब्दाः । ततः नत्वं भविष्यति । (कात्यायन वार्तिक)पुंस्प्राधान्ये ते एव स्युः ये दोषाः पूर्वचोदिताः(वार्तिकान्त) । भ्रूकुंसान्पश्य । षण्ढान्पश्य । पण्डकान्पश्य । चञ्चाः पश्य । वध्रिकाः पश्य । खरकुटीः पश्य इति । तस्मात्यस्मिन्पक्षे अल्पीयांसः दोषाः तं आस्थाय प्रतिविधेयं दोषेषु ।
(पाणिनीयसूत्र ६,१।१०७) कि.।८१।२१-२२ रो. ईV।४४८ वा छन्दसि इति एव । यमीं च यम्यं च । शमीं च शम्यं च । गरुईं च गौर्यं च । किशोरीं च किशोर्यं च ।
(पाणिनीयसूत्र ६,१।१०८।१) कि.।८२।२ रो. ईV।४४८ वा छन्दसि इति एव । मित्रावरुणौ यज्यमानः । मित्रावरुणौ इज्यमानः ।
(पाणिनीयसूत्र ६,१।१०८।२) कि.।८२।३-२० रो. ईV।४४९-४५० (कात्यायन वार्तिक)सम्प्रसारणात्पूर्वत्वे समानाङ्गग्रहणं असमानाङ्गप्रतिषेधार्थम्(वार्तिकान्त) । सम्प्रसारणात्पूर्वत्वे समानाङ्गग्रहणं कर्तव्यं । किं प्रयोजनं । असमानाङ्गप्रतिषेधार्थं । असमानाङ्गस्य मा भूतिति । शकह्वर्थं , परिव्यर्थं । (कात्यायन वार्तिक)सिद्धं असम्प्रसारणात्(वार्तिकान्त) । सिद्धं एतत। कथं । असम्प्रसारणात। वाक्यस्य सम्प्रसारणसञ्ज्ञा न वर्णस्य । अथ वर्णस्य सम्प्रसारणसञ्ज्ञायां दोषः एव । वर्णस्य च सम्प्रसारणसञ्ज्ञायां न दोषः । कथं । अन्यः अयं सम्प्रसारणासम्प्रसारणयोः स्थाने एकः आदिश्यते । (कात्यायन वार्तिक)कार्यकृतत्वात्वा(वार्तिकान्त) । अथ वा सकृत्कृतं पूर्वत्वं इति कृत्वा पुनः न भविष्यति । तत्यथा वसन्ते ब्राह्मणः अग्नीनादधीत इति सकृताधाय कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति । विषमः उपन्यासः । युक्तं यत्तस्य पुनः प्रवृत्तिः न भवति । यः तु तदाश्रयं प्राप्नोति न तत्शक्यं बाधितुं । तत्यथा वसन्ते ब्राह्मणः अग्निष्टोमादिभिः क्रतुभिः यजेत इति अग्न्याधाननिमित्तं वसन्ते वसन्ते इज्यते । तस्मात्पूर्वोक्तः एव परिहारः सिद्धं असम्प्रसारणातिति । यदि तर्हि न इदं सम्प्रसारणं हूतः इति दीर्घत्वं न प्राप्नोति । (कात्यायन वार्तिक)दीर्घत्वं वचनप्रामाण्यात्(वार्तिकान्त) । अनवकाशं दीर्घत्वं । तत्वचनप्रामाण्यात्भविष्यति । (कात्यायन वार्तिक)अन्तवत्त्वात्वा(वार्तिकान्त) । अथ वा पूर्वस्य कार्यं प्रति अन्तवत्भवति इति दीर्घत्वं भविष्यति ।
(पाणिनीयसूत्र ६,१।१०८।२) कि.।८२।२१-८४।२३ रो. ईV।४५०-४५५ (कात्यायन वार्तिक)आटः वृद्धेः इयङ्(वार्तिकान्त) । आटः वृद्धिः भवति इति एतस्मातियङ्भवति विप्रतिषेधेन । आटः वृद्धिः भवति इति अस्य अवकाशः ऐक्षिष्ट , ऐहिष्ट । इयङः अवकाशः : अधीयाते , अधीयते । इह उभयं प्राप्नोति : अध्यैयातां अध्यैयत । इयङादेशः भवति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । अन्तरङ्गा आटः वृद्धिः । का अन्तरङ्गता । वर्णौ आश्रित्य आटः वृद्धिः । अङ्गस्य इयङादेशः । एवं तर्हि इदं इह सम्प्रधार्यं । आट्क्रियतां इयङादेशः इति किं अत्र कर्तव्यं । परत्वातियङ। नित्यः आटागमः । कृते अपि इयङि प्राप्नोति अकृते अपि । इयङपि नित्यः । कृते अपि आटि प्राप्नोति अकृते अपि । अनित्यः इयङ। न हि कृते आति प्राप्नोति । किं कारणं । अन्तरङ्गा आटः वृद्धिः । यस्य च लक्षणान्तरेण निमित्तं विहन्यते न ततनित्यं । न च अत्र आतेव इयङः निमित्तं विहन्ति । अवश्यं लक्षणान्तरं आटः वृद्धिः प्रतीक्ष्या । उभयोः नित्ययोः परत्वातियङादेशः । (कात्यायन वार्तिक)आत्गुणात्सवर्णदीर्घत्वं आङभ्यासयोः(वार्तिकान्त) । आत्गुणात्सवर्णदीर्घत्वं भवति विप्रतिषेधेन । क्व । आङभ्यासयोः । आत्गुणस्य अवकाशः : खट्वेन्द्रः , खट्वोदकं । सवर्णदीर्घत्वस्य अवकाशः : दण्डाग्रं , क्षुपाग्रं । इह उभयं प्राप्नोति : अद्य , आ , ऊढा : अद्योढा , कदा , आ , ऊढा : कदोढा , उप , इ , इजतुः : उपेजतुः , उप , उ , उपतुः : उपोपतुः । सवर्णदीर्घत्वं भवति विप्रतिषेधेन । अभ्यासार्थेन तावत्न अर्थः । अस्तु अत्र आत्गुणः अयवौ च हलादिशेषः । पुनः आत्गुणः भविष्यति । भवेत्सिद्धं उपेजतुः , उपेजतुः इति । इदं तु न सिध्यति : उपोपतुः , उपोपुः इति । अत्र हि आत्गुणे कृते ओदन्तः निपातः इति प्रगृह्यसञ्ज्ञा , प्रगृह्यः प्रकृत्या इति प्रगृह्याश्रयः प्रकृतिभावः प्राप्नोति । पदान्तप्रकरणे प्र्कृतिभावः न च एषः पदान्तः । पदान्तभक्तः पदान्तग्रहणेन ग्राहीष्यते । एवं तर्हि एततेव अत्र न अस्ति ओदन्तः निपातः इति । किं कारणं । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति । इह अपि तर्हि अद्योढा , कदोढा इति भवेत्रूपं सिद्धं स्यात।(कात्यायन वार्तिक) स्वरे दोषः तु(वार्तिकान्त) । स्वरे तु दोषः भवति । अद्योढा* एवं स्वरः प्रसज्येत। अद्योढा* इति च इष्यते । आङि पररूपवचनं च इदानीं अनर्थकं स्यात। न अनर्थकं । ज्ञापकार्थं । किं ज्ञाप्यं । (कात्यायन वार्तिक)आङि पररूपवचनं तु ज्ञापकं अन्तरङ्गबलीयस्त्वात्(वार्तिकान्त) । एतत्ज्ञापयति आचार्यः । अन्तरङ्गं बलीयः भवति इति । किं पुनः इह अन्तरङ्गं किं बहिरङ्गं यावता द्वे पदे आश्रित्य सवर्णदीर्घत्वं भवति आत्गुणः अपि । धातूपसर्गयोः यत्कार्यं ततन्तरङ्गं । कुतः एतत। पूर्वं उपसर्गस्य धातुन योगः भवति न अद्य शब्देन । किमर्थं तर्हि अद्यशब्दः प्रयुज्यते । अद्यशब्दय्स अपि समुदायेन योगः भवति । किं एतस्य ज्ञापने प्रयोजनं । (कात्यायन वार्तिक)प्रयोजनं पूर्वसवर्णपूर्वत्वतहिलोपटेनङेय्यङिस्मिन्ङिणलौत्वं अन्तरङ्गं बहिरङ्गलक्षणात्वर्णविकारात्(वार्तिकान्त) । पूर्वसवर्णः प्रयोजनं । अग्नी अत्र , वायू अत्र । पूर्वसवर्णः च प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः आवादेशः । पूर्वसवर्णदीर्घत्वं भवति अन्तरङ्गतः । पूर्वत्व । शकह्वर्थं , परिव्यर्थं । पूर्वत्वं च प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः सवर्णदीर्घत्वं । पूर्वत्वं भवति अन्तरङ्गतः । तहिलोप । अकारि अत्र । अहारि अत्र । पच इदं । तहिलोपौ च प्राप्नुतः बहिरङ्गलक्षणः च वर्णविकारः सवर्णदीर्घत्वं । तहिलोपौ भवतः अन्तरङ्गतः । टेन । वृक्षेण अत्र , प्लक्षेण अत्र । इनादेशः च प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः सवर्णदीर्घत्वं । इनादेशः भवति अन्तरङ्गतः । ङेर्य । वृक्षाय अत्र , प्लक्षाय अत्र । ङेः यादेशः च प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः एङः पदान्तातति इति पररूपत्वं । ङेः यादेशः भवति अन्तरङ्गतः । ङिस्मिन। यस्मिनिदं , तस्मिनिदं । स्मिन्भावः च प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः सवर्णदीर्घत्वं । स्मिन्भावः भवति अन्तरङ्गतः । ङिणलौत्वं । अग्नौ इदं , ययौ अत्र । ङिणलौत्वं प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः सवर्णदीर्घत्वं । औत्वं भवति अन्तरङ्गतः । न एतानि सन्ति प्रयोजनानि । विप्रतिषेधेन अपि एतानि सिद्धानि । इदं तर्हि प्रयोजनं । वृक्षाः अत्र । प्लक्षाः अत्र । पूर्वसवर्णः च प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः रोः अप्लुतातप्लुते इति उत्त्वं । पूर्वसवर्णः भवति अन्तरङ्गतः । न च अवश्यं इदं एव प्रयोजनं । आद्ये योगे बहूनि प्रयोजनानि सन्ति यदर्थं एषा परिभाषा कर्तव्या । प्रतिविधेयं दोषेषु ।
(पाणिनीयसूत्र ६,१।११२) कि.।८४।२५-८५।३ रो. ईV।४५५-४५६ किं इदं ख्यत्यातिति । सखिपत्योः विकृतग्रहणं । किं पुनः कारणं सखिपत्योः विकृतग्रहणं क्रियते न सखिपतिभ्यां इति एव उच्येत । न एवं शक्यं । गरीयान्च एव हि निर्देशः स्यातिह च प्रसज्येत । अतिसखेः आगच्छामि । अतिसखेः स्वं । इह च न स्यातः सखीयतेः अप्रत्ययः सख्युः , पत्युः । लुनीयतेः अप्रत्ययः । लून्युः , पून्युः ।
(पाणिनीयसूत्र ६,१।११३) कि.।८५।५-२४ रो. ईV।४५७-४५९ किमर्थं अप्लुतातप्लुते इति उच्यते । प्लुतात्परस्य प्लुते वा परतः मा भूतिति । प्लुतात्परस्य सुस्रोता३ अत्र नु असि । प्लुते परतः तिष्ठतु पयः आ३ग्निदत्त । अतः अति इति उच्यते । कः प्रसङ्गः प्लुतात्परस्य प्लुते वा परतः । असिद्धः प्लुतः । तस्य असिद्धत्वात्प्राप्नोति । अथ अप्लुतातप्लुते इति उच्यमाने यावता असिद्धः प्लुतः कस्मातेव अत्र न प्राप्नोति । अप्लुतभाविनः अप्लुतभाविनि इति एवं एतत्विज्ञायते । न एततस्ति प्रयोजनं । सिद्धः प्लुतः स्वरसन्धिषु । कथं ज्ञायते । यतयं प्लुतः प्रकृत्या इति प्लुतस्य प्रकृतिभावं शास्ति । सतः हि कार्यिणः कार्येण भवितव्यं । (कात्यायन वार्तिक)अप्लुतादप्लुतवचने अकारहशोः समानपदे प्रतिषेधः(वार्तिकान्त) । अप्लुतादप्लुतवचने अकारहशोः समानपदे प्रतिषेधः वक्तव्यः । पयो३ट्, पयो३द । (कात्यायन वार्तिक)न वा बहिरङ्गलक्षणत्वात्(वार्तिकान्त) । न वा वक्तव्यः । किं कारणं । बहिरङ्गलक्षणत्वात। बहिरङ्गः प्लुरः । अन्तरङ्गं उत्त्वं । असिद्धं बहिरङ्गं अन्तरङ्गे । इह अपि तर्हि प्राप्नोति । सुस्रोता३ अत्र नु असि । अन्तरङ्गः अत्र प्लुतः बहिरङ्गं उत्त्वं । क्व पुनः इह अन्तरङ्गः प्लुतः क्व वा बहिरङ्गं उत्त्वं उत्त्वं वा अन्तरङ्गं प्लुतः वा बहिरङ्गः । वाक्यान्तस्य वाक्यादौ अन्तरङ्गः प्लुतः बहिरङ्गं उत्त्वं । समानवाक्ये पदान्तस्य पदादौ उत्त्वं अन्तरङ्गं बहिरङ्गः प्लुतः । किं पुनः कारणं बहिरङ्गत्वं उत्त्वे हेतुः व्यपदिश्यते न पुनः असिद्धत्वं अपि । यथा एव हि अयं बहिरङ्गः एवं असिद्धः अपि । एवं मन्यते । असिद्धः प्लुतः आश्रयात्सिद्धः भवति । अथ वा यस्यां न अप्राप्तायां परिभाषायां उत्त्वं आरभ्यते सा आश्रयात्सिद्धा स्यात। कस्यां च न अप्राप्तायां । असिद्धपरिभाषायां । बहिरङ्गपरिभाषायां पुनः प्राप्तायां अप्राप्तायां च ।
(पाणिनीयसूत्र ६,१।११५) कि.।८६।२-२० रो. ईV।४५९-४६१ कस्य अयं प्रतिषेधः । नान्तःपादं इति सर्वप्रतिषेधः । नान्तःपादं इति सर्वस्य अयं प्रतिषेधः । कथं । अचि इति वर्तते । अचि यत्प्राप्नोति तस्य प्रतिषेधः । (कात्यायन वार्तिक)नान्तःपादं इति सर्वप्रतिषेधः चेततिप्रसङ्गः(वार्तिकान्त) । नान्तःपादं इति सर्वप्रतिषेधः चेततिप्रसङ्गः भवति । इह अपि प्राप्नोति । अनु अग्निः उषसां अग्रं अख्यत्, प्रति अग्निः उषसां अग्रं अख्यत। एवं तर्हि अति इति वर्तते । अकाराश्रयं यत्प्राप्नोति तस्य प्रतिषेधः । (कात्यायन वार्तिक)अकाराश्रयं इति चेतुत्त्ववचनम्(वार्तिकान्त) । अकाराश्रयं इति चेतुत्त्वं वक्तव्यं । कालः अश्वः । शतधारः अयं मणिः । (कात्यायन वार्तिक)अयवोः प्रतिषेधः च(वार्तिकान्त) । अयवोः च प्रतिषेधः च वक्तव्यः । सुजाते अश्वसूनृते । अध्वरो अद्रिभिः सुतं । शुक्रं ते अन्यत। एङ्प्रकरणात्सिद्धं । एङः अति इति वर्तते । एङः अति यत्प्राप्नोति तस्य प्रतिषेधः । (कात्यायन वार्तिक)एङ्प्रकरणात्सिद्धं चेतुत्त्वप्रतिषेधः(वार्तिकान्त) । एङ्प्रकरणात्सिद्धं चेतुत्त्वप्रतिषेधः वक्तव्यः । अग्नेः अत्र , वायोः अत्र। अतः रोः अप्लुतातप्लुते एङः च इति उत्त्वं प्राप्नोति । (कात्यायन वार्तिक)पुनः एङ्ग्रहणात्सिद्धम्(वार्तिकान्त) । पुनः एङ्ग्रहणं कर्तव्यं । तत्तर्हि कर्तव्यं । न कर्तव्यं । प्रकृतं अनुवर्तते । ननु च उक्तं एङ्प्रकरणात्सिद्धं चेतुत्त्वप्रतिषेधः इति । न एषः दोषः । पदान्ताभिसम्बद्धं एङ्ग्रहणं अनुवर्तते न च एङः पदान्तात्परः रुः अस्ति ।
(पाणिनीयसूत्र ६,१।१२३) कि.।८६।२२-८७।१८ रो. ईV।४६१-४६३ (कात्यायन वार्तिक)गोः अग्वचनं गवाग्रे स्वरसिद्ध्यर्थम्(वार्तिकान्त) । गोः अक्वक्तव्यः । किं प्रयोजनं । गवाग्रे स्वरसिद्ध्यर्थं । गवाग्रे स्वरसिद्धिः यथा स्यात। गवाग्रं । (कात्यायन वार्तिक)अवङादेशे हि स्वरे दोषः(वार्तिकान्त) । अवङादेशे हि स्वरे दोषः स्यात। अन्तोदात्तस्य आन्तर्यतः अन्तोदात्तः आदेशः प्रस्ज्यते । कथं पुनः अयं अन्तोदात्तः यदा एकाच। व्यपदेशिवद्भावेन । यथा एव तर्हि व्यपदेशिवद्भावेन अन्तोदात्तः एवं आद्युदात्तः अपि । तत्र आन्तर्यतः आद्युदात्तस्य आद्युदात्तः आदेशः भवति । सत्यं एवं एतत। न तु इदं लक्षणं अस्ति । प्रातिपदिकस्य आदिः उदात्तः भवति इति । इदं पुनः अस्ति । प्रातिपदिकस्य अन्तः उदात्तः भवति इति । सः असौ लक्षणेन अन्तोदात्तः । तत्र आन्तर्यतः अन्तोदात्तस्य अन्तोदात्तः आदेशः प्रस्ज्येत । यदि पुनः गमेः डो विधीयेत । किं कृतं भवति । प्रत्ययाद्युदात्तत्वे कृते आन्तर्यतः आद्युदात्तस्य आद्युदात्तः आदेशः भविष्यति । कथं पुनः अयं आद्युदात्तः यदा एकाच। व्यपदेशिवद्भावेन । यथा एव तर्हि व्यपदेशिवद्भावेन आद्युदात्तः एवं अन्तोदात्तः अपि । तत्र आन्तर्यतः अन्तोदात्तस्य अन्तोदात्तः आदेशः प्रस्ज्येत । सत्यं एवं एतत। न तु इदं लक्षणं अस्ति । प्रत्ययस्य अन्तः उदात्तः भवति इति । इदं पुनः अस्ति । प्रत्ययस्य आदिः उदात्तः भवति इति । सः असौ लक्षणेन आद्युदात्तः । तत्र आन्तर्यतः आद्युदात्तस्य आद्युदात्तः आदेशः भविष्यति ।एततपि आदेशे न अस्ति । आदेशस्य आदिः उदात्तः भवति इति । प्रकृतितः अनेन स्वरः लभ्यः । प्रकृतिः च अस्य यथा एव आद्युदात्ता एवं अन्तोदात्ता अपि । एवं तर्हि आद्युदात्तनिपातनं करिष्यते । सः निपातनस्वरः प्रकृतिस्वरस्य बाधकः भविष्यति । एवं अपि उपदेशिवद्भावः वक्तयः । यथा एव निपातनस्वरः प्रकृत्स्वरस्य बाधकः एवं समासस्वरस्य अपि । गवास्थि , गवाक्षि ।
(पाणिनीयसूत्र ६,१।१२४) कि.।८७।२०-२२ रो. ईV।४६३ इन्द्रादौ इति वक्तव्यं इह अपि यथा स्यात। गवेन्द्रयज्ञे वीहि इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । न एवं विज्ञायते इन्द्रे अचि इति । कथं तर्हि । अचि भवति । कतरस्मिन। इन्द्रे अचि इति ।
(पाणिनीयसूत्र ६,१।१२५।१) कि.।८७।२४-८८।११ रो. ईV।४६४-४६५ नित्यग्रहणं किमर्थं । विभाषा मा भूतिति । म एततस्ति प्रयोजनं । पूर्वस्मिनेव योगे विभाषाग्रहणं निवृत्तं । इदं तर्हि प्रयोजनं । प्लुतप्रगृह्याणं अचि प्रकृतिभावः एव यथा स्यात। यतन्यत्प्राप्नोति तत्मा भूतिति । किं च अन्यत्प्राप्नोति । शाकलं । सिन्नित्यसमासयोः शाकलप्रतिषेधं वक्ष्यति । सः न वक्तव्यः भवति । अथ अज्ग्रहणं किमर्थं । अचि प्रकृतिभावः यथा स्यात। (कात्यायन वार्तिक)प्लुतप्रगृह्येषु अज्ग्रहणं अनर्थकं अधिकारात्सिद्धम्(वार्तिकान्त) । प्लुतप्रगृह्येषु अज्ग्रहणं अनर्थकं । किं कारणं । अधिकारातेव सिद्धं । अचि इति प्रकृतं अनुवर्तते । क्व प्रकृतं । इकः यणचि इति । (कात्यायन वार्तिक)तत्तु तस्मिन्प्रकृतिभावार्थम्(वार्तिकान्त) । तत्तु द्वितीयं अज्ग्रहणं कर्तव्यं प्रकृतिभावार्थं । तस्मिनचि पूर्वस्य प्रकृतिभावः यथा स्यात। इह मा भूत। जानु उ अस्य रुजति । जानू अस्य रुजति । जान्वस्य रुजति इति ।
(पाणिनीयसूत्र ६,१।१२५।२) कि.।८७।१२-२३ रो. ईV।४६५-४६६ अथ किमर्थं प्लुतस्य प्रकृतिभावः उच्यते । स्वरसन्धिः मा भूतिति । उच्यमाने अपि एतस्मिन्स्वर्सन्धिः प्राप्नोति । प्लुते कृते न भविष्यति । असिद्धः प्लुतः । तस्य असिद्धत्वात्प्राप्नोति । (कात्यायन वार्तिक)प्लुतप्रकृतिभाववचनं तु ज्ञापकं एकादेशात्प्लुतः विप्रतिषेधेन इति(वार्तिकान्त) । यतयं प्लुतः प्रकृत्या इति प्रकृतिभावं शास्ति तत्ज्ञापयति आचार्यः एकादेशात्प्लुतः भवति विप्रतिषेधेन इति । (कात्यायन वार्तिक)एकादेशात्प्लुतः विप्रतिषेधेन इति चेत्शालेन्द्रे अतिप्रसङ्गः(वार्तिकान्त) । एकादेशात्प्लुतः विप्रतिषेधेन इति चेत्शालेन्द्रे अतिप्रसङ्गः भवति । शालायां इन्द्रः शालेन्द्रः । (कात्यायन वार्तिक)न वा बहिरङ्गलक्षणत्वात्(वार्तिकान्त) । न वा अतिप्रसङ्गः । किं कारणं । बहिरङ्गलक्षणत्वात। बहिरङ्गः प्लुतः । अन्तरङ्गः एकादेशः । असिद्धं बहिरङ्गं अन्तरङ्गे ।
(पाणिनीयसूत्र ६,१।१२६) कि.।८९।२-५ रो. ईV।४६६ (कात्यायन वार्तिक)आङः अनर्थकस्य(वार्तिकान्त) । आङः अनर्थकस्य इति वक्तव्यं । इह मा भूत। इन्द्रः बाहुभ्यां आतरत। तत्तर्हि वक्तव्यं । न वक्तव्यं । बहुलग्रहणात्न भविष्यति । आङः अनुनासिकः छन्दसि बहुलं ।
(पाणिनीयसूत्र ६,१।१२७।१) कि.।८९।७-१९ रो. ईV।४६७-४६८ किमर्थः चकारः । प्रकृत्या इति एततनुकृष्यते । किं प्रयोजनं । स्वरसन्धिः मा भूतिति । न एततस्ति प्रयोजनं । ह्रस्ववचनसार्मर्थ्यात्न भविष्यति । भवेत्दीर्घाणां ह्रस्ववचनसार्मर्थ्यात्स्वरसन्धिः न स्यात। ह्रस्वानां तु खलु स्वरसन्धिः प्राप्नोति । ह्रस्वानां अपि ह्रस्ववचनसामर्थ्यान्स्वरसन्धिः न भविष्यति । न ह्रस्वानां ह्रस्वाः प्राप्नुवन्ति । न हि भुक्तवान्पुनः भुङ्क्ते । न च कृतश्मश्रुः पुनः श्मश्रूनि कारयति । ननु च पुनःप्रवृत्तिः अपि दृष्टा । भुक्तवान्च पुनः भुङ्क्ते कृतश्मश्रुः च पुनः श्मश्रूनि कारयति । सामर्थ्यात्तत्र पुनःप्रवृत्तिः भवति भोजनविशेषात्शिल्पिविशेषात्वा । ह्रस्वाणां पुनः ह्रस्ववचने न किं चित्प्रयोजनं अस्ति । अकृतकारि खलु अपि शास्त्रं अग्निवत। तत्यथा अग्निः यददग्धं तत्दहति । ह्रस्वाणां अपि ह्रस्ववचने एतत्प्रयोजनं स्वरसन्धिः मा भूतिति । कृतकारि खलु अपि शास्त्रं पर्जन्यवत। तत्यथा पर्जन्यः यावतूनं पूर्णं च सर्वं अभिवर्षयति । इदं तर्हि प्रयोजनं । प्लुतप्रगृह्याः अनुकृष्यन्ते । इकः असवर्णे शाकल्यस्य ह्रस्वः च प्लुतप्र्गृह्याः च प्रकृत्या । नित्यग्रहणस्य अपि एतत्प्रयोजनं उक्तं । अन्यतरत्शक्यं अकर्तुं ।
(पाणिनीयसूत्र ६,१।१२७।२) कि.।८९।२०-९०।३ रो. ईV।४६८ (कात्यायन वार्तिक)सिन्नित्यसमासयोः शाकलप्रतिषेधः(वार्तिकान्त) । सिन्नित्यसमासयोः शाकलप्रतिषेधः वक्तव्यः । अयं ते योनिः ऋत्वियः । प्रजां विन्दाम ऋत्वियां । वैयाकरणः , सौवश्वः । नित्यग्रहणेन न अर्थः । सित्समासयोः शाकलं न भवति इति एव । इदं अपि सिद्धं भवति । वाप्यां आस्वः , वाप्यश्वः , नद्यां आतिः , नद्यातिः । (कात्यायन वार्तिक)ईषा अक्षादिषु छन्दसि प्रकृतिभावमात्रम्(वार्तिकान्त) । ईषा अक्षादिषु छन्दसि प्रकृतिभावमात्रं द्रष्टव्यं । ईष अक्षः । क ईं अरे पिशङ्गिल । यथा अङ्गदः ।
(पाणिनीयसूत्र ६,१।१२८।१) कि.।९०।५-९ रो. ईV।४६९ किमर्थं इदं उच्यते । (कात्यायन वार्तिक)ऋति अकः सवर्णार्थम्(वार्तिकान्त) । सवर्णार्थः अयं आरम्भः । होतृ ऋश्यः । (कात्यायन वार्तिक)अनिगन्तार्थं च(वार्तिकान्त) । खट्व ऋश्यः , माल ऋश्यः ।
(पाणिनीयसूत्र ६,१।१२८।२) कि.।९०।१०-१६ रो. ईV।४६९ (कात्यायन वार्तिक)ऋति ह्रस्वातुपसर्गात्वृद्धिः विप्रतिषेधेन (वार्तिकान्त)। ऋति ह्रस्वः भवति इति एतस्मातुपसर्गात्वृद्धिः भवति विप्रतिषेधेन । ऋति ह्रस्वः भवति इति एतस्य अवकाशः खट्व ऋश्यः , माल ऋश्यः । उपसर्गात्वृद्धेः अवकाशः । विभाषा ह्रस्वत्वं । यदा न ह्रस्वत्वं तदा अवकाशः । ह्रस्वप्रसङ्गे उभयं प्राप्नोति । उपार्ध्नोति , प्रार्ध्नोति । उपसर्गात्वृद्धिः भवति विप्रतिषेधेन । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । उक्तं तत्र धातुग्रहणस्य प्रयोजनं । उपसर्गातृति धातौ वृद्धिः एव यथा स्यात। अन्यत्यत्प्राप्नोति तत्मा भूतिति ।
(पाणिनीयसूत्र ६,१।१२९) कि.।९०।१८-९१।८ रो. ईV।४६९-४७० उपस्थिते इति उच्यते । किं इदं उपस्थितं नाम । अनार्षः इतिकरणः । सुश्लोका३ इति सुश्लोकेति । अथ वद्वचनं किमर्थं । (कात्यायन वार्तिक)वद्वचनं प्लुतकार्यप्रतिषेधार्थम्(वार्तिकान्त) । वद्वचनं क्रियते प्लुतकार्यप्रतिषेधार्थं । प्लुतकार्यं प्रतिषिध्यते । त्रिमात्रता न प्रतिषिध्यते । किं च इदानीं त्रिमात्रतायाः अप्रतिषेधे प्रयोजनं यावता प्लुतकार्ये प्रतिषिद्धे स्वरसन्धिना भवितव्यं । (कात्यायन वार्तिक)प्लुतप्रतिषेधे हि प्रगृह्यप्लुतप्रतिषेधप्रसङ्गः अन्येन विहितत्वात्(वार्तिकान्त) । प्लुतप्रतिषेधे हि सति प्रगृह्यस्य अपि प्लुतस्य त्रिमात्रतायाः प्रतिषेधः प्रसज्येत । अग्नी३ इति , वायू३ इति । किं च इदानीं तस्याः अपि त्रिमात्रतायाः अप्रतिषेधे प्रयोजनं यावता प्लुतकार्ये प्रतिषिद्धे स्वरसन्धिना भवितव्यं । न भवितव्यं । किं कारणं । अन्येन विहितत्वात। अन्येन हि लक्षणेन प्लुतप्रगृह्यस्य प्रकृतिभावः उच्यते प्रगृह्यः प्रकृत्या इति ।
(पाणिनीयसूत्र ६,१।१३०) कि.।९१।१०-१४ रो. ईV।४७० किमर्थं इदं उच्यते । (कात्यायन वार्तिक)ई३ चाक्रवर्मणस्य इति अनुपस्थितार्थम्(वार्तिकान्त) । अनुपस्थितार्थः अयं आरम्भः । चिनु हि३ इदं । चिनु हीदं । सुनु हि३ इदं । सुनु हीदं । ईकारग्रहणेन न अर्थः । अविशेषेण चाक्रवर्मणस्य आचार्यस्य अप्लुतवत्भवति इति एव । इदं अपि सिद्धं भवति । वश३ इयं , वशेयं ।
(पाणिनीयसूत्र ६,१।१३१) कि.।९१।१६-२० रो. ईV।४७१ किमर्थः तकारः । तपरः तत्कालस्य इति तत्कलः यथा स्यात। न एततस्ति प्रयोजनं । आन्तर्यतः अर्धमात्रिकस्य व्यञ्जनस्य मात्रिकः भविष्यति । न सिध्यति । ऊठि कृते आन्तर्यतः दीर्घस्य दीर्घः प्राप्नोति । (कात्यायन वार्तिक)तदर्थं तपरः कृतः(वार्तिकान्त) । एवमर्थः तपरः क्रियते ।
(पाणिनीयसूत्र ६,१।१३५।१) कि.।९१।२२-९४।२ रो. ईV।४७१-४७८ कात्पूर्वग्रहणं किमर्थं । कात्पूर्वः यथा स्यात। संस्कर्ता , संस्कर्तुं । न एततस्ति प्रयोजनं । सुटिति आदिलिङ्गः अयं करोतिः च ककारादिः । तत्र अन्तरेण कात्पूर्वग्रहणं कात्पूर्वः एव भविष्यति । अतः उत्तरं पठति सुटि कात्पूर्ववचनं अककारादौ कात्पूर्वार्थं । सुटि कात्पूर्ववचनं क्रियते अककारादौ कात्पूर्वः यथा स्यात। सञ्चस्करतुः , सञ्चस्करुः । (कात्यायन वार्तिक)सुटि कात्पूर्ववचनं अककारादौ कात्पूर्वार्थं इति चेतन्तरेण अपि तत्सिद्धम्(वार्तिकान्त) । सुटि कात्पूर्ववचनं अककारादौ कात्पूर्वार्थं इति चेतन्तरेण अपि कात्पूर्वग्रहणं सिद्धं । कथं । द्विर्वचनात्सुट्विप्रतिषेधेन । द्विर्वचनं क्रियतां सुटिति सुट्भविष्यति विप्रतिषेधेन । तत्र द्विर्वचनं भवति इति अस्य अवकाशः बिभिदतुः , बिभिदुः । सुटः अवकाशः संस्कर्ता , संस्कर्तुं । इह उभयं प्राप्नोति सञ्चस्करतुः , सञ्चस्करुः । सुट्भवति विप्रतिषेधेन । (कात्यायन वार्तिक)द्विर्वचनात्सुट्विप्रतिषेधेन इति चेत्द्विर्भूते शब्दान्तरभावात्पुनः प्रसङ्गः(वार्तिकान्त) । द्विर्वचनात्सुट्विप्रतिषेधेन इति चेत्द्विर्भूते शब्दान्तरस्य अकृतः सुटिति पुनः सुट्स्यात। (कात्यायन वार्तिक)द्विर्भूते शब्दान्तरभावात्पुनः प्रसङ्गः इति चेत्द्विर्वचनम्(वार्तिकान्त) । सुटि कृते शब्दान्तरस्य अकृतं द्विर्वचनं इति पुनः द्विर्वचनं प्राप्नोति । (कात्यायन वार्तिक)तथा च अनवस्था(वार्तिकान्त) । पुनः सुट्पुनः द्विर्वचनं इति चक्रकं अनवस्था प्रसज्येत । न अस्ति चक्रकप्रसङ्गः । न हि अनवस्थाकारिणा शास्त्रेण भवितव्यं । शास्त्रतः हि नाम व्यवस्थात। तत्र सुटि कृते द्विर्वचनं । द्विर्वचनेन अवस्थानं भविष्यति । (कात्यायन वार्तिक)अड्व्यवाये उपसङ्ख्यानम्(वार्तिकान्त) । अड्व्यवाये उपसङ्ख्यानं कर्तव्यं । समस्करोत्, समस्कार्षीत। (कात्यायन वार्तिक)अभ्यासव्यवाये च(वार्तिकान्त) । अभ्यासव्यवाये च उपसङ्ख्यानं कर्तव्यं । सञ्चस्करतुः , सञ्चस्करुः । किं उच्यते अभ्यासव्यवाये इति यदा इदानीं एव उक्तं द्विर्वचनात्सुट्विप्रतिषेधेन इति । (कात्यायन वार्तिक)अविप्रतिषेधः वा बहिरङ्गलक्षणत्वात्(वार्तिकान्त) । अविप्रतिषेधः वा पुनः सुटः । किं कारणं । बहिरङ्गलक्षणत्वात। बहिरङ्गलक्षणः सुट। अन्तरङ्गं द्विर्वचनं । असिद्धं बहिरङ्गं अन्तरङ्गे । एवमर्थं एव तर्हि कात्पूर्वग्रहणं कर्तव्यं कात्पूर्वः यथा स्यात। क्रियमाणे अपि वै कात्पूर्वग्रहणे अत्र न सिध्यति । न हि अयं कात्पूर्वग्रहणेन शक्यः मध्ये प्रवेशयितुं । किं कारणं । आदिलिङ्गः अयं क्रियते करोतिः च ककारादिः दृष्टः च ल्पुनः आतिदेशिकः करोतिः अककारादिः । पाक्षिकः अयं दोषः । कतरस्मिन्पक्षे । सुड्विधौ द्वैतं भवति । अविशेषेण वा विहितस्य सुटः कात्पूर्वग्रहणं देशप्रक्¯प्त्यर्थं स्यात्विशेषेण वा विधिः इति । द्विर्वचनविधौ च अपि द्वैतं भवति । स्थाने द्विर्वचनं स्यात्द्विः प्रयोगः वा द्विर्वचनं इति । तत्यदा द्विः प्रयोगः द्विर्वचनं अविशेषेण विहितस्य च सुटः कात्पूर्वग्रहणं देशप्रक्¯प्त्यर्थं तदा एषः दोषः । यदा हि स्थाने द्विर्वचनं तदा यदि अविशेषेण विहितस्य सुटः कात्पूर्वग्रहणं देशप्रक्¯प्त्यर्थं अथ अपि विशेषविधिः न तदा दोषः भवति । द्विःप्रयोगे च अपि द्विर्वचने न दोषः । सम्परिभ्यां इति न एषा पञ्चमी । का तर्हि । तृतीया । सम्परिभ्यां उपसृष्टस्य इति । व्यवहितः च अपि उपसृष्टः भवति । (कात्यायन वार्तिक)उपदेशिवद्वचनं च(वार्तिकान्त) । उपदेशिवद्भावः च वक्तव्यः । किं प्रयोजनं । (कात्यायन वार्तिक)लिटिगुणचङिदीर्घप्रतिषेधार्थम्(वार्तिकान्त) । लिटि गुणार्थं चङि दीर्घप्रतिषेधार्थं । लिटि गुणार्थं तावत। सञ्चस्करतुः , सञ्चस्करुः । चङि दीर्घप्रतिषेधार्थं च । समचिस्करत। लिटि गुणार्थेन तावत्न अर्थः । वक्ष्यति एतत्संयोगादेः गुणविधाने संयोगोपधाग्रहणं कृञर्थं इति । चङि दीर्घप्रतिषेधेन अपि न अर्थः । पदं इति इयं भगवतः कृत्रिमा सञ्ज्ञा । युक्तं इह द्रष्टव्यं । किं अन्तरङ्गं किं बहिरङ्गं इति । धातूपसर्गयोः कार्यं यत्ततन्तरङ्गं । कुतः एतत। पूर्वं हि धातुः उपसर्गेण युज्यते पश्चात्साधनेन । न एतत्सारं । पूर्वं धातुः साधनेन युज्यते पश्चातुपसर्गेण । साधनं हि क्रियां निर्वर्तयति । तां उपसर्गः विशिनष्ति । अभिनिर्वृत्तस्य च अर्थस्य उपसर्गेण विशेषः शक्यं कर्तूं । सत्यं एवं एतत। यः तु असौ धातूपसर्गयोः अभिसम्बन्धः तं अभ्यन्तरं कृत्वा धातुः साधनेन युज्यते । अवश्यं च एततेवं विज्ञेयं । यः हि मन्यते पूर्वं धातुः साधनेन युज्यते पश्चातुपसर्गेण इति तस्य आस्यते गुरुणा इति अकर्मकः उपास्यते गुरुः इति केन सकर्मकः स्यात। एवं कृत्वा सुट्सर्वतः अन्तरङ्गतरकः भवति कात्पूर्वग्रहणं च अपि शक्यं अकर्तुं ।
(पाणिनीयसूत्र ६,१।१३५।२) कि.।९४।३-२० रो. ईV।४७८-४८० यदि पुनः अयं सुट्कात्पूर्वान्तः क्रियेत । (कात्यायन वार्तिक)कात्पूर्वान्तः इति चेत्रुविधिप्रतिषेधः(वार्तिकान्त) । कात्पूर्वान्तः इति चेत्कः चित्विधेयः कः चित्पतिषेध्यः । संस्कर्ता । समः विधेयः सुटः प्रतिषेध्यः । समः तावत्न विधेयः । वक्ष्यति एतत्सम्पुङ्कानां सत्वं रुविधौ हि अनिष्टप्रसङ्गः इति । सुटः च अपि न प्रतिषेध्यः । समः सुटि इति द्विसकारकः निर्देशः : सुटि सकारादौ इति । अथ वा पदादिः करिय्ष्यते । (कात्यायन वार्तिक)परादौ इड्ग्रहणप्रसङ्गः(वार्तिकान्त) । यदि परादिः इड्गुणौ प्राप्नुतः । संस्कृषीष्ट । ऋतः च संयोगादेः इति इट्प्राप्नोति । संस्क्रियते । गुणः अर्तिसंयोगाद्योः इति गुणः प्राप्नोति । एवं तर्हि अभक्तः करिष्यते । (कात्यायन वार्तिक)अभक्ते स्वरः(वार्तिकान्त) । यदि अभक्तः स्वरः न सिध्यति । संस्करोति । तिङतिङः इति निघातः न प्राप्नोति । ननु च सुटेव अतिङ। न सुटः परस्य निघातेन भवितव्यं । किं कारणं । नञिवयुक्तं अन्यसदृशाधिकरणे । तथा हि अर्थगतिः । नञ्युक्तं इवयुक्तं च अन्यस्मिन्तत्सदृशे कार्यं विज्ञायते । तथा हि अर्थः गम्यते । तत्यथा अब्राह्मणं आनय इति उक्ते ब्राह्मणसदृशं क्षत्रियं आनयति । न असौ लोष्टं आनीया कृती भवति । एवं इह अपि अतिङिति प्रतिषेधातन्यस्माततिङ्सदृशात्कार्यं विज्ञायते । किं च अन्यततिङ्तिङ्सदृशं । पदं ।
(पाणिनीयसूत्र ६,१।१४२) कि.।९४।२२-२४ रो. ईV।४८० (कात्यायन वार्तिक)किरतेः हर्षजीविकाकुलायकरणेषु(वार्तिकान्त) । किरतेः हर्षजीविकाकुलायकरणेषु इति वक्तव्यं । अपस्किरते वृषभः हृष्टः । अपस्किरते कुक्कुटः भक्षार्थी । अपस्किरते श्वा आश्रयार्थी ।
(पाणिनीयसूत्र ६,१।१४४) कि.।९५।२-९ रो. ईV।४८०-४८१ किं इदं सातत्ये इति । सन्ततभावः सातत्यं । यदि एवं सान्तत्ये इति भवितव्यं । (कात्यायन वार्तिक)समः हितततयोः वा लोपः(वार्तिकान्त) । समः हितततयोः वा लोपः वक्तव्यः । संहितं , सहितं , सन्ततं , सततं । (कात्यायन वार्तिक)सम्तुमुनोः कामे(वार्तिकान्त) । सम्तुमुनोः कामे लोपः वक्तव्यः । सकामः , भोक्तुकामः । मनसि च इति वक्तव्यं । समनाः , भोक्तुमनाः । (कात्यायन वार्तिक)अवश्यमः कृत्ये(वार्तिकान्त) । अवश्यमः कृत्ये लोपः वक्तव्यः । अवश्यभाव्यं ।
(पाणिनीयसूत्र ६,१।१४५) कि.।९५।११-१४ रो. ईV।४८१ इदं अतिबहु क्रियते सेविते , असेविते , प्रमाणे इति । सेवितप्रमाणयोः इति एव सिद्धं । केन इदानीं असेविते भविष्यति । नञा सेवितप्रतिषेधं विज्ञास्यामः । न एवं शक्यं । सेवितप्रसङ्गे एव स्यात। असेविते न स्यात। असेवितग्रहणे पुनः क्रियमाणे बहुव्रीहिः अयं विज्ञास्यते । अविद्यमानसेविते असेविते इति । तस्मातसेवितग्रहणं कर्तव्यं ।
(पाणिनीयसूत्र ६,१।१५०) कि.।९५।१६-२० रो. ईV।४८२ (कात्यायन वार्तिक)विष्किरः शकुनौ विकिरः वा(वार्तिकान्त) । विष्किरः शकुनौ विकिरः वा इति वक्तव्यं । शकुनौ वा इति हि उच्यमाने शकुनौ वा स्यातन्यत्र अपि नित्यं । तत्तर्हि वक्तव्यं । न वक्तव्यं । न वावचनेन शकुनिः अभिसम्बध्यते । किं तर्हि । निपातनं अभिसम्बध्यते : विष्किरः इति एतत्निपातनं शकुनौ वा निपात्यते इति ।
(पाणिनीयसूत्र ६,१।१४७) कि.।९६।२-९ रो. ईV।४८२-४८३ (कात्यायन वार्तिक)आश्चर्यं अद्भुते(वार्तिकान्त) । आश्चर्यं अद्भुते इति वक्तव्यं इह अपि यथा स्यात। आश्चर्यं उच्चता वृक्षस्य । आश्चर्यं नीला द्यौः । आश्चर्यं अन्तरिक्षे अबन्धनानि नक्षत्राणि न पतन्ति इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । अनित्ये इति एव सिद्धं । इह तावताश्चर्यं उच्चता वृक्षस्य इति । आश्चर्यग्रहणेन न वृक्षः अभिसम्बध्यते । किं तर्हि । उच्चता । सा च अनित्या । आश्चर्यं नीला द्यौः इति । न आश्चर्यग्रहणेन द्यौः अभिसम्बध्यते । किं तर्हि । नीलता । सा च अनित्या । आश्चर्यं अन्तरिक्षे अबन्धनानि नक्षत्राणि न पतन्ति इति । न आश्चर्यग्रहणेन नक्षत्राणि अभिसम्बध्यन्ते । किं तर्हि । पतनक्रिया । सा च अनित्या । तत्र अनित्ये इति एव सिद्धं ।
(पाणिनीयसूत्र ६,१।१५४) कि.।९६।११-१४ रो. ईV।४८३ मस्करिग्रहणं शक्यं अकर्तुं । कथं मस्करी परिव्राजकः इति । इनिना एतत्मत्वर्थीयेन सिद्धं । मस्करः अस्य अस्ति । न वै मस्करः अस्य अस्ति इति मस्करी परिव्राजकः । किं तर्हि मा कृत कर्माणि । मा कृत कर्माणि । शान्तिः वः श्रेयसी इति आह । अतः मस्करी परिव्राजकः ।
(पाणिनीयसूत्र ६,१।१५७) कि.।९६।१६-१९ रो. ईV।४८३-४८४ अविहितलक्षणः सुट्पारस्करप्रभृतिषु द्रष्टव्यः । पारस्करः देशः । कारस्करः वृक्षः । रथस्पा नदी । किष्किन्धा गुहा । किष्कुः । तद्बृहतोः करपत्योः चोरदेवतयोः सुट्तलोपः च । तस्करः , बृहस्पतिः । प्रायस्य चित्तिचित्तयोः सुटस्कारः वा । प्रायश्चित्तिः , प्रायश्चित्तं ।
(पाणिनीयसूत्र ६,१।१५८।१) कि.।९७।२-६ रो. ईV।४८४-४८५ किं अनुदात्तानि पदानि भवन्ति एकं पदं वर्जयित्वा । न इति आह । पदे येषां उदात्तप्रसङ्गः अनुदात्ताः भवन्ति एकं अचं वर्जयित्वा । सः तर्हि तथा निर्देशः कर्तव्यः : अनुदात्ताः पदे , अनुदात्ताः पदस्य इति वा । न कर्तव्यः । अनुदात्तं पदं एकवर्जं इति एव सिद्धं । कथं । मतुब्लोपः अत्र द्रष्टव्यः । तत्यथा पुष्यकाः एषां पुष्यकाः , कालकाः एषां कालकाः इति । अथ वा अकारः मत्वर्थीयः । तत्यथा तुन्दः , घाटः इति ।
(पाणिनीयसूत्र ६,१।१५८।२) कि.।९७।७-२५ रो. ईV।४८५-४८६ किमर्थं पुनः इदं उच्यते । (कात्यायन वार्तिक)आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च पृथक्स्वरनिवृत्त्यर्थं एकवर्जं पदस्वरः(वार्तिकान्त) । आगमस्य । चतुरनडुहोः आं उदात्तः । चत्वारः , अनड्वाहः । विकारस्य । अस्थिदधिसक्थ्यक्ष्णां अनङुदात्तः । अस्थ्ना , दध्ना । प्रकृतेः । गोपायति , धूपायति । प्रत्ययस्य च । कर्तव्यं , तैत्तिरीयः । एतेषां पदे युगपत्स्वरः प्राप्नोति । इष्यते च एकस्य स्यातिति । तत्च अन्तरेण यत्नं न सिध्यति इति अनुदात्तं पदं एकवर्जं । एवमर्थं इदं उच्यते । न एततस्ति प्रयोजनं । (कात्यायन वार्तिक)यौगपद्यं तवै सिद्धम्(वार्तिकान्त) । यतयं तवै च अन्तः च युगपतिति सिद्धे यौगपद्ये यौगपद्यं शास्ति तत्ज्ञापयति आचार्यः न युगपत्स्वरः भवति इति । पर्यायः तर्हि प्राप्नोति । (कात्यायन वार्तिक)पर्यायः रिक्तशासनात्(वार्तिकान्त) । यतयं रिक्ते विभाषा इति सिद्धे पर्याये पर्यायं शास्ति तत्ज्ञापयति आचार्यः न पर्यायः भवति इति । (कात्यायन वार्तिक)उदात्ते ज्ञापकं तु एतत्(वार्तिकान्त) । एततुदात्ते ज्ञापकं स्यात। (कात्यायन वार्तिक)स्वरितेन समाविशेत्(वार्तिकान्त) । स्वरितेन समावेशः प्राप्नोति । स्वरिते अपि उदात्तः अस्ति । तस्मात्न अर्थः अनेन योगेन ।
(पाणिनीयसूत्र ६,१।१५८।३) कि.।९८।१-९९।२१ रो. ईV।४८७-४९१ आरभ्यमाणे अपि एतस्मिन्योगे (कात्यायन वार्तिक)अनुदात्ते विप्रतिषेधानुपपत्तिः एकस्मिन्युगपत्सम्भवात्(वार्तिकान्त) । अनुदात्ते विप्रतिषेधः न उपपद्यते । पठिष्यति हि आचार्यः विप्रतिषेधं जे दीर्घात्बह्वचः इति । सः विप्रतिषेधः न उपपद्यते । किं कारणं । एकस्मिन्युगपत्सम्भवात। असति खलु सम्भवे विप्रतिषेधः भवति अस्ति च सम्भवः यतुभयं स्यात। कथं सम्भवः यदा अनुदात्तं पदं एकवर्जं इति उच्यते । ततिह न अस्ति । किं कारणं । न अनेन उदात्तत्वं प्रतिषिध्यते । किं तर्हि अनुदात्तत्वं अनेन क्रियते अस्ति च सम्भवः यतुभयोः च उदात्तत्वं स्यातन्येषां च अनुदात्तत्वं । यदि पुनः अयं अधिकारः विज्ञायेत । किं कृतं भवति । अधिकारः प्रतियोगं तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते । जे दीर्घान्तस्य आदिः उदात्तः भवति । उपस्थितं इदं भवति अनुदात्तं पदं एकवर्जं इति । अन्त्यात्पूर्वं बह्वचः । उपस्थितं इदं भवति अनुदात्तं पदं एकवर्जं इति । तत्र पूर्वेण अस्तु वर्ज्यमानता परेण वा इति परेण भविष्यति परत्वात। न एवं शक्यं । षाष्थिकः एकः स्वरः सङ्गृहीतः स्यात। ये अन्ये सप्ताध्याय्यां स्वराः ते न सङ्गृहीताः स्युः । समानोदरे शयिते ओ च उदात्तः । अस्थिदधिसक्थ्यक्ष्णां अनङुदात्तः इति । (कात्यायन वार्तिक)सिद्धं तु एकाननुदात्तत्वात्(वार्तिकान्त) । सिद्धं एतत। कथं । एकाननुदात्तत्वात। एकाननुदात्तं पदं भवति इति वक्तव्यं । किं इदं अननुदात्तत्वातिति । न उदात्तः अनुदात्तः । न अनुदात्तः । अननुदात्तः । एकः अननुदात्तः अस्मिन्ततिदं एकाननुदात्तं । एकाननुदात्तत्वातिति । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं अनुदात्ते विप्रतिषेधानुपपत्तिः एकस्मिन्युगपत्सम्भवातिति । न एषः दोषः । परिभाषा इयं । किं कृतं भवति । कार्यकालं हि सञ्ज्ञापरिभाषं । यत्र कार्यं तत्र उपस्थितं इदं द्रष्टव्यं । जे दीर्घान्तस्य आदिः उदात्तः भवति । उपस्थितं इदं भवति अनुदात्तं पदं एकवर्जं इति । अन्त्यात्पूर्वं बह्वचः । उपस्थितं इदं भवति अनुदात्तं पदं एकवर्जं इति । तत्र पूर्वेण अस्तु वर्ज्यमानता परेण वा इति परेण भविष्यति परत्वात। अथ वा न इदं पारिभाषिकानुदात्तस्य ग्रहणं । किं तर्हि । अन्वर्थग्रहणं । अविद्यमानोदात्तं अनुदात्तं इति । (कात्यायन वार्तिक)एकवर्जं इति च अप्रसिद्धिः सन्देहात्(वार्तिकान्त) । एकवर्जं इति च अप्रसिद्धिः । कुतः सन्देहात। न ज्ञायते कः एकः वर्जयितव्यः इति । (कात्यायन वार्तिक)सिद्धं तु यस्मिननुदात्ते उदात्तवचनानर्थक्यं तद्वर्जम्(वार्तिकान्त) । सिद्धं एतत। कथं । यस्मिननुदात्ते उदात्तवचनं अनर्थकं स्यात्सः एकः वर्जयितव्यः । (कात्यायन वार्तिक)प्रकृतिप्रत्यययोः स्वरस्य सावकाशत्वातप्रसिद्धिः(वार्तिकान्त) । प्रकृतिप्रत्यययोः स्वरस्य सावकाशत्वातप्रसिद्धिः स्यात। प्रकृतिस्वरस्य अवकाशः यत्र अनुदात्तः प्रत्ययः । पचति , पठति । प्रत्यययस्वरस्य अवकाशः यत्र अनुदात्ता प्रकृतिः । समत्वं , सिमत्वं । इह उभयं प्राप्नोति । कर्तव्यम्, तैत्तिरीयः । विप्रतिषेधात्प्रत्ययस्वरः । विप्रतिषेधात्प्रत्ययस्वरः भविष्यति । न एवं । विप्रतिषेधे परं कार्यं इति उच्यते । न परः प्रत्ययस्वरः । न एषः दोषः । इष्टवाची परशब्दः । विप्रतिषेधे परं यतिष्टं तत्भवति । (कात्यायन वार्तिक)विप्रतिषेधात्प्रत्ययस्वरः इति चेत्काम्यादिषु चित्करणम्(वार्तिकान्त) । विप्रतिषेधात्प्रत्ययस्वरः इति चेत्काम्यादयः चितः कर्तव्याः । पुत्रकाम्यति , गोपायति , ऋतीयते । न एषः दोषः । प्रकृतिस्वरः अत्र बाधकः भविष्यति । (कात्यायन वार्तिक)प्रकृतिस्वरे प्रत्ययस्वराभावः(वार्तिकान्त) । प्रकृतिस्वरे प्रत्ययस्वरस्य अभावः । कर्तव्यम्, तैत्तिरीयः । (कात्यायन वार्तिक)सिद्धं तु प्रकृतिस्वरबलीयस्त्वात्प्रत्ययस्वरभावः(वार्तिकान्त) । सिद्धं एतत। कथं । प्रकृतिस्वरात्बलीयस्त्वात्प्रत्ययस्वरस्य भावः सिद्धः । कथं । प्रकृतिस्वरात्प्रत्ययस्वरः बलीयान्भवति ।
(पाणिनीयसूत्र ६,१।१५८।४) कि.।९९।२२-१०१।४ रो. ईV।४९१-४९३ (कात्यायन वार्तिक)सतिशिष्टस्वरबलीयस्त्वं च(वार्तिकान्त) । सतिशिष्टस्वरः बलीयान्भवति इति वक्तव्यं । (कात्यायन वार्तिक)तत्च अनेकप्रत्ययसमासार्थम्(वार्तिकान्त) । तत्च अवश्यं सतिशिष्टस्वरबलीयस्त्वं वक्तव्यं । किं प्रयोजनं । अनेकप्रत्ययार्थं अनेकसमासार्थं च । अनेकप्रत्ययार्थं तावत। औपगवः । प्रकृतिस्वरं अण्स्वरः बाधते । औपगवत्वं । त्वस्वरः अण्स्वरं बाधते । औपगवत्वकं । त्वस्वरं कस्वरः बाधते । अनेकसमासार्थं । राजपुरुषः , राजपुरुषपुत्रः , राजपुरुषपुत्रपुरुषः । यदि सतिशिष्टस्वरबलीयस्त्वं उच्यते स्यादिस्वरः सार्वधातुकस्वरं बाधेत । सुनुतः , चिनुतः । (कात्यायन वार्तिक)स्यादिस्वराप्रसङ्गः च तासेः परस्य अनुदात्तवचनात्(वार्तिकान्त) । स्यादिस्वरस्य च अप्रसङ्गः । कुतः । तासेः परस्य अनुदात्तवचनात। यतयं तासेः परस्य लसार्वधातुकस्य अनुदात्तत्वं शास्ति तत्ज्ञापयति आचार्यः सतिशिष्टः अपि विकरणस्वरः लसार्वधातुकस्वरं न बाधते । (कात्यायन वार्तिक)शास्त्रपरविप्रतिषेधानियमात्वा शब्दविप्रतिषेधात्सिद्धम्(वार्तिकान्त) । अथ वा शास्त्रपरविप्रतिषेधे न सर्वं इष्टं सङ्गृहीतं भवति इति कृत्वा शब्दविप्रतिषेधः विज्ञास्यते । यदि शब्दविप्रतिषेधः भवति काम्यादयः चितः कर्तव्याः । पुत्रकाम्यति , गोपायति , ऋतीयते । शब्दविप्रतिषेधः नाम भवति यत्र उभयोः युगपत्प्रसङ्गः न च काम्यादिषु युगपत्प्रसङ्गः । (कात्यायन वार्तिक)विभक्तिस्वरात्नञ्स्वरः बलीयान्(वार्तिकान्त) । विभक्तिस्वरात्नञ्स्वरः बलीयानिति वक्तव्यं । विभक्तिस्वरस्य अवकाशः । तिस्रः तिष्ठन्ति । नञ्स्वरस्य अवकाशः । अब्राह्मणः , अवृषलः । इह उभयं प्राप्नोति । अतिस्रः । नञ्स्वरः भवति । (कात्यायन वार्तिक)विभक्तिनिमित्तस्वरात्च(वार्तिकान्त) । विभक्तिनिमित्तस्वरात्च नञ्स्वरः बलीयानिति वक्तव्यं । विभक्तिनिमित्तस्वरस्य अवकाशः । चत्वारः , अनड्वाहः । नञ्स्वरस्य सः एव । इह उभयं प्राप्नोति । अचत्वारः । अननड्वाहः । (कात्यायन वार्तिक)यत्च उपपदं कृति नञ्(वार्तिकान्त) । यत्च उपपदं कृति नञ्तस्य स्वरः बलीयानिति वक्तव्यं । अकरणिः हि ते वृषल । (कात्यायन वार्तिक)सहनिर्दिष्टस्य च(वार्तिकान्त) । सहनिर्दिष्टस्य च नञः स्वरः बलीयानिति वक्तव्यं । अव्यथी ।
(पाणिनीयसूत्र ६,१।१५९) कि.।१०१।६-१२ रो. ईV।४९४ किमर्थं कृषतेः विकृतस्य ग्रहणं क्रियते न कृषात्वतः इति एव उच्येत । यस्य कृषेः विकरणे एतत्रूपं तस्य यथा स्यात। इह मा भूत। हलस्य कर्षः इति । अथ किमर्थं मतुपा निर्देशः क्रियते न कर्षातिति एव उच्येत । कर्षातिति इयति उच्यमाने यत्र एव आकारातनन्तरः घञस्ति तत्र एव स्यातः दायः , धायः । इह न स्यातः पाकः , पाठः । न क्व चिताकारातनन्तरः घञस्ति । इह अपि दायः , धायः इति युका व्यवधानं । एवं अपि विहितविषेषनं आकारग्रहणं विज्ञायेत । आकारात्यः विहितः इति । मतुब्ग्रहणे पुनः क्रियमाणे न दोषः भवति ।
(पाणिनीयसूत्र ६,१।१६१।१) कि.।१०१।१४-१०२।२ रो. ईV।४९४-४९५ अनुदात्तस्य इति किमर्थं । प्रासङ्गं वहति प्रासङ्ग्यः । (कात्यायन वार्तिक)उदात्तलोपे स्वरितोदात्तयोः अभावातनुदात्तग्रहणानर्थक्यम्(वार्तिकान्त) । उदात्तलोपे स्वरितोदात्तयोः अभावातनुदात्तग्रहणं अनर्थकं । ह हि कः चितुदात्तः उदात्ते स्वरिते वा लुप्यते । सर्वः अनुदात्ते एव । नन्च अयं उदात्तः स्वरिते लुप्यते । प्रासङ्गं वहति प्रासङ्ग्यः इति । एषः अपि निघाते कृते अनुदात्ते एव लुप्यते । इदं इह सम्प्रधार्यं । निघातः क्रियतां लोपः इति । किं अत्र कर्तव्यं । परत्वात्लोपः । एवं तर्हि अयं अद्य निघातस्वरः सर्वस्वराणां अपवादः । न च अपवादविषये उत्सर्गः भिनिविशते । पूर्वं हि अपवादाः अभिनिविशन्ते पश्चातुत्सर्गाः । प्रकल्प्य वा अपवादविषयं ततः उत्सर्गः अभिनिविशते । तत्न तावतत्र कदा चित्थाथादिस्वरः भवति । अपवादं निघातं प्रतीक्षते । तत्र निघातः क्रियतां लोपः इति यदि अपि परत्वात्लोपः सः असौ अविद्यमानोदात्तः अनुदात्तः लुप्यते ।
(पाणिनीयसूत्र ६,१।१६१।२) कि.।१०२।३-२० रो. ईV।४९५-४९७ किं पुनः अनुदात्तस्य अन्तः उदात्तः भवति आहोस्वितादिः । कः च अत्र विशेषः । (कात्यायन वार्तिक)अन्तः इति चेत्श्नम्क्सयुष्मदस्मदिदङ्किंलोपेषु स्वरः(वार्तिकान्त) । अन्तः इति चेत्श्नम्क्सयुष्मदस्मदिदङ्किंलोपेषु स्वरः न सिध्यति । श्नं । विन्दते , खिन्दते । श्नं । क्स । मा हि धुक्षातां । मा हि धुक्षाथां । क्स । युष्मदस्मद। युष्मभ्यं , अस्मभ्यं । इदङ्किंलोपः । इयान्, कियान। अस्तु तर्हि आदिः । (कात्यायन वार्तिक)आदिः इति चेतिन्धीत द्वयं इति अन्तः(वार्तिकान्त) । आदिः इति चेतिन्धीत द्वयं इति अन्तोदात्तत्वं न सिध्यति । इन्धीत । द्वयं , त्रयं । (कात्यायन वार्तिक)आदौ सिद्धम्(वार्तिकान्त) । अस्तु तर्हि आदिः उदात्तः भवति इति । ननु च उक्तं आदिः इति चेतिन्धीत द्वयं इति अन्तः इति । (कात्यायन वार्तिक)विदीन्धिखिदिभ्यः च लसार्वधातुकानुदात्तप्रतिषेधात्लिङि सिद्धम्(वार्तिकान्त) । विदीन्धिखिदिभ्यः च लसार्वधातुकानुदात्तत्वं लिङि न इति वक्तव्यं । लिङ्ग्रहणेन न अर्थः । अविशेषेण (कात्यायन वार्तिक)इखिदिभ्यः च लसार्वधातुकानुदात्तप्रतिषेधात्लिङि सिद्धम्(वार्तिकान्त) । विदीन्धिखिदिभ्यः च लसार्वधातुकानुदात्तत्वं न इति एव । इदं अपि सिद्धं भवति । विन्दते , खिन्दते । अयचि कथं । (कात्यायन वार्तिक)अयचि चित्करणात्(वार्तिकान्त) । अयचि चित्करणसामर्थ्यातन्तोदात्तत्वं भविष्यति ।
(पाणिनीयसूत्र ६,१।१६२) कि.।१०२।२२-१०३।२५ रो. ईV।४९७-४९९ किं धातोः अन्तः उदात्तः भवति आहोस्वितादिः इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)धातोः अन्तः इति चेतनुदात्ते च बग्रहणम्(वार्तिकान्त) । धातोः अन्तः इति चेतनुदात्ते च बग्रहणं कर्तव्यं । अभ्यस्तानां आदिः अनुदात्ते च इति वक्तव्यं । बग्रहणं च कर्तव्यं । बान्तः च पिबिः आद्युदात्तः भवति इति वक्तव्यं । पिबति । (कात्यायन वार्तिक)सन्च नित्(वार्तिकान्त) । सन्च नित्कर्तव्यः । किं प्रयोजनं । चिकीर्षति जिहीर्षति । निति इति आद्युदात्तत्वं यथा स्यात। अस्तु तर्हि आदिः । (कात्यायन वार्तिक)आदौ ऊर्णप्रत्ययधातुषु अन्तोदात्तत्वं (वार्तिकान्त) । आदौ ऊर्णप्रत्ययधातुषु अन्तोदात्तत्वं न सिध्यति । ऊर्णोति । ऊर्णु । प्रत्ययधातु । गोपायति , धूपायति , ऋतीयते । (कात्यायन वार्तिक)अन्तोदात्तवचनात्सिद्धम्(वार्तिकान्त) । अस्तु तर्हि अन्तोदात्तः भवति इति । ननु च उक्तं धातोः अन्तः इति चेतनुदात्ते च बग्रहणं कर्तव्यं इति । यत्तावतुच्यते । अनुदात्ते च ग्रहणं कर्तव्यं इति । क्रियते न्यासे एव । अभ्यस्तानां आदिः अनुदात्ते च इति । बग्रहणं कर्तव्यं इति । (कात्यायन वार्तिक)पिबौ निपातनात्(वार्तिकान्त) । पिबौ आद्युदात्तनिपातनं क्रियते । सः निपातनस्वरः प्रकृतिस्वरस्य बाधकः भविष्यति । सन्च नित्कर्तव्यः इति । अवश्यं सनः विशेषणार्थः नकारः कर्तव्यः । क्व विशेषणार्थेन अर्थः । सन्यङोः इति । सयङोः इति इयति उच्यमाने हंसः , वत्सः , अत्र अपि प्राप्नोति । अर्थवद्ग्रहणे न अनर्थकस्य इति एवं न भविष्यति । इह अपि तर्हि न प्राप्नोति । जुगुप्सते , मीमांसते इति । अर्थवानेषः । न वै कः चितर्थः आदिश्यते । यदि अपि कः चितर्थः न आदिश्यते अनिर्दिष्टार्थाः स्वार्थे भवन्ति इति अन्ततः स्वार्थे भविष्यति । कः च अस्य स्वार्थः । प्रकृत्यर्थः । इह अपि प्राप्नोति । हंसः , वत्सः इति । उणादयः अव्युत्पन्नानि प्रातिपदिकानि । सः एषः अनन्यार्थः नकारः कर्तव्यः । न कर्तव्यः । क्रियते न्यासे एव । अथ वा धातोः इति वर्तते । धातोः सशब्दान्तस्य द्वे भवतः इति ।
(पाणिनीयसूत्र ६,१।१६३) कि.।१०४।२-७ रो. ईV।५०० (कात्यायन वार्तिक)चितः सप्रकृतेः बह्वकजर्थम्(वार्तिकान्त) । चितः सप्रकृतेः इति वक्तव्यं । किं प्रयोजनं । बह्वकजर्थं । बहुजर्थं अकजर्थं च । बहुजर्थं तावत। बहुभुक्तं , बहुकृतं । अकजर्थं । सर्वकैः , विश्वकैः , उच्चकैः , नीचकैः , सर्वके , विश्वके । तत्तर्हि वक्तव्यं । न वक्तव्यं । मतुब्लोपः अत्र द्रष्टव्यः । तत्यथा पुष्यकाः एषां पुष्यकाः कालकाः एषां कालकाः इति । अथ वा अकारः मत्वर्थीयः । तत्यथा तुन्दः , घाटः इति । पूर्वसूत्रनिर्देशः च चित्वान्चितः इति ।
(पाणिनीयसूत्र ६,१।१६६) कि.।१०४।९-२२ रो. ईV।५००-५०१ जसः इति किमर्थं । तिसृका । (कात्यायन वार्तिक)तिसृभ्यः जस्ग्रहणानर्थक्यं अन्यत्र अभावात्(वार्तिकान्त) । तिसृभ्यः जस्ग्रहणं अनर्थकं । किं कारणं । अन्यत्र अभावात। न हि अन्यत्तिसृशब्दातन्तोदात्तत्वं प्रयोजयति अन्यततः जसः । किं कारणं । बहुवचनविषयः एव तिसृशब्दः । तेन एकवचनद्विवचने न स्तः । शसि भवितव्यं उदात्तयणः हल्पूर्वातिति । अन्याः सर्वाः हलादयः विभक्तयः । तत्र षट्त्रिचतुर्भ्यः हलादिः झलि उपोत्तमं इति अनेन स्वरेण भवितव्यं । तत्र अन्तरेण जसः ग्रहणं जसः एव भविष्यति । ननु च इदानीं एव उदाहृतं तिसृका इति । नित्स्वरः अत्र बाधकः भविष्यति । न अप्राप्ते अन्यस्वरे तिसृस्वरः आरभ्यते । सः यथा एव अनुदात्तौ सुप्पितौ इति एतं स्वरं बाधते एवं नित्स्वरं अपि बाधेत । न एषः दोषः । येन न अप्राप्ते तस्य बाधनं भवति । न च अप्राप्ते अनुदात्तौ सुप्पितौ इति एतस्मिन्तिसृस्वरः आरभ्यते । नित्स्वरः पुनः प्राप्ते च अप्राप्ते च । अथ वा मध्ये अपवादाः पूर्वान्विधीन्बाधन्ते इति एवं तिसृस्वरः अनुदात्तौ सुप्पितौ इति स्वरं बाधिष्यते नित्स्वरं न बाधिष्यते । उपसमस्तार्थं एके जसः ग्रहणं इच्छन्ति : अतितिस्रौ , अतितिस्रः ।
(पाणिनीयसूत्र ६,१।१६७) कि.।१०५।२-१०६।७ रो. ईV।५०२-५०४ शसि स्त्रियां प्रतिषेधः वक्तव्यः । चतस्रः पश्य । (कात्यायन वार्तिक)चतुरः शसि स्त्रियां अप्रतिषेधः आद्युदात्तनिपातनात्(वार्तिकान्त) । चतुरः शसि स्त्रियां अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । शसि स्वरः कस्मात्न भवति । आद्युदात्तनिपातनात। आद्युदात्तनिपातनं करिष्यते । सः निपातनस्वरः शसि स्वरस्य बाधकः भविष्यति । एवं अपि उपदेशिवद्भावः वक्तव्यः । यथा एव निपातनस्वरः शसि स्वरं बाधते एवं विभक्तिस्वरं अपि बाधेत चतसृणं इति । (कात्यायन वार्तिक)विभक्तिस्वरभावः च हलादिग्रहणात्(वार्तिकान्त) । विभक्तिस्वरभावः च सिद्धः । कुतः । हलादिग्रहणात। यतयं षट्त्रिचतुर्भ्यः हलादिः इति हलादिग्रहणं करोति तत्ज्ञापयति आचार्यः न निपातनस्वरः विभक्तिस्वरं बाधते इति । कथं कृत्वा ज्ञापकं । (कात्यायन वार्तिक)आद्युदात्तनिपातने हि हलादिग्रहणानर्थक्यम्(वार्तिकान्त) । आद्युदात्तनिपातने हि सति हलादिग्रहणं अनर्थकं स्यात। न हि अन्यत्हलादिग्रहणं प्रयोजयति अन्यततः चतसृशब्दात। षट्सञ्ज्ञाः तावत्न प्रयोजयन्ति । किं कारणं । बहुवचनविषयत्वात। तेन द्विवचनैकवचने न स्तः । जश्शसी च अत्र लुप्येते । अन्याः सर्वाः हलादयः विभक्तयः । त्रिशब्दः च अपि न प्रयोजयति । किं कारणं । बहुवचनविषयत्वात। तेन द्विवचनैकवचने न स्तः । असर्वनामस्थानं इति वचनात्जसि न भविष्यति । शसि भवितव्यं एकादेशे उदात्तेन उदात्तः इति । अन्याः सर्वाः हलादयः विभक्तयः । तिसृशब्दः च अपि न प्रयोजयति । किं कारणं । बहुवचनविषयत्वात। तेन द्विवचनैकवचने न स्तः । असर्वनामस्थानं इति वचनात्जसि न भवितव्यं । शसि भवितव्यं उदात्तयणः हल्पूर्वातिति । अन्याः सर्वाः हलादयः विभक्तयः । चतुःशब्दः तिसृशब्दः च अपि न प्रयोजयति । किं कारणं । बहुवचनविषयत्वात। तेन द्विवचनैकवचने न स्तः । असर्वनामस्थानं इति वचनात्जसि न भवितव्यं । शसि भवितव्यं चतुरः शसि इति । अन्याः सर्वाः हलादयः विभक्तयः । तत्र चतसृशब्दातेकस्मात्शससर्वनामस्थानं अजादिः विभक्तिः अस्ति । यदि च अत्र निपातनस्वरः स्यात्हलादिग्रहणं अनर्थकं स्यात। न एव वा पुनः अत्र शसिस्वरः प्राप्नोति । किं कारणं । यणादेशे कृते शसः पूर्वः उदात्तभावी न अस्ति इति कृत्वा । अवशिष्टस्य तर्हि प्राप्नोति । ऋकारेण व्यवहितत्वात्न भविष्यति । यणादेशे कृते न अस्ति व्यवधानं । स्थानिवद्भावात्व्यवधानं एव । प्रतिषिध्यते अत्र स्थानिवद्भावः स्वरविधिं प्रति न स्थानिवत्भवति इति । न एषः अस्ति प्रतिषेधः । उक्तं एतत्प्रतिषेधे स्वरदीर्घयलोपेषु लोपादादेशः न स्थानिवतिति ।
(पाणिनीयसूत्र ६,१।१६८।१) कि.।१०६।९-१८ रो. ईV।५०४-५०५ सौ इति किं इदं प्रथमैकवचनस्य ग्रहणं आहोस्वित्सप्तमीबहुवचनस्य । कुतः सन्देहः । समानः निर्देशः । सप्तमीबहुवचनस्य ग्रहणं । कथं ज्ञायते । यतयं न गोश्वन्साववर्ण इति गोशुनोः प्रतिषेधं शास्ति । कथं कृत्वा ज्ञापकं । यदि प्रथमैकवचनस्य ग्रहणं स्यात्गोशुनोः प्रतिषेधवचनं अनर्थकं स्यात। ननु च अर्थसिद्धिः एव एषा । अनुगृहीताः स्मः यैः अस्माभिः प्रथमैकवचनं आस्थाय गोशुनोः प्रतिषेधः न वक्तव्यः भवति । भवेत्प्रतिषेधः न वक्तव्यः दोषाः तु भवन्ति । तत्र कः दोषः । स्विना खिना । अन्तोदात्तत्वं न प्राप्नोति । स्विन्खिनौ न स्तः । उक्तं एततेकाक्षरात्कृतः जातेः सप्तम्यां च न तौ स्मृतौ । स्ववान्, खवानिति एव भवितव्यं । इह तर्हि याद्भ्यां , याभिः इति न सिध्यति । तस्मात्सप्तमीबहुवचनस्य ग्रहणं ।
(पाणिनीयसूत्र ६,१।१६८।२) कि.।१०६।१९-२५ रो. ईV।५०५-५०६ (कात्यायन वार्तिक)सौ एकाचः उदात्तत्वे त्वन्मदोः प्रतिषेधः(वार्तिकान्त) । सौ एकाचः उदात्तत्वे त्वन्मदोः प्रतिषेधः वक्तव्यः । त्वया मया । (कात्यायन वार्तिक)सिद्धं तु यस्मात्तृतीयादिः तस्य अभावात्सौ(वार्तिकान्त) । सिद्धं एतत। कथं । यस्मातत्र तृतीयादिः विभक्तिः न तत्सौ अस्ति । यदि अपि एतत्सौ न अस्ति प्रकृतिः तु अस्य सौ अस्ति । (कात्यायन वार्तिक)प्रकृतेः च अनेकाच्त्वात्(वार्तिकान्त) । यदि अपि तस्य प्रकृतिः अस्ति सौ अनेकाच्तु सा भवति ।
(पाणिनीयसूत्र ६,१।१६९) कि.।१०७।२-५ रो. ईV।५०६ उत्तरपदग्रहणं किमर्थं । यथा एकाज्ग्रहणं उत्तरपदविशेषणं विज्ञायेत । एकाचः उत्तरपदातिति । अथ अक्रियमाणे उत्तरपदग्रहणे कस्य एकाज्ग्रहणं विशेषणं स्यात। समासविशेषणं । अस्ति च इदानीं कः चितेकाच्समासः यदर्थः विधिः स्यात। अस्ति इति आह : शुनः ऊर्कः श्वोर्क्, श्वोर्जा , श्वोर्जे इति ।
(पाणिनीयसूत्र ६,१।१७१) कि.।१०७।७-१० रो. ईV।५०७ पदादिषु निचन्तानि प्रयोजयन्ति । अन्यानि पदादीनि उदात्तनिवृत्तिस्वरेण सिद्धानि । (कात्यायन वार्तिक)ऊठि उपधाग्रहणं अन्त्यप्रतिषेधार्थं (वार्तिकान्त)। ऊठि उपधाग्रहणं कर्तव्यं । किं प्रयोजनं । अन्त्यप्रतिषेधार्थं । अन्त्यस्य मा भूत। अक्षद्युवा , अक्षद्युवे ।
(पाणिनीयसूत्र ६,१।१७२) कि.।१०७।१३-२२ रो. ईV।५०७-५०८ दीर्घग्रहणं किमर्थं । अष्टसु प्रक्रमेषु ब्राह्मणः आदधीत । दीर्घातिति शक्यं अकर्तुं । कस्मात्न भवति अष्टसु प्रक्रमेषु ब्राह्मणः आदधीत इति । षट्स्वरः बाधकः भविष्यति । न अप्राप्ते षट्स्वरे अष्टनः स्वरः आरभ्यते । सः यथा एव दीर्घात्बाधते एवं ह्रस्वातपि बाधेत । न दीर्घात्षट्स्वरः प्राप्नोति । किं कारणं । आते कृते षट्सञ्ज्ञाभावात। अतः उत्तरं पठति (कात्यायन वार्तिक)अष्टनः दीर्घग्रहणं षट्सञ्ज्ञाज्ञापकं आकारान्तस्य नुडर्थम्(वार्तिकान्त) । अष्टनः दीर्घग्रहणं क्रियते ज्ञापकार्थं । किं ज्ञाप्यं । एतत्ज्ञापयति आचार्यः भवति आत्वे कृते षट्सञ्ज्ञा इति । किं एतस्य ज्ञपने प्रयोजनं । आकारान्तस्य नुडर्थं । आकारान्तस्य नुड्सिद्धः भवति । अष्टानां इति । ननु च नित्यं आत्वं । एततेव ज्ञापयति विभाषा आत्वं इति यतयं दीर्घग्रहणं करोति । इतरथा हि अष्टनः इति एव ब्रूयात।
(पाणिनीयसूत्र ६,१।१७३) कि.।२-४ रो. ईV।५०८ (कात्यायन वार्तिक)नद्यजाद्युदात्तत्वे बृहन्महतोः उपसङ्ख्यानम्(वार्तिकान्त) । नद्यजाद्युदात्तत्वे बृहन्महतोः उपसङ्ख्यानं कर्तव्यं । बृहती महती बृहता महता ।
(पाणिनीयसूत्र ६,१।१७४) कि.।१०८।६-१६ रो. ईV।५०९-५१० हल्पूर्वातिति किमर्थं । अग्नये वायवे । (कात्यायन वार्तिक)उदात्तयणि हल्ग्रहणं नकारान्तार्थम्(वार्तिकान्त) । उदात्तयणि हल्ग्रहणं कर्तव्यं । किं प्रयोजनं । नकारान्तार्थं । नकारान्तातपि यथा स्यात। वाक्पत्नी चित्पत्नी । (कात्यायन वार्तिक)हल्पूर्वग्रहणानर्थक्यं च समुदायादेशत्वात्(वार्तिकान्त) । हल्पूर्वग्रहणं च अनर्थकं । किं काऋअणं । समुदायादेशत्वात। समुदायः अत्र आदेशः । (कात्यायन वार्तिक)स्वरितत्वे च अवचनात्(वार्तिकान्त) । स्वरितत्वे च हल्पूर्वग्रहणस्य अवचनात्मन्यामहे हल्पूर्वग्रहणं अनर्थकं इति । यत्तावतुच्यते उदात्तयणि हल्ग्रहणं नकारान्तार्थं इति क्रियते न्यासे एव । द्विनकारकः निर्देशः । उदात्तयणः हल्पूर्वात्न ऊङ्धात्वोः इति । यतपि उच्यते हल्पूर्वग्रहणानर्थक्यं च समुदायादेशत्वातिति । अयं अस्ति केवलः आदेशः । बहुतितवा ।
(पाणिनीयसूत्र ६,१।१७६) कि.।१०८।१८-२१ रो. ईV।५१० (कात्यायन वार्तिक)मतुबुदात्तत्वे रेग्रहणम्(वार्तिकान्त) । मतुबुदात्तत्वे रेग्रहणं कर्तव्यं । आ रेवानेतु नः विशः । (कात्यायन वार्तिक)त्रिप्रतिषेधः च(वार्तिकान्त) । त्रेः च प्रतिषेधः वक्तव्यः । त्रिवतीः याज्यानुवाक्याः भवन्ति ।
(पाणिनीयसूत्र ६,१।१७७) कि.।१०९।२-२१ रो. ईV।५१०-५१२ इह कस्मात्न भवति । किशोरीणां , कुमारीणां । ह्रस्वातिति वर्तते । इह अपि तर्हि न प्राप्नोति । अग्नीनां , वायूनां । किं कारणं । दीर्घत्वे कृते ह्रस्वाभावात। इदं इह सम्प्रधार्यं । दीर्घत्वं क्रियतां स्वरः इति किं अत्र कर्तव्यं । परत्वात्दीर्घत्वं । एवं तर्हि (कात्यायन वार्तिक)नाम्स्वरे मतौ ह्रस्वग्रहणम्(वार्तिकान्त) । नाम्स्वरे मतौ ह्रस्वग्रहणं कर्तव्यं । मतौ ह्रस्वान्तातिति । तत्तर्हि वक्तव्यं । न वक्तव्यं । आह अयं ह्रस्वान्तात्न च नामि ह्रस्वान्तः अस्ति । तत्र भूतपूर्वगतिः विज्ञास्यते : ह्रस्वान्तं यत्भूतपूर्वं इति । साम्प्रतिकाभावे भूतपूर्वगतिः विज्ञायते अयं च अस्ति साम्प्रतिकः : तिसृणां , चतसृणां इति । न एततस्ति । षट्त्रिचतुर्भ्यः हलादिः इति अनेन स्वरेण भवितव्यं । तस्मिन्नित्ये प्राप्ते इयं विभाषा आरभ्यते । एवं तर्हि योगविभागः करिष्यते । षट्त्रिचतुर्भ्यः नां उदात्तः भवति । ततः हलादिः । हलादिः च विभक्तिः उदात्ता भवति षट्त्रिचतुर्भ्यः इति । इदं तर्हि त्वं नृणं नृपते जायसे शुचिः । ननु च अत्र अपि नृ च अन्यतरस्यां इति एषः स्वरः बाधकः भविष्यति । न सिध्यति । न सिध्यति । किं कारणं । झल्ग्रहणं तत्र अनुवर्तते । किं पुनः कारणं झल्ग्रहणं तत्र अनुवर्तते । इह मा भूत। न्रा न्रे । उदात्तयणः हल्पूर्वातिति एषः स्वरः अत्र स्वरः बाधकः भविष्यति । इदं तर्हि नरि । न एकं उदाहरं ह्रस्वग्रहणं प्रयोजयति । यदि एतावत्प्रयोजनं स्यात्नां इति एव ब्रूयात। तत्र वचनात्भूतपूर्वगतिः विज्ञास्यते । ह्रस्वान्तं यत्भूतपूर्वं इति । अथ वा न एवं विज्ञायते । नां स्वरौ मतौ ह्रस्वग्रहणं कर्तव्यं इति । कथं तर्हि । नाम्स्वरे मतौ ह्रस्वातिति वर्तते इति ।
(पाणिनीयसूत्र ६,१।१८२) कि.।१०९।२३-११०।११ रो. ईV।५१२-५१३ सौ इति किं प्रथमैकवचनस्य ग्रहणं आहोस्वित्सप्तमीबहुवचनस्य । कुतः सन्देहः । समानः निर्देशः । पुरस्तातेषः निर्णयः सप्तमीबहुवचनस्य ग्रहणं इति । इह अपि ततेव भवितुं अर्हति । यदि सप्तमीबहुवचनस्य ग्रहणं ताभ्यां ब्राह्मणाभ्यां , याभ्यां ब्राह्मणाभ्यां अत्र न प्राप्नोति । विधिः अपि अत्र न सिध्यति । किं कारणं । न हि एतत्भवति यत्सौ रूपं । इदं तर्हि तेभ्यः ब्राह्मणेभ्यः , येभ्यः ब्राह्मणेभ्यः । विधिः च सिद्द्धः भवति प्रतिषेधः तु न प्राप्नोति । अस्ति पुनः किं चिथ्सति इष्टं सङ्गृहीतं भवति आहोस्वित्दोषान्तं एव । अस्ति इति आह । इह याभ्यः ब्राह्मणीभ्यः , ताभ्यः ब्राह्मणीभ्यः इति विधिः च सिद्द्धः भवति प्रतिषेधः च । अस्ति तर्हि प्रथमैकवचनस्य ग्रहणं । यदि प्रथमैकवचनस्य ग्रहणं तेन इति स्वरः पुंसि न सिध्यति । न च अवश्यं पुंसि एव स्त्रियां पुंसि नपुंसके च । तेन ब्राह्मणेन तया ब्राह्मण्या तेन कुण्डेन इति । सप्तमीबहुवचनस्य ग्रहणे अपि एषः दोषः । तस्मातुभाभ्यां एव प्रतिषेधे यत्ततदोः च ग्रहणं कर्तव्यं । न गोश्वन्साववर्णराडङ्क्रुङ्कृद्भ्यः यत्तदोः च इति ।
(पाणिनीयसूत्र ६,१।१८५) कि.।१३-२४ रो. ईV।५१४-५१५ (कात्यायन वार्तिक)तिति प्रत्ययग्रहणम्(वार्तिकान्त) । तिति प्रत्ययग्रहणं कर्तव्यं । इह मा भूत। ®तः इत्धातोः । किरति , गिरति । तत्तर्हि वक्तव्यं । न वक्तव्यं । न एषः तकारः । कः तर्हि । दकारः । यदि दकारः आन्तर्यतः दीर्घस्य दीर्घः प्राप्नोति । भाव्यमानेन सवर्णानां ग्रहणं न इति एवं न भविष्यति । यदि भाव्यमानेन सवर्णानां ग्रहणं न इति उच्यते अदसः असेः दातु दः मः , अमूभ्यां इति अत्र न प्राप्नोति । एवं तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवति उकारेण भाव्यमानेन सवर्णानां ग्रहणं इति यतयं दिवः उतिति उकारं तपरं करोति । एवमर्थं एव तर्हि प्रत्ययग्रहणं कर्तव्यं अत्र मा भूतिति । न एषः तकाहरः । कः तर्हि । दकारः । यदि दकारः न ज्ञापकं भवति । एवं तर्हि तपरः तत्कालस्य इति दकारः अपि चर्त्वभूतः निर्दिश्यते । यदि एवं चर्त्वस्य असिद्धत्वात्हशि च इति उत्त्वं प्राप्नोति । सौत्रः निर्देशः । अथ वा असंहितया निर्देशः करिष्यते । अणुदित्सवर्णस्य च अप्रत्ययः , त्तपरः तत्कालस्य इति ।
(पाणिनीयसूत्र ६,१।१८६।१) कि.।१११।३-१६ रो. ईV।५१५-५१७ अदुपदेशातिति किं इदं विज्ञायते । अकारः यः उपदेशः इति आहोस्वितकारान्तं यतुपदेशः इति । किं च अतः । यदि विज्ञायते अकारः यः उपदेशः इति हतः , हथः इति अत्र अपि प्राप्नोति । अथ विज्ञायते अकारान्तं यतुपदेशः इति न दोषः भवति । ननु च अकारान्तं यतुपदेशः इति विज्ञायमाने अपि अत्र अपि प्राप्नोति । एततपि हि व्यपदेशिवद्भावेन अकारान्तं भवति उपदेशे । अर्थवता व्यपदेशिवद्भावः । यदि तर्हि अकारान्तं यतुपदेशः इति विज्ञायते मा हि धुक्षातां , मा हि धुषाथां अत्र अपि प्राप्नोति । अस्तु । अनुदात्तत्वे कृते लोपे उदात्तनिवृत्तिस्वरेण सिद्धं । न सिध्यति । इदं इह सम्प्रधार्यं । अद्नुदात्तत्वं क्रियतां लोपः इति किं अत्र कर्तव्यं । परत्वात्लोपः । एवं तर्हि इदं अद्य लसार्वधादुकानुदात्तत्वं प्रत्ययस्वरस्य अपवादः । न च अपवादविषये उत्सर्गः अभिनिविशते । पूर्वं हि अपवादाः अभिनिविशन्ते पश्चातुत्सर्गाः । प्रकल्प्य वा अपवादविषयं ततः उतस्र्गः अभिनिविशते । तत्न तावतत्र कदा चित्प्रत्ययस्वरः भवति । अपवादविषयं लसार्वधातुकानुदात्तत्वं प्रतीक्षते । तत्र आनुदात्तत्वं क्रियतां लोपः इति किं अत्र कर्तव्यं । परत्वात्लोपः । यदि अपि परत्वात्लोपः सः असौ अविद्यमानोदात्ते अनुदात्ते उदात्तः लुप्यते ।
(पाणिनीयसूत्र ६,१।१८६।२) कि.।१११।१७-२३ रो. ईV।५१७ (कात्यायन वार्तिक)तास्यादिभ्यः अनुदात्तत्वे सप्तमीनिर्देशः अभ्यस्तसिजर्थः(वार्तिकान्त) । तास्यादिभ्यः अनुदात्तत्वे सप्तमीनिर्देशः कर्तव्यः । लसार्वधातुके इति वक्तव्यं । किं प्रयोजनं । अभ्यस्तसिजर्थः । अभ्यस्तानां आदिः उदात्तः भवति लसार्वधातुके । सिजन्तस्य आदिः उदात्तः भवति लसार्वधातुके । लसार्वधातुकं इति उच्यमाने तस्य एव आद्युदात्तत्वं स्यात। यदि सप्तमीनिर्देशः क्रियते तास्यादीनां एव अनुदात्तत्वं प्राप्नोति । न एषः दोषः । तासियादिभ्यः इति एषा पञ्चमी लसार्वधातुके इति सप्तम्याः षष्ठीं प्रकल्पयिष्यति तस्मातिति उत्तरस्य इति ।
(पाणिनीयसूत्र ६,१।१८६।३) कि.।१११।२४-११३।८ रो. ईV।५१८-५२० (कात्यायन वार्तिक)चित्स्वरात्तास्यादिभ्यः अनुदात्तत्वं विप्रतिषेधेन(वार्तिकान्त) । चित्स्वरात्तास्यादिभ्यः अनुदात्तत्वं भवति विप्रतिषेधेन । चित्स्वरस्य अवकाशः चलनः , चोपनः । तास्यादिभ्यः अनुदात्तत्वस्य अवकाशः । आस्ते शेते । इह उभयं प्राप्नोति । आसीनः , शयानः । तास्यादिभ्यः अनुदात्तत्वं भवति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । किं कारणं । द्विकार्ययोगः हि विप्रतिषेधः । न च अत्र एकः द्विकार्ययुक्तः । आदेः अनुदात्तत्वं अन्तस्य उदात्तत्वं । न अवश्यं द्विकार्ययोगः एव विप्रतिषेधः । किं तर्हि। असम्भवः अपि । ननु च अत्र अपि अस्ति सम्भवः । आदेः अनुदात्तत्वं अन्तस्य उदात्तत्वं इति । अस्ति च सम्भवः यतुभयं स्यात। न एषः अस्ति सम्भवः । वक्ष्यति एतत्स्वरविधौ सङ्घातः कार्यी भवति इति । (कात्यायन वार्तिक)मुकः च उपसङ्ख्यानम्(वार्तिकान्त) । मुकः च उपसङ्ख्यानं कर्तव्यं । पचमानः , यजमानः । मुका व्यवहितत्वातदुपदेशात्लसार्वधातुकं अनुदात्तं भवति इति अनुदात्तत्वं न प्राप्नोति । ननु च अयं मुकदुपदेशभक्तः अदुपदेशग्रहणेन ग्राहिष्यते । न सिध्यति । अङ्गस्य मुकुच्यते विकरणान्तं च अङ्गं । सः असौ सङ्घातभक्तः अशक्यः मुकदुपदेशग्रहणेन ग्रहीतुं । अथ अयं अद्भक्तः स्यात्गृह्येत अयं अदुपदेशग्रहणेन । बाढं गृह्येत । अद्भक्तः तर्हि भविष्यति । तत्कथं । वक्ष्यति एतस्य परिहारं । (कात्यायन वार्तिक)इतः च उपसङ्ख्यानम्(वार्तिकान्त) । इतः च उपसङ्ख्यानं कर्तव्यं । इद्भिः च व्यवहितत्वातनुदात्तत्वं न प्राप्नोति । पचतः , पठतः । (कात्यायन वार्तिक)इतः च अनेकान्तत्वात्(वार्तिकान्त) । अनेकान्ताः अनुबन्धाः । यदि अनेकान्ताः अनुबन्धाः अदिप्रभृतिजुहोत्यादिभ्यः प्रतिषेधः वक्तव्यः । अत्तः , जुहुतः इति । अदुपदेशातिति अनुदात्तत्वं प्राप्नोति । (कात्यायन वार्तिक)तत्र अदिप्रभृतिजुहोत्यादिभ्यः अप्रतिषेधः स्थान्यादेशाभावात्(वार्तिकान्त) । तत्र अदिप्रभृतिभ्यः जुहोत्यादिभ्यः अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । अनुदात्तत्वं कस्मात्न भवति । स्थान्यादेशाभावात। न एव अत्र स्थानिनं न एव आदेशं पश्यामः । (कात्यायन वार्तिक)अनुदात्तङिद्ग्रहणात्वा(वार्तिकान्त) । अथ वा यतयं अनुदात्तङिद्ग्रहणं करोति तत्ज्ञापयति आचार्यः न लुप्तविकरणेभ्यः अनुदात्तत्वं भवति इति । न एततस्ति ज्ञापकं । श्ननर्थं एतत्स्यात। विन्दाते , खिन्दाते । यत्तर्हि ङिद्ग्रहणं करोति । न हि श्नम्विकरणः ङित्भवति । ङितः अनुदात्तत्वे विकरणेभ्यः प्रतिषेधः वक्तव्यः । चिनुतः , सुनुतः , लुनीतः , पुनीतः । ङितः इति अनुदात्तत्वं प्राप्नोति । (कात्यायन वार्तिक)ङितः अनुदात्तत्वे विकरणेभ्यः अप्रतिषेधः सर्वस्य उपदेशविशेषणत्वात्(वार्तिकान्त) । ङितः अनुदात्तत्वे विकरणेभ्यः अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । अनुदात्तत्वं कस्मात्न भवति । सर्वस्य उपदेशविशेषणत्वात। सर्वं उपदेशग्रहणेन विशेषयिष्यामः । उपदेशे अनुदात्तेतः , उपदेशे ङितः , उपदेशे अकारान्तात।
(पाणिनीयसूत्र ६,१।१८७) कि.।११३।१०-१२ रो. ईV।५२०-५२१ (कात्यायन वार्तिक)सिचः आद्युदात्तत्वे अनिटः पितः उपसङ्ख्यानम्(वार्तिकान्त) । सिचः आद्युदात्तत्वे अनिटः पितः उपसङ्ख्यानं कर्तव्यं । मा हि कर्षं , मा हि कार्षं । अनिटः इति किमर्थं । मा हि लविषं ।
(पाणिनीयसूत्र ६,१।१८८) कि.।११३।१४-१७ रो. ईV।५२१ (कात्यायन वार्तिक)स्वपादीनां वावचनातभ्यस्तस्वरः विप्रतिषेधेन(वार्तिकान्त) । स्वपादीनां वावचनातभ्यस्तस्वरः भवति विप्रतिषेधेन । स्वपादीनां वावचनस्य अवकाशः स्वपन्ति श्वसन्ति । अभ्यस्तस्वरस्य अवकाशः ददति , दधति । इह उभयं प्राप्नोति । जग्रति । अभ्यस्तस्वरः भवति विप्रतिषेधेन ।
(पाणिनीयसूत्र ६,१।१९०) कि.।११३।१९-२२ रो. ईV।५२१ (कात्यायन वार्तिक)अनुदात्ते च इति बहुव्रीहिनिर्देशः लोपयणादेशार्थम्(वार्तिकान्त) । अनुदात्ते च इति बहुव्रीहिनिर्देशः कर्तव्यः । अविद्यमानोदात्ते इति वक्तव्यं । किं प्रयोजनं । लोपयणादेशार्थं । लोपयणादेशयोः कृतयोः आद्युदात्तत्वं यथा स्यात। मा हि दधात। दधाति अत्र ।
(पाणिनीयसूत्र ६,१।१९१।१) कि.।११४।२-३ रो. ईV।५२२ (कात्यायन वार्तिक)सर्वस्वरः अनच्कस्य(वार्तिकान्त) । सर्वस्वरः अनच्कस्य इति वक्तव्यं । इह मा भूत्सर्वके ।
(पाणिनीयसूत्र ६,१।१९१।२) कि.।११४।६-११५।२ रो. ईV।५२२-५२५ भ्यादिग्रहणं किमर्थं । इह मा भूत। ददाति दधाति । न एततस्ति प्रयोजनं । अभ्यस्तस्वरः अत्र बाधकः भविष्यति । अन्ततः उभयं स्यात। अनवकाशाः खलु अपि विधयः बाधकाः भवन्ति सावकाशः च अभ्यस्तस्वरः । कः अवकाशः । मिमीते । अथ प्रत्ययग्रहणं किमर्थं । प्रत्ययात्पूर्वस्य उदात्तत्वं यथा स्यात। आटः पूर्वस्य मा भूतिति । बिभयानि । न च एव अस्ति विशेषः प्रत्ययात्वा पूर्वस्य उदात्तत्वे सति आटः वा । अपि च पिद्भक्तः पिद्ग्रहणेन ग्राहिष्यते । इदं तर्हि प्रयोजनं । प्रत्ययात्पूर्वस्य उदात्तत्वं यथा स्यात। आटः एव मा भूतिति । एततपि न अस्ति प्रयोजनं । पिद्भक्तः पिद्ग्रहणेन ग्राहिष्यते । एवं तर्हि सिद्धे सति यत्प्रत्ययग्रहणं करोति तत्ज्ञापयति आचार्यः स्वरविधौ सङ्घातः कार्यी भवति इति । किं एतस्य ज्ञापने प्रयोजनं । चित्स्वरात्तास्यादिभ्यः अनुदात्तत्वं विप्रतिषेधेन इति उक्तं । ततुपपन्नं भवति । अथ पूर्वग्रहणं किमर्थं न तस्मिनिति निर्दिष्टे पूर्वस्य इति पूर्वस्य एव भविष्यति । एवं तर्हि सिद्धे सति यत्पूर्वग्रहणं करोति तत्ज्ञापयति आचार्यः स्वरविधौ सप्तम्यः तदन्तसप्तम्यः भवन्ति इति । किं एतस्य ज्ञापने प्रयोजनं । उपोत्तमं रिति रिदन्तस्य । चङि अन्यतरस्यां चङन्तस्य । यदि एतत्ज्ञाप्यते चतुरः शसि इति शसन्तस्य अपि प्राप्नोति । शस्ग्रहणसामर्थ्यात्न भविष्यति । इतरथा हि तत्र एव अयं ब्रूयातूडिदम्पदाद्यप्पुम्रैद्युभ्यः चतुर्भ्यः च इति । अथ पिद्ग्रहणं किमर्थं । इह मा भूत। जाग्रति। न एततस्ति प्रयोजनं । भवति एव अत्र पूर्वेण । इदं तर्हि प्रयोजनं दरिद्रति । आकारेण व्यवहितत्वात्न भविष्यति । लोपे कृते न अस्ति व्यवधानं । स्थानिवद्भावाद्व्यवधानं एव । प्रतिषिध्यते अत्र स्थानिवद्भावः स्वरसन्धिं प्रति न स्थानिवतिति ।
(पाणिनीयसूत्र ६,१।१९५) कि.।११५।४-२१ रो. ईV।५२५-५२६ (कात्यायन वार्तिक)यकि रपरे उपसङ्ख्यानम्(वार्तिकान्त) । यकि रपरे उपसङ्ख्यानम्कर्तव्यं । स्तीर्यते स्वयं एव । (कात्यायन वार्तिक)उपदेशवचनात्सिद्धम्(वार्तिकान्त) । उपदेशे इति वक्तव्यं । (कात्यायन वार्तिक)उपदेशवचने जनादीनाम्(वार्तिकान्त) । उपदेशवचने जनादीनां स्वरः न सिध्यति । जयते स्वयं एव । जायते स्वयं एव । (कात्यायन वार्तिक)योगविभागात्सिद्धम्(वार्तिकान्त) । योगविभागः करिष्यते । अजन्तानां कर्तृयकि वा आदिः उदात्तः भवति । चीयते स्वयं एव । चियते स्वयं एव । जयते स्वयं एव । जायते स्वयं एव । ततः उपदेशे । उपदेशे च अजन्तानां कर्तृयकि वा आदिः उदात्तः भवति । स्तीर्यते स्वयं एव । स्तीर्यते स्वयं एव । तत्तर्हि उपदेशग्रहणं कर्तव्यं । न हि अन्तरेण उपदेशग्रहणं योगाङ्गं जायते । न कर्तव्यं । प्रकृतं अनुवर्तते । क्व प्रकृतं । तास्यनुदात्तेन्ङिददुपदेशात्लसार्वधातुकं अनुदात्तं अह्न्विङोः इति । ननु च उक्तं उपदेशवचने जनादीनां स्वरः न सिध्यति इति । न एषः दोषः । न एवं विज्ञायते उपदेशवचने जनादीनां स्वरः न सिध्यति इति । कथं तर्हि । जनादीनां अपि आत्त्वे उपदेशवचनं कर्तव्यं । तत्तर्हि तत्र उपदेशग्रहणं कर्तव्यं । न कर्तव्यं । प्रकृतं अनुवर्तते । क्व प्रकृतं । अनुदात्तोपदेशवनतितनोत्यादीनां अनुनासिकलोपः झलि क्ङिति इति ।
(पाणिनीयसूत्र ६,१।१९६) कि.।११५।२३-११६।१ रो. ईV।५२६ सेड्ग्रहणं किमर्थं न थलि इटन्तः वा इति उच्येत । इटन्तः वा इति उच्यमाने इह अपि प्रसज्येत पपक्थ । न एततस्ति प्रयोजनं । अचः इति वर्तते । इदं तर्हि प्रयोजनं ययाथ इति ।
(पाणिनीयसूत्र ६,१।२०४) कि.।११६।३-२१ रो. ईV।५२७-५२८ किमर्थं इदं उच्यते न ञ्निति आदिः नित्यं इति एव सिद्धं । ञ्निति इति उच्यते न च अत्र ञ्नितं पश्यामः । प्रत्ययलक्षणेन । न लुमता तस्मिनिति प्रत्ययलक्षणप्रतिषेधः । अङ्गाधिकारोक्तस्य सः प्रतिषेधः न लुमता अङ्गस्य इति । अतः उत्तरं पठति (कात्यायन वार्तिक)उपमानस्य आद्युदात्तवचनं ज्ञापकं अनुबन्धलक्षणे स्वरे प्रत्ययलक्षणप्रतिषेधस्य(वार्तिकान्त) । उपमानस्य आद्युदात्तवचनं ज्ञापकार्थं क्रियते । किं ज्ञाप्यते । एतत्ज्ञापयति आचार्यः अनुबन्धलक्षणे स्वरे प्रत्ययलक्षणं न भवति इति । किं एतस्य ज्ञापने प्रयोजनं । गर्गः , वत्सः , बिदः , उर्वाः , उष्ट्रग्रीवः , वामरज्जुः : ञ्निति इति आद्युदात्तत्वं मा भूतिति । इह च : अत्रयः इति : तद्धितस्य कितः इति अन्तोदात्तत्वं न भवति । यदि अनुबन्धलक्षणे इति उच्यते पथिप्रियः , मथिप्रियः इति : पथिमथोः सर्वनामस्थाने इति आद्युदात्तत्वं प्राप्नोति । एवं तर्हि आचार्यः ज्ञापयति स्वरे प्रत्ययलक्षणं न भवति इति । एवं अपि सर्पिः आगच्छ , सप्त आगच्छत इति : आमन्त्रितस्य च इति आद्युदात्तत्वं न प्राप्नोति । इह च : म हि दतां , म हि धतां : आदिः सिचः अन्यतरस्यां इति एषः स्वरः न प्राप्नोति । एवं तर्हि ज्ञापयति आचार्यः सप्तमीनिर्दिष्टे स्वरे प्रत्ययलक्षणं न भवति इति । एवं अपि सर्वस्तोमः , सर्वपृष्ठः : सर्वस्य सुपि इति आद्युदात्तत्वं न प्राप्नोति । अस्तु तर्हि अनुबन्धलक्षणे इति एव । कथं पथिप्रियः , मथिप्रियः । वक्तव्यं एव एततः पथिमथोः सर्वनामस्थाने लुकि लुमता लुप्ते प्रत्ययलक्षणं न भवति इति ।
(पाणिनीयसूत्र ६,१।२०५) कि.।११६।२३-११७।१२ रो. ईV।५२९-५३० (कात्यायन वार्तिक)निष्ठायां यञि दीर्घत्वे प्रतिषेधः(वार्तिकान्त) । निष्ठायां यञि दीर्घत्वे प्रतिषेधः वक्तव्यः । दत्ताभ्यां , गुप्ताभ्यां । (कात्यायन वार्तिक)न वा बहिरङ्गलक्षणत्वात्(वार्तिकान्त) । न वा वक्तव्यं । किं कारणं । बहिरङ्गलक्षणत्वात। बहिरङ्गः अत्र दीर्घः , अन्तरङ्गः स्वरः । असिद्धं बहिरङ्गं अन्तरङ्गे । अन्तरेण प्रतिषेधं अन्तरेण च एतां परिभाषां सिद्धं । कथं । न एवं विज्ञायते न चेताकारान्ता निष्ठा इति । कथं तर्हि । न चेताकारात्परा निष्ठा इति । यदि एवं निर्देशः च एव न उपपद्यते । न हि एषा आकारात्परा पञ्चमी युक्ता । इह च प्राप्नोति । आप्तः , राद्धः इति । एवं तर्हि न चेतवर्णात्परा निष्ठा इति । भवेत्निर्देशः उपपन्नः । इह तु प्राप्नोति । आप्तः , राद्धः इति । इह च न प्राप्नोति । यतः , रतः । एवं तर्हि विहितविशेषणं अकारग्रहणं । न चेतकारारान्तात्विहिता निष्ठा इति । एवं अपि दत्तः , अत्र न प्राप्नोति इह च प्राप्नोति । आप्तः , राद्धः इति । एवं तर्हि कार्यिविशेषणं अकारग्रहणं । न चेताकारारः कार्यी भवति । एवं अपि अद्य अष्टः , कदा अष्टः , अत्र न प्राप्नोति । तस्मात्सुष्ठु उच्यते निष्ठायां यञि दीर्घत्वे प्रतिषेधः , न वा बहिरङ्गलक्षणत्वातिति ।
(पाणिनीयसूत्र ६,१।२०७) कि.।११७।१४-१९ रो. ईV।५३० किं निपात्यते । (कात्यायन वार्तिक)आशिते कर्तरि निपातनं उपधादीर्हत्वं आद्युदात्तत्वं च(वार्तिकान्त) । आशितः इति क्तः कर्तरि निपात्यते उपधादीर्हत्वं । आशितवानाशितः । आद्युदात्तत्वं च निपात्यते । आद्युदात्तत्वं अनिपात्यं । अधिकारात्सिद्धं । उपधादीर्हत्वं अनिपात्यं । आङ्पूर्वस्य प्रयोगः । यदि एवं अवग्रहः प्राप्नोति । न लक्षणेन पदकाराः अनुवर्त्याः । पद्कारैः नाम लक्षणं अनुवर्त्यं । यथालक्षणं पदं कर्तव्यं ।
(पाणिनीयसूत्र ६,१।२०८, २१५) कि.।११७।२२-११८।३ रो. ईV।५३१ किं इयं प्राप्ते विभाषा आहोस्वितप्राप्ते । कथं च प्राप्ते कथं वा अप्राप्ते । यदि सञ्ज्ञायां उपमानं , निष्ठा च द्व्यचनातिति नित्ये प्राप्ते आरम्भः तत प्राप्ते अन्यत्र वा अप्राप्ते । (कात्यायन वार्तिक)वेणुरिक्तयोः अप्राप्ते(वार्तिकान्त) । वेणुरिक्तयोः अप्राप्ते विभाषा प्राप्ते नित्यः विधिः । वेणुः इव वेणुः । रिक्तः नाम कः चित।
(पाणिनीयसूत्र ६,१।२१७) कि.।११८।५-८ रो. ईV। ५३१ उपोत्तमग्रहणं किमर्थन्न रिति पूर्वं इति एव उच्येत । तत्र अयं अपि अर्थः । मतोः पूर्वं आत्सञ्ज्ञायां स्त्रियां इति अत्र पूर्वग्रहणं न कर्तव्यं भवति । एवं तर्हि उपोत्तमग्रहणं उत्तरार्थं । चङि अन्यतरस्यां उपोत्तमं इति एव । इह मा भूत। मा हि स्म दधत।
(पाणिनीयसूत्र ६,१।२२०-२२१) कि.।११८।११-१५ रो. ईV।५३२ किमर्थं इदं उच्यते न वत्याः इति एव उच्यते । वत्याः इति इयति उच्यमाने राजवती , अत्र अपि प्रसज्येत । अथ अवत्याः इति उच्यमाने कस्मातेव अत्र न भवति । असिद्धः नलोपः । तस्य असिद्धत्वात्न एषः अवतीशब्दः । कः तर्हि । अन्वतीशब्दः । यथा एव तर्हि नलोपस्य असिद्धत्वात्न अवतीशब्दः एवं वत्वस्य अपि असिद्धत्वात्न अवतीशब्दः । आश्रयात्सिद्धत्वं स्यात।
(पाणिनीयसूत्र ६,१।२२२) कि.।११८।१७-११९।१४ रो. ईV।५३२-५३४ (कात्यायन वार्तिक)चोः अतद्धिते(वार्तिकान्त) । चुस्वरः अतद्धिते इति वक्तव्यं । इह मा भूत। दाधीचः , माधूचः इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । प्रत्ययस्वरः अत्र बाधकः भविष्यति । स्थानान्तरप्राप्तः चुस्वरः । प्रत्ययस्वरस्य अपवादः अनुदात्तौ सुप्पितौ इति । अनुदात्तौ सुप्पितौ इति अस्य उदात्तनिवृत्तिस्वरः । उदात्तनिवृत्तिस्वरस्य चुस्वरः । सः यथा एव उदात्तनिवृत्तिस्वरं बाधते एवं प्रत्ययस्वरं अपि बाधेत । न अत्र उदात्तनिवृत्तिस्वरः प्राप्नोति । किं कारणं । न गोश्वन्साववर्ण इति प्रतिषेधात। न एषः उदात्तनिवृत्तिस्वरस्य प्रतिषेधः । कस्य तर्हि । तृतीयादिस्वरस्य । यत्र तर्हि तृतीयादिस्वरः न अस्ति दधीचः पश्य इति । एवं तर्हि न तृतीयादिलक्षणस्य प्रतिषेधं षिष्मः । किं तर्हि । येन केन चित्लक्षणेन प्राप्तस्य विभक्तिस्वरस्य प्रतिषेधं । यदि विभक्तिस्वरस्य प्रतिषेधः वृक्षवान्, प्लक्षवानत्र न प्राप्नोति । मतुब्ग्रहणं अपि प्रकृतं अनुवर्तते । क्व प्रकृतं । ह्रस्वनुड्भ्यां मतुपिति । यदि ततनुवर्तते वेतस्वानिति अत्र प्राप्नोति । मतुब्ग्रहणं अनुवर्तते ड्मतुप्च एषः । यदि तरि मतुब्ग्रहणे ड्मतुपः ग्रहणं न भवति वेतस्वानिति अत्र वत्वं न प्राप्नोति । सामान्यग्रहणं वत्वे इह पुनः विशिष्टस्य ग्रहणं । यत्र तर्हि विभक्तिः न अस्ति दधीची इति । यदि पुनः अयं उदात्तनिवृत्तिस्वरस्य अपि प्रतिषेधः विज्ञायेत । न एवं शक्यं । इह अपि प्रसज्येत कुमारी इति । सतिशिष्टः खलु अपि चुस्वरः । कथं । चौ इति उच्यते । यत्र अस्य एतत्रूपं । अजादौ असर्वनामस्थाने अभिनिर्वृत्ते अकारलोपे नकारलोपे च । तस्मात्सुष्थु उच्यते चोः अतद्धिते इति ।
(पाणिनीयसूत्र ६,१।२२३) कि.।११९।१६-१२०।२४ रो. ईV।५३४-५३७ (कात्यायन वार्तिक)समासान्तोदात्तत्वे व्यञ्जनान्तेषु उपसङ्ख्यानम्(वार्तिकान्त) । समासान्तोदात्तत्वे व्यञ्जनान्तेषु उपसङ्ख्यानं कर्तव्यं : राजदृषत्, ब्राह्मणसमित। (कात्यायन वार्तिक)हल्स्वरप्राप्तौ वा व्यञ्जनं अविद्यमानवत्(वार्तिकान्त) । अथ वा हल्स्वरप्राप्तौ व्यञ्जनं अविद्यमानवत्भवति इति एषा परिभाषा कर्तव्या । किमर्थं इदं उभयं उच्यते न हल्स्वरप्राप्तौ अविद्यमानवतिति एव उच्यते स्वरप्राप्तौ व्यञ्जनं अविद्यमानवत्भवति इति वा । द्विर्बद्धं सुबद्धं भवति इति । यदि हल्स्वरप्राप्तौ व्यञ्जनं अविद्यमानवतिति उच्यते दधि , उदात्तातनुदात्तस्य स्वरितः इति स्वरितत्वं न प्राप्नोति । उदात्तात्च स्वरविधौ व्यञ्जनं अविद्यमानवत्भवति इति एषा परिभाषा कर्तव्या । कानि एतस्याः परिभाषायाः प्रयोजनानि । (कात्यायन वार्तिक)प्रयोजनं लिदाद्युदात्तान्तोदात्त्विधयः(वार्तिकान्त) । लिति प्रत्ययात्पूर्वं उदात्तं भवति इति इह एव स्यातः भौरिकिविधं , भौलिकिविधं । चिकीर्षकः , जिहीर्षकः इति अत्र न स्यात। ञ्निति आदिः नित्यं इति इह एव स्यातः अहिचुम्बुकायनिः , आग्निवेश्यः । गार्ग्यः , कृतिः इति अत्र न स्यात। धातोः अन्तः उदात्तः भवति इति इह एव स्यातूर्णोति । पचति इति अत्र न स्यात। इदं तावत्यतुच्यते हल्स्वरप्राप्तौ व्यञ्जनं अविद्यमानवत्भवति इति कथं हि हलः नाम स्वरप्राप्तिः स्यात। तत्च अपि ब्रुवता उदात्तात्च स्वरविधौ इति वक्तव्यं । तथा अनुदात्तादेः अन्तोदात्तात्च यतुच्यते तत्व्यञ्जनादेः व्यञ्जनान्तात्च न प्राप्नोति । यदि पुनः स्वरविधौ व्यञ्जनं अविद्यमानवत्भवति इति उच्येत । अथ स्वरविधौ व्यञ्जनं अविद्यमानवत्भवति इति उच्यमाने अनुदात्तादेः अन्तोदात्तात्च यतुच्यते तत्किं सिद्धं भवति व्यञ्जनादेः व्यञ्जनान्तात्च । बाढं सिद्धं । कथं । स्वरविधिः इति सर्वविभक्त्यन्तः समासः : स्वरेण विधिः स्वरविधिः , स्वरस्य विधिः स्वरविधिः इति । न एवं शक्यं । इह हि दोषः स्यात। उदश्वित्वान्घोषः , विद्युत्वान्बलाहकः इति । ह्रस्वनुड्भ्यां मतुपिति एषः स्वरः प्रसज्येत । अस्तु तर्हि हल्स्वरप्राप्तौ व्यञ्जनं अविद्यमानवत्भवति इति । ननु च उक्तं कथं हि हलः नाम स्वरप्राप्तिः स्यात। उच्चैः उदात्तः , नीचैः अनुदात्तः इति अत्र षष्ठीनिर्दिष्टं अज्ग्रहणं निवृत्तं । तस्मिन्निवृत्ते हलः अपि स्वरप्राप्तिः भवति । यतपि उच्यते उदात्तात्च स्वरविधौ इति वक्तव्यं इति । न वक्तव्यं । न इदं पारिभाषिकस्य अनुदात्तस्य ग्रहणं । किं तर्हि । अन्वर्थग्रहणं । अविद्यमानोदात्तं अनुदात्तं । तस्य स्वरितः इति । यतपि उच्यते तत्व्यञ्जनादेः व्यञ्जनान्तात्च न प्राप्नोति इति । आचार्यप्रवृत्तिः ज्ञापयति सिद्धं तत्भवति व्यञ्जनादेः व्यञ्जनान्तात्च इति यतयं न उत्तरपदे अनुदात्तादौ इति उक्त्वा अपृथिवीरुद्रल्क्पूषमन्थिषु इति प्रतिषेधं शास्ति । सा तर्हि एषा परिभाषा कर्तव्या । न कर्तव्या । आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाषा यतयं यतः अनावः इति नावः प्रतिषेधं शास्ति ।
(पाणिनीयसूत्र ६,२।१) कि.।१२१।२-१२३।३ रो. ईV।५३८-५४२ किमर्थं इदं उच्यते । (कात्यायन वार्तिक)बहुव्रीहिस्वरं शास्ति समासान्तविधेः सुकृत्(वार्तिकान्त) । सुकृताचार्यः समासान्तोदात्तत्वे प्राप्ते बहुव्रीहिस्वरं अपवादं शास्ति । न एततस्ति प्रयोजनं । (कात्यायन वार्तिक)नञ्सुभ्यां नियमार्थं तु(वार्तिकान्त) । नञ्सुभ्यां इति एतत्नियमार्थं भविष्यति । नञ्सुभ्यां एव बहुव्रीहेः अन्तः उदात्तः भवति न अन्यस्य इति । एवं अपि कुततेतत्पूर्वपदप्रकृतिस्वरत्वं भविष्यति न पुनः परस्य इति । (कात्यायन वार्तिक)परस्य शितिशासनात्(वार्तिकान्त) । शितेः नित्याबह्वचिति एतत्नियमार्थं भविष्यति । शितेः एव न अन्यतः इति । यत्तावतुच्यते नञ्सुभ्यां नियमार्थं इति (कात्यायन वार्तिक)क्षेपे विधिः नञः असिद्धः(वार्तिकान्त) । उदराश्वेषुषु क्षेपे इति एतस्मिन्प्राप्ते ततः एततुच्यते । यतपि उच्यते परस्य शितिशासनातिति (कात्यायन वार्तिक)परस्य नियमः भवेत्(वार्तिकान्त) । परस्य एषः नियमः स्यात। शितेः नित्याबह्वचिति । यदि पूर्वपदप्रकृतिस्वरं समासान्तोदात्तत्वं बाधते चप्रियः वाप्रियः , अत्र अपि प्राप्नोति । (कात्यायन वार्तिक)अन्तः चवाप्रिये सम्भवात्(वार्तिकान्त)। अन्तोदात्तत्वं चवाप्रिये सिद्धं । कुतः । सम्भवात। असति खलु अपि सम्भवे बाधनं भवति । अस्ति च सम्भवः यतुभयं स्यात। सति अपि सम्भवे बाधनं भवति । तत्यथा । दधि ब्राह्मणेभ्यः दीयतां तक्रं कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानं निवर्तकं भवति । एवं इह अपि सति अपि सम्भवे पूर्वपदप्रकृतिस्वरं समासान्तोदात्तत्वं बाधिष्यते । एवं तर्हि (कात्यायन वार्तिक)प्रकृतात्विधेः (वार्तिकान्त)। बहुव्रीहौ प्र्कृत्या पूर्वपदं प्रकृतिस्वरं भवति इति । किं च प्रकृतं । उदात्तः इति च वर्तते । एवं अपि कार्यप्रियः , हार्यप्रियः , अत्र न प्राप्नोति । स्वरिते अपि उदात्तः अस्ति । अथ वा स्वरितग्रहणं अपि प्रकृतं अनुवर्तते । क्व प्रकृतं । तित्स्वरितं इति । (कात्यायन वार्तिक)बहुव्रीहौ ऋते सिद्धं (वार्तिकान्त)। अन्तरेण अपि बहुव्रीहिग्रहणं सिद्धं । तत्पुरुषे कस्मात्न भवति । तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः इति एतत्नियमार्थं भविष्यति । द्विगौ तर्हि कस्मात्न भवति । इगन्ते द्विगौ इति एतत्नियमार्थं भविष्यति । द्वन्द्वे तर्हि प्राप्नोति । राजन्यबहुवचनद्वन्द्वे अन्धकवृष्णिषु इति एतत्नियमार्थं भविष्यति । अव्ययीभावे तर्हि प्राप्नोति । परिप्रत्युपापाः वर्ज्यमानाहोरात्रावयवेषु इति एतत्नियमार्थं भविष्यति । एवं अपि कुतः एततेवं नियमः भविष्यति एतेषां एव तत्पुरुषादिषु इति न पुनः एवं नियमः स्यातेतेषां तत्पुरुषादिषु एव इति । (कात्यायन वार्तिक)इष्टतः च अवधारणम्(वार्तिकान्त) । इष्टतः च अवधारणं भविष्यति । एतेषां तर्हि बहुव्रीहेः च पर्यायः प्राप्नोति । (कात्यायन वार्तिक)द्विपाद्दिष्टेः वितस्तेः च पर्यायः न प्रकल्पते (वार्तिकान्त)। यतयं द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ दिष्टिवितस्योः च इति सिद्धे पर्याये पर्यायं शास्ति तत्ज्ञापयति आचार्यः न पर्यायः भवति इति । (कात्यायन वार्तिक)उदात्ते ज्ञापकं तु एतत्(वार्तिकान्त)। उदात्ते एतत्ज्ञापकं स्यात। (कात्यायन वार्तिक)स्वरितेन समाविशेत्(वार्तिकान्त)। स्वरितेन समावेशः प्राप्नोति । स्वरिते अपि उदात्तः अस्ति । (कात्यायन वार्तिक)बहुव्रीहिस्वरं शास्ति समासान्तविधेः सुकृत। नञ्सुभ्यां नियमार्थं तु । परस्य शितिशासनात। क्षेपे विधिः नञः असिद्धः । परस्य नियमः भवेत। अन्तः चवाप्रिये सम्भवात। प्रकृतात्विधेः । बहुव्रीहौ ऋते सिद्धं । इष्टतः च अवधारणं । द्विपाद्दिष्टेः वितस्तेः च पर्यायः न प्रकल्पते । उदात्ते ज्ञापकं तु एतत। स्वरितेन समाविशेत्(वार्तिकान्त)।
(पाणिनीयसूत्र ६,२।२) कि.।१२३।५-२१ रो. ईV।५४२-५४३ (कात्यायन वार्तिक)तत्पुरुषे विभक्तिप्रकृतिस्वरत्वे कर्मधारये प्रतिषेधः(वार्तिकान्त) । तत्पुरुषे विभक्तिप्रकृतिस्वरत्वे कर्मधारये प्रतिषेधः वक्तव्यः । परमं कारकं परमकारकं परमेन कारकेण परमकारकेण , परमे कारके परमकारके । (कात्यायन वार्तिक)सिद्धं तु लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव ग्रहणात्(वार्तिकान्त) । सिद्धं एतत। कथं । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति प्रतिपदं यः द्वितीयातृतीयासप्तमीसमासः तस्य ग्रहणं लक्षणोक्तः च अयं । अव्यये परिगणनं कर्तव्यं । (कात्यायन वार्तिक)अव्यये नञ्कुनिपातानाम्(वार्तिकान्त) । अव्यये नञ्कुनिपातानां इति वक्तव्यं । नञ। अब्राह्मणः , अवृषलः । नञ। कु । कुब्राह्मणः , कुवृषलः । कु । निपात । निष्कौशाम्बिः , निर्वाराणसिः । क्व मा भूत। स्नात्वाकालकः , पीत्वास्थिरकः । (कात्यायन वार्तिक)क्त्वायां वा प्रतिषेधः(वार्तिकान्त) । क्त्वायां वा प्रतिषेधः वक्तव्यः । स्नात्वाकालकः , पीत्वास्थिरकः । उभयं न वक्तव्यं । (कात्यायन वार्तिक)निपातनात्सिद्धम्(वार्तिकान्त) । निपातनातेतत्सिद्धं । किं निपातनं । अवश्यं अत्र समासार्थं ल्यबभावार्थं च निपातनं कर्तव्यं । तेन एव यत्नेन स्वरः भविष्यति ।
(पाणिनीयसूत्र ६,२।११) कि.।१२३।२३-१२४।१२ रो. ईV।५४४ (कात्यायन वार्तिक)सदृशग्रहणं अनर्थकं तृतीयासमासवचनात्(वार्तिकान्त) । सदृशग्रहणं अनर्थकं । किं कारणं । तृतीयासमासवचनात। सदृशशब्देन तृतीयासमासः उच्यते । तत्र तृतीयापूर्वपदं प्रकृतिस्वरं भवति इति एव सिद्धं । षष्ठ्यर्थं तर्हि इदं वक्तव्यं । पितुः सदृशः पितृसदृशः इति । (कात्यायन वार्तिक)षष्ठ्यर्थं इति चेत्तृतीयासमासवचनानर्थक्यम्(वार्तिकान्त) । षष्ठ्यर्थं इति चेत्तृतीयासमासवचनं अनर्थकं स्यात। किं कारणं । इह अस्माभिः त्रैशब्द्यं साध्यं । पित्रा सदृशः पितुः सदृशः पितृसदृशः इति । तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरेण समासः भविष्यति अविरविकन्यायेन । तत्यथा अवेः मांसं इति विगृह्य अविकशब्दातुत्पत्तिः भवति , आविकं इति एवं पितुः सदृशः इति विगृह्य पितृसदृशः इति भविष्यति पित्रा सदृशः इति विगृह्य वाक्यं एव । अवश्यं तृतीयासमासः वक्तव्यः यत्र षष्ठ्यर्थः न अस्ति तदर्थं । भोजनसदृशः , अधययनसदृशः इति । यदि तर्हि तस्य निबन्धनं अस्ति ततेव वक्तव्यं इदं न वक्तव्यं । इदं अपि अवश्यं वक्तव्यं यत्र षष्ठी श्रूयते तदर्थं । दास्याःसदृशः , वृषल्याःसदृशः इति ।
(पाणिनीयसूत्र ६,२।२९) कि.।१२४।१४-१९ रो. ईV।५४५ (कात्यायन वार्तिक)इगन्तप्रकृतिस्वरत्वे यण्गुणयोः उपसङ्ख्यानम्(वार्तिकान्त) । इगन्तप्रकृतिस्वरत्वे यण्गुणयोः उपसङ्ख्यानं कर्तव्यं । पञ्चारत्न्यः , दशारतन्यः । यण्गुणयोः कृतयोः इगन्ते द्विगौ इति एषः स्वरः न प्राप्नोति । (कात्यायन वार्तिक)न वा बहिरङ्गलक्षणत्वात्(वार्तिकान्त) । न वा वक्तव्यं । किं कारणं । बहिरङ्गलक्षणत्वात। बहिरङ्गौ यण्गुणौ । अन्तरङ्गः स्वरः । असिद्धं बहिरङ्गं अन्तरङ्गे ।
(पाणिनीयसूत्र ६,२।३३) कि.।१२४।२१-१२५।८ रो. ईV।५४५-५४६ (कात्यायन वार्तिक)परिप्रत्युपापेभ्यः वनं समासे विप्रतिषेधेन(वार्तिकान्त) । परिप्रत्युपापेभ्यः वनं समासे इति एतत्भवति विप्रतिषेधेन । परिप्रत्युपापाः वर्ज्यमानाहोरातावयवेषु इति अस्य अवकाशः परित्रिगर्तम्, परिसौवीरं । वनं समासे इति अस्य अवकाशः प्रवणे यष्टव्यं । इह उभयं प्राप्नोति परिवनं अपवनं । वनं समासे इति एतत्भवति विप्रतिषेधेन । (कात्यायन वार्तिक)न वा वनस्यान्दोदात्तत्ववचनं तदपवादनिवृत्त्यर्थम्(वार्तिकान्त) । न वा अर्थः विप्रतिषेधेन । किं कारणं । वनस्यान्दोदात्तत्ववचनं तदपवादनिवृत्त्यर्थं । सिद्धं अत्र अन्तोदात्तत्वं उत्सर्गेण एव । तस्य पुनर्वचने एतत्प्रयोजनं । ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थं । सः यथा एव तदपवादं अव्ययस्वरं बाधते एवं इदं अपि बाधिष्यते ।
(पाणिनीयसूत्र ६,२।३६) कि.।१२५।१०-१६ रो. ईV।५४६-५४७ (कात्यायन वार्तिक)आचार्योपसर्जने अनेकस्य अपि पूर्वपदत्वात्सन्देहः(वार्तिकान्त) । आचार्योपसर्जने अनेकस्य अपि पूर्वपदत्वात्सन्देहः भवति । आपिशलपाणिनीयव्याडीयगौतमीयाः । एकं पदं वर्जयित्वा सर्वाणि पूर्वपदानि । तत्र न ज्ञायते कस्य पूर्वपदस्य प्रकृतिस्वरेण भवितव्यं इति । (कात्यायन वार्तिक)लोकविज्ञानात्सिद्धम्(वार्तिकान्त) । तत्यथा लोके , अमीषां ब्राह्मणानां पूर्वं आनय इति यः सर्वपूर्वः सः आनीयते एवं इह अपि यत्सर्वपूर्वपदं तस्य प्रकृतिस्वरत्वं भविष्यति ।
(पाणिनीयसूत्र ६,२।३८) कि.।१२५।१९-२१ रो. ईV।५४७ किमर्थं महतः प्रवृद्धशब्दे उत्तरपदे पूर्वपदप्रकृतिस्वरत्वं उच्यते न कर्मधारये अनिष्ठा इति एव सिद्धं । न सिध्यति । किं कारणं । श्रेण्यादिसमासे एवत्ततिह मा भूत्, महानिरष्टः दक्षिणा दीयते ।
(पाणिनीयसूत्र ६,२।४२) कि.।१२६।३-१४ रो. ईV।५४७-५४९ (कात्यायन वार्तिक)कुरुवृज्योः गार्हपते(वार्तिकान्त) । कुरुवृज्योः गार्हपते इति वक्तव्यं । कुरुगार्हपतं , वृजिगाऋहपतं । कुरुगार्हपतरिक्तरुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैलिकद्रूःपण्यकमबलः दासीभारादीनां इति वक्तव्यं । इह अपि यथा स्यात। देवहूतिः , देवनीतिः , वसुनीतिः , ओषधिः , चन्द्रमाः । तत्तर्हि वक्तव्यं । न वक्तव्यं । योगविभागः करिष्यते । कुरुगार्हपतरिक्तरुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैलिकद्रूःपण्यकमबलः इति । ततः दासीभाराणां च इति । तत्र बहुवचननिर्देशात्दासीभारादीनां इति विज्ञास्यते । (कात्यायन वार्तिक)पण्यकम्बलः सञ्ज्ञायाम्(वार्तिकान्त) । पण्यकम्बलः सञ्ज्ञायां इति वक्तव्यं । यः पणितव्यः कम्बलः पण्यकम्बलः एव असौ भवति । अपरः आह : पण्यकम्बलः एव यथा स्यात। क्व मा भूत। पण्यगवः , पण्यहस्ती ।
(पाणिनीयसूत्र ६,२।४७) कि.।१२६।१६-२० रो. ईV।५४९ अहीने इति किमर्थं । कान्तारातीतः , योजनातीतः । (कात्यायन वार्तिक)अहीने द्वितीया अनुपसर्गे(वार्तिकान्त) । अहीने द्वितीया अनुपसर्गे इति वक्तव्यं । इह मा भूत। सुखप्राप्तः , दुःखप्राप्तः । तत्तर्हि वक्तव्यं । यदि अपि एततुच्यते अथ वा एतर्हि अहीनग्रहणं न करिष्यते । इह अपि कान्तारातीतः , योजनातीतः इति अनुपसर्गे इति एव सिद्धं ।
(पाणिनीयसूत्र ६,२।४९) कि.।१२६।२२-१२८।१४ रो. ईV।५५०-५५५ अनन्तरः इति किमर्थं । इह मा भूत। अभ्युद्धृतं , उपसमाहृतं । (कात्यायन वार्तिक)गतेः अनन्तरग्रहणं अनर्थकं गतिः गतौ अनुदात्तवचनात्(वार्तिकान्त) । गतेः अनन्तरग्रहणं अनर्थकं । किं कारणं । गतिः गतौ अनुदात्तवचनात। गतौ परतः गतेः अनुदात्तत्वं उच्यते । तत्बाधकं भविष्यति । (कात्यायन वार्तिक)तत्र यस्य अप्रकृतिस्वरत्वं तस्मातन्तोदात्तप्रसङ्गः(वार्तिकान्त)। तत्र यस्य गतेः अप्रकृतिस्वरत्वं तस्मातन्तोदात्तत्वं प्राप्नोति अन्तः थाथघञ्क्ताजबित्रकाणां इति । (कात्यायन वार्तिक)प्रकृतिस्वरवचनात्हि अननोदात्तत्वम्(वार्तिकान्त) । प्रकृतिस्वरवचनसामर्थ्यात्हि अन्तोदात्तत्वं न भविष्यति । यदि हि स्यात्प्रकृतिस्वरवचनं इदानीं किमर्थं स्यात। (कात्यायन वार्तिक)प्रकृतिस्वरवचनं किमर्थं इति चेतेकगत्यर्थम्(वार्तिकान्त) । प्रकृतिस्वरवचनं किमर्थं इति चेतेकगत्यर्थं । यत्र एकः गतिः तदर्थं एतत्स्यात। प्रकृतं , प्रहृतं । एवमर्थं एव तर्हि अनन्तग्रहणं कर्तव्यं अत्र यथा स्यात। क्रियमाणे अपि वै अनन्तग्रहणे अत्र न सिध्यति । किं कारणं । गतिः अनन्तरः पूर्वपदं प्रकृतिस्वरं भवति इति उच्यते । यः च अत्र गतिः अनन्तरः न असौ पूर्वपदं यः च पूर्वपदं न असौ अनन्तरः । अपूर्वपदार्थं तर्हि इदं वक्तव्यं । अपूर्वपदस्य अपि गतेः प्रकृतिस्वरत्वं यथा स्यात। (कात्यायन वार्तिक)अपूर्वपदार्थं इति चेत्कारके अतिप्रसङ्गः(वार्तिकान्त) ।अपूर्वपदार्थं इति चेत्कारके अतिप्रसङ्गः भवति । आगतः , दूरादागतः । सः यथा एव गतिपूर्वपदस्य भवति एवं कारकपूर्वपदस्य अपि प्राप्नोति । (कात्यायन वार्तिक)सिद्धं तु गतेः अन्तोदात्ताप्रसङ्गात्(वार्तिकान्त) । सिद्धं एतत। कथं ।यत्तत्गतेः अन्तोदात्ताप्रसङ्गातन्तः थाथघञ्क्ताजबित्रकाणां इति एतत्गतेः न प्रसङ्क्तव्यं । किं कृतं भवति । कृत्स्वरापवादः अयं भवति । तत्र गतिः अनन्तरः इति अस्य अवकाशः प्रकृतं , प्रहृतं । अन्तः थाथघञ्क्ताजबित्रकाणां इति अस्य अवकाशः , दूराद्गतः , दूराद्यातः । इह उभयं प्राप्नोति । आगतः , दूरादागतः । अन्तः थाथघञ्क्ताजबित्रकाणां इति एतत्भवति विप्रतिषेधेन । अवश्यं गतेः तत्प्रसङ्क्तव्यं भेदः प्रभेदः इति एवमर्थं । एवं तर्हि योगविभागः करिष्यते । अन्तः थाथघञ्क्ताजबित्रकाणां इति । ततः क्तः । क्तान्तं उत्तरपदं अन्तोदात्तं भवति । अत्र कारकोपपदग्रहणं । अनुवर्तते गतिग्रहणं निवृत्तं । अथ वा उपरिष्टाद्योगविभागः करिष्यते । इदं अस्ति सूपमानात्क्तः , सञ्ज्ञायां अनाचितादीनां , प्रवृद्धादीनां च इति । ततः वक्ष्यामि कारकात। कारकात्च क्तान्तं उत्तरपदं अन्तोदात्तं भवति । ततः दत्तश्रुतयोः एव आशिषि कारकातिति । एवं च कृत्वा न अर्थः अनन्तग्रहणेन । कथं अभ्युद्धृतं । उत्हरतिक्रियं विशिनष्टि । उदा विशिष्टं अभिः विशिनष्टि । । तत्र गतिः अनन्तरः इति च प्राप्नोति गतिः गतौ इति च । गतिः अनन्तरः इति अस्य अवकाशः प्रकृतं प्रहृतं । गतिः गतौ इति अस्य अवकाशः अभि उत्हरति , उप सं आ दधाति । इह उभयं प्राप्नोति , अभ्युद्धृतं , उपसमाहृतं । गतिः गतौ इति एतत्भवति विप्रतिषेधेन ।एवं तर्हि सिद्धे सति यतनन्तरग्रहणं करोति तत्ज्ञापयति आचार्यः भवति एषा परिभाषा कृद्ग्रहणे गतिकारकपूर्वस्य अपि इति । किं एतस्य ज्ञापने प्रयोजनं । अवतप्तेनकुलस्थितं ते एतत्, उदकेविशीर्णं ते एतत। सगतिकेन सनकुलेन समासः सिद्धः भवति ।
(पाणिनीयसूत्र ६,२।५०) कि.।१२८।१६-१२९।२ रो. ईV।५५५-५५६ कृद्ग्रहणं किमर्थं । यथा तकारादिग्रह्णं कृद्विशेषणं विज्ञायेत । तकारादौ निति कृति इति । अथ अक्रियमाणे कृद्ग्रहणे कस्य तकारादिग्रह्णं विशेषणं स्यात। उत्तरपदविशेषणं । तत्र कः दोषः । इह एव स्यात्प्रतरिता प्रतरितुं । इह न स्यात्प्रकर्ता प्रकर्तुं । (कात्यायन वार्तिक)तादौ निति कृद्ग्रहणानर्थक्यम्(वार्तिकान्त) । तादौ निति कृद्ग्रहणं अनर्थकं । क्रियमाणे अपि कृद्ग्रहणे अनिष्टं शक्यं विज्ञातुं । तकारादौ उत्तरपदे निति कृति इति । अक्रियमाणे च इष्टं । नित्यः तकारादिः तदन्ते उत्तरपदे इति । यावता क्रियमाणे अपि अनिष्टं विज्ञायते अक्रियमाणे च इष्टं अक्रियमाणे एव इष्टं विज्ञास्यामः । (कात्यायन वार्तिक)कृदुपदेशे वा ताद्यर्थं इडर्थम्(वार्तिकान्त) ।कृदुपदेशे तर्हि ताद्यर्थं इडर्थं कृद्ग्रहणं कर्तव्यं । कृदुपदेशे यः तकारादिः इति एवं यथा विज्ञायेत । किं प्रयोजनं । इडर्थं । इडादौ अपि सिद्धं भवति । प्रलविता प्रलवितुं ।
(पाणिनीयसूत्र ६,२।५२।१) कि.।१२९।४-२१ रो. ईV।५५६-५५७ (कात्यायन वार्तिक)अनिगन्तप्रकृतिस्वरत्वे यणादेशे प्रकृतिस्वरभावप्रसङ्गः(वार्तिकान्त) । अनिगन्तप्रकृतिस्वरत्वे यणादेशे प्रकृतिस्वरभावः प्राप्नोति । प्रत्यङ्प्रत्यञ्चौ प्रत्यञ्चः । अनिगन्तवचनं इदानीं किमर्थं स्यात। (कात्यायन वार्तिक)अनिगन्तवचनं किमर्थं इति चेतयणादिष्टार्थम्(वार्तिकान्त) । अयणादिष्टार्थं एतत्स्यात। यदा यणादेशः न । कदा च यणादेशः न । यादा शाकलं । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । समासे शाकलं न भवति इति । यत्र तर्हि अञ्चतेः अकारः लुप्यते : प्रतीचः प्रतीइचा । चुस्वरः तत्र बाधकः भविष्यति । अयं एव इष्यते । वक्ष्यति हि एततः चोः अनिगन्तः अञ्चतौ वप्रत्यये इति । यत्तर्हि न्यध्योः प्रकृतिस्वरं शास्ति । एषः हि यणादिष्टार्थः आरम्भः । एततपि अयणादिष्टार्थं एव स्यात। यदा यणादेशः न । कदा च यणादेशः न । यादा शाकलं । उक्तं वा । किं उक्तं । समासे शाकलं न भवति इति । यत्र तर्हि अञ्चतेः अकारः लुप्यते । अधीचः अधीचा । चुस्वरः तत्र बाधकः भविष्यति । अयं एव इष्यते । वक्ष्यति हे एतत्चोः अनिगन्तः अञ्चतौ वप्रत्यये इति । यत्तर्हि नेः एव प्रकृतिस्वरं शास्ति । एषः हि यणादिष्टार्थः आरम्भः । एततपि अयणादिष्टार्थं एव स्यात। कथं । अकृते यणादेश पूर्वपदप्रकृतिस्वरत्वे कृते उदात्तस्वरितोः यणः स्वरितः वा अनुदात्तस्य इति एषः स्वरः सिद्धः भवति । न्यङ। तस्मात्सुष्ठु उच्यते अनिगन्तप्रकृतिस्वरत्वे यणादेशे प्रकृतिस्वरभावप्रसङ्गः इति ।
(पाणिनीयसूत्र ६,२।५२।२) कि.।१२९।२२-१३१।१४ रो. ईV।५५७-५६१ (कात्यायन वार्तिक)चोः अनिगन्तः अञ्चतौ वप्रत्यये(वार्तिकान्त) । चुस्वरातनिगन्तः अञ्चतौ वप्रत्यये इति एषः स्वरः भवति विप्रतिषेधेन । चुस्वरस्य अवकाशः दधीचः पश्य । दधीचा दधीचे । अनिगन्तः अञ्चतौ वप्रत्यये इति अस्य अवकाशः पराङ्पराञ्चौ पराञ्चः । इह उभयं प्राप्नोति । अवाचा , अवाचे । अवकाशः इति एतत्भवति विप्रतिषेधेन । (कात्यायन वार्तिक)न वा चुस्वरस्य पूर्वपदप्रकृतिस्वरभाविनि प्रतिषेधातितरथा हि सर्वापवादः(वार्तिकान्त) । न वा एतत्विप्रतिषेधेन अपि सिध्यति । कथं तर्हि सिध्यति । चुस्वरस्य पूर्वपदप्रकृतिस्वरभाविनि प्रतिषेधात। चुर्स्वरः पूर्वपदप्रकृतिस्वरभाविनः प्रतिषेध्यः । इतरथा हि सर्वापवादः चुस्वरः । अक्रियमाणे हि प्रतिषेधे सर्वापवादः अयं चुस्वरः । कथं । प्रत्ययस्वरस्य अपवादः अनुदात्तौ सुप्पितौ इति । अनुदात्तौ सुप्पितौ इति अस्य उदात्तनिवृत्तिस्वरः । उदात्तनिवृत्तिस्वरस्य चुस्वरः । सः यथा एव उदात्तनिवृत्तिस्वरं बाधते एवं अनिगन्तस्वरं अपि बाधेत । यदि तावत्सङ्ख्यातः साम्यं अयं अपि चतुर्थः । समासान्तोदात्तत्वस्य अपवादः अव्ययस्वरः । अव्ययस्वरस्य कृत्स्वरः । कृत्स्वरस्य अयं । उभयोः चतुर्थयोः युक्तः विप्रतिषेधः । सतिशिष्टः तर्हि चुस्वरः । कथं । चौ इति उच्यते । यत्र अस्य एतत्रूपं । अजादौ असर्वनामस्थाने अभिनिर्वृत्ते अकारलोपे नकारलोपे च । तस्मात्सुष्थु उच्यते न वा चुस्वरस्य पूर्वपदप्रकृतिस्वरभाविनि प्रतिषेधातितरथा हि सर्वापवादः इति । (कात्यायन वार्तिक)विभक्तीषत्स्वरात्कृत्स्वरः(वार्तिकान्त) । विभक्तिस्वरातीषत्स्वरात्च कृत्स्वरः भवति विप्रतिषेधेन । विभक्तिस्वरस्य अवकाशः अक्षशौण्डः , स्त्रीशौण्डः । कृत्स्वरस्य अवकाशः , इध्मप्रव्रश्चनः । इह उभयं प्राप्नोति पूर्वाह्णेस्फोटकाः । कृत्स्वरः भवति विप्रतिषेधेन । ईषत्स्वरस्य अवकाशः , ईषत्कडारः , ईषत्पिङ्गलः । कृत्स्वरस्य सः एव । इह उभयं प्राप्नोति , ईषद्भेदः । कृत्स्वरः भवति विप्रतिषेधेन । (कात्यायन वार्तिक)चित्स्वरात्हारिस्वरः(वार्तिकान्त) । चित्स्वरात्हारिस्वरः भवति विप्रतिषेधेन । चित्स्वरस्य अवकाशः , चलनः , चोपनः । हारिस्वरस्य अवकाशः , याज्ञिकाश्वः , वैयाकरणहसी । इह उभयं प्राप्नोति , पितृगवः, मातृगवः । हारिस्वरः भवति विप्रतिषेधेन । (कात्यायन वार्तिक)कृत्स्वरात्च(वार्तिकान्त) । कृत्स्वरात्च हारिस्वरः भवति विप्रतिषेधेन । कृत्स्वरस्य अवकाशः , इध्मप्रव्रश्चनः । हारिस्वरस्य सः एव । इह उभयं प्राप्नोति , अक्षहृतः , वाडवहृतः । हारिस्वरः भवति विप्रतिषेधेन । (कात्यायन वार्तिक)न वा हरणप्रतिषेधः ज्ञापकः कृत्स्वराभाधकतव्स्य(वार्तिकान्त) । न वा अर्थः विप्रतिषेधेन । किं कारणं । हरणप्रतिषेधः ज्ञापकः कृत्स्वराभाधकत्वस्य । यतयं अहरणे इति प्रतिषेधं शास्ति तत्ज्ञापयति आचार्यः न कृत्स्वरः हारिस्वरं बाधते इति । न एततस्ति ज्ञापकं । अनः भावकर्मवचनः इति एतस्मिन्प्राप्ते तत एततुच्यते । यदि एवं साधीयः ज्ञापकं । कृत्स्वरस्य अपवादः अनः भावकर्मवचनः इति । बाधकं किल बाधते किं पुनः तं । युक्तस्वरः च कृत्स्वरात्भवति विप्रतिषेधेन । युक्तस्वरस्य अवकाशः , गोवल्लवः , अश्ववल्लवः । कृत्स्वरस्य सः एव। इह उभयं प्राप्नोति , गोसङ्ख्यः , पशूसङ्ख्यः , अश्वसङ्ख्यः । युक्तस्वरः भवति विप्रतिषेधेन ।
(पाणिनीयसूत्र ६,२।८०) कि.।१३१।१६-२५ रो. ईV।५६१-५६२ उपमानं इति किमर्थं । शब्दार्थप्रकृतौ एव इति इयति उच्यमाने पूर्वेण अतिप्रसक्तं इति कृत्वा नियमः अयं विज्ञायेत । तत्र कः दोषः । इह न स्यात। पुष्फारी फलहारी । उपमानग्रहणे पुनः क्रियमाणे न दोषः भवति । अथ शब्दार्थग्रहणं किमर्थं । उपमानं प्रकृतौ एव इति इयति उच्यमाने इह अपि प्रसज्येत । वृकवञ्ची वृकप्रेक्षी । शब्दाऋथग्रहणे पुनः क्रियमाणे न दोषः भवति । अथ प्रकृतिग्रहणं किमर्थं । शब्दार्थप्रकृतिः एव यः नित्यं तत्र यथा स्यात। इह मा भूत। कोकिलभिव्याहारी । अथ एवकारः किमर्थः । नियमार्थः । न एततस्ति प्रयोजनं । सिद्धे विधिः आरभ्यमाणः अन्तरेण एवकारं नियमाऋथः भविष्यति । इष्टतः अवधारणार्थः तर्हि । यथा एवं विज्ञायेते : उपमानं शब्दार्थप्रकृतौ एव इति । मा एवं विज्ञायीत : उपमानं एव शब्दार्थप्रकृतौ इति । शब्दार्थप्रकृतौ हि उपमानं च अनुपमानं च आद्युदात्तं इष्यते : साध्वध्याई विलम्बाध्यायी ।
(पाणिनीयसूत्र ६,२।८२) कि.।१३२।२-६ रो. ईV।५६२ (कात्यायन वार्तिक)जे दीर्घात्बह्वचः(वार्तिकान्त) । जे दीर्घान्तस्य आदिः उदात्तः भवति इति एतस्मातन्य्तात्पूर्वं बह्वचः इति एतत्भवति विप्रतिषेधेन । जे दीर्घान्तस्य आदिः उदात्तः भवति इति अस्य अवकाशः कुटीजः , शमीजः । अन्य्तात्पूर्वं बह्वचः इति अस्य अवकाशः उपसरजः , मन्दुरजः । इह उभयं प्राप्नोति । आमलकीजः , बलभीजः । अन्य्तात्पूर्वं बह्वचः इति एतत्भवति विप्रतिषेधेन ।
(पाणिनीयसूत्र ६,२।९१) कि.।१३२।८-१० रो. ईV।५६२ (कात्यायन वार्तिक)आद्युदात्तप्रकरणे दिवोदासादीनां छन्दसि उपसङ्ख्यानम्(वार्तिकान्त) । आद्युदात्तप्रकरणे दिवोदासादीनां छन्दसि उपसङ्ख्यानं कर्तव्यं । दिवोदासाय गायत वध्र्यश्वाय दाशुषे ।
(पाणिनीयसूत्र ६,२।९२-९३) कि.।१३२।१३-२१ रो. ईV।५६२-५६३ सर्वग्रहणं किमर्थं । गुणात्कार्त्स्न्ये इति इयति उच्यमाने इह अपि प्रसज्येत परमशुक्लः , परमक्षृण इति । सर्वग्रहणे पुनः क्रियमाणे न दोषः भवति । अथ गुणग्रहणं किमर्थं । सर्वं कार्त्स्न्ये इति इयति उच्यमाने इह अपि प्रसज्येत सर्वसौवर्णः सर्वराजतः इति । गुणग्रहणे पुनः क्रियमाणे न दोषः भवति । अथ कार्त्स्न्यग्रहणं किमर्थं । सर्वं गुणे इति इयति उच्यमाने इह अपि प्रसज्येत सर्वेषां श्वेतः सर्वश्वेतः इति । कथं च अत्र समासः । षष्ठीसुबन्तेन समस्यते इति । गुणेन न इति प्रतिषेधः प्राप्नोति । (कात्यायन वार्तिक)गुणात्तरेण समासः तरलोपः च(वार्तिकान्त) । गुणात्तरेण समासः तरलोपः च वक्तव्यः । सर्वेषां श्वेततरः सर्वश्वेतः ।
(पाणिनीयसूत्र ६,२।१०५) कि.।१३३।२-५ रो. ईV।५६३-५६४ अयुक्तः अयं निर्देशः । न हि उत्तरपदं नाम वृद्धिः अस्ति । कथं तर्हि निर्देशः कर्तव्यः । वृद्धिमति उत्तरपदे इति । सः तर्हि तथा निर्देशः कर्तव्यः । न कर्तव्यः । न एवं विज्ञायते । उत्तरपदं वृद्धिः उत्तरपदवृद्धिः , उत्तरपदवृद्धौ इति । कथं तर्हि । उत्तरपदस्य वृद्धिः अस्मिन्सः अयं उत्तरपदवृद्धिः , उत्तरपदवृद्धौ इति ।
(पाणिनीयसूत्र ६,२।१०६) कि.।१३३।७-१४ रो. ईV।५६४ (कात्यायन वार्तिक)बहुव्रीहौ विश्वस्य अन्तोदात्तात्सञ्ज्ञायां मित्राजिनयोः अन्तः(वार्तिकान्त) ।बहुव्रीहौ विश्वस्य अन्तोदात्तात्सञ्ज्ञायां मित्राजिनयोः अन्तः इति एतत्भवति विप्रतिषेधेन । बहुव्रीहौ विश्वं सञ्ज्ञायां इति अस्य अवकाशः , विश्वदेवः , विश्वयशाः । सञ्ज्ञायां मित्राजिनयोः अन्तः इति अस्य अवकाशः कुलमित्रं , कुलाजिनं । इह उभयं प्राप्नोति विश्वमित्रः , विश्वाजिनः । सञ्ज्ञायां मित्राजिनयोः अन्तः इति एतत्भवति विप्रतिषेधेन । (कात्यायन वार्तिक)अन्तोदात्तप्रकरणे मरुद्वृधादीनां छन्दसि उपसङ्ख्यानम्(वार्तिकान्त) । अन्तोदात्तप्रकरणे मरुद्वृधादीनां छन्दसि उपसङ्ख्यानं कर्तव्यं । मरुद्वृधः सुवयाः उपतस्थे ।
(पाणिनीयसूत्र ६,२।१०७-१०८) कि.।१३३।१६-२० रो. ईV।५६४ (कात्यायन वार्तिक)उदरादिभ्यः नञ्सुभ्याम्(वार्तिकान्त) । उदराश्वेषुषु क्षेपे इति एतस्मात्नञ्सुभ्यां इति एतत्भवति विप्रतिषेधेन । उदराश्वेषुषु क्षेपे इति अस्य अवकाशः कुण्डोदरः , घटोदरः । नञ्सुभ्यां इति अस्य अवकाशः अयवः , अतिलः , अमाषः , सुयवः , सुतिलः , सुमाषः । इह उभयं प्राप्नोति , अनुदरः , सूदरः । नञ्सुभ्यां इति एतत्भवति विप्रतिषेधेन ।
(पाणिनीयसूत्र ६,२।११७) कि.।१३३।२२-१३४।३ रो. ईV।५६५ (कात्यायन वार्तिक)सोः मनसोः कपि(वार्तिकान्त) । सोः मनसी अलोमोषसी इति एतस्मात्कपि पूर्वं इति एतत्भवति विप्रतिषेधेन । सोः मनसी अलोमोषसी इति एतस्य अवकाशः सुशर्माणं अधि नावं रुहेयं । सुशर्मा असि सुप्रतिष्ठानः । सुस्रोताः , सुपयाः , सुवर्चाः । कपि पूर्वं इति अस्य अवकाशः अयवकः । इह उभयं प्राप्नोति सुशर्मकः , सुस्रोतकः । कपि पूर्वं इति एतत्भवति विप्रतिषेधेन ।
(पाणिनीयसूत्र ६,२।१२१) कि.।१३४।५-९ रो. ईV।५६५ (कात्यायन वार्तिक)पूर्वादिभ्यः कूलादीनां आद्युदात्तत्वम्(वार्तिकान्त) । पूर्वादिभ्यः कूलादीनां आद्युदात्तत्वं भवति विप्रतिषेधेन । परिप्रतिउपापाः वर्यजानाहोरात्रावयवेषु इति अस्य अवकाशः परित्रिगतं , परिसौवीरं । कूलादीनां आद्युदात्तत्वस्य अवकाशः , अतिकूलं , अनुकूलं । इह उभयं प्राप्नोति परिकूलं , कूलादीनां आद्युदात्तत्वं भवति विप्रतिषेधेन ।
(पाणिनीयसूत्र ६,२।१२६, १३०) कि.।१३४।१२-१७ रो. ईV।५६५ (कात्यायन वार्तिक)चेलराज्यादिभ्यः अव्ययम्(वार्तिकान्त) । चेलराज्यादिस्वराथव्यययस्वरः भवति विप्रतिषेधेन । चेलराज्यादिस्वरस्य अवकाशः , भार्याचेलं , पुत्रचेलं , ब्राह्मणराज्यं । अव्यययस्वरावकाशः , निष्कौशाम्बिः , निर्वाराणसिः । इह उभयं प्राप्नोति कुचेलं , कुराज्यं । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । इष्टवाची परशब्दः । विप्रतिषेधे परं यतिष्टं तत्भवति ।
(पाणिनीयसूत्र ६,२।१३६) कि.।१९-२१ रो. ईV।५६६ (कात्यायन वार्तिक)कुण्डाद्युदात्तत्वे तत्समुदायग्रहणम्(वार्तिकान्त) । कुण्डाद्युदात्तत्वे तत्समुदायग्रहणं कर्तव्यं । वनसमुदायवाचीचेत्कुण्डशब्दः भवति इति वक्तव्यं । इह मा भूत। मृत्कुण्डं ।
(पाणिनीयसूत्र ६,२।१३९) कि.।१३५।२-१३६।६ रो. ईV।५६६-५७० गतिकारकोपपदातिति किमर्थं । इह मा भूत। परमं कारकं , परमकारकं । गतिकारकोपपदातिति उच्यमाने अपि तत्र प्राप्नोति । एतत्हि कारकं । इदं तर्हि । देवदत्तस्य कारकं , देवदत्तकारकं । इदं च अपि उदाहरणं परमं कारकं , परमकारकं इति । न एतत्कारकं । कारकविशेषणं एतत। यावत्ब्रूयात्प्रकृष्टं कारकं शोभनं कारकं इति तावतेतत्परमकारकं इति । अथ कृद्ग्रहणं किमर्थं । इह मा भूत। निष्कौशाम्बिः , निवाराणसिः इति । अतः उत्तरं पठति (कात्यायन वार्तिक)गत्यादिभ्यः प्रकृतिस्वरत्वे कृद्ग्रहणानर्थक्यं अन्यस्य उत्तरपदस्य अभावात्(वार्तिकान्त) । गत्यादिभ्यः प्रकृतिस्वरत्वे कृद्ग्रहणं अनर्थकं । किं कारणं । अन्यस्य उत्तरपदस्य अभावात। न हि अन्यत्गतियादिभ्यः उत्तरपदं अस्ति अन्यततः कृतः । किं कारणं । धातोः हि द्वये प्रत्ययाः विधीयन्ते तिङः कृतः च । तत्र कृता सह समासः भवति तिङा च न भवति । तत्र अन्तरेण कृद्ग्रहणं कृतः एव भविष्यति । ननु च इदानीं एव उदाहृतं निष्कौशाम्बिः , निर्वाराणसिः इति । यत्क्रियायुक्ताः तं प्रति गत्युपसर्ग्सञ्ज्ञे भवतः न च निसः कौशाम्बीशब्दं प्रति क्रियायोगः । (कात्यायन वार्तिक)कृत्प्रकृतौ वा गतित्वातधिकाऋथं कृद्ग्रहणम्(वार्तिकान्त) । कृत्प्रकृतौ तर्हि गतित्वातधिकाऋथं कृद्ग्रहणं कर्तव्यं । कृत्प्रकृतिः धातुः । धातुं च प्रति क्रियायोगः । तत्र यत्क्रियायुक्ताः तं प्रति इति इह एव स्यात। प्रणीः , उन्नीः । इह न स्यात। प्रणायकः , उन्नायकः । एततपि न अस्ति प्रयोजनं । यत्क्रियायुक्ताः इति न एवं विज्ञायते । यस्य क्रिया यत्क्रिया यत्क्रियायुक्ताः तं प्रति गत्युपसर्ग्सञ्ज्ञे भवतः इति । कथं तर्हि या क्रिया यत्क्रिया यत्क्रियायुक्ताः तं प्रति गत्युपसर्ग्सञ्ज्ञे भवतः इति । न च कः चित्केवलः शब्दः अस्ति यः तस्य अर्थस्य वाचकः स्यात। केवलः तस्य अर्थस्य वाचकः न अस्ति इति कृत्वा कृदधिकस्य भविष्यति । ननु च ययं तस्य एव अर्थस्य वाचकः प्रणीः इति । एषः अपि हि कर्तृविशिष्टस्य । अयं तर्हि तस्य एव अर्थस्य वाचकः प्रभवनं इति । तस्मात्कृद्ग्रहणं कर्तव्यं । यदि कृद्ग्रहणं क्रियते आमन्ते स्वरः न प्राप्नोति । प्रपचतितरां , प्रजल्पतितरां । असति पुनः कृद्ग्रहणे क्रियाप्रधानं आख्यातं तस्य अतिशये तरपुत्पद्यते तरबन्तस्य स्वार्थे आं । तत्र यत्क्रियायुक्ताः इति भवति एव सङ्घातं प्रति क्रियायोगः । न च कः चित्केवलः शब्दः अस्ति यः तस्य अर्थस्य वाचकः स्यात। केवलः तस्य अर्थस्य वाचकः न अस्ति इति कृत्वा अधिकस्य भविष्यति । ननु च ययं तस्य एव अर्थस्य वाचकः प्रभवनं इति । एषः अपि द्रव्यविशिष्टस्य । कथं कृदभिहितः भावः द्रव्यवत्भवति क्रियावतपि इति ।
(पाणिनीयसूत्र ६,२।१४३) कि.।१३६।८-१३७।४ रो. ईV।५७१-५७३ किं समासय अन्तः उदात्तः भवति आहोस्वितुत्तरपदस्य । कुतः सन्देहः । उभयं प्रकृतं । तत्र अन्यतरत्शक्यं विशेषयितुं । कः च अत्र विशेषः । (कात्यायन वार्तिक)अन्तोदात्तत्वं समासस्य इति चेत्कपि उपसङ्ख्यानम्(वार्तिकान्त) । अन्तोदात्तत्वं समासस्य इति चेत्कपि उपसङ्ख्यानं कर्तव्यं । इदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने कपि च इति वक्तव्यं इह अपि यथा स्यात। इदम्प्रथमकाः । अस्तु तर्हि उत्तरपदस्य । (कात्यायन वार्तिक)उत्तरपदान्तोदात्तत्वे नञ्सुभ्यां समासान्तोदात्तत्वम्(वार्तिकान्त) । उत्तरपदान्तोदात्तत्वे नञ्सुभ्यां समासान्तोदात्तत्वं वक्तव्यं । अनृचः , बह्वृचः । अपरः आह : उत्तरपदान्तोदात्तत्वे नञ्सुभ्यां समासान्तोदात्तत्वं वक्तव्यं । अज्ञकः , अस्वकः । कपि पूर्वं इति अस्य अपवादः ह्रस्वान्ते अन्त्यात्पूर्वं इति । तत्र ह्रस्वान्ते अन्त्यात्पूर्वः उदात्तभावी न अस्ति इति कृत्वा उत्सर्गेण अन्तोदात्तत्वं प्राप्नोति । (कात्यायन वार्तिक)न वा कपि पूर्ववचनं ज्ञापकं उत्तरपदानन्तोदात्तत्वस्य(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । यतयं कपि पूर्वं इति आह तत्ज्ञापयति आचार्यः न उत्तरपदस्य अन्तः उदात्ततः भवति इति । (कात्यायन वार्तिक)प्रकरणात्च समासान्तोदात्तत्वम्(वार्तिकान्त) । प्रकृतं समासग्रहणं अनुवर्तते । क्व प्रकृतं । चौ समासस्य इति । ननु च उक्तं अन्तोदात्तत्वं समासस्य इति चेत्कपि उपसङ्ख्यानं इति । न एषः दोषः । उत्तरपदग्रहणं अपि प्रकृतं अनुवर्तते । क्व प्रकृतं । उत्तरपदादिः इति । तत्र एवं अभिसम्बन्धः करिष्यते । नञ्सुभ्यां समासस्य अन्तः उदात्तः भवति । इदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने उत्तरपदस्य इति ।
(पाणिनीयसूत्र ६,२।१४८) कि.।१३७।६-१० रो. ईV।५७३ (कात्यायन वार्तिक)कारकात्दत्तश्रुतयोः अनाशिषि प्रतिषेधः(वार्तिकान्त) । कारकात्दत्तश्रुतयोः अनाशिषि प्रतिषेधः वक्तव्यः । अनाहतः नदति देवदत्तः । (कात्यायन वार्तिक)सिद्धं तु उभयनियमात्(वार्तिकान्त) । सिद्धं एतत। कथं । उभयनियमात। उभयतः नियमः आश्रयिष्यते । कारकात्दत्तश्रुतयोः एव आशिषि। आशिषि एव कारकात्दत्तश्रुतयोः इति ।
(पाणिनीयसूत्र ६,२।१६५) कि.।१३७।१२-१३ रो. ईV।५७४ (कात्यायन वार्तिक)ऋषिप्रतिषेधः मित्रे(वार्तिकान्त) । ऋषिप्रतिषेधः मित्रे वक्तव्यः । विश्वामित्रः ऋषिः ।
(पाणिनीयसूत्र ६,२।१७५) कि.।१३७।१५-१३८।४ रो. ईV।५७४ किमर्थं बहोः नञ्वततिदेशः क्रियते न नञ्सुबहुभ्यः इति एव उच्येत । न एवं शक्यं । उत्तरपदभूम्नि इति वक्ष्यति । तत्बहोः एव यथा स्यात। नञ्सुभ्यां मा भूतिति । न एततस्ति प्रयोजनं । एकयोगे अपि हि सति यस्य उत्तरपदभूमा अस्ति तस्य भविष्यति । कस्य च अस्ति । बहोः एव । इदं तर्हि प्रयोजनं । न गुणादयः अव्यवाः इति वक्ष्यति । तत्बहोः एव यथा स्यात। नञ्सुभ्यां मा भूतिति । एततपि न अस्ति प्रयोजनं । एकयोगे अपि सति यस्य गुणादयः अवयवा सन्ति तस्य कस्य च सन्ति । बहोः एव । अतः उत्तरं पठति (कात्यायन वार्तिक)बहोः नञ्वतुत्तरपदाद्युदात्तार्थम्(वार्तिकान्त) । बहोः नञ्वततिदेशः क्रिअय्ते उत्तरपदाद्युदात्तार्थं । उत्तरपदस्य आद्युदात्तत्वं यथा स्यात। नञः जरमरमित्रमृताः । अजरः , अमरः , बहुजरः , बहुमित्रः ।
(पाणिनीयसूत्र ६,२।१७७) कि.।१३८६-११ रो. ईV।५७५ (कात्यायन वार्तिक)उपसर्गात्स्वाङ्गं ध्रुवं मुखस्य अन्तोदात्तत्वात्(वार्तिकान्त) । मुखस्य अन्तोदात्तत्वातुपसर्गात्स्वाङ्गं ध्रुवं इति एतत्भवति विप्रतिषेधेन । मुखान्तोदात्तत्वस्य अवकाशः गौरमुखः , श्लक्ष्णमुखः । उपसर्गात्स्वाङ्गं इति अस्य अवकाशः प्रस्फिक्, प्रोदरः । इह उभयं प्राप्नोति । प्रमुखः । उपसर्गात्स्वाङ्गं इति एतत्भवति विप्रतिषेधेन । कः पुनः विशेषः तेन वा सति अनेन वा । सापवादकः सः विधिः अयं पुनः निरपवादकः । अव्ययात्तस्य प्रतिषेधः अपवादः ।
(पाणिनीयसूत्र ६,२।१८५-१८६) कि.।१३८।१४-१८ रो. ईV।५७६ किमर्थं इदं उच्यते न उपसर्गात्स्वाङ्गं ध्रुवं इति एव सिद्धं । (कात्यायन वार्तिक)अभेः मुखं अपात्च अध्रुवार्थम्(वार्तिकान्त) । अध्रुवार्थः अयं आरम्भः । (कात्यायन वार्तिक)अभुव्रीह्यर्थं वा(वार्तिकान्त) । अथ वा बहुव्रीहेः इति वर्तते । अभुव्रीह्यर्थः अयं आरम्भः ।
(पाणिनीयसूत्र ६,२।१८७) कि.।१३८।२०-१३९।२ रो. ईV।५७६ स्फिगपूतग्रहणं किमर्थं न उपसर्गात्स्वाङ्गं ध्रुवं इति एव सिद्धं । (कात्यायन वार्तिक)स्फिगपूतग्रहणं च(वार्तिकान्त) । किं । अध्रुवार्थं अभुव्रीह्यर्थं एव वा ।
(पाणिनीयसूत्र ६,२।१९१) कि.।१३९।४-६ रो. ईV।५७६ (कात्यायन वार्तिक)अतेः धातुलोपे(वार्तिकान्त) । अतेः धातुलोपे इति वक्तव्यं । अकृत्पदे इति हि उच्यमाने इह च प्रसज्येत शोभनः गार्ग्यः अतिगार्ग्यः , इह च न स्यात्, अतिकाऋअकः, अतिपदा शक्वरी ।
(पाणिनीयसूत्र ६,२।१९७) कि.।१३९।८-१४०।६ रो. ईV।५७७-५७९ किं इदं द्वित्रिभ्यां मूर्धनि अकारान्तग्रहणं आहोस्वित्नकारान्तग्रहणं । कः च अत्र विशेषः । (कात्यायन वार्तिक)द्वित्रिभ्यां मूर्धनि अकारान्तग्रहणं चेत्नकारान्तस्य उपसङ्ख्यानम्(वार्तिकान्त) । द्वित्रिभ्यां मूर्धनि अकारान्तग्रहणं चेत्नकारान्तस्य उपसङ्ख्यानं कर्तव्यं । द्विमूर्धा त्रिमूर्धा । अस्तु तर्हि नकारान्तग्रहणं । (कात्यायन वार्तिक)नकारान्ते अकारान्तस्य(वार्तिकान्त) । नकारान्ते अकारान्तस्य उपसङ्ख्यानं कर्तव्यं । द्विमूर्धः , त्रिमूर्धः । (कात्यायन वार्तिक)उदात्तलोपात्सिद्धम्(वार्तिकान्त) । अस्तु तर्हि नकारान्तग्रहणं । अन्तोदात्तत्वे कृते लोपः उदात्तनिवृत्तिस्वरेण सिद्धं । इदं इह सम्प्रधार्यं । अन्तोदात्तत्वं क्रियतां लोपः इति किं अत्र कर्तव्यं । परत्वात्लोपः । एवं तर्हि इदं इह सम्प्रधार्यं । अन्तोदात्तत्वं क्रियतां समासान्तः इति किं अत्र कर्तव्यं । परत्वातन्तोदात्तत्वं । नित्यः समासान्तः । कृते अपि अन्तोदात्तत्वे प्राप्नोति अकृते अपि । अन्तोदात्तत्वं अपि नित्यं । कृते अपि समासान्ते प्राप्नोति अकृते अपि । अनित्यं अन्तोदात्तत्वं । न हि कृते समासान्ते प्राप्नोति । परत्वात्लोपेन भवितव्यं । यस्य च लक्षणान्तरेण निमित्तं विहन्यते न ततनित्यं । न च समासान्तः एव अन्तोदात्तत्वस्य निमित्तं हन्ति । अवश्यं लक्षणान्तरं लोपः प्रतीक्ष्यः । उभयोः नित्ययोः परत्वातन्तोदात्तत्वं । अन्तोदात्तत्वे कृते समासान्तः , टिलोपः । टिलोपे कृते उदात्तनिवृत्तिस्वरेण सिद्धं । युक्तं पुनः इदं विचारयितुं । ननु अनेन असन्दिग्धेन नकारान्तस्य ग्रहणेन भवितव्यं यावता मूर्धसु इति उच्यते । यदि हि अकारान्तस्य ग्रहणं स्यात्मूर्धेषु इति ब्रूयात। सा एषा समासान्तार्था विचारणा । एवं तर्हि ज्ञापयति आचार्यः । विभाषा समासान्तः भवति इति ।
(पाणिनीयसूत्र ६,२।१९९) कि.।१४०।८-१३ रो. ईV।५७९-५८० अत्यल्पं इदं उच्यते । (कात्यायन वार्तिक)परादिः च परान्तः च पूर्वान्तः च दृश्यते ।पूर्वादयः च विद्यन्ते । व्यतयः बहुलं स्मृतः(वार्तिकान्त) । (कात्यायन वार्तिक)अन्तोदात्तप्रकरणे त्रिचक्रादीनां छन्दसि उपसङ्ख्यानम्(वार्तिकान्त) । अन्तोदात्तप्रकरणे त्रिचक्रादीनां छन्दसि उपसङ्ख्यानं कर्तव्यं : त्रिचक्रेण त्रिबन्धुरेण त्रिवृता रथेन ।
(पाणिनीयसूत्र ६,३।१।२) कि.।१४१।१२-१४२।९ रो. ईV।५८२-५८४ एकवत्च अलुक्भवति इति वक्तव्यं । किं प्रयोजनं । स्तोकाभ्यां मुक्तः , स्तोकेभ्यः मुक्तः इति विगृह्य स्तोकान्मुक्तः इति एव यथा स्यात। (कात्यायन वार्तिक)एकवद्व्चनं अनर्थकम्(वार्तिकान्त) । एकवद्भावः च अनर्थकः । द्विबह्वोः अलुक्कस्मात्न भवति । (कात्यायन वार्तिक)द्विबहुषु असमासः(वार्तिकान्त) । द्विवचनबहुवचनानां असमासः । किं वक्तव्यं एतत। न हि अनुच्यमानं गंस्यते । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । अनभिधानातिति । तत्च अवश्यं अनभिधानं आश्रयितव्यं । (कात्यायन वार्तिक)एकवद्वचने हि गोषुचरे अतिप्रसङ्गः(वार्तिकान्त) । एकवद्वचने हि गोषुचरे अतिप्रसङ्गः स्यातः गोषुचरः । (कात्यायन वार्तिक)वर्षाभ्यः च जे(वार्तिकान्त) । वर्षाभ्यः च जे अतिप्रसङ्गः भवति । वर्षासुजः । (कात्यायन वार्तिक)अपः योनियन्मतिषु च(वार्तिकान्त) । अपः योनियन्मतिषु च उपसङ्ख्यानं कर्तव्यं । (कात्यायन वार्तिक)जे चरे च(वार्तिकान्त) । जे चरे च अतिप्रसङ्गः भवति । योनि । अप्सुयोनिः । यत। अप्सव्यं । मति । अप्सुमतिः । जे । अप्सुजः । चरे । अप्सुचरः गह्वरेष्ठाः ।
(पाणिनीयसूत्र ६,३।२) कि.।१४२।११-१६ रो. ईV।५८४-५८५ (कात्यायन वार्तिक)पञ्चमीप्रकरणे ब्राह्मणाच्छंसिनः उपसङ्ख्यानम्(वार्तिकान्त) । पञ्चमीप्रकरणे ब्राह्मणाच्छंसिनः उपसङ्ख्यानं कर्तव्यं । ब्राह्मणाच्छंसी ।(कात्यायन वार्तिक) अन्यार्थे च(वार्तिकान्त) । अन्यार्थे च एषा पञ्चमी द्रष्टव्या । ब्राह्मणानि शंसति इति ब्राह्मणाच्छंसी । अथ वा युक्तः एव अत्र पञ्चम्यर्थः । ब्राह्मणेभ्यः गृहीत्वा , आहृत्य आहृत्य शंसति इति ब्राह्मणाच्छंसी ।
(पाणिनीयसूत्र ६,३।३) कि.।१४२।१८-२२ रो. ईV।५८५ (कात्यायन वार्तिक)अञ्जसः उपसङ्ख्यानम्(वार्तिकान्त) । अञ्जसः उपसङ्ख्यानं कर्तव्यं । अञ्जसाकृतं । (कात्यायन वार्तिक)पुंसानुजः जनुषान्धः विकृताक्षः इति च(वार्तिकान्त) । पुंसानुजः जनुषान्धः विकृताक्षः इति च उपसङ्ख्यानं कर्तव्यं । पुंसानुजः , जनुषान्धः , विकृताक्षः ।
(पाणिनीयसूत्र ६,३।५) कि.।१४३।२-८ रो. ईV। ५८५-५८६ (कात्यायन वार्तिक)आत्मनः च पूरणे(वार्तिकान्त) । आत्मनः च पूरणे उपसङ्ख्यानं कर्तव्यं । आत्मनापञ्चमः , आत्मनादशमः । (कात्यायन वार्तिक)अन्यार्थे च(वार्तिकान्त) । अन्यार्थे च एषा तृतीया द्रष्टव्या । आत्मा पञ्चमः अस्य आत्मापञ्चमः । अथ वा युक्तः एव अत्र तृतीयार्थः । आत्मना कृतं तत्तस्य येन असौ पञ्चमः । कथं जनार्दनः तु आत्मचतुर्थः एव इति । बहुव्रीः अयं । आत्मा चतुर्थः अस्य इति ।
(पाणिनीयसूत्र ६,३।७-८) कि.।१४३।११-१८ रो. ईV।५८६-५८७ (कात्यायन वार्तिक)आत्मनेभाषपरस्मैभाषयोः उपसङ्ख्यानम्(वार्तिकान्त) । आत्मनेभाषपरस्मैभाषयोः उपसङ्ख्यानं कर्तव्यं । आत्मनेभाषः , परस्मैभाषः । तत्कथं कर्तव्यं । यदि व्याकरणे भवा वैयाकरणी , वैयाकरणी आख्या वैयाकरणाख्या वैयाकरणख्यायां इति । अथ हि वैयाकरणानां आख्या वैयाकरणाख्या न अर्थः उपसङ्ख्यानेन । यदि अपि व्याकरणे भवा वैयाकरणी , वैयाकरणी आख्या वैयाकरणाख्या एवं अपि न अर्थः उपसङ्ख्यानेन । वचनात्भविष्यति । अस्ति वचने प्रयोजनं । किं । आत्मनेपदं । निपातनातेतत्सिद्धं । किं निपातनं । अनुदात्तङितः आत्मनेपदं , शेषात्कर्तरि परस्मैपदं इति ।
(पाणिनीयसूत्र ६,३।९) कि.।१४३।२०-१४४।१७ रो. ईV।५८७-५८८ (कात्यायन वार्तिक)हृद्द्युभ्यां ङेः उपसङ्ख्यानम्(वार्तिकान्त) । हृद्द्युभ्यां ङेः उपसङ्ख्यानं कर्तव्यं । हृदिस्पृक्, दिविस्पृक। (कात्यायन वार्तिक)अन्यार्थे च(वार्तिकान्त) । अन्यार्थे च एषा सप्तमी द्रष्टव्या । हृदयं स्पृशति इति हृदिस्पृक। दिवं श्प्र्शति इति दिविस्पृक। (कात्यायन वार्तिक)हलदन्ताधिकारे गोः उपसङ्ख्यानम्(वार्तिकान्त) । हलदन्ताधिकारे गोः उपसङ्ख्यानं कर्तव्यं । गविष्थिरः । न कर्तव्यं । लुकः अवादेशः विप्रतिषेधेन । लुक्क्रियतां अवादेशः इति अवादेशः भविष्यति विप्रतिषेधेन । अवादेशे कृते हलन्तातिति एव सिद्धं । (कात्यायन वार्तिक)लुकः अवादेशः विप्रतिषेधेन इति चेत्भूमिपाशे अतिप्रसङ्गः(वार्तिकान्त) । लुकः अवादेशः विप्रतिषेधेन इति चेत्भूमिपाशे अतिप्रसङ्गः भवति । भूम्यां पाशः , भूमिपाशः । (कात्यायन वार्तिक)अकः अतः इति वा सन्ध्यक्षरार्थम्(वार्तिकान्त) । एवं तर्हि अविशेषेण सप्तम्याः अलुकं उक्त्वा अकः अतः इति वक्ष्यामि । तत्नियमार्थं भविष्यति । अकः अतः इति एव भवति न अन्यतः इति । तेन सन्ध्यक्षराणां सिद्धं भवति । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं हलदन्ताधिकारे गोः उपसङ्ख्यानं इति । न एषः दोषः । निपातनातेतत्सिद्धं । किं निपातनं । गविष्ठिरशब्दः विदादिषु पठ्यते । असकृत्खलु अपि निपातनं क्रियते । गवियुधिभ्या स्थिरः इति ।
(पाणिनीयसूत्र ६,३।१०) कि.।१४४।१९-१४५।१३ रो. ईV।५८९-५९१ किं इयं प्राप्ते विभाषा आहोस्वितप्राप्ते । कथं च प्राप्ते कथं च अप्राप्ते । यदि सञ्ज्ञायां इति वर्तते ततः प्राप्ते । अथ निवृत्तं ततः अप्राप्ते । कः च अत्र विशेषः । (कात्यायन वार्तिक)कारनाम्नि वावचनार्थं चेतजादौ अतिप्रसङ्गः(वार्तिकान्त) । कारनाम्नि वावचनार्थं चेतजादौ अतिप्रसङ्गः भवति । इह अपि प्राप्नोति । अविकटे उरणः दातव्यः अविकटोरणः । अस्तु तर्हि अप्राप्ते । (कात्यायन वार्तिक)अप्राप्ते समासविधानम्(वार्तिकान्त) । यदि अप्राप्ते समासः विधेयः । प्राप्ते पुनः सति सञ्ज्ञायां इति एव समासः सिद्धः । न एषः दोषः । एततेव ज्ञापयति भवति अत्र समासः इति यतयं कारनाम्नि सप्तम्याः अलुकं शास्ति । यदि अपि तावत्ज्ञापकात्समासः स्यात्स्वरः तु न सिध्यति । यत्हि तत्सप्तमीपूर्वपदं प्रकृतिस्वरं भवति इति लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवं तत। न एव अत्र अनेन स्वरेण भवितव्यं । किं तर्हि सप्तमीहारिणौ धर्म्ये अहरणे इति अनेन अत्र स्वरेण भवितव्यं ।किं च भोः सञ्ज्ञाः अपि लोके क्रियन्ते न लोकः सञ्ज्ञासु प्रमाणं । लोके च कारनाम सञ्ज्ञा । ननु च उक्तं कारनाम्नि वावचनार्थं चेतजादौ अतिप्रसङ्गः इति । न एषः दोषः । (कात्यायन वार्तिक)योगविभागात्सिद्धम्(वार्तिकान्त) । योगविभागः करिष्यते । कारनाम्नि च प्राचां , ततः हलादौ । हलादौ च कारनाम्नि सप्तम्याः अलुक्भवति । इदं इदानीं किमर्थं । नियमार्थं । हलादौ एव कारनाम्नि न अन्यत्र । क्व मा भूत। अविकटे उरणः दातव्यः अविकटोरणः ।
(पाणिनीयसूत्र ६,३।११) कि.।१४५।१५-१६ रो. ईV।५९१ (कात्यायन वार्तिक)गुरौ अन्तात्च(वार्तिकान्त) । गुरौ अन्तात्च इति वक्तव्यं । अन्तेगुरुः ।
(पाणिनीयसूत्र ६,३।१३) कि.।१४५।१८-१४६।२ रो. ईV।५९१-५९२ स्वाङ्गग्रहणं अनुवर्तते उताहो न । किं च अतः । यदि अनुवर्तते सिद्धं हस्तेबन्धः , हस्तबन्धः । चक्रेभन्दः , चक्रबन्धः इति न सिध्यति । अथ निवृत्तं सिद्धं चक्रेभन्दः , चक्रबन्धः । हस्तेबन्धः , हस्तबन्धः इति न सिध्यति । किं कारणं । न इन्सिद्धबध्नातिषु इति प्रतिषेधः प्राप्नोति । न एषः दोषः । सर्वत्र एव अत्र उत्तरपदाधिकरे तत्पुरुषेद्कृति बहुलं इति प्राप्ते न इन्सिद्धबध्नातिषु इति प्रतिषेधः उच्यते । तस्मिन्नित्ये प्राप्ते इयं विभाषा आरभ्यते । एवं अपि न ज्ञायते कस्मिन्विषये विभाषा कस्मिन्विषये प्रतिषेधः इति । घञन्तस्य इदं बन्धशब्दस्य ग्रहणं प्रतिषेधे पुनः धातुग्रहणं । घञन्ते विभाषा अन्यत्र प्रतिषेधः ।
(पाणिनीयसूत्र ६,३।१४) कि.।१४६।४-१६ रो. ईV।५९२-५९४ (कात्यायन वार्तिक)तत्पुरुषे कृति बहुलं अकर्मधारये(वार्तिकान्त) । तत्पुरुषे कृति बहुलं इति अत्र अकर्मधारये इति वक्तव्यं । इह मा भूत। परमे कारके परमकारके इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । बहुलवचनात्न भविष्यति । अथ किमर्थं लुगलुगनुक्रमणं क्रियते न तत्पुरुषे कृति बहुलं इति एव सिद्धं । ल्(कात्यायन वार्तिक)उगलुगनुक्रमणं बहुलवचनस्य अकृत्स्नत्वात्(वार्तिकान्त) । लुगलुगनुक्रमणं क्रियते अकृत्स्नं बहुलवचनं इति । यदि अकृत्स्नं यतनेन कृतं अकृतं तत। एवं तर्हि न ब्रूमः अकृत्स्नं इति । कृत्स्नं च कारकं च साधकं च निर्वर्तकं च । यत्च अनेन कृतं सुक्तृतं तत। किमर्थं तर्हि लुगलुगनुक्रमणं क्रियते । उदाहरणभूयस्त्वात। ते खलु अपि विधयः सुपरिगृहीताः भवन्ति येषु लक्षणं प्रपञ्चः च । केवलं लक्षणं केवलः प्रपञ्चः वा न तथा कारकं भवति । अवश्यं खलु अस्माभिः इदं वक्तव्यं बहुलं अन्यतरस्यां उभयथा वा एकेषां इति । सर्ववेदपाऋइषदं हि इदं शास्त्रं । तत्र न एकः पन्थाः शक्य आस्थातुं ।
(पाणिनीयसूत्र ६,३।२१) कि.।१४६।१८-१४७।७ रो. ईV।५९४ (कात्यायन वार्तिक)षष्ठीप्रकरणे वाग्दिक्पश्यद्भ्यः युक्तिदण्डहरेषु उपसङ्ख्यानम्(वार्तिकान्त) । षष्ठीप्रकरणे वाग्दिक्पश्यद्भ्यः युक्तिदण्डहरेषु उपसङ्ख्यानं कर्तव्यं । वाचोयुक्तिः , दिशोदण्डः , पश्यतोहरः । (कात्यायन वार्तिक)आमुष्यायणामुष्य्पुत्रिका इति उपसङ्ख्यानम्(वार्तिकान्त) । आमुष्यायणामुष्य्पुत्रिका इति उपसङ्ख्यानं कर्तव्यं । आमुष्यायणः , आमुष्यपुत्रिका । आमुष्यकुलिका इति च वक्तव्यं । आमुष्यकुलिका । (कात्यायन वार्तिक)देवानाम्प्रियः इति च(वार्तिकान्त) । देवानाम्प्रियः इति च उपसङ्ख्यानं कर्तव्यं । देवानाम्प्रियः । (कात्यायन वार्तिक)शेपपुच्छलाङ्गूलेषु शुनः सञ्ज्ञायाम्(वार्तिकान्त) । शेपपुच्छलाङ्गूलेषु शुनः सञ्ज्ञायां उपसङ्ख्यानं कर्तव्यं । शुनःशेफः , शुनःपुच्छः , शुनोलाङ्गूलः । (कात्यायन वार्तिक)दिवः च दासे(वार्तिकान्त) । दिवः च दासे उपसङ्ख्यानं कर्तव्यं । दिवोदासाय गायत ।
(पाणिनीयसूत्र ६,३।२३) कि.।१४७।९-१२ रो. ईV।५९५ (कात्यायन वार्तिक)विद्यायोनिसम्बन्धेभ्यः तत्पूर्वपदोत्तरपदग्रहणम्(वार्तिकान्त) । विद्यायोनिसम्बन्धेभ्यः तत्पूर्वपदोत्तरपदग्रहणं कर्तव्यं , विद्यासम्बन्धेभ्यः विद्यासम्बन्धेषु यथा स्यात्, योनिसम्बन्धेभ्यः योनिसम्बन्धेषु यथा स्यात्, व्यतिकरः मा भूत। अथ एषां व्यतिकरेण भवितव्यं । बाढं भवितव्यं । होतुःपुत्रः , पितुःअन्तेवासी ।
(पाणिनीयसूत्र ६,३।२५।१) कि.।१४७।१४-१८ रो. ईV।५९५ क्व अयं नकारः श्रूयते । न क्व चित्श्रूयते । लोपः अस्य भवति नलोपः प्रातिपदिकस्य इति । यदि न श्रूयते किमर्थं उच्चार्यते । रपरत्वं मा भूतिति । क्रियमाणे अपि वै नकारे रपरत्वं प्राप्नोति । किं कारणं । नलोपे कृते एषः अपि हि उः स्थाने अण्शिष्यते । न एषः दोषः । उः स्थाने अण्प्रसज्य्मानः एव रपरः भवति इति उच्यते न च अयं उः स्थाने अणेव शिष्यते । किं तर्हि अण्च अनण्च ।
(पाणिनीयसूत्र ६,३।२५।२) कि.।१४७।१८-१४८।१८ रो. ईV।५९६-५९७ कथं पुनः इदं विज्ञायते : ऋकारान्तानां यः द्वन्द्वः इति आहोस्वित्द्वन्द्वे ऋकारस्य इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)ऋकारान्तानां द्वन्द्वे पुत्रे उपसङ्ख्यानम्(वार्तिकान्त) । ऋकारान्तानां द्वन्द्वे पुत्रे उपसङ्ख्यानं कर्तव्यं । पितापुत्रौ । (कात्यायन वार्तिक)कार्यी च अनिर्दिष्टः(वार्तिकान्त) । कार्यी च अनिर्दिष्टः भवति । ऋकारान्तानां द्वन्द्वे न ज्ञायते कस्य आनङा भवितव्यं इति । अस्तु तर्हि द्वन्दे ऋकारस्य इति । (कात्यायन वार्तिक)अविशेषेण पितृपितामहादिषु अतिप्रसङ्गः(वार्तिकान्त) । अविशेषेण पितृपितामहादिषु अतिप्रसङ्गः भवति । पितृपितामहौ इति । अस्तु तर्हि ऋकारान्तानां यः द्वन्द्वः इति । ननु च उक्तं ऋकारान्तानां द्वन्द्वे पुत्रे उपसङ्ख्यानं इति । न एषः दोषः । पुत्रग्रहणं अपि प्रकृतं अनुवर्तते । क्व प्रकृतं । पुत्रे अन्यतरस्यां इति । यदि ततनुवर्तते विभाषा स्वसृपत्योः पुत्रे च इति पुत्रे अपि विभाषा प्राप्नोति । न एषः दोषः । सम्बन्धं अनुवर्तिष्यते । षष्ठ्याः आक्रोशे । पुत्रे अन्यतरस्यां षष्ठ्याः आक्रोशे । ऋतः विद्यायोनिसम्बन्धेभ्यः पुत्रे अन्यतरस्यां षष्ठ्याः आक्रोशे । विभाषा स्वसृपत्योः पुत्रे अन्यतरस्यां षष्ठ्याः आक्रोशे । आनङृतः द्वन्द्वे । पुत्रग्रहणं अनुवर्तते । षष्ठ्याः आक्रोशे इति निवृत्तं । यतपि उच्यते कार्यी च अनिर्दिष्टः इति । कार्यी च निर्दिष्टः । कथं । उत्तरपदे इति वर्तते । ङित्च अयं क्रियते । सः अन्तरेण अपि कार्यिनिर्देशं ऋकारान्तस्य एव भविष्यति । पुत्रे तर्हि कार्यी अनिर्दिष्टः । पुत्रे च कार्यी निर्दिष्टः । कथं । ऋकारग्रहणं अपि प्रकृतं अनुवर्तते । क्व प्रकृतं । ऋतः विद्यायोनिसम्बन्धेभ्यः । तत्वै पञ्चमीनिर्दिष्टं षष्ठीनिर्दिष्टेन च इह अर्थः । पुत्रे इति एषा सप्तमी ऋतः इति पञ्चम्याः षष्ठीं प्रकल्पयिष्यति तस्मिनिति निर्दिष्टे पूर्वस्य इति ।
(पाणिनीयसूत्र ६,३।२६) कि.।१४८।२०-१४९।२ रो. ईV।५९७ (कात्यायन वार्तिक)देवताद्वन्द्वे उभयत्र वायोः प्रतिषेधः(वार्तिकान्त) । देवताद्वन्द्वे उभयत्र वायोः प्रतिषेधः वक्तव्यः । वाय्वग्नी , अग्निवायू । (कात्यायन वार्तिक)ब्रह्मप्रजापत्यादीनां च(वार्तिकान्त) । ब्रह्मप्रजापत्यादीनां च प्रतिषेधः वक्तव्यः । ब्रह्मप्रजापती , शिववैश्रवणौ , स्कन्द्विशाखौ । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । द्वन्द्वे इति वर्तमाने पुनः द्वन्द्रग्रहणस्य एतत्प्रयोजनं लोकवेदयोः यः द्वन्द्वः तत्र यथा स्यात। कः च लोकवेदयोः द्वन्द्वः । वेदे ये सहनिर्वापनिर्दिष्टाः न च एते सहनिर्वापनिर्दिष्टाः ।
(पाणिनीयसूत्र ६,३।२८) कि.।१४९।४-५ रो. ईV।५९८ (कात्यायन वार्तिक)इद्वृद्धौ विष्णोः प्रतिषेधः(वार्तिकान्त) । इद्वृद्धौ विष्णोः प्रतिषेधः वक्तव्यः । आग्नावैष्णवं चरुं निर्वपेत।
(पाणिनीयसूत्र ६,३।३२-३३) कि.।१४९।८-१० रो. ईV।५९८ किं निपात्यते । पूर्वपदोत्तरपदयोः ऋकारस्य अरारौ निपात्येते । मातरपितरौ भोजयतः । मातरपितरौ आनय । अ मा गन्तां पितरामातरा च अ मा सोमः अमृतत्वय गम्यात।
(पाणिनीयसूत्र ६,३।३४।१) कि.।१५०।३-१६ रो. ईV।५९९-६०१ भाषितपुंस्कातिति कथं इदं विज्ञायते । समानायां आकृतौ यत्भाषितपुंस्कं आहोस्वित्क्व चित्भाषितपुंस्कं इति । किं च अतः । यदि विज्ञायते समानायां आकृतौ यत्भाषितपुंस्कं इति गर्भिभार्यः , प्रजातभार्यः , प्रसूतभारः इति अत्र न प्राप्नोति । अथ विज्ञायते क्व चित्भाषितपुंस्कं इति द्रोणीभार्यः , कुटीभार्यः , पात्रीभार्यः अत्र अपि प्राप्नोति । अस्तु समानायां आकृतौ यत्भाषितपुंस्कं इति । कथं गर्भिभार्यः , प्रजातभार्यः , प्रसूतभारः इति । कर्तव्यः अत्र यत्नः । अथ किमर्थं ऊङः पृथक्प्रतिषेधः उच्यते न यत्र एव अन्यः प्रतिषेधः तत्र एव अयं उच्येत । न कोपधायाः इति उक्त्वा ततः ऊङः च इति उच्येत । तत्र अपि अयं अर्थः द्विः प्रतिषेधः न वक्तव्यः भवति । न एवं शक्यं । पठिष्यति हि आचार्यः पुंवत्कर्मधारये प्रतिषिद्धार्थं इति । सः पुंवद्भावः यथा इह भवति : कारिका वृन्दारिका कारकवृन्दारिका इति एवं इह अपि स्यातः ब्रह्मबन्धूः वृन्दारिका ब्रह्मबन्दूवृन्दारिका इति । अथ पृथक्प्रतिषेधे अपि उच्यमाने यावता सः प्रतिषिद्धार्थः आरम्भः कस्मातेव अत्र न भवति । पृथक्प्रतिषेधवचनसामर्थ्यात। अथ वा अनूङिति तत्र अनुवर्तिष्यते । अथ वा न अयं प्रसज्यप्रतिषेधः । किं तर्हि पर्युदासः अयं यतन्यतनूङिति । सः च प्रतिषेधाऋथः आरम्भः ।
(पाणिनीयसूत्र ६,३।३४।२) कि.।१५०।१७-१५३।२० रो. ईV।६०१-६०९ किं पुनः इदं पुंवद्भावे स्त्रीग्र्हणं स्त्रीप्रत्ययग्रहणं आहोस्वित्स्त्रीशब्द्ग्रहणं आहोस्वित्स्त्र्यर्थग्रहणं । कः च अत्र विशेषः । (कात्यायन वार्तिक)पुंवद्भावे स्त्रीग्रहणं स्त्रीप्रत्ययग्रहणं चेत्तत्र पुंवतिति उत्तरपदे तत्प्रतिषेधविज्ञानम्(वार्तिकान्त) । पुंवद्भावे स्त्रीग्रहणं स्त्रीप्रत्ययग्रहणं चेत्तत्र पुंवतिति उत्तरपदे तत्प्रतिषेधः अयं विज्ञायेत । कस्य । स्त्रीप्रत्ययस्य प्रतिषेधः । किं उच्यते स्त्रीप्रत्ययस्य प्रतिषेधः इति । न पुनः अन्यतपि किं चित्पुंसः प्रतिपदं कार्यं उच्यते यत्समानाधिकरणे उत्तरपदे भाषितपुंस्कस्य अतिदिश्येत । अनारम्भात्पुंसि । न हि किं चित्पुंसः प्रतिपदं कार्यं उच्यते यत्समानाधिकरणे उत्तरपदे भाषितपुंस्कस्य अतिदिश्येत । तत्र किं अन्यत्शक्यं विज्ञातुं अन्यततः स्त्रीप्रत्ययप्रतिषेधात। कथं पुनः पुंवतिति अनेन स्त्रीप्रत्ययस्य प्रतिषेधः शक्यः विज्ञातुं । वतिनिर्देशः अयं कामचारः च वतिनिर्देशे वाक्यशेषं समर्थयितुं । तत्यथा । उशीनरवत्मद्रेषु यवाः । सन्ति न सन्ति इति । मातृवतस्याः कलाः । सन्ति न सन्ति । एवं इह अपि पुंवत्भवति पुंवत्न भवति इति वाक्यशेषं समर्थयिष्यामहे । यथा पुंसः स्त्रीप्रत्ययः न भवति एवं समानाधिकरणे उत्तरपदे भाषितपुंस्कस्य न भवति इति । (कात्यायन वार्तिक)प्रातिपदिकस्य च प्रत्यापत्तिः(वार्तिकान्त) । प्रातिपदिकस्य च प्रत्यापत्तिः वक्तव्या । एनी भार्या अस्य , एतभार्यः , श्येतभार्यः । पुंवद्भावेन किं क्रियते । स्त्रीप्रत्ययस्य निवृत्तिः । अर्थः अनिवृत्तः स्त्रीत्वं । तस्य अनिवृत्तत्वात्केन नशब्दः न श्रूयेत । स्त्रियां इति उच्यमानः प्राप्नोति । (कात्यायन वार्तिक)स्थानिवत्प्रसङ्गः च(वार्तिकान्त) । स्थानिवभावः च प्राप्नोति । पट्वीभारा अस्य पटुभार्यः । पुंवद्भावेन किं क्रियते । स्त्रीप्रत्ययस्य निवृत्तिः । तस्य स्थानिवभावात्यणादेशः प्राप्नोति । किमर्थं इदं उभयं उच्यते न प्रातिपदिकस्य च प्रत्यापत्तिः इति एव स्थानिवभावः अपि चोदितः स्यात। पुरस्तातिदं आचार्येण दृष्टं स्थानिवत्प्रसङ्गः च इति तत्पठितं । ततः उत्तरकालं इदं दृष्टं प्रातिपदिकस्य च प्रत्यापत्तिः इति । तथपि पठितं । न च इदानीं आचार्याः सूत्राणि कृत्वा निवर्तयन्ति । (कात्यायन वार्तिक)वतण्ड्यादिषु पुंवद्वचनम्(वार्तिकान्त) । वतण्ड्यादिषु पुंवद्भावः वक्तव्यः । के पुनः वतण्ड्यादयः । लुगलुगस्त्रीविषयद्विस्त्रीप्रत्ययाः । लुक। गार्ग्यः वृन्दारिका गर्गवृन्दारिका । पुंवद्भावेन किं क्रियते । स्त्रीप्रत्ययस्य निवृत्तिः । अर्थः अनिवृत्तः स्त्रीत्वं । तस्य अनिवृत्तत्वात्केन यशब्दः न श्रूयेत । अस्त्रियां इति हि लुकुच्यते । लुक। अलुक। वतण्डी वृन्दारिका वातण्ड्यवृन्दारिका । पुंवद्भावेन किं क्रियते । स्त्रीप्रत्ययस्य निवृत्तिः । अर्थः अनिवृत्तः स्त्रीत्वं । तस्य अनिवृत्तत्वात्लुक्स्त्रियां वतण्डातिति यकारस्य लुक्प्राप्नोति । यदि पुनः अयं ईकारे एव लुकुच्येत । ततीकारग्रहणं कर्तव्यं । न कर्तव्यं । क्रियते न्यासे एव । प्रश्लिष्टनिर्देशः अयं । स्त्री , ई स्त्री , स्त्रियां । ईकारविधौ वै अप्रत्ययकस्य पाठः क्रियते वतण्ड इति । शार्ङ्गरवादौ सप्रत्ययकस्य पाठः करिष्यते । सः वै सप्रत्ययकस्य पाठः कर्तव्यः । अन्तरङ्गत्वात्च लुक्प्राप्नोति । अलुक। अस्त्रीविषय । कौण्डीवृसी वृन्दारिका कौण्डीवृस्यवृन्दारिका । पुंवद्भावेन किं क्रियते । स्त्रीप्रत्ययस्य निवृत्तिः । अर्थः अनिवृत्तः स्त्रीत्वं । तस्य अनिवृत्तत्वात्केन यशब्दः श्रूयेत । अस्त्रियां इति हि ञ्यः विधीयते । अस्त्रीविषय । द्विस्त्रीप्रत्यय । गार्ग्यायणी वृन्दारिका गार्ग्यवृन्दारिका । अत्र पुंवद्भावः न प्राप्नोति । किं कारणं । भाषितपुंस्कातनूङः समानाधिकरणे उत्तरपदे पुंवद्भावः भवति इति उच्यते । यः च अत्र भाषितपुंस्कातनूङ्न असौ उत्तरपदे यः च उत्तरपदे न असौ भाषितपुंस्कातनूङिति । अस्तु तर्हि स्त्रीशब्दग्रहणं । (कात्यायन वार्तिक)स्त्रीशब्दस्य पुंशब्दातिदेशः इति चेत्सर्वप्रसङ्गः अविशेषात्(वार्तिकान्त) । स्त्रीशब्दस्य पुंशब्दातिदेशः इति चेत्सर्वस्य स्त्रीशब्दस्य पुंशब्दातिदेशः प्राप्नोति । अस्य अपि प्राप्नोति , अङ्गारकाः नाम शकुनयः । तेषां कालिकाः स्त्रियः । कालिकावृन्दारिकाः । अङ्गारकवृन्दारिकाः प्राप्नुवन्ति । क्षेमवृद्धयः क्षत्रियाः । तेषां तनुकेश्यः स्त्रियः । तनुकेशीवृन्दारिकाः । क्षेमवृद्धिवृन्दारिकाः प्राप्नुवन्ति । हंसस्य वरटा । कच्छपस्य डुली । ऋश्यस्य रोहित। अश्वस्य वडवा । पुरुषस्य योषित। किं कारणं । अविशेषात। न हि कः चित्विशेषः उपादीयते एवञ्जातीयकस्य स्त्रीशब्दस्य पुंशब्दातिदेशः भवति इति । अनुपादीयमाने विशेषे सर्वत्र प्रसङ्गः । कथं च नाम न उपादीयते यावता भाषितपुंस्कातिति उच्यते । (कात्यायन वार्तिक)भाषितपुंस्कानुपपत्तिः च(वार्तिकान्त) । ह्यर्थे च अयं चः पठितः । सर्वः हि शब्दः भाषितपुंस्कात्परः शक्यः कर्तुं । अस्तु तर्हि अर्थग्रहणं । (कात्यायन वार्तिक)अर्थातिदेशे विप्रतिषेधानुपपत्तिः(वार्तिकान्त) । अर्थातिदेशे विप्रतिषेधः न उपपद्यते । पठिष्यति हि आचार्यः विप्रतिषेधं पुंवद्भावात्ह्रस्वत्वं खिद्घादिकेषु इति । सः विप्रतिषेधः न उपपद्यते । द्विकार्ययोगः हि नाम विप्रतिषेधः न च अत्र एकः द्विकार्ययुक्तः । शब्दस्य ह्रस्वत्वं अर्थस्य पुंवद्भावः । किं च सर्वप्रसङ्गः अविशेषातिति । सर्वस्य स्त्रीशब्दस्य पुंशब्दातिदेशः प्राप्नोति । अस्य अपि प्राप्नोति , अङ्गारकाः नाम शकुनयः । तेषां कालिकाः स्त्रियः । कालिकावृन्दारिकाः । अङ्गारकवृन्दारिकाः प्राप्नुवन्ति । क्षेमवृद्धयः क्षत्रियाः । तेषां तनुकेश्यः स्त्रियः । तनुकेशीवृन्दारिकाः । क्षेमवृद्धिवृन्दारिकाः प्राप्नुवन्ति । हंसस्य वरटा । कच्छपस्य डुली । ऋश्यस्य रोहित। अश्वस्य वडवा । पुरुषस्य योषित। किं कारणं । अविशेषात। न हि कः चित्विशेषः उपादीयते एवञ्जातीयकस्य स्त्रीशब्दस्य पुंशब्दातिदेशः भवति इति । कथं च नाम न उपादीयते यावता भाषितपुंस्कातिति उच्यते । भाषितपुंस्कानुपपत्तिः हि भवति । न हि अर्थेन्पौर्वापर्यं अस्ति । अयं तावतदोषः यतुच्यते अर्थातिदेशे विप्रतिषेधानुपपत्तिः इति । न अवश्यं द्विकारयोगः एव विप्रतिषेधः । किं तर्हि । असम्भवः अपि । सः च अत्र अस्ति असम्भवः । कः असम्भवः । पुंवद्भावः अभिनिर्वर्तमानः ह्रस्वत्वस्य निमित्तं विहन्ति । ह्रस्वत्वं अभिनिर्वर्तमानं पुंवद्भावं बाधते । सति असम्भवे युक्तः विप्रतिषेधः । अयं तर्हि दोषः सर्वप्रसङ्गः अविशेषातिति । तस्मातस्तु सः एव मध्यमः पक्षः । ननु च उक्तं स्त्रीशब्दस्य पुंशब्दातिदेशः इति चेत्सर्वप्रसङ्गः अविशेषातिति । न एषः दोषः । समासनिर्देशः अयं : भाषितपुंस्कातनूङ्यस्मिन्सः अयं भाषितपुंस्कादनूङिति । यदि एवं लुक्प्राप्नोति । निपातनात्न भविष्यति । अथ वा अलुक्प्रकृतः सः अनुवर्तिष्यते । कथं पुनः अनूङिति अन्येन स्त्रीप्रत्ययग्रहणं शक्यं विज्ञातुं । नञिवयुक्तं अन्यसदृशाधिकरणे तथा हि अर्थगतिः । नञ्युक्तं इवयुक्तं च अन्यस्मिन्तत्सदृशे कार्यं विज्ञायते । तथा हि अर्थः गम्यते । तत्यथा अब्राह्मणं आनय इति उक्ते ब्राह्मणसदृशः आनीयते । न असौ लोष्टं आनीय कृती भवति । एवं इह अपि अनूङिति ऊङ्प्रतिषेधातन्यस्मिनूङ्सदृशे कार्यं विज्ञायते । किं च अन्यतनूङूङ्सदृशं । स्त्रीप्रत्ययः । एवं अपि इडबिड्वृन्दारिका , ऐडबिड्वृन्दारिका , पृथ्वृन्दारिका , पार्थवृन्दारिका , दरत्वृन्दारिका , दारदवृन्दारिका , उशिक्वृन्दारिका , औशिजवृन्दारिका , अत्र पुंवद्भावः न प्राप्नोति । कर्तव्यः अत्र यत्नः ।
(पाणिनीयसूत्र ६,३।३४।३) कि.।१५३।२१-२८ रो. ईV।६०९-६१० अथ इह कथं भवितव्यं । पट्वीमृद्व्यौ भार्ये अस्य पट्वीमृदुभार्यः , आहोस्वित्पटुमृदुभार्यः इति । पट्वीमृदुभार्यः इति भवितव्यं । पुंवद्भावः कस्मात्न भवति । भाषितपुंस्कातिति उच्यते । ननु च भोः पटुशब्दः मृदुशब्दः पुंसि भाष्येते । समानायां आकृतौ यत्भाषितपुंस्कं आकृत्यन्तरे च एतौ भाषितपुंस्कौ । समानायां आकृतौ अपि एतौ भाषितपुंस्कौ । कथं । आरभ्यते मतुब्लोपः । एवं तर्हि भाषितपुंस्कातनूङ्समानाधिकरणे उत्तरपदे कृतः तस्य पुंवद्भावः यस्य च अकृतः न असौ भाषितपुंस्कातनूङ्समानाधिकरणे उत्तरपदे ।
(पाणिनीयसूत्र ६,३।३४।४) कि.।१५४।१-४ रो. ईV।६१० (कात्यायन वार्तिक)पूरण्यां प्रधानपूरणीग्रहणम्(वार्तिकान्त) । पूरण्यां प्रधानपूरणीग्रहणं कर्तव्यं । इह मा भूत। कल्याणी पञ्चमी अस्य पक्षस्य कल्याणपञ्चमीकः पक्षः इति । अथ इह कथं भवितव्यं कल्याणी पञ्चमी आसां रात्रीणां इति । कल्याणीपञ्चमाः रात्रयः इति भवितव्यं । रात्रयः अत्र प्रधानं ।
(पाणिनीयसूत्र ६,३।३५) कि.।१५४।६-१५५।२४ रो. ईV।६१०-६१४ इह के चित्तसिलादयः आ कृत्वसुचः पठ्यन्ते येषु पुंवद्भावः न इष्यते के चित्च अन्यत्र पठ्यन्ते येषु पुंवद्भावः इष्यते । तत्र किं न्याय्यं । परिगणनं कर्तव्यं ।(कात्यायन वार्तिक) तसिलादी त्रतसौ(वार्तिकान्त) । त्रतसौ तसिलादी द्रष्टव्यौ । तस्यां शालायां वसति । तत्र वसति । तस्याः , ततः , यस्यां , यत्र, यस्याः , यतः । (कात्यायन वार्तिक)तरतमपौ(वार्तिकान्त) । तरतमपौ तसिलादी द्रष्टव्यौ । दर्शनीयतरा दर्शनीयतमा । (कात्यायन वार्तिक)चरड्जातीयरौ(वार्तिकान्त) । चरड्जातीयरौ तसिलादी द्रष्टव्यौ । पटुचरी , पटुजातीया । (कात्यायन वार्तिक)कल्पब्देशीयरौ(वार्तिकान्त) । कल्पब्देशीयरौ तसिलादी द्रष्टव्यौ । दर्शनीयकल्पा , दर्शनीयदेशीया । (कात्यायन वार्तिक)रूपप्पाशपौ(वार्तिकान्त) । रूपप्पाशपौ तसिलादी द्रष्टव्यौ । दर्शनीयरूपा , दर्शनीयपाशा । (कात्यायन वार्तिक)थम्थालौ(वार्तिकान्त) । थम्थालौ तसिलादी द्रष्टव्यौ । कया आकृत्या कथं , यया यथा । (कात्यायन वार्तिक)दार्हिलौ(वार्तिकान्त) । दार्हिलौ तसिलादी द्रष्टव्यौ । तस्यां वेलायां , तदा , तर्हि ।(कात्यायन वार्तिक) तिल्थ्यनौ(वार्तिकान्त) । तिल्थ्यनौ तसिलादी द्रष्टव्यौ । वृकी वृकतिः , अजथ्या यूथिः । (कात्यायन वार्तिक)शसि बह्वल्पार्थस्य(वार्तिकान्त) । शसि बह्वल्पार्थस्य पुंवद्भावः वक्तव्यः । बह्वीभ्यः देहि । बहुशः देहि । अल्पशः । (कात्यायन वार्तिक)त्वतलोः गुणवचनस्य(वार्तिकान्त) । त्वतलोः गुणवचनस्य पुंवद्भावः वक्तव्यः । पट्व्याः भावः पटुत्वं , पटुता । गुणवचनस्य इति किमर्थं । कठ्याः भावः कठीत्वं , कठीता । (कात्यायन वार्तिक)भस्य अढे तद्धिते(वार्तिकान्त) । भस्य अढे तद्धिते पुंवद्भावः वक्तव्यः । हस्तिनीनां समूहः हास्तिकं । अढे इति किमर्थं । श्यैनेयः , रौहिणेयः । यदि अढे इति उच्यते , अग्नायी देवता अस्य , आग्नेयः स्थालीपाकः , अत्र न प्राप्नोति । इह च प्राप्नोति , कौण्डिन्यः , सापत्नः इति । यदि पुनः अनपत्ये इति उच्येत । न एवं शक्यं । इह हि न स्यात। गार्ग्यायण्याः अपत्यं माणवकः गार्गः जाल्मः । अस्तु तर्हि अढे इति एव । कथं कौण्डिन्यः , सापत्नः इति । कौण्डिन्ये निपातनात्सिद्धं । किं निपातनं । आगस्त्यकौण्डिन्ययोः इति । सापत्नशब्दः प्रकृतयतरं । [ऱ्६१३ः सापत्नः प्रकृत्यन्ततत्वात। सापत्नशब्दः प्रकृतयतरं अस्ति ।] कथं अग्नायी देवता अस्य स्थालीपाकस्य , आग्नेयः स्थालीपाकः इति । अस्तु तर्हि अनपत्ये इति । कथं गार्गः जाल्मः । गार्गाग्नेयौ न संवदेते । कर्तव्यः अत्र यत्नः । (कात्यायन वार्तिक)ठक्छसोः च(वार्तिकान्त) । ठक्छसोः च पुंवद्भावः वक्तव्यः । भवत्याः छात्राः , भावत्काः , भवदीयाः । ठग्ग्रहणं किमर्थं न इके कृते अजादौ इति । न एवं शक्यं । अजादिलक्षणे हि माथितिकादिवत्प्रसङ्गः । अजादिलक्षणे हि माथिकादिवत्प्रसज्येत । तत्यथ मथितं पण्यं अस्य माथितिकः इति अकारलोपे कृते तान्तातिति कादेशः न भवति एवं इह अपि न स्यात।
(पाणिनीयसूत्र ६,३।३६) कि.।१५६।२-६ रो. ईV।६१४ मनिन्ग्रहणं किमर्थं । (कात्यायन वार्तिक)मानिन्ग्रहणं अस्त्र्यर्थं असमानाधिकरणार्थं च(वार्तिकान्त) । मानिन्ग्रहणं क्रियते अस्त्र्यर्थं असमानाधिकरणार्थं च । अस्त्र्यर्थं तावत। दर्शनीयां मन्यते देवदत्तः यज्ञदत्तां दर्शनीयमानी अयं अस्याः । असमानाधिकरणार्थं । दर्शनीयां मन्यते देवदत्ता यज्ञदत्तां दर्शनीयमानिनी इयं अस्याः ।
(पाणिनीयसूत्र ६,३।३७) कि.।१५६।८-१७ रो. ईV।६१५-६१६ किं इदं एवमादि अनुक्रमणं आद्यस्य योगस्य विषये आहोस्वित्पुंवद्भावमात्रस्य । किं च अतः । यदि आद्यस्य योगस्य विषये माध्यम्कीयः , शालूकिकीयः , अत्र न प्राप्नोति । विधीः अपि अत्र न सिध्यति । किं कारणं । भाषितपूंश्कातनूङिति उच्यते । न हि एतत्भवति भाषितपूंश्कातनूङ। इदं तर्हि विलेपिकायाः धर्म्यं वैलेपिकं । विधिः च सिद्धः भवति प्रतिषेधः च न प्राप्नोति । अथ पुंवभावमात्रस्य विषये हस्तिनीनां समूहः हास्तिकं , जातिलक्षणः पुंवभावप्रतिषेधः प्राप्नोति । एवं तर्हि न कोपधायाः इति एषः योगः पुंवभावमात्रस्य उत्तरं एवमादि अनुक्रमणं आद्यस्य योगस्य विषये । (कात्यायन वार्तिक)न कोपधप्रतिषेधे तद्धितवुग्रहणम्(वार्तिकान्त) । न कोपधप्रतिषेधे तद्धितवुग्रहणं कर्तव्यं । तद्धितस्य यः ककारः वोः च यः ककारः तस्य ग्रहणं कर्तव्यं । इह मा भूत। पाकभार्यः , भेकभार्यः ।
(पाणिनीयसूत्र ६,३।४०) कि.।१५६।१९-१५७।२ रो. ईV।६१६ (कात्यायन वार्तिक)स्वाङ्गात्च ईतः अमानिनि(वार्तिकान्त) । स्वाङ्गात्च ईतः अमानिनि इति वक्तव्यं इह अपि यथा स्यात। दीर्घमुखमानी , श्लक्ष्णमुखमानिनी । यदि अमानिनि इति उच्यते दीर्घमुखमानिनी , श्लक्ष्णमुखमानिनिनी इति न सिध्यति । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणं भवति इति एवं भविष्यति ।
(पाणिनीयसूत्र ६,३।४२।१) कि.।१५७।४-१४ रो. ईV।६१६-६१७ किमर्थं इदं उच्यते । (कात्यायन वार्तिक)पुंवत्कर्मधारये प्रतिषिद्धार्थम्(वार्तिकान्त) । प्रतिषिद्धाऋथः अयं आरम्भः । न कोपधायाः इति उक्तं । तत्र अपि पुंवत्भवति । कारिका वृन्दारिका कारकवृन्दारिका कारकजातीया कारकदेशीया । सञ्ज्ञापूरणयोः च इति उक्तं । तत्र अपि पुंवत्भवति । दत्ता वृन्दारिका दत्तवृन्दारिका दत्तजातीया दत्तदेशीया । पञ्चमी वृन्दारिका पञ्चमवृन्दारिका पञ्चमजातीया पञ्चमदेशीया । वृद्धिनिमित्तस्य इति उक्तं । तत्र अपि पुंवत्भवति । स्रौघ्नी वृन्दारिका स्रौघ्नवृन्दारिका स्रौघ्नजातीया स्रौघ्नदेशीया । स्वाङ्गात्च ईतः अमानिनि इति उक्तं । तत्र अपि पुंवत्भवति । श्लक्ष्णमुखी वृन्दारिका श्लक्ष्णमुखवृन्दारिका श्लक्ष्णमुखजातीया श्लक्ष्णमुखदेशीया । जातेः च इति उक्तं । तत्र अपि पुंवत्भवति । कठी वृन्दारिका कठवृन्दारिका कठजातीया कठदेशीया ।
(पाणिनीयसूत्र ६,३।४२।२) कि.।१५७।१५-२४ रो. ईV।६१७-६१८ (कात्यायन वार्तिक)कुक्कुट्यादीनां अण्डादिषु पुंवद्वचनम्(वार्तिकान्त) । कुक्कुट्यादीनां अण्डादिषु पुंवद्भावः वक्तव्यः । कुक्कुट्याः अण्डं कुक्कुटाण्डं , मृग्याः पदं मृगपदं , काक्याः शावः काकशावः । (कात्यायन वार्तिक)न वा अस्त्रीपूर्वपदविवक्षितत्वात्(वार्तिकान्त) । न वा वक्तव्यं । किं कारणं अस्त्रीपूर्वपदविवक्षितत्वात। न अत्र स्त्रीपूर्वपदं विवक्षितं । किं तर्हि । अस्त्रीपूर्वपदं । उभयोः अण्डं उभयोः पदं उभयोः शावः । यदि अपि तावतत्र एतत्शक्यते वक्तुं इह तु कथं । मृग्याः क्षीरं मृघक्षीरं इति । अत्र अपि न वा अस्त्रीपूर्वपदविवक्षितत्वातिति एव । कथं पुनः सतः नाम अवाविवक्षा स्यात। सतः अपि अविवक्षा भवति । तत्यथा । अलोमिका एडका । अनुदरा कन्या इति । असतः च विवक्षा भवति । समुद्रः कुण्डिका । विन्ध्यः वर्धितकं इति ।
(पाणिनीयसूत्र ६,३।४२।३) कि.।१५८।१-१८ रो. ईV।६१८-६१९ (कात्यायन वार्तिक)अग्नेः ईत्त्वात्वरुणस्य वृद्धिः विप्रतिषेधेन(वार्तिकान्त) । अग्नेः ईत्त्वात्वरुणस्य वृद्धिः भवति विप्रतिषेधेन । अग्नेः ईत्त्वस्य अवकाशः , अग्नीषोमौ । वरुणस्य वृद्धेः अवकाशः , वायुवारुणं । इह उभयं प्राप्नोति , आग्निवारुणीं अनड्वाहीं आलभेत । वरुणस्य वृद्धिः भवति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । द्विकार्ययोगः हि विप्रतिषेधः न च अत्र एकः द्विकार्ययुक्तः । कथं । अग्नेः ईत्त्वं वरुणस्य वृद्धिः । न अवश्यं द्विकारयोगः एव विप्रतिषेधः । किं तर्हि । असम्भवः अपि । सः च अत्र अस्ति असम्भवः । कः असौ असम्भवः । अग्नेः ईत्त्वं अभिनिर्वर्तमनं वरुणस्य वृद्धिं बाधते । वरुणस्य वृद्धिः अभिनिर्वर्तमना अग्नेः ईत्त्वं बाधते । एषः असम्भवः । सति असम्भवे युक्तः विप्रतिषेधः । (कात्यायन वार्तिक)पूंवद्भावात्ह्रस्वत्वं खिद्घादिषु(वार्तिकान्त) । पूंवद्भावात्ह्रस्वत्वं भवति विप्रतिषेधेन खिद्घादिषु । पूंवद्भावस्य अवकाशः , पटुभार्यः , मृदुभार्यः । खिति ह्रस्वः भवति इति अस्य अवकाशः , कालिम्मन्यः , हरिणिम्मन्यः । इह उभयं प्राप्नोति , कालिम्मन्या , हरिणिम्मन्या । घादिषु नद्याः ह्रस्वः भवति इति अस्य अवकाशः , नर्तकितरा , नर्तकितमा । पूंवद्भावस्य अवकाशः , दर्शनीयतरा , दर्शनीयतमा । इह उभयं प्राप्नोति , पट्वितरा , पट्वितमा । के ह्रस्वः भवति इति अस्य अवकाशः , नर्तकिक । पूंवद्भावस्य अवकाशः , दारदिका । इह उभयं प्राप्नोति , पट्विका , मृद्विका । ह्रस्वत्वं भवति विप्रतिषेधेन । अथ इदानीं ह्रस्वत्वे कृते पुनःप्रसङ्गविज्ञानात्पुंवद्भावः कस्मात्न भवति । सकृत्गतौ विप्रतिषेधे यत्बाधितं तत्बाधितं एव इति ।
(पाणिनीयसूत्र ६,३।४३) कि.।१५८।२१-१५९।९ रो. ईV।६२०-६२१ ङीग्रहणं किमर्थं । अनेकाचः ह्रस्वः इति इयति उच्यमाने खट्वातरा मालातरा , अत्र अपि प्रसज्येत । न एततस्ति प्रयोजनं । भाषितपुंस्कातिति वर्तते । एवं अपि दत्तातरा गुप्तातरा , अत्र अपि प्राप्नोति । ईतः इति वर्तते । एवं अपि ग्रामणीतरः , सेनाणीतरः अत्र अपि प्राप्नोति । स्त्रियां इति वर्तते । एवं अपि ग्रामणीतरा , सेनाणीतरा अत्र अपि प्राप्नोति । स्त्रियाः स्त्रियां इति वर्तते । शेषप्रक्¯प्त्यर्थं तर्हि ङीग्रहणं कर्तव्यं , नद्याः शेषस्य अन्यतरस्यां इति । कः शेषः । आङीच या नदी ङ्यन्तं च यतेकाच। अन्तरेण अपि ङीग्रहणं क्¯प्तः शेषः । कथं । ईतः इति वर्तते । अनीत्च या नदी , ईदन्तं च यतेकाच। शेषग्रहणं च अपि शक्यं अकर्तुं । कथं । अविशेषेण घादिषु नद्याः अन्यतरस्यां ह्रस्वत्वं उत्सर्गः । तस्य अनेकाचः नित्यं ह्रस्वत्वं अपवादः । तस्मिन्नित्ये प्राप्ते उगितः विभाषा आरभ्यते । यदि एवं लक्ष्मितरा तन्त्रितरा इति न सिध्यति । लक्ष्मीतरा तन्त्रीतरा इति प्राप्नोति । इष्टं एव एतद्सङ्गृहीतं । लक्ष्मीतरा तन्त्रीतरा इति एव भवितव्यं । एवं हि सौनागाः पठन्ति । घादिषु नद्याः ह्रस्वत्वे कृन्नद्याः प्रतिषेधः ।
(पाणिनीयसूत्र ६,३।४६।१) कि.।१६०।२-१६१।५ रो. ईV।६२२-६२७ इह कस्मात्न भवति , अमहान्महान्सम्पन्नः महद्भूतः चन्द्रमाः इति । (कात्यायन वार्तिक)अन्यप्रकृतिः तु अमहान्महत्प्रकृतौ महान्महति एव (वार्तिकान्त)। अन्यः महान। अन्यः महान्भूतप्रकृतौ वर्तते । महान्महति एव । (कात्यायन वार्तिक)तस्मातात्त्वं न स्यात्(वार्तिकान्त)। तस्मातात्त्वं न भविष्यति । (कात्यायन वार्तिक)पुंवत्त्वं तु कथं भवेतत्र(वार्तिकान्त) । पुंवद्भावः अपि तर्हि न प्राप्नोति । अमहती महती सम्पन्ना महद्भूता ब्राह्मणी । एवं तर्हि (कात्यायन वार्तिक)अमहति महान्हि वृत्तः तद्वाची च अत्र भूतशब्दः अयम्(वार्तिकान्त) । अमहति हि महच्छब्दः वर्तते तद्वाची च अत्र भूतशब्दः प्रयुज्यते । किंवाची । महद्वाची । (कात्यायन वार्तिक)तस्मात्सिध्यति पुंवत्(वार्तिकान्त)। तस्मात्सिध्यति पुंवद्भावः । यदि एवं आत्त्वं अपि प्राप्नोति । महद्भूतः चन्द्रमाः । (कात्यायन वार्तिक)निवर्त्यं आत्त्वं तु मन्यन्ते(वार्तिकान्त) । आत्त्वं अपि प्राप्नोति । न एषः दोषः । (कात्यायन वार्तिक)यः तु महतः प्रतिपदं समासः उक्तः तदाश्रयं हि आत्त्वं कर्तव्यं मन्यन्ते न लक्षणेन लक्षणोक्तः च अयं (वार्तिकान्त)। एवं तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति प्रतिपदं यः समासः विहितः तस्य ग्रहणं । लक्षणोक्तः च अयं । इह अपि तर्हि न प्राप्नोति । महान्बाहुः अस्य महाबाहुः इति । (कात्यायन वार्तिक)शेषवचनात्तु यः असौ प्रत्यारम्भात्कृतः बहुव्रीहिः तस्मात्सिध्यति तस्मिन्(वार्तिकान्त) । यस्मात्शेषः बहुव्रीहिः इति सिद्धे अनेकं अन्यपदार्थे इति आह तेन प्रतिपदं भवति । (कात्यायन वार्तिक)प्रधानतः वा यतः वृत्तिः(वार्तिकान्त) । अथ वा गौणमुख्ययोः मुख्ये कार्यसम्प्रत्ययः । तत्यथा गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति न बाहीकः अनुबध्यते । कथं तर्हि बाहीके वृद्ध्यात्त्वे भवतः । गौः तिष्ठति , गां आनय इति । अर्थाश्रये एततेवं । यत्हि शब्दाश्रयं शब्दमात्रे तत्भवति । शब्दाश्रये च वृद्ध्यात्त्वे ।
(पाणिनीयसूत्र ६,३।४६।२) कि.।१६१।६-१५ रो. ईV।६२७-६२८ (कात्यायन वार्तिक)महदात्त्वे घासकरविशिष्टेषु उपसङ्ख्यानं पुंवद्वचनं च असमानाधिकरणार्थम्(वार्तिकान्त) । महदात्त्वे घासकरविशिष्टेषु उपसङ्ख्यानं कर्तव्यं पुंवद्भावः च असमानाधिकरणार्थः कर्तव्यः । महत्याः घासः महाघासः , महत्याः करः महाकरः , महत्याः विशिष्टः महाविशिष्टः । (कात्यायन वार्तिक)अष्टनः कपाले हविषि(वार्तिकान्त) । अष्टनः कपाले हविषि उपसङ्ख्यानं कर्तव्यं । अष्टाकपालं चरुं निर्वपेत। हविषि इति किमर्थं । अष्टकपालं ब्राह्मणस्य । (कात्यायन वार्तिक)गवि च युक्ते(वार्तिकान्त) । गवि च युक्ते उपसङ्ख्यानं कर्तव्यं । अष्टागवेन शकटेन । युक्ते इति किमर्थं । अष्टगवं ब्राह्मणस्य ।
(पाणिनीयसूत्र ६,३।४७) कि.।१६१।१७-१८ रो. ईV।६२९ प्राक्शतातिति वक्तव्यं इह मा भूत। द्विशतं , द्विसहस्रं , अष्तशतं , अष्टसहस्रं ।
(पाणिनीयसूत्र ६,३।४८) कि.।१६१।२०-१६२।३ रो. ईV।६२९ सर्वेषाङ्ग्रहणं किमर्थं । चत्वारिंशत्प्रभृतौ सर्वेषां विभाषा यथा स्यात्, द्व्यष्टनोः च त्रेः च । न एततस्ति प्रयोजनं । प्रकृतं द्व्यष्टन्ग्रहणमनुवर्तिष्यते । यदि ततनुवर्तते त्रेः त्रयः द्व्यष्टनोः च इति द्व्यष्टनोः अपि द्त्रयः आदेशः प्राप्नोति । न एषः दोषः । मण्डूकगतयः अधिकाराः । यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वतधिकाराः । अथ वा एकयोगः करिष्यते । द्व्यष्टनः सङ्ख्ययां अबहुव्रीह्यशीत्योः त्रेः त्रयः । ततः विभाषा चत्वारिंशत्प्रभृतौ सर्वेषां इति । अथ वा उभयं निवृत्तं ततपेक्षिष्यामहे ।
(पाणिनीयसूत्र ६,३।५०) कि.।१६२।५-१७ रो. ईV।६२९-६३१ यण्ग्रहणं इदं प्रत्ययग्रहणं । तत्र प्रत्ययग्रहणे यस्मात्सः तदादेः ग्रहणं भवति इति यदणन्ते प्राप्नोति । (कात्यायन वार्तिक)यदण्ग्रहणे रूपग्रहणं लेखग्रहणात्(वार्तिकान्त) । यदण्ग्रहणे रूपग्रहणं द्रष्टव्यं । कुतः । लेखग्रहणात। यतयं लेखग्रहणं करोति तत्ज्ञापयति आचार्यः न यदणन्ते भवति इति । अपरः आह : अत्यल्पं इदं उच्यते । सर्वत्र एव उत्तरपदाधिकारे प्रत्ययग्रहणे रूपग्रहणं द्रष्टव्यं । कुतः । लेखग्रहणातेव । किं प्रयोजनं । कुमारी गौरितरा । घादिषु नद्याः ह्रस्वः भवति इति ह्रस्वत्वं प्रसज्येत । यदि एतत्ज्ञाप्यते खिति अनव्ययस्य इति खिति एव अनन्तरस्य अनव्ययस्य ह्रस्वत्वं प्राप्नोति । खिति अनन्तरः ह्रस्वभावी न अस्ति इति कृत्वा खिदन्ते भविष्यति । ननु च अयं अस्ति स्तनन्धयः इति । अत्र अपि शपा व्यवधानं । एकादेशे कृते न अस्ति व्यवधानं । एकादेशः पूर्वविधौ स्थानिवत्भवति इति स्थानिवद्भावात्व्यवधानं एव । अथ वा एतत्ज्ञापयति आचार्यः खिति अनन्तरस्य न भवति इति यतयं अनव्ययस्य इति प्रतिषेधं शास्ति । न हि खिति अनन्तरं अव्ययं अस्ति ।
(पाणिनीयसूत्र ६,३।५२) कि.।१६२।१९-१६३।४ रो. ईV।६३१-६३२ (कात्यायन वार्तिक)पदादेशे अन्तोदात्तनिपातनम्(वार्तिकान्त) [ऱः (कात्यायन वार्तिक)पदोपहतार्थम्(वार्तिकान्त)] । पदादेशे अन्तोदात्तनिपातनं कर्तव्यं । किं प्रयोजनं । (कात्यायन वार्तिक)पदोपहतार्थम्(वार्तिकान्त) । पादेन उपहतं पदोपहतं । तृतीया कर्मणि इति प्रकृतिस्वरत्वे पूर्वपदान्तोदात्तत्वं यथा स्यात। (कात्यायन वार्तिक)उपदेशिवद्वचनं च स्वरसिद्ध्यर्थम्(वार्तिकान्त) । उपदेशिवद्भावः च वक्तव्यः । किं प्रयोजनं । स्वरसिद्ध्यर्थं । उपदेशावस्थायां अन्तोदात्तनिपातने कृते समासस्वरेण बाधनं यथा स्यात। पदाजिः , पदातिः ।
(पाणिनीयसूत्र ६,३।५३) कि.।१६३।६-७ रो. ईV।६३२ (कात्यायन वार्तिक)पद्भावे इके चरतौ उपसङ्ख्यानम्(वार्तिकान्त) । पद्भावे इके चरतौ उपसङ्ख्यानं कर्तव्यं । पादाभ्यां चरति पदिकः ।
(पाणिनीयसूत्र ६,३।५६) कि.।१६३।९ रो. ईV।६३२ निष्के च उपसङ्ख्यानं कर्तव्यं । पन्निष्केण पादनिष्केण ।
(पाणिनीयसूत्र ६,३।५७) कि.।१६३।११-१२ रो. ईV।६३२ सञ्ज्ञायां उत्तरपदस्य इति वक्तव्यं इह अपि यथा स्यात। लोहितोदः , क्षीरोदः इति ।
(पाणिनीयसूत्र ६,३।५९) कि.।१६३।१४-१६४।२ रो. ईV।६३३ एकहलादौ इति किमर्थं । उदकस्थानं । उच्यमाने अपि एतस्मिनत्र प्रप्नोति । एततपि एकहलादि । किं कारणं । एकैकवर्णवर्तित्वात्वाचः उच्चरितप्रध्वंसित्वात्च वर्णानां । एकैकवर्णवर्तिनी वाक। न द्वौ वर्णौ युगपतुच्चारयति । तत्यथा गौः इति उक्ते यावत्गकारे वाक्वर्तते तावत्न औकारे न विसर्जनीये । यावतौअकारे न तावत्गकारे न विसर्जनीये । यावत्विसर्जनीये न तावत्गकारे न औकारे । उच्चरितप्रध्वंसित्वात्च वर्णानां । उच्चरितः वर्णः प्रध्वस्तः च । अथ अपरः प्रयुज्यते । न वर्णः वर्णस्य सहायः । एवं तर्हि एकहलादौ इति उच्यते सर्वः च एकहलादिः । तत्र प्रकर्षगतिः विज्ञायते : साधीयः यः एकहलादिः इति । कः च साधीयः । यत्र एकं हलं उच्चार्य अचुच्यते ।
(पाणिनीयसूत्र ६,३।६१) कि.।१६४।४-१९ रो. ईV।६३४-६३५ (कात्यायन वार्तिक)इकः ह्रस्वत्वं उत्तरपदमात्रे(वार्तिकान्त) । इकः ह्रस्वत्वं उत्तरपदमात्रे वक्तव्यं इह अपि यथा स्यात्, अलाबुकर्कन्धुदृन्भुफलं इति । किं पुनः कारणं न सिध्यति । (कात्यायन वार्तिक)सर्वान्ते हि लोकविज्ञानम्(वार्तिकान्त) । लोकविज्ञानात्हि यतेव सर्वान्तं पदं तस्मिन्पूर्वपदस्य ह्रस्वत्वं स्यात। अथ वा एवं विग्रहः करिष्यते । अलाबूः च कर्कन्धूः च , अलाबुकर्कन्ध्वौ , अलाबुकर्कन्ध्वौ दृन्भूः च, अलाबुकर्कन्धुदृन्भ्वः , अलाबुकर्कन्धुदृन्भूनां फलं अलाबुकर्कन्धुदृन्भुफलं इति । यदि एवं दृन्भ्वाः पूर्वनिपातः प्राप्नोति । राजदन्तादिषु पाठः करिष्यते । अथ वा एवं विग्रहः करिष्यते । दृन्भ्वाः फलं दृन्भुफलं , कर्कन्धूः च दृन्भुफलं च कर्कन्धुदृन्भुफलं , अलाबूः च कर्कन्धुदृन्भुफलं च अलाबुकर्कन्धुदृन्भुफलं इति । एवं अपि फलेन अकृतः अभिसम्बन्धः भवति । प्रत्येकं फलशब्दः परिसमाप्यते । (कात्यायन वार्तिक)इयङुवङव्ययप्रतिषेधः(वार्तिकान्त) । इयङुवङ्भाइनां अव्ययानां च प्रतिषेधः वक्तव्यः । श्रीकुलं , भ्रूकुलं , काण्डीभूतं वृषलकुलं , कुड्यीभूतं वृषलकुलं । अभ्रूकंसादीनां इति वक्तव्यं । भ्रुकुंसः , भ्रुकुटिः । अपरः आह : अकारः भ्रूकंसादीनां इति वक्तव्यं । भ्रकुंसः , भ्रकुटिः ।
(पाणिनीयसूत्र ६,३।६२) कि.।१६४।२१ रो. ईV।६३५-६३६ तद्धिते किं उदाहरणं । एकत्वं , एकता । न एततस्ति प्रयोजनं । पुंवद्भावेन अपि एतत्सिद्धं । कथं पुंवद्भावः । तासिलादिषु आ कृत्वसुचः । इदं तर्हि प्रयोजनं । एकस्याः आगतं एकरूप्यं , एकमयं । इदं च अपि उदाहरणं । एकत्वं , एकता । ननु च उक्तं पुंवद्भावेन अपि एतत्सिद्धं इति । न सिध्यति । उक्तं एतत्त्वतलोः गुणवचनस्य इति । अथ उत्तरपदे किं उदाहरणं । एकशाटी । न एततस्ति । पुंवद्भावेन अपि एतत्सिद्धं । कथं पुंवद्भावः । समानाधिकरणलक्षणः । इदं तर्हि प्रयोजनं । एकस्याः क्षीरं एकषीरं । इदं च अपि उदाहरणं । एकशाटी । ननु च उक्तं पुंवद्भावेन अपि एतत्सिद्धं इति । न सिध्यति । न कोपधायाः इति प्रतिषेधः प्राप्नोति । न एषः दोषः । उक्तं एतत्कोपधप्रतिषेधे तद्धितवुग्रहणं इति ।
(पाणिनीयसूत्र ६,३।६६) कि.।१६५।९-१६६।३ रो. ईV।६३६-६३७ (कात्यायन वार्तिक)खिति ह्रस्वाप्रसिद्धिः अनजन्तत्वात्(वार्तिकान्त) । खिति ह्रस्वाप्रसिद्धिः । कालिम्मन्या , हरिणिम्मन्या । किं कारणं । अनजन्तत्वात। मुमि कृते अनजन्तत्वात्ह्रस्वत्वं न प्राप्नोति । (कात्यायन वार्तिक)सिद्धं तु ह्रस्वान्तस्य मुम्वचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । ह्रस्वान्तस्य मुं भवति इति वक्तव्यं । (कात्यायन वार्तिक)सन्नियोगात्वा(वार्तिकान्त) । अथ वा सन्नियोगः करिष्यते । कः एषः यत्नः चोद्यते सन्नियोगः नाम । चकारः कर्तव्यः । मुं च । किं च। यत्च अन्यत्प्राप्नोति । किं च अन्यत्प्राप्नोति । ह्रस्वत्वं । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं खिति ह्रस्वाप्रसिद्धिः अनजन्तत्वातिति । परिहृतं एतत्सिद्धं तु ह्रस्वान्तस्य मुम्वचनातिति । तत्तर्हि ह्रस्वग्रहणं कर्तव्यं । न कर्तव्यं । प्रकृतं अनुवर्तते । क्व प्रकृतं । इकः ह्रस्वः अङ्यः गालवस्य इति । तत्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन च इह अर्थः । खिति इति एषा सप्तमी ह्रस्वः इति प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मिनिति निर्दिष्टे पूर्वस्य इति । अथ वा खिति ह्रस्वः भवति इति उच्यते । खिति ह्रस्वभावी न अस्ति इति कृत्वा भूतपूर्वगतिः विज्ञास्यते । अजन्तं यत्भूतपूर्वं इति । अथ वा कार्यकालं सञ्ज्ञापरिभाषं यत्र कार्यं तत्र द्रष्टव्यं । खिति ह्रस्वः भवति इति उपस्थितं इदं भवति अचः इति । तत्र वचनातनजन्तस्य अपि भविष्यति । इह अपि तर्हि वचनात्प्राप्नोति । वाङ्मन्यः इति । न एततस्ति । इकः इति वर्तते । एवं अपि खट्वम्मन्यः , अत्र न प्राप्नोति । न एषः दोषः । आब्ग्रहणं अपि प्रकृतं अनुवर्तते । क्व प्रकृतं । ङ्यापोः सञ्ज्ञाच्छन्दसोः बहुलं इति । एवं अपि कीलालपम्मन्यः , शुभंयम्मन्यः अत्र न प्राप्नोति । तस्मात्पूर्वोक्तौ एव परिहारौ ।
(पाणिनीयसूत्र ६,३।६८।१) कि.।१६६।५-१६७।३ रो. ईV।६३८-६३९ अमः प्रत्ययवदनुदेशे किं प्रयोजनं । (कात्यायन वार्तिक)अमः प्रत्ययवदनुदेशे प्रयोजनं आत्वपूर्वसवर्णगुणेयङुवङादेशाः(वार्तिकान्त) । अमः प्रत्ययवदनुदेशे आत्वपूर्वसवर्णगुणेयङुवङादेशाः प्रयोजनं । आत्वं प्रयोजनं । गाम्मन्यः । पूर्वसवर्णः प्रयोजनं । स्त्रीम्मन्यः । गुणः प्रयोजनं । नरम्मन्यः । इयङुवङौ प्रयोजनं । श्रियम्मन्यः , भ्रुवम्मन्यः । (कात्यायन वार्तिक)अमः प्रत्ययवदनुदेशे आत्वपूर्वसवर्णाप्रसिद्धिः अप्रथमात्वात्(वार्तिकान्त) । अमः प्रत्ययवदनुदेशे आत्वपूर्वसवर्णयोः अप्रसिद्धिः । किं कारणं । अप्रथमात्वात। प्रथमयोः इति उच्यते न च अत्र प्रथमां पश्यामः । किं च भोः आत्वं प्रथमयोः इति उच्यते । न खलु प्रथमयोः इति उच्यते । प्रथमयोः इति तु विज्ञायते । कथं । अम्शसोः इति उच्यते । ते एवं विज्ञास्यामः । शस्सहचरितः यः अम्शब्दः । कः च शस्सहचरितः । प्रथमा एव । ननु च प्रत्ययवदनुदेशात्भविष्यति । न सिध्यति । किं कारणं । (कात्यायन वार्तिक)सामान्यातिदेशे [ऱः हि] विशेषानतिदेशः(वार्तिकान्त) । सामन्ये हि अतिदिश्यमाने विशेषः न अतिदिष्टः भवति । तत्यथा । ब्रह्मणवतस्मिन्क्षत्रिये वर्तितव्यं इति सामान्यं यत्ब्राह्मणकार्यं तत्क्षत्रिये अतिदिश्यते । यत्विशिष्टं माठरे कौण्डिन्ये वा न तततिदिश्यते । एवं इह अपि सामान्यं यत्प्रत्ययकार्यं तततिदिश्यते यत्विशिष्टं द्वितीयैकवचने भवति प्रथमयोः इति न तततिदिश्यते । (कात्यायन वार्तिक)सिद्धं तु द्वितीयैकवचनवद्वचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । द्वितीयैकवचनवत्भवति इति वक्तव्यं । (कात्यायन वार्तिक)एकशेषनिर्देशात्वा(वार्तिकान्त) । अथ वा एकशेषनिर्देशः अयं । अं च अं च अं । इचः एकाचः अं भवति अम्प्रत्ययवत्च अस्मिन्कार्यं भवति इति ।
(पाणिनीयसूत्र ६,३।६८।२) कि.।१६७।४-१४ रो. ईV।६३९-६४० अथ इह कथं भवितव्यं । श्रियं आत्मानं मन्यते ब्राह्मणकुलं । श्रियम्मन्यं आहोस्वित्श्रिमन्यं इति । श्रियम्मन्यं इति भवितव्यं । स्वमोः नपुंसकातिति लुक्कस्मात्न भवति । न अप्राप्ते लुकि अं आरभ्यते । सः यथा एव सुपः धातुप्रातिपदिकयोः इति एतं बाधते एवं स्वमोः नपुंसकातिति एतं अमि लुकं बाधेत । न बाधते । किं कारणं । येन न अप्राप्ते तस्य बाधनं भवति । न च अप्राप्ते सुपः धातुप्रातिपदिकयोः इति एतस्मिनेततारभ्यते । स्वमोः नपुंसकातिति एतस्मिन्पुनः प्राप्ते च अप्राप्ते च । अथ वा मध्ये अपवादाः पूर्वान्विधीन्बाधन्ते इति एवं सुपः धातुप्रातिपदिकयोः इति एतं बाधते । स्वमोः नपुंसकातिति एतं न बाधिष्यते । एवं तर्हि असिद्धं बहिरङ्गं अन्तरङ्गे इति असिद्धत्वात्बहिरङ्गलक्षणस्य अमः अन्तरङ्गलक्षणः लुक्न भविष्यति । न एषा परिभाषा उत्तरपदाधिकारे शक्या विज्ञातुं । इह हि दोषः स्यात। द्विषन्तपः , परन्तपः । संयोगान्तलोपः न स्यात। तस्मात्श्रिमन्यं इति एव भवितव्यं ।
(पाणिनीयसूत्र ६,३।७०) कि.।१६७।१६-१६८।१४ रो. ईV।६४१-६४२ (कात्यायन वार्तिक)अस्तुसत्यागदस्य कारे(वार्तिकान्त) । अस्तुसत्यागदस्य कारे उपसङ्ख्यानं कर्तव्यं । अस्तुङ्कारः , सत्यङ्कारः , अगदङ्कारः । (कात्यायन वार्तिक)भक्षस्य छन्दसि(वार्तिकान्त) । भक्षस्य छन्दसि उपसङ्ख्यानं कर्तव्यं । तस्य ते भक्षङ्कारस्य । छन्दसि इति किं । भक्षकारस्य तत्मतं इति । (कात्यायन वार्तिक)धेनोः भव्यायाम्(वार्तिकान्त) । धेनोः भव्यायां उपसङ्ख्यानं कर्तव्यं । धेनुम्भव्या । ल्(कात्यायन वार्तिक)ओकस्य पृणे(वार्तिकान्त) । लोकस्य पृणे उपसङ्ख्यानं कर्तव्यं । लोकम्प्र्णस्य धन्विनः । (कात्यायन वार्तिक)इत्ये अनभ्याशस्य(वार्तिकान्त) । इत्ये अनभ्याशस्य उपसङ्ख्यानं कर्तव्यं । अनभ्याशमित्यः । (कात्यायन वार्तिक)भ्राष्ट्राग्न्योः इन्धे(वार्तिकान्त) । भ्राष्ट्राग्न्योः इन्धे उपसङ्ख्यानं कर्तव्यं । भ्राष्ट्रमिन्धः , अग्निमिन्धः । (कात्यायन वार्तिक)गिले अगिलस्य(वार्तिकान्त) । गिले अगिलस्य उपसङ्ख्यानं कर्तव्यं । तिमिङ्गिलः । अगिलस्य इति किमर्थं । गिलगिलः । गिलगिले च इति वक्तव्यं । तिमिङ्गिलगिलः । (कात्यायन वार्तिक)उष्णभद्रयोः करणे(वार्तिकान्त) । उष्णभद्रयोः करणे उपसङ्ख्यानं कर्तव्यं । उष्णङ्करणं , भद्रङ्करणं । (कात्यायन वार्तिक)सूतोग्रराजभोजकुलमेरुभ्यः दुहितुः पुत्रट्वा(वार्तिकान्त) । सूतोग्रराजभोजकुलमेरुभ्यः दुहितुः पुत्रट्वा भवति इति वक्तव्यं । सूतपुत्री , सूतदुहिता , उग्रपुत्री , उग्रदुहिता , रजपुत्री , राजदुहिता , भोजपुत्री , भोजदुहिता , कुलपुत्री , कुलदुहिता , मेरुपुत्री , मेरुदुहिता ।
(पाणिनीयसूत्र ६,३।७२) कि.।१६८।१६-२० रो. ईV।६४२-६४३ किं इयं प्राप्ते विभाषा आहोस्वितप्राप्ते । कथं च प्राप्ते कथं वा अप्राप्ते । खिति इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते । (कात्यायन वार्तिक)रात्रेः अप्राप्ते(वार्तिकान्त) । रात्रेः अप्राप्ते विभाषा । प्राप्ते नित्यः विधिः । रात्रिम्मन्यः । अप्राप्ते विभाषा । रात्र्यटः , रात्रिमटः ।
(पाणिनीयसूत्र ६,३।७३) कि.।१६८।२२-१६९।८ रो. ईV।६४२-६४३ किमर्थं नञः सानुबन्धकस्य ग्रहणं क्रियते न नस्य इति एव उच्येत । नस्य इति उच्यमाने कर्णपुत्रः , वर्णपुत्रः इति अत्र अपि प्रसज्येत । न एषः दोषः । अर्थवद्ग्रहणे न अनर्थकस्य इति एवं एतस्य न भविष्यति । एवं अपि प्रश्नपुत्रः , विश्नपुत्रः इति अत्र अपि प्राप्नोति । न एषः दोषः । अननुबन्धकग्रहणे न सानुबन्धकस्य इति एवं एतस्य न भविष्यति । एवं अपि वामनपुत्रः , पामनपुत्रः इति अत्र अपि प्राप्नोति । तस्मात्सानुबन्धकस्य ग्रहणं कर्तव्यं । (कात्यायन वार्तिक)नञः नलोपे अवक्षेपे तिङि उपसङ्ख्यानम्(वार्तिकान्त) । नञः नलोपे अवक्षेपे तिङि उपसङ्ख्यानं कर्तव्यं । अपचसि वै त्वं जाल्म । अकरोषि वै त्वं जाल्म ।
(पाणिनीयसूत्र ६,३।७४) कि.।१६९।१०-१६ रो. ईV।६४४ किमर्थं तस्मातिति उच्यते न नुटचि इति एव उच्येत । नुटचि इति उच्यमाने नञः एव नुट्प्रसज्येत । एवं तर्हि पूर्वान्तः करिष्यते । तत्र अयं अपि अर्थः । तदोः सः सौ अनन्त्ययोः इति तदोः ग्रहणं न कर्तव्यं । तत्र हि तवर्गानिर्देशे एतत्प्रयोजनं इह मा भूत। अनेषः करोति इति । यावता पूर्वान्तः सः अपि अदोषः भवति । न एवं शक्यं । अनुष्णः इति नलोपः प्रातिपदिकान्तस्य इति नलोपः प्रसज्येत । नुग्वचनात्न भविष्यति । ङमुट्तर्हि प्राप्नोति । तस्मात्परादिः कर्तव्यः । परादौ च क्रियमाणे तस्मातिति वक्तव्यं ।
(पाणिनीयसूत्र ६,३।७६) कि.।१६९।१८-१७०।४ रो. ईV।६४४-६४५ किमर्थं आदुकुच्यते न अदुकेव उच्यते । का रूपसिद्धिः : एकान्नविंशतिः , एकान्नशतं । सवर्णदीर्घत्वेन सिद्धं । न सिध्यति । अतः गुणे इति पररूपत्वं प्राप्नोति । एवं तर्हि अदुट्करिष्यते । अदुट्च अशक्यः कर्तुं । आनुनासिक्यं हि न स्यात। यत्हि तत्यरः अनुनासिके अनुनासिकः व इति पदान्तस्य इति एवं तत। किं पुनः कारणं पदान्तस्य इति एवं तत। इह मा भूत। बुध्नः , ब्रध्नः , बध्नाति । एवं तर्हि अनुट्करिष्यते । अनुट्च अशक्यः कर्तुं । विभाषया आनुनासिक्यं । तेन इदं एव रूपं स्यातेकान्नविंशतिः । इदं न स्यात। एकान्नविंशतिः इति । अस्तु तर्हि अदुकेव । ननु च उक्तं अतः गुणे इति पररूपत्वं प्राप्नोति इति । न एषः दोषः । अकारोच्चारणसामर्थ्यात्न भविष्यति । यदि तर्हि प्राप्नुवन्विधिः अकारोच्चारणसामर्थ्यात्बाध्यते सवर्णदीर्घत्वं अपि न प्राप्नोति । यं विधिं प्रति उपदेशः अनर्थकः सः विधिः बाध्यते । यस्य तु विधिः निमित्तं एव न असौ बाध्यते । पररूपं च प्रति अकारोच्चारणं अनर्थकं सवर्णदीर्घत्वस्य पुनः निमित्तं एव ।
(पाणिनीयसूत्र ६,३।७८) कि.।१७०।६-१२ रो. ईV।६४५-६४६ (कात्यायन वार्तिक)सहस्य हलोपवचनम्(वार्तिकान्त) । सहस्य हलोपः वक्तव्यः । (कात्यायन वार्तिक)सादेशे हि स्वरे दोषः(वार्तिकान्त) । सादेशे हि [सति] स्वरे दोषः स्यात। आन्तर्यतः उदात्तानुदात्तयोः [स्थाने] स्वरितः आदेशः प्रसज्येत । [सपुत्रः , सभार्यः ।] सः तर्हि लोपः वक्तत्व्यः । न वक्तत्व्यः । आद्युदात्तनिपातनं करिष्यते । सः निपातनस्वरः प्रकृतिस्वरस्य बाधकः भविष्यति । एवं अपि उपदेशिवद्भावः वक्तव्यः । सः यथा एव हि निपातनस्वरः प्रकृतिस्वरं बाधते एवं समासस्वरं अपि बाधेत । सेष्टि , सपशुबन्धं ।
(पाणिनीयसूत्र ६,३।७९) कि.।१७०।१४-१७ रो. ईV।६४६ (कात्यायन वार्तिक)ग्रन्थान्ते वचनानर्थक्यं अव्ययीभावेन कृतत्वात्(वार्तिकान्त)। ग्रन्थान्ते वचनं अनर्थकं । किं कारणं । अव्ययीभावेन कृतत्वात। अव्ययीभावे च अकाले इति एव सिद्धं । यः तर्हि कालोत्तरपदः ग्रन्थान्तः तदर्थं इदं वक्तव्यं । सकाष्ठं ज्योतिषं अधीते । सकलं , समुहूर्तं ।
(पाणिनीयसूत्र ६,३।८२): कि.।१७०।१९-१७१।११ रो. ईV।६४६-६४७ (कात्यायन वार्तिक)उपसर्जनस्य वावचने सर्वप्रसङ्गः अविशेषात्(वार्तिकान्त) । उपसर्जनस्य वावचने सर्वप्रसङ्गः । सर्वस्य उपसर्जनस्य सादेशः प्राप्नोति । अस्य अपि प्राप्नोति : सहयुध्वा , सहकृत्वा । किं कारणं । अविशेषाथ। न हि कः चित्विशेषः उपादीयते एवञ्जातीयकस्य सादेशः भवति इति । अनुपादीयमाने विशेषे सर्वप्रसङ्गः । (कात्यायन वार्तिक)सिद्धं तु बहुव्रीहिनिर्देशात्(वार्तिकान्त) । सिद्धं एतत। कथं । बहुव्रीहिनिर्देशात। बहुव्रीहिनिर्देशः कर्तव्यः । एवं अपि सहयुध्वप्रियः , सहकृत्वप्रियः इति अत्र प्राप्नोति । बहुव्रीहौ यतुत्तरपदं इति एवं विज्ञास्यते । ननु एततपि बहुव्रीहौ उत्तरपदं । एवं तर्हि बहुव्रीहौ यतुपसर्जनं इति एवं विज्ञास्यते । बहुव्रीहौ च यतुपसर्जनं बहुव्रीहिं प्रति च यतुपसर्जनं । सः तर्हि बहुव्रीहिनिर्देशः कर्तव्यः । न कर्तव्यः । इह कः चित्प्रधानानां एव समासः कः चितुपसर्जनानां एव कः चित्प्रधानोपसर्जनानां । तत्यः उपसर्जनानां एव समासः ततुपसर्जनं । अथ वा अकारः मत्वर्थीयः । तत्यथा तुन्दः घाटः इति । अथ वा मतुब्लोपः अत्र द्रष्टव्यः । तत्यथा पुष्यकाः एषां ते इमे पुष्यकाः । कालकाः एषां ते इमे कालकाः इति ।
(पाणिनीयसूत्र ६,३।८३): कि.।१७१।१३-१४ रो. ईV।६४८ (कात्यायन वार्तिक)प्रकृत्या आशिषि अगवादिषु(वार्तिकान्त) । प्रकृत्या आशिषि अगवादिषु इति वक्तव्यं । इह मा भूत। सगवे सवत्साय सहलाय इति ।
(पाणिनीयसूत्र ६,३।८६) कि.।१७१।१६-१९ रो. ईV।६४८ चरणे किं निपात्यते । (कात्यायन वार्तिक)ब्रह्मणि उपपदे समानपूर्वे व्रते कर्मणि चरेः णिनिः व्रतलोपः च(वार्तिकान्त) । ब्रह्मणि उपपदे समानपूर्वे व्रते कर्मणि चरेः णिनिः प्रत्ययः व्रतलोपः च निपात्यते । समाने ब्रह्मणि व्रतं चतर्ति इति सब्रह्मचारी ।
(पाणिनीयसूत्र ६,३।८९) कि.।१७१।२१-२२ रो. ईV।६४९ (कात्यायन वार्तिक)दृग्दृशवतुषु दृक्षे उपसङ्ख्यानं (वार्तिकान्त)। दृग्दृशवतुषु दृक्षे उपसङ्ख्यानं कर्तव्यं । सदृक्षासः प्रतिसदृक्षासः ।
(पाणिनीयसूत्र ६,३।९३, ११६) कि.।१७२।२-११ रो. ईV।६४९-६५० किमर्थं अञ्चतिनह्यादिषु क्विब्ग्रहणं क्रियते । इह मा भूत। समञ्चनं , उपनहनं । न एततस्ति प्रयोजनं । उत्तरपदे इति वर्तते न च अन्तरेण क्विपं अञ्चतिनह्यादयः उत्तरपदानि भवन्ति । तत्र अन्तरेण क्विब्ग्रहणं क्विबन्ते एव भविष्यति । तदादिविधिना प्राप्नोति । अतः उत्तरं पठति (कात्यायन वार्तिक)अञ्चतिनह्यादिषु क्विब्ग्रहणनार्थक्यं यस्मिन्विधिः तदादौ अल्ग्रहणे(वार्तिकान्त) । अञ्चतिनह्यादिषु क्विब्ग्रहणं अनर्थकं । किं कारणं । यस्मिन्विधिः तदादौ अल्ग्रहणे । अल्ग्रहणेषु एतत्भवति न च इदं अल्ग्रहणं । एवं तर्हि सिद्धे सति यत्क्विब्ग्रहणं करोति तत्ज्ञापयति आचार्यः अन्यत्र धातुग्रहणे तदादिविधिः भवति इति । किं एतस्य ज्ञापने प्रयोजनं । अतः कृकमि इति अत्र , अयस्कृतयस्कार इति अपि सिद्धं भवति ।
(पाणिनीयसूत्र ६,३।९२) कि.।१७२।१४-२१ रो. ईV।६५० (कात्यायन वार्तिक)अद्रिसध्र्योः अन्तोदात्तवचनं कृत्स्वरनिवृत्त्यर्थम्(वार्तिकान्त) । अद्रिसध्र्योः अन्तोदात्तत्वं वक्तव्यं । किं प्रयोजनं । कृत्स्वरनिवृत्त्यर्थं । कृत्स्वरः मा भूत। विष्वद्र्यङ्, विष्वद्र्यञ्चौ , विष्वद्र्यञ्चः , सध्र्यङ्, सध्र्यञ्चौ , सध्र्यञ्चः । (कात्यायन वार्तिक)तत्र छन्दसि स्त्रियां प्रतिषेधः(वार्तिकान्त) । तत्र छन्दसि स्त्रियां प्रतिषेधः वक्तव्यः । विश्वाची , घृताची । यदि छन्दसि स्त्रियां प्रतिषेधः उच्यते कथं सा कद्रीची । एवं तर्हि छन्दसि स्त्रियां बहुलं इति वक्तव्यं ।
(पाणिनीयसूत्र ६,३।९७) कि.।१७३।२-५ रो. ईV।६५१ (कात्यायन वार्तिक)समापः ईत्त्वप्रतिषेधः(वार्तिकान्त) । समापः ईत्त्वप्रतिषेधः वक्तव्यः । समापं नाम देवयजनं । अपरः आह : ईत्त्वं अनवर्णातिति वक्तव्यं । समीपं , अन्तरीपं । इह मा भूत। प्रापं , परापं ।
(पाणिनीयसूत्र ६,३।९८) कि.।१७३।७-८ रो. ईV।६५१ दीर्घोच्चारणं किमर्थं न उदनोः देशे इति एव उच्येत । का रूपसिद्धिः : अनूपः । सवर्णदीर्घत्वेन्सिद्धं । न सिध्यति । अवग्रहे दोषः स्यात।
(पाणिनीयसूत्र ६,३।९९) कि.।१७३।११-१३ रो. ईV।६५१ अषष्ठ्यतृतीयस्थस्य इति उच्यते । तत्र इदं न सिध्यति । अन्यस्य इदं अन्यदीयं । अन्यस्य कारकं अन्यत्कारकं । एवं तर्हि अविशेषेण अन्यस्य दुक्छकारकयोः इति उक्त्वा ततः वक्ष्यामि अषष्ठ्यतृतीयस्थस्य आशीराशास्थास्थितोत्सुकोतिरागेषु इति ।
(पाणिनीयसूत्र ६,३।१०१) कि.।१७३।१६-१७ रो. ईV।६५१ (कात्यायन वार्तिक)कद्भावे त्रौ उपसङ्ख्यानम्(वार्तिकान्त) । कद्भावे त्रौ उपसङ्ख्यानं कर्तव्यं । कुत्सिताः त्रयः कत्त्रयः । के वा त्रयः । न बिभृयुः कत्त्रयः ।
(पाणिनीयसूत्र ६,३।१०९।१) कि.।१७३।१९-१७४।१५ रो. ईV।६५२-६५४ पृषोदरादीनि इति उच्यते । कानि पृषोदरादीनि । पृषोदरप्रकाराणि । कानि पुनः पृषोदरप्रकाराणि । येषु लोपागमविकाराः श्रूयन्ते न च उच्यन्ते । अथ यथा इति किं इदं । प्रकारवचने थाल। अथ किं इदं उपदिष्टानि इति । उच्चारितानि । कुतः एतत। दिशिः उच्चारणक्रियः । उच्चार्य हि वर्णानाह उप्दिष्टाः इमे वर्णाः इति । कैः पुनः उपदिष्टाः । शिष्टैः । के पुनः शिष्टाः । वैयाकरणाः । कुतः एतत। शास्त्रपूर्विका हि शिष्टिः वैयाकरणाः च शास्त्रज्ञाः । यदि तर्हि शास्त्रपूर्विका शिष्टिः शिष्टिपूर्वकं च शास्त्रं ततितरेतराश्रयं भवति । इतरेतराश्रयाणि च न प्रकल्पन्ते । एवं तर्हि निवासतः आचारतः च । सः च आचारः आर्यावर्त्ते एव । कः पुनः आर्यावर्त्तः । प्राकादर्शात्[ऱदर्शनात्] प्रत्यक्कालकवनात्दक्षिणेन हिमवन्तं उत्तरेण पारियात्रं । एतस्मिनार्यनिवासे ये ब्राह्मणाः कुम्भीधान्याः अलोलुपाः अगृह्यमाणकारणाः किं चितन्तरेण कस्याः चित्विद्यायाः पारगाः तत्रभवन्तः शिष्टाः । यदि तर्हि शिष्टाः शब्देषु प्रमाणं किं अष्टाध्याय्या क्रियते । शिष्टज्ञानार्था अष्टाध्यायी । कथं पुनः अष्टाध्याय्या शिष्टाः शक्याः विज्ञातुं । अष्टाध्यायीं अधीयानः अन्यं पश्यति अनधीयानं ये अत्र विहिताः शब्दाः तान्प्रयुञ्जानं । सः पश्यति । नूनं अस्य दैवानुग्रहः स्वभावः वा यः अयं न च अष्टाध्यायीं अधीते ये च अस्यं विहिताः शब्दाः तान्प्रयुङ्क्ते । नूनं अयं अन्यानपि जानाति । एवं एषा शिष्टज्ञानार्था अष्टाध्यायी ।
(पाणिनीयसूत्र ६,३।१०९।२) कि.।१७४।१६-१७५।७ रो. ईV।६५४-६५५ (कात्यायन वार्तिक)दिक्शब्देभ्यः तीरस्य तारभावः वा(वार्तिकान्त) । दिक्शब्देभ्यः तीरस्य तारभावः वा वक्तव्यः । दक्षिणतीरं , दक्षिणतारं । (कात्यायन वार्तिक)वाचः वादे डत्वं वलभावः च उत्तरपदस्य इञि(वार्तिकान्त) । वाचः वादे डत्वं वक्तव्यं वलभावः च उत्तरपदस्य इञि वक्तव्यः । वाग्वादस्य अपत्यं वाड्वलिः । (कात्यायन वार्तिक)षषः उत्वं दतृदशसु उत्तरपदादेः ष्टुत्वं च(वार्तिकान्त) । षषः उत्वं वक्तव्यं उत्तरपदादेः ष्टुत्वं च वक्तव्यं । षोडशन्, षोडश । (कात्यायन वार्तिक)धासु वा(वार्तिकान्त) । धासु वा इति वक्तव्यं उत्तरपदादेः ष्टुत्वं च वक्तव्यं । षोढा षड्ढा कुरु । अथ किमर्थं बहुवचननिर्देशः क्रियते न पुनः धायां इति एव उच्यते । नानाधिकरणवाची यः धाशब्दः तस्य ग्रहणं यथा विज्ञायेत । इह मा भूत। षट्दधाति इति षड्धा इति । (कात्यायन वार्तिक)दुरः दाशनाशदभध्येषु(वार्तिकान्त) । दुरः दाशनाशदभध्येषु उत्वं वक्तव्यं उत्तरपदादेः च ष्टुत्वं । दूडाशः , दूणाशः , दूडभः , दूढ्यः । (कात्यायन वार्तिक)स्वरो रोहतौ छन्दसि(वार्तिकान्त) । स्वरो रोहतौ छन्दसि उत्वं वक्तव्यं । एहि त्वं जाये स्वो रोहाव । पीवोपवसनादीनां छन्दसि लोपः वक्तव्यः । पीवोपवसनानां पयोपवसनानां श्रिया इदं ।
(पाणिनीयसूत्र ६,३।१११) कि.।१७५।९-१४ रो. ईV। ६५६ पूर्वग्रहणं किमर्थं न तस्मिनिति निर्दिष्टे पूर्वस्य इति पूर्वस्य एव भविष्यति । न सिध्यति । न हि ढ्रलोपेन आनन्तर्यं । इह कस्मात्न भवति करणीयं , हरणीयं । न एवं विज्ञायते ढ्रोः लोपः ढ्रलोपः , ढ्रलोपे इति । कथं तर्हि । ढ्रोः लोपः अस्मिन्सः अयं ढ्रलोपः , ढ्रलोपे इति । यदि एवं न अर्थः पूर्वग्रहणेन । भवति हि ढ्रलोपेन आनन्तर्यं । इदं तर्हि प्रयोजनं । उत्तरपदे इति वर्तते । तेन आनन्तर्यमात्रे यथा स्यात। औदुम्बरिः राजा । पुनः रूपाणि कल्पयेत।
(पाणिनीयसूत्र ६,३।११२) कि.।१७५।१६-१७६।४ रो. ईV।६५६-६५७ वर्णग्रहणं किमर्थं न सहिवहोः ओतस्य इति एव उच्येत । वृद्धौ अपि कृतायां यथा स्यात। उदवोढां , उदवोढं , उदवोढ इति । अथ अवर्णग्रहणं किमर्थं । इह मा भूत। ऊढः , ऊढवानिति । न एततस्ति प्रयोजनं । भवतु अत्र ओत्त्वं । श्रवणं कस्मात्न भवति । पूर्वत्वं अस्य भविष्यति । इदं इह सम्प्रधार्यं । ओत्त्वं क्रियतां पूर्वत्वं इति किं अत्र कर्तव्यं । परत्वातोत्त्वं । अन्तरङ्गं पूर्वत्वं । एवं तर्हि इदं इह सम्प्रधार्यं । ओत्त्वं क्रियतां सम्प्रसारणं इति किं अत्र कर्तव्यं । परत्वातोत्त्वं । नित्यं सम्प्रसारणं । कृते अपि ओत्त्वे प्राप्नोति अकृते अपि । ओत्त्वं अपि नित्यं । कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि । अनित्यं ओत्त्वं । न हि कृते सम्प्रसारणे प्राप्नोति । अन्तरङ्गं पूर्वत्वं । यस्य च लक्षणान्तरेण निमित्तं विहन्यते न ततनित्यं । न च सम्प्रसारणं एव ओत्त्वस्य निमित्तं विहन्ति । अवश्यं लक्षणान्तरं पूर्वत्वं प्रतीक्ष्यं । उभयोः नित्ययोः परत्वातोत्त्वं । ओत्त्वे कृते सम्प्रसारणं सम्प्रसारणपूर्वत्वं । तत्र कार्यकृतत्वात्पुनः ओत्त्वं न भविष्यति ।
(पाणिनीयसूत्र ६,३।१२१) कि.।१७६।६ रो. ईV।६५८ अपील्वादीनां इति वक्तव्यं । इह मा भूत। रुचिवहं , चारुवहं ।
(पाणिनीयसूत्र ६,३।१२२) कि.।१७६।८-१३ रो. ईV।६५८ अम्नुष्यादिषु इति वक्तव्यं । इह मा भूत। प्रसेवः , प्रहारः , प्रसारः । (कात्यायन वार्तिक)सादकारयोः कृत्रिमे(वार्तिकान्त) । सादकारयोः कृत्रिमे इति वक्तव्यं । इह एव यथा स्यात। प्रासादः , प्राकारः । इह मा भूत। एषः अस्य प्रसादः । एषः अस्य प्रकारः । (कात्यायन वार्तिक)प्रतिवेशादीनां विभाषा(वार्तिकान्त) । प्रतिवेशादीनां विभाषा दीर्घत्वं वक्तव्यं । प्रतिवेशः , प्रतीवेशः , प्रतिकारः , प्रतीकारः ।
(पाणिनीयसूत्र ६,३।१२४) कि.।१७६।१५-२० रो. ईV।६५८-६५९ कथं इदं विज्ञायते । दा इति एतस्मिन्तकारादौ , आहोस्विथ्दा इति एतस्मिन्तकारान्ते इति । किं च अतः । यदि विज्ञायते तकारादौ इति नीत्ता वित्ता , अत्र न प्राप्नोति । अथ विज्ञायते तकारान्ते इति सुदत्तं प्रतिदत्तं अत्र अपि प्राप्नोति । यथा इच्छसि तथा अस्तु । अस्तु तावत्तकारादौ इति । कथं नीत्ता वित्ता । चर्त्वे कृते भविष्यति । असिद्धं चर्त्वं । तस्य असिद्धत्वात्न प्राप्नोति । आश्रयात्सिद्धत्वं भविष्यति । अथ वा पुनः अस्तु तकारान्ते इति । कथं सुदत्तं प्रतिदत्तं । न एतत्तकारान्तं । थकारान्तं एतत।
(पाणिनीयसूत्र ६,३।१३८) कि.।१७७।५-१० रो. ईV।६५९(कात्यायन वार्तिक) (वार्तिकान्त)इह अन्ये आचार्याः चौ प्रत्यङ्गस्य प्रतिषेधं आहुः । ततिह अपि साध्यं । न एषः दोषः । एततेव ज्ञापयति आचार्यः न प्रत्यङ्गं भवति इति यतयं चौ दीर्घत्वं शास्ति ।
(पाणिनीयसूत्र ६,३।१३९) कि.।१७७।२-३ रो. ईV।६५९-६६० (कात्यायन वार्तिक)इकः ह्रस्वात्सम्प्रसारणदीर्घत्वं विप्रतिषेधेन(वार्तिकान्त) । इकः ह्रस्वात्सम्प्रसारणदीर्घत्वं भवति विप्रतिषेधेन । इकः ह्रस्वस्य अवकाशः । ग्रामणिकुलं , सेनानिकुलं । सम्प्रसारणदीर्घत्वस्य अवकाशः । विभाषा ह्रस्वत्वं । यदा न ह्रस्वत्वं सः अवकाशः । ह्रस्वप्रसङ्गे उभयं प्राप्नोति । कारीषगन्धीपुत्रः , क्ॐउदगन्धीपुत्रः । सम्प्रसारणदीर्घत्वं भवति विप्रतिषेधेन । अथ इदानीं दीर्घत्वे कृते पुनःप्रसङ्गविज्ञानात्ह्रस्वत्वं कस्मात्न भवति । सकृद्गतौ विप्रतिषेधेन यत्बाधितं तत्बाधितं एव इति ।
(पाणिनीयसूत्र ६,४।१।१) कि.।१७८।२-१० रो. ईV।६६१-६६२ आ कुतः अयं अधिकारः । आ सप्तमाध्यायपरिसमाप्तेः अङ्गाधिकारः । यदि आ सप्तमाध्यायपरिसमाप्तेः अङ्गाधिकारः गुणः यङ्लुकोः इति यङ्लुग्ग्रहणं कर्तव्यं । प्राकभ्यासविकारेभ्यः पुनः अङ्गाधिकारे सति प्रत्ययलक्षणेन सिद्धं । अस्तु तर्हि प्राकभ्यासविकारेभ्यः अङ्गाधिकारः । यदि प्राकभ्यासविकारेभ्यः अङ्गाधिकारः वव्रश्च वकारस्य सम्प्रसारणं प्राप्नोति । आ सप्तमाध्यायपरिसमाप्तेः पुनः अङ्गाधिकारे सति उः अदत्वस्य स्थानिवद्भावान्न सम्प्रसारणे सम्प्रसारणं इति प्रतिषेधः सिद्धः भवति । सः च इदानीं अपरिहारः भवति यत्ततुक्तं अङ्गान्यत्वात्च सिद्धं इति । अस्तु तर्हि आ सप्तमाध्यायपरिसमाप्तेः अङ्गाधिकारः । ननु च उक्तं गुणः यङ्लुकोः इति यङ्लुग्ग्रहणं कर्तव्यं इति । क्रियते न्यासे एव ।
(पाणिनीयसूत्र ६,४।१।२) कि.।१७८।११-१७९।१० रो. ईV।६६२-६६५ किं पुनः इयं स्थान्षष्ठी , अङ्गस्य स्थाने इति । एवं भवितुं अर्हति । (कात्यायन वार्तिक)अङ्गस्य इति स्थानषष्ठी चेत्पञ्चम्यन्तस्य च अधिकारः(वार्तिकान्त) । अङ्गस्य इति स्थानषष्ठी चेत्पञ्चम्यन्तस्य च अधिकारः कर्तव्यः । अङ्गातिति अपि वक्तव्यं । अनुच्यमाने हि अतः भिसः ऐस्भवति इति अतः इति पञ्चमी अङ्गस्य इति स्थानषष्ठी । तत्र अशक्यं विविभक्तिकत्वाततः इति पञ्चम्या अङ्गं विशेषयितुं । तत्र कः दोषः । अकारात्परस्य भिस्मात्रस्य ऐस्-भावः भवति इति इह अपि प्रसज्येत : ब्राह्मणभिस्सा , ओदनभिस्सटा इति । (कात्यायन वार्तिक)अवयवषष्ठ्यादीनां च अप्रसिद्धिः(वार्तिकान्त) । अवयवषष्ठ्यादयः च न सिध्यन्ति । तत्र कः दोषः । शासः इतङ्हलोः इति शासेः च अन्त्यस्य स्यातुपधामात्रस्य च । ऊतुपधायाः गोहः इति गोहेः च अन्त्यस्य स्यातुपधामात्रस्य च । (कात्यायन वार्तिक)सिद्धं तु परस्परं प्रति अङ्गप्रत्ययसङ्ज्ञाभावात्(वार्तिकान्त) । सिद्धं एतत। कथं । परस्परं प्रति अङ्गप्रत्ययसङ्ज्ञे भवतः । अङ्गसञ्ज्ञां प्रति प्रत्ययसञ्ज्ञा प्रत्ययसञ्ज्ञां प्रति अङ्गसञ्ज्ञा । किं अतः यत्परस्परं प्रति अङ्गप्रत्ययसङ्ज्ञे भवतः । (कात्यायन वार्तिक)सम्बन्धषष्थीनिर्देशः च(वार्तिकान्त) । सम्बन्धषष्थीनिर्देशः च अयं कृतः भवति । अङ्गस्य यः भिस्-शब्दः इति । किं च अङ्गस्य भिस्-शब्दः । निमित्तं । यस्मिनङ्गं इति एतत्भवति । कस्मिन्च एतत्भवति । प्रत्यये । एवं अपि अवयवषष्ठ्यादयः अविशेषिताः भवन्ति । अवयवषष्ठ्यादयः अपि सम्बन्धे एव । एवं अपि स्थानं अविशेषितं भवति । स्थानं अपि सम्बन्धः एव । एवं अपि न ज्ञायते क्व स्थानषष्ठी क्व विशेषणषष्ठी इति । यत्र षष्ठी अन्ययोगं न अपेक्षते सा स्थानषष्ठी । यत्र हि अन्ययोगं अपेक्षते सा विशेषणषष्ठी ।
(पाणिनीयसूत्र ६,४।१।३) कि.।१७९।११-१८०।२३ रो. ईV।६६५-६६९ कानि पुनः अङ्गाधिकारस्य प्रयोजननि । (कात्यायन वार्तिक)अङ्गाधिकारस्य प्रयोजनं सम्प्रसारणदीर्घत्वे(वार्तिकान्त) । हलः उत्तरस्य सम्प्रसारणस्य दीर्घः भवति । हूतः , जीनः , संवीतः , शूनः । अङ्गस्य इति किमर्थं । निरुतं , दुरुतं । (कात्यायन वार्तिक)नाम्सनोः च(वार्तिकान्त) । नाम्सनोः च दीर्घत्वे प्रयोजनं । नामि दीर्घः भवति । अग्नीनां , वायूनां । अङ्गस्य इति किमर्थं । क्रिमिणां पश्य । पामनां पश्य । सनि दीर्घः भवति । चिचीषति , तुष्टूषति । अङ्गस्य इति किमर्थं । दधि सनोति । मधु सनोति । (कात्यायन वार्तिक)लिङि एत्वे(वार्तिकान्त) । लिङि एत्वे प्रयोजनं । ग्लेयात्, म्लेयात। अङ्गस्य इति किमर्थं । निर्यायात्, निर्वायात। (कात्यायन वार्तिक)अतः भिसः ऐस्त्वे(वार्तिकान्त) । अतः भिसः ऐस्त्वे प्रयोजनं । वृक्षैः , प्लक्षैः । अङ्गस्य इति किमर्थं । ब्राह्मणभिस्सा , ओदनभिस्सटा । (कात्यायन वार्तिक)लुङादिषु अडाटौ(वार्तिकान्त) । लुङादिषु अडाटौ प्रयोजनं । अकार्षीत्, ऐहिष्ट । अङ्गस्य इति किमर्थं । प्राकरोत्, उपैहिष्ट । (कात्यायन वार्तिक)इयङुवङ्युष्मदस्मत्तातङामिनुडानेमुक्केह्रस्वयिदीर्घभितत्वानि(वार्तिकान्त) । इयङुवङौ प्रयोजनं । श्रियौ श्रियः , भ्रुवौ भ्रुवः । अङ्गस्य इति किमर्थं । श्र्यर्थं , भ्र्वर्थं । युष्मदस्मदोः प्रयोजनं । सामः आकं । युष्माकं अस्माकं । अङ्गस्य इति किमर्थं । युष्मत्साम , अस्मत्साम । तातङ्प्रयोजनं । जीवतात्भवान। अङ्गस्य इति किमर्थं । पच हि तावत्त्वं । जल्प तु तावत्त्वं । आमि नुट्प्रयोजनं । कुमारीणं , किशोरीणां । अङ्गस्य इति किमर्थं । कुमारी , आं इति आह । किशोरी , आं इति आह । आने मुक्प्रयोजनं । पचमानः , यजमानः । अङ्गस्य इति किमर्थं । प्राणः । के ह्रस्वः प्रयोजनं । किशोरिका , कुमारिका । अङ्गस्य इति किमर्थं । कुमारी कायति कुमारीकः । यि दीर्घः प्रयोजनं । चीयते , स्तूयते । अङ्गस्य इति किमर्थं । दधियानं , मधुयानं । भि तत्वं प्रयोजनं । अद्भिः , अद्भ्यः । अङ्गस्य इति किमर्थं । अब्भारः , अब्भक्षः । न एतानि सन्ति प्रयोजनानि । कथं । (कात्यायन वार्तिक)अर्थवद्ग्रहणप्रत्ययग्रहणाभ्यां सिद्धम्(वार्तिकान्त) । अर्थवद्ग्रहणप्रत्ययग्रहणाभ्यां एतानि सिद्धानि । क्व चितर्थवद्ग्रहणे न अनर्थकस्य इति एवं भविष्यति क्व चित्प्रत्ययाप्रत्ययोः ग्रहणे प्रत्ययस्य एव ग्रहणं भवति इति । अथ वा प्रत्यये इति प्रकृत्य अङ्गकार्यं अध्येष्ये । यदि प्रत्यये इति प्रकृत्य अङ्गकार्यं अधीषे प्राकरोत्, उपैहिष्ट , उपसर्गात्पूर्वं अडाटौ प्राप्नुतः । सिद्धं तु प्रत्ययग्रहणे यस्मात्सः विहितः तदादेः तदन्तस्य च ग्रहणं । सिद्धं एतत। कथं । प्रत्ययग्रहणे यस्मात्सः विहितः तदादेः तदन्तस्य च ग्रहणं भवति इति एवं उपसर्गात्पूर्वं अडाटौ न भविष्यतः ।
(पाणिनीयसूत्र ६,४।२) कि.।१८०।२५-१८१।१० रो. ईV।६६९-६७० इह कस्मात्न भवति : तृतीयः । (कात्यायन वार्तिक)अण्प्रकरणातृकारस्य अप्राप्तिः(वार्तिकान्त) । अण्प्रकरणातृकारस्य दीर्घत्वं न भविष्यति । अणः इति वर्तते । क्व प्रकृतं । ढ्रलोपे पूर्वस्य दीर्घः अणः इति । तत्वै इकः काशे इति अनेन इग्ग्रहणेन व्यवच्छिन्नं न शक्यं अनुवर्तयितुं । (कात्यायन वार्तिक)इग्ग्रहणस्य च अण्विशेषणत्वात्(वार्तिकान्त) । अण्विशेषणं इग्ग्रहणं । अणः इकः इति । यदि तर्हि अण्विशेषणं इग्ग्रहणं चौ दीर्घः भवति इति इह न प्राप्नोति : अवाचा , अवाचे । न एषः दोषः । अण्ग्रहणं अनुवर्तते इग्ग्रहणं निवृत्तं । एवं अपि कर्त्®चा कर्त्®चे , अत्र न प्राप्नोति । यथालक्षणं अप्रयुक्ते । अथ वा उभयं निवृत्तं । कस्मात्न भवति तृतीयः । निपातनात। किं निपातनं । द्वितीयतृतीयचतुर्थतुर्याणि अन्यतरस्यां इति ।
(पाणिनीयसूत्र ६,४।३) कि.।१८१।१२-१८२।४ रो. ईV।६७०-६७३ किमर्थं आमः सनकारस्य ग्रहणं क्रियते न आमि दीर्घः इति एव उच्येत । केन इदानिं सनकारके भविष्यति । नुटयं आम्भक्तः आम्ग्रहणेन ग्राहिष्यते । अतः उत्तरं पठति : (कात्यायन वार्तिक)नामि दीर्घः आमि चेथ्स्यात्कृते दीर्घे न नुट्भवेत्(वार्तिकान्त) । नामि दीर्घः आमि चेथ्स्यात्कृते दीर्घत्वे न नुट्स्यात। इदं इह सम्प्रधार्यं । दीर्घत्वं क्रियतां नुटिति किं अत्र कर्तव्यं । परत्वात्नुट। नित्यं दीर्घत्वं । कृते अपि नुटि प्राप्नोति अकृते अपि । नित्यत्वात्दीर्घत्वे कृते ह्रस्वाश्रयः नुट्न प्राप्नोति । एवं तर्हि आह अयं ह्रस्वान्तात्नुटिति न च ह्रस्वान्तः अस्ति । तत्र वचनात्भविष्यति । (कात्यायन वार्तिक)वचनात्यत्र तत्न अस्ति(वार्तिकान्त) । न इदं वचनात्लभ्यं । अस्ति अन्यतेतस्य वचने प्रयोजनं । किं । यत्र दीर्घत्वं प्रतिषिध्यते । तिसृणां , चतसृणां इति । न एततस्ति प्रयोजनं । इह तावत्चतसृणां इति षट्चतुर्भ्यः च इति एवं भविष्यति । तिसृणां इति त्रिग्रहणं अपि तत्र प्रकृतं अनुवर्तते । क्व प्रकृतं । त्रेः त्रयः इति । इदं तर्हि त्वं नृणं नृपते जायसे शुचिः । न एकं उदाहरणं ह्रस्वग्रहणं प्रयोजयति । तत्र वचनात्भूतपूर्वगतिः विज्ञास्यते । ह्रस्वान्तं यत्भूतपूर्वं इति । उत्तराऋथं तर्हि सनकारग्रहणं कर्तव्यं । (कात्यायन वार्तिक)नोपधायाः च चर्मणाम्(वार्तिकान्त) । नोपधायाः नामि यथा स्यात। इह मा भूतः चर्मणां , वर्मणां इति । (कात्यायन वार्तिक)नामि दीर्घः आमि चेथ्स्यात्कृते दीर्घे न नुट्भवेत्(वार्तिकान्त)।(कात्यायन वार्तिक) वचनात्यत्र तत्न अस्ति (वार्तिकान्त)।(कात्यायन वार्तिक) नोपधायाः च चर्मणाम्(वार्तिकान्त) ।
(पाणिनीयसूत्र ६,४।१२-१३) कि.।१८२।७-१८३।१८ रो. ईV।६७३-६७७ (कात्यायन वार्तिक)हनः क्वौ उपधादीर्घत्वप्रसङ्गः(वार्तिकान्त) । हनः क्वौ उपधालक्षणं दीर्घत्वं प्राप्नोति । अनुनासिकस्य क्विझलोः क्ङिति इति । तस्य प्रतिषेधः वक्तव्यः । वृत्रहणौ वृत्रहणः इति । नियमवचनात्सिद्धं । इन्हन्पूषार्यम्णां शौ सौ च इति एतस्मात्नियमवचनात्दीर्घत्वं न भविष्यति । (कात्यायन वार्तिक)नियमवचनात्सिद्धं इति चेत्सर्वनामस्थानप्रकरणे नियमवचनातन्यत्र अनियमः(वार्तिकान्त) । नियमवचनात्सिद्धं इति चेत्सर्वनामस्थानप्रकरणे नियमवचनातन्यत्र नियमः न प्राप्नोति । क्व अन्यत्र । वृत्रहणि भ्रूणहनि । एवं तर्हि (कात्यायन वार्तिक)दीर्घविधिः यः इह इन्प्रभृतीनां तं विनियम्य सुटि इति सुविद्वान्(वार्तिकान्त) । दीर्घविधिः यः इह इन्प्रभृतीनां तं सर्वनामस्थाने विनियम्य , इन्हन्पूषार्यम्णां सर्वनामस्थाने दीर्घः भवति । किमर्थं इदं । नियमाऋथं । इन्हन्पूषार्यम्णां सर्वनामस्थाने एव न अन्यत्र । (कात्यायन वार्तिक)शौ नियमं पुनः एव विदध्यात्(वार्तिकान्त) । ततः शौ । शौ एव सर्वनामस्थाने न अन्यत्र । ततः सौ । सौ एव सर्वनामस्थाने न अन्यत्र । (कात्यायन वार्तिक)भ्रूणहनि इति तथा अस्य न दुष्येत्(वार्तिकान्त) । तथा अस्य भ्रूणहनि इति न दोषः भवति । (कात्यायन वार्तिक)शास्ति निवर्त्य सुटि इति अविशेषे शौ नियमं कुरु वा अपि असमीक्ष्य(वार्तिकान्त) । अथ वा निवृत्ते सर्वनामस्थानप्रकरणे अविशेषेण शौ नियमं वक्ष्यामि । इन्हन्पूषार्यम्णां शौ एव । ततः सौ । सौ एव । इह अपि तर्हि नियमात्न प्राप्नोति : इन्द्रः वृत्रहायते । (कात्यायन वार्तिक)दीर्घविधेः उपधानियमात्मे हन्त यि दीर्घविधौ च न दोषः(वार्तिकान्त) । उपधालक्षणदीर्घत्वस्य नियमः न च एततुपधालक्षणं दीर्घत्वं । (कात्यायन वार्तिक)सुटि अपि वा प्रकृते अनवकाशः शौ नियमः अप्रकृतप्रतिषेधे(वार्तिकान्त) । अथ वा अनुवर्तमाने सर्वनामस्थानग्रहणे अनवकाशः शौ नियमः अप्रकृतस्य अपि दीर्घत्वस्य नियामकः भविष्यति । कथं । (कात्यायन वार्तिक)यस्य हि शौ नियमः सुटि न एतत्तेन न तत्र भवेत्विनियम्यम्(वार्तिकान्त) । यस्य हि शिः सर्वनामस्थानं न तस्य सुट। यस्य सुट्सर्वनामस्थानं न तस्य शिः । तत्र सर्वनामस्थानप्रकरणे नियम्यं न अस्ति इति कृत्वा अविशेषेण शौ नियमः विज्ञास्यते । (कात्यायन वार्तिक)दीर्घविधिः यः इह इन्प्रभृतीनां तं विनियम्य सुटि इति सुविद्वान। शौ नियमं पुनः एव विदध्यात। भ्रूणहनि इति तथा अस्य न दुष्येत। शास्ति निवर्त्य सुटि इति अविशेषे शौ नियमं कुरु वा अपि असमीक्ष्य । दीर्घविधेः उपधानियमात्मे हन्त यि दीर्घविधौ च न दोषः । सुटि अपि वा प्रकृते अनवकाशः शौ नियमः अप्रकृतप्रतिषेधे । यस्य हि शौ नियमः सुटि न एतत्तेन न तत्र भवेत्विनियम्यम्(वार्तिकान्त) ।
(पाणिनीयसूत्र ६,४।१४) कि.।१८३।२०-१८४।११ रो. ईV।६७७-६७९ (कात्यायन वार्तिक)अत्वसन्तस्य दीर्घत्वे पितः उपसङ्ख्यानम्(वार्तिकान्त) । अत्वसन्तस्य दीर्घत्वे पितः उपसङ्ख्यानं कर्तव्यं । गोमान्, यवमान। किं पुनः कारणं न सिध्यति । अननुबन्धकग्रहणे हि सानुबन्धकस्य ग्रहणं न इति एवं पितः न प्राप्नोति । अननुबन्धकग्रहणे इति उच्यते । सानुबन्धकस्य इदं ग्रहणं । एवं तर्हि तदनुबन्धकग्रहणे अतदनुबन्धकस्य ग्रहणं न इति एवं पितः न प्राप्नोति । तत्तर्हि उपसङ्ख्यानं कर्तव्यं । न कर्तव्यं । पकारलोपे कृते न अतुबन्तं भवति अत्वन्तं एव । यथा एव तर्हि पकारलोपे कृते न अतुबन्तं एवं उकारलोपे अपि कृते न अत्वन्तं । ननु च भूतपूर्वगत्या भविष्यति अत्वन्तं । यथा एव तर्हि भूतपूर्वगत्या अत्वन्तं एवं अतुबन्तं अपि । एवं तर्हि आश्रीयमाणे भूतपूर्वगतिः अत्वन्तं च आस्रीयते न अतुबन्तं । न सिध्यति । इह हि व्याकरणे सर्वेषु एव सानुबन्धकग्रहणेषु रूपं आश्रीयते : यत्र अस्य एतत्रूपं इति । रूपनिर्ग्रहः च न अन्तरेण लौकिकं प्रयोगं । तस्मिन्च लौकिके प्रयोगे सानुबन्धकानां प्रयोगः न अस्ति इति कृत्वा द्वितीयः प्रयोगः उपास्यते । कः असौ । उपदेशः नाम । उपदेशे च एतततुबन्तं न अत्वन्तं । यदि पुनः अत्शब्दं गृहीत्वा दीर्घत्वं उच्येत । न एवं शक्यं । इह अपि प्रसज्येत : जगत्, जनगत। अर्थवद्ग्रहणे न अनर्थकस्य इति एवं एतस्य न भविष्यति । इह अपि तर्हि न प्राप्नोति : कृतवान्, भुक्तवानिति । क्व तर्हि स्यात। पचन्, यजन। न वै अत्र इष्यते । अनिष्टं च प्राप्नोति इष्तं च न सिध्यति । तस्मातुपसङ्ख्यानं कर्तव्यं ।
(पाणिनीयसूत्र ६,४।१६।१) कि.।१८४।१३-२५ रो. ईV।६७९-६८० (कात्यायन वार्तिक)गमेः दीर्घत्वे इङ्ग्रहणं (वार्तिकान्त)। गमेः दीर्घत्वे इङ्ग्रहणं कर्तव्यं । इङ्गमेः इति वक्तव्यं । इह मा भूतः सञ्जिगंसते वत्सः मात्रा इति । (कात्यायन वार्तिक)अग्रहणे हि अनादेशस्य अपि दीर्घप्रसङ्गः(वार्तिकान्त) । अक्रियमाणे हि इङ्ग्रहणे अनादेशस्य अपि दीर्घत्वं प्रसज्येत । सञ्जिगंसते वत्सः मात्रा इति । (कात्यायन वार्तिक)न वा छन्दसि अनादेशस्य अपि दीर्घत्वदर्शनातिङ्ग्रहणानर्थक्यम्(वार्तिकान्त) । न वा इङ्ग्रहणं कर्तव्यं । किं कारणं । छन्दसि अनादेशस्य अपि दीर्घत्वदर्शनात। छन्दसि अनादेशस्य अपि गमेः दीर्घत्वं दृश्यते । स्वर्गं लोकं सञ्जिगांसत। छन्दसि अनादेशस्य अपि दीर्घत्वदर्शनातिङ्ग्रहणं अनर्थकं । यथा एव तर्हि छन्दसि अनादेशस्य अपि गमेः दीर्घत्वं भवति एवं भाषायां अपि प्राप्नोति । तस्मातिङ्ग्रहणं कर्तव्यं । न कर्तव्यं । योगविभागः करिष्यते । अचः सनि । अजन्तानां सनि दीर्घः भवति । ततः हनिगम्योः । हनिगम्योः च सनि दीर्घः भवति । अचः इति एव । अचः स्थाने यौ हनिगमी ।
(पाणिनीयसूत्र ६,४।१६।२) कि.।१८५।१-७ रो. ईV।६८१ अथ उपधाग्रहणं अनुवर्तते उत अहो न । किं च अतः । (कात्यायन वार्तिक)सनि दीर्घे उपधाधिकारः चेत्व्यञ्जनप्रतिषेधः(वार्तिकान्त) । सनि दीर्घे उपधाधिकारः चेत्व्यञ्जनप्रतिषेधः वक्तव्यः , चिचीषति तुष्टूषति इति एवं अर्थं । एवं तर्हि निवृत्तं । (कात्यायन वार्तिक)अनधिकारे उक्तम्(वार्तिकान्त) । किं उक्तं । हनिगमिदीर्घेषु अज्ग्रहणं इति । न एषः दोषः । उक्तं एतत्ह्रस्वः दीर्घः प्लुतः इति यत्र ब्रूयातचः इति एतत्तत्र उपस्थितं द्रष्टव्यं इति ।
(पाणिनीयसूत्र ६,४।१९।१) कि.।१८५।९-१६ रो. ईV।६८१-६८३ अथ , ऊटादिः कस्मान्न भवति । आदिः टित्भवति इति प्राप्नोति । कस्य पुनः आदिः । वकारस्य । अस्तु । वकारकस्य का प्रतिपत्तिः । लोपः व्योः वलि इति लोपः भविष्यति । न एवं शक्यं । ज्वरत्वरस्रिव्यविमवां उपधायाः च इति द्वौ ऊटौ स्यातां । एवं तर्हि न एषः टित। कः तर्हि । ठित। यदि तर्हि ठित्, धौतः पटः इति एत्येधत्यूट्सु इति वृद्धिः न प्राप्नोति । चर्त्वे कृते भविष्यति । असिद्धं चर्त्वं । तस्य असिद्धत्वात्न प्राप्नोति । आश्रयात्सिद्धत्वं भविष्यति । असति अन्यस्मिनाश्रयात्सिद्धत्वं स्यातस्ति च अन्यः सिद्धः वाहः उटिति । एषः अपि ठित्करिष्यते । तत्र उभयोः चर्त्वे कृते आश्रयात्सिद्धत्वं भविष्यति ।
(पाणिनीयसूत्र ६,४।१९।२) कि.।१८५।१७-१८६।१५ रो. ईV।६८३-६८६ अथ क्ङिद्ग्रहणं अनुवर्तते उत अहो न । किं च अतः । (कात्यायन वार्तिक)शूट्त्वे क्ङिदधिकारः चेत्छः षत्वम्(वार्तिकान्त) । शूट्त्वे क्ङिदधिकारः चेत्छः षत्वं वक्तव्यं । प्रष्टा , प्रष्टुं , प्रष्टव्यं । (कात्यायन वार्तिक)तुक्प्रसङ्गः च(वार्तिकान्त) । तुक्च प्राप्नोति । निवृत्ते अपि क्ङिद्ग्रहणे अवश्यं अत्र तुगभावार्थः यत्नः कर्तव्यः । अन्तरङ्गत्वात्हि तुक्प्राप्नोति । च्छ्वोः इति सन्निपातग्रहणं विज्ञायते । ननु एवं अपि अन्त्यस्य प्राप्नोति । सन्निपातग्रहणसामर्थ्यात्सर्वस्य भविष्यति । एवं अपि अङ्गस्य प्राप्नोति । निर्दिश्यमानस्य आदेशाः भवन्ति इति एवं अङ्गस्य न भविष्यति । यदि एवं उत्पुच्छयतेः अप्रत्ययः उत्पुटिति प्राप्नोति , उत्पुतिति च इष्यते । तथा वाञ्छतेः अप्रत्ययः वान्, वांशौ वांशः इति न सिध्यति । यथालक्षणं अप्रयुक्ते । तत्र तु एतावान्विशेषः । अनुवर्तमाने क्ङिद्ग्रहणे छः षत्वं वक्तव्यं तत्र च अपि सन्निपातग्रहणं विज्ञेयं । (कात्यायन वार्तिक)निवृत्ते दिवः ऊड्भावः(वार्तिकान्त) । निवृत्ते दिवः ऊड्भावः प्राप्नोति । द्युभ्यां , द्युभिः । अस्तु । कथं द्युभ्यां , द्युभिः इति । ऊठि कृते दिवः उतिति उत्त्वं भविष्यति । न सिध्यति । आन्तर्यतः दीर्घस्य दीर्घः प्राप्नोति । (कात्यायन वार्तिक)तदर्थं तपरः कृतः(वार्तिकान्त) । एवमर्थं तपरः क्रियते । क्व पुनः क्ङिद्ग्रहणं प्रकृतं । अनुनासिकस्य क्विझलोः क्ङिति इति । यदि ततनुवर्तते अज्झनगमां सनि क्विझलोः च इति क्विझलोः अपि दीर्घत्वं प्राप्नोति । झलि तावत्न दोषः । सनं झल्ग्रहणेन विशेषयिष्यामः । सनि झलादौ इति । क्वौ अपि आचार्यप्रवृत्तिः ज्ञापयति न अनेन क्वौ दीर्घत्वं भवति इति यतयं क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घः असम्प्रसारं च इति दीर्घत्वं शास्ति ।
(पाणिनीयसूत्र ६,४।२२।१) कि.।१८७।२-९ रो. ईV।६८७-६८८ असिद्धवचनं किमर्थं । (कात्यायन वार्तिक)असिद्धवचने उक्तम्(वार्तिकान्त) । किं उक्तं । तत्र तावतुक्तं षत्वतुकोः असिद्धवचनं आदेशलक्षणप्रतिषेधाऋथं उत्सर्गलक्षणभावार्थं च इति । इह अपि असिद्धवचनं आदेशलक्षणप्रतिषेधाऋथं उत्सर्गलक्षणभावार्थं च । आदेशलक्षणप्रतिषेधाऋथं तावत। आगहि जहि गतः , गतवान। अनुनासिकलोपे जभावे च कृते अतः लोपः , अतः हेः इति च प्राप्नोति । असिद्धत्वात्न भवति । उत्सर्गलक्षणभावार्थं च । एधि शाधि । अस्तिशास्त्योः एत्त्वशाभावयोः कृतयोः झल्लक्षणं धित्वं न प्राप्नोति । असिद्धत्वात्भवति । अथ अत्रग्रहणं किमर्थं । (कात्यायन वार्तिक)अत्रग्रहणं विषयार्थम्(वार्तिकान्त) । विषयः प्रतिनिर्दिश्यते । अत्र एतस्मिनाभाच्छास्त्रे आभाच्छास्त्रं असिद्धं यथा स्यात। इह मा भूतः अभाजि, रागः, उपबर्हणं इति ।
(पाणिनीयसूत्र ६,४।२२।२) कि.।१८७।१०-१८९।१३ रो. ईV।६८८-६९३ कानि पुनः अस्य योगस्य प्रयोजनानि । (कात्यायन वार्तिक)प्रयोजनं शैत्त्वं धित्वे(वार्तिकान्त) । शाभावः एत्त्वं च धित्वे प्रयोजनं । एधि शाधि । अस्तिशास्त्योः एत्त्वशाभावयोः कृतयोः झल्लक्षणं धित्वं न प्राप्नोति । असिद्धत्वात्भवति । शाभावः तावत्न प्रयोजयति । एवं वक्ष्यामि । शाशौ शा हौ इति । यत्वभूतः सकारः । तत्र सात्धित्वं धि च इति सकारस्य लोपः । अथ वा , आ हौ इति वक्ष्यामि । एवं अपि सकारस्य प्राप्नोति । उपधायाः इति वर्तते । उपधायाः आत्वे कृते सात्धित्वं धि च इति सकारस्य लोपः । अथ वा न हौ इति वक्ष्यामि । तत्र एत्त्वे प्रतिषिद्धे सात्धित्वं धि च इति सकारस्य लोपः । एत्त्वं अपि लोपापवादः विज्ञास्यते न च सकारस्य लोपः प्राप्नोति । (कात्यायन वार्तिक)हिलोपः उत्त्वे(वार्तिकान्त) । हिलोपः उत्त्वे प्रयोजनं । कुरु इति अत्र हिलोपे कृते सार्वधातुकपरे उकारे इति उत्त्वं न प्राप्नोति । असिद्धत्वात्भवति । एततपि न अस्ति प्रयोजनं । वक्ष्यति तत्र सार्वधातुकग्रहणस्य प्रयोजनं सार्वधातुके भूतपूर्वमात्रे यथा स्त्यातुत्त्वं । (कात्यायन वार्तिक)तास्तिलोपेण्यणादेशाः अडाड्विधौ(वार्तिकान्त) । तलोपः अस्तिलोपः इणः च यणादेशः अडाड्विधौ प्रयोजनं । अकारि , ऐही इति । तलोपे कृते लुङि इति अडाटौ न क्ल्प्राप्नुतः । असिद्धत्वात्भवतः । अस्तिलोपः इणः च यणादेशः प्रयोजनं । आसन्, आयनिति । इणस्त्योः यण्लोपयोः कृतयोः अनजादित्वाताट्न प्राप्नोति । असिद्धत्वात्भवति । अस्तिलोपः तावत्न प्रयोजयति । आचार्यप्रवृत्तिः ज्ञापयति लोपाताट्बलीयानिति यतयं श्नसोः अल्लोपः इति तपरकरणं करोति । इण्यणादेशः च अपि न प्रयोजयति । यणादेशे योगविभागः करिष्यते । इणः यण्भवति । ततः एः अनेकाचः । एः च अनेकाचः इणः यण्भवति । ततः असंयोगपूर्वस्य यण्भवति । एः अनेकाचः इति एव । सर्वेषां एव परिहारः । उपदेशः इति वर्तते । तत्र उपदेशावस्थायां एव अडाटौ भवतः । अथ वा आर्धधातुके इति वर्तते । अथ वा लुङ्लङ्लृङ्क्षु अटिति द्विलकारकः निर्देशः : लुङादिषु लकारादिषु इति । सर्वथा , ऐज्यत , औप्यत इति न सिध्यति । वक्ष्यति एततजादीनां अटा सिद्धं इति । (कात्यायन वार्तिक)अनुनासिकलोपः हिलोपाल्लोपयोः जभावः च(वार्तिकान्त) । अनुनासिकलोपः हिलोपाल्लोपयोः जभावः च प्रयोजनं । आगहि जहि गतः , गतवान। अनुनासिकलोपे कृते जभावे च अतः हेः अतः लोपः इति च लोपः प्राप्नोति । असिद्धत्वात्न भवति । अनुनासिकलोपः तावत्न प्रयोजयति । अल्लोपे उपदेशे इति वर्तते । यदि उपदेशे इति वर्तते धिनुतः , कृणुतः अत्र न प्राप्नोति । न एषः दोषः । न उपदेशग्रहणेन प्रकृतिः अभिसम्बध्यते । किं तर्हि । आर्धधातुकं अभिसम्बध्यते : आर्धधातुकोपदेशे यतकारान्तं इति । जभावः च न प्रयोजयति । हिलोपे योगविभागः करिष्यते । अतः हेः । ततः उतः च । उतः च हेः लुक्भवति इति । ततः प्रत्ययात। प्रत्ययातिति उभयोः शेषः । अथ किमर्थं अनुनासिकलोपः हिलोपाल्लोपयोः जभावः च इति उच्यते न अनुनासिकलोपजभावौ अल्लोपहिलोपयोः इति एव उच्यते । सङ्ख्यातानुदेशः मा भूतिति । अनुनासिकलोपः हिलोपे प्रयोजयति । मण्डूकि ताभिः आगहि । रोहितः च इह अ गहि । मरुद्भिः अग्ने अगहि । (कात्यायन वार्तिक)सम्प्रसारणं अवर्णलोपे(वार्तिकान्त) । सम्प्रसारणं अवर्णलोपे प्रयोजनं । मधोनः पश्य । मघोना , मघोने । सम्प्रसारणे कृते यस्य इति लोपः प्राप्नोति । असिद्धत्वात्न भवति । न एततस्ति प्रयोजनं । वक्ष्यति एततः मघवन्शब्दः अव्युत्पन्नं प्रातिपदिकं इति । (कात्यायन वार्तिक)रेभावः आल्लोपे(वार्तिकान्त) । रेभावः आल्लोपे प्रयोजनं । किं स्वित्गर्भं प्रथमं दध्रे आपः । रेभावे कृते आतः लोपः इटि च इति आकारलोपः न प्राप्नोति । असिद्धत्वात्भवति । एततपि न अस्ति प्रयोजनं । छान्दसः रेभावः लिट्च छन्दसि सार्वधातुकं अपि भवति । तत्र सार्वधातुकं अपित्ङित्भवति इति ङित्वं । श्नाभ्यस्तयोः आतः इति आकारलोपः भवति ।
(पाणिनीयसूत्र ६,४।२२।३) कि.।१८९।१४-१९०।९ रो. ईV।६९३-६९५ यदि तर्हि अयं योगः न आरभ्यते , (कात्यायन वार्तिक)उत्तु कृञः कथं ओः विनिवृत्तौ (वार्तिकान्त)। इह कुर्वः कुर्मः कुर्यातिति उकारलोपे कृते सार्वधातुकपरे उकारे इति उत्त्वं न प्राप्नोति । (कात्यायन वार्तिक)णेः अपि च इटि कथं विनिवृत्तिः(वार्तिकान्त) । इह च कारयतेः कारिष्यते णेः अनिटि इति णिलोपः न प्राप्नोति । (कात्यायन वार्तिक)अब्रुवतः तव योगं इमं स्यात्लुक्च चिणः नु कथं न तरस्य(वार्तिकान्त) । इह च , अकारितरां अहारितरां इति चिणः उत्तरस्य तरस्य लुक्न स्यात। (कात्यायन वार्तिक)चं भगवान्कृतवान्तु तदर्थं तेन भवेतिटि णेः निवृत्तिः(वार्तिकान्त) । इह स्यसिच्सीयुट्तासिषु भावकर्मणोः उपदेशे अज्झनग्रहदृशां वा चिण्वतिट्च किं च । णिलोपः च । (कात्यायन वार्तिक)म्वोः अपि ये च तथा अपि अनुवृत्तौ(वार्तिकान्त) । इह अपि कुर्वः कुर्मः कुर्यातिति म्वोः ये च इति एततपि अनुवर्तिष्यते । (कात्यायन वार्तिक)चिण्लुकि च क्ङितः एव लुक्स्यात्(वार्तिकान्त) । चिण्लुकि अपि प्रकृतं क्ङिद्ग्रहणं अनुवर्तते । क्व प्रकृतं । गमहनखनघसां लोपः क्ङिति अनङि इति । तत्वै सप्तमीनिर्दिष्टं षष्ठीनिर्दिष्टेन च इह अर्थः । चिणः इति एषा पञ्चमी क्ङिति इति सप्तम्याः षष्ठीं ल्प्रकल्पयिष्यति तस्मातिति उत्तरस्य इति । (कात्यायन वार्तिक)उत्तु कृञः कथं ओः विनिवृत्तौ । णेः अपि च इटि कथं विनिवृत्तिः । अब्रुवतः तव योगं इमं स्यात्लुक्च चिणः नु कथं न तरस्य । चं भगवान्कृतवान्तु तदर्थं तेन भवेतिटि णेः निवृत्तिः । म्वोः अपि ये च तथा अपि अनुवृत्तौ । चिण्लुकि च क्ङितः एव लुक्स्यात्(वार्तिकान्त) ।
(पाणिनीयसूत्र ६,४।२२।४) कि.।१९०।१०-१९२।८ रो. ईV।६९५-७०१ आरभ्यमाणे अपि एतस्मिन्योगे (कात्यायन वार्तिक)सिद्धं वसुसम्प्रसारणं अज्विधौ(वार्तिकान्त) । वसुसम्प्रसारणं अज्विधौ सिद्धं वक्तव्यं । किं प्रयोजनं । पपुषः पश्य । तस्थुषः पश्य । निन्युषः पश्य । चिच्युषः पश्य । लुलुवुषः पश्य । पुपुवुषः पश्य इति । वसोः सम्प्रसारणे कृते अचि इति आकारलोपादीनि यथा स्युः इति । किं पुनः कारणं न सिध्यन्ति । (कात्यायन वार्तिक)बहिरङ्गलक्षणत्वातसिद्धत्वात्च(वार्तिकान्त) । बहिरङ्गलक्षणं च एव हि वसुसम्प्रसारणं असिद्धं च । (कात्यायन वार्तिक)आत्त्वं यलोपाल्लोपयोः पशुषः न वाजान्चाखायिता चाखायितुम्(वार्तिकान्त) । आत्त्वं यलोपाल्लोपयोः सिद्धं वक्तव्यं । किं प्रयोजनं । पशुषः न वाजान। पशुषः इति आत्त्त्वस्य असिद्धत्वातातः धातोः इति आकारलोपः न प्राप्नोति । चाखायिता चाखायितुं इति आत्त्वस्य असिद्धत्वाथ्यस्य हलः इति यलोपः प्राप्नोति । (कात्यायन वार्तिक)समानाश्रयवचनात्सिद्धम्(वार्तिकान्त) । समानाश्रयं असिद्धं भवति व्याश्रयं च एतत। इह तावत्पपुषः पश्य , तस्थुषः पश्य , निन्युषः पश्य , चिच्युषः पश्य , लुलुवुषः पश्य , पुपुवुषः पश्य इति । वसौ आकारलोपादीनि वसन्तस्य विभक्तौ सम्प्रसारणं । पशुषः इति विटि आत्त्वं विडन्तस्य विभक्तौ आकारलोपः । चाखायिता चाखायितुं इति यङि आत्त्वं यङन्तस्य च आर्धधातुके लोपः इति । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । अत्रग्रहणसामर्थ्यात। ननु च अन्यतत्रग्रहणस्य प्रयोजनं उक्तं । किं उक्तं । अत्रग्रहणं विषयार्थं इति । अधिकारातपि एतत्सिद्धं । इह पपुषः , चिच्युषः , लुलुवुषः , द्वौ हेतू व्य्पदिष्टौ बहिरङ्गलक्षणत्वं असिद्धत्वं च इति । तत्र भवएतसिद्धत्वं प्रत्युक्तं बहिरङ्गलक्षणत्वं तु न एव प्रत्युक्तं । न एषः दोषः बहिरङ्गं अन्तरङ्गं इति च प्रतिद्वन्द्विभाविनौ एतौ अर्थौ । कथं । सति अन्तरङ्गे बहिरङ्गं सति च बहिरङ्गे अन्तरङ्गं । न च अत्र अन्तरङ्गबहिरङ्गयोः युगपत्समवस्थानं अस्ति । न अनभिनिर्वृत्ते बहिरङ्गे अन्तरङ्गं प्राप्नोति । तत्र निमित्तं एव बहिरङ्गं अन्तरङ्गस्य । (कात्यायन वार्तिक)ह्रस्वयलोपाल्लोपाः च अयादेशे ल्यपि(वार्तिकान्त) । ह्रस्वयलोपाल्लोपाः च अयादेशे ल्यपि सिद्धाः वक्तव्याः । प्रशमय्य गतः , प्रतमय्य गतः । प्रबेभिदय्य गतः । प्रचेच्छिदय्य गतः । प्रस्तनय्य गतः । प्रगदय्य गतः । ह्रस्वयलोपाल्लोपानां असिद्धत्वात्ल्यपि लघुपूर्वातिति अयादेशः न प्राप्नोति । अत्र अपि एषः परिहारः समानाश्रयवचनात्सिद्धं इति । कथं । णौ एते विधयः णेः ल्यपि अयादेशः । (कात्यायन वार्तिक)वुग्युटौ उवङ्यणोः(वार्तिकान्त) । वुग्युटौ उवङ्यणोः सिद्धौ वक्तव्यौ । बभूवतुः , बभूवुः : वुकः असिद्धत्वातुवङादेशः प्राप्नोति । उपदिदीये , उपदिदीयाते : युटः असिद्धत्वात्यणादेशः प्राप्नोति । वुकः तावत्न वक्तव्यः । वुकं न वक्ष्यामि । एवं वक्ष्यामि : भुवः लुङ्लिटोः ऊतुपधायाः इति । अत्र उवङादेशे कृते या उपधा तस्याः ऊत्त्वं भविष्यति । एवं अपि कुतः नु खलु एततुवङादेशे कृते या उपधा तस्याः ऊत्त्वं भविष्यति न पुनः साम्प्रतिकी या उपधा तस्याः स्यात्भकारस्य । न एषः दोषः । ओः इति वर्तते । तेन उवर्णस्य भविष्यति । भवेत्सिद्धं बभूवतुः , बभूवुः । इदं तु न सिध्यति : बभूव बभूविथ इति । किं कारणं । गुणवृद्ध्योः कृतयोः उवर्णाभावात। न अत्र गुणवृद्धी प्राप्नुतः । किं कारणं । क्ङिति च इति प्रतिषेधात। कथं कित्त्वं । इन्धिभवतिभ्यां च इति । तत्वै वयं कित्त्वं प्रत्याचक्ष्महे वुका । इह तु कित्त्वेन वुक्प्रत्याख्यायते । किं पुनः अत्र न्याय्यं । वुग्वचनं एव न्याय्यं । सति अपि हि कित्त्वे स्यातां एव अत्र गुणवृद्धी । किं कारणं । इग्लक्षणयोः गुणवृद्ध्योः सः प्रतिषेधः न च एषा इग्लक्षणा वृद्धिः । एवं तर्हि न अर्थः वुका न अपि कित्त्वेन । स्तां अत्र गुणवृद्धी । गुणवृद्ध्योः कृतयोः अवावोः च कृतयोः या उपधा तस्याः ऊत्त्वं भविष्यति । कथं । ओः इति अत्र अवर्णं अपि प्रतिनिर्दिश्यते । इह अपि तर्हि प्राप्नोति । कीलालपः पश्य । शुभंयः पश्य इति । लोपः अत्र बाधकः भविष्यति । इह तर्हि प्राप्नोति । कीलालपौ कीलालपाः इति । एवं तर्हि व्योः इति वर्तते । तेन उवर्णं विशेषयिष्यामः । ओः व्योः इति । इह इदानीं ओः इति अनुवर्तते । व्योः इति निवृत्तं । युटः च अपि न वक्तव्यं । युड्वचनसामर्थ्यात्न भविष्यति । अस्ति अन्यत्युड्वचने प्रयोजनं । किं । द्वयोः यकारयोः श्रवणं यथा स्यात। न व्यञ्जनपरस्य अनेकस्य एकस्य वा यकारस्य श्रवणं प्रति विशेषः अस्ति ।
(पाणिनीयसूत्र ६,४।२२।५) कि.।१९२।९-१९३।१९ रो. ईV।७०१-७०५ किं पुनः प्राक्भातसिद्धत्वं आहोस्वित्सह तेन । कुतः पुनः अयं सन्देहः । आङा अयं निर्देशः क्रियते आङ्च पुनः सन्देहं जनयति । तत्यथा : आ पाटलिपुत्रात्वृष्टः देवः इति सन्देहः : किं प्राक्पाटलिपुत्रात्सह तेन इति । एवं इह अपि सन्देहः : प्राक्भात्सह तेन इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)प्राक्भातिति चेत्सुनामघोनाभूगुणेषु उपसङ्ख्यानम्(वार्तिकान्त) । प्राक्भातिति चेत्सुनामघोनाभूगुणेषु उपसङ्ख्यानं कर्तव्यं । शुनः पश्य । शुना शुने । सम्प्रसारणे कृते अल्लोपः अनः इति प्राप्नोति । यस्य पुनः सह तेन असिद्धत्वं असिद्धत्वात्तस्य न संयोगात्वमन्तातिति प्रतिषेधः भविष्यति । यस्य अपि प्राक्भातसिद्धत्वं तस्य अपि एषः न दोषः । कथं । न अस्त्रि अत्र विशेषः अल्लोपेन वा निवृत्तौ सत्यां पूर्वत्वेन वा । अयं अस्ति विशेषः । अल्लोपेन निवृत्तौ सत्यां उदात्तनिवृत्तिस्वरः प्रसज्येत । न अत्र उदात्तनिवृत्तिस्वरः प्राप्नोति । किं कारणं । न गोश्वन्साववर्ण इति प्रतिषेधात। न एषः उदात्तनिवृत्तिस्वरस्य प्रतिषेधः । कस्य तर्हि । तृतीयादिस्वरस्य । यत्र तर्हि तृतीयादिस्वरः न अस्ति । शुनः पश्य इति । एवं तर्हि न वयं लक्षणस्य प्रतिषेधं शिष्मः । किं तर्हि येन केन चित्लक्षणेन प्राप्तस्य विभक्तिस्वरस्य अयं प्रतिषेधः । यत्र तर्हि विभक्तिस्वरः न अस्ति । बहुशुनी इति । यदि पुनः अयं उदात्तनिवृत्तिस्वरस्य अपि प्रतिषेधः विज्ञायेत । न एवं शक्यं । इह अपि प्रस्ज्येत कुमारी इति । एवं तर्हि आचार्यप्रवृत्तिः ज्ञापयति न उदात्तनिवृत्तिस्वरः शुनि अवतरति इति यतयं श्वन्शब्दं गौरादिषु पठति । अन्तोदात्तार्थं यत्नं करोति । सिद्धं हि स्यात्ङीपा एव । मघोनः पश्य । मघोना मघोने । सम्प्रसारणे कृते यस्य इति लोपः प्राप्नोति । यस्य पुनः सह तेन असिद्धत्वं असिद्धत्वात्तस्य न भविष्यति । यस्य अपि प्राक्भातसिद्धत्वं तस्य अपि एषः न दोषः । कथं । वक्ष्यति एतत्मघवन्-शब्दः अव्युत्पन्नं प्रातिपदिकं इति । भूगुणः । भूयान। भूभावे कृते ओः गुणः प्राप्नोति । यस्य पुनः सह तेन असिद्धत्वं असिद्धत्वात्तस्य न भविष्यति । यस्य अपि प्राक्भातसिद्धत्वं तस्य अपि एषः न दोषः । कथं । दीर्घोच्चारणसामर्थ्यात्न भविष्यति । अस्ति दीर्घोच्चारणस्य प्रयोजनं । किं । भूमा इति । निपातनातेतत्सिद्धं । किं निपातनं । बहोः नञ्वतुत्तरपदभूम्नि इति । अथ वा पुनः अस्तु सह तेन इति । (कात्यायन वार्तिक)आ भातिति चेत्सुसम्प्रसारणयलोपप्रस्थादीनां प्रतिषेधः(वार्तिकान्त) । पपुषः पश्य । तस्थुषः , निन्युषः , चिच्युषः , लुलुवुषः , पुपुवुषः इति । वसोः सम्प्रसारणे कृते अचि इति आकारलोपादीनि न सिध्यन्ति । न एषः दोषः । उक्तं एतत्समानाश्रयवचनात्सिद्धं इति । कथं । वसौ आकारलोपादीनि वसन्तस्य विभक्तौ सम्प्रसारणं । यलोपः । सौरी बलाका । यः असौ अणि अकारः लुप्यते तस्य असिद्धत्वातीति यलोपः न प्राप्नोति । अत्र अपि एषः एव परिहारः । समानाश्रयवचनात्सिद्धं इति । कथं । अणि अकारलोपः अणन्तस्य ईति लोपः । प्रस्थादिषु । प्रेयान्, स्थेयान। प्रस्थादीनां असिद्धत्वात्प्रकृत्या एकाचिति प्रकृतिभावः न प्राप्नोति । न एषः दोषः । यथा एव प्रस्थादीनां असिद्धत्वात्प्रकृतिभावः न प्राप्नोति एवं टिलोपः अपि न भविष्यति ।
(पाणिनीयसूत्र ६,४।२३) कि.।१९३।२१-१९४।८ रो. ईV।७०५-७०७ अथ किमर्थं श्नमः सशकारस्य ग्रहणं क्रियते न नात्नलोपः इति एव उच्येत । नात्नलोपः इति इयति उच्यमाने नन्दिता नन्दकः इति अत्र अपि प्रसज्येत । एवं तर्हि एवं वक्ष्यामि नात्नलोपः अनिदितां । ततः हलः उपधायाः क्ङिति । अनिदितां इति । न एवं शक्यं । इह न स्यातः हिनस्ति । तस्मात्न एवं शक्यं । न चेतेवं नन्दिता नन्दकः इति प्राप्नोति । एवं तर्हि क्ङिति इति वर्तते । एवं अपि हिनस्ति इति अत्र न प्राप्नोति । न एषा परसप्तमी । का तर्हि । सत्सप्तमी । क्ङिति सति । एवं तर्हि नशब्दः एव अत्र क्ङित्त्वेन विशेष्यते क्ङित्चेत्नशब्दः भवति इति । एवं अपि यज्ञानां , यत्नानां इति अत्र न प्राप्नोति । दीर्घत्वं अत्र बाधकं भविष्यति । इदं इह सम्प्रधार्यं । दीर्घत्वं क्रियतां नलोपः इति किं अत्र कर्तव्यं । परत्वात्नलोपः । तस्मात्सशकारस्य ग्रहणं कर्तव्यं । अथ क्रियमाणे अपि सशकारग्रहणे इह कस्मात्न भवति विश्नानां , प्रश्नानां इति । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवं न भविष्यति ।
(पाणिनीयसूत्र ६,४।२४) कि.।१९४।१०-१९५।४ रो. ईV।७०७-७०९ (कात्यायन वार्तिक)अनिदितां नलोपे लङ्गिकम्प्योः उपतपशरीरविकारयोः उपसङ्ख्यानम्(वार्तिकान्त) । अनिदितां नलोपे लङ्गिकम्प्योः उपतपशरीरविकारयोः उपसङ्ख्यानं कर्तव्यं । विलगितः , विकपितः । उपतपशरीरविकारयोः इति किमर्थं । विलङ्गितः , विकम्पितः । (कात्यायन वार्तिक)बृहेः अचि अनिटि(वार्तिकान्त) । बृहेः अचि अनिटि उपसङ्ख्यानं कर्तव्यं । निबर्हयति निबर्हकः । अचि इति किमर्थं । निबृंह्यते । अनिटि इति किमर्थं । निबृंहिता निबृंहितुं । तत्तु उपसङ्ख्यानं कर्तव्यं । न कर्तव्यं । बृहिः प्रकृत्यन्तरं । कथं ज्ञायते । अचि इति लोपः उच्यते । अनजादौ अपि दृश्यते : निबृह्यते । अनिटि इति उच्यते । इटौ अपि दृश्यते : निबर्हितुं । अजादौ इति उच्यते । अजादौ अपि न दृश्यते : निबृंहयति निबृंहकः । रञ्जेः णौ मृगमरणे उपसङ्ख्यानं कर्तव्यं । रजयति मृगान। मृगमरणे इति किमर्थं । रञ्जयति वस्त्राणि । घिनुणि च उपसङ्ख्यानं कर्तव्यं । रागी । (कात्यायन वार्तिक)घिनुणि निपातनात्सिद्धम्(वार्तिकान्त) । किं निपातनं । त्यजरज इति । अशक्यं धातुनिर्देशे निपातनं तन्त्रं आश्रयितुं । इह हि दोषः स्यातः दशहनः करणे : दंष्ट्रा । न एतत्धातुनिपातनं । किं तर्हि । प्रत्ययान्तस्य एतत्रूपं । तस्मिन्च अस्य प्रत्यये लोपः भवति । दंशसञ्जस्वञ्जां शपि इति । रजकरजनरजःसु उपसङ्ख्यानं कर्तव्यं । रजकः , रजननं , रजः इति । (कात्यायन वार्तिक)रजकरजनरजःसु कित्त्वात्सिद्धम्(वार्तिकान्त) । कितः एव एते औणादिकाः । तत्यथा रुचकः , भुवनं , शिरः इति ।
(पाणिनीयसूत्र ६,४।३४) कि.।१९५।८-१९६।२ रो. ईV।७०९-७११ (कात्यायन वार्तिक)शासः इत्त्वे आशासः क्वौ(वार्तिकान्त) । शासः इत्त्वे आशासः क्वौ उपसङ्ख्यानं कर्तव्यं । आशीः इति । किं पुनः इदं नियमार्थं आहोस्वित्विध्यर्थं । कथं च नियमार्थं स्यात्कथं वा विध्यर्थं । यदि तावत्शासिमात्रस्य ग्रहणं ततः नियमार्थं । अथि हि यस्मात्शासः अङ्विहितः तस्य ग्रहणं ततः विध्यर्थं । यदि अपि शासिमात्रस्य ग्रहणं एवं अपि विध्यर्थं एव । कथं । अङ्हलोः इति उच्यते न च अत्र हलादिं पश्यामः । ननु च क्विपेव हलादिः । क्विपः लोपे कृते हलाद्यभावात्न प्राप्नोति । इदं इह सम्प्रधार्यं । क्विब्लोपः क्रियतां अङ्हलोः इत्त्त्वं इति किं अत्र कर्तव्यं । परत्वातङ्हलोः इत्त्त्वं । नित्यः क्विब्लोपः । कृते अपि अङ्हलोः इत्त्त्वे प्राप्नोति अकृते अपि । नित्यत्वात्क्विब्लोपे कृते हलाद्यभावात्न प्राप्नोति । एवं तर्हि प्रत्ययलक्षणेन भविष्यति । वर्णाश्रये न अस्ति प्रत्ययलक्षणं । यदि वा कानि चित्वर्णाश्रयाणि अपि प्रत्ययलक्षणेन भवन्ति तथा च इदं अपि भविष्यति । अथ वा एवं वक्ष्यामि । शासः इतङ्हलोः । ततः क्वौ । क्वौ च शासः इत्भवति । आर्यशीः , मित्रशीः । ततः आङः । आङ्पूर्वात्च क्वौ शासः इत्भवति । आशीः इति । इदं इदानीं किमर्थं । नियमार्थं । आङ्पूर्वात्शासः क्वौ एव । क्व मा भूत। आशास्यते , आशास्यमानः इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । अविशेषेण शासः इत्भवति इति उक्त्वा ततः अङि इति वक्ष्यामि । तत्नियमार्थं भविष्यति । अङि एव अजादौ न अन्यस्मिनजादौ इति । इह अपि तर्हि नियमातित्त्वं प्राप्नोति । आशास्यते , आशास्यमानः इति । यस्मात्शासेः अङ्विहितः तस्य ग्रहणं न च एतस्मात्शासेः अङ्विहितः । कथं आशीः इति । निपातनात्सिद्धं । किं निपातनं । क्षियाशीःप्रैषेषु तिङाकाङ्क्षं इति ।
(पाणिनीयसूत्र ६,४।३७) कि.।१९६।५-८ रो. ईV।७११ (कात्यायन वार्तिक)अनुदात्तोपदेशे अनुनासिकलोपः ल्यपि च(वार्तिकान्त) । अनुदात्तोपदेशे अनुनासिकलोपः ल्यपि च इति वक्तव्यं । प्रमत्य प्रतत्य । ततः (कात्यायन वार्तिक)वा अमः(वार्तिकान्त) । वा अमः इति वक्तव्यं । प्रयत्य प्रयम्य प्ररत्य प्ररम्य प्रणत्य प्रणम्य ।
(पाणिनीयसूत्र ६,४।४०) कि.।१९६।१०-१२ रो. ईV।७१२ गमादीनां इति वक्तव्यं । इह अपि यथा स्यात। परीतत्सहकण्ठिका । संयत्, सनुतिति । ऊङ्च गमादीनां इति वक्तव्यं । अग्रेगूः , भ्रूः ।
(पाणिनीयसूत्र ६,४।४२।१) कि.।१९६।१४-२२ रो. ईV।७१२-७१३ अथ किं अयं समुच्चयः , सनि च झलादौ च इति , आहोस्वित्सन्विशेषणं झल्ग्रहणं , सनि झलादौ इति । किं च अतः । यदि समुच्चयः सनि अझलादौ अपि प्राप्नोति । सिसनिषति जिजनिषते चिखनिषति । अथ सन्विशेषणं झल्ग्रहणं जातः , जातवानिति अत्र न प्राप्नोति । यथा इच्छसि तथा अस्तु । अस्तु तावत्समुच्चयः । ननु च उक्तं सनि अझलादौ अपि प्राप्नोति इति । न एषः दोषः । प्रकृतं झल्ग्रहणं अनुवर्तते । तेन सनं विशेषयिष्यामः । सनि झलादौ इति । अथ वा पुनः अस्तु सन्विशेषणं । कथं जातः , जातवानिति । प्रकृतं झलि क्ङिति इति अनुवर्तते । यदि एवं न अर्थः झल्ग्रहणेन । योगविभागः करिष्यते । जनसनखनां अनुनासिकस्य आकारः भवति झलि क्ङिति । ततः सनि । सनि च जनसनखनां अनुनासिकस्य आकारः भवति झलि इति एव । तस्मात्न अर्थः झल्ग्रहणेन ।
(पाणिनीयसूत्र ६,४।४२।२) कि.।१९७।१-१९८।१२ रो. ईV।७१३-७१६ (कात्यायन वार्तिक)सनोतेः अनुनासिकलोपातात्त्वं विप्रतिषेधेन(वार्तिकान्त) । सनोतेः अनुनासिकलोपातात्त्वं भवति विप्रतिषेधेन । सनोतेः अनुनासिकलोपस्य अवकाशः अन्ये तनोत्यादयः । आत्त्वस्य अवकाशः अन्ये जनादयः । सनोतेः अनुनासिकस्य उभयं प्राप्नोति । सातः सातवानिति । आत्त्वं भवति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । न हि सनोतेः अनुनासिकलोपस्य अन्ये तनोत्यादयः अवकाशः । सनोतेः यः तनोत्यादिषु पाठः सः अनवकाशः । न खलु अपि आत्त्वस्य अन्ये जनादयः अवकाशः । सनोतेः यतात्त्वे ग्रहणं ततनवकाशं । तस्य अनवकाशत्वातयुक्तः विप्रतिषेधः । एवं तर्हि तनोत्यादिषु पाठः तावत्सावकाशः । कः अवकाशः । अन्यानि तनोत्यादिकार्याणि । तनादिभ्यः तथासोः इति । आत्त्वे अपि ग्रहणं सावकाशं । कः अवकाशः । सनि च ये विभाषा च । उभयोः सावकाशयोः युक्तः विप्रतिषेधः । एवं अपि अयुक्तः विप्रतिषेधः । पठिष्यति हि आचार्यः पूर्वत्र असिद्धे न अस्ति विप्रतिषेधः अभावातुत्तरस्य इति । एकस्य नाम अभावे विप्रतिषेधः न स्यात्किं पुनः यत्र उभयं न अस्ति । न एषः दोषः । भवति इह विप्रतिषेधः । किं वक्तव्यं एतत। न हि । कथं अनुच्यमां गंस्यते । आचार्यप्रवृत्तिः ज्ञापयति भवति इह विप्रतिषेधः इति यतयं घुमाश्थागापाजहातिसां हलि इति हल्ग्रहणं करोति । कथं कृत्वा ज्ञापकं । हल्ग्रहणस्य एतत्प्रयोजनं हलादौ ईत्त्वं यथा स्यातिह मा भूत्, गोदः , कम्बलदः इति । यदि च अत्र विप्रतिषेधः न स्यात्हल्ग्रहणं अनर्थकं स्यात। अस्तु अत्र ईत्त्वं । ईत्त्वस्य असिद्धत्वात्लोपः भविष्यति । पश्यति तु आचार्यः भवति इह विप्रतिषेधः । ततः हल्ग्रहणं करोति । न एततस्ति ज्ञापकं । व्यवस्थार्थं एतत्स्यात। हलादौ ईत्त्वं यथा स्यातजादौ मा भूतिति । किं च स्यात। इयङादेशः प्रसज्येत । ननु च असिद्धत्वातेव इयङादेशः न भविष्यति । न शक्यं ईत्त्वं इयङादेशे असिद्धं विज्ञातुं । इह हि दोषः स्यातः धियौ धियः पियौ पियः इति । न एततीत्त्वं । किं तर्हि । ध्याप्योः सम्प्रसारणं एतत। समानाश्रयं खलु अपि असिद्धं भवति व्याश्रं च एतत। कथं । क्वौ ईत्त्वं क्विबन्तस्य विभक्तौ इयङादेशः । व्यवस्थार्थं एव तर्हि हल्ग्रहणं कर्तव्यं । कुतः हि एततीत्त्वस्य असिद्धत्वात्लोपः न पुनः लोपस्य असिद्धत्वातीत्त्वं इति । तत्र चक्रकं अव्यवस्था प्रसज्येत । न अस्ति चक्रकप्रसङ्गः । न हि अव्यवस्थाकारिण शास्त्रेण भवितव्यं । शास्त्रतः नाम व्यवस्था । तत्र ईत्त्वस्य असिद्धत्वात्लोपः लोपेन व्यवस्थानं भविष्यति । न खलु अपि तस्मिन्ततेव असिद्धं भवति । व्यवस्थार्थं एव तर्हि हल्ग्रहणं कर्तव्यं । हलादौ ईत्त्वं यथा स्यातजादौ मा भूतिति । कुतः हि एततीत्त्वस्य असिद्धत्वात्लोपः लोपेन अवस्थानं भविष्यति न पुनः लोपस्य असिद्धत्वातीत्त्वं ईत्त्वेन व्यवस्थानं स्यात। ततेव खलु अपि तस्मिनसिद्धं भवति । कथं । पठिष्यति हि आचार्यः चिणः लुकि तग्रहणानर्थक्यं सङ्घातस्य अप्रत्ययत्वात्तलोपस्य च असिद्धत्वातिति । चिणः लुक्चिणः लुकि एव असिद्धः भवति । एवं तर्हि यदि व्यवस्थार्थं एतत्स्यात्न एव अयं हल्ग्रहणं कुर्वीत । अविशेषेण अयं ईत्त्वं उक्त्वा तस्य अजादौ लोपं अपवादं विदधीत । इदं अस्ति । आतः लोपः इटि च इति । ततः घुमाश्थागापाजहातिसां । लोपः भवति इटि च अजादौ क्ङिति । किमर्थं पुनः इदं । ईत्त्वं वक्ष्यामि तद्बाधनार्थं । ततः ईत। ईत्च भवति घ्वादीनां । ततः एः लिङि । वा अन्यस्य संयोगादेः । न ल्यपि । मयतेः इतन्यतरस्यां । ततः यति । यति च ईत्भवति । सः अयं एवं लघीयसा न्यासेन सिद्धे सति यत्हल्ग्रहणं करोति गरीयांसं यत्नं आरभते तत्ज्ञापयति आचार्यः भवति इह विप्रतिषेधः इति ।
(पाणिनीयसूत्र ६,४।४५) कि.।१९८।१४-१८ रो. ईV।७१७ इह अन्यतरस्याङ्ग्रहणं शक्यं अकर्तुं । कथं । सनः क्तिचि लोपः च आत्त्त्वं च विभाषा इति । अपरः आह : सर्वः एव अयं योगः शक्यः अवक्तुं । कथं । इह लोपः अपि प्रकृतः आत्त्वं अपि प्रकृतं विभाषाग्रहणं अपि प्रकृतं । तत्र केवलं अभिसम्बन्धमात्रं कर्तव्यं : सनः क्तिचि लोपः च आत्त्वं च विभाषा ।
(पाणिनीयसूत्र ६,४।४६) कि.।१९८।२०-१९९।१५ रो. ईV।७१७-७२१ कानि पुनः आर्धधातुकाधिकारस्य प्रयोजनानि । (कात्यायन वार्तिक)अतः लोपः यलोपः च णिलोपः च प्रयोजनं आल्लोपः ईत्त्वं एत्वं च चिण्वद्भावः च सीयुटि(वार्तिकान्त) । अतः लोपः । चिकीर्षिता चिकीर्षितुं । आरधधातुके इति किमर्थं । चिकीर्षति । न एततस्ति प्रयोजनं । अस्तु अत्र सनः अकारलोपः । शपः अकारस्य श्रवणं भविष्यति । शपः एव तर्हि मा भूत। एततपि न अस्ति प्रयोजनं । आचार्यप्रवृत्तिः ज्ञापयति न अनेन शबकारस्य लोपः भवति इति यतयं अदिप्रभृतिभ्यः शपः लुकं शास्ति । न एततस्ति ज्ञापकं । कार्याऋथं एतत्स्यात। वित्तः , मृष्टः इति । यत्तर्हि आकारान्तेभ्यः लुकं शास्ति । इदं तर्हि प्रयोजनं । वृक्षस्य प्लक्षस्य । अतः लोपः । प्राप्नोति । यलोपः अपि प्रयोजनं । बेभिदिता चेच्छिदिता । आरधधातुके इति किमर्थं । बेभिद्यते चेच्छिद्यते । णिलोपः । पाच्यते याज्यते । आरधधातुके इति किमर्थं । पाचयति याजयति । आल्लोपः । ययतुः ययुः । आरधधातुके इति किमर्थं । यान्ति वान्ति । ईत्त्वं । दीयते , धीयते । आरधधातुके इति किमर्थं । अदातां अधातां । एत्वं । स्नेयात्, म्लेयात। आरधधातुके इति किमर्थं । स्नायात। चिण्वद्भावः च सीयुटि । चिण्वद्भावे सीयुटि किं उदाहरणं । कारिषीष्ट हारिषीष्ट । आरधधातुके इति किमर्थं । क्रियेत ह्रियेत । न एततुदाहरणं । यका व्यवहितत्वात्न भविष्यति । इदं तर्हि उदाहरणं : प्रस्नुवीत । इदं च अपि उदाहरणं : क्रियेत ह्रियेत । ननु च उक्तं यका व्यवहितत्वात्न भविष्यति इति । यकः एव तर्हि मा भूतिति । किं च स्यात। वृद्धिः । वृद्धौ च कृतायां युक्प्रसज्येत ।
(पाणिनीयसूत्र ६,४।४७) कि.।१९९।१७-२००।११ रो. ईV।७२१-७२३ अयं रं रेफस्य स्थाने कस्मात्न भवति । मितचः अन्त्यात्परः इति अनेन अचां अन्त्यात्परः क्रियते । रेफस्य तर्हि श्रवणं कस्मात्न भवति । षष्ठ्युच्चारणसामर्थ्यात। भारद्वाजीयाः पठन्ति भ्रस्जः रोपधयोः लोपः आगमः रं विधीयते इति । (कात्यायन वार्तिक)भ्रस्जादेशात्सम्प्रसारणं विप्रतिषेधेन(वार्तिकान्त) । भ्रस्जादेशात्सम्प्रसारणं भवति विप्रतिषेधेन । भ्रस्जादेशस्य अवकाशः : भर्ष्टा भ्रष्टा । सम्प्रसारणस्य अवकाशः : भृज्जति । इह उभयं प्राप्नोति : भृष्टः , भृष्टवान। सम्प्रसारणं भवति विप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । रसेः वा ऋवचनात्सिद्धं । रसोः वा ऋ भवति इति वक्ष्यामि । (कात्यायन वार्तिक)रसोः वा ऋवचने सिचि वृद्धेः भ्रस्जादेशः(वार्तिकान्त) । रसोः वा ऋवचने सिचि वृद्धेः भ्रस्जादेशः वक्तव्यः । वृद्धौ कृतायां इदं एव रूपं स्यातः अभ्राक्षीत। इदं न स्यातः अभार्क्षीत। सर्वथा वयं पूर्वविप्रतिषेधात्न मुच्यामहे सूत्रं च भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं भ्रस्जादेशात्सम्प्रसारणं विप्रतिषेधेन इति । इदं इह सम्प्रधार्यं । भ्रस्जादेशः क्रियतां सम्प्रसारणं इति किं अत्र कर्तव्यं । परत्वात्भ्रस्जादेशः । नित्यत्वात्सम्प्रसारणं । कृते अपि भ्रस्जादेशे प्राप्नोति अकृते अपि । भ्रस्जादेशः अपि नित्यः । कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि प्राप्नोति । कथं । यः असौ ऋकारे रेफः तस्य च उपधायाः च कृते अपि प्राप्नोति । अनित्यः भ्रस्जादेशः । न हि कृते सम्प्रसारणे प्राप्नोति । किं कारणं । न हि वर्णैकदेशाः वर्णग्रहणेन गृह्यन्ते । अथ अपि गृह्यन्ते एवं अपि अनित्यः । कथं । उपदेशः इति वर्तते । तत्च अवश्यं उपदेशग्रहणं अनुवर्त्यं बरीभृज्ज्यतः इति एवमर्थं ।
(पाणिनीयसूत्र ६,४।४८) कि.।२००।१३-२०१।६ रो. ईV।७२४-७२५ (कात्यायन वार्तिक)ण्यल्लोपौ इयङ्यण्गुणवृद्धिदीर्घत्वेभ्यः पूर्वविप्रतिषिद्धम्(वार्तिकान्त) । ण्यल्लोपौ इयङ्यण्गुणवृद्धिदीर्घत्वेभ्यः भवतः पूर्वविप्रतिषेधेन । णिलोपस्य अवकाशः : कार्यते हार्यते । इयङादेशस्य अवकाशः : श्रियौ श्रियः । इह उभयं प्राप्नोति : आटिटत्, आशिशत। ननु च अत्र यणादेशेन भवितव्यं । इदं तर्हि : अततक्षत्, अररक्षत। यणादेशस्य अवकाशः : निन्यतुः , निन्युः । णिलोपस्य सः एव । इह उभयं प्राप्नोति : आटिटत्, आशिशत। वृद्देः अवकाशः : सखायौ सखायः । णिलोपस्य सः एव । इह उभयं प्राप्नोति : कारयतेः कारकः , हारयतेः हारकः । गुणस्य अवकाशः : चेता स्तोता । णिलोपस्य अवकाशः : आटिटत्, आशिशत। इह उभयं प्राप्नोति : कारणा हारणा । दीर्घत्वस्य अवकाशः : चीयते , स्तूयते । णिलोपस्य अवकाशः : कारणा हारणा । इह उभयं प्राप्नोति : कार्यते हार्यति । णिलोपः भवति विप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । सन्तु अत्र एते विधयः । एतेषु विधिषु कृतेषु स्थानिवद्भावात्णिग्रहणेन ग्रहणात्णिलोपः भविष्यति । न एवं शक्यं । इयङादेशे हि दोषः स्यात। अन्त्यस्य लोपः प्रसज्येत । अल्लोपस्य इयङ्यणोः च न अस्ति सम्प्रधारणा । वृद्धेः अवकाशः : प्रियं आचष्टे प्रापयति । अल्लोपस्य अवकाशः : चिकीर्षिता चिकीर्षितुं । इह उभयं प्राप्नोति : चिकीर्षकः , जिहीर्षकः । गुणस्य अल्लोपस्य च न अस्ति सम्प्रधारणा । दीर्घत्वस्य अवकाशः : अपि काकः श्येनायते । अल्लोपस्य सः एव । इह उभयं प्राप्नोति : चिकीर्ष्यते जिहीर्ष्यते । अल्लोपः भवति विप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । इष्टवाची परशब्दः । विप्रतिषेधे परं यतिष्टं तत्भवति इति ।
(पाणिनीयसूत्र ६,४।४९) कि.।२०१।८-२०२।२ रो. ईV।७२६-७२८ किं इदं यलोपे वर्णग्रहणं आहोस्वित्सङ्घातग्रहणं । कः च अत्र विशेषः । (कात्यायन वार्तिक)यलोपे वर्णग्रहणं चेत्धात्वन्तस्य प्रतिषेधः(वार्तिकान्त) । यलोपे वर्णग्रहणं चेत्धात्वन्तस्य प्रतिषेधः वक्तव्यः । शुच्यिता शुच्यितुं । अस्ति तर्जो सङ्घातग्रहणं । यदि सङ्घातग्रहणं अन्त्यस्य लोपः प्राप्नोति । सिद्धः अन्त्यस्य पूर्वेण एव । तत्र आरम्भसामर्थ्यात्सर्वस्य भविष्यति । एवं अपि तेन अतिप्रसक्तं इति कृत्वा नियमः विज्ञायेत । यस्य हलः एव न अन्यतः । क्व मा भूत। लोलूयिता पोपूयिता । कैमर्थक्यात्नियमः भवति । विधेयं न अस्ति इति कृत्वा । इह च अस्ति विधेयं । किं । अन्त्यस्य लोपः प्राप्तः सः सर्वस्य विधेयः । तत्र अपूर्वः विधिः अस्तु नियम अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः । एवं अपि अन्त्यस्य प्राप्नोति । किं कारणं । न हि लोपः सर्वापहारी । ननु च सङ्घातग्रहणसामर्थ्यात्सर्वस्य भविष्यति । (कात्यायन वार्तिक)सङ्घातग्रहणं चेत्क्यस्य विभाषायां दोषः(वार्तिकान्त) । सङ्घातग्रहणं चेत्क्यस्य विभाषायां दोषः भवति । समिधिता समिध्यिता । यदा लोपः तदा सर्वस्य लोपः । यदा अलोपः तदा सर्वस्य अलोपः प्राप्नोति । (कात्यायन वार्तिक)आदेः परवचनात्सिद्धम्(वार्तिकान्त) । हलः इति पञ्चमी । तस्मातिति उत्तरस्य आदेः परस्य इति यकारस्य एव भविष्यति । अथ वा पुनः अस्तु वर्णग्रहणं । ननु च उक्तं यलोपे वर्णग्रहणं चेत्धात्वन्तस्य प्रतिषेधः इति । न एषः दोषः । अङ्गातिति हि वर्तते । न वा अङ्गातिति पञ्चमी अस्ति । एवं तर्हि अङ्गस्य इति सम्बन्धषष्ठी विज्ञास्यते । अङ्गस्य यः यकारः । किं च अङ्गस्य यकारः । निमित्तं । यस्मिनङ्गं इति एतत्भवति । कस्मिन्च एतत्भवति । प्रत्यये ।
(पाणिनीयसूत्र ६,४।५१) कि.।२०२।४-९ रो. ईV।७२८ अथ अनिटि इति किमर्थं । कारयिता कारयितुं । अनिटि इति शक्यं अवक्तुं । कस्मात्न भवति कारयिता कारयितुं । निष्ठायां सेटि इति एतत्नियमार्थं भविष्यति । निष्ठायां एव सेटि णेः लोपः भवति न अयत्र । क्व मा भूत। कारयिता कारयितुं । अथ वा उपरिष्टात्योगविभागः करिष्यते । इदं अस्ति । निष्ठायां सेटि । जनित मन्त्र । शमिता यज्ञे । ततः अय। अयादेशः भवति णेः सेटि । तत आमन्ताल्वायेत्न्विष्णुषु अय्भवति इति एव ।
(पाणिनीयसूत्र ६,४।५२।१) कि.।२०२।११-२०३।६ रो. ईV।७२८-७३० अथ सेड्ग्रहणं किमर्थं । निष्ठायां सेड्ग्रहणं अनिटि प्रतिषेधार्थं । निष्ठायां सेड्ग्रहणं क्रियते अनिटि प्रतिषेधः यथा स्यातिति । सञ्ज्ञपितः पशुः इति । (कात्यायन वार्तिक)निष्ठायां सेड्ग्रहणं अनिटि प्रतिषेधार्थं इति चेत्तत्सिद्धं अनिडभावात्(वार्तिकान्त) । निष्ठायां सेड्ग्रहणं अनिटि प्रतिषेधार्थं इति चेतन्तरेण अपि सेड्ग्रहणं तत्सिद्धं । कथं । अनिडभावात। ननु च यस्य विभाषा इति ज्ञपेः इट्प्रतिषेधः । (कात्यायन वार्तिक)एकाचः हि प्रतिषेधः(वार्तिकान्त) । एकाचः हि सः प्रतिषेधः ज्ञपिः च अनेकाच। (कात्यायन वार्तिक)इड्भावार्थं तु तन्निमित्तत्वात्लोपस्य(वार्तिकान्त) । इड्भावार्थं तर्हि सेड्ग्रहणं क्रियते । कथं पुनः सेटि इति अनेन इट्शक्यः भावयितुं । तन्निमित्तत्वात्लोपस्य । न अत्र अकृते इटि णिलोपेन भवितव्यं । किं कारणं । सेटि इति उच्यते । (कात्यायन वार्तिक)अवचने हि णिलोपे इट्प्रतिषेधप्रसङ्गः(वार्तिकान्त) । अक्रियमाणे हि सेड्ग्रहणे णिलोपे कृते एकाचः इति इट्प्रतिषेधः प्रसज्येत । कारितं , हारितं । एवं तर्हि न अर्थः सेड्ग्रहणेन न अपि सूत्रेण । कथं । सप्तमे योगविभागः करिष्यते । इदं अस्ति । निष्ठायां न इट्भवति । ततः णेः । ण्यन्तस्य निष्ठायां न इट्भवति । कारितं , हारितं । ततः वृत्तं । वृत्तं इति च निपात्यते । किं निपात्यते । णेः निष्ठायां लोपः निपात्यते । किं प्रयोजनं । नियमार्थं । अत्र एव णेः निष्ठायां लोपः भवति न अन्यत्र । क्व मा भूत। कारितं , हारितं । इह अपि तर्हि प्राप्नोति : वर्तितं अन्नं , वर्तिता भिक्षा इति । ततः अध्ययने । अध्ययने चेत्वृतिः वर्तते इति ।
(पाणिनीयसूत्र ६,४।५२।२) कि.।२०३।७-१२ रो. ईV।७३१ (कात्यायन वार्तिक)वृधिरमिशृधीनां उपसङ्ख्यानं सार्वधातुकत्वात्(वार्तिकान्त) । वृधिरमिशृधीनां उपसङ्ख्यानं कर्तव्यं । किं कारणं । सार्वधातुकत्वात। वर्धन्तु त्वा सुष्टुतयः गिरः मे । वर्धयन्तु इति एवं प्राप्ते । बृहस्पतिः त्वा सुम्ने रम्णातु । रमयतु इति एवं प्राप्ते । अग्ने शर्ध महते सौभगाय । शर्धय इति एवं प्राप्ते । तत्तर्हि वक्तव्यं । न वक्तव्यं । वृधिरमिशृधीनां आर्धधातुकत्वात्सिद्धं । कथं आर्धधातुकत्वं । अन्ये अपि हि धातुप्रत्ययाः उभयथा छन्दसि दृश्यन्ते ।
(पाणिनीयसूत्र ६,४।५५) कि.।२०३।१४-२० रो. ईV।७३१-७३२ किं पुनः अयं क्त्नुः आहोस्वितित्नुः । कः च अत्र विशेषः । (कात्यायन वार्तिक)क्त्नौ इटि णेः गुणवचनम्(वार्तिकान्त) । क्त्नौ इटि णेः गुणः वक्तव्त्यः । गदयित्नुः , स्तनयित्नुः । अस्तु तर्हि इत्नुः । (कात्यायन वार्तिक)इत्नौ प्रत्ययान्तरकरणम्(वार्तिकान्त) । यदि तर्हि इत्नुः प्रत्ययान्तरं कर्तव्यं । अयादेशे च उपसङ्ख्यानं । अयादेशे च उपसङ्ख्यानं कर्तव्यं । उभयं क्रियते न्यासे एव ।
(पाणिनीयसूत्र ६,४।५६) कि.।२०३।२२-२०४।९ रो. ईV। ७३२-७३३ (कात्यायन वार्तिक)ल्यपि लघुपूर्वस्य इति चेत्व्यञ्जनान्तेषु उपसङ्ख्यानम्(वार्तिकान्त) । ल्यपि लघुपूर्वस्य इति चेत्व्यञ्जनान्तेषु उपसङ्ख्यानं कर्तव्यं । प्रशमय्य गतः । प्रतमय्य गतः । (कात्यायन वार्तिक)अल्लोपे च गुरुपूर्वात्प्रतिषेधः(वार्तिकान्त) । अल्लोपे च गुरुपूर्वात्प्रतिषेधः वक्तव्यः । प्रचिकीर्ष्य गतः । (कात्यायन वार्तिक)ल्यपि लघुपूर्वातिति वचनात्सिद्धम्(वार्तिकान्त) । ल्यपि लघुपूर्वातिति वक्तव्यं । एवं अपि ह्रस्वयलोपाल्लोपानां असिद्धत्वात्ल्यपि लघुपूर्वातिति अयादेशः न प्राप्नोति । प्रशमय्य गतः । प्रतमय्य गतः । प्रबेभिदय्य गतः । प्रचेच्छिदय्य गतः । प्रगदय्य गतः । प्रस्तनय्य गतः । (कात्यायन वार्तिक)ह्रस्वादिषु च उक्तम्(वार्तिकान्त) । किं उक्तं । समानाश्रयत्वात्सिद्धं इति । कथं । णौ एते विधयः । णेः ल्यपि अयादेशः ।
(पाणिनीयसूत्र ६,४।५७) कि.।२०४।११-१५ रो. ईV। ७३४ इङादेशस्य प्रतिषेधः वक्तव्यः । अध्याप्य गतः । (कात्यायन वार्तिक)आपः सानुबन्धकनिर्देशातिङि सिद्धम्(वार्तिकान्त) । आपः सानुबन्धकनिर्देशः करिष्यते । तेन इङादेशस्य न भविष्यति । सः तर्हि सानुबन्धकनिर्देशः कर्तव्यः । न कर्तव्यः । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवं न भविष्यति ।
(पाणिनीयसूत्र ६,४।६२।१) कि.।२०५।३-१२ रो. ईV। ७३४-७३६ भावकर्मणोः इति कथं इदं विज्ञायते । भावकर्मणोः ये स्यादयः इति , आहोस्वित्भावकर्मवाचिनि परतः ये स्यादयः इति । किं च अतः । यदि विज्ञायते भावकर्मणोः ये स्यादयः इति सीयुट्विशेषितः स्यसिच्तासयः अविशेषिताः । अथ विज्ञायते भावकर्मवाचिनि परतः ये स्यादयः इति स्यसिच्तासयः विशेषिताः सीयुटविशेषितः । यथा इच्छसि तथा अस्तु । अस्तु तावत्भावकर्मणोः ये स्यादयः इति । स्यसिच्तासयः च विशेषिताः । ननु च उक्तं सीयुट्विशेषितः स्यसिच्तासयः अविशेषिताः इति । स्यसिच्तासयः च विशेषिताः । कथं । भावकर्मणोः यक्भवति इति अत्र स्यादयः अपि अनुवर्तिष्यन्ते । अथ वा पुनः अस्तु भावकर्मवाचिनि परतः ये स्यादयः इति । ननु च उक्तं स्यसिच्तासयः विशेषिताः सीयुटविशेषितः इति । सीयुट्च विशेषितः । कथं । भावकर्मवाचिनि परतः सीयुट्न अस्ति इति कृत्व भावकर्मवाचिनि सीयुटि कार्यं विज्ञास्यते ।
(पाणिनीयसूत्र ६,४।६२।२) कि.।२०५।१३-२०६।७ रो. ईV। ७३६-७३८ अथ इट्च इति उच्यते । कस्य अयं इट्भवति । अङ्गस्य इति वर्तते । यदि एवं आदितः इट्प्राप्नोति अडाड्वत। तत्यथा अडाटौ टित्त्वातादितः भवतः तद्वत। एवं तर्हि स्यादीनां एव भविष्यन्ति । एवं अपि षष्ठ्यभावात्न प्राप्नोति । ननु च भावकर्मणोः इति एषा षष्ठी । न एषा षष्ठी । किं तर्हि अर्थिनिर्देशे एषा सप्तमी : भावे च अर्थे कर्मणि च इति । एवं तर्हि भावकर्मणोः इति एषा सप्तमी स्यादिषु इति सप्तम्याः षष्ठीं प्रकल्पयिष्यति तस्मिनिति निर्दिष्टे पूर्वस्य इति । एवं अपि न सिध्यति । किं कारणं । न हि अर्थेन पौर्वापर्यं अस्ति । अर्थे असम्भवात्तद्वाचिनि शब्दे कार्यं विज्ञास्यते । एवं अपि सीयुटः न प्राप्नोति । एवं तर्हि सप्तमे योगविभागः करिष्यते । आर्धधातुकस्य इट। यावानिट्नाम सः सर्वः आर्धधातुकस्य इट्भवति । ततः वलादेः । वलादेः आर्धधातुकस्य इट्भवति इति । यदि एवं स्यसिच्सीयुट्तासिषु इट्भवति चिण्वद्भावः अविशेषितः भवति । तत्र कः दोषः । स्यसिच्सीयुट्तासिषु इट्भवति अज्झनग्रहदृशां वा चिण्वतिति क्व चितेव चिण्वद्भावः स्यात। एवं तर्हि स्यादीनपेक्षिष्यामहे । स्यसिच्सीयुट्तासिषु इट्भवति अज्झनग्रहदृशां वा चिण्वत्स्यादिषु इति । अथ के पुनः इमं इटं प्रयोजयन्ति । ये अनुदात्ताः । अथ ये उदात्ताः तेषां कथं । सिद्धं तेन एव परत्वात। उदात्तेभ्यः अपि वा अनेन एव इटेषितव्यः । किं प्रयोजनं । कारयतेः कारिष्यते , हारयतेः हारिष्यते । इटः असिद्धत्वातनिटि इति णिलोपः यथा स्यात। कथं पुनः इच्छता अपि भवता उदात्तेभ्यः अनेन एव इट्लभ्यः न पुनः अनेन अस्तु तेन वा इति तेन एव स्यात्विप्रतिषेधेन । ननु च नित्यः अयं कृते अपि तस्मिन्प्राप्नोति अकृते अपि प्राप्नोति । न तु अस्मिन्कृते अपि सः प्राप्नोति । किं कारणं । अवलादित्वात। तस्मातनेन एव भविष्यति इट।
(पाणिनीयसूत्र ६,४।६२।३) कि.।२०६।८-१७ रो. ईV। ७३९ कानि पुनः अस्य योगस्य प्रयोजनानि । (कात्यायन वार्तिक)वृद्धिः चिण्वत्युक्च हन्तेः च घत्वं दीर्घः च उक्तः यः मितां वा चिणि इति(वार्तिकान्त) । वृद्धिः प्रयोजनं । चेष्यते चायिष्यते । युक्च प्रयोजनं । ग्लास्यते , ग्लायिष्यते । हन्तेः च घत्वं प्रयोजनं । हनिष्यते घानिष्यते । दीर्घः च उक्तः यः मितां वा चिणि इति सः च प्रयोजनं । शमिष्यते शामिष्यते तमिष्यते तामिष्यते । (कात्यायन वार्तिक)इट्च असिद्धः तेन मे लुप्यते णिः नित्यः च अयं वल्निमित्तः विघाती(वार्तिकान्त) । इटः असिद्धत्वात्णेः अनिटि इति णिलोपः यथा स्यात। कथं पुनः अयं नित्यः । कृताकृतप्रसङ्गित्वात। कृते अपि तस्मिनिटि साप्तमिके आर्धधातुकस्य इट्वलादेः इति पुनः अयं भवति । अस्मिन्तु विहिते वलादित्वस्य निमित्तस्य विहतत्वात्साप्तमिकः न भवति ।
(पाणिनीयसूत्र ६,४।६२।४) कि.।२०६।१८-२२ रो. ईV। ७४० अथ उपदेशग्रहणं किमर्थं । (कात्यायन वार्तिक)चिण्वद्भावे उपदेशवचनं ऋकारगुणबलीयस्त्वात्(वार्तिकान्त) । चिण्वद्भावे उपदेशवचनं क्रियते ऋकारगुणस्य बलीयस्त्वात। कारिष्यते । परत्वात्गुणे कृते रपरत्वे च अनजन्तत्वात्चिण्वद्भावः न प्राप्नोति । उपदेशग्रहणात्भविष्यति ।
(पाणिनीयसूत्र ६,४।६२।५) कि.।२०६।२३-२०७।७ रो. ईV। ७४०-७४१ (कात्यायन वार्तिक)वधिभावात्सीयुटि चिण्वद्भावः विप्रतिषेधेन(वार्तिकान्त) । वधिभावात्सीयुटि चिण्वद्भावः भवति विप्रतिषेधेन । वधिभावस्य अवकाशः : वध्यात्, वध्यास्तां , वध्यासुः । चिण्वद्भावस्य अवकाशः : घानिष्यते , अघानिष्यत । इह उभयं प्राप्नोति : घानिषीष्ट घानिषीयास्तां घानिषीरन। चिण्वद्भावः भवति विप्रतिषेधेन । अथ इदानीं चिण्वद्भावे कृते पुनःप्रसङ्गविज्ञानात्वधिभावः कस्मात्न भवति । सकृद्गतौ विप्रतिषेधे यत्बाधितं तत्बाधितं एव इति । हनिणिङादेशप्रतिषेधः च । हनिणिङादेशानां च प्रतिषेधः वक्तव्यः । हनिष्यते , घानिष्यते , एष्यते , आयिष्यते , अध्येष्यते , अध्यायिष्यते । लुङि इति हनिणिङादेशाः प्राप्नुवन्ति । (कात्यायन वार्तिक)अङ्गस्य इति तु प्रकरणातङ्गशास्त्रातिदेशात्सिद्धम्(वार्तिकान्त) । आङ्गं यत्कार्यं तत्प्रतिनिर्दिश्यते न च हनिणिङादेशाः आङ्गाः ।भवन्ति इति ।
(पाणिनीयसूत्र ६,४।६४) कि.।२०७।९-२१ रो. ईV।७४१-७४३ अथ इड्ग्रहणं किमर्थं । (कात्यायन वार्तिक)इड्ग्रहणं अक्ङिदर्थम्(वार्तिकान्त) । इड्ग्रहणं क्रियते अक्ङिति लोपः यथा स्यातः पपिथ तस्थिथ इति । (कात्यायन वार्तिक)सार्वधातुके च आदि इति आर्धधातुकाधिकारातुपसङ्ख्यानम्(वार्तिकान्त) । सार्वधातुके च आदि इति आर्धधातुकाधिकारातुपसङ्ख्यानं कर्तव्यं । इषं ऊर्जं अहं इतः आदि । ननु च क्ङिति इति वर्तमाने यथा एव इड्ग्रहणं अक्ङिदर्थं एवं आर्धधातुके इति अपि वर्तमाने इड्ग्रहणं सार्वधातुकार्थं भविष्यति । न सिध्यति । किं कारणं । न हि क्ङिता अच्विशेष्यते : अचि भवति । कतरस्मिन। क्ङिति इति । किं तर्हि अचा क्ङित्विशेष्यते : क्ङिति भवति । कतरस्मिन। अचि इति । किं पुनः कारणं अचा क्ङित्विशेष्यते । यथा इटपि अज्ग्रहणेन विशेष्यते । अस्ति च इदानीं क्व चितिटनजादिः यदर्थः विधिः स्यात। अस्ति इति आह : दासीय धासीय । तत्तर्हि उपसङ्ख्यानं कर्तव्यं । न कर्तव्यं । आर्धधातुकग्रहणात्सिद्धं । कथं । आर्धधातुकत्वं । उभयथा छन्दसि इति वचनात। अन्ये अपि धातुप्रत्ययाः उभयथा छन्दसि दृश्यन्ते ।
(पाणिनीयसूत्र ६,४।६६) कि.।२०७।२३-२०८।५ रो. ईV।७४३-७४४ (कात्यायन वार्तिक)ईत्त्वे वकारप्रतिषेधः घृतं घृतपावानः इति दर्शनात्(वार्तिकान्त) । ईत्त्वे वकारे प्रतिषेधः वक्तव्यः । किं प्रयोजनं । घृतं घृतपावानः इति दर्शनात। इह मा भूतः घृतं घृतपावानः पिबत । वसां वसपावानः पिबत इति । यदि तर्हि वकारे प्रतिषेधः उच्यते कथं दीवरी पीवरी इति । धीवरी पीवरी इति च उक्तं । किं उक्तं । न एततीत्त्वं । किं तर्हि । ध्याप्योः एतत्सम्प्रसारणं इति । सः तर्हि प्रतिषेधः वक्तयः । न वक्तव्यः । वनिपेषः भविष्यति न क्वनिपिति ।
(पाणिनीयसूत्र ६,४।७४) कि.।२०८।७-२०९।१७ रो. ईV।७४५-७४८ कस्य अयं प्रतिषेधः । आटः प्राप्नोति । अटः अपि इष्यते । तत्तर्हि अटः ग्रहणं कर्तव्यं । न कर्तव्यं । प्रकृतं अनुवर्तते । क्व प्रकृतं । लुङ्लङ्ल्ङ्क्षु अटुदात्तः इति । यदि ततनुवर्तते आटजादीनां अट्च इति अटपि प्राप्नोति । अस्तु । अटि कृते पुनः आटि भविष्यति । इह अपि तर्हि अटि कृते पुनः आट्प्राप्नोति : अकार्षीत्, अहार्षीत। अड्वचनात्न भविष्यति । इह अपि तर्हि अड्वचनात्न स्यातः ऐहिष्ट , ऐक्षिष्त । आड्वचनात्भविष्यति । इह अपि तर्हि आड्वचनात्प्राप्नोति : अकार्षीत्, अहार्षीत। अकृते अटि यः अजादिः इति एवं एतत्विज्ञास्यते । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । अज्वचनसामर्थ्यात। यदि कृते अटि यः अजादिः तत्र स्यातज्ग्रहणं अनर्थकं स्यात। अथ वा उपदेशे इति वर्तते । अथ वा आर्धधातुके इति वर्तते । अथ वा लुङ्लङ्ल्ङ्क्षु अटिति द्विलकारकः निर्देशः : लुङादिषु लकारादिषु यः अजादिः इति । सर्वथा , ऐज्यत , औप्यत इति एतत्न सिध्यति । एवं तर्हि (कात्यायन वार्तिक)अजादीनां अटा सिद्धम्(वार्तिकान्त) । अजादीनां अटा एव सिद्धं । न अर्थः आटा । एवं तर्हि वृद्ध्यर्थं आट्वक्तव्यः । (कात्यायन वार्तिक)वृद्ध्यर्थं इति चेतटः(वार्तिकान्त) । अटः वृद्धिं वक्ष्यामि । यदि तर्हि अटः वृद्धिः उच्यते (कात्यायन वार्तिक)अस्ववः हसति इति अत्र (वार्तिकान्त)। वृद्धिः प्रप्नोति रोः उत्वे कृते । (कात्यायन वार्तिक)धातौ वृद्धिं अटः स्मरेत्(वार्तिकान्त)। धातौ अटः वृद्धिं वक्ष्यामि । तत्तर्हि धातुग्रहणं कर्तव्यं । न कर्तव्यं । योगविभागः करिष्यते । अटः अचि वृद्धिः भवति । ततः उपसर्गातृति वृद्धिः भवति । ततः धातौ । धातौ इति उभयोः शेषः । इह तर्हि : आटीत्, आशीतिति अतः गुणे इति पररूपत्वं प्राप्नोति । (कात्यायन वार्तिक)पररूपं गुणे न अटः(वार्तिकान्त) । पररूपं गुणे अटः न इति वक्ष्यामि । (कात्यायन वार्तिक)ओमाङोः उसि तत्समम्(वार्तिकान्त) । यदि अपि एततुच्यते अथ वा एतर्हि उसि ओमाङ्क्षु आटः पररूपप्रतिषेधः चोदितः स न वक्तव्यः भवति । छन्दोर्थं तर्हि आट्वक्तव्यः । अरैकु कृष्णाः । त्रितः एनं आयुनक। सुरुचः वेनावः । (कात्यायन वार्तिक)छन्दोर्थं बहुलं दीर्घम्(वार्तिकान्त) । बहुलं छन्दसि दीर्घत्वं दृश्यते । तत्यथा : पूरुषः , नारकः इति । एवं तर्हि आयन्, आसन। इणस्त्योः यण्लोपयोः कृतयोः अनजादित्वात्वृद्धिः न प्राप्नोति । (कात्यायन वार्तिक)इणस्त्योः अन्तरङ्गतः(वार्तिकान्त) । अन्तरङ्गत्वात्वृद्धिः भविष्यति । तस्मात्न अर्थः आड्ग्रहणेन । (कात्यायन वार्तिक)अजादीनां अटा सिद्धं । वृद्ध्यर्थं इति चेतटः । अस्ववः हसति इति अत्र । धातौ वृद्धिं अटः स्मरेत। पररूपं गुणे न अटः । ओमाङोः उसि तत्समं । छन्दोर्थं बहुलं दीर्घं । इणस्त्योः अन्तरङ्गतः(वार्तिकान्त) ।
(पाणिनीयसूत्र ६,४।७७) कि.।२०९।१९-२२ रो. ईV।७४८-७४९ (कात्यायन वार्तिक)इयङादिप्रकरणे तन्वादीनां छन्दसि बहुलम्(वार्तिकान्त) । इयङादिप्रकरणे तन्वादीनां छन्दसि बहुलं उपसङ्ख्यानं कर्तव्यं । तन्वं पुषेम । तनुवं पुषेम । विष्वं पश्य । विषुवं पश्य । स्वर्गं लोकं । सुवर्गं लोकं । त्र्यम्बकं यजामहे । त्रियम्बकं यजामहे ।
(पाणिनीयसूत्र ६,४।८२) कि.।२०९।२४-२१०।१५ रो. ईV।७४९-७५१ अथ इह कस्मात्न भवति : ब्राह्मणस्य नियौ , ब्राह्मणस्य नियः । अङ्गाधिकारात। अङ्गस्य इति अनुवर्तते । एवं अपि परमनियौ परमनियः इति अत्र प्राप्नोति । गतिकारकपूर्वस्य इष्यते । (कात्यायन वार्तिक)यणादेशः स्वरपदपूर्वोपधस्य च(वार्तिकान्त) । यणादेशः स्वरपूर्वोपधस्य पदपूर्वोपधस्य च इति वक्तव्यं । स्वरपूर्वोपधस्य : निन्यतुः , निन्युः । पदपूर्वोपधस्य : उन्न्यौ , उन्न्यः , उद्ध्यौ , उद्ध्यः । उभयकृतमः ग्रामण्यौ , ग्रामण्यः , सेनान्यौ , सेनान्यः । (कात्यायन वार्तिक)असंयोगपूर्वे हि अनिष्टप्रसङ्गः(वार्तिकान्त) । असंयोगपूर्वस्य इति हि उच्यमाने अनिष्टं प्रसज्येत । उद्ध्यौ , उद्ध्यः , उन्न्यौ , उन्न्यः । असंयोगपूर्वस्य इति प्रतिषेधः प्रसज्येत । तत्तर्हि वक्तव्यं । न वक्तव्यं । धातोः इति वर्तते । तत्र धातुना संयोगं विशेषयिष्यामः । धातोः यः संयोगः तत्पूर्वस्य न इति । उपसर्जनं वै संयोगः न च उपसर्जनस्य विशेषणं अस्ति । धातोः इति अनुवर्तनसामर्थ्यातुपसर्जनस्य अपि विशेषणं भविष्यति । अस्ति अन्यत्धातोः इति अनुवर्तनस्य प्रयोजनं । किं । इवर्णं विशेषयिष्यामः । न एततस्ति प्रयोजनं । यत्हि अधातोः इवर्णं भवितव्यं एव तस्य यणादेशेन इकः यणचि इति एव ।
(पाणिनीयसूत्र ६,४।८४) कि.।२१०।१७-२० रो. ईV।७५१ (कात्यायन वार्तिक)वर्षाभूपुनर्भ्वः च(वार्तिकान्त) । वर्षाभू इति अत्र पुनर्भ्वः च इति वक्तव्यं : पुनर्भ्वौ , पुनर्भ्वः । अत्यल्पं इदं उच्यते । वर्षादृन्कारपुनःपूर्वस्य भुवः इति वक्तव्यं : वर्षाभ्वौ , वर्षाभ्वः , दृन्भ्वौ , दृन्भ्वः , कारभ्वौ , कारभ्वः , पुनर्भ्वौ , पुनर्भ्वः ।
(पाणिनीयसूत्र ६,४।८७) कि.।२२-२११।१४ रो. ईV।७५१-७५२ हुश्नुग्रहणं अनर्थकं । किं कारणं । अन्यस्य अभावात। न हि अन्यत्सार्वधातुके अस्ति यस्य यणादेशः स्यात। ननु च अयं अस्ति : याति , वाति इति । क्ङिति अनुवर्तते । इह तर्हि : यातः , वातः इति । अचि इति वर्तते । इह तर्हि : यान्ति , वान्ति । य्वोः इति वर्तते । एवं अपि धियन्ति , पियन्ति इति अत्र प्राप्नोति । ओः इति वर्तते । एवं अपि सुवन्ति , रुवन्ति इति अत्र प्राप्नोति । अनेकाचः इति वर्तते । एवं अपि असुवन्, अरुवनिति अत्र प्राप्नोति । एततपि अटः असिद्धत्वातेकाच्भवति । एवं अपि प्रोर्णुवन्ति इति अत्र प्राप्नोति । असंयोगपूर्वस्य इति वर्तते । यङ्लुगर्थं तर्हि हुश्नुग्रहणं कर्तव्यं । यङ्लुगन्तं अनेकाचसंयोगपूर्वं उवर्णान्तं अस्ति । तदर्थं इदं । नदं योयुवतीनां । वृषभं रोरुवतीनां । (कात्यायन वार्तिक)यङ्लुगर्थं इति चेतार्धधातुकत्वात्सिद्धम्(वार्तिकान्त) । यङ्लुगर्थं इति चेत्तत्न । किं कारणं । आर्धधातुकत्वात्सिद्धं । कथं आर्धधातुकत्वं । उभयथा छन्दसि इति वचनात। अन्ये अपि हि धातुप्रत्ययाः उभयथा छन्दसि दृश्यन्ते । एवं तर्हि सिद्धे सति यत्हुश्नुग्रहणं करोति तत्ज्ञापयति आचार्यः यङ्लुक्भाषायां भवति इति । किं एतस्य ज्ञापने प्रयोजनं । बेभिदीति , चेच्छिदीति एतत्सिद्धं भवति भाषायां अपि ।
(पाणिनीयसूत्र ६,४।८९) कि.।२११।१६-२१२।८ रो. ईV।७५३-७५४ अथ किमर्थं गुहेः विकृतस्य ग्रहणं क्रियते न पुनः गुहः इति एव उच्येत । (कात्यायन वार्तिक)गोहिग्रहणं विषयार्थम्(वार्तिकान्त) । गोहिग्रहणं क्रियते विषयार्थं । विषयः प्रतिनिर्दिश्यते । यत्र अस्य एतत्रूपं तत्र यथा स्यात। इह मा भूतः निजुगुहतुः , निजुगुहुः इति । (कात्यायन वार्तिक)अयादेशप्रतिषेधार्थं च(वार्तिकान्त) । अयादेशप्रतिषेधार्थं च विकृतग्रहणं क्रियते । (कात्यायन वार्तिक)ह्रस्वादेशे हि अयादेशप्रसङ्गः ऊत्त्वस्य असिद्धत्वात्(वार्तिकान्त) । ह्रस्वादेशे हि सति अयादेशः प्रसज्येत । प्रगूह्य गतः । किं कारणं । ऊत्त्वस्य असिद्धत्वात। असिद्धं ऊत्त्वं । तस्य असिद्धत्वात्ल्यपि लघुपूर्वातिति अयादेशः प्रसज्येत । विषयार्थेन तावत्न अर्थः गोहिग्रहणेन । प्रश्लिष्टनिर्देशात्सिद्धं । प्रश्लिष्टनिर्देशः अयं । उ-ऊतः ऊतिति । तत्र ह्रस्वस्य अवकाशः : निजुगुहतुः , निजुगुहुः । गुणस्य अवकाशः : निगोढा , नोगोढुं । इह उभयं प्राप्नोति : निगूहयति , निगूहकः । परत्वात्गुणे कृते आन्तर्यतः दीर्घस्य दीर्घः भविष्यति । अयादेशप्रतिषेधार्थेन अपि न अर्थः । समानाश्रयवचनात्सिद्धं । समानाश्रयं असिद्धं भवति व्याश्रयं च एतत। कथं । णौ ऊत्त्वं णेः ल्यपि अयादेशः ।
(पाणिनीयसूत्र ६,४।९०) कि.।२१२।१०-१५ रो. ईV।७५४ अथ किमर्थं दुषेः विकृतस्य ग्रहणं क्रियते न पुनः दुषः इति एव उच्येत । (कात्यायन वार्तिक)दोषिग्रहणं च(वार्तिकान्त) । किं । अयादेशप्रतिषेधार्थं ह्रस्वादेशे हि अयादेशप्रसङ्गः ऊत्त्वस्य असिद्धत्वात। ह्रस्वादेशे हि सति अयादेशः प्रसज्येत । प्रदूष्य गतः । किं कारणं । ऊत्त्वस्य असिद्धत्वात। असिद्धं ऊत्त्वं । तस्य असिद्धत्वात्ल्यपि लघुपूर्वातिति अयादेशः प्रसज्येत । अत्र अपि समानाश्रयवचनात्सिद्धं इति एव ।
(पाणिनीयसूत्र ६,४।९३) कि.।२१२।१७-२१३।४ रो. ईV।७५४-७५५ चिण्णमुलोः णिज्व्यवेतानां यङ्लोपे च उपसङ्ख्यानं कर्तव्यं । शमयन्तं प्रयोजितवान्, अशमि , अशामि , शमं शमं , शामं शामं । शंशमयतेः : अशंशमि , अशंशामि , शंशमं शंशमं , शंशामं शंशामं । किं पुनः कारणं न सिध्यति । चिण्णमुल्परे णौ मितां अङ्गानां दीर्घः भवति इति उच्यते । यः च अत्र चिण्णमुल्परः न तस्मिन्मितङ्गं यस्मिन्च मितङ्गं न असौ चिण्णमुल्परः इति । लोपे कृते चिण्णमुल्परः भवति । स्थानिवद्भावात्न चिण्णमुल्परः । ननु च प्रतिषिध्यते अत्र स्थानिवद्भावः दीर्घविधिं प्रति न स्थानिवतिति । एवं अपि असिद्धत्वात्न प्राप्नोति । एवं तर्हि (कात्यायन वार्तिक)चिण्णमुलोः णिज्व्यवेतानां यङ्लोपे च अन्तरङ्गलक्षणत्वात्सिद्धम्(वार्तिकान्त) । किं इदं अन्तरङ्गलक्षणत्वातिति । यावत्ब्रूयात्समानाश्रयवचनात्सिद्धं इति एव व्याश्रयं च एतत। कथं । णेः णौ लोपः णौ चिण्णमुल्परे मितां अङ्गानां दीर्घत्वं उच्यते । तस्मात्न अर्थः उपसङ्ख्यानेन इति ।
(पाणिनीयसूत्र ६,४।९६) कि.।२१३।६-९ रो. ईV।७५६ अद्विप्रभृत्युपसर्गस्य इति वक्तव्यं इह अपि यथा स्यातः समुपाभिच्छादः इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । यत्र त्रिप्रभृतयः सन्ति द्वौ अपि तत्र स्तः । तत्र अद्व्युपसर्गस्य इति एव सिद्धं । न वै एषः लोके सम्प्रत्ययः । न हि द्विपुत्रः आनीयतां इति उक्ते त्रिपुत्रः आनीयते । तस्मातद्विप्रभृत्युपसर्गस्य इति वक्तव्यं ।
(पाणिनीयसूत्र ६,४।१००) कि.।२१३।११-१३ रो. ईV।७५६-७५७ (कात्यायन वार्तिक)हल्ग्रहणं अनर्थकं अन्यत्र अपि दर्शनात्(वार्तिकान्त) । हल्ग्रहणं अनर्थकं । किं कारणं । अन्यत्र अपि दर्शनात। अन्यत्र अपि लोपः दृश्यते । अग्निः तृणानि बब्सति । शरावे बप्सति चरुः ।
(पाणिनीयसूत्र ६,४।१०१) कि.।२१३।१५-२१४।७ रो. ईV।७५७-७५८ इटः प्रतिषेधः वक्तव्यः । रुदिहि स्वपिहि । झलः इति धित्वं प्राप्नोति । (कात्यायन वार्तिक)हेः धित्वे हलधिकारातिटः अप्रतिषेधः(वार्तिकान्त) । हेः धित्वे हलधिकारातिटः अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । धित्वं कस्मात्न भवति । हलधिकारात। प्रकृतं हल्ग्रहणं अनुवर्तते । क्व प्रकृतं । घसिभसोः हलि इति । तत्वै सप्तमीनिर्दिष्टं षष्ठीनिर्दिष्टेन च इह अर्थः । तत्वै तत्र प्रत्याख्यायते । तत्र प्रत्याख्यातं सत्यया विभक्त्या निर्दिश्यमानं अर्थवत्तया निर्दिष्टं इह अनुवर्तिष्यते । अथ वा हुझल्भयः इति एषा पञ्चमी हलि इति सप्तम्याः षष्ठीं प्रकल्पयिष्यति तस्मातिति उत्तरस्य इति । अथ वा निर्दिश्यमानस्य आदेशाः भवन्ति इति एवं न भविष्यति । यः तर्हि निर्दिश्यते तस्य कस्मात्न भवति । इटा व्यवहितत्वात। यदि एवं छिन्धकि भिन्धकि इति अत्र धित्वं न प्राप्नोति । धित्वे कृते अकच्भविष्यति । इदं इह सम्प्रधार्यं । धित्वं क्रियतां अकचिति किं अत्र कर्तव्यं । परत्वात्धित्वं । नित्यः अकच। कृते अपि धित्वे प्राप्नोति अकृते अपि । अकचपि अनित्यः । अन्यस्य कृते धित्वे प्राप्नोति अन्यस्य अकृते शब्दान्तरस्य च प्राप्नुवन्विधिः अनित्यः भवति । उभयोः अनित्ययोः परत्वात्धित्वे कृते अकच्भविष्यति । अथ वा हकारस्य एव अशक्तिजेन इकारेण ग्रहणं ।
(पाणिनीयसूत्र ६,४।१०४) कि.।२१४।९-२५ रो. ईV।७५९-७६० चिणः लुकि तग्रहणं कर्तव्यं । किं प्रयोजनं । इह मा भूतः अकारितरां , अहारितरां इति । (कात्यायन वार्तिक)चिणः लुकि तग्रहणानर्थक्यं सङ्घातस्य अप्रत्ययत्वात्(वार्तिकान्त)। चिणः लुकि तग्रहणं अनर्थकं । किं कारणं । सङ्घातस्य अप्रत्ययत्वात। सङ्घातस्य लुक्कस्मात्न भवति । अप्रत्ययत्वात। प्रत्ययस्य लुक्श्लुलुपः भवन्ति इति उच्यते न च सङ्घातः प्रत्ययः । तलोपे तर्हि कृते परस्य प्राप्नोति । (कात्यायन वार्तिक)तलोपस्य च असिद्धत्वात्(वार्तिकान्त) । असिद्धः तलोपः । तस्य असिद्धत्वात्न भविष्यति । (कात्यायन वार्तिक)कार्यकृतत्वात्वा(वार्तिकान्त) । अथ वा कृतः चिणः लुकिति कृत्वा पुनः न भविष्यति लुक। तत्यथा वसन्ते ब्राह्मणः अग्नीनादधीत इति सकृताधाय कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति । विषमः उपन्यासः । युक्तं यत्तस्य एव पुनः प्रवृत्तिः न स्यात। यत्तु तदाश्रयं प्राप्नोति न तत्शक्यं बाधितुं । तत्यथा वसन्ते ब्राह्मणः अग्निष्टोमादिभिः क्रतुभिः यजेत इति अग्न्याधाननिमित्तं वसन्ते वसन्ते इज्यते । तस्मात्पूर्वोक्तौ एव परिहारौ । अथ वा क्ङिति इति वर्तते । क्व प्रकृतं । गमहनजनखनघसां लोपः क्ङिति अनङि इति । तत्वै सप्तमीनिर्दिष्टं षष्ठीनिर्दिष्टेन च इह अर्थः । चिणः लुकिति एषा पञ्चमी क्ङिति इति सप्तम्याः षष्ठीं प्रकल्पयिष्यति तस्मातिति उत्तरस्य इति ।
(पाणिनीयसूत्र ६,४।१०६।१) कि.।२१५।२-११ रो. ईV।७६०-७६१ कथं इदं विज्ञायते । उकारात्प्रत्ययातिति आहोस्वितुकारान्तात्प्रत्ययातिति । किं च अतः । यदि विज्ञायते उकारात्प्रत्ययातिति सिद्धं तनु कुरु । चिनु सुनु इति न सिध्यति । अथ विज्ञायते उकारान्तात्प्रत्ययातिति सिद्धं चिनु सुनु इति । तनु कुरु न सिध्यति । तथा असंयोगपूर्वग्रहणेन इह एव पर्युदासः स्यातः तक्ष्णुहि , अक्ष्णुहि । आप्नुहि शक्नुहि इति अत्र न स्यात। यथा इच्छसि तथा अस्तु । अस्तु तावतुकारात्प्रत्ययातिति । कथं चिनु सुनु इति । तदन्तविधिना भविष्यति । अथ वा पुनः अस्तु उकारान्तात्प्रत्ययातिति । कथं तनु कुरु इति । व्यप्देशिवद्भावेन भविष्यति । यतपि उच्यते तथा असंयोगपूर्वग्रहणेन इह एव पर्युदासः स्यातः तक्ष्णुहि , अक्ष्णुहि । आप्नुहि शक्नुहि इति अत्र न स्यातिति । न अस्माभिः असंयोगपूर्वग्रहणेन उकारान्तं विशेष्यते । किं तर्हि । उकारः । उकारः यः असंयोगपूर्वः तदन्तात्प्रत्ययातिति ।
(पाणिनीयसूत्र ६,४।१०६।२) कि.।२१५।१२-१७ रो. ईV।७६०-७६२ (कात्यायन वार्तिक)उतः च प्रत्ययात्छन्दोवावचनम्(वार्तिकान्त) । उतः च प्रत्ययातिति अत्र छन्दसि वा इति वक्तव्यं । अव स्थिर तनुहि यातुजुनां । धिनुहि यज्ञं धिनुहि यज्ञपतिं । तेन मा भागिनं कृणुहि । (कात्यायन वार्तिक)उत्तरार्थं च(वार्तिकान्त) । के चित्तावताहुः छन्दोग्रहणं कर्तव्यं इति । अपरे आहुः : वावचनं कर्तव्यं इति । लोपः च अस्य अन्यरतस्यां म्वोः इति अत्र अन्यरतस्याङ्ग्रहणं न कर्तव्यं भवति ।
(पाणिनीयसूत्र ६,४।११०) कि.।२१५।१९-२१७।५ रो. ईV।७६२-७६५ सार्वधातुके इति किमर्थं । इह मा भूतः सञ्चस्करतुः , सञ्चस्करुः । स्यान्तस्य प्रतिषेधः वक्तव्यः : करिष्यति करिष्यतः । (कात्यायन वार्तिक)कृञः उत्त्वे उकारान्तनिर्देशात्स्यान्तस्य अप्रतिषेधः(वार्तिकान्त) । कृञः उत्त्वे उकारान्तनिर्देशात्स्यान्तस्य अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । उत्त्वं कस्मात्न भवति । उकारान्तनिर्देशात। अशक्यः करोतौ उकारान्तनिर्देशः तन्त्रं आश्रयितुं । इह सम्परिभ्यां भूषणसमवाययोः क्रोतौ इह एव स्यातः संस्करोति । संस्कर्ता संसक्र्तुं इति अत्र न स्यात। न ब्रूमः अस्मातुकारान्तनिर्देशात्यः अयं करोति इति । किं तर्हि । उकारप्रकरणातुकारान्तं अङ्गं अभिसम्बध्यते । उतः इति वर्तते । यदि एवं न अर्थः सार्वधातुकग्रहणेन । कस्मात्न भवति सञ्चस्करतुः , सञ्चस्करुः इति । उतः इति वर्तते । उत्तरार्थं तर्हि सार्वधातुकग्रहणं कर्तव्यं । श्नसोः अल्लोपः इति । श्नं सार्वधातुके एव । अस्तेः अपि आर्धधातुके भूभावेन भवितव्यं । उत्तरार्थं एव तर्हि । श्नाभ्यस्तयोः आतः इति । श्ना सार्वधातुके एव । अभ्यस्तं अपि आकारान्तं आर्धधातुके न अस्ति । ननु च इदं अस्ति : अप्सु यायावरः प्रवपेत पिण्डानिति । न एतताकारान्तं । यकारान्तं एतत। उत्तरार्थं एव तर्हि । ई हलि अघोः इति । तत्र अपि श्नाभ्यस्तयोः इति एव । अतः अपि उत्तरार्थं एव तर्हि । इद्दरिद्रस्य इति । वक्ष्यति एततः दरिद्रातेः आर्धधातुके लोपः सिद्धः च प्रत्ययविधौ इति । अतः अपि उत्तरार्थं । भियः अन्यतरस्यां । अभ्यस्तस्य इति एव । अतः अपि उत्तरार्थं एव । जहातेः च । अभ्यस्तस्य इति एव । अतः अपि उत्तरार्थं । आ च हौ । हौ इति उच्यते । अभ्यस्तस्य इति एव । अतः अपि उत्तरार्थं । लोपः यि । अभ्यस्तस्य इति एव । अतः अपि उत्तरार्थं । घव्सोः एत्हौ अभ्यासलोपः च इति । हौ इति उच्यते । ततेव तर्हि प्रयोजनं । श्नसोः अल्लोपः इति । ननु च उक्तं श्नं सार्वधातुके एव । अस्तेः अपि आर्धधातुके भूभावेन भवितव्यं इति । (कात्यायन वार्तिक)अनुप्रयोगे तु भुवा अस्त्यबाधनं स्मरन्ति कर्तुः वचनात्मनीषिणः(वार्तिकान्त) । अनुप्रयोगे तु भुवा अस्तेः अबाधनं इष्यते : ईहां आस , ईहां आसतुः , ईहां आसुः इति । किं च स्यात्यदि अत्र लोपः स्यात। (कात्यायन वार्तिक)लोपे द्विर्वचनासिद्धिः(वार्तिकान्त) । लोपे कृते अनच्कत्वात्द्विर्वचनं स्यात। स्थानिवद्भादात्भविष्यति । (कात्यायन वार्तिक)स्थानिवतिति चेत्कृते भवेत्द्वित्वे(वार्तिकान्त) । कृते द्वित्वे लोपः प्राप्नोति । अस्ति तर्हि परस्य लोपः । अभ्यासस्य यः अकारः तस्य दीर्घत्वं भविष्यति । (कात्यायन वार्तिक)न एवं सिध्यति कस्मात्प्रत्यङ्गत्वात्भवेत्हि पररूपम्(वार्तिकान्त) । न एवं सिध्यति । कस्मात। प्रत्यङ्गत्वात्पररूपं प्राप्नोति । (कात्यायन वार्तिक)तस्मिन्च कृते लोपः(वार्तिकान्त) । पररूपे च कृते लोपः प्राप्नोति । (कात्यायन वार्तिक)दीर्घत्वं बाधकं भवेत्तत्र(वार्तिकान्त) । अतः आदेः इति दीर्घत्वं बाधकं भविष्यति । इदं तर्हि प्रयोजनं । सार्वधातुके भूतपूर्वमात्रे अपि यथा स्यातः कुरु इति ।
(पाणिनीयसूत्र ६,४।१११) कि.।२१७।७-८ रो. ईV। ७६५-७६६ अथ अत्र तपरकरणं किमर्थं । इह मा भूतः आस्तां , आसन। न एततस्ति प्रयोजनं । आटः असिद्धत्वात्न भविष्यति ।
(पाणिनीयसूत्र ६,४।११४) कि.।२१७।१०-१८ रो. ईV।७६६ (कात्यायन वार्तिक)दरिद्रातेः आर्धधातुके लोपः(वार्तिकान्त) । दरिद्रातेः आर्धधातुके लोपः वक्तव्यः । (कात्यायन वार्तिक)सिद्धः च प्रत्ययविधौ(वार्तिकान्त) । सः च सिद्धः प्रत्ययविधौ । किं प्रयोजनं । दरिद्राति इति दरिद्रः । आकारान्तलक्षणः प्रत्ययविधिः मा भूतिति ।(कात्यायन वार्तिक) न दरिद्रायके लोपः दरिद्राणे च न इष्यते(वार्तिकान्त) । (कात्यायन वार्तिक)दिदरिद्रासस्ति इति एके दिदरिद्रिषति इति वा(वार्तिकान्त) । (कात्यायन वार्तिक)वा अद्यतन्यां (वार्तिकान्त)। अद्यतन्यां वा इति वक्तव्यं । अदरिद्रीत्, अदरिद्रासीत।
(पाणिनीयसूत्र ६,४।१२०।१) कि.।२१७।२०-२१८।२० रो. ईV।७६७-७६८ (कात्यायन वार्तिक)णकारषकारादेशादेः एत्त्ववचनं लिटि(वार्तिकान्त) । णकारषकारादेशादेः एत्त्वं लिटि वक्तव्यं । नेमतुः , नेमुः , सेहे, सेहाते , सेहिरे । किं पुनः कारणं न सिध्यति । अनादेशादेः इति ल्प्रतिषेधः प्राप्नोति । तत्तर्हि वक्तव्यं । न वक्तव्यं । लिटा अत्र आदेशादिं विशेषयिष्यामः । लिटि यः आदेशादिः तदादेः न इति । अस्ति अन्यत्लिड्ग्रहणस्य प्रयोजनं । किं । इह मा भूतः पक्ता पक्तुं । न एततस्ति प्रयोजनं । क्ङिति इति वर्तते । एवं अपि पक्वः पक्ववानिति अत्र प्राप्नोति । अभ्यासलोपसन्नियोगेन एत्त्वं उच्यते न च अत्र अभ्यासलोपसं पश्यामः । एवं अपि पापच्यते अत्र प्राप्नोति । दीर्घत्वं अत्र बाधकं भविष्यति । न अप्राप्ते अभ्यासविकारे एत्तं अरभ्यते । तत्यथ अन्यानभ्यासविकारान्बाधते एवं दीर्घत्वं अपि बाधेत । सत्यं एवं एतत। अभ्यासविकारेषु तु ज्येष्ठमध्यमकनीयांसः प्रकाराः भवन्ति । तत्र ह्रस्वहलादिशेषौ उत्सर्गौ । तयोः दीर्घत्वं अपवादः एत्त्वं च । अपवादविप्रतिषेधात्दीर्घत्वं भविष्यति । इह तर्हि बभणतुः , बभणुः इति अभ्यासादेशस्य असिद्धत्वातेत्त्वं प्राप्नोति । (कात्यायन वार्तिक)फलिभजिग्रहणं तु ज्ञापकं अभ्यासादेशसिद्धत्वस्य(वार्तिकान्त) । यतयं फलिभज्योः ग्रहणं करोति तत्ज्ञापयति आचार्यः सिद्धः अभ्यासादेशः एत्त्वे इति । यदि एवं (कात्यायन वार्तिक)प्रथमतृतीयादीनां आदेशादित्वातेत्त्वाभावः(वार्तिकान्त) । प्रथमतृतीयादीनां तर्हि आदेशादित्वातेत्त्वं न प्राप्नोति । पेचतुः , पेचुः , देभतुः , देभुः । (कात्यायन वार्तिक)न वा शसिदद्योः प्रतिषेधः ज्ञापकः रूपाभेदे एत्त्वविज्ञानस्य(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । शसिदद्योः प्रतिषेधः ज्ञापकः रूपाभेदे एत्त्वविज्ञानस्य । यतयं शसिदद्योः प्रतिषेधं शास्ति तत्ज्ञापयति आचार्यः रूपाभेदेन यः आदेशादयः न तेषां प्रतिषेधः इति ।
(पाणिनीयसूत्र ६,४।१२०।२) कि.।२१८।२१-२१९।७ रो. ईV।७६८-७६९ (कात्यायन वार्तिक)दम्भः एत्त्वम्(वार्तिकान्त) । दम्भः एत्त्वं वक्तव्यं । देभतुः , देभुः । किं पुनः कारणं न सिध्यति । (कात्यायन वार्तिक)नलोपस्य असिद्धत्वात्(वार्तिकान्त)। असिद्धः नलोपः । तस्य असिद्धत्वातेत्त्वं न प्राप्नोति । (कात्यायन वार्तिक)नशिमन्योः अलिटि एत्त्वम्(वार्तिकान्त) । नशिमन्योः अलिटि एत्त्वं वक्तव्यं । (कात्यायन वार्तिक)छन्दसि अमिपच्योः अपि(वार्तिकान्त) । छन्दसि अमिपच्योः अपि इति वक्तव्यं । किं प्रयोजनं । (कात्यायन वार्तिक)अनेशं मेनका इति एतत्व्येमानं लिङि पेचिरन्(वार्तिकान्त) । (कात्यायन वार्तिक)यजायेजे वपावेपे दम्भः एत्त्वं अलक्षणम्(वार्तिकान्त) । असिद्धत्वात्नलोपस्य दम्भः एत्त्वं न सिध्यति । (कात्यायन वार्तिक)श्नसोः अत्त्वे तकारेण ज्ञाप्यते तु एत्त्वशासनम्(वार्तिकान्त) । अनित्यः अयं विधिः इति ।
(पाणिनीयसूत्र ६,४।१२१) कि.।२१९।९-१९ रो. ईV।७७०-७७१ थल्ग्रहणं किमर्थं । (कात्यायन वार्तिक)थल्ग्रहणं अक्ङिदर्थम्(वार्तिकान्त) । थल्ग्रहणं क्रियते अक्ङिदर्थं । अक्ङिति एत्त्वं यथा स्यात। पेचिथ शेकिथ । न एततस्ति प्रयोजनं । सेड्ग्रहणं एवे अत्र अक्ङिदर्थं भविष्यति । इदं तर्हि प्रयोजनं । समुच्चयः यथा विज्ञायेत । थलि च सेटि क्ङिति च सेटि इति । किं प्रयोजनं । पेचिव पेचिम। तत्र पचादिभ्यः इड्वचनं इति वक्ष्यति । तत्न वक्तव्यं भवति । इह कस्मात्न भवति : लुलविथ । गुणस्य प्रतिषेधात। इह अपि तर्हि न प्राप्नोति : पेचिथ शेकिथ । गुणस्य यः अकारः इति एवं एतत्विज्ञास्यते । एवं अपि शशरिथ , अत्र प्राप्नोति । गुणस्य एषः अकारः । कथं । वृद्धिः भवति गुणः भवति इति रेफशिराः गुणवृद्धिसञ्ज्ञकः अभिनिर्वर्तते । अथ वा आचार्यप्रवृत्तिः ज्ञापयति ने एवञ्जातीयकानां एत्त्वं भवति इति यतयं त्®फलभजत्रपः च इति त्®ग्रहणं करोति ।
(पाणिनीयसूत्र ६,४।१२३) कि.।२१९।२१-२२०।८ रो. ईV।७७१-७७२ (कात्यायन वार्तिक)राधादिषु स्थानिनिर्देशः(वार्तिकान्त) । राधादिषु स्थानिनिर्देशः कर्तव्यः । न कर्तव्यः । एकहल्मध्ये इति वर्तते । यदि एवं त्रेसतुः , त्रेसुः , र शब्दस्य एत्त्वं प्राप्नोति । अस्तु । अलः अन्त्यस्य विधयः भवन्ति इति अकारस्य भविष्यति । अनर्थके अलः अन्त्यविधिः न इति एवं न प्राप्नोति । न एतस्याः परिभाषायाः सन्ति प्रयोजनानि । अथ वा अतः इति वर्तते । एवं अपि राधेः न प्राप्नोति । आकारग्रहणं अपि प्रकृतं अनुवर्तते । क्व प्रकृतं । श्नाभ्यास्तयोः आतः इति । अथ वा श्नसोः अल्लोपः इति अत्र तपरकरणं प्रत्याख्यायते । तत्प्रकृतं इह अनुवर्तिष्यते । यदि ततनुवर्तते अतः एकहल्मध्ये अनादेशादेः लिटि अस्य च इति अवर्णमात्रस्य एत्त्वं प्राप्नोति । बबाधे । अकारेण तपरेण अवर्णं विशेषयिष्यामः । अस्य आतः इति । इह इदानीं अस्य इति अनुवर्तते अतः इति निवृत्तं ।
(पाणिनीयसूत्र ६,४।१२७-१२८) कि.।२२०।११-१८ रो. ईV।७७२-७७३ (कात्यायन वार्तिक)अर्वणस्तृ मघोनः च न शिष्यं छान्दसं हि तत्(वार्तिकान्त) । अर्वणस्तृ मघोनः च न शिष्यं । किं कारणं । छान्दसं हि तत। दृष्टानुविधिः छन्दसि भवति । (कात्यायन वार्तिक)मतुब्वन्योः विधानात्च(वार्तिकान्त) । मतुब्वनी खलु अपि छन्दसि विधीयेते । (कात्यायन वार्तिक)छन्दसि उभयदर्शनात्(वार्तिकान्त) । उभयं खलु अपि छन्दसि दृश्यते । इमानि अर्वणः पदानि । अनर्वणं वृषभं मन्द्रजिह्वं ।
(पाणिनीयसूत्र ६,४।१३०) कि.।२२१।२-२२२।१७ रो. ईV।७७३-७७७ (कात्यायन वार्तिक)पादः उपधाह्रस्वत्वम्(वार्तिकान्त) । पादः उपधाह्रस्वत्वं वक्तव्यं । द्विपदः पश्य । (कात्यायन वार्तिक)आदेशे हि सर्वादेशप्रसङ्गः(वार्तिकान्त) । आदेशे हि सति सर्वादेशः प्रसज्येत । सर्वस्य द्विपाच्छब्दस्य त्रिपाच्छब्दस्य च पच्छब्दादेशः प्रसज्येत येन विधिः तदन्तस्य इति । तत्तर्हि वक्तव्यं । (कात्यायन वार्तिक)न वा निर्दिश्यमानस्य आदेशत्वात्(वार्तिकान्त) । न वा वक्तव्यं । किं कारणं । निर्दिश्यमानस्य आदेशाः भवन्ति इति एषा परिभाषा कर्तव्या । कः पुनः अत्र विशेषः एषा वा परिभाषा क्रियेत उपधाह्रस्वत्वं वा उच्येत । अवश्यं एषा परिभाषा कर्तव्या । बहूनि एतस्याः परिभाषायाः प्रयोजनानि कानि । (कात्यायन वार्तिक)प्रयोजनं सुप्तिङादेशे(वार्तिकान्त) । सुप। कुमार्यां , कोशोर्यां , खट्वायां , मालायां , तस्यां , यस्यां । आड्याट्स्याट्सु कृतेषु साड्याट्स्याट्कस्य आं प्राप्नोति । निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति । इदं इह सम्प्रधार्यं । आड्याट्स्याटः क्रियन्तां आं इति किं अत्र कर्तव्यं । परत्वातां । नित्याः आड्याट्स्याटः । कृते अपि आमि प्रप्नुवन्ति अकृते अपि । अनित्याः आड्याट्स्याटः । अन्यस्य कृते आमि प्रप्नुवन्ति अन्यस्य अकृते शब्दान्तरस्य च प्राप्नुवन्तः अनित्याः भवन्ति । उभयोः अनित्ययोः परत्वातां । इदं तर्हि । तस्यै यस्यै । स्याटि कृते सस्याट्कस्य स्मैभावः प्राप्नोति । निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति । यः तर्हि निर्दिश्यते तस्य कस्मात्न भवति । स्याटा व्यवहितत्वात। सुप। तिङ। अरुदितां अरुदितं अरुदित इति । इटि कृते सेट्कस्य ताम्तम्तामादेशाः प्राप्नुवन्ति । निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति । इदं इह सम्प्रधार्यं । इट्क्रियतां ताम्तम्तामः इति किं अत्र कर्तव्यं । परत्वातिडागमः । अन्तरङ्गाः ताम्तम्तामः । इदं तर्हि क्रियास्तां , क्रियास्तं , क्रियास्त । यासुटि कृते सयासुट्कस्य ताम्तम्तामादेशाः प्राप्नुवन्ति । निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति । (कात्यायन वार्तिक)ल्यब्भावे च(वार्तिकान्त) । ल्यब्भावे च प्रयोजनं । प्रकृत्य प्रहृत्य । क्त्वान्तस्य ल्यप्प्राप्नोति । निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति । (कात्यायन वार्तिक)त्रिचतुर्युष्मदस्मत्त्यदादिविकारेषु च(वार्तिकान्त) । त्रिचतुर्युष्मदस्मत्त्यदादिविकारेषु च प्रयोजनं । अतितिस्रः , अतिचतस्रः । त्रिचतुरन्तस्य तिसृचतसृभावः प्राप्नोति । निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति । युष्मत्, अस्मत। अतियूयं अतिवयं । युष्मदस्मदन्तस्य यूयवयौ प्राप्नुतः । निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति । त्यदादिविकार । अतिस्यः , उत्तमस्यः , अत्यसौ , उत्तमासौ । त्यदाद्यन्तस्य त्यदादिविकाराः प्राप्नुवन्ति । किमन्तस्य कादेशः प्राप्नोति । अतिकः , परमकः । निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति । (कात्यायन वार्तिक)उदः पूर्वत्वे(वार्तिकान्त) । उदः पूर्वत्वे प्रयोजनं । उदस्थातां । अटि कृते साट्कस्य पूर्वसवर्णः प्राप्नोति उदः स्थास्तम्भोः इति । निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति । यः तर्हि निर्दिश्यते तस्य कस्मात्न भवति । अटा व्यवहितत्वात। सा तर्हि परिभाषा कर्तव्या । न कर्तव्या । उक्तं षष्ठी स्थानेयोगा इति एतस्य योगस्य वचने प्रयोजनं षष्ठ्यन्तं स्थानेन यथा युज्येत यतः षष्ठी उच्चारिता इति ।
(पाणिनीयसूत्र ६,४।१३२) कि.।२२२१९-२२३।७ रो. ईV।७७७-७७८ ऊटादिः कास्मात्न भवति । आदिः टित्भवति इति आदिः प्राप्नोति । सम्प्रसारणं इति अनेन यणः स्थानं ह्रियते । यदि एवं (कात्यायन वार्तिक)वाहः ऊड्वचनानर्थक्यं सम्प्रसारणेन कृतत्वात्(वार्तिकान्त) । वाहः ऊड्वचनं अनर्थकं । किं कारणं । सम्प्रसारणेन कृतत्वात। सम्प्रसारणेन एव सिद्धं । का रूपसिद्धिः । प्रष्ठौहः पश्य । (कात्यायन वार्तिक)गुणः प्रत्ययलक्षणत्वात्(वार्तिकान्त) । प्रत्ययलक्षणेन गुणः भविष्यति । (कात्यायन वार्तिक)एज्ग्रहणात्वृद्धिः(वार्तिकान्त) । एज्ग्रहणात्वृद्धिः भविष्यति । एवं तर्हि सिद्धे सति यत्वाहः ऊठं शास्ति शास्ति तत्ज्ञापयति आचार्यः भवति एषा परिभाषा असिद्धं बहिरङ्गलक्षणं अन्तरङ्गलक्षणे इति । किं एतस्य ज्ञापने प्रयोजनं । पचाव इदं , पचाम इदं । असिद्धत्वात्बहिरङ्गलक्षणस्य आत्गुणस्य अन्तरङ्गलक्षणं ऐत्त्वं न भवति इति ।
(पाणिनीयसूत्र ६,४।१३३) कि.।२२३।९-२० रो. ईV।७७८-७७९ (कात्यायन वार्तिक)श्वादीनां प्रसारणे नकारान्तग्रहणं अनकारान्तप्रतिषेधार्थम्(वार्तिकान्त) । श्वादीनां प्रसारणे नकारान्तग्रहणं कर्तव्यं । किं प्रयोजनं । अनकारान्तप्रतिषेधार्थं । अनकारान्तस्य मा भूत। मभवा मघवते । तथा प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणं भवति इति यथा इह भवति , यूनः पश्ये इति एवं युवतीः ल्पश्य इति अत्र अपि स्यातिति । यत्तावतुच्यते नकारान्तग्रहणं कर्तव्यं । न कर्तव्यं । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । अर्वणस्तृ मघोनः च न शिष्यं छान्दसं हि ततिति । यतपि उच्यते प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणं भवति इति यथा इह भवति , यूनः पश्ये इति एवं युवतीः ल्पश्य इति अत्र अपि स्यातिति लिङ्गविशिष्टग्रहणे च उक्तं । किं उक्तं । न वा विभक्तौ लिङ्गविशिष्टाग्रहणातिति । अथ वा उपरिष्टात्योगविभागः करिष्यते । श्वयुवमघोनां अतद्धिते । ततः अल्लोपः । अकारस्य च लोपः भवति । ततः अनः । अनः इति उभयोः शेषः ।
(पाणिनीयसूत्र ६,४।१३५) कि.।२२३।२२-२२४।१२ रो. ईV।७८०-७८१ अथ किं इदं षपूर्वादीनां पुनर्वचनं अल्लोपार्थं आहोस्वित्नियमार्थं । कथ च अल्लोपार्थं स्यात्कथं वा नियमार्थं । यदि अविशेषेण अल्लोपटिलोपयोः सः प्रकृतिभावः ततः अल्लोपार्थं । अथ हि अणि टिलोपस्य एव प्रकृतिभावः ततः नियमार्थं । (कात्यायन वार्तिक)षपूर्वादीनां पुनर्वचनं अल्लोपार्थम्(वार्तिकान्त) । षपूर्वादीनां पुनर्वचनं क्रियते अल्लोपार्थं । अविशेषेण अल्लोपटिलोपयोः सः प्रकृतिभावः । (कात्यायन वार्तिक)अवधारणे हि अन्यत्र प्रकृतिभावे उपधालोपप्रसङ्गः (वार्तिकान्त)। अवधारणे हि सति अन्यत्र प्रकृतिभावे उपधालोपः प्रसज्येत । कथं । यदि तावतेवं नियमः स्यात्षपूर्वादीनां एव अणि इति भवेतिह नियमात्न स्यात्सामनः , वैमनः इति । ताक्षण्यः इति प्राप्नोति । अथ अपि एवं नियमः स्यात्षपूर्वादीनां अणि एव इति एवं अपि भवेतिह नियमात्न स्यात्ताक्षण्यः इति , सामनः , वैमनः इति तु प्राप्नोति । अथ अपि उभयतः नियमः स्यात्षपूर्वादीनां एव अणि , अणि एव षपूर्वादीनां इति एवं अपि सामन्यः , वेमन्यः इति प्राप्नोति । तस्मात्सुष्थु उच्यते षपूर्वादीनां पुनर्वचनं अल्लोपार्थं । अवधारणे हि अन्यत्र प्रकृतिभावे उपधालोपप्रसङ्गः इति ।
(पाणिनीयसूत्र ६,४।१४०) कि.।२२४।१४-२१ रो. ईV।७८१ (कात्यायन वार्तिक)आतः अनापः(वार्तिकान्त) । आतः अनापः इति वक्तव्यं । इह अपि यथा स्यातः समासे अनञ्पूर्वे क्त्वः ल्यपिति । अनापः इति किमर्थं । खट्वायां , मालायां । यदि अनापः इति उच्यते कथं क्त्वायां । निपातनातेतत्सिद्धं । किं निपातनं । क्त्वायां व प्रतिषेधः इति । यदि एवं न अर्थः अनापः इति अनेन । कथं समासे अनञ्पूर्वे क्त्वः ल्यपिति । निपातनातेतत्सिद्धं । कथं हलः श्नः शानच्हौ इति । एततपि निपातनात्सिद्धं । अथ वा योगविभागः करिष्यते । आतः : आकारलोपः भवति । ततः धातोः : धातोः च आकारस्य लोपः भवति इति ।
(पाणिनीयसूत्र ६,४।१४१) कि.।२२४।२३-२२५।५ रो. ईV।७८२ (कात्यायन वार्तिक)मन्त्रेषु आत्मनः प्रत्ययमात्रप्रसङ्गः(वार्तिकान्त) । मन्त्रेषु आत्मनः प्रत्ययमात्रे लोपः प्रसङ्क्तव्यः । इह अपि यथा स्यातः त्मन्या समञ्जन। त्मनोः अन्तः अस्थः इति । यदि प्रत्ययमात्रे लोपः उच्यते कथं आत्मनः एव निर्मिमीष्व इति । तस्मात्न अर्थः प्रत्ययमात्रे लोपेन । कथं त्मन्या समञ्जन। त्मनोः अन्तः अस्थः इति । छान्दसत्वात्सिद्धं । छान्दसं एतत। दृष्टानुविधिः छन्दसि भवति । (कात्यायन वार्तिक)आदिग्रहणानर्थक्यं च आकारप्रकरणात्(वार्तिकान्त) । आदिग्रहणं च अनर्थकं । किं कारणं । आकारप्रकरणात। आतः इति वर्तते ।
(पाणिनीयसूत्र ६,४।१४२) कि.।२२५।७-११ रो. ईV।७८२-७८३ तिग्रहणं किमर्थं न विंशतेः डिति लोपः इति एव उच्येत । न एवं शक्यं । विंशतेः डिति लोपः इति उच्यमाने अन्त्यस्य प्रसज्येत । सिद्धः अन्त्यस्य यस्येत लोपेन । तत्र आरम्भसामर्थ्यात्तिशब्दस्य भविष्यति । कुतः नु खलु एततनन्यार्थे आरम्भे तिशब्दस्य भविष्यति न पुनः अङ्गस्य इति । तस्मात्तिग्रहणं कर्तव्यं । अथ क्रियमाणे अपि तिग्रहणे अन्त्यस्य कस्मात्न भवति । निर्दिश्यमानस्य आदेशाः भवन्ति इति एवं न भविष्यति ।
(पाणिनीयसूत्र ६,४।१४३) कि.।२२५।१३-१६ रो. ईV।७८३ अभस्य उपसङ्ख्यानं कर्तव्यं । इह अपि यथा स्यातः उपसरजः , मन्दुरजः इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । कथं उपसरजः , मन्दुरजः इति । (कात्यायन वार्तिक)डिति अभस्य अपि अनुबन्धकरणसामर्थ्यात्(वार्तिकान्त) । अभस्य अपि अनुबन्धकरणसामर्थ्यात्भविष्यति ।
(पाणिनीयसूत्र ६,४।१४४) कि.।२२५।१८-२२६।१८ रो. ईV।७८३-७८५ (कात्यायन वार्तिक)नकारन्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकुथुमितैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरस्द्मसुपर्वणां उपसङ्ख्यानम्(वार्तिकान्त) । नकारन्तस्य टिलोपे सब्रह्मचारिन्पीठसर्पिन्कलापिन्कुथुमिन्तैतिलिन्जाजलिन्लाङ्गलिन्शिलालिन्शिखण्डिन्सूकरस्द्मन्सुपर्वनिति एतेषां उपसङ्ख्यानं कर्तव्यं । सब्रह्मचारिन। साब्रह्मचाराः । सब्रह्मचारिन। पीठसर्पिन। पैठसर्पाः । पीठसर्पिन। कलापिन। कालपाः । कलापिन। कुथुमिन। कौथुमाः । कुथुमिन। तैतिलिन। तैतिलाः । तैतिलिन। जाजलिन। जाजलाः । जाजलिन। लाङ्गलिन। लाङ्गलाः । लाङ्गलिन। शिलालिन। शैलालाः । शिलालिन। शिखण्डिन। शैखण्डाः । शिखण्डिन। सूकरस्द्मन। सौकरसद्माः । सूकरस्द्मन। सुपर्वन। सौपर्वाः । सुपर्वन। (कात्यायन वार्तिक)चर्मणः कोशे(वार्तिकान्त) । चर्मणः कोशे उपसङ्ख्यानं कर्तव्यं । चार्मः कोशः । (कात्यायन वार्तिक)आस्मनः विकारे(वार्तिकान्त) । आस्मनः विकारे उपसङ्ख्यानं कर्तव्यं । अश्मनः विकारः आश्मः । (कात्यायन वार्तिक)शुनः सङ्कोचे(वार्तिकान्त) । शौनः सङ्कोचः । (कात्यायन वार्तिक)अव्ययानां च (वार्तिकान्त)। अव्ययानां च उपसङ्ख्यानं कर्तव्यं । किं प्रयोजनं । (कात्यायन वार्तिक)सायम्प्रतिकाद्यर्थं (वार्तिकान्त)। सायम्प्रातिकः पौनःपुनिकः । शाश्वतिके प्रतिषेधः वक्तव्यः । न वक्तव्यः । निपातनातेतत्सिद्धं । किं निपातनं । येषां च विरोधः शाश्वतिकः इति । एवं तर्हि शाश्वते प्रतिषेधः वक्तव्यः । शाश्वतं ।
(पाणिनीयसूत्र ६,४।१४८।१) कि.।२२६।२०-२५ रो. ईV।७८५-७८६ इवर्णान्तस्य इति किं उदाहरणं । हे दाक्षि दाक्ष्या दाक्®यः । हे दाक्षि इति । यदि लोपः न स्यात्परस्य ह्रस्वत्वे कृते सवर्णदीर्घत्वं प्रस्ज्येत । दाक्ष्या इति । यदि लोपः न स्यात्परस्य यणादेशे कृते पूर्वस्य श्रवणं प्रसज्येत । दाक्षेयः इति । यदि लोपः न स्यात्परस्य लोपे कृते पूर्वस्य श्रवणं प्रसज्येत । न एतानि सन्ति प्रयोजनानि । सवर्णदीर्घत्वेन अपि एतानि सिद्धानि । इदं तर्हि । अतिसखेः आगच्छति । अतिसखेः स्वं । यदि लोपः न स्यातुपसर्जनह्रस्वत्वे कृते असखि इति प्रतिषेधः प्रसज्येत ।
(पाणिनीयसूत्र ६,४।१४८।२) कि.।२२७।१-१९ रो. ईV।७८७-७८८ (कात्यायन वार्तिक)यस्य ईत्यादौ श्यां प्रतिषेधः(वार्तिकान्त) । यस्य ईत्यादौ श्यां प्रतिषेधः वक्तव्यः । काण्डे कुड्ये । सौर्ये नाम हिमवतः शृङ्गे । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । इह श्यां इति अपि प्रकृतं न इति अपि । तत्र अभिसम्बन्धमात्रं कर्तव्यं : यस्य ईत्यादौ लोपः भवति श्यां न । (कात्यायन वार्तिक)इयङुवङ्भ्यां लोपः विप्रतिषेधेन(वार्तिकान्त) । इयङुवङ्भ्यां लोपः भवति विप्रतिषेधेन । इयङुवङोः अवकाशः श्रियौ श्रियः , भ्रुवौ भ्रुवः । लोपस्य अवकाशः कामण्डलेयः , माद्रबाहेयः । इह उभयं प्राप्नोति : वत्सप्रेयः , लैखाभ्रेयः । लोपः भवति विप्रतिषेधेन । (कात्यायन वार्तिक)गुणवृद्धी च (वार्तिकान्त)। गुणवृद्धी च इयङुवङ्भ्यां भवतः विप्रतिषेधेन । गुणवृद्ध्योः अवकाशः : चेता गौः । इयङुवङोः सः एव । इह उभयं प्राप्नोति : चयनं , चायकः , लवनं , लावकः । गुणवृद्धी भवतः विप्रतिषेधेन । (कात्यायन वार्तिक)न वा इयङुवङादेशस्य अन्यविषये वचनात्(वार्तिकान्त) । न वा अर्थः विप्रतिषेधेन । किं कारणं । इयङुवङादेशस्य अन्यविषये वचनात। इयङुवङादेशः अन्यविषये आरभ्यते । किंविषये । यणादिविषये । सः यथा यणादेशं बाधते एवं गुणवृद्धी बाधेत । (कात्यायन वार्तिक)तस्मात्तत्र गुणवृद्धिविषये प्रतिषेधः(वार्तिकान्त) । तस्मात्तत्र गुणवृद्धिविषये प्रतिषेधः वक्तव्यः । न वक्तव्यः । मध्ये अपवादाः पूर्वान्विधीन्बाधन्ते इति एवं इयङुवङादेशः यणादेशं बाधिष्यते गुणवृद्धी न बाधिष्यते ।
(पाणिनीयसूत्र ६,४।१४९।१) कि.।२२७।२१-२२८।१२ रो. ईV।७८८-७८९ (कात्यायन वार्तिक)सूर्यादीनां अणन्ते अप्रसिद्धिः अङ्गान्यत्वात्(वार्तिकान्त) । सूर्यादीनां अणन्ते अप्रसिद्धिः । सौरी बलाका । किं कारणं । अङ्गान्यत्वात। अणन्तं एततङ्गं अन्यत्भवति । लोपे कृते न अङ्गान्यत्वं । स्थानिवद्भावातङ्गान्यत्वं भवति । (कात्यायन वार्तिक)सिद्धं तु स्थानिवत्प्रतिषेधात्(वार्तिकान्त) । सिद्धं एतत। कथं । स्थानिवत्प्रतिषेधात। प्रतिषिध्यते अत्र स्थानिवद्भावः यलोपविधिं प्रति न स्थानिवत्भवति इति । एवं अपि न सिध्यति । किं कारणं । शब्दान्यत्वात। अन्यः हि शूर्यशब्दः अन्यः सौर्यशब्दः । न एषः दोषः । एकदेशविकृतं अनन्यवत्भवति इति भविष्यति । (कात्यायन वार्तिक)उपधाग्रहणानर्थक्यं च(वार्तिकान्त) । स्थानिवद्भावे च इदानीं प्रतिषिद्धे उपधाग्रहणं अनर्थकं । किं कारणं । अन्त्यः एव हि सूर्यादीनां यकारः । किं यातं एतत्भवति । सुष्ठु च यातं साधु च यातं यदि प्राक्भातसिद्धत्वं । अथ हि सह तेन असिद्धत्वं असिद्धत्वात्लोपस्य न अन्त्यः यकारः भवति । यदि अपि सह तेन असिद्धत्वं एवं अपि न दोषः । न एवं विज्ञायते सूर्यादीनां अङ्गानां यकारलोपः इति । कथं तर्हि । अङ्गस्य यलोपः भवति सः चेत्सूर्यादीनां यकारः इति । एवं अपि सूर्यचरी , अत्र प्राप्नोति । तस्मातुपधाग्रहणं कर्तव्यं ।
(पाणिनीयसूत्र ६,४।१४९।२) कि.।२२८।१३-२२९।५ रो. ईV।७८९-७९१ (कात्यायन वार्तिक)विषयपरिगणनं च(वार्तिकान्त) । विषयपरिगणनं च कर्तव्यं । (कात्यायन वार्तिक)सूर्यमत्स्ययोः ङ्याम्(वार्तिकान्त) । सूर्यमत्स्ययोः ङ्यां इति वक्तव्यं । सौरी मत्सी । (कात्यायन वार्तिक)सूर्यागस्त्ययोः छे च(वार्तिकान्त) । सूर्यागस्त्ययोः छे च ङ्यां च इति वक्तव्यं । सौरी सौरीयः , आगस्ती , आगस्तीयः । (कात्यायन वार्तिक)तिष्यपुष्ययोः नक्षत्राणि(वार्तिकान्त) । तिष्यपुष्ययोः नक्षत्राणि लोपः वक्तव्यः : तैषं , पौषं । (कात्यायन वार्तिक)अन्तिकस्य तसि कादिलोपः आद्युदात्तत्वं च(वार्तिकान्त) । अन्तिकस्य तसि कादिलोपः वक्तव्यः आद्युदात्तत्वं च वक्तव्यं । अन्तितः न दूरात। (कात्यायन वार्तिक)तमे तादेः च(वार्तिकान्त) । तमे तादेः च कादेः च लोपः वक्तव्यः । अग्ने त्वं नः अन्तमः । अन्तितमः अवरोहति । (कात्यायन वार्तिक)तसि इति एषः न वक्तव्यः(वार्तिकान्त) । (कात्यायन वार्तिक)दृष्टः दाशतये अपि हि घौ लोपः अन्तिषतिति यत्र (वार्तिकान्त)। अन्तिषत। (कात्यायन वार्तिक)तथा अघौ ये अन्त्यथर्वसु(वार्तिकान्त) । अन्ति ये च दूरके ।
(पाणिनीयसूत्र ६,४।१५३) कि.।२२९।७-१४ रो. ईV।७९१-७९३ छग्रहणं शक्यं अकर्तुं । इह कस्मात्न भवति बिल्वकेभ्यः । भस्य इति वर्तते । एवं अपि बिल्वकाय , अत्र प्राप्नोति । तद्धितस्य इति वर्तते । एवं अपि बिल्वकस्य विकारः अवयवः वा बैल्वकः , अत्र प्राप्नोति । तद्धिते तद्धितस्य इति वर्तते । एवं अपि बिल्वकीयायां भवः बैल्वकः , बैल्वकस्य किं चित्बैल्वकीयं , अत्र प्राप्नोति । न सः बिल्वकात। बिल्वकादिभ्यः यः विहितः इति उच्यते न च असौ बिल्वकशब्दात्विहितः । किं तर्हि बिल्वकीयशब्दात। एवं तर्हि सिद्धे सति यत्छग्रहणं करोति तत्ज्ञापयति आचार्यः भवति एषा परिभाषा : सन्नियोगशिष्टानां अन्यतराभावे उभयोः अभावः इति । तस्मात्छग्रहणं कर्तव्यं छस्य एव लुक्यथा स्यात्कुकः मा भूतिति ।
(पाणिनीयसूत्र ६,४।१५४) कि.।२२९।१६-२३ रो. ईV।७९३ तुः सर्वस्य लोपः वक्तव्यः अन्त्यस्य लोपः मा भूतिति । सः तर्हि वक्तव्यः । न वक्तव्यः ।(कात्यायन वार्तिक) तुः सर्वलोपविज्ञानं अन्त्यस्य वचनानर्थक्यात्(वार्तिकान्त) । तुः सर्वलोपः विज्ञायते । कुतः । अन्त्यस्य वचनानर्थक्यात। अन्त्यस्य लोपवचने प्रयोजनं न अस्ति इति कृत्वा सर्वस्य भविष्यति । अथ वा लुक्प्रकृतः । सः अनुवर्तिष्यते । अशक्यः लुकनुवर्तयितुं । किं कारणं । विजयिष्ठकरिष्थयोः गुणदर्शनात। विजयिष्ठकरिष्थयोः गुणः दृश्यते । विजयिष्ठः । आसुतिं करिष्ठः ।
(पाणिनीयसूत्र ६,४।१५५) कि.।२३०।२-१० रो. ईV।७९४-७९५ (कात्यायन वार्तिक)णौ इष्ठवत्प्रातिपदिकस्य(वार्तिकान्त) । णौ प्रातिपदिकस्य इष्ठवद्भावः वक्तव्यः । किं प्रयोजनं । (कात्यायन वार्तिक)पुंवद्भावरभावटिलोपयणादिपरार्थम्(वार्तिकान्त) । पुंवद्भावार्थं । एनीं आचष्टे , एतयति । श्येतयति । रभावार्थं । पृथुं आचष्टे , प्रथयति । म्रदयति । टिलोपार्थं । पटुं आचष्टे पटयति । यणादिपरार्थं । स्थूलं आचष्टे स्थवयति । दवयति । किं पुनः इदं परिगणनं आहोस्वितुदाहरणमात्रं । उदाहरणमात्रं इति आह । प्रादयः अपि हि इष्यन्ते : प्रियं आचष्टे प्रापयति । भारद्वाजीयाः पठन्ति : णौ इष्ठवत्प्रातिपदिकस्य पुंवद्भावरभावटिलोपयणादिपरप्रादिविन्मतोर्लुक्कन्विध्यर्थं इति ।
(पाणिनीयसूत्र ६,४।१५९) कि.।२३०।१२-१३ रो. ईV।७९५ किं अयं यिशब्दः आहोस्वित्यकारः । किं च अतः । यदि लोपः अपि अनुवर्तते ततओ यिशब्दः । अथ निवृत्तं ततः यकारः ।
(पाणिनीयसूत्र ६,४।१६०) कि.।२३०।१५-२२ रो. ईV।७९५-७९६ किमर्थं ज्यात्परस्य ईयसः आत्त्वं उच्यते न लोपः प्रकृतः सः अनुवर्तेत । का रूपसिद्धिः : ज्यायान। अकृत्यकारे इति दीर्घत्वं भविष्यति । एवं तर्हि सिद्धे सति यत्ज्यात्परस्य ईयसः आत्त्वं शास्ति तत्ज्ञापयति आचार्यः भवति एषा परिभाषा अङ्गवृत्ते पुनर्वृत्तौ अविधिः इति । किं एतस्य ज्ञापने प्रयोजनं । पिबतेः गुणप्रतिषेधः चोदितः । सः न वक्तव्यः भवति । अथ किमर्थं ज्यात्परस्य ईयसः दीर्घः उच्यते न अकारः एव उच्येत । का रूपसिद्धिः : ज्यायान। आन्तर्यतः दीर्घस्य दीर्घः भविष्यति । एवं तर्हि सिद्धे सति यत्दीर्घं करोति तत्ज्ञापयति आचार्यः भवति एषा : परिभाषा भाव्यमानेन सवर्णानां ग्रहणं न इति ।
(पाणिनीयसूत्र ६,४।१६१) कि.।२३१।२-२३ रो. ईV।७९६-७९९ कथं इदं विज्ञायते : हलादेः अङ्गस्य इति आहोस्वित्हलादेः ऋकारस्य इति । युक्तं पुनः इदं विचारयितुं । ननु अनेन असन्दिग्धेन अङ्गविशेषणेन भवितव्यं । कथं हि ऋकारस्य नाम हलादिः स्यातन्यस्य अन्यः । अयं आदिशब्दः अस्ति एव अवयववाची । तत्यथा ऋगादिः , अर्धर्चादिः , श्लोकादिः इति । अस्ति सामीप्ये वर्तते । तत्यथा । दधिभोजनं अर्थसिद्धेः आदिः । दधिभोजनसमीपे । घृतभोजनं आरोग्यस्य आदिः । घृतभोजनसमीपे । यावता सामीप्ये अपि वर्तते जायते विचारणा : हल्समीपस्य ऋकारस्य हलादेः अङ्गस्य इति । किं च अतः । यदि विज्ञायते हलादेः अङ्गस्य इति अप्रथीयान्, अत्र न प्राप्नोति । अथ विज्ञायते हलादेः ऋकारस्य इति अनृचीयान्, अत्र अपि प्राप्नोति । उभयथा स्वृचीयानिति अत्र प्राप्नोति । अस्तु तावत्हलादेः अङ्गस्य इति । कथं अप्रथीयान। तद्धितान्तेन समासः भविष्यति । न प्रथीयानप्रथीयानिति । भवेत्सिद्धं यदा तद्धितान्तेन समासः । यदा तु खलु समासात्तद्धितोत्पत्तिः तदा न सिध्यति । न एव समासात्तद्धितोत्पत्त्या भवितव्यं । किं कारणं । बहुव्रीहिणा उक्तत्वात्मत्वर्थस्य । भवेत्यदा बहुव्रीहिः तदा न स्यात। यदा तु खलु तत्पुरुषः तदा प्राप्नोति । न पृथुः अपृथुः । अयं अपि अपृथुः । अयं अपि अपृथुः । अयं अनयोः अप्रथीयानिति । न समासातजादिभ्यां भवितव्यं । किं कारणं । गुणवचनातिति उच्यते न च समासः गुणवचनः इति । यदा तर्हि समासात्विन्मतुपौ विन्मतुबन्तातजादी तदा प्राप्नुतः । अविद्यमानाः पृथवः अपृथवः । अपृथवः अस्य सन्ति अपृथुमान। अयं अपृथुमान। अयं अपृथुमान। अयं अनयोः अप्रथीयानिति । न एषः दोषः । अपृथवः एव न सन्ति कुतः यस्य अपृथवः इति । इह कस्मात्न भवति : मातयति , भ्रातयति । लोपः अत्र बाधकः भविष्यति । इदं इह सम्प्रधार्यं । टिलोपः क्रियतां रभावः इति किं अत्र कर्तव्यं । परत्वात्रभावः । यदि पुनः अवशिष्टस्य रभावः उच्येत । न एवं शक्यं । इह अपि प्रसज्येत : कृतं आचष्टे , कृतयति इति । एवं तर्हि परिगणनं कर्तव्यं । पृथुमृदुकृशभृशदृढपरिवृढानां इति वक्तव्यं ।
(पाणिनीयसूत्र ६,४।१६३) कि.।२३१।२५-२३३।५ रो. ईV।७९९-८०४ प्रकृत्या एकाचिति किं इष्ठेय्मेयस्सु आहोस्वितविशेषेण । किं च अतः । यदि अविशेषेण स्वी खी शौवं अधुना इति अत्र अपि प्राप्नोति । स्विखिनौ एव न स्तः । कथं । उक्तं एतत। एकाक्षरात्कृतः जातेः सप्तम्यां च न तौ स्मृतौ । स्ववान्खवानिति एव भवितव्यं । शौवं इति परत्वातैजागमे कृते टिलोपेन भवितव्यं । अधुना इति सप्रकृतिकस्य सप्रत्ययकस्य स्थाने निपातनं क्रियते । इह तर्हि प्राप्नोति : द्रव्यं । यस्य ईति आदौ प्रकृतिभावः । यस्य ईति यस्य लोपप्राप्तिः तस्य प्रकृतिभावः न च एतानि यस्य ईति आदौ । एवं अपि श्रिये हितः श्रीयः , ज्ञा देवता अस्य स्थालीपाकस्य ज्ञः स्थालीयापाकः इति अत्र प्राप्नोति । तस्मातिष्ठेय्मेयस्सु प्रकृतिभावः । अथ इष्ठेय्मेयस्सु प्रकृतिभावे किं उदाहरणं । प्रेयान्प्रेष्थः । न एततस्ति । प्रादीनां असिद्धत्वात्न भविष्यति । इदं तर्हि श्रेयान्, श्रेष्ठः । (कात्यायन वार्तिक)प्रकृत्या एकाचिष्ठेय्मेयस्सु चेतेकाचः उच्चारणसामर्थ्यातवचनात्प्रकृतिभावः(वार्तिकान्त) । प्रकृत्या एकाचिष्ठेय्मेयस्सु चेत्तत्न । किं कारणं । एकाचः उच्चारणसामर्थ्यातन्तरेण अपि वचनं प्रकृतिभावः भविष्यति । (कात्यायन वार्तिक)विन्मतोः तु लुगर्थम्(वार्तिकान्त) । विन्मतोः तु लुगर्थं प्रकृतिभावः वक्तव्यः । स्रग्वितरः , स्रजीयान्, स्रग्वितमः , स्रजिष्ठः । स्रुग्वत्तरः , स्रुचीयान्, स्रुग्वत्तमः , स्रुचिष्ठः । ननु च विन्मतोः लुक्टिलोपं बाधिष्यते । कथं अन्यस्य उच्यमानस्य अन्यस्य बाधकं स्यात। असति खलु अपि सम्भवे बाधनं भवति । अस्ति च सम्भवः यतुभयं स्यात। यथा एव खलु अपि विन्मतोः लुक्टिलोपं बाधते एव नः तद्धिते इति एतं अपि बाधेत । यतरः नः ब्रह्मीयान। ब्रह्मवत्तरः इति । यत्तावतुच्यते कथं अन्यस्य उच्यमानस्य अन्यस्य बाधकं स्यातिति । इदं तावतयं प्रष्टव्यः । यदि तर्हि विन्मतोः लुक्न उच्येत किं इह स्यातिति । टिलोपः इति आह । टिलोपः चेत्न अप्राप्ते टिलोपे विन्मतोः लुकारभ्यते । सः बाधकः भविष्यति । यतपि उच्यते असति खलु अपि सम्भवे बाधनं भवति । अस्ति च सम्भवः यतुभयं स्यातिति । सति अपि सम्भवे बाधनं भवति । तत्यथा । दधि ब्राह्मणेभ्यः दीयतां तक्रं कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानं निवर्तकं भवति । एवं इह अपि सति अपि सम्भवे विन्मतोः लुक्टिलोपं बाधिष्यते । यतपि उच्यते यथा एव खलु अपि विन्मतोः लुक्टिलोपं बाधते एव नः तद्धिते इति एतं अपि बाधेत इति । न बाधते । किं कारणं । येन न अप्राप्ते तस्य बाधनं । न अप्राप्ते टिलोपे विन्मतोः लुकारभ्यते । नः तद्धिते इति एतस्मिन्पुनः प्राप्ते च अप्राप्ते च । अथ वा पुरस्तातपवादाः अनन्तरान्विधीन्बाधन्ते इति एवं विन्मतोः लुक्टिलोपं बाधिष्यते । नः तद्धिते इति एतं न बाधिष्यते । यदि तर्हि विन्मतोः लुक्टिलोपं बाधते पयिष्थः इति न सिध्यति । पयसिष्थः इति प्राप्नोति । यथालक्षणं अप्रयुक्ते । (कात्यायन वार्तिक)प्रकृत्या अके राजन्यमनुष्ययुवानः(वार्तिकान्त) । राजन्यमनुष्ययुवानः अके प्रकृत्या भवन्ति इति वक्तव्यं । राजन्यकं , मानुष्यकं , यौवनिका ।
(पाणिनीयसूत्र ६,४।१७०) कि.।२३३।१०-१२ रो. ईV।८०४ (कात्यायन वार्तिक)मपूर्वात्प्रतिषेधे वा हितनाम्नः(वार्तिकान्त) । मपूर्वात्प्रतिषेधे वा हितनाम्नः इति वक्तव्यं । समानः हैतनामः , समानः हैतनामनः इति च ।
(पाणिनीयसूत्र ६,४।१७१) कि.।२३३।१४-२३४।३ रो. ईV।८०५ अथ किं इदं ब्राह्मस्य अजातौ अनः लोपार्थं वचनं आहोस्वित्नियमार्थं । कथ च लोपाथं स्यात्कथं व नियमार्थं । यदि तावतपत्ये इति वर्तते ततः नियमार्थं । अथ निवृत्तं ततः लोपार्थं । अतः उत्तरं पठति (कात्यायन वार्तिक)ब्राह्मस्य अजातौ लोपार्थं वचनम्(वार्तिकान्त) । ब्राह्मस्य अजातौ लोपार्थं वचनं क्रियते । अपत्ये इति निवृत्तं । (कात्यायन वार्तिक)तत्र अप्राप्तविधाने प्राप्तप्रतिषेधः(वार्तिकान्त) । तत्र अप्राप्तस्य टिलोपस्य विधाने प्राप्तस्य प्रतिषेधः वक्तव्यः । ब्राह्मणः । (कात्यायन वार्तिक)न वा पर्युदाससामर्थ्यात्(वार्तिकान्त) । न वा वक्तव्यः । किं कारणं । पर्युदाससामर्थ्यात्पर्युदासः अत्र भविष्यति । अस्ति अन्यत्पर्युदासे प्रयोजनं । किं । या जातिः एव न अपत्यं । ब्राह्मी ओषधिः इति । न वै अत्र इष्यते । अनिष्टं च प्राप्नोति इष्टं च न सिध्यति । एवं तर्हि अनुवर्तते अपत्ये इति न तु अपत्ये इति अनेन निपातनं अभिसम्बध्यते : ब्राह्मः इति निपात्यते अपत्ये अजातौ इति । किं तर्हि । प्रतिषेधः अभिसम्बध्यते : ब्राह्मः इति निपात्यते । अपत्ये जातौ न इति ।
(पाणिनीयसूत्र ६,४।१७२) कि.।२३४।५-८ रो. ईV।८०६ किमर्थं इदं उच्यते न नः तद्धिते इति एव सिद्धं । न सिध्यति । अनणि इति प्रकृतिभावः प्रसज्येत । अणि इति उच्यते णः च अयं । एवं तर्हि सिद्धे सति यत्निपातनं करोति तत्ज्ञापयति आचार्यः ताच्छीलिके णे अण्कृतानि भवन्ति । किं एतस्य ज्ञापने प्रयोजनं । चौरी तापसी इति अणन्तातिति ईकारः सिद्धः भवति ।
(पाणिनीयसूत्र ६,४।१७४) कि.।२३४।११-२३५।१६ रो. ईV।८०७-८०९ अत्र भ्रौणहत्ये किं निपात्यते । यकारादौ तद्धिते तत्वं निपात्यते । (कात्यायन वार्तिक)भ्रौणहत्ये तत्वनिपातनानर्थक्यं सामान्येन कृतत्वात्(वार्तिकान्त) । भ्रौणहत्ये तत्वनिपातनं अनर्थकं । किं कारणं । सामान्येन कृतत्वात। सामान्येन एव अत्र तत्वं भविष्यति । हनः तः अचिण्णमुलोः इति । (कात्यायन वार्तिक)ज्ञापकं तु तद्धिते तत्वप्रतिषेधस्य(वार्तिकान्त) । एवं तर्हि ज्ञापयति आचार्यः न तद्धिते तत्वं भवति इति । किं एतस्य ज्ञापने प्रयोजनं । भ्रौणघ्नः , वार्त्रघ्नः इति अत्र तत्वं न भवति । (कात्यायन वार्तिक)ऐक्ष्वाकस्य स्वरभेदात्निपातनं पृथक्त्वेन(वार्तिकान्त) । ऐक्ष्वाकस्य स्वरभेदात्निपातनं पृथक्त्वेन कर्तव्यं । ऐक्ष्वाकः , ऐक्ष्वाकः । (कात्यायन वार्तिक)एकश्रुत्या निर्देशात्सिद्धम्(वार्तिकान्त) ।एकश्रुतिः स्वरसर्वनाम यथा नपुंसकं लिङ्गसर्वनाम । अथ मैत्रेये किं निपात्यते । (कात्यायन वार्तिक)मैत्रेये ढञि यादिलोपनिपातनम्(वार्तिकान्त) । मैत्रेये ढञि यादिलोपः निपात्यते । इदं मित्रयुशब्दस्य चतुः ग्रहणं क्रियते । गृष्ट्यादिषु प्रत्ययविध्यर्थं पाठः क्रियते । द्वितीये अध्याये यस्कादिषु लुगर्थं ग्रहणं क्रियते । सप्तमे अध्याये इयादेशार्थं । इदं चतुर्थं यादिलोपार्थं । द्विर्ग्रहणं शक्यं अकर्तुं । बिदादिषु प्रत्ययविध्यर्थं पाठः कर्तव्यः । तत्र न एव अर्थः लुका न अपि यादिलोपेन । इयादेशेन एव सिद्धं । न एवं शक्यं । इह हि मैत्रेयकः सङ्घः इति सङ्घातलक्षणेषु अञ्यञिञां अणिति अण्प्रसज्येत । हिरण्मये किं निपात्यते । (कात्यायन वार्तिक)हिरण्मये यलोपवचनम्(वार्तिकान्त) । हिरण्मये यलोपः निपात्यते । अथ हिरण्यये किं निपात्यते । (कात्यायन वार्तिक)हिरण्ययस्य छन्दसि मलोपवचनात्सिद्धम्(वार्तिकान्त) । हिरण्ययस्य छन्दसि मलोपः निपात्यते । हिरण्ययी नः नयतु । हिरण्ययाः पन्थानः आसन। हिरण्ययं आसनं ।
.
अध्याय ७
(पाणिनीयसूत्र ७,१।१।१) कि.,२३६।१-१६ रो. V,१-३ युवोः अनाकौ इति उच्यते कयोः युवोः अनाकौ भवतः । प्रत्यययोः । कथं पुनः अङ्गस्य इति अनुवर्तमाने प्रत्यययोः स्यातां । युशब्दवुशब्दान्तं एतत्विभक्तौ अङ्गं भवति । यदि युशब्दवुशब्दान्तस्य अङ्गस्य अनाकौ भवतः सर्वादेशौ प्राप्नुतः । निर्दिश्यमानस्य आदेशाः भवन्ति इति एवं न भविष्यतः । यत्र तर्हि विभक्तिः न अस्ति । नन्दना कारिका इति । अत्र अपि प्रत्ययलक्षणेन विभक्तिः । यत्र तर्हि प्रत्ययलक्षणं न अस्ति । नन्दनप्रियः कारकप्रियः इति । मा भूतां या असौ सामासिकी विभक्तिः तस्यां या असौ समासात्विभक्तिः तस्यां भविष्यतः । न वै तस्यां युशब्दवुशब्दान्तं अङ्गं भवति । भवेत्यः युशब्दवुशब्दाभ्यां अङ्गं विशेषयेत्तस्य आनन्त्ययोः न स्यातां । वयं खलु अङ्गेन युशब्दवुशब्दौ विशेषयिष्यामः । अङ्गस्य युवोः अनाकौ भवतः यत्रतत्रस्थयोः इति । यत्र तर्हि समासात्विभक्तिः न अस्ति । नन्दनदधि कारकदधि । एवं तर्हि न च अपरं निमित्तं सञ्ज्ञा च प्रत्ययलक्षणेन । न च इह परं निमित्तं आश्रीयते : अस्मिन्परतः युवोः अनाकौ भवतः इति । किं तर्हि अङ्गस्य युवोः अनाकौ भवतः इति । अङ्गसञ्ज्ञा च भवति प्रत्ययलक्षणेन । अथ वा तयोः एव यतङ्गं तन्निमित्तत्वेन आश्रयिष्यामः । कथं । अङ्गस्य इति सम्बन्धसामान्ये षष्ठी विज्ञास्यते । अङ्गस्य यौ युवू । किं च अङ्गस्य युवू । निमित्तं । ययोः युवोः अङ्गं इति एतत्भवति । कयोः च एतत्भवति । प्रत्यययोः ।
(पाणिनीयसूत्र ७,१।१।२) कि.,२३६।१७-२३८।१३ रो. V,३-७ (कात्यायन वार्तिक)युवोः अनाकौ इति चेत्धातुप्रतिषेधः(वार्तिकान्त) । युवोः अनाकौ इति चेत्धातुप्रतिषेधः वक्तव्यः । युत्वा युतः युतवान्युतिः । (कात्यायन वार्तिक)भुज्य्वादीनां च (वार्तिकान्त)। भुज्य्वादीनां च प्रतिषेधः वक्तव्यः । भुज्युः कंयुः शंयुः इति ।(कात्यायन वार्तिक) अनुनासिकपरत्वात्सिद्धं (वार्तिकान्त)। अनुनासिकपरयोः युवोः ग्रहणं न च एतौ अनुनासिकपरौ । यदि अनुनासिकपरयोः ग्रहणं नन्दनः कारकः अत्र न प्राप्नुतः न हि एताभ्यां युशब्दवुशब्दाभ्यां अनुनासिकं परं पश्यामः । अनुनासिकपरत्वातिति न एवं विज्ञायते अनुनासिकः परः आभ्यां तौ इमौ अनुनासिकपरौ अनुनासिकपरत्वातिति । कथं तर्हि । अनुनासिकः परः अनयोः तौ इमौ अनुनासिकपरौ अनुनासिकपरत्वातिति । यदि अनुनासिकपरयोः ग्रहणं इत्सञ्ज्ञा प्राप्नोति । तत्र कः दोषः । (कात्यायन वार्तिक)तत्र ङीब्नुमोः प्रतिषेधः (वार्तिकान्त)। ङीब्नुमः प्रतिषेधः वक्तव्यः । नन्दनः कारकः । नन्दना कारिका । उगिल्लक्षणौ ङीब्नुमौ प्राप्नुतः ।(कात्यायन वार्तिक) धात्वन्तस्य च (वार्तिकान्त)। धात्वन्तस्य च प्रतिषेधः वक्तव्यः । दिवु सिवु । (कात्यायन वार्तिक)षिट्टित्करणं तु ज्ञापकं उगित्कार्याभावस्य (वार्तिकान्त)। यतयं युशब्दवुशब्दौ षिट्टितौ करोति शिल्पिनि ष्वुन्ट्युट्युलौ तुट्च इति तत्ज्ञापयति आचार्यः न युवोः उगित्कार्यं भवति इति । कथं कृत्वा ज्ञापकं षिट्टित्करणे एतत्प्रयोजनं षिट्टितः इति इकारः यथा स्यात। यदि च अत्र उगित्कार्यं स्यात्षिट्टित्करणं अनर्थकं स्यात। पश्यति तु आचार्यः न युवोः उगित्कार्यं भवति इति ततः युशब्दवुशब्दौ षिट्टितौ करोति । (कात्यायन वार्तिक)न वा षित्करणं ङीष्विधानार्थं (वार्तिकान्त)। न एततस्ति ज्ञापकं । अस्ति हि अन्यतेतस्य वचने प्रयोजनं । किं । षित्करणं क्रियते ङीष्विधानार्थं । षितः इति ङीष्यथा स्यात। (कात्यायन वार्तिक)टित्करणं अनुपसर्जनार्थं । (वार्तिकान्त)टित्करणे अपि अन्यत्प्रयोजनं अस्ति । किं । अनुपसर्जनात्टितः इति ईकारः यथा स्यात। टितः अनुपसर्जनात्भवति उगितः उपसर्जनात्च अनुपसर्जनात्च । एवं तर्हि(कात्यायन वार्तिक) विप्रतिषेधात्तु टापः बलीयस्त्वं । (वार्तिकान्त)विप्रतिषेधात्तु टापः बलीयस्त्वं भविष्यति । टापः अवकाशः खट्वा माला । ङीपः अवकाशः गोमती यवमती । इह उभयं प्राप्नोति नन्दना कारिका । टाप्भवति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । विप्रतिषेधे परं इति उच्यते पूर्वः च टाप्परः ङीप। ङीपः परः टाप्करिष्यते । सूत्रविपर्यासः कृतः भवति । एवं तर्हि उगितः ङीप्भवति इति अत्र अपि अतः टापिति अनुवर्तिष्यते । एवं अपि अकारान्तातुगितः इह एव स्यात्नन्दना कारिका । गोमती यवमती इति अत्र न स्यात। एवं तर्हि सम्बन्धानुवृत्तिः करिष्यते । अजाद्यतः टापृन्नेभ्यः ङीपतः टाप। उगितः च ङीप्भवति अतः टाप। वनः र च वनः ङीप्भवति उगितः अतः टाप। पादः अन्यतरस्यां ङीप्भवति उगितः अतः टाप। ततः ऋचि । ऋचि च टाप्भवति । प्रकृतं अनुवर्तते । सिध्यति एवं यदि वार्त्तिककारः पठति विप्रतिषेधात्तु टापः बलीयस्त्वं इति एततसङ्गृहीतं भवति । एतत्च सङ्गृहीतं भवति । कथं । इष्टवाची परशब्दः । विप्रतिषेधे परं यतिष्टं तत्भवति इति ।(कात्यायन वार्तिक) धात्वन्तस्य च अर्थवद्ग्रहणात। (वार्तिकान्त)अर्थवतोः युवोः ग्रहणं न च धात्वन्तः अर्थवान।
(पाणिनीयसूत्र ७,१।१।३) कि.,२३८।१४-२३९।२४ रो. V,७-९ (कात्यायन वार्तिक)नुम्विधौ झल्ग्रहणं । (वार्तिकान्त)नुम्विधौ झल्ग्रहणं कर्तव्यं । झलन्तस्य उगितः इष्यते : उगिदचां सर्वनामस्थाने अधातोः झलः इति । तत्च अवश्यं कर्तव्यं ।(कात्यायन वार्तिक) लिङ्गविशिष्टप्रतिषेधार्थं (वार्तिकान्त)। प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणं भवति इति यथा इह भवति गोमान्यवमानेवं गोमती यवमती इति अत्र अपि स्यात।(कात्यायन वार्तिक)न वा विभक्तौ लिङ्गविशिष्टाग्रहणात्(वार्तिकान्त) । न वा वक्तव्यं । किं कारणं । विभक्तौ लिङ्गविशिष्टग्रहणं न इति एषा परिभाषा कर्तव्या । कः पुनः अत्र विशेषः एषा वा परिभाषा क्रियेत झल्ग्रहणं वा इति । अवश्यं एषा परिभाषा कर्तव्या । बहूनि एतस्याः परिभाषायाः प्रयोजनानि । कानि ।(कात्यायन वार्तिक) प्रयोजनं शुनः स्वरे ।(वार्तिकान्त) यथा इह भवति शुना शुनः एवं शुन्या शुन्याः इति अत्र अपि स्यात।(कात्यायन वार्तिक) यूनः सम्प्रसारणे । (वार्तिकान्त)यूनः सम्प्रसारणे प्रयोजनं । यथा इह भवति यूनः पश्य इति एवं युवतीः पश्य इति अत्र अपि स्यात।(कात्यायन वार्तिक) उगिदचां नुम्विधौ ।(वार्तिकान्त) उगिदचां नुम्विधौ प्रयोजनं । यथा इह भवति गोमान्यवमानेवं गोमती यवमती इति अत्र अपि स्यात।(कात्यायन वार्तिक) अनडुहः च आम्विधौ । (वार्तिकान्त)अनडुहः च आम्विधौ प्रयोजनं । यथा इह भवति अनड्वानिति एवं अनडुही इति अत्र अपि स्यात। न वा भवति अनड्वाही इति । भवति अन्येन यत्नेन । आं अनडुहः स्त्रियां वा इति । लिङ्गविशिष्टग्रहणातीकारान्तस्य प्राप्नोति ।(कात्यायन वार्तिक) पथिमथोः आत्त्वे ।(वार्तिकान्त) पथिमथोः आत्त्वे प्रयोजनं । यथा इह भवति पन्थाः मन्थाः एवं पथी मथी इति अत्र अपि प्राप्नोति । न केवलः पथिशब्दः स्त्रियां वर्तते । उपसमस्तः तर्हि वर्तते । सुपथी इति ।(कात्यायन वार्तिक) पुंसः असुङ्विधौ । (वार्तिकान्त)पुंसः असुङ्विधौ प्रयोजनं । यथा इह भवति पुमानेवं पुंसी इति अत्र अपि स्यात। न केवलः पुंशब्दः स्त्रियां वर्तते । उपसमस्तः तर्हि वर्तते । सुपुंसी इति ।(कात्यायन वार्तिक) सख्युः णित्त्वानङौ ।(वार्तिकान्त) सख्युः णित्त्वानङौ प्रयोजनं । यथा इह भवति सखा सखायौ सखायः एवं सखी सख्यौ सख्यः इति अत्र अपि प्राप्नोति ।(कात्यायन वार्तिक) भवद्भगवदघवतां ओद्भावे ।(वार्तिकान्त) भवद्भगवदघवतां ओद्भावे प्रयोजनं । यथा इह भवति भोः भगोः अघोः इति एवं भवति भगवति अघवति इति अत्र अपि स्यात। एतानि अस्याः परिभाषायाः प्रयोजनानि यदर्थं एषा परिभाषा कर्तव्या । एतस्यां च सत्यां न अर्थः झल्ग्रहणेन ।
(पाणिनीयसूत्र ७,१।१।४) कि.,२४०।१-१६ रो. V,९-१० ततेततनन्यार्थं झल्ग्रहणं कर्तव्यं नुम्प्रतिषेधः वा वक्तव्यः । उभयं न वक्तव्यं । उपरिष्टात्झल्ग्रहणं क्रियते तत्पुरस्तातपक्रक्ष्यते । एवं अपि सूत्रविपर्यासः कृतः भवति । एवं तर्हि योगविभागः करिष्यते । उगिदचां सर्वनामस्थाने अधातोः । युजेः असमासे । ततः नपुंसकस्य । नपुंसकस्य नुं भवति । झलः इति उभयोः शेषः । ततः अचः । अजन्तस्य च नपुंसकलिङ्गस्य नुं भवति । यदि अपि तावतेततुगित्कार्यं परिहृतं इदं अपरं प्राप्नोति : शातनितरा पातनितरा । उगितः नद्याः घादिषु ह्रस्वः भवति इति अन्यतरस्यां ह्रस्वत्वं प्रसज्येत नित्यं च इष्यते । उगितः या नदी एवं एतत्विज्ञायते । उगितः एषा नदी । उगितः या परा । अत्र च एव दोषः भवति उगितः हि एषा परा नदी ऐषुमतितरायां च प्राप्नोति । उगितः परा या विहिता । उगितः एषा विहिता । उगितः इति एवं या विहिता । एवं अपि भोगवतितरायां दोषः भवति । भोगवतितरा भोगवतीतरा । तस्मातुगितः या नदी उगितः या विहिता इति एवं एतत्विज्ञास्यते । एवं विज्ञायमाने शातनितरायां दोषः एव ।(कात्यायन वार्तिक) सिद्धं तु युवोः अनुनासिकत्वात्(वार्तिकान्त)सिद्धं एतत। कथं । यकारवकारयोः एव इदं अनुनासिकयोः ग्रहणं । सन्ति हि यणः सानुनासिकाः निरनुनासिकाः च ।
(पाणिनीयसूत्र ७,१।२) कि.,२४०।१७-२४१।२१ रो. V,११।२-१३।२ (कात्यायन वार्तिक)आयनादिषु उपदेशिवद्वचनं स्वरसिद्ध्यर्थं (वार्तिकान्त)। आयनादिषु उपदेशिवद्भावः वक्तव्यः । उपदेशावस्थायां आयनादयः भवन्ति इति वक्तव्यं । किं प्रयोजनं । स्वरसिद्ध्यर्थं । उपदेशावस्थायां आयनादिषु इष्टः स्वरः यथा स्यातिति । शिलेयं तैत्तिरीयः । अक्रियमाणे हि उपदेशिवद्भावे प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे कृते आन्तर्यतः आदेशाः अस्वरकाणां अस्वरकाः स्युः । (कात्यायन वार्तिक)न वा क्व चित्चित्करणातुपदेशिवद्वचनानर्थक्यं (वार्तिकान्त)न वा वक्तव्यं । किं कारणं । क्व चित्चित्करणात। यतयं क्व चित्घादीन्चितः करोति अग्रात्यत्घच्छौ च तत्ज्ञापयति आचार्यः उपदेशावस्थायां आयनादयः भवन्ति इति । कथं कृत्वा ज्ञापकं । चित्करणे एतत्प्रयोजनं चितः इति अन्तोदात्तत्वं यथा स्यातिति । यदि च उपदेशावस्थायां आयनादयः भवन्ति ततः चित्करणं अर्थवत्भवति ।(कात्यायन वार्तिक) तत्र उणादिप्रतिषेधः (वार्तिकान्त)। तत्र उणादीनां प्रतिषेधः वक्तव्यः । शङ्खः शाण्ढः इति ।(कात्यायन वार्तिक) धातोः वा ईयङ्वचनात्(वार्तिकान्त)। अथ वा यतयं ऋतेः ईयङिति धातोः ईयङ्शास्ति तत्ज्ञापयति आचार्यः न धातुप्रत्ययानां आयनादयः भवन्ति इति । यदि हि स्युः ऋतेः छङिति एव ब्रूयात। सिद्धे विधिः आरभ्यमाणः ज्ञापकार्थः भवति न च ऋतेः छङा सिध्यति । छङि सति वलादिलक्षणः इट्प्रसज्येत । इटि कृते अनादित्वातादेशः न स्यात। इदं इह सम्प्रधार्यं । इट्क्रियतां आदेशः इति किं अत्र कर्तव्यं । परत्वातिडागमः । नित्यः आदेशः । कृते अपि इटि प्राप्नोति अकृते अपि । अनित्यः आदेशः न हि कृते इटि प्राप्नोति । किं कारणं । अनादित्वात। अन्तरङ्गः तर्हि आदेशः । का अन्तरङ्गता । इदानीं एव हि उक्तं आयनादिषु उपदेशिवद्वचनं स्वरसिद्ध्यर्थं इति । ततेततृतेः ईयङ्वचनं ज्ञापकं एव न धातुप्रत्ययानां आयनादयः भवन्ति इति ।(कात्यायन वार्तिक) प्रातिपदिकविज्ञानात्च पाणिनेः सिद्धं (वार्तिकान्त)प्रातिपदिकविज्ञानात्च भगवतः पाणिनेः आचार्यस्य सिद्धं । उणादयः अव्युत्पन्नानि प्रातिपदिकानि ।
(पाणिनीयसूत्र ७,१।३) कि.,२४१।२३-२४२।२६ रो. V,१३।४-१५।५ (कात्यायन वार्तिक)झादेशे धात्वन्तप्रतिषेधः(वार्तिकान्त) झादेशे धात्वन्तस्य प्रतिषेधः वक्तव्यः । उज्झिता उज्झितुं इति । प्रत्ययाधिकारात्सिद्धं । प्रत्ययग्रहणं प्रकृतं अनुवर्तते । क्व प्रकृतं । आयनेयीनीयियः फडखछघां प्रत्ययादीनां इति । (कात्यायन वार्तिक)प्रत्ययाधिकारात्सिद्धं इति चेतनादेः आदेशवचनं (वार्तिकान्त)। प्रत्ययाधिकारात्सिद्धं इति चेतनादेः आदेशः वक्तव्यः । अपि नः श्वः विजनिष्यमाणाः पतिभिः सह शयान्तै । एवं तर्हि प्रत्ययग्रहणं अनुवर्तते आदिग्रहणं निवृत्तं । कथं पुनः समासनिर्दिष्टानां एकदेशः अनुवर्तते एकदेशः वा निवर्तते । (कात्यायन वार्तिक)असमासनिर्देशात्सिद्धं (वार्तिकान्त)। असमासनिर्देशः करिष्यते । प्रत्ययस्य आदीनां इति । सः तर्हि असमासनिर्देशः कर्तव्यः । न कर्तव्यः । क्रियते न्यासे एव । कथं । अविभक्तिकः निर्देशः । प्रत्यय आदीनां इति । (कात्यायन वार्तिक)तत्र शयान्तै इति अनकारान्तत्वातङ्गस्य आद्भावप्रतिषेधः (वार्तिकान्त)। तत्र एतस्मिन्प्रत्ययग्रहणे अनुवर्तमाने आदिग्रहणे निवृत्ते शयान्तै इति अनकारान्तत्वातङ्गस्य आद्भावः प्राप्नोति तस्य प्रतिषेधः वक्तव्यः । (कात्यायन वार्तिक)सिद्धं अनानन्तर्यातनकारान्तेन अद्भावनिवृत्तिः (वार्तिकान्त)। सिद्धं एतत। कथं । अनानन्तर्यातनकारान्तेन अद्भावः न भविष्यति । कथं कृत्वा चोदितं कथं कृत्वा परिहारः । अनकारान्तग्रहणं प्रत्ययविशेषणं इति कृत्वा चोदितं झकारविशेषणं इति कृत्वा परिहारः । यदि अनकारान्तग्रहणं झकारविशेषणं शेरते अत्र न प्राप्नोति । (कात्यायन वार्तिक)तत्र रुटि सन्नियोगवचनात्सिद्धं (वार्तिकान्त)। तत्र रुटि सन्नियोगः करिष्यते । कः एषः यत्नः चोद्यते सन्नियोगः नाम । चकारः कर्तव्यः । रुट्च । किं च । यत्च अन्यत्प्राप्नोति । किं च अन्यत्प्राप्नोति । अद्भावः । सः तर्हि चकारः कर्तव्यः । न कर्तव्यः । योगविभागः करिष्यते । शीङः । शीङः उत्तरस्य झस्य अत्भवति । ततः रुट। रुट्च भवति शीङः इति । एवं अपि पर्यायः प्रसज्येत । एवं तर्हि अच्शब्दस्य रुटं वक्ष्यामि । ततच्शब्दग्रहणं कर्तव्यं । न कर्तव्यं । प्रकृतं अनुवर्तते । क्व प्रकृतं । अतभ्यस्तातिति । तत्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन च इह अर्थः । शीङः इति एषा पञ्चमी अतिति प्रथमायाः षष्ठी प्रकल्पयिष्यति तस्मातिति उत्तरस्य इति ।
(पाणिनीयसूत्र ७,१।६) कि.,२४३।२-२४४।२ रो. V,१५।७-१७।६ (कात्यायन वार्तिक)रुटि दृशिगुणप्रतिषेधः(वार्तिकान्त) । रुटि दृशिगुणः प्राप्नोति । अदृश्रनस्य केतवः इति । तस्य प्रतिषेधः वक्तव्यः । परस्मिनिति क्ङिति च इति प्रतिषेधः भविष्यति । एवं अपि अदृश्रं अस्य केतवः इति अत्र प्राप्नोति । एवं तर्हि पूर्वान्तः करिष्यते । (कात्यायन वार्तिक)पूर्वान्ते शीङः गुणविधिः(वार्तिकान्त) पूर्वान्ते शीङः गुणः विधेयः : शेरते । सूत्रं च भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं रुटि दृशिगुणप्रतिषेधः इति । पूर्वान्ते अपि एषः दोषः । कथं । अयं दृशिगुणः प्रतिषेधविषये आरभ्यते सः यथा एव क्ङिति च इति एतं प्रतिषेधं बाधते एवं अनुपधायाः अपि प्रसज्येत । तस्मातुभाभ्यां दृशेः अक्प्रत्ययान्तरं वक्तव्यं पितरं च दृशेयं मातरं च दृशेयं इति एवं अर्थं । (कात्यायन वार्तिक)झादेशाताट्लेटि(वार्तिकान्त) झादेशाताट्लेटि भवति विप्रतिषेधेन । झादेशस्य अवकाशः । लुनते लुनतां अलुनत । आटः अवकाशः । पताति दिद्युत। उदधिं च्यावयाति । इह उभयं प्राप्नोति । अपि नः श्वः विजनिष्यमाणाः पतिभिः सह शयान्तै । आट्लेटि भवति विप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । (कात्यायन वार्तिक)न वा नित्यत्वाताटः(वार्तिकान्त) । न वा वक्तव्यः । किं कारणं । नित्यत्वाताटः । नितः आडागमः । सः कथं नित्यः । यदि अनकारान्तग्रहणं झकारविशेषणं । अथ हि प्रत्ययविशेषणं झादेशः अपि नित्यः । (कात्यायन वार्तिक)अन्तरङ्गलक्षणत्वात्च(वार्तिकान्त) । अन्तरङ्गः खलु अपि आडागमः । कथं अन्तरङ्गः । यदि प्राक्लादेशात्धात्वधिकारः । अथ हि लादेशे धात्वधिकारः अनुवर्तते उभयं समानाश्रयं । यदि एव अनकारान्तग्रहणं प्रत्ययविशेषणं अथ अपि लादेशे धात्वधिकारः अनुवर्तते उभयथा अपि पूर्वविप्रतिषेधेन न अर्थः । कथं । बहुलं छन्दसि इति एवं अत्र शपः लुक्न भविष्यति । तत्र अनतः इति प्रतिषेधः भविष्यति ।
(पाणिनीयसूत्र ७,१।७-१०) कि.,२४४।७-१२ रो. V,१७।११-१७ इदं बहुलं छन्दसि इति द्विः क्रियते । एकं शक्यं अकर्तुं । कथं । यदि तावत्पूर्वं क्रियते परं न करिष्यते । अतः भिसः ऐसिति अत्र बहुलं छन्दसि इति एततनुवर्तिष्यते । अथ परं क्रियते पूर्वं न करिष्यते । बहुलं छन्दसि इति अत्र रुटपि अनुवर्तिष्यते । अपरः आह : उभे बहुलग्रहणे एकं छन्दोग्रहणं शक्यं अकर्तुं । कथं । इदं अस्ति । वेत्तेः विभाषा । ततः छन्दसि । छन्दसि च विभाषा । ततः अतः भिसः ऐस्भवति । छन्दसि विभाषा इति ।
(पाणिनीयसूत्र ७,१।९) कि.,२४४।१४-२१ रो. V,१८।२-९ इह वृक्षैः प्लक्षैः इति परत्वातेत्त्वं प्राप्नोति । ऐस्भावः इदानीं क्व भविष्यति । (कात्यायन वार्तिक)कृते एत्त्वे भौतपूर्व्यात्(वार्तिकान्त) । कृते एत्त्वे भूतपूर्वमकारान्तं इति ऐस्भविष्यति । (कात्यायन वार्तिक)ऐस्तु नित्यः तथा सति(वार्तिकान्त) । एवं सति नित्यः ऐस्भावः कृते अपि एत्त्वे प्राप्नोति अकृते अपि प्राप्नोति । नित्यत्वातैस्त्वे कृते विहतनिमित्तत्वातेत्त्वं न भविष्यति । (कात्यायन वार्तिक)एत्त्वं भिसि परत्वात्चेततः ऐस्क्व भविष्यति । कृते एत्त्वे भौतपूर्व्यातैस्तु नित्यः तथा सति । (वार्तिकान्त)
(पाणिनीयसूत्र ७,१।११) कि.,२४५।२-३ रो. V,१८।११-१३ इमौ द्वौ प्रतिषेधौ उच्येते । उभौ शक्यौ अवक्तुं । कथं । एवं वक्ष्यामि । इदमदसोः कातिति । तन्नियमार्थं भविष्यति । इदमदसोः कातेव न अन्यतः इति ।
(पाणिनीयसूत्र ७,१।१२) कि.,२४५।५-२० रो. V,१८।१५-२०।३ किमर्थं इनादेशः उच्यते न नादेशः एव उच्येत । का रूपसिद्धिः : वृक्षेण प्लक्षेण । एत्त्वे योगविभागः करिष्यते । कथं । इदं अस्ति । बहुवचने झलि एतोसि च । ततः आङि च । आङि च परतः अतः एत्त्वं भवति । वृक्षेण प्लक्षेण । ततः आपः सम्बुद्धौ च । आपः आङि च ओसि च इति । न एवं शक्यं । इह हि अनेन इति इद्रूपलोपः प्रसज्येत । झलि लोपः करिष्यते । न शक्यः झलि लोपः कर्तुं । इह हि दोषः स्यात। अया विष्टा इति । एवं तर्हि अन्लोपापवादः विज्ञास्यते । कथं । एवं वक्ष्यामि । अन्ने च अपि च इति । तत्नकारग्रहणं कर्तव्यं । न कर्तव्यं । क्रियते न्यासे एव । लुपनिर्दिष्टः नकारः । यदि एवं न उपधायाः इति दीर्घत्वं प्राप्नोति । सौत्रः निर्देशः । अथ वा नपुंसकनिर्देशः करिष्यते । अथ किमर्थं आतुच्यते न अतेव उच्येत । का रूपसिद्धिः वृक्षातः प्लक्षात। सवर्णदीर्घत्वेन सिद्धं । न सिध्यति । अतः गुणे पररूपं इति पररूपत्वं प्राप्नोति । अकारोच्चारणसामर्थ्यात्न भविष्यति । यदि प्राप्नुवन्विधिः उच्चारणसामर्थ्यात्बाध्यते सवर्णदीर्घत्वं अपि न प्राप्नोति । न एषः दोषः । यं विधिं प्रति उपदेशः अनर्थकः सः विधिः बाध्यते यस्य तु विधेः निमित्तं एव न असौ बाध्यते । पररूपं प्रति अकारोच्चारणं अनर्थकं सवर्णदीर्घत्वस्य पुनः निमित्तं एव ।
(पाणिनीयसूत्र ७,१।१३) कि.,२४५।२२-२४६।४ रो. V,२०।५-१० किं इदं चतुर्थ्येकवचनस्य ग्रहणं आहोस्वित्सप्तम्येकवचनस्य ग्रहणं । कुतः सन्देहः । समानः निर्देशः । चतुर्थ्येकवचनस्य ग्रहणं । कथं ज्ञायते । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति । इह अपि तर्हि चतुर्थ्येकवचनस्य ग्रहणं स्यात। ङेः आं नद्याम्नीभ्यः । एवं तर्हि व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहातलक्षणं इति इह चतुर्थ्येकवचनय्सग्रहणं व्याख्यास्यामः तत्र सप्तम्येकवचनस्य इति ।
(पाणिनीयसूत्र ७,१।१४) कि.,२४६।६-१९ रो. V,२१।२-१५ (कात्यायन वार्तिक)अशः एकादिष्टात्स्मायादीनां उपसङ्ख्यानम्(वार्तिकान्त) अशः एकादिष्टात्स्मायादीनां उपसङ्ख्यानं कर्तव्यं । अथ उ अत्र अस्मै । अथ उ अत्र अस्मात। अथ उ अत्र अस्मिनिति । एकादेशे कृते अतः इति स्मायादयः न प्राप्नुवन्ति । किं पुनः कारणं एकादेशः तावत्भवति न पुनः स्मायादयः । न परत्वात्स्मायादिभिः भवितव्यं । न भवितव्यं । किं कारणं । नित्यत्वातेकादेशः । नित्यः एकादेशः । कृतेषु अपि स्मायादिषु प्राप्नोति अकृतेषु अपि । नित्यत्वातेकादेशे कृते अतः इति स्मायादयः न प्राप्नुवन्ति । किं उच्यते अशः इति न इह अपि कर्तव्यं । अत्र अस्मै । अत्र अस्मात। अत्र अस्मिनिति । एकादेशे कृते अतः इति स्मायादयः न प्राप्नुवन्ति । आनुपूर्व्या सिद्धं एतत। न अत्र अकृतेषु स्मायादिषु हलादिः विभक्तिः अस्ति हलादौ चेत्रूपलोपः न च अकृतए इद्रूपलोपे एकादेशः प्राप्नोति । ततानुपूर्या सिद्धं । तत्तर्हि उपसङ्ख्यानं कर्तव्यं । (कात्यायन वार्तिक)न वा बहिरङ्गलक्षणत्वात्(वार्तिकान्त) । न वा कर्तव्यं । किं कारणं । बहिरङ्गलक्षणत्वात। बहिरङ्गलक्षणः एकादेशः । अन्तरङ्गाः स्मायादयः । असिद्धं बहिरङ्गं अन्तरङ्गे ।
(पाणिनीयसूत्र ७,१।१७,२०) कि.,२४६।२३-२४७।३ रो. V,२१।१८-२१ किमर्थं शीभावः शिभावः च उच्यते न शिभावः एव उच्येत । का रूपसिद्धिः : ते ये के । आद्गुणेन सिद्धं । न एवं शक्यं । इह हि त्रपुणी जतुनी दीर्घश्रवणं न स्यात। एवं तर्हि शीभवः एव उच्यतां । न एवं शक्यं । इह हि कुण्डानि वनानि इति ह्रस्वस्य श्रवणं न स्यात। तस्मात्शीभावः शिभावः च वक्तव्यः ।
(पाणिनीयसूत्र ७,१।१८) कि.,२४७।५-१६ रो. V,२२।२-२३।६ किमर्थः ङकारः । सामान्यग्रहणार्थः । औ , इति उच्यमाने प्रथमाद्विवचनस्य एव स्यात। अथ अपि औटिति उच्यते एवं अपि द्वितीयाद्विवचनस्य एव स्यात। अस्ति प्रयोजनं एतत। किं तर्हि इति । ङित्कार्यं तु प्राप्नोति । खट्वे माले । याटापः इति याट्प्राप्नोति । न एषः दोषः । न एवं विज्ञायते ङकारः इतस्य सः अयं ङित्ङिति इति । कथं तर्हि । ङः एव इत्ङित्ङिति इति । एवं सति वर्णग्रहणं इदं भवति वर्णग्रहणेषु च एतत्भवति यस्मिन्विधिः तदादौ अल्ग्रहणे इति । न दोषः भवति । अथ वा वर्णग्रहणं इदं भवति न च एतत्वर्णग्रहणेषु भवति : अननुबन्धकग्रहणे न सानुबन्धकस्य इति । अथ वा पूर्वसूत्रनिर्देशः अयं पूर्वसूत्रेषु च ये अनुबन्धाः न तैः इह इत्कार्याणि क्रियन्ते । औकारः अयं शीविधौ ङित्गृहीतः ङित्च अस्माकं न अस्ति कः अयं प्रकारः । सामान्यार्थः तस्य च आसञ्जने अस्मिन्ङित्कार्यं ते श्यां प्रसक्तं सः दोषः । ङित्त्वे विद्यात्वर्णनिर्देशमात्रं वर्णे यत्स्यात्तत्च विद्यात्तदादौ । वर्णः च अयं तेन ङित्त्वे अपि अदोषः निर्देशः अयं पूर्वसूत्रेण वा स्यात।
(पाणिनीयसूत्र ७,१।२१) कि.,२४७।१८-२४८।१८ रो. V,२३।८-२५।१३ (कात्यायन वार्तिक)औशघौ (वार्तिकान्त)। औशघौ इति वक्तव्यं । किं इदं अघौ इति । अनुत्तरपदे इति । किं प्रयोजनं । इह मा भूत। अष्टपुत्रः अष्टभार्यः इति । (कात्यायन वार्तिक)अस्तु लुक्तत्र(वार्तिकान्त) । अस्तु अत्र औश्त्वं लुक्भविष्यति । (कात्यायन वार्तिक)षड्भ्यः अपि एवं प्रसज्यते(वार्तिकान्त) । इह अपि तर्हि प्राप्नोति । अष्टौ तिष्ठन्ति । अष्टौ पश्य इति ।(कात्यायन वार्तिक) अपवादः(वार्तिकान्त) । अपवादत्वातत्र औश्त्वं लुकं बाधिष्यते । इह अपि तर्हि बाधेत । अष्टपुत्रः अष्टभार्यः । (कात्यायन वार्तिक)यस्य विषये(वार्तिकान्त) । यस्य लुकः विषये औश्त्वं तस्य अपवादः । (कात्यायन वार्तिक)यः वा तस्मातनन्तरः(वार्तिकान्त) । अथ वा अनन्तरस्य लुकः बाधकं भविष्यति । कुतः एतत। अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति । अथ इह कस्मात्न भवति औश्त्वं । अष्ट तिष्ठन्ति । अष्ट पश्य इति । (कात्यायन वार्तिक)आत्वं यत्र तु तत्र औश्त्वम्(वार्तिकान्त) । यत्र एव आत्वं तत्र एव औश्त्वेन भवितव्यं । कुतः एतत। (कात्यायन वार्तिक)तथा हि अस्य ग्रहः कृतः(वार्तिकान्त) । तथा हि अस्य आत्वभूतस्य ग्रहणं क्रियते । अष्टाभ्यः इति । ननु च नित्यं आत्वं । एततेव ज्ञापयति आचार्यः विभाषात्वं इति यतयं आत्वभूतस्य ग्रहणं करोति । अष्टाभ्यः इति । इतरथा हि अष्टनः इति एव ब्रूयात।
(पाणिनीयसूत्र ७,१।२३) कि.,२४८।२०-२४९।१८ रो. V,२६।२-२८।६ (कात्यायन वार्तिक)स्वमोः लुक्त्यदादिभ्यः च(वार्तिकान्त) स्वमोः लुक्त्यदादिभ्यः च इति वक्तव्यं । इह अपि यथा स्यात। तत्ब्राह्मणकुलं इति । (कात्यायन वार्तिक)कृते हि अत्वे न लुक्भवेत्(वार्तिकान्त) । अत्वे कृते लुक्न प्राप्नोति । इदं इह सम्प्रधार्यं : अत्वं क्रियतां लुकिति किं अत्र कर्तव्यं । परत्वातत्वं । नित्यः लुक। कृते अपि अत्वे प्राप्नोति अकृते अपि । अनित्यः लुक्न हि कृते अत्वे प्राप्नोति । अतः अं इति अम्भावेन भवितव्यं । तस्मात्त्यदादिभ्यः च इति वक्तव्यं । इदं विचार्यते : शिशीलुग्नुम्विधिषु नपुंसकग्रहणं शब्दग्रहणं वा स्यातर्थग्रहणं वा इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)शिशीलुग्नुम्विधिषु नपुंसकग्रहणं शब्दग्रहणं चेतन्यपदार्थे प्रतिषेधः(वार्तिकान्त) । शिशीलुग्नुम्विधिषु नपुंसकग्रहणं शब्दग्रहणं चेतन्यपदार्थे प्रतिषेधः वक्तव्यः । बहुत्रपुः बहुत्रपू बहुत्रपवः इति । अस्तु तर्हि अर्थग्रहणं । यदि अर्थग्रहणं प्रियसक्थ्ना ब्राह्मणेन इति अनङ्न प्राप्नोति । अस्तु तर्हि शब्दग्रहणं एव । ननु च उक्तं शिशीलुग्नुम्बिधिषु नपुंसकग्रहणं चेतन्यपदार्थे प्रतिषेधः इति । (कात्यायन वार्तिक)सिद्धं तु प्रकृतार्थविशेषणत्वात्(वार्तिकान्त) । सिद्धं एतत। कथं । प्रकृतस्य अर्थः विशेष्यते । किं च प्रकृतं । अङ्गं । अङ्गस्य शिशीलुग्नुमः भवन्ति नपुंसके वर्तमानस्य । कथं प्रियसक्थ्ना ब्राह्मणेन । (कात्यायन वार्तिक)अस्थ्यादिषु शब्दग्रहणम्(वार्तिकान्त) । अस्थ्यादिषु नपुंसकग्रहणं शब्दग्रहणं द्रष्टव्यं । युक्तं पुनः इदं विचारयितुं । ननु अनेन असन्दिग्धेन अर्थग्रहणेन भवितव्यं न हि नपुंसकं नाम शब्दः अस्ति । किं तर्हि उच्यते अस्थ्यादिषु शब्दग्रहणं इति । अत्र अपि अर्थग्रहणं एव । अत्र एतावान्सन्देहः क्व प्रकृतस्य अर्थः विशेष्यते क्व गृह्यमाणस्य इति । शिशीलुग्नुम्विधिषु प्रकृतस्य अर्थः विशेष्यते अस्थ्यादिषु गृह्यमाणस्य ।
(पाणिनीयसूत्र ७,१।२५) कि.,२४९।२०-२५०।५ रो. V,२८।८-२९।५ (कात्यायन वार्तिक)अद्भावे पूर्वसवर्णप्रतिषेधः(वार्तिकान्त) । अद्भावे पूर्वसवर्णस्य प्रतिषेधः वक्तव्यः । कतरत्तिष्ठति , कतरत्पश्य । (कात्यायन वार्तिक)सिद्धं अनुनासिकोपधत्वात्(वार्तिकान्त) । सिद्धं एतत। कथं । अनुनासिकोपधः अच्शब्दः करिष्यते । (कात्यायन वार्तिक)दुक्करणात्वा(वार्तिकान्त) । अथ वा दुग्डतरादीनां इति वक्ष्यति । (कात्यायन वार्तिक)डित्करणात्वा(वार्तिकान्त) । अथ वा डिदच्छब्दः करिष्यते । सः तर्हि डकारः कर्तव्यः । न कर्तव्यः । क्रियते न्यासे एव । द्विडकारकः निर्देशः । अद्ड्डतरादिभ्यः इति ।
(पाणिनीयसूत्र ७,१।२६) कि.,२५०।७-२५०।१८ रो. V,२९।७-३०।८ (कात्यायन वार्तिक)इतरात्छन्दसि प्रतिषेधः एकतरात्सर्वत्र(वार्तिकान्त) । इतरात्छन्दसि प्रतिषेधः एकतरात्सर्वत्र इति वक्तव्यं । एकतरं तिष्ठति , एकतरं पश्य । (कात्यायन वार्तिक)नपुंसकादेशेभ्यः युष्मदस्मदोः विभक्त्यादेशाः विप्रतिषेधेन (वार्तिकान्त)। नपुंसकादेशेभ्यः युष्मदस्मदोः विभक्त्यादेशाः भवन्ति विप्रतिषेधेन । नपुंसकादेशानां अवकाशः । त्रपु , त्रपुणी , त्रपूणि । युष्मदस्मदोः विभक्त्यादेशानां अवकाशः । त्वं ब्राह्मणः , अहं ब्राह्मणः , युवां ब्राह्मणौ , आवां ब्राह्मणौ , यूयां ब्राह्मणाः वयं ब्राह्मणाः । इह उभयं प्राप्नोति । त्वं ब्राह्मणकुलं , अहं ब्राह्मणकुलं , युवां ब्राह्मणकुले , आवां ब्राह्मणकुले , यूयं ब्राह्मणकुलानि , वयं ब्राह्मणकुलानि । युष्मदस्मदोः विभक्त्यादेशाः भवन्ति विप्रतिषेधेन । अथ इदानीं युष्मदस्मदोः विभक्त्यादेशेषु कृतेषु पुनःप्रसङ्गात्शिशीलुग्नुम्विधयः कस्मात्न भवन्ति । सकृद्गतौ विप्रतिषेधेन यत्बाधितं तत्बाधितं एव इति ।
(पाणिनीयसूत्र ७,१।२७) कि.,२५०।२०-२५१।१७ रो. V,३०।१०-३१।१४ किमर्थः शकारः । सर्वादेशार्थः । शित्सर्वस्य इति सर्वादेशः यथा स्यात। न एततस्ति प्रयोजनं । अक्रियमाणे अपि शकारे अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य अकारे कृते त्रयाणां अकाराणां अतः गुणे पररूपत्वे सिद्धं रूपं स्यातः तव स्वं , मम स्वं । यदि एतत्लभ्येत कृतं स्यात। तत्तु न लभ्यं । किं कारणं । अत्र हि तस्मातिति उत्तरस्य आदेः परस्य इति अकारस्य प्रसज्येत । अतः उत्तरं पठति । (कात्यायन वार्तिक)ङसः आदेशे शित्करणानर्थक्यं अकारस्य अकारवचनानर्थक्यात्(वार्तिकान्त) । ङसः आदेशे शित्करणं अनर्थकं । किं कारणं । अकारस्य अकारवचनानर्थक्यात। अकारस्य अकारवचने प्रयोजनं न अस्ति इति कृत्वा अन्तरेण शकारं सर्वादेशः भविष्यति । (कात्यायन वार्तिक)अर्थवत्त्वादेशे लोपार्थम्(वार्तिकान्त) । अर्थवत्त्वकारस्य अकारवचनं । कः अर्थः । आदेशे लोपार्थं । यः सः शेषे लोपः आदेशे सः विज्ञायते । ननु च आदेशः या विभक्तिः इति एवं एतत्विज्ञायते । आदेशः एषा विभक्तिः । कथं । (कात्यायन वार्तिक)सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः एकदेशविकारे हि नित्यत्वं न उपपद्यते(वार्तिकान्त) । (कात्यायन वार्तिक)तस्मात्शित्करणम्(वार्तिकान्त) । तस्मात्शकारः कर्तव्यः । न कर्तव्यः । क्रियते न्यासे एव । कथं । प्रश्लिष्टनिर्देशः अयं । अ , अ , अ , इति । सः अनेकाल्शित्सर्वस्य इति सर्वस्य भविष्यति ।
(पाणिनीयसूत्र ७,१।२८) कि.,२५१।१९-२५२।६ रो. V,३२।२-३३।८ प्रथमयोः इति उच्यते कयोः इदं प्रथमयोः ग्रहणं किं विभक्त्योः आहोस्वित्प्रत्यययोः । विभक्त्योः इति आह । कथं ज्ञायते । अन्यत्र अपि हि प्रथमयोः ग्रहणे विभक्त्योः ग्रहणं विज्ञायते न प्रत्यययोः । क्व अन्यत्र । प्रथमयोः पूर्वसवर्णः इति । अस्ति कारणं येन तत्र विभक्त्योः ग्रहणं विज्ञायते । किं कारणं । अचि इति तत्र वर्तते न च अजादी प्रथमौ स्तः । ननु च एवं विज्ञायते अजादी यौ प्रथमौ अजादीनां वा यौ प्रथमौ इति । यत्तर्हि तस्मात्शसः नः पुंसि इति अनुक्रान्तं पूर्वसवर्णं प्रतिनिर्दिशति तज्ज्ञापयति आचार्यः विभक्त्योः ग्रहणं इति । इह अपि आचार्यप्रवृत्तिः ज्ञापयति विभक्त्योः ग्रहणं इति यतयं शसः न इति प्रतिषेधं शास्ति । न एषः प्रतिषेधः । नत्वं एतत्विधीयते । सिद्धं अत्र नत्वं तस्मात्शसः नः पुंसि इति । यत्र तेन न सिध्यति तदर्थं । क्व च तेन न सिध्यति । स्त्रियां नपुंसके च । युष्मान्ब्राह्मणी पश्य , अस्मान्ब्राह्मणी पश्य , युष्मान्ब्राह्मणकुलानि पश्य , अस्मान्ब्राह्मणकुलानि पश्य इति । यत्तर्हि युष्मदस्मदोः अनादेशे द्वितीयायां च इति आह तत्ज्ञापयति आचार्यः विभक्त्योः ग्रहणं इति ।
(पाणिनीयसूत्र ७,१।३०) कि.,२५२।८-१४ रो. V,३३।१०-३४।६ किं अयं भ्यम्शब्दः आहोस्वितभ्यम्शब्दः । कुतः सन्देहः । समानः निर्देशः । किं च अतः । यदि तावत्भ्यम्शब्दः शेषे लोपः च अन्त्यस्य एत्वं प्राप्नोति । अथ अभ्यम्शब्दः शेषे लोपः च टिलोपः उदात्त्निवृत्तिस्वरः प्राप्नोति । यथा इच्छसि तथा अस्तु । अस्तु तावतभ्यम्शब्दः शेषे लोपः च अन्त्यस्य । ननु च उक्तं एत्त्वं प्राप्नोति इति । न एषः दोषः । अङ्गवृत्ते पुनः वृत्तौ अविधिः निष्ठितस्य इति न भविष्यति । अथ वा पुनः अस्तु अभम्शब्दः शेषे लोपः च टिलोपः । ननु च उक्तं उदात्तनिवृत्तिस्वरः प्राप्नोति इति । न एषः दोषः उक्तं एततादौ सिद्धं इति ।
(पाणिनीयसूत्र ७,१।३३) कि.,२५२।१६-२५३।२१ रो. V,३४।८-३८।४ किमर्थं आमः ससकारस्य ग्रहणं क्रियते न आमः आकं इति एव उच्येत । केन इदानीं ससकारस्य भविष्यति । आमः सुटयं भक्तः आम्ग्रहणेन ग्राहिष्यते । अतः उत्तरं पठति । (कात्यायन वार्तिक)साम्ग्रहणं यथागृहीतस्य आदेशवचनात्(वार्तिकान्त) । साम्ग्रहणं क्रियते । निर्दिश्यमानस्य आदेशाः भवन्ति इति एवं ससकारस्य न प्राप्नोति । इष्यते च स्यातिति तत्च अन्तरेण यत्नं न सिध्यति इति सामः आकं । एवमर्थं इदं उच्यते । (कात्यायन वार्तिक)न वा द्विपर्यन्तानां अकारवचनातामि सकाराभावः(वार्तिकान्त) । न वा एतत्प्रयोजनं अस्ति । किं कारणं । द्विपर्यन्तानां अकारवचनात। द्विपर्यन्तानां हि त्यदादीनं अत्वं उच्यते तेन आमि सकारः न भविष्यति । (कात्यायन वार्तिक)सुट्प्रतिषेधः तु आदेशे लोपविज्ञानात्(वार्तिकान्त) । सुट्प्रतिषेधः तु वक्तव्यः । किं कारणं । आदेशे लोपविज्ञानात। यः सः शेषे लोपः आदेशे सः विज्ञायते । (कात्यायन वार्तिक)न वा टिलोपवचनातादेशे टाप्प्रतिषेधार्थम्(वार्तिकान्त) । न वा सुट्प्रतिषेधः वक्तव्यः । किं कारणं । टिलोपवचनात। आदेशे यः सः शेषे लोपः टिलोपः सः वक्तव्यः । किं प्रयोजनं । टाप्प्रतिषेधार्थं । टाप्मा भूतिति । सः तर्हि टिलोपः वक्तव्यः । (कात्यायन वार्तिक)न वा लिङ्गाभावात्टिलोपवचनानर्थक्यम्(वार्तिकान्त) । न वा वक्तव्यं । किं कारणं । लिङ्गाभावात। अलिङ्गे युष्मदस्मदी । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । न हि अस्ति विशेषः युष्मदस्मदोः स्त्रियां पुंसि नपुंसके वा । अस्ति कारणं येन एततेवं भवति । किं कारणं । यः असौ विशेषवाची शब्दः तदसान्निध्यात। अङ्ग हि भवान्तं उच्चारयतु गंस्यते सः विशेषः । ननु च न एतेन एवं भवितव्यं । न हि शब्दनिमित्तकेन नाम अर्थेन भवितव्यं । किं तर्हि अर्थ निमित्तकेन नाम शब्देन भवितव्यं । ततेततेवं दृश्यतां : अर्थरूपं एव एततेवञ्जातीयकं येन अत्र विशेषः न गम्यते इति । अवश्यं च एततेवं विज्ञेयं । यः हि मन्यते यः असौ विशेषवाची शब्दः तदसान्निध्यातत्र विशेषः न गम्यते इति इह अपि तस्य विशेषः न गम्यते : दृषत्समितिति । (कात्यायन वार्तिक)तस्मात्सुट्प्रतिषेधः(वार्तिकान्त) तस्मात्सुट्प्रतिषेधः वक्तव्यः ससकारग्रहणं वा कर्तव्यं । अथ क्रियमाणे अपि ससकारग्रहणे कस्मातेव अत्र सुट्न भवति । ससकारग्रहणसामर्थ्यात्भाविनः सुटः आदेशः विज्ञायते ।
(पाणिनीयसूत्र ७,१।३४) कि.,२५३।२३-२५४।४ रो. V,३९।२-८ इह पपौ, तस्थौ इति त्रीणि कार्याणि युगपत्प्राप्नुवन्ति : द्विर्वचनं एकादेशः औत्वं इति । तत्यदि सर्वतः औत्वं लभ्येत कृतं स्यात। अथ अपि द्विर्वचनं लभ्येत एवं अपि कृतं स्यात। तत्तु न लभ्यं । किं कारणं । अत्र हि परत्वातेकादेशः द्विर्वचनं बाधते । परत्वातौत्वं । नित्यः एकादेशः औत्वं बाधेत । कं पुनः भवानौत्वस्य अवकाशं मत्वा आह नित्यः एकादेशः इति । अनवकाशं औत्वं एकादेशं बाधिष्यते । औत्वे कृते द्विर्वचनं एकादेशः इति यदि अपि परत्वातेकादेशः स्थानिवद्भावात्द्विर्वचनं भविष्यति ।
(पाणिनीयसूत्र ७,१।३६) कि.,२५४।६-१३ रो. V,४०।२-४१।१ (कात्यायन वार्तिक)विदेः वसोः कित्त्वम्(वार्तिकान्त) । विदेः वसोः कित्त्वं वक्तव्यं । किं प्रयोजनं । वसुग्रहणेषु लिडादेशस्य अपि ग्रहणं यथा स्यात। किं च कारणं न स्यात। अननुबन्धकग्रहणे हि सानुबन्धकस्य ग्रहणं न इति एवं लिडादेशस्य न प्राप्नोति । सानुबन्धकः हि सः क्रियते । किं पुनः कारणं सः सानुबन्धकः क्रियते । अयं ®कारान्तानां लिटि गुङः प्रतिषेधविषयः आरभ्यते सः पुनः कित्करणात्बाध्यते । आतिस्तीर्वान्, निपुपूर्वानिति । सः तर्हि अस्य एवमर्थः अनुबन्धः कर्तव्यः । न कर्तव्यः । क्रियते न्यासे एव । द्विसकारकः निर्देशः : विदेः शतुर्वसुस्समासे अनञ्पूर्वे क्त्वः ल्यप।
(पाणिनीयसूत्र ७,१।३७) कि.,२५४।१५-२५६।११ रो. V,४१-४७ (कात्यायन वार्तिक)ल्यबादेशे उपदेशिवद्वचनम्(वार्तिकान्त) । ल्यबादेशे उपदेशिवद्भावः वक्तव्यः । उपदेशावस्थायां ल्यप्भवति इति वक्तव्यं । किं प्रयोजनं । (कात्यायन वार्तिक)अनादिष्टार्थम्(वार्तिकान्त) । अकृतेषु आदेशेषु ल्यप्यथा स्यात। के पुनः आदेशाः उपदेशिवद्वचनं प्रयोजयन्ति । हित्वदत्त्वात्त्वेत्वेत्त्वदीर्घत्वशूडितः । हित्वं । हित्वा , प्रधाय । हित्वं । दत्त्वं । दत्त्वा , प्रदाय । दत्त्वं । आत्त्वं । खात्वा , प्रखन्य । आत्त्वं । इत्वं । स्थित्वा , प्रस्थाय । इत्वं । ईत्त्वं । पीत्वा , प्रपाय । ईत्त्वं । दीर्घत्वं । शान्त्वा , प्रशम्य । दीर्घत्वं । शत्वं । पृष्ट्वा , आपृच्छ्य । शत्वं । ऊठ। द्यूत्वा , प्रदीव्य । ऊठ। इट। देवित्वा , प्रदीव्य । किं पुनः कारणं आदेशाः तावत्भवन्ति न पुनः ल्यप। न परत्वात्ल्यपा भवितव्यं । सन्ति च एव अत्र के चित्परे आदेशाः अपि च (कात्यायन वार्तिक)बहिरङ्गलक्षणत्वात्(वार्तिकान्त) । बहिरङ्गः ल्यप। अन्तरङ्गाः आदेशाः । असिद्धं बहिरङ्गं अन्तरङ्गे । सः तर्हि उपदेशिवद्भावः वक्तव्यः । न वक्तव्यः । आचार्यप्रवृत्तिः ज्ञापयति अन्तरङ्गानपि विधीन्बहिरङ्गः ल्यप्बाधते इति यतयं अदः जग्धिः ल्यप्ति किति इति ति किति इति एव सिद्धे ल्यब्ग्रहणं करोति । (कात्यायन वार्तिक)स्नात्वाकालकादिषु च प्रतिषेधः(वार्तिकान्त) स्नात्वाकालकादिषु च प्रतिषेधः वक्तव्यः । स्नात्वाकालकः , पीत्वास्थिरकः , भुक्त्वासुहितकः इति । (कात्यायन वार्तिक)तदन्तनिर्देशात्सिद्धम्(वार्तिकान्त) । तदन्तनिर्देशात्सिद्धं एतत। कथं । क्त्वान्तस्य ल्यपा भवितव्यं न च एतत्क्त्वान्तं । (कात्यायन वार्तिक)समासनिपातनात्वा(वार्तिकान्त) । अथ वा अवश्यं अत्र समासार्थं निपातनं कर्तव्यं तेन एव यत्नेन ल्यपपि न भविष्यति । (कात्यायन वार्तिक)अनञः वा परस्य(वार्तिकान्त) । अथ वा अनञः परस्य ल्यपा भवितव्यं न च अत्र अनञं पश्यामः । ननु च धातुः एव अनञ। न धातोः परस्य भवितव्यं । किं कारणं । नञिवयुक्तं अन्यसदृशाधिकरणे तथा हि अर्थगतिः । नञ्युक्तं इव युक्तं वा अन्यस्मिन्तत्सदृशे कार्यं विज्ञास्यते । कुतः एतत। तथा हि अर्थः गम्यते । तत्यथा । अब्राह्मणं आनय इति उक्ते ग्राह्मणसदृशं पुरुषं आनयति न असौ लोष्टं आनीय कृती भवति । एवं इह अपि अनञिति नञ्प्रतिषेधातन्यस्मातनञौ नञ्सदृशात्कार्यं विज्ञास्यते । किं च अन्यतनञ्नञ्सदृशं । पदं इति आह । अथ वा प्रत्ययग्रहणे यस्मात्सः तदादेः ग्रहणं भवति इति एवं धातुः अपि क्त्वाग्रहणेन ग्राहिष्यते । ननु च इयं अपि परिभाषा अस्ति : कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणं भवति इति सा अपि इह उपतिष्ठते । तत्र कः दोषः । इह न स्यातः प्रकृत्य प्रहृत्य । क्व तर्हि स्यात। परमकृत्वा , उत्तमकृत्वा । न वै अत्र इष्यते । अनिष्टं च प्राप्नोति इष्टं च न सिध्यति । गतिकारकपूर्वस्य एव इष्यते । कुतः न खलु एतत्द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः प्रत्ययग्रहणे यस्मात्सः तदादेः ग्रहणं भवति कृद्ग्रहणे गतिकारकपूर्वस्य इति च इयं इह परिभाषा भवति प्रत्ययग्रहणे यस्मात्सः तदादेः ग्रहणं भवति इति इयं न भवति कृद्ग्रहणे गतिकारकपूर्वस्य अपि इति । आचार्यप्रवृत्तिः ज्ञापयति इयं इह परिभाषा भवति प्रत्ययग्रहणे इति इयं न भवति कृद्ग्रहणे इति यतयं अनञिति प्रतिषेधं शास्ति । कथं कृत्वा ज्ञापकं । अयं हि नञ्न गतिः न च कारकं तत्र कः प्रसङ्गः यत्नञ्पूर्वस्य स्यात। पश्यति तु आचार्यः इयं इह परिभाषा भवति प्रत्ययग्रहणे इति इयं न भवति कृद्ग्रहणे इति ततः अनञिति प्रतिषेधं शास्ति । (कात्यायन वार्तिक)किं नञः प्रतिषेधेन न गतिः न च कारकं यावता नञि पूर्वे तु ल्यब्भावः न भविष्यति । प्रतिषेधात्तु जानीमः तत्पूर्वं न इह गृह्यते प्रत्यय्ग्रहणे यावत्तावत्भवितुं अर्हति(वार्तिकान्त) ।
(पाणिनीयसूत्र ७,१।३९) कि.,२५६।१३-२५७।२ रो. V,४७-४९ सुपां च सुपः भवन्ति इति वक्तव्यं । युक्ता माता आसीत्भुरि दक्षिणायाः दक्षिणायां इति प्राप्ते । तिङां च तिङः भवन्ति इति वक्तव्यं । चषालं ये , अश्वयूपाय तक्षति तक्षन्ति इति प्राप्ते । लुकि किं उदाहरणं । आर्द्रे चर्मन्, लोहिते चर्मन। न एततस्ति । पूर्वसवर्णेन अपि एतत्सिद्धं । इदं तर्हि । यत्स्थवीयसः आवसनुत सप्त साकं । ननु च एततपि पूर्वसवर्णेन एव सिद्धं । न सिध्यति । यदि अत्र पूर्वसवर्णः स्यात्त्यदाद्यत्वं प्रसज्येत । इदं च अपि उदाहरणं । आर्द्रे चर्मन्, लोहिते चर्मन। ननु च उक्तं पूर्वसवर्णेन अपि एतत्सिद्धं इति । न सिध्यति । यदि अत्र पूर्वसवर्णः स्यातान्तर्यतः दकारः प्रसज्येत । अस्तु । संयोगान्तलोपेन सिद्धं । (कात्यायन वार्तिक)इयाडियाजीकाराणां उपसङ्ख्यानम्(वार्तिकान्त) । इयाडियाजीकाराणां उपसङ्ख्यानं कर्तव्यं । दार्विया परिज्मन। इया । डियाच। सुक्षेत्रिया , सुगातुया । डियाच। ईकार । दृतिं न शुष्कं सरसी शयानं । आङयाजयारां च उपसङ्ख्यानं कर्तव्यं । आङ्, प्र बाहवा । अयाच। स्वप्नया सचसे जनं । अयाच। अयार। सः नः सिन्धुं इव नावया ।
(पाणिनीयसूत्र ७,१।४०) कि.,२५७।४-१८ रो. V,४९।४-५०।३ किमर्थः शकारः । शित्सर्वस्य इति सर्वादेशः यथा स्यात। अक्रियमाणे हि शकारे अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य प्रसज्येत । अतः उत्तरं पठति । (कात्यायन वार्तिक)अमः मश्न मकारस्य(वार्तिकान्त) । मकारस्य मकारवचने प्रयोजनं न अस्ति इति कृत्वा तत्र अन्तरेण शकारं सर्वादेशः भविष्यति । (कात्यायन वार्तिक)वचनातन्यबाधनम्(वार्तिकान्त) । अस्ति अन्यत्मकारस्य मकारवचने प्रयोजनं । ये अन्ये मकारादेशाः प्राप्नुवन्ति तद्बाधनार्थं । तत्यथा । मः राजि समः क्वौ इति मकारस्य मकारवचनसामर्थ्यातनुस्वारादयः बाध्यन्ते । एवं तर्हि द्विमकारकः निर्देशः करिष्यते । (कात्यायन वार्तिक)द्विमकारः ईटपृक्ते(वार्तिकान्त) । यदि द्विमकारकः अपृक्ताश्रयः ईट्न प्राप्नोति । वधीं वृत्रं मरुतः इन्द्रियेण । (कात्यायन वार्तिक)यकारादौ न दुष्यति(वार्तिकान्त) । किं यकारः न श्रूयते । लुप्तनिर्दिष्टः यकारः । (कात्यायन वार्तिक)अमः मश्न मकारस्य वचनातन्यबाधनं द्विमकारः ईटपृक्ते यकारादौ न दुष्यति(वार्तिकान्त) ।
(पाणिनीयसूत्र ७,१।५०) कि.,२५७।२०-२५८।११ रो. V,५०।५-५१।२ इह : ये पूर्वासः , ये उपरासः : आत्जसेः असुकिति असुकि कृते जसः ग्रहणेन ग्रहणात्शीभावः प्राप्नोति । एवं तर्हि जसि पूर्वान्तः करिष्यते । यदि पूर्वान्तः क्रियते का रूपसिद्धिः : ब्राह्मणासः पितरः सोम्यासः । सवर्णदीघत्वेन सिद्धं । न सिध्यति । अतः गुणे इति पररूपत्वं प्राप्नोति । अकारोच्चारणसामर्थ्यात्न भविष्यति । यदि तर्हि प्राप्नुवन्विधिः उच्चारणसामर्थ्यात्बाध्यते सवर्णदीर्घत्वं अपि न प्राप्नोति । न एषः दोषः । यं विधिं प्रति उपदेशः अनर्थकः सः विधिः बाध्यते यस्य तु विधेः निमित्तं न असौ बाध्यते । पररूपं च प्रति अकारोच्चारणं अनर्थकं सवर्णदीर्घत्वस्य पुनः निमित्तं एव । अथ वा असुट्करिष्यते । एवं अपि ये पूर्वासः ये उपरासः इति असुटि कृते जसः ग्रहणेन ग्रहणात्शीभावः प्राप्नोति । न एषः दोषः । निर्दिश्यमानस्य आदेशाः भवन्ति इति एवं अस्य न भविष्यति । यः तर्हि निर्दिश्यते तस्य कस्मात्न भवति । असुटा व्यवहितत्वात। सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं ये पूर्वासः ये उपरासः असुकि कृते जसः ग्रहणेन ग्रहणात्शीभावः प्राप्नोति इति । न एषः दोषः । इदं इह सम्प्रधार्यं । शीभावः क्रियतां असुकिति किं अत्र कर्तव्यं । परत्वातसुक। अथ इदानीं असुकि कृते पुनः प्रसङ्गविज्ञानात्शीभावः कस्मात्न भवति । सकृद्गतौ विप्रतिषेधे यत्बाधितं तत्बाधितं एव इति ।
(पाणिनीयसूत्र ७,१।५१) कि.,२५८।१३-२० रो. V,५१।४-१२ (कात्यायन वार्तिक)अश्ववृषयोः मैथुनेच्छायाम्(वार्तिकान्त) । अश्ववृषयोः मैथुनेच्छायां इति वक्तव्यं । अश्वस्यति वडवा , वृषस्यति गौः । मैथुनेच्छायां इति किमर्थं । अश्वीयति , वृषीयति । (कात्यायन वार्तिक)क्षीरलवणयोः लालसायाम्(वार्तिकान्त) । क्षीर्लवणयोः लालसायां इति वक्तव्यं । क्षीरस्यति माणवकः , लवणस्यति उष्ट्रः इति । अपरः आह : सर्वप्रातिपदिकेभ्यः लालसायां इति वक्तव्यं दध्यस्यति मध्वस्यति इति एवमर्थं । अपरः आहः सुक्वक्तव्यः : दधिस्यति मदुस्यति इति एवमर्थं ।
(पाणिनीयसूत्र ७,१।५२-५४) कि.,२५८।२४-२६०।११ रो. V,५१।१६-५४।१४ इमे बहवः आम्शब्दाः : कास्प्रत्ययातां अमन्त्रे लिटि । ङसोसां । किमेत्तिङव्ययघातामु अद्रव्यप्रकर्षे । ङेः आं नद्याम्नीभ्यः इति । कस्य इदं ग्रहणं । षष्ठीबहुवचनस्य ग्रहणं । अथ अस्य कस्मात्न भवति कास्प्रत्ययातां अमन्त्रे लिटि इति । अननुबन्धकग्रहणे हि न सानुबन्धकस्य इति । सः तर्हि अस्य एवमर्थः अनुबन्धः कर्तव्यः इह अस्य ग्रहणं मा भूतिति । ननु च अवश्यं मकारस्य इत्सञ्ज्ञापरित्राणार्थः अनुबन्धः कर्तव्यः । न अर्थः इत्सञ्ज्ञापरित्राणार्थेन । इत्कार्याभावातत्र इत्सञ्ज्ञा न भविष्यति । इदं अस्ति इत्कार्यं मितचः अन्त्यात्परः इति अचां अन्त्यात्परः यथा स्यात। प्रत्ययान्तातयं विधीयते तत्र न अस्ति विशेषः मितचः अन्त्यात्परः इति वा परत्वे प्रत्ययः परः इति वा । यः तर्हि न प्रत्ययान्तातिजादेशः च गुरुमतः अनृच्छः इति । अत्र अपि आस्कासोः आम्वचनं ज्ञापकं न अयं अचां अन्त्यात्परः भवति इति । कथं कृत्वा ज्ञापकं । न हि अस्ति विशेषः आमि अचां अन्त्यात्परे सति असति वा । अयं अस्ति विशेषः । असति आमि द्विर्वचनेन भवितव्यं सति न भवितव्यं । सति अपि भवितव्यं । कथं । आमः तन्मध्यपतितत्वात्धातुग्रहणेन ग्रहणात। ततेतत्कासासोः आम्वचनं ज्ञापकं एव न अयं अचां अन्त्यात्परः भवति इति । अथ अपि कथं चित्कार्यं स्यातेवं अपि न दोषः । क्रियते न्यासे एव । आमः अमन्त्रे इति । यदि एवं आमा अन्त्रे इति प्राप्नोति । शकन्धुन्यायेन निर्देशः । अथ वा अस्तु अस्य ग्रहणं कः दोषः । इह कारयाञ्चकार , हरयाञ्चकार , चिकीर्षाञ्चकार , जिहीर्षाञ्चकार , ह्रस्वन्द्यापः नुटिति नुट्प्रसज्येत । लोपायादेशयोः कृतयोः न भविष्यति । इदं इह सम्प्रधार्यं । लोपायादेशौ क्रियेतां नुटिति किं अत्र कर्तव्यं । परत्वात्नुट। नित्यौ लोपायादेशौ । कृते अपि नुटि प्राप्नुतः अकृते अपि । तत्र नित्यत्वात्लोपायादेशयोः कृतयोः विहतनिमित्तत्वात्नुट्न भविष्यति । अथ अस्य कस्मात्न भवति किमेत्तिङव्ययघातामु अद्रव्यप्रकर्षे इति । अननुबन्धकग्रहणे हि न सानुबन्धकस्य इति । सः तर्हि एवमर्थः अनुबन्धः कर्तव्यः । ननु च अवश्यं उगित्कार्यार्थः अनुबन्धः कर्तव्यः । न अर्थः उगित्कार्यार्थेन अनुबन्धेन । लिङ्गविभक्तिप्रकरणे सर्वं उगित्कार्यं न च आमः लिङ्गविभक्ती स्तः । अव्ययं एषः । मकारस्य तर्हि इत्सञ्ज्ञापरित्राणार्थः अनुबन्धः कर्तव्यः । इत्कार्याभावातत्र इत्सञ्ज्ञा न भविष्यति । इदं अस्ति इत्कार्यं मितचः अन्त्यात्परः इति अचां अन्त्यात्परः यथा स्यात। न एततस्ति । घान्तातयं विधीयते तत्र न अस्ति विशेषः मितचः अन्त्यात्परः इति वा परत्वे प्रत्ययः परः इति वा परत्वे । अथ अपि कथं चितित्कार्यं स्यातेवं अपि न दोषः । क्रियते न्यासे एव । अथ वा अस्तु अस्य ग्रहणं कः दोषः । इह पचतितरां , जल्पतितरां , ह्रस्वनद्यापः नुटिति नुट्प्रसज्येत । लोपे कृते न भविष्यति । इदं इह सम्प्रधार्यं । लोपः क्रियतां नुटिति किं अत्र कर्तव्यं । परत्वात्नुट। एवं तर्हि ह्रस्वनद्यापः नुटिति अत्र यस्य इति लोपः अनुवर्तिष्यते । अथ अस्य कस्मात्न भवति ङेः आं नद्याम्नीभ्यः इति । किं च स्यात। कुमार्यां , किशोर्यां , खट्वायां , मालायां , तस्यां , यस्यां इति ह्रस्वनद्यापः नुटिति नुट्प्रसज्येत । आड्याट्स्याटः अत्र बाधकाः भविष्यन्ति । इदं इह सम्प्रधार्यं । आड्याट्स्याटः क्रियन्तां नुटिति किं अत्र कर्तव्यं । परत्वाताड्याट्स्याटः । अथ इदानीं आड्याट्स्याट्सु कृतेषु पुनःप्रसङ्गात्नुट्कस्मात्न भवति । सकृद्गतौ विप्रतिषेधे यत्बाधितं तत्बाधितं एव इति ।
(पाणिनीयसूत्र ७,१।५६) कि.,२६०।१३-१६ रो. V,५५।२-५ अयं योगः शक्यः अवक्तुं । कथं श्रीणां उदारः धरुणः रयीणां , अपि तत्र सूतग्रामणीनां । इह तावत्श्रीणां उदारः धरुणः रयीणां विभाषा आमि नदीसञ्ज्ञा सा छन्दसि व्यवस्थितविभाषा भविष्यति । अपि तत्र सूतग्रामणीनां इति सूताः च ग्रामण्यः च सूतग्रामणि तत्र ह्रस्वनद्यापः नुटिति एव सिद्धं ।
(पाणिनीयसूत्र ७,१।५८) कि.,२६१।२-१७ रो. V,५५।९-५६।१३ अथ धातोः इति किमर्थं । अभैत्सीत्, अच्छैत्सीत। (कात्यायन वार्तिक)नुम्विधौ उपदेशिवद्वचनं प्रत्ययविध्यर्थम्(वार्तिकान्त) । नुम्विधौ उपदेशिवद्भावः वक्तव्यः । उपदेशावस्थायां नुं भवति इति वक्तव्यं । किं प्रयोजनं । प्रत्ययविध्यर्थं । उपदेशावस्थायां नुमि कृते इष्टः प्रत्ययविधिः यथा स्यात। कुण्डा , हुण्डा इति । (कात्यायन वार्तिक)इतरथा हि अनकारे प्रत्ययः(वार्तिकान्त) । अक्रियमाणे हि उपदेशिवद्भावे अनकारे यः प्रत्ययः प्राप्नोति सः तावत्स्यात्तस्मिनवस्थिते नुं । तत्र कः दोषः । (कात्यायन वार्तिक)तत्र अयथेष्टप्रसङ्गः(वार्तिकान्त) । तत्र अयथेष्टं प्रसज्येत । अनिष्टे प्रत्यये अवस्थिते नुं । अनिष्टस्य प्रत्ययस्य श्रवणं प्रसज्येत । (कात्यायन वार्तिक)धातुग्रहणसामर्थ्यात्वा तदुपदेशे नुम्विधानम्(वार्तिकान्त) धातुग्रहणसामर्थ्यात्वा तदुपदेशे धातूपदेशे नुं भविष्यति । ननु च अन्यत्धातुग्रहणस्य प्रयोजनं उक्तं । किं । अभैत्सीत्, अच्छैत्सीतिति । न एततस्ति प्रयोजनं । प्रयोजनं नाम तत्वक्तव्यं यत्नियोगतः स्यात। यत्च अत्र इकारेण क्रियते अकारेण अपि तत्शक्यं कर्तुं ।
(पाणिनीयसूत्र ७,१।५९) कि.,२६१।१९-२६२।३ रो. V,५७।२-५८।६ (कात्यायन वार्तिक)शे तृम्पादीनाम्(वार्तिकान्त) । शे तृम्पादीनां उपसङ्ख्यानं कर्तव्यं । तृम्पति , तृम्फति । किमर्थं इदं । न नुमनुषक्ताः एव एते पठ्यन्ते । (कात्यायन वार्तिक)लुप्तनकारत्वात्(वार्तिकान्त) । लुप्यते अत्र नकारः अनिदितां हलः उपधायाः क्ङिति इति । यदि पुनः इमे इदितः पठ्येरन। न एवं शक्यं । इह हि लोपः न स्यात। तृपितः , दृपितः इति । यदि पुनः इमे मुचादिषु पठ्येरन। न दोषः स्यात। अथ वा न एवं विज्ञायते इदितः नुं धातोः इति । कथं तर्हि । इदितः नुं । ततः धातोः इति ।
(पाणिनीयसूत्र ७,१।६२) कि.,२६२।५-७ रो. V,५८।८-५९।२ इमौ द्वौ प्रतिषेधौ उच्येते । उभौ शक्यौ अवक्तुं । कथं । एवं वक्ष्यामि । इटि लिटि रधेः नुं भवति इति । तन्नियमार्थं भविष्यति । लिटि एव इडादौ न अन्यस्मिनिडादौ इति ।
(पाणिनीयसूत्र ७,१।६५) कि.,२६२।९-१२ रो. V,५९।४-८ इह कस्मात्न भवति : आलभ्यते । अस्तु । अनिदितां हलः उपधायाः क्ङिति इति लोपः भविष्यति । इह तर्हि आलम्भ्या गौः पोः अदुपधातिति यति अवस्थिते नुं । तत्र कः दोषः । आलम्भ्या* एषः स्वरः प्रसज्येत । आलम्भ्या* इति च इष्यते । न एषः दोषः । उक्तं एतत्धातुग्रहणसामर्थ्यातुपदेशे नुम्विधानं इति ।
(पाणिनीयसूत्र ७,१।६८) कि.,२६२।१४-२२ रो. V,५९।१०-६१।२ अथ केवलग्रहणं किमर्थं न न सुदुर्भ्यां इति एव उच्येत । (कात्यायन वार्तिक)सुदुरोः केवलग्रहणं अन्योपसर्गप्रतिषेधार्थम्(वार्तिकान्त) । सुदुरोः केवलग्रहणं क्रियते अन्योपसृष्टात्मा भूतिति । प्रसुलम्भं । न एषः अस्ति प्रयोगः । इदं तर्हि । सुप्रलम्भं । प्रेण व्यवहितत्वात्न भविष्यति । इदं तर्हि । अतिसुलम्भं । कर्मप्रवचनीयसञ्ज्ञा अत्र बाधिका भविष्यति सुः पूजायां अतिः अतिक्रमणे च इति । यदा तर्हि न अतिक्रमणं न पूजा । इदं च अपि उदाहरणं । सुप्रलम्भं । ननु च उक्तं प्रेण व्यवहितत्वात्न भविष्यति इति । न एषः दोषः । सुदुर्भ्यां इति न एषा पञ्चमी । का तर्हि । तृतीया । सुदुर्भ्यां उपसृष्टस्य इति । व्यवहितः च अपि उपसृष्टः भवति ।
(पाणिनीयसूत्र ७,१।६९) कि.,२६३।२-५ रो. V,६१।४-७ (कात्यायन वार्तिक)चिण्णमुलोः अनुपसर्गस्य(वार्तिकान्त) । चिण्णमुलोः अनुपसर्गस्य इति वक्तव्यं । इह मा भूत। प्रालम्भि । प्रलम्भं प्रलम्भं । तत्तर्हि वक्तव्यं । न वक्तव्यं । इह उपसर्गातिति अपि प्रकृतं न इति अपि तत्र अभिसम्बन्धमात्रं कर्तव्यं : विभाषा चिण्णमुलोः उपसर्गात्न इति ।
(पाणिनीयसूत्र ७,१।७०) कि.,२६३।७-१३ रो. V,६१-६२ अधातोः इति किमर्थं । उखास्रत्, पर्णध्वत। अधातोः इति शक्यं अवक्तुं । कस्मात्न भवति खास्रत्, पर्णध्वतिति । (कात्यायन वार्तिक)उगिति अञ्चतिग्रहणात्सिद्धं अधातोः(वार्तिकान्त) । उगिति अञ्चतिग्रहणातधातोः सिद्धं । अञ्चतिग्रहणं नियमार्थं भविष्यति । अञ्चतेः एव उगितः धातोः न अन्यस्य उगितः धातोः इति । इदं तर्हि प्रयोजनं अधातुभूतपूर्वस्य अपि यथा स्यात। गोमन्तं इच्छति गोमत्यति गोमत्यतेः अप्रत्ययः गोमानिति ।
(पाणिनीयसूत्र ७,१।७२) कि.,२६३।१५-२६५।१६ रो. V,६२-६६ (कात्यायन वार्तिक)झलचः नुम्विधौ उगित्प्रतिषेधः(वार्तिकान्त) । झलचः नुम्विधौ उगिल्लक्षणस्य प्रतिषेधः वक्तव्यः । गोमन्ति ब्राह्मणकुलानि , श्रेयांसि , भूयांसि । ननु च झल्लक्षणः उगिल्लक्षणं बाधिष्यते । कथं अन्यस्य उच्यमानं अन्यस्य बाधकं स्यात। असति खलु अपि सम्भवे बाधनं भवति अस्ति च सम्भवः यतुभयं स्यात। किं च स्यात्यदि अत्र उगिल्लक्षणः अपि स्यात। द्वयोः नकारयोः श्रवणं प्रसज्येत । न व्यञ्जनपरस्य एकस्य वा अनेअकस्य वा श्रवणं प्रति विशेषः अस्ति । ननु च प्रतिज्ञाभेदः भवति । श्रुतिभेदे अस्ति किं प्रतिज्ञाभेदः करिष्यति । ननु च श्रुतिकृतः अपि भेदः अस्ति । इह तावत्श्रेयांसि , भूयांसि इति परस्य अनुस्वारे कृते पूर्वस्य श्रवणं प्राप्नोति । तथा कुर्वन्ति , कृषन्ति इति परस्य अनुस्वारपरसवर्णयोः कृतयोः पूर्वस्य णत्वं प्राप्नोति । अथ एकस्मिनपि नुमि णत्वं कस्मात्न भवति । अनुस्वारीभूतः णत्वं अतिक्रामति । कृते तर्हि परसवर्णे कस्मात्न भवति । असिद्धे च परसवर्णः । (कात्यायन वार्तिक)विप्रतिषेधात्सिद्धम्(वार्तिकान्त) । विप्रतिषेधात्सिद्धं एतत। झल्लक्षणः क्रियतां उगिल्लक्षणः इति झल्लक्षणः भविष्यति विप्रतिषेधेन । झल्लक्षणस्य अवकाशः । सर्पींषि , धनूंषि । उगिल्लक्षणस्य अवकाशः । गोमान्, यवमान। इह उभयं प्राप्नोति । गोमन्ति ब्राह्मणकुलानि , यवमन्ति ब्राह्मणकुलानि , श्रेयांसि , भूयांसि इति । झल्लक्षणः भविष्यति विप्रतिषेधेन । ननु च पुनःप्रसङ्गविज्ञानातुगिल्लक्षणः प्राप्नोति । (कात्यायन वार्तिक)पुनःप्रसङ्गः इति चेतमादिभिः तुल्यम्(वार्तिकान्त) । पुनः प्रसङ्गः इति चेतमादिभिः तुल्यं एतत्भवति । तत्यथा । युष्मदस्मदोः अमादिषु कृतेषु पुनःप्रसङ्गात्शशीलुग्नुमः न भवन्ति । एवं झल्लक्षणे कृते पुनःप्रसङ्गातुगिल्लक्षणः न भविष्यति । यतपि उच्यते असति खलु अपि सम्भवे बाधनं भवति अस्ति च सम्भवः यतुभयं स्यातिति सति अपि सम्भवे बाधनं भवति । तत्यथा । दधि ब्राह्मणेभ्यः दीयतां तक्रं कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानं निवर्तकं भवति । एवं इह अपि सति अपि सम्भवे झल्लक्षणः उगिल्लक्षणं बाधिष्यते । अथ वा अस्तु अत्र उगिल्लक्षणः अपि । ननु च उक्तं च्वयोः नकारयोः श्रवणं प्रसज्येत इति । परिहृतं एतत्न व्यञ्जनपरस्य एकस्य वा अनेकस्य वा श्रवणं प्रति विशेषः अस्ति । ननु च उक्तं प्रतिज्ञाभेदः भवति इति । श्रुतिभेदे असति प्रतिज्ञाभेदः किं करिष्यति । ननु च श्रुतिकृतः अपि भेदः उक्तः इह तावत्श्रेयांसि , भूयांसि इति परस्य अनुस्वारे कृते पूर्वस्य श्रवणं प्रसज्येत कुर्वन्ति , कृषन्ति इति परस्य अनुस्वारपरसवर्णयोः कृतयोः पूर्वस्य णत्वं प्राप्नोति इति । न एषः दोषः । अयोगवाहानां अविशेषेण उपदेशः चोदितः । तत्र इह तावत्श्रेयांसि , भूयांसि इति परस्य अनुस्वारे कृते तस्य झल्ग्रहणेन ग्रहणात्पूर्वस्य अनुस्वारः भविष्यति कुर्वन्ति , कृषन्ति इति परस्य अनुस्वारपरसवर्णयोः कृतयोः तस्य झल्ग्रहणेन ग्रहणात्पूर्वस्य अनुस्वारपरसवर्णौ भविष्यतः । न एव वा पुनः अत्र उगिल्लक्षणः प्राप्नोति । किं कारणं । मिदचः अन्त्यात्परः इति उच्यते न च द्वयोः मितोः अचां अन्त्यात्परत्वे सम्भवः अस्ति । कथं तर्हि इमौ द्वौ मितौ अचां अन्त्यात्परौ स्तः । बह्वनड्वांहि ब्राह्मणकुलानि इति । विनिमित्तौ एतौ । (कात्यायन वार्तिक)तत्र बहूर्जि प्रतिषेधः(वार्तिकान्त) । तत्र बहूर्जि प्रतिषेधः वक्तव्यः । बहूर्जि ब्राह्मणकुलानि इति । (कात्यायन वार्तिक)अन्त्यात्पूर्वं नुमं एके(वार्तिकान्त) । अन्त्यात्पूर्वं नुमं एके इच्छन्ति । किं अविशेषेण आहोस्वित्बहूर्जौ एव । किं च अतः । यदि अविशेषेण काष्ठतकंषि इति भवितव्यं । अथ बहूर्जौ एव काष्ठतङ्क्षि इति भवितव्यं । एवं तर्हि बहूर्जौ एव । बहूर्ञ्जि । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । अचः इति एषा पञ्चमी । अचः उत्तरः यः झल्तदन्तस्य नपुंसकस्य नुमा भवितव्यं । यः च अत्र अचः उत्तरः न असौ झल्न अपि तदन्तं नपुंसकं यदन्तं च नपुंसकं न असौ अचः उत्तरः । इह अपि तर्हि न प्राप्नोति । काष्ठतङ्क्षि इति । अत्र यः अचः उत्तरः झल्न तदन्तं नपुंसकं यदन्तं च नपुंसकं न असौ अचः उत्तरः । न एततस्ति । झल्जातिः प्रतिनिर्दिश्यते । अचः उत्तरा या झल्जातिः इति । यदि पञ्चमी कुण्डानि , वनानि इति अत्र न प्राप्नोति । एव तर्हि इकः अचि विभक्तौ इति अत्र अचः सर्वनामस्थाने इति एततनुवर्तिष्यते । एवं अपि षष्ठ्यभावात्न प्राप्नोति । सर्वनामस्थाने इति एषा सप्तमी अचः इति पञ्चम्याः षष्ठीं प्रकल्पयिष्यति तस्मिनिति निर्दिष्टे पूर्वस्य इति ।
(पाणिनीयसूत्र ७,१।७३) कि.,२६५।१८-२६७।१२ रो. V,६६-६९ अज्ग्रहणं किमर्थं । (कात्यायन वार्तिक)इकः अचि व्यञ्जने मा भूत्(वार्तिकान्त) । इकः अचि इति उच्यते व्यञ्जनादौ मा भूत। त्रपुभ्यां , त्रपुभिः । (कात्यायन वार्तिक)अस्तु लोपः(वार्तिकान्त) । अस्तु अत्र नुं । नलोपः प्रातिपदिकान्तस्य इति नलोपः भविष्यति । (कात्यायन वार्तिक)स्वरः कथम्(वार्तिकान्त) पञ्चत्रपुभ्यां , पञ्चत्रपुभ्यः । इगन्ते द्विगौ इति एषः स्वरः न प्राप्नोति । (कात्यायन वार्तिक)स्वरः वै श्रूयमाणे अपि(वार्तिकान्त) । श्रूयमाणे अपि नुमि स्वरः भवति । पञ्चत्रपुणा , पञ्चत्रपुणः इति । (कात्यायन वार्तिक)लुप्ते किं न भविष्यति(वार्तिकान्त) । लुप्ते इदानीं किं न भविष्यति । किं पुनः कारणं श्रूयमाने अपि नुमि स्वरः भवति । सङ्घातभक्तः असौ न उत्सहते अवयवस्य इगन्ततां विहन्तुं इति कृत्वा ततः श्रूयमाणे अपि नुमि स्वरः भवति । इदं तर्हि । अतिराभ्यां , अतिराभिः । नुमि कृते रायः हलि इति आत्वं न प्राप्नोति । इदं इह सम्प्रधार्यं । नुं क्रियतां आत्वं इति किं अत्र कर्तव्यं । परत्वातात्वं । इह तर्हि प्रियतिसृभ्यां प्रियतिसृभिः नुमि कृते तिसृभावः न प्राप्नोति । इदं इह सम्प्रधार्यं । नुं क्रियतां तिसृभावः इति किं अत्र कर्तव्यं । परत्वात्तिसृभावः । अथ इदानीं तिसृभावे कृते पुनःप्रसङ्गात्नुं कस्मात्न भवति । सकृद्गतौ विप्रतिषेधे यत्बाधितं तत्बाधितं एव इति । अतः उत्तरं पठति । (कात्यायन वार्तिक)इकः अचि विभक्तौ अज्ग्रहणं नुम्नुटोः विप्रतिषेधार्थम्(वार्तिकान्त) । इकः अचि विभक्तौ अज्ग्रहणं क्रियते नुमः नुट्विप्रतिषेधेन यथा स्यात। त्रपूणां , जतूनां । अक्रियमाणे हि अज्ग्रहणे नित्यनिमित्तः नुं । कृते अपि नुटि प्राप्नोति अकृते अपि । नित्यनिमित्तत्वात्नुमि कृते नुटः अभावः स्यात। एततपि न अस्ति प्रयोजनं । क्रियमाणे अपि वा अज्ग्रहणे अवश्यं अत्र नुडर्थः यत्नः कर्तव्यः । पूर्वविप्रतिषेधः वक्तव्यः । इदं तर्हि प्रयोजनं नुटि कृते नुं मा भूतिति । किं च स्यात। त्रपूणां , जतूनां । (कात्यायन वार्तिक)इतरथा हि नुमः नित्यनिमित्तत्वात्नुडभावः(वार्तिकान्त) । नामि इति दीर्घत्वं न स्यात। मा भूतेवं । नोपधायाः इति एवं भविष्यति । इह तर्हि शुचीनां इन्हन्पूषार्यम्णां शौ सौ च इति अस्मात्नियमात्न प्राप्नोति दीर्घत्वं । अर्थवद्ग्रहणे न अनर्थकस्य इति एवं न भविष्यति । न एषा परिभाषा इह शक्या विज्ञातुं । इह हि दोषः स्यात। वाग्मि इति । एवं तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति । (कात्यायन वार्तिक)उत्तरार्थं च(वार्तिकान्त) । उत्तरार्थं तर्हि अज्ग्रहणं कर्तव्यं । अस्थिदधिसक्थ्यक्ष्णां अनङुदात्तः अजादौ यथा स्यात। इह मा भूत। अस्थिभ्यां , अस्थिभिः इति । यदि उत्तरार्थं स्यात्तत्र एव अयं अज्ग्रहणं कुर्वीत । इह क्रियमाणे यदि किं चित्प्रयोजनं अस्ति ततुच्यतां । इह अपि क्रियमाणे प्रयोजनं अस्ति । किं । अजादौ यथा स्यात। इह मा भूत। त्रपु , जतु । एततपि न अस्ति प्रयोजनं । विभक्तौ इति उच्यते न च अत्र विभक्तिं पश्यामः । प्रत्ययलक्षणेन । न लुमता अङ्गस्य इति प्रत्ययलक्षणस्य प्रतिषेधः । एवं तर्हि सिद्धे सति यतज्ग्रहणं करोति तत्ज्ञापयति आचार्यः भवति इह कः चितन्यः अपि प्रकारः प्रत्ययलक्षणं नाम इति । किं एतस्य ज्ञापने प्रयोजनं । हे त्रपु , हे त्रपो । अत्र गुणः सिद्धः भवति इति । (कात्यायन वार्तिक)इकः अचि व्यञ्जने मा भूतस्तु लोपः स्वरः कथं । स्वरः वै श्रूयमाणे अपि लुप्ते किं न भविष्यति । रायात्वं तिसृभावः च व्यवधानात्नुमा अपि नुट्वाच्यः उत्तरार्थं तु इह किं चित्त्रपः इति(वार्तिकान्त) ।
(पाणिनीयसूत्र ७,१।७४) कि.,२६७।१४-२६८।१४ रो. V,७०।२-७२।७ किं इह पुंवद्भावेन अतिदिश्यते । नुम्प्रतिषेधः । कथं पुनः पुंवतिति अनेन नुम्प्रतिषेधः शक्यः विज्ञातुं । वतिनिर्देशः अयं कामचारः च वतिनिर्देशे वाक्यशेषं समर्थयितुं । तत्यथा : उशीनरवत्मद्रेषु यवाः । सन्ति न सन्ति इति । मातृवतस्याः कलाः । सन्ति न सन्ति इति । एवं इह अपि पुंवत्भवति पुंवत्न भवति इति वाक्यशेषं समर्थयिष्यामहे । यथा पुंसः न नुं भवति एवं तृतीयादिषु भाषितपुंस्कस्य अपि न भवति इति । किं उच्यते नुम्प्रतिषेधः इति न पुनः अन्यतपि पुंसः प्रतिपदं कार्यं उच्यते यत्तृतीयादिषु विभक्तिषु अजादिषु भाषितपुंस्कस्य अतिदिश्येत । अनारम्भात्पुंसि । न हि किं चित्पुंसः प्रतिपदं कार्यं उच्यते यत्तृतीयादिषु अजादिषु भाषितपुंस्कस्य अतिदिश्येत । नुं प्रकृतः तत्र किं अन्यत्शक्यं विज्ञातुं अन्यततः नुम्प्रतिषेधात। (कात्यायन वार्तिक)पुंवतिति नुम्प्रतिषेधः चेत्गुणनाभावनुडौत्त्वप्रतिषेधः(वार्तिकान्त) । पुंवतिति न्जुम्प्रतिषेधः चेत्गुणनाभावनुडौत्त्वानां प्रतिषेधः वक्तव्यः । गुण । ग्रामण्ये ब्राह्मणकुलाय । गुण । नाभाव । ग्रामण्या ब्राह्मणकुलेन । नाभाव । नुट। ग्रामण्यां ब्राह्मणकुलानां । नुट। औत्त्वं । ग्रामण्यां ब्राह्मणकुले । ह्रस्वत्वं अप्रतिषिद्धं ह्रस्वाश्रयाः च एते विधयः प्राप्नुवन्ति । (कात्यायन वार्तिक)ह्रस्वाभावार्थं च(वार्तिकान्त) । किं च । नुम्प्रतिषेधार्थं च । कथं पुनः अत्र अप्रकृतस्य असंशब्दितस्य ह्रस्वत्वस्य प्रतिषेधः शक्यः विज्ञातुं । (कात्यायन वार्तिक)अर्थातिदेशात्सिद्धम्(वार्तिकान्त) । न एवं विज्ञायते भाष्यते पुमाननेन शब्देन सः अयं भाषितपुंस्कः भाषितपुंस्कस्य शब्दस्य पुंशब्दः भवति इति । कथं तर्हि । भाष्यते पुमानस्मिनर्थे सः अयं भाषितपुंस्कः भाषितपुंस्कस्य अर्थस्य पुंवदर्थः भवति इति । (कात्यायन वार्तिक)तद्धितलुक्प्रतिषेधः च(वार्तिकान्त) । तद्धितलुकः च प्रतिषेधः वक्तव्यः । पीलुः वृक्षः , पीलु फलं । पीलुना , पिलुनः इति । (कात्यायन वार्तिक)न वा समानायां आकृतौ भाषितपुंस्कविज्ञानात्(वार्तिकान्त) । न वा वक्तव्यं । किं कारणं । समानायां आकृतौ भाषितपुंस्कविज्ञानात। समानायां आकृतौ यत्भाषितपुंस्कं आकृत्यन्तरे च एतत्भाषितपुंस्कं । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । एततपि अर्थनिर्देशात्सिद्धं ।
(पाणिनीयसूत्र ७,१।७७) कि.,२६८।१६-२४ रो. V,७२।९-७३।८ किं उदाहरणं । अक्षी ते इन्द्र पिङ्गले । न एततस्ति । पूर्वसवर्णेन अपि एतत्सिद्धं । इदं तर्हि । अक्षीभ्यां ते नासिकाभ्यां । इदं च अपि उदाहरणं । अक्षी ते इन्द्र पिङ्गले । ननु च उक्तं पूर्वसवर्णेन अपि एतत्सिद्धं इति । न सिध्यति । नुमा व्यवहितत्वात्पूर्वसवर्णः न प्राप्नोति । छन्दसि नपुंसकस्य पुंवद्भावः वक्तव्यः मधोः गृभ्णामि , मधोः तृप्ताः इव असतः इति एवमर्थं । पुंवद्भावेन नुमः निवृत्तिः नुमि निवृत्ते पूर्वसवर्णेन एव सिद्धं । स्वरार्थः तर्हि ईकारः वक्तव्यः । उदात्तस्वरः यथा स्यात्नपुंसकस्वरः मा भूतिति । ननु च पुंवद्भावातिदेशातेव स्वरः भविष्यति । अशक्यः पुंवद्भावातिदेशः स्वरे तन्त्रं आश्रयितुं । इह हि दोषः स्यातः मधु अस्मिनस्ति मधुः मासः इति । सः तर्हि पुंवद्भावः वक्तव्यः । न वक्तव्यः । प्रकृतं पुंवतिति वर्तते ।
(पाणिनीयसूत्र ७,१।७८) कि.,२६९।२-८ रो. V,७४।२-८ कस्य अयं प्रतिषेधः । नुमः इति आह । तत्नुमः ग्रहणं कर्तव्यं । न कर्तव्यं । प्रकृतं अनुवर्तते । क्व प्रकृतं । इदितः नुं धातोः इति तत्वा अनेकग्रहणेन व्यवच्छिन्नं अशक्यं अनुवर्तयितुं । एवं तर्हि सर्वनामस्थाने इति वरते सर्वनामस्थाने यत्प्राप्नोति तस्य प्रतिषेधः । तत्वै बहुतरकेण ग्रहणेन व्यवच्छिन्नं अशक्यं अनुवर्तयितुं । अथ इदानीं व्यवहितं अपि शक्यते अनुवर्तयितुं नुं एव अनुवर्त्य इह इहार्थं उत्तरार्थं च । इह च एव प्रतिषेधः सिद्धः भवति इह च आत्शीनद्योः नुं इति नुम्ग्रहणं न कर्तव्यं भवति ।
(पाणिनीयसूत्र ७,१।८०) कि.,२६९।१०-१४ रो. V,७४।१०-७५।४ इह कस्मात्न भवति । अदती , घ्नती , लुनती , पुनती । लोपे कृते अवर्णाभावात। किं तर्हि अस्मिन्योगे उदाहरणं । याती , यान्ती । अत्र अपि एकादेशे कृते व्यपवर्गाभावात्न प्राप्नोति । अन्तादिवद्भावेन व्यपवर्गः । उभयतः आश्रये न अन्तादिवत। न उभयतः आश्रयः करिष्यते । न एवं विज्ञायते अवर्णान्तात्शतुः नुं भवति इति । कथं तर्हि । अवर्णात्नुं भवति तत्चेतवर्णं शतुः अनन्तरं इति ।
(पाणिनीयसूत्र ७,१।८१) कि.,२६९।१६-१८ रो. V,७५।६-८ नित्यग्रहणं किमर्थं । विभाषा मा भूतिति । न एततस्ति प्रयोजनं । सिद्धः अत्र पूर्वेण एव । तत्र आरम्भसामर्थ्यात्नित्यः विधिः भविष्यति । ततेतत्नित्यग्रहणं सान्न्यासिकं तिष्ठतु तावत।
(पाणिनीयसूत्र ७,१।८२) कि.,२६९।२१-२७०।१७ रो. V,७५।१४-७६।१४ (कात्यायन वार्तिक)अनडुहः सौ आम्प्रतिषेधः नुमः अनवकाशत्वात्(वार्तिकान्त) । अनडुहः सौ आम्प्रतिषेधः प्राप्नोति । किं कारणं । नुमः अनवकाशत्वात। अनवकाशः नुं आमं बाधते । (कात्यायन वार्तिक)न वा अवर्णोपधस्य नुम्वचनात्(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । अवर्णोपधस्य नुम्वचनात। अवर्णोपधस्य नुमं वक्ष्यामि । तदर्थग्रहणं कर्तव्यं । न कर्तव्यं । प्रकृतं अनुवर्तते । क्व प्रकृतं । आत्शीनद्योः नुं इति । यदि ततनुवर्तते अनडुहि यावन्ति अवर्णानि सर्वेभ्यः परः नुं प्राप्नोति । न एषः दोषः । मितचः अन्त्यात्परः इति अनेन यत्सर्वान्त्यं अवर्णं तस्मात्परः भविष्यति । (कात्यायन वार्तिक)पुनःप्रसङ्गविज्ञानात्वा सिद्धम्(वार्तिकान्त) । अथ वा पुनःप्र्सङ्गात्नुमि कृते आं भविष्यति । (कात्यायन वार्तिक)यथात्त्वादिषु द्विर्वचनम्(वार्तिकान्त) । तत्यथा जग्ले , मम्ले , ईजतुः , ईजुः इति आत्त्वादिषु कृतेषु पुनःप्रसङ्गात्द्विर्वचनं भवति एवं अत्र अपि नुमि कृते आं भविष्यति । न एषः युक्तः परिहारः । विप्रतिषेधे पुनःप्रसङ्गः विप्रतिषेधः च द्वयोः सावकाशयोः भवति । इह पुनः अनवकाशः नुं आमं बाधते । एवं तर्हि वृत्तान्तातेषः परिहारः प्रस्थितः । कस्मात्वृत्तान्तात। इदं अयं चोद्यः भवति अनडुहः सौ आम्प्रतिषेधः नुमः अनवकाशत्वातिति । तस्य परिहारः न वा अवर्णोपधस्य नुम्वचनातिति । ततः अयं चोद्यः भवति यत्र तर्हि अवर्णप्रकरणं न अस्ति तत्र तः आमा नुमः बाधनं प्राप्नोति बह्वन्ड्वांहि ब्राह्मणकुलानि इति । ततः उत्तरकालं इदं पठितं पुनःप्रसङ्गविज्ञानात्वा सिद्धं इति ।
(पाणिनीयसूत्र ७,१।८४) कि.,२७०।१९-२७१।३ रो. V,७७।२-११ (कात्यायन वार्तिक)दिवः औत्त्वे धातुप्रतिषेधः(वार्तिकान्त) । दिवः औत्त्वे धातोः प्रतिषेधः वक्तव्यः । अक्षद्यूः इति । अधात्वधिकारात्सिद्धं । अधातोः इति वर्तते । क्व प्रकृतं । उगिदचां सर्वनामस्थाने अधातोः इति । (कात्यायन वार्तिक)अधात्वधिकारात्सिद्धं इति चेत्नपुंसके दोषः(वार्तिकान्त) । अधात्वधिकारात्सिद्धं इति चेत्नपुंसके दोषः भवति । काष्ठतङ्क्षि , कूटतङ्क्षि । नपुंसकस्य झलचः अधातोः इति प्रतिषेधः प्राप्नोति । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । अननुबन्धकग्रहणे हि न सानुबन्धकस्य इति । अथ वा सम्बन्धं अनुवर्तिष्यते ।
(पाणिनीयसूत्र ७,१।८६) कि.,२७१।५-८ रो. V,७७।१३-७८।४ (कात्यायन वार्तिक)इतः अद्वचनं अनर्थकं आकारप्रकरणात्(वार्तिकान्त) । इतः अद्वचनं अनर्थकं । किं कारणं । आकारप्रकरणात। आतिति वर्तते । (कात्यायन वार्तिक)षपूर्वार्थं तु(वार्तिकान्त) । षपूर्वार्थं तर्हि अत्वक्तव्यः । ऋभुक्षाणं इन्द्रं , ऋभुक्षणं इन्द्रं ।
(पाणिनीयसूत्र ७,१।८९) कि.,२७१।१०-२० रो. V,७८।-७९ (कात्यायन वार्तिक)असुङि उपदेशिवद्वचनं स्वरसिद्ध्यर्थं बहिरङ्गलक्षणत्वात्(वार्तिकान्त) । असुङि उपदेशिवद्भावः वक्तव्यः । उपदेशावस्थायां एव असुङ्भवति इति वक्तव्यं । किं प्रयोजनं । स्वरसिद्ध्यर्थं । उपदेशावस्थायां असुङि कृते इष्टः स्वरः यथा स्यात। परमपुमानिति । अक्रियमाणे हि उपदेशिवद्भावे समासान्तोदात्तत्वे असुङान्तर्यतः अस्वरकस्य अस्वरकः स्यात। किं पुनः कारणं समासान्तोदात्तत्वं तावत्भवति न पुनः असुङ। न परत्वातसुङा भवितव्यं । बहिर्ङ्गलक्षणत्वात। बहिरङ्गलक्षणः असुङ। अन्तरङ्गः स्वरः । असिद्धं बहिरङ्गं अन्तरङ्गे । सः तर्हि उपदेशिवद्भावः वक्तव्यः । न वक्तव्यः । आद्युदात्तनिपातनं करिष्यते सः निपातनस्वरः समासस्वरस्य बाधकः भविष्यति । एवं अपि उपदेशिवद्भावः वक्तव्यः । सः यथा एव हि निपातनस्वरः समासस्वरं बाधते एवं प्रकृतिस्वरं अपि बाधेत । पुमान। तस्मात्सुष्ठु उच्यते असुङि उपदेशिवद्वचनं स्वरसिद्ध्यर्थं बहिरङ्गलक्षणत्वातिति ।
(पाणिनीयसूत्र ७,१।९०) कि.,२७१।२२-२७२।२२ रो. V,७९।७-८१।७ किं इदं गोतः परस्य सर्वनामस्थानस्य ङित्त्वं उच्यते आहोस्वित्सर्वनामस्थाने परतः ङित्कार्यं अतिदिश्यते । कः च अत्र विशेषः । (कात्यायन वार्तिक)गोतः सर्वनामस्थाने ङित्कार्यातिदेशः(वार्तिकान्त) । गोतः सर्वनामस्थाने ङित्कार्यं अतिदिश्यते । (कात्यायन वार्तिक)सर्वनामस्थाने णित्त्ववचने हि असम्प्रत्ययः षष्ठ्यनिर्देशात्(वार्तिकान्त) । सर्वनामस्थानस्य णिद्वचने हि असम्प्रत्ययः स्यात। किं कारणं । षष्ठ्यभावात। षष्ठीनिर्दिष्टस्य आदेशाः उच्यन्ते न च अत्र षष्ठीं पश्यामः । एवं तर्हि वतिनिर्देशः अयं : गोतः ङिद्वत्भवति इति । सः तर्हि वतिनिर्देशः कर्तव्यः न हि अन्तरेण वतिं अतिदेशः गम्यते । अन्तरेण अपि वतिं अतिदेशः गम्यते । तत्यथा : एषः ब्रह्मदत्तः । अब्रह्मदत्तं ब्रह्मदत्तः इति आह । ते मन्यामहे : ब्रह्मदत्तवतयं भवति इति । एवं इह अपि अणितं णितिति आह णिद्वतिति गम्यते । अथ वा पुनः अस्तु गोतः परस्य सर्वनामस्थानस्य णित्त्वं । ननु च उक्तं सर्वनामस्थाने णित्त्ववचने हि असम्प्रत्ययः षष्ठ्यनिर्देशातिति । न एषः दोषः । गोतः इति एषा पञ्चमी सर्वनामस्थाने इति सप्तम्याः षष्ठीं प्रकल्पयिष्यति तस्मातिति उत्तरस्य इति । अथ तपरकरणं किमर्थं । इह मा भूत। चित्रगुः शबलगुः इति । न एततस्ति । ह्रस्वत्वे कृते न भविष्यति । स्थानिवद्भावात्प्राप्नोति । अतः उत्तरं पठति । (कात्यायन वार्तिक)तपरकरणं अनर्थकं स्थानिवत्प्रतिषेधात्(वार्तिकान्त) । तपरकर्णं अनर्थकं । किं कारणं । स्थानिवत्प्रतिषेधात। प्रतिषिध्यते अत्र स्थानिवद्भावः गोः पूर्वणित्त्वात्वस्वरेषु स्थानिवद्भावः न भवति इति । सः च अवश्यं प्रतिषेधः आश्रयितव्यः । (कात्यायन वार्तिक)इतरथा हि सम्बुद्धिजसोः प्रतिषेधः(वार्तिकान्त) । यः हि मन्यते तपरकरणसामर्थ्यातत्र न भविष्यति इति सम्बुद्धिजसोः तेन प्रतिषेधः वक्तव्यः स्यातः हे चित्रगो चित्रगवः इति । अथ इदानीं सति अपि स्थानिवद्भावप्रतिषेध गुणे कृते कस्मातेव अत्र न भवति । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति । ननु च इदानीं असति अपि स्थानिवद्भावप्रतिषेधे एतया परिभाषया शक्यं उपस्थातुं । न इति आह न हि इदानीं क्व चितपि स्थानिवत्स्यात।
(पाणिनीयसूत्र ७,१।९५-९६।१) कि.,२७२।२५-२७३।१९ रो. V,८१-८४ अथ अत्र विभक्तौ इति अनुवर्तते उताहो न । किं च अतः । (कात्यायन वार्तिक)तृज्वत्स्त्रियां विभक्तौ चेत्क्रोष्ट्रीभक्तिः न सिध्यति(वार्तिकान्त) । तृज्वत्स्त्रियां विभक्तौ चेत्क्रोष्ट्रीभक्तिः इति न सिध्यति । एवं तर्हि ईकारे तृज्वद्भावं वक्ष्यामि । ततीकारग्रहणं कर्तव्यं । न कर्तव्यं । क्रियते न्यासे एव । प्रश्लिष्टनिर्देशः अयं । स्त्री , ई स्त्री स्त्रियां इति । (कात्यायन वार्तिक)ईकारे तन्निमित्तः सः(वार्तिकान्त) । ईकारे चेत्तत्न । किं कारणं । तन्निमित्तः सः । तृज्वद्भावनिमित्तः सः ईकारः । न अकृते तृज्वद्भावे ईकारः प्राप्नोति । किं कारणं । ऋन्नेभ्यः ङीपिति उच्यते ईकारे च तृज्वद्भावः । ततिदं इतरेतराश्रयं भवति । इतरेतराश्रयाणि च न प्रकल्पन्ते । एवं तर्हि गौरादिषु पाठातीकारः भविष्यति । (कात्यायन वार्तिक)गौरादिषु न पठ्यते(वार्तिकान्त) । न हि किं चित्तुनन्तं गौरादिषु पठ्यते । एवं तर्हि एतत्ज्ञापयति आचार्यः भवति अत्र ईकारः इति यतयं ईकारे तृज्वद्भावं शास्ति । (कात्यायन वार्तिक)तेन एव भावनं चेत्स्यातनिष्टः अपि प्रसज्यते(वार्तिकान्त) । यदि अपि न अस्ति विशेषः ङीपः वा ङीषः वा ङीनपि तु प्राप्नोति । इह च न प्राप्नोति । पञ्चभिः क्रोष्ट्रीभिः क्रीतैः रथैः पञ्चक्रोष्टृभिः रथैः इति । एवं तर्हि न च अपरं निमित्तं सञ्ज्ञा च प्रत्ययलक्षणेन । न च अपरं निमित्तं आश्रीयते : अस्मिन्परतः क्रोष्टुः तृज्वत्भवति इति । किं तर्हि अङ्गस्य क्रोष्टुः तृज्वत्भवति । अङ्गसञ्ज्ञा च भवति प्रत्ययलक्षणेन ।
(पाणिनीयसूत्र ७,१।९५-९६।२) कि.,२७३।२०-२७५।२२ रो. V,८४-९१ किं पुनः अयं शास्त्रातिदेशः : तृचः यत्शास्त्रं तततिदिश्यते । आहोस्वित्रूपातिदेशः : तृचः यत्रूपं तततिदिश्यते इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)तृज्वतिति शास्त्रातिदेशः चेत्यथा चिणि तद्वत्(वार्तिकान्त) । तृज्वतिति शास्त्रातिदेशः चेत्यथा चिणि तद्वत्प्राप्नोति । कथं च चिणि । उक्तं अङ्गस्य इति तु प्रकरणाताण्गशास्त्रातिदेशात्सिद्धं इति । आङ्गं यत्कार्यं तततिदिश्यते । एवं इह अपि अनङ्गुणदीर्घत्वानि अतिदिष्टानि रपरत्वं अनतिदिष्टं । तत्र कः दोषः । (कात्यायन वार्तिक)तत्र रपरवचनम्(वार्तिकान्त) । तत्र रपरत्वं न सिध्यति तत्वक्तव्यं । न एषः दोषः । गुणे अतिदिष्टे रपरत्वं अपि अतिदिष्टं भवति । कथं । कार्यकालं सञ्ज्ञापरिभाषं यत्र कार्यं तत्र द्रष्टव्यं । ऋतः ङिसर्वनामस्थानयोः गुङः भवति । उपस्थितं इदं भवति उः अण्रपरः इति । एवं तर्हि अयं अन्यः दोषः जायते । आहत्य तृचः यत्शास्त्रं तततिदिश्येत अनाहत्य वा इति । किं च अतः । यदि आहत्य दीर्घत्वं अतिदिष्टं अनङ्गुणरपरत्वानि अनतिदिष्टानि । अथ अनाहत्य अनङ्गुणरपरत्वानि अतिदिष्टानि दीर्घत्वं अनतिदिष्टं । अस्तु आहत्य । ननु च उक्तं दीर्घत्वं अतिदिष्टं अनङ्गुणरपरत्वानि अनतिदिष्टानि इति । न एषः दोषः । दीर्घत्वे अतिदिष्टे अनङ्गुणरपरत्वानि अपि अतिदिष्टानि भवन्ति । कथं । उपधायाः इति वर्तते न च अकृतेषु एतेषु दीर्घभाविनि उपधा भवति । कुतः नु खलु एततेतेषु विधिषु कृतेषु या उपधा तस्याः दीर्घत्वं भविष्यति न पुनः क्रोष्टोः यः अन्तरतमः गुणः तस्मिन्कृते अवादेशे च या उपधा तस्याः दीर्घत्वं भविष्यति । न एकं उदाहरणं योगारम्भं प्रयोजयति इति । तत्र तृज्वद्वचनसामर्थ्यातेतेषु विधिषु कृतेषु या उपधा तस्याः दीर्घत्वं भविष्यति । अथ वा किं नः एतेन आहत्य अनाहत्य वा इति । आहत्य अनाहत्य च तृचः यत्शास्त्रं तततिदिश्यते । अथ वा पुनः अस्तु रूपातिदेशः । अथ एतस्मिन्रूपातिदेशे सति किं प्राकादेशेभ्यः यत्रूपं तततिदिश्यते आहोस्वित्कृतेषु आदेशेषु । किं च अतः । यदि प्राकादेशेभ्यः यत्रूपं तततिदिश्यते ऋकारः एकः अतिदिष्टः अनङ्गुणरपरत्वदीर्घत्वानि अनतिदिष्टानि । अथ कृतेषु आदेशेषु ऋकारः अनतिदिष्टः अनङ्गुणरपरत्वदीर्घत्वानि अतिदिष्टानि । उभयथा च स्वरः अनतिदिष्टः न हि स्वरः रूपवान। अस्तु प्राकादेशेभ्यः यत्रूपं तततिदिश्यते । ननु च उक्तं ऋकारः अतिदिष्टः अनङ्गुणरपरत्वदीर्घत्वानि अनतिदिष्टानि इति । न एषः दोषः । ऋकारे अतिदिष्टे स्वाश्रयाः अत्र एते विधयः भविष्यन्ति । यतपि उच्यते उभयथा च स्वरः अनतिदिष्टः न हि स्वरः रूपवानिति सचकारग्रहणसामर्थ्यात्स्वरः भविष्यति । (कात्यायन वार्तिक)रूपातिदेशः इति चेत्सर्वादेशप्रसङ्गः(वार्तिकान्त) । रूपातिदेशः इति चेत्सर्वादेशः प्राप्नोति । सर्वस्य तुनन्तस्य तृशब्दः आदेशः प्राप्नोति । (कात्यायन वार्तिक)सिद्धं तु रूपातिदेशात्(वार्तिकान्त) । सिद्धं एतत। कथं । रूपातिदेशात। रूपातिदेशः अयं । ननु च एवं एव कृत्वा चोद्यते रूपातिदेशः इति चेत्सर्वादेशप्रसङ्गः इति । (कात्यायन वार्तिक)सिद्धं तु प्रत्ययग्रहणे यस्मात्सः तदादितदन्तविज्ञानात्(वार्तिकान्त) । सिद्धं एतत। कथं । प्रत्ययग्रहणे यस्मात्सः विहितः तदादेः तदन्तस्य च ग्रहणं भवति इति एवं तुनन्तस्य तृजन्तः आदेशः भविष्यति । एवं अपि किं चितेव तृजन्तं प्राप्नोति । इदं अपि प्राप्नोति पक्ता इति । (कात्यायन वार्तिक)आन्तरतम्यात्च सिद्धम्(वार्तिकान्त) । क्रोष्टोः यतन्तरतमं तत्भविष्यति । किं पुनः तत। क्रुशेः यः तृच्विहितः तदन्तं । (कात्यायन वार्तिक)तृज्वद्वचनं अनर्थकं तृज्विषये तृचः मृगवाचित्वात्(वार्तिकान्त) । तृज्विषये एतत्तृजन्तं मृगवाचि । तुनः निवृत्त्यर्थं तर्हि इदं वक्तव्यं । तुनः सर्वनामस्थाने निवृत्तिः यथा स्यात। (कात्यायन वार्तिक)तुनः निवृत्त्यर्थं इति चेत्सिद्धं यथा अन्यत्र अपि(वार्तिकान्त) । तुनः निवृत्त्यर्थं इति चेत्ततन्तरेण वचनं सिद्धं यथा अन्यत्र अपि अविशेषविहिताः शब्दाः नियतविषयाः दृश्यन्ते । क्व अन्यत्र । तत्यथा । घरतिः अस्मै अविशेषेण उपदिष्टः सः घृतं , घृणा , घर्मः इति एवंविषयः । रशिः अस्मै अविशेषेण उपदिष्टः सः राशिः , रश्मिः , रशना इति एवंविषयः । लुशिः अस्मै अविशेषेण उपदिष्टः सः लोष्टः इति एवंविषयः । इदं तर्हि प्रयोजनं विभाषा वक्ष्यामि इति । विभाषा तृतीयादिषु अचि इति । (कात्यायन वार्तिक)वावचनानर्थक्यं च स्वभावसिद्धत्वात्(वार्तिकान्त) । वावचनं च अनर्थकं । किं कारणं । स्वभावसिद्धत्वात। स्वभावतः एव तृतीयादिषु अजादिषु विभक्तिषु तृजन्तं च तुनन्तं च मृगवाचि इति ।
(पाणिनीयसूत्र ७,१।९५-९६।३) कि.,२७५।२३-२७६।२२ रो. V,९१-९२ (कात्यायन वार्तिक)गुणवृद्ध्यौत्त्वतृज्वद्भावेभ्यः नुं पूर्वविप्रतिषिद्धम्(वार्तिकान्त) । गुणवृद्ध्यौत्त्वतृज्वद्भावेभ्यः नुं भवति पूर्वविप्रतिषेधेन । तत्र गुणस्य अवकाशः । अग्नये , वायवे । नुमः अवकाशः । त्रपुणी , जतुनी । इह उभयं प्राप्नोति । त्रपुणे , जतुने । वृद्धेः अवकाशः । सखायै । सखायः । नुमः सः एव । इह उभयं प्राप्नोति । अतिसखीनि ब्राह्मणकुलानि इति । औत्त्वस्य अवकाशः । अग्नौ , वायौ । नुमः सः एव । इह उभयं प्राप्नोति । त्रपुणि , जतुनि इति । तृज्वद्भावस्य अवकाशः । क्रोष्टुना । नुमः सः एव । इह उभयं प्राप्नोति । कृशकृओष्टुने अर्ण्याय । हितक्रोष्टुने वृषलकुलाय । नुं भवति पूर्वविप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । इष्टवाची परशब्दः । विप्रतिषेधे परं यतिष्टं तत्भवति इति । (कात्यायन वार्तिक)नुमचिरतृज्वद्भावेभ्यः नुट्(वार्तिकान्त) । नुमचिरतृज्वद्भावेभ्यः नुट्पूर्वविप्रतिषेधेन वक्तव्यः । नुमः अवकाशः । त्रपूणि , जतूनि । नुटः अवकाशः । अग्नीनां , वायूनां । इह उभयं प्राप्नोति । त्रपूणां , जतूनां । अचि रादेशस्य अवकाशः । तिस्रः तिष्ठन्ति चतस्रः तिष्ठन्ति । नुटः सः एव । इह उभयं प्राप्नोति । तिसृणां , चतसृणां । तृज्वद्भावस्य अवकाशः । क्रोष्ट्रा , क्रोष्टुना । नुटः सः एव । इह उभयं प्राप्नोति । क्रोष्टूनां । नुट्भवति पूर्वविप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । (कात्यायन वार्तिक)न वा नुड्विषये रप्रतिषेधात्(वार्तिकान्त) । न वा एतत्विप्रतिषेधेन अपि सिध्यति तिसृणां , चतसृणां इति । कथं तर्हि सिध्यति । नुड्विषये रप्रतिषेधात। नुड्विषये रप्रतिषेधः वक्तव्यः । (कात्यायन वार्तिक)इतरथा हि सर्वापवादः(वार्तिकान्त) । इतरथा हि सर्वापवादः रादेशः । सः यथा एव गुणपूर्वसवर्णौ बाधते एव नुटं अपि बाधेत । (कात्यायन वार्तिक)तस्मात्नुड्विषये रप्रतिषेधः(वार्तिकान्त) । तस्मात्नुड्विषये रादेशस्य प्रतिषेधः वक्तव्यः । न वक्तव्यः । आचार्यप्रवृत्तिः ज्ञापयति न रादेशः नुटं बाधते इति यतयं न तिसृचतसृ , इति प्रतिषेधं शास्ति नामि दीर्घत्वस्य ।
(पाणिनीयसूत्र ७,१।९८) कि.,२७६।२४-२५ रो. V,९२।१२-१३ (कात्यायन वार्तिक)आं अनडुहः स्त्रियां वा(वार्तिकान्त) । आं अनडुहः स्त्रियां वा इति वक्तव्यं । अनडुही , अनड्वाही ।
(पाणिनीयसूत्र ७,१।१००-१०२) कि.,२७७।४-८ रो. V,९३।४-८ इत्त्वोत्त्वाभ्यां गुणवृद्धी भवतः विप्रतिषेधेन । इत्त्वोत्त्वयोः अवकाशः । आस्तीर्णं , निपूर्ताः पिण्डाः । गुणवृद्ध्योः अवकाशः । चयनं , चायकः , लवनं , लावकः । इह उभयं प्राप्नोति । आस्तरणं , आस्तारकः , निपरणं , निपारकः । गुणवृद्धी भवतः विप्रतिषेधेन । अयुक्तः अयं विप्रतिषेधः यः अयं गुणस्य इत्त्वोत्तयोः च । कथं । नित्यः गुणः ।
(पाणिनीयसूत्र ७,२।१) कि.,२७८।२-१५ रो. V,९४।३-९५।९ (कात्यायन वार्तिक)सिचि वृद्धौ ओकारप्रतिषेधः(वार्तिकान्त) । सिचि वृद्धौ ओकारस्य प्रतिषेधः वक्तव्यः । उदवोढां , उदवोढं , उदवोढ इति । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । ओकारात्वृद्धिः विप्रतिषेधेन । ओत्त्वं क्रियतां वृद्धिः इति । वृद्धिः भविष्यति विप्रतिषेधेन । (कात्यायन वार्तिक)ओकारात्वृद्धिः विप्रतिषेधेन इति चेतोत्त्वाभावः(वार्तिकान्त) । ओकारात्वृद्धिः विप्रतिषेधेन इति चेतोत्त्वस्य अभावः । उदवोढां , उदवोढं । उदवोढ इति । न एषः दोषः । उक्तं तत्र वर्णग्रहणस्य प्रयोजनं वृद्धौ अपि कृतायां ओत्त्वं यथा स्यात। (कात्यायन वार्तिक)पुनःप्रसङ्गविज्ञानात्वा सिद्धं यथा प्रसारणादिषु द्विर्वचनम्(वार्तिकान्त) । अथ वा पुनःप्रसङ्गातत्र वृद्धौ कृतायां ओत्त्वं भविष्यति । (कात्यायन वार्तिक)सौढामित्रौ बहिरङ्गलक्षणत्वात्सिद्धम्(वार्तिकान्त) । बहिरङ्गलक्षणा वृद्धिः । अन्तरङ्गं ओत्त्वं । असिद्धं बहिरङ्गं अन्तरङ्गे ।
(पाणिनीयसूत्र ७,२।२) कि.,२७८।१७-२७९।३ रो. V,९५।१०-९६।३ अन्तग्रहणं किमर्थं न अतः र्लः इति एव उच्यते । केन इदानीं तदन्तस्य भविष्यति । तदन्तविधिना । इदं तर्हि प्रयोजनं । अयं अन्तशब्दः अस्ति एव अवयववाची । तत्यथा । वस्त्रान्तः , वसनान्तः । अस्ति सामीप्ये वर्तते । तत्यथा । उदकान्तं गतः । उदकसमीपं गतः इति गम्यते । तत्यः सामीप्ये वर्तते तस्य इदं ग्रहणं यथा विज्ञायेत । अङ्गान्तौ यौ रेफलकारौ तयोः समीपे यः अकारः तस्य यथा स्यात। इह मा भूत। अश्वल्लीत्, अवभ्रीत।
(पाणिनीयसूत्र ७,२।३) कि.,२७९।५-२८१।८ रो. V,९६।५-१०१।२ हल्ग्रहणं किमर्थं । समुच्चयः यथा विज्ञायेत । वदिव्रज्योः च हलन्तस्य च अचः इति । न एततस्ति प्रयोजनं । अज्ग्रहणातेव अत्र समुच्चयः भविष्यति । वदिव्रज्योः च अचः च इति । अस्ति अन्यतज्ग्रहणे प्रयोजनं वदिव्रजिविशेषणं यथा विज्ञायेत । वदिव्रज्योः एचः इति । यदि एतावत्प्रयोजनं स्यात्वदिव्रज्योः अतः इति एवं ब्रूयात। अथ वा एततपि न ब्रूयात। अतः इति वर्तते । इदं तर्हि प्रयोजनं हलन्तस्य यथा स्यातजन्तस्य मा भूत। कस्य पुनः अजन्तस्य प्राप्नोति । अकारस्य । अचिकीर्षीत्, अजिहीर्षीत। लोपः अत्र बाधकः भविष्यति । आकारस्य तर्हि प्राप्नोति । अयासीत्, अवासीत। न अस्ति अत्र विशेषः सत्यां वा वृद्धौ असत्यां वा । सन्ध्यक्षरस्य तर्हि प्राप्नोति । न वै सन्ध्यक्षरं अन्त्यं अस्ति । ननु च इदं अस्ति ढलोपे कृते उदवोढां , उदवोढं , उदवोढ इति । असिद्धः ढलोपः तस्य असिद्धत्वात्न एततन्त्यं भवति । अतः उत्तरं पठति । (कात्यायन वार्तिक)हल्ग्रहणं इटि प्रतिषेधार्थम्(वार्तिकान्त) । हल्ग्रहणं क्रियते इटि प्रतिषेधार्थं । न इटि इति प्रतिषेधं वक्ष्यति सः हलन्तस्य यथा स्यातजन्तस्य मा भूत। अलावीत्, अपावीत। (कात्यायन वार्तिक)न वा अनन्तरस्य प्रतिषेधात्(वार्तिकान्त) । न वा एतत्प्रयोजनं अस्ति । किं कारणं । अनन्तरस्य प्रतिषेधात। अनन्तरं यत्वृद्धिविधानं तत्प्रतिषिध्यते । कुतः एतत। अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति । (कात्यायन वार्तिक)तत्च अनन्त्यार्थम्(वार्तिकान्त) । तत्च अनन्तरं वृद्धिविधानं अनन्त्यार्थं विज्ञायते । कथं पुनः अनन्तरं वृद्धिविधानं अनन्त्यार्थं शक्यं विज्ञातुं । (कात्यायन वार्तिक)अन्त्यस्य वचनानर्थक्यात्(वार्तिकान्त) । अन्त्यस्य वृद्धिविधाने प्रयोजनं न अस्ति इति कृत्वा अनन्तरं वृद्धिविधानं अनन्त्यार्थं विज्ञायते । अतः विभाषार्थं तर्हि इदं वक्तव्यं । अतः हलादेः लघोः इति विभाषा वृद्धिं वक्ष्यति सा हलन्तस्य यथा स्यातजन्तस्य मा भूत। अचिकीर्षीत्, अजिहीर्षीत। (कात्यायन वार्तिक)अतः विभाषार्थं इति चेत्सिद्धं वृद्धेः लोपबलीयस्त्वात्(वार्तिकान्त) । अतः विभाषार्थं इति चेत्ततन्तरेण अपि हल्ग्रहणं सिद्धं । कथं । वृद्धेः लोपबलीयस्त्वात। वृद्धेः लोपः बलीयान्भवति इति । इदं इह सम्प्रधार्यं । वृद्धिः क्रियतां लोपः इति किं अत्र कर्तव्यं । परत्वात्वृद्धिः । नित्यः लोपः । कृतायां अपि वृद्धौ प्राप्नोति अकृतायां अपि । अनित्यः लोपः न हि कृतायां वृद्धौ प्राप्नोति । परत्वात्सगिड्भ्यां भवितव्यं । न अत्र सगिटौ प्राप्नुतः । किं कारणं । (कात्यायन वार्तिक)एकाचः तौ वलि इति वा(वार्तिकान्त) । एकाचः सगिटौ उच्येते अथ वा वलि इति तत्र अनुवर्तते । किं पुनः कारणं एकाचः तौ वली इति वा । दर्द्रातेः मा भूतिति । दरिद्रातेः न सगिड्भ्यां भवितव्यं । उक्तं एतत्दरिद्रातेः आर्धधातुके लोपः सिद्धः च प्रत्ययविधौ इति । यः च इदानीं प्रत्ययविधौ सिद्धः सिद्धः असौ सगिड्विधौ । एवमर्थं एव तर्हि एकाज्ग्रहणं अनुवर्त्यं अत्र सगिटौ मा भूतां इति । सः एषः नित्यः लोपः वृद्धिं बाधिष्यते । कं पुनः भवान्वृद्धेः अवकाशं मत्वा आह नित्यः लोपः इति । अनवकाशा वृद्धिः लोपं बाधिष्यते । सावकाशा वृद्धिः । कः अवकाशः । अनन्त्यः : अकणीत्, अकाणीत। कथं पुनः सति अन्त्ये अनन्त्यस्य वृद्धिः स्यात। भवेत्यः अता अङ्गं विशेषयेत्तस्य अनन्त्यस्य न स्यात। वयं तु खलु अङ्गेन अकारं विशेषयिष्यामः । तत्र अनन्त्यः वृद्धेः अवकाशः अन्त्यस्य लोपः बाधकः भविष्यति । एवं वृद्धेः लोपबलीयस्त्वात। अथ वा आरभ्यते पूर्वविप्रतिषेधः ण्यल्लोपौ इयङ्यण्गुणवृद्धिदीर्घत्वेभ्यः पूर्वविप्रतिषिद्धं । सा तर्हि एषा अनन्त्यार्था वृद्धिः हलन्तस्य यथा स्यातजन्तस्य मा भूत। अपिपठिषीत। एततपि न अस्ति प्रयोजनं । कथं । हलादेः इति न एषा बहुव्रीहेः षष्ठी : हलादिः यस्य सः अयं हलादिः हलादेः इति । का तर्हि । कर्मधारयात्पञ्चमी । हलादिः हलादिः हलादेः परस्य इति । यदि कर्मधारयात्पञ्चमी अचकासीतत्र प्राप्नोति । सिचा अनन्तर्यं विशेषयिष्यामः । हलादेः परस्य सिचि अनन्तरस्य इति । यदि सिचा आनन्तर्यं विशेष्यते अकणीत्, अकाणीतत्र न प्राप्नोति । वचनात्भविष्यति । इह अपि तर्हि वचनात्प्राप्नोति । अचकासीत। येन न अव्यवधानं तेन व्यवहिते अपि वचनप्रामाण्यात। केन च न अव्यवधानं । वर्णेन एकेन । सङ्गातेन पुनः व्यवधानं भवति न च भवति । यदि सिचा आनन्तर्यं विशेष्यते अस्तु बहुव्रीहेः षष्ठी । कस्मात्न भवति । अपिपठिषीत। व्यवहितत्वात। एवं तर्हि अतिदूरं एव इदं हल्ग्रहणं अनुसृतं । हल्ग्रहणं अनन्त्यार्थं । अज्ग्रहणं अनिगर्थं ।
(पाणिनीयसूत्र ७,२।५) कि.,२८१।१०-१९ रो. V,१०१।४-१०२।७ किमर्थं जागर्तेः वृद्धिप्रतिषेधः उच्यते । सिचि वृद्धिः मा भूतिति । न एततस्ति प्रयोजनं । जागर्तेः गुणः उच्यते वृद्धिविषये प्रतिषेधविषये च सः बाधकः भविष्यति । गुणे तर्हि कृते रपरत्वे च हलन्तलक्षणा वृद्धिः प्राप्नोति । न इटि इति तस्याः प्रतिषेधः भविष्यति । इयं तर्हि प्रतिषेधोत्तरकाला वृद्धिः आरभ्यते अतः र्लान्तस्य इति । अपरः आह : कक्ष्यया कक्ष्या निमातव्या । सिचि वृद्धिः च प्राप्नोति गुणाः च । गुणः भवति । गुणे कृते रपरत्वे च हलन्तलक्षणा वृद्धिः प्राप्नोति न इटि इति च तस्याः प्रतिषेधः भवति । प्रतिषेधोत्तरकालं अतः हलादेः लघोः इति विभाषा वृद्धिः प्राप्नोति न च किं चित। अतः र्लान्तस्य इति च वृद्धिः प्राप्नोति न च किं चित।
(पाणिनीयसूत्र ७,२।८।१) कि.,२८१।२१-२८२।१४ रो. V,१०३-१०५ किमर्थं पुरस्तात्प्रतिषेधः उच्यते न विध्युत्तरकालः प्रतिषेधः क्रियेत । तत्यथा अन्यत्र अपि विध्युत्तरकालाः प्रतिषेधाः भवन्ति । क्व अन्यत्र । कर्तरि कर्मव्यतिहारे न गतिहिंसार्थेभ्यः इति । देवताद्वन्द्वे च न इन्द्रस्य परस्य । तत्र अयं अपि अर्थः द्विः इड्ग्रहणं न कर्तव्यं भवति प्रकृतं अनुवर्तते । न एवं शक्यं । इडर्थं सार्वधातुकग्रहणं लिङः सलोपे सन्निहितं तत्विच्छिद्येत । यदि पुनः न वृद्भ्यः चतुर्भ्यः इति अत्र एव उच्येत । किं कृतं भवति । विध्युत्तरकालाः च एव प्रतिषेधः कृअतः भवति द्विः च इड्ग्रहणं न कर्तव्यं इडर्थं च सार्वधातुकग्रहणं लिङः सलोपे सन्निहितं भवति । तत्र अयं अपि अर्थः द्विः प्रतिषेधः न कर्तव्यः इति एतस्मात्नियमातिट्प्रसज्येत । कृसृभृवृस्तुद्रुश्रुस्रुवः लिटि इति एषः योगः प्रतिषेधार्थः भविष्यति । यदि एषः योगः प्रतिषेधार्थः यः एतस्मात्योगातिट्परिप्राप्यते नियमात्सः न सिध्यति : पेचिव , पेचिम , शेकिव, शेकिम । एवं तर्हि कृसृभृ , इति एतेषां ग्रहणं नियमार्थं भविष्यति स्तुद्रुश्रुस्रुवां प्रतिषेधार्थं वृङ्वृञोः ज्ञापकार्थं । एवं अपि सामान्यविहितस्य एव इटः प्रतिषेधः विज्ञायेत विशेषविहितः च अयं थलि इति । पुरस्तात्पुनः प्रतिषेधे सति अनारभ्यापवादः अयं भवति तेन यावानिण्नाम तस्य सर्वस्य एव प्रतिषेधः सिद्धः भवति । यदि खलु अपि एषः अभिप्रायः तत्न क्रियते इति पुरस्तातपि प्रतिषेधे सति तत्न करिष्यते । कथं । इदं अस्ति न इट्वशि कृति इति । ततः वक्ष्यामि । आर्धधातुकस्य वलादेः इति । इटिति अनुवर्तते न इति निवृत्तं ।
(पाणिनीयसूत्र ७,२।८।२) कि.,२८२।१५-२८३।४ रो. V,१०५-१०७ अथ कृद्ग्रहणं किमर्थं । इह मा भूत। बिभिदिव , बिभिदिम इति । न एततस्ति प्रयोजनं । कृसृभृवृस्तुद्रुश्रुस्रुवः लिटि इति एतस्मात्नियमातत्र इट्भविष्यति । न अत्र तेन परिप्रापणं प्राप्नोति । किं कारणं । प्रकृतिलक्षणस्य प्रतिषेधस्य सः प्रत्यारम्भः प्रत्ययलक्षणः च अयं प्रतिषेधः । उभयोः सः प्रत्यारम्भः । कथं ज्ञायते । वृङ्वृञोः ग्रहणात। कथं कृत्वा ज्ञापकं । इमौ वृङ्वृञौ उदात्तौ तयोः प्रकृतिलक्षणः प्रत्ययलक्षणः च । ततः किं । तुल्यजातीये असति यथा एव प्रकृतिलक्षणस्य नियामकः भवति एवं प्रत्ययलक्षणस्य अपि नियामकः भविष्यति । इदं तर्हि प्रयोजनं । इह मा भूत। रुदिवः , रुदिमः । एततपि न अस्ति प्रयोजनं । उपरिष्टात्योगविभागः करिष्यते । आर्धधातुकस्य । यतेततनुक्रान्तं एततार्धधातुकस्य द्रष्टव्यं । ततः इट्वलादेः इति । तत्र एतावत्द्रष्टव्यं यदि किं चित्तत्र अन्यतपि आर्धधातुकग्रहणस्य प्रयोजनं अस्ति । अथ न किं चितिह वा कृद्ग्रहणं क्रियेत तत्र वा आर्धधातुकग्रहणं कः नु अत्र विशेषः । (कात्यायन वार्तिक)न इट्वरं अनादौ कृति(वार्तिकान्त) । वरं अनादौ कृति इट्प्रतिषेधं प्रयोजयति । ईशिता , ईशितुं , ईश्वरः । व । र । दीपिता , दीपितुं , दीप्रः । र । म । भसिता , भसितुं , भस्म । म । न । यतिता , यतितुं , यत्नः । अथ अन्ये ये वशादयः तत्र कथं । उणादयः अव्युत्पन्नानि प्रातिपदिकानि ।
(पाणिनीयसूत्र ७,२।९) कि.,२८३।६-८ रो. V,१०७।५-७ (कात्यायन वार्तिक)तितुत्रेषु अग्रहादीनाम्(वार्तिकान्त) । तितुत्रेषु अग्रहादीनां इति वक्तव्यं । इह मा भूत। निगृहितिः , उपस्निहितः , निकुचितिः , निपठितिः इति ।
(पाणिनीयसूत्र ७,२।१०) कि.,२८३।१०-२८६।२ रो. V,१०७।९-११५।२ एकाज्ग्रहणं किमर्थं । (कात्यायन वार्तिक)एकाज्ग्रहणं जागर्त्यर्थम्(वार्तिकान्त) । एकाज्ग्रहणं क्रियते जागर्तेः इट्प्रतिषेधः मा भूतिति । जागरिता , जागरितुं । न एततस्ति प्रयोजनं । उपदेशे अनुदात्तातिति उच्यते जागर्तिः च उपदेशे उदात्तः । न ब्रूमः इहार्थं जागर्त्यर्थं एकाज्ग्रहणं कर्तव्यं इति । किं तर्हि । उत्तरार्थं । श्र्युकः किति इति इट्प्रतिषेधं वक्ष्यति सः जागर्तेः मा भूत। जागरितः , जागरितवानिति । एततपि न अस्ति प्रयोजनं । जागर्तेः गुणः उच्यते वृद्धिविषये प्रतिषेधविषये च सः बाधकः भविष्यति । तत्र गुणे कृते रपरत्वे च कृते अनुगन्तत्वातिट्प्रतिषेधः न भविष्यति । ननु च उपदेशाधिकारात्प्राप्नोति । उपदेशग्रहणं निवर्तयिष्यते । यदि निवर्त्यते स्तीर्त्वा , पूर्त्वा , इत्त्वोत्त्वयोः कृतयोः रपरत्वे च अनुगन्तत्वातिट्प्रतिषेधः न प्राप्नोति । न एषः दोषः । आनुपूर्व्या सिद्धं एतत। न अत्र अकृते इट्प्रतिषेधे इत्त्वोत्त्वे प्राप्नुतः । किं कारणं । न क्त्वा सेटिति कित्त्वप्रतिषेधात। इदं तर्हि । आतिस्तीर्षति , निपुपूर्षति । इत्त्वोत्त्वयोः कृतयोः रपरत्वे च्xअ अनुगन्तत्वातिट्प्रतिषेधः न प्राप्नोति । मा भूतेवं श्र्युकः किति इति । इट्सनि वा इति एवं भविष्यति । इदं तर्हि । आस्तीर्णं , निपूर्ताः पिण्डाः । इत्त्वोत्त्वयोः कृतयोः रपरत्वे च अनुगन्तत्वातिट्प्रतिषेधः न प्राप्नोति । मा भूतेवं । इट्सनि वा इति सनि विभाषा यस्य विभाषा इति प्रतिषेधः भविष्यति । इहार्थं एव तर्हि वध्यर्थं एकाज्ग्रहणं कर्तव्यं । वधः इट्प्रतिषेधः मा भूतिति । वधिषीष्ट इति । एततपि न अस्ति प्रयोजनं । क्रियमाणे अपि वा एकाज्ग्रहणे वधः इट्प्रतिषेधः प्राप्नोति । वधिषीष्ट इति । किं कारणं । (कात्यायन वार्तिक)वधः इट्प्रतिषेधः सन्निपाते एकाच्त्वात्प्रकृतेः च अनुदात्तत्वात्(वार्तिकान्त) । सन्निपाते च एव हि वधिः एकाच्श्रूयते प्रकृतिः च अस्य अनुदात्ता । किं पुनः कारणं एवं विज्ञायते उपदेशे अनुदात्तातेकाचः श्रूयमाणातिति । यङ्लोपार्थं । यङ्लोपे मा भूतिति । बेभिदिता , बेभिदितुं , चेच्छिदिता , चेच्छिदितुं । (कात्यायन वार्तिक)एकाचः उपदेशे अनुदात्तातिति उपदेशवचनं अनुदात्तविशेषणं चेत्कृञादिभ्यः लिटि नियमानुपपत्तिः अप्राप्तत्वात्प्रतिषेधस्य(वार्तिकान्त) । एकाचः उपदेशे अनुदात्तातिति उपदेशवचनं अनुदात्तविशेषणं चेत्कृञादिभ्यः लिटि नियमस्य अनुपपत्तिः । किं कारणं । अप्राप्तत्वात्प्रतिषेधस्य । द्विर्वचने कृते उपदेशे अनुदात्तातेकाचः श्रूयमाणातिति इट्प्रतिषेधः न प्राप्नोति । असति इट्प्रतिषेधे नियमः न उपपद्यते । असति नियमे कः दोषः । (कात्यायन वार्तिक)तत्र पचादिभ्यः इड्वचनम्(वार्तिकान्त) । तत्र पचादिभ्यः इट्वक्तव्यः । पेचिम , शेकिम । (कात्यायन वार्तिक)सनः च इट्प्रतिषेधः(वार्तिकान्त) । सनः च इट्प्रतिषेधः वक्तव्यः । बिभित्सति , चिच्छित्सति । द्विर्वचने कृते उपदेशे अनुदात्तातेकाचः श्रूयमाणातिति इट्प्रतिषेधः न प्राप्नोति । इह च नीत्तः तत्वे कृते अनच्कत्वातिट्प्रतिषेधः न प्राप्नोति । न एषः दोषः । आनुपूर्व्या सिद्धं एतत। न अत्र अकृते इट्प्रतिषेधे तत्वं प्राप्नोति । किं कारणं । ति किति इति उच्यते । यतपि उच्यते एकाचः उपदेशे अनुदात्तातिति उपदेशवचनं अनुदात्तविशेषणं चेत्कृञादिभ्यः लिटि नियमानुपपत्तिः अप्राप्तत्वात्प्रतिषेधस्य इति मा भूत्नियमः । ननु च उक्तं तत्र पचादिभ्यः इड्वचनं इति । न एषः दोषः । उक्तं तत्र थल्ग्रहणस्य प्रयोजनं समुच्चयः यथा विज्ञायेत थलि च सेटि क्ङिति च सेटि इति । यतपि उच्यते सनः च इट्प्रतिषेधः इति । (कात्यायन वार्तिक)उभयविशेषणत्वात्सिद्धम्(वार्तिकान्त) । उभयं उपदेशग्रहणेन विशेषयिष्यामः । उपदेशे अनुदात्तातुपदेशे एकाचः इति । (कात्यायन वार्तिक)यङ्लोपे च तदन्तद्विर्वचनात्(वार्तिकान्त) । सन्यङन्तस्य स्थाने द्विर्वचनं तत्र सम्प्रमुग्धत्वात्प्रकृतिप्रत्ययस्य नष्टः सः भवति यः सः एकाजुपदेशे अनुदात्तः । अथ अपि द्विःप्रयोगः द्विर्वचनं एवं अपि न दोषः । न हि अस्य भिद्युपदेशे उपदेशः । अथ अपि भिद्युपदेशे उपदेशः एवं अपि न दोषः । अकारेण व्यवहितत्वात्न भविष्यति । ननु च लोपे कृते न अस्ति व्यवधानं । स्थानिवद्भावात्व्यवधानं एव । न सिध्यति । पूर्वविधौ स्थानिवद्भावः न च अयं पूर्वविधिः । एवं तर्हि पूर्वस्मातपि विधिः पूर्वविधिः । कः पुनः उपदेशः न्याय्यः । यः कृत्स्नः । कः च कृत्स्नः । यः उभयोः । यदि तर्हि यः उभयोः सः कृत्स्नः सः च न्याय्यः वधः इट्प्रतिषेधः प्राप्नोति । आवधिषीष्ट इति । न एषः दोषः । आद्युदात्तनिपातनं करिष्यते सः निपातनस्वरः प्रकृतिस्वरस्य बाधकः भविष्यति । एवं अपि उपदेशिवद्भावः वक्तव्यः । यथा एव हि सः निपातनस्वरः प्रकृतिस्वरं बाधते एवं प्रत्ययस्वरं अपि बाधेत : आवधिषीष्ट इति । न एषः दोषः । आर्धधातुकीयाः सामान्येन भवन्ति अनवस्थितेषु प्रत्ययेषु । तत्र आर्धधातुकसामान्ये वधिभावे कृते सतिशिष्टत्वात्प्रत्ययस्वरः भविष्यति । अथ के पुनः अनुदात्ताः । आदन्ताः , अदरिद्राः । इवर्णान्ताः च अश्विश्रिडीशीदीधीवेवीङः । उवर्णान्ताः युरुणुक्षुक्ष्णुस्नूर्णुवर्जं । ऋदन्ताः च अजागृवृङ्वृञः । शकिः कवर्गान्तानां । पचिवचिसिचिमुचिरिचिविचिप्रच्छियजिभजिसृजित्यजिभुजिभ्रस्जिभञ्जिरुजियुजिणिजिविजिसिञ्जिस्वञ्जयः चवर्गान्तानां । सदिशदिहदिच्छिदितुदिस्विदिभिदिस्कन्दिक्षुदिखिद्यतिविन्दिविद्यतिराधियुधिबुधिशुधिक्रुधिरुधिसाधिव्यधिबन्धिसिध्यतिहनिमन्यतयः तवर्गान्तानां । तपितिपिवपिशपिचुपिलुपिलिपिस्वप्यापिक्षिपिसृपितृपिदृपियभिरभिलभियमिरमिनमिगमयः पवर्गान्तानां । रुशिरिशिदिशिविशिलिशिस्पृशिदृशिक्रुशिमृशिदंशित्विषिकृषिश्लिषिविषिपिषितुषिदुषिद्विषिघसिवसिदहिदिहिवहिदुहिनहिरुहिलिहिमिहयः च उष्मान्तानां । वसिः प्रसारणी ।
(पाणिनीयसूत्र ७,२।१३) कि.,२८६।४-७ रो. V,११५।४-७ (कात्यायन वार्तिक)कृञः असुटः(वार्तिकान्त) । कृञः असुटः इति वक्तव्यं । इह मा भूत। सञ्चस्करिव , सञ्चस्करिम । तत्तर्हि वक्तव्यं । न वक्तव्यं । गुणे कृते रपरत्वे च अनुगन्तत्वातिट्प्रतिषेधः न भविष्यति । एवं अपि उपदेशाधिकारात्प्राप्नोति । तस्मातसुटः इति वक्तव्यं ।
(पाणिनीयसूत्र ७,२।१४) कि.,२८६।९-१० रो. V,११५-११६ श्विग्रहणं किमर्थं न प्रसारणे कृते प्रसारणपूर्वत्वे च उगन्तातिति एव सिद्धं । अतः उत्तरं पठति । (कात्यायन वार्तिक)श्विग्रहणं इदन्तत्वातुपदेशस्य(वार्तिकान्त) । श्विग्रहणं क्रियते इदन्तत्वातुपदेशस्य । उपदेशः उगन्तातिति उच्यते श्वयतिः च उपदेशः इदन्तः ।
(पाणिनीयसूत्र ७,२।१५) कि.,२८६।१५-१८ रो. V,११७ (कात्यायन वार्तिक)यस्य विभाषा अविदेः(वार्तिकान्त) । यस्य विभाषा अविदेः इति वक्तव्यं । इह मा भूत। विदितः , विदितवानिति । तत्तर्हि वक्तव्यं । न वक्तव्यं । यदुपाधेः विभाषा तदुपाधेः प्रतिषेधः । शाब्विकरणस्य विभाषा लुग्विकरणः च अयं ।
(पाणिनीयसूत्र ७,२।१६-१७) कि.,२८६।२०-२८७।४ रो. V,११७।८-११८।२ किमर्थः योगविभागः न आदितः विभाषा भावादिकर्मणोः इति एव उच्यते । केन इदानीं कर्तरि प्रतिषेधः भविष्यति । यस्य विभाषा इति अनेन । एवं तर्हि सिद्धे सति यत्योगविभागं करोति तत्ज्ञापयति आचार्यः यदुपाधेः विभाषा तदुपाधेः प्रतिषेधः इति । किं एतस्य ज्ञापने प्रयोजनं । यस्य विभाषा अविदेः इति उक्तं तत्न वक्तव्यं भवति ।
(पाणिनीयसूत्र ७,२।१८) कि.,२८७।७-१३ रो. V,११८।५-११९।१२ (कात्यायन वार्तिक)क्षुब्धं मन्थाभिधाने(वार्तिकान्त) । क्षुब्धं मन्थाभिधाने इति वक्तव्यं । क्षुभितं मन्थेन इति एव अन्यत्र । क्षुब्ध । स्वान्त । (कात्यायन वार्तिक)स्वान्तं मनोऽभिधाने(वार्तिकान्त) । स्वान्तं मनोऽभिधाने इति वक्तव्यं । स्वनितं मनसा इति एव अन्यत्र । स्वान्त । ध्वान्त ।(कात्यायन वार्तिक)(वार्तिकान्त) (कात्यायन वार्तिक)ध्वान्तं तमोऽभिधाने(वार्तिकान्त) ।(कात्यायन वार्तिक)[^1] ध्वान्तं तमोऽभिधाने इति वक्तव्यं । ध्वनितं तमसा इति एव अन्यत्र । [ऱ्लग्न । (कात्यायन वार्तिक)लग्नं सक्ताभिधाने(वार्तिकान्त) । लग्नं सक्ताभिधाने इति वक्तव्यं । लगितं सक्तेन इति एव अन्यत्र । लग्न । म्लिष्ट । (कात्यायन वार्तिक)म्लिष्टं अविस्पष्टाभिधाने(वार्तिकान्त) । म्लिष्टं अविस्पष्टाभिधाने इति वक्तव्यं । म्लेच्छितं विस्पष्टेन इति एव अन्यत्र । म्लिष्टा । विरिब्ध । (कात्यायन वार्तिक)विरिब्धं स्वराभिधाने । (वार्तिकान्त)विरिब्धं स्वराभिधाने इति वक्तव्यं । विरेभितं स्वरेण इति एव अन्यत्र । विरिब्ध । फाण्ट । (कात्यायन वार्तिक)फाण्टं अनायासाभिधाने(वार्तिकान्त) । फाण्टं अनायासाभिधाने इति वक्तव्यं । फणितं एव अन्यत्र । फाण्ट । बाढ । (कात्यायन वार्तिक)बाढं बृशाभिधाने(वार्तिकान्त) । बाढं बृशाभिधाने इति वक्तव्यं । बाहितं एव अन्यत्र । ]
(पाणिनीयसूत्र ७,२।१९) कि.,२८७।१५ रो. V,११९।१४ किं इदं वैयात्ये इति । वियातभावः वैयात्यं ।
(पाणिनीयसूत्र ७,२।२०) कि.,२८७।१७-२८८।५ रो. V,११९।१६-१२०।१० दृढनिपातनं किमर्थं न दृहेः न इट्भवति इति एव उच्येत । (कात्यायन वार्तिक)दृढनिपातनं नकारहकारलोपार्थं परस्य च डत्वार्थम्(वार्तिकान्त) । दृढनिपातनं क्रियते नकारहकारलोपार्थं । नकारहकारलोपः यथा स्यात। परस्य च ढत्वार्थं । परस्य च ढत्वं यथा स्यात। (कात्यायन वार्तिक)अनिड्वचने हि रभावाप्रसिद्धिः अलघुत्वात्(वार्तिकान्त) । अनिड्वचने हि रभावस्य अप्रसिद्धिः । द्रढीयान। किं कारणं । अलघुत्वात। (कात्यायन वार्तिक)नलोपवचनं च(वार्तिकान्त) । नलोपः च वक्तव्यः । इह च परिद्रढय्य गतः ल्यपि लघुपूर्वस्य इति अयादेशः न स्यात। इह च पारिदृढी कन्या इति गुरूपोत्तमलक्षणः ष्यङ्प्रसज्येत ।
(पाणिनीयसूत्र ७,२।२१) कि.,२८८।७-१३ रो. V,१२०।१२-११३।५ परिवृढः इति किमर्थं निपात्यते न परिपूर्वात्वृहेः न इट्भवति इति एव उच्येत । (कात्यायन वार्तिक)परिवृढनिपातनं च(वार्तिकान्त) । किं । नकारहकारलोपार्थं परस्य च ढत्वार्थं अनिड्वचने हि रभावाप्रसिद्धिः अलघुत्वात्नलोपवचनं च इति एव । परिव्रढीयानिति रः ऋतः हलादेः लघोः इति रभावः न स्यात। इह च परिव्रढय्य गतः इति ल्यपि लघुपूर्वस्य इति अयादेशः न स्यात। इह च पारिवृढी कन्या इति गुरूपोत्तमलक्षणः ष्यङ्प्रसज्येत ।
(पाणिनीयसूत्र ७,२।२३) कि.,२८८।१५-१९ रो. V,१२१।७-११ किमर्थं अविशब्दने इति उच्यते न विशब्दने चुरादिणिचा भवितव्यं । एवं तर्हि सिद्धे सति यतयं अविशब्दने इति आह तत्ज्ञापयति आचार्यः विशब्दने घुषेः विभाषा णिच्भवति इति । किं एतस्य ज्ञापने प्रयोजनं । महीपालवचः श्रुत्वा जुघुषुः पुष्यमाणवाः । एषः प्रयोगः उपपन्नः भवति ।
(पाणिनीयसूत्र ७,२।२६) कि.,२८८।२१-२८९।१७ रो. V,१२२।२-१२३।१० किं इदं अध्ययनाभिधायिकायां निष्ठायां निपातनं क्रियते आहोस्वितध्ययने चेत्वृतिः वर्तते इति । किं च अतः । यदि अध्ययनाभिधायिकायां निष्ठायां निपातनं क्रियते सिद्धं वृत्तः गुणः वृत्तं पारायणं वृत्तं गुणस्य वृत्तं पारायणस्य इति न सिध्यति । अथ विज्ञायते अध्ययने चेत्वृतिः वर्तते इति न दोषः भवति । यथा न दोषः तथा अस्तु । अध्ययने चेत्वृतिः वर्तते इति अपि वै विज्ञायमाने न सिध्यति । किं कारणं । वृतिः अयं अकर्मकः । अकर्मकाः च अपि ण्यन्ताः सकर्मकाः भवन्ति । अकर्म्कः च अत्र वृतिः । कथं पुनः ज्ञायते अकर्मकः अत्र वृतिः इति । अकर्मकाणां भावे क्तः भवति इति एवं अत्र भावे क्तः भवति । तत्र उदितः क्त्वि विभाषा यस्य विभाषा इति इट्प्रतिषेधः भविष्यति । अथ णिग्रहणं किमर्थं । (कात्यायन वार्तिक)वृत्तनिपातने णिग्रहणं अण्यन्तस्य अवधारणप्रतिषेधार्थम्(वार्तिकान्त) । वृत्तनिपातने णिग्रहणं क्रियते अण्यन्तस्य अवधारणं मा भूतिति । कैमर्थक्यात्नियमः भवति । विधेयं न अस्ति इति कृत्वा । इह च अस्ति विधेयं । किं । ण्यधिकात्वृतेः इट्प्रतिषेधः विधेयः । तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः । कुतः नु खलु एततधिकार्थे आरम्भे सति ण्यधिकस्य भविष्यति न पुनः सनधिकस्य वा स्यात्यङधिकस्य वा इति । तस्मात्णिग्रहणं कर्तव्यं । अथ किमर्थं निपातनं क्रियते । (कात्यायन वार्तिक)निपातनं णिल्पेड्गुणप्रतिषेधार्थम्(वार्तिकान्त) । निपातनं क्रियते णिल्पार्थं इड्गुणप्रतिषेधार्थं च ।
(पाणिनीयसूत्र ७,२।२७) कि.,२८९।१९-२९०।५ रो. V,१२४।२-१२ दान्तशान्तयोः किं निपात्यते । (कात्यायन वार्तिक)दान्तशान्तयोः उपधादीर्घत्वं च(वार्तिकान्त) । किं च । णिलोपेट्प्रतिषेधौ च । उपधादीर्घत्वं अनिपात्यं । वृद्ध्या सिद्धं । न सिध्यति । मितां ह्रस्वः इति ह्रस्वत्वेन भवितव्यं । एवं तर्हि अनुनासिकस्य क्विझलोः क्ङिति इति एवं अत्र दीर्घत्वं भविष्यति । न सिध्यति । किं कारणं । णिचा व्यवहितत्वात। णिलोपे कृते न अस्ति व्यवधानं । स्थानिवद्भावात्व्यवधानं एव । प्रतिषिध्यते अत्र स्थानिवद्भावः दीर्घविधिं प्रति न स्थानिवतिति । अथ स्पष्टच्छन्नयोः किं निपात्यते । (कात्यायन वार्तिक)स्पष्टच्छन्नयोः उपधाह्रस्वत्वं च(वार्तिकान्त) । किं च । णिलोपेट्प्रतिषेधौ
(पाणिनीयसूत्र ७,२।२८) कि.,२९०।७-१४ रो. V,१२४।१४-२२ (कात्यायन वार्तिक)घुषिस्वनोः वावचनं इट्प्रतिषेधात्विप्रतिषेधेन(वार्तिकान्त) । घुषिस्वनोः वावचनं इट्प्रतिषेधात्भवति विप्रतिषेधेन । घुषेः इट्प्रतिषेधस्य अवकाशः असम्पूर्वातविशब्दनं । घुष्टा रज्जुः , घुष्टः मार्गः । वावचनस्य अवकाशः सम्पूर्वात्विशब्दनं । सङ्घुष्टं वाक्यं , सङ्घुषितं वाक्यं । सम्पूर्वातविशब्दने उभयं प्राप्नोति । सङ्घुष्टा रज्जुः , सङ्घुषिता रज्जुः । वावचनं भवति विप्रतिषेधेन । स्वनः इट्प्रतिषेधस्य अवकाशः अनाङ्पूर्वात्मनोऽभिधानं । स्वान्तं मनः । वावचनस्य अवकाशः अङ्पूर्वातमनोऽभिधानं । आस्वान्तः देवदत्तः , आस्वनितः देवदत्तः । आङ्पूर्वात्मनोऽभिधाने उभयं प्राप्नोति । आस्वान्तं मनः । आस्वनितं मनः । वावचनं भवति विप्रतिषेधेन ।
(पाणिनीयसूत्र ७,२।२९) कि.,२९०।१६-१९ रो. V,१२५।२-६ हृषेः लोमकेशकर्तृकस्य इति वक्तव्यं । हृष्टानि लोमानि , हृषितानि लोमानि , हृष्टं लोमभिः , हृषितं लोमभिः , हृष्टाः केशाः , हृषिताः केशाः , हृष्टं केशैः , हृषितं केशैः । विस्मितप्रतीघातयोः इति वक्तव्यं । हृष्टः देवदत्तः , हृषितः देवदत्तः , हृष्टाः दन्ताः , हृषिताः दन्ताः ।
(पाणिनीयसूत्र ७,२।३०) कि.,२९०।२१-२२ रो. V,१२५।८-९ अपचितः इति किं निपात्यते । चायः चिभावः निपात्यते । अपचितः । क्तिनि नित्यं इति वक्तव्यं । अपचितिः ।
(पाणिनीयसूत्र ७,२।३५) कि.,२९१।२-१७ रो. V,१२५।११-१२६।१३ आर्धधातुकग्रहणं किमर्थं । यथा वलादिग्रहणं आर्धधातुकविशेषणं विज्ञायेत । वलादेः आर्धधातुकस्य इति । अथ अक्रियमाणे आर्धधातुकग्रहणे कस्य वलादिग्रहणं विशेषणं स्यात। अङ्गस्य इति वर्तते । अङ्गविशेषणं । तत्र कः दोषः । अङ्गस्य वलादेः आदितः इट्प्रसज्येत आडाड्वत। तत्यथा आडाटौ अङ्गस्य आदितः भवतः तद्वत। क्रियमाणे अपि आर्धधातुकग्रहणे अनिष्टं शक्यं विज्ञातुं । वलादेः आर्धधातुकस्य यतङ्गं इति । अक्रियमाणे च इष्टं । अङ्गस्य यः वलादिः इति । किं च अङ्गस्य वलादिः । निमित्तं । यस्मिनङ्गं इति एतत्भवति । कस्मिन्च एतत्भवति । प्रत्यये । यावता क्रियमाणे च अनिष्टं विज्ञायते अक्रियमाणे च इष्टं तत्र अक्रियमाणे एव इष्टं विज्ञास्यामः । इदं तर्हि प्रयोजनं । इह मा भूत। आस्ते, शेते । एततपि न अस्ति प्रयोजनं । रुदादिभ्यः सार्वधातुके इति एतन्नियमार्थं भविष्यति । रुदादिभ्यः एव सार्वधातुकः इट्भवति न अन्येभ्यः इति । एवं अपि वृक्षत्वं , वृक्षता अत्र प्राप्नोति । एवं तर्हि विहितविशेषणं धातुग्रहणं । धातोः यः विहितः । ननु धातोः एव अयं विहितः । न च अयं धातोः इति एवं विहितः । क्व पुनः धातुग्रहणं प्रकृतं । ऋतः इत्धातोः इति । तत्वै षष्ठीनिर्दिष्टं पञ्चमीनिर्दिष्टेन च इह विहितः शक्यते विशेषयितुं । अथ इदानीं षष्ठीनिर्दिष्टेन च अपि विहितः शक्यते विशेषयितुं शक्यं आर्धधातुकग्रहणं अकर्तुं इति ।
(पाणिनीयसूत्र ७,२।३६) कि.,२९२।२-२९३।९ रो. V,१२७।२-१३०।४ (कात्यायन वार्तिक)स्नुक्रमोः अनात्मनेपदनिमित्ते चेत्कृति उपसङ्ख्यानम्(वार्तिकान्त) । स्नुक्रमोः अनात्मनेपदनिमित्ते चेत्कृति उपसङ्ख्यानं कर्तव्यं । प्रस्नविता , प्रस्नवितुं , प्रस्नवितव्यं , प्रक्रमिता , प्रक्रमितुं , प्रक्रमितव्यं । तत्तर्हि वक्तव्यं । न वक्तव्यं । अविशेषेण स्नुक्रमोः इडागमं उक्त्वा आत्मनेपदपरे न इति वक्ष्यामि । (कात्यायन वार्तिक)आत्मनेपदपरप्रतिषेधे तत्परपरसीयुडेकादेशेषु प्रतिषेधः(वार्तिकान्त) । आत्मनेपदपरप्रतिषेधे च तत्परपरसीयुडेकादेशेषु प्रतिषेधः वक्तव्यः । तत्परपरे तावतः प्रसुस्नूषिष्यते , प्रचिक्रंसिष्यते । सीयुटि : प्रस्नोषीष्त , प्रक्रंसीष्ट । एकादेशे । प्रस्नोष्यन्ते , प्रक्रंस्यन्ते । एकादेशे कृते व्यपवर्गाभावात्न प्राप्नोति । अन्तादिवद्भावेन व्यपवर्गः । उभयतः आश्रये न अन्तादिवत। एवं तर्हि एकादेशः पूर्वविधिं प्रति स्थानिवत्भवति इति स्थानिवद्भावात्व्यपवर्गः । तत्परपरसीयुटोः तर्हि प्रतिषेधः वक्तव्यः । (कात्यायन वार्तिक)सिद्धं तु स्नोः आत्मनेपदेन समानपदस्थस्य इट्प्रतिषेधात्(वार्तिकान्त) । सिद्धं एतत। कथं । स्नोः आत्मनेपदेन समानपदस्थस्य न इट्भवति इति वक्तव्यं । यदि स्नोः आत्मनेपदेन समानपदस्थस्य इट्न भवति इति उच्यते प्रस्नविता इव आचरति प्रस्नवित्रीयते अत्र न प्राप्नोति । बहिरङ्गलक्षणं अत्र आत्मनेपदं । (कात्यायन वार्तिक)क्रमोः च(वार्तिकान्त) । क्रमोः च आत्मनेपदेन समानपदस्थस्य इट्न भवति इति वक्तव्यं । अथ किमर्थं क्रमेः पृथग्ग्रहणं क्रियते न स्नुक्रमिभ्यां इति एव उच्येत । कर्तरि च आत्मनेपदविषयात्कृति न इति वक्ष्यत्गि तत्क्रमेः एव स्यात्स्नोः मा भूत। व्यतिप्रस्नवितारौ , व्यतिप्रस्नतिवारः । (कात्यायन वार्तिक)कर्तरि च आत्मनेपदविषयात्कृति(वार्तिकान्त) । कर्तरि च आत्मनेपदविषयात्कृति प्रतिषेधः वक्तव्यः । प्रक्रन्ता , उपक्रन्ता । तत्तर्हि इदं बहु वक्तव्यं । स्नोः आत्मनेपदेन समानपदस्थस्य इट्न भवति इति वक्तव्यं । क्रमेः च इति वक्तव्यं । कर्तरि च आत्मनेपदविषयात्कृति इति वक्तव्यं । सूत्रं च भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं स्नुक्रमोः अनात्मनेपदनिमित्ते चेत्कृति उपसङ्ख्यानं इति । न एषः दोषः । स्नुक्रमी एव आत्मनेपदनिमित्तत्वेन विशेषयिष्यामः । न चेत्स्नुक्रमी आत्मनेपदस्य निमित्ते इति । कथं पुनः धातुः नाम आत्मनेपदस्य निमित्तं स्यात। धातुः एव निमित्तं । आह हि भगवाननुदात्तङितः आत्मनेपदं शेषात्कर्तरि परस्मैपदं इति । यत्र तर्हि धातुः न आश्रीयते भावकर्मणोः इति । अत्र अपि धातुः एव आश्रीयते । भावकर्मवृत्तात्धातोः इति । कथं प्रक्रमितव्यं । सति आत्मनेपदे निमित्तशब्दः वर्तते । कथं प्रक्रन्ता , उपक्रन्ता । तस्मातसति अपि । कथं प्रक्रमितव्यं । तस्मात्सति एव । कथं प्रक्रन्ता , उपक्रन्ता । वक्तव्यं एव एतत्कर्तरि च आत्मनेपदविषयात्कृति इति । अथ वा कृति इति वर्तते ।
(पाणिनीयसूत्र ७,२।३७) कि.,२९३।११-२९४।२६ रो. V,१३१।५-१३५।९ (कात्यायन वार्तिक)ग्रहेः दीर्घत्वे इड्ग्रहणम्(वार्तिकान्त) । ग्रहेः दीर्घत्वे इड्ग्रहणं कर्तव्यं । इटः दीर्घः इति वक्तव्यं । न वक्तव्यं । प्रकृतं अनुवर्तते । क्व प्रकृतं । आर्धधातुकस्य इट्वलादेः इति । एवं अपि कर्तव्यं एव । (कात्यायन वार्तिक)अग्रहणे हि असम्प्रत्ययः षष्ठ्यभावात्(वार्तिकान्त) । अक्रियमाणे हि इड्ग्रहणे असम्प्रत्ययः स्यात। किं कारणं । षष्ठ्यभावात। षष्ठीनिर्दिष्टस्य आदेशाः उच्यन्ते न च अत्र षष्ठीं पश्यामः । क्रियमाणे च अपि इड्ग्रहणे । (कात्यायन वार्तिक)चिण्वदिटः प्रतिषेधः(वार्तिकान्त) । चिङ्वदितः प्रतिषेधः वक्तव्यः । ग्राहिष्यते । (कात्यायन वार्तिक)यङ्लोपे च(वार्तिकान्त) । यङ्लोपे च प्रतिषेधः वक्तव्यः । जरीगृहिता , जरीगृहितुं , जरीगृहितव्यं । यदि पुनः इट्दीर्घः आगमान्तरं विज्ञायेत । (कात्यायन वार्तिक)इट्दीर्घः इति चेत्विप्रतिषिद्धम्(वार्तिकान्त) । इट्दीर्घः इति चेत्विप्रतिषिद्धं भवति । यदि इट्न दीर्घः । अथ दीर्घः न इट। इट्दीर्घः च इति विप्रतिषिद्धं । (कात्यायन वार्तिक)प्रतिषिद्धस्य च पुनर्विधाने दीर्घत्वाभावः(वार्तिकान्त) । प्रतिषिद्धस्य च पुनर्विधाने दीर्घत्वस्य अभावः । वुवूर्षते , विवरिषते , ववरीषते । अत्र अपि इट्दीर्घः इति अनुवर्तिष्यते । यत्तर्हि विदेशस्थं प्रतिषिध्य पुनर्विधानं तत्न सिध्यति । ज्®व्रश्च्योः क्त्वि । श्र्युकः किति इति अनेन प्रतिषिद्धे दीर्घत्वं न प्राप्नोति । जरित्वा , जरीत्वा । ईटः विधिः इटः प्रतिषेधः । यथाप्राप्तः इट्दीर्घः भविष्यति । यदि तर्हि इटः ग्रहणे ईटः ग्रहणं न भवति जरीत्वा न क्त्वा सेटिति कित्त्वप्रतिषेधः न प्राप्नोति । इह च अग्र्हीतिति इटः ईटि इति सिज्लोपः न प्राप्नोति । इह च अग्रहीत्न इटि इति वृद्धिप्रतिषेधः न प्राप्नोति । मा भूतेवं । ह्म्यन्तानां इति एवं भविष्यति । अत्र अपि न इटिति एव अनुवर्तते । तत्च अवश्यं इड्ग्रहणं अनुवर्त्यं अधाक्षीतिति एवमर्थं । तथा अग्रहीध्वं , अग्रहीढ्वं विभाषा इटः इति मूर्धन्यः न प्राप्नोति । तस्मात्न एवं शक्यं वक्तुं इटः ग्रहणे ईटः ग्रहणं न भवति इति । भवति चेत्प्रतिषिद्धस्य च पुनर्विधाने दीर्घाभावः इति एव । तस्मातशक्यः इट्दीर्घः आगमान्तरं विज्ञातुं । न चेत्विज्ञायते इटः ग्रहणं कर्तव्यं । न कर्तव्यं । आर्धधातुकस्य इति वर्तते । ग्रहः परस्य आर्धधातुकस्य दीर्घत्वं वक्ष्यामि । इह अपि तर्हि प्राप्नोति । ग्रहणं , ग्रहणीयं । वलादेः इति वर्तते । एवं अपि ग्रहीता , ग्रहीतुं अत्र न प्राप्नोति । भूतपूर्वगत्या भविष्यति । एवं अपि ग्राहकः अत्र प्राप्नोति । किं च इट्प्रतीघातेन खलु अपि दीर्घत्वं उच्यमानं इटं बाधते । तस्मातिटः ग्रहणं कर्तव्यं । न कर्तव्यं । प्रकृतं अनुवर्तते । क्व प्रकृतं । आर्धधातुकस्य इट्वलादेः इति । ननु च उक्तं एवं अपि कर्तव्यं एव अग्रहणे हि असम्प्रत्ययः षष्ठ्यनिर्देशातिति । न एषः दोषः । ग्र्हः इति एषा पञ्चमी इटिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मातिति उत्तरस्य इति । एवं च कृत्वा सः अपि अदोषः भवति यतुक्तं चिण्वदिटः प्रतिषेधः इति । कथं । प्रकृतस्य इटः इदं दीर्घत्वं न च चिण्वदिट्प्रकृतः । यङ्लोपे कथं । यङ्लोपे च उक्तं इटि सर्वत्र । क्व सर्वत्र । यदि एव प्रकृतस्य इटः दीर्घत्वं अथ अपि इट्दीर्घः आगमान्तरं विज्ञायेत । (कात्यायन वार्तिक)यङ्लोपे च उक्तम्(वार्तिकान्त) । किं उक्तं । तदन्तद्विर्वचनातिति ।
(पाणिनीयसूत्र ७,२।४४) कि.,२९५।२-२९६।६ रो. V,१३६।२-१३९।५ अथ वा इति वर्तमाने पुनः वावचनं किमर्थं । (कात्यायन वार्तिक)पुनः वावचनं क्रियते लिङ्सिचोः निवृत्त्यर्थम्(वार्तिकान्त) । पुनः वावचनं क्रियते लिङ्सिचोः निवृत्त्यर्थं । अथ किमर्थं सूतिसूयत्योः पृथग्ग्रहणं क्रियते । सुवतेः मा भूत। अथ किमर्थं धूञः सानुबन्धकस्य ग्रहणं क्रियते । धुवतेः मा भूतिति । किं पुनः इयं प्राप्ते विभाषा आहोस्वितप्राप्ते । कथं च प्राप्ते कथं वा अप्राप्ते । यदि स्वरतिः उदात्तः ततः प्राप्ते । अथ अनुदात्तः ततः अप्राप्ते । (कात्यायन वार्तिक)स्वरतिः उदात्तः(वार्तिकान्त) । स्वरतिः उदात्तः पठ्यते । किमर्थं तर्हि वावचनं । (कात्यायन वार्तिक)वावचनं निवृत्त्यर्थम्(वार्तिकान्त) । वावचनं क्रियते निवृत्त्यर्थं । (कात्यायन वार्तिक)अनुदात्ते हि किति वाप्रसङ्गः प्रतिषिध्य पुनः विधानात्(वार्तिकान्त) । अनुदात्ते हि सति किति विभाषा प्रसज्येत । स्वृत्वा । प्रतिषिध्य पुनः विधानात। प्रतिषिध्य किल अयं पुनः विधीयते । सः यथा एव एकाज्लक्षणं प्रतिषेधं बाधते एवं श्र्युकः किति इति एतं अपि बाधेत । यदि तर्हि उदात्तः स्वरतिः पठिष्यति विप्रतिषेधं स्वरतेः वेट्त्वातृतः स्ये विप्रतिषेधेन इति सः विप्रतिषेधः न उपपद्यते । किं कारणं । सः विधिः अयं प्रतिषेधः विधिप्रतिषेधयोः च अयुक्तः विप्रतिषेधः । सः अपि विधिः न मृदूनां इव कार्पासानां कृतः प्रतिषेधविषये आरभ्यते । सः यथा एव एकाज्लक्षणं प्रतिषेधं बाधते एवं इमं अपि बाधिष्यते । अथ वा येन न अप्राप्ते तस्य बाधनं भवति न च अप्राप्ते वलादिलक्षणे इयं विभाषा आरभ्यते स्यलक्षणे पुनः प्राप्ते च अप्राप्ते च । अथ वा मध्ये अपवादाः पूर्वान्विधीन्बाधन्ते इति एवं इयं विभाषा वलादिलक्षणं इटं बाधिष्यते स्यलक्षणं न बाधिष्यते । अथ वा पुनः अस्तु अनुदात्तः । ननु च उक्तं अनुदात्ते हि किति वाप्रसङ्गः प्रतिषिध्य पुनः विधानातिति । न एषः दोषः । येन न अप्राप्ते तस्य बाधनं भवति न च अप्राप्ते एकाज्लक्षणे प्रतिषेधे इयं विभाषा आरभ्यते श्र्युकः किति इति एतस्मिन्पुनः प्राप्ते च अप्राप्ते च । अथ वा श्र्युकः किति इति एषः योगः उदात्तार्थः च येभ्यः च अनुदात्तेभ्यः इट्प्राप्यते तद्बाधनार्थः च । अथ वा श्र्युकः किति इति इह अनुवर्तिष्यते । अथ वा आचार्यप्रवृत्तिः ज्ञापयति न इयं विभाषा उग्लक्षणस्य प्रतिषेधस्य विषये भवति इति यतयं सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनां इति स्वृग्रहणं करोति ।
(पाणिनीयसूत्र ७,२।४७) कि.,२९६।८-१३ रो. V,१३९।७-१२ इटिति वर्तमाने पुनः इड्ग्रहणं किमर्थं । (कात्यायन वार्तिक)इड्ग्रहणं नित्यार्थम्(वार्तिकान्त) । नित्यः अयं आरम्भः । न एततस्ति प्रयोजनं । सिद्धा अत्र विभषा पूर्वेण एव तत्र आरम्भसामर्थ्यात्नित्यः विधिः भविष्यति । न अत्र पूर्वेण विभाषा प्राप्नोति । किं कारणं । यस्य विभाषा इति प्रतिषेधात। तत्र आरम्भसामर्थ्यात्विभषा लभ्येत पुनः इड्ग्रहणातिटेव भवति ।
(पाणिनीयसूत्र ७,२।४८) कि.,२९६।१५-१७ रो. V,१४०।१-३ (कात्यायन वार्तिक)इषेः तकारे श्यन्प्रत्ययात्प्रतिषेधः(वार्तिकान्त) । इषेः तकारे श्यन्प्रत्ययात्प्रतिषेधः वक्तव्यः । इह मा भूत। प्रेषिता , प्रेषितुं , प्रेषितव्यं ।
(पाणिनीयसूत्र ७,२।५२) कि.,२९६।१९-२१ रो. V,१४०।५-७ इटिति वर्तमाने पुनः इड्ग्रहणं किमर्थं । (कात्यायन वार्तिक)पुनः इड्ग्रहणं नित्यार्थम्(वार्तिकान्त) । इटिति वर्तमाने पुनः इड्ग्रहणं क्रियते नित्यार्थं । नित्यार्थः अयं आरम्भः ।
(पाणिनीयसूत्र ७,२।५८) कि.,२९७।२-१२ रो. V,१४०।९-१४१।२ (कात्यायन वार्तिक)गमेः इट्परस्मैपदेषु चेत्कृति उपसङ्ख्यानम्(वार्तिकान्त) । गमेः इट्परस्मैपदेषु चेत्कृति उपसङ्ख्यानं कर्तव्यं । जिगमिषिता , जिगमिषितुं , जिगमिषितव्यं । तत्तर्हि उपसङ्ख्यानं कर्तव्यं । न कर्तव्यं । अविशेषेण गमेः इडागमं उक्त्वा आत्मनेपदपरे न इति वक्ष्यामि । (कात्यायन वार्तिक)आत्मनेपदपरप्रतिषेधे उक्तम्(वार्तिकान्त) । किं उक्तं । आत्मनेपदपरप्रतिषेधे तत्परपरसीयुडेकादेशेषु प्रतिषेधः इति । इह अपि आत्मनेपदपरप्रतिषेधे तत्परपरसीयुडेकादेशेषु प्रतिषेधः वक्तव्यः । तपरपरे तावत। सङ्जिगंसिष्यते । सीयुटि । सङ्गंसीष्ट । एकादेशे । सङ्गंस्यन्ते । एकादेशे कृते व्यपवर्गाभावात्न प्राप्नोति । (कात्यायन वार्तिक)सिद्धं तु गमेः आत्मनेपदेन समानपदस्थस्य इट्प्रतिषेधात्(वार्तिकान्त) । सिद्धं एतत। कथं । गमेः आत्मनेपदेन समानपदस्थेण न भवति इति वक्तव्यं ।
(पाणिनीयसूत्र ७,२।५९) कि.,२९७।१४-२९८।१२ रो. V,१४१।३-१४२।९ (कात्यायन वार्तिक)वृतादिप्रतिषेधे च(वार्तिकान्त) । किं । कृति उपसङ्ख्यानं कर्तव्यं : विवृत्सिता विवृत्सितुं , विवृत्सितव्यं । तत्तर्हि उपसङ्ख्यानं कर्तव्यं । न कर्तव्यं । अविशेषेण वृतादिभ्यः इट्प्रतिषेधं उक्त्वा आत्मनेपदपरः इट्भवति इति वक्ष्यामि । (कात्यायन वार्तिक)आत्मनेपदपरे इड्वचने तत्परपरसीयुडेकादेशेषु इड्वचनम्(वार्तिकान्त) । आत्मनेपदपरे इड्वचने तत्परपरसीयुडेकादेशेषु इट्वक्तव्यः । तपरपरे तावत। विवर्तिषिष्यते । सीयुटि । वर्तिषीष्ट । एकादेशे । वर्तिष्यन्ते , वर्धिष्यन्ते । (कात्यायन वार्तिक)सिद्धं तु वृतादीनां आत्मनेपदेन समानपदस्थस्य इड्वचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । वृतादीनां आत्मनेपदेन समानप्दस्थस्य इट्भवति इति वक्तव्यं । (कात्यायन वार्तिक)चतुस्तासिक्¯पिग्रहणानर्थक्यं च(वार्तिकान्त) । चतुर्ग्रहणं च अनर्थकं । सर्वेभ्यः हि वृतादिभ्यः प्रतिषेधः इष्यते । तासिग्रहणं च अनर्थकं । किं कारणं । (कात्यायन वार्तिक)निवृत्तत्वात्सकारस्य(वार्तिकान्त) । निवृत्तं सकारादौ इति । तास्ग्रहणे च इदानीं अक्रियमाणे क्¯पिग्रहणेन अपि न अर्थः एषः अपि हि वृतादिः पञ्चमः । भवेत्क्¯पिग्रहणं न कर्तव्यं तास्ग्रहणं तु कर्तव्यं । यत्हि तत्सकारादौ इति न तत्शक्यं निवर्तयितुं तृचि अपि हि प्रसज्येत । वर्तिता , वर्धिता । तास्ग्रहणे च इदानीं क्रियमाणे क्¯पिग्रहणं अपि कर्तव्यं अन्येभ्यः अपि वृतादिभ्यः तासौ मा भूतिति । भवेत्तास्ग्रहणं कर्तव्यं क्¯पिग्रहणं तु न एव कर्तव्यं । अन्येभ्यः अपि वृतादिभ्यः तासौ कस्मात्न भवति । परस्मैपदेषु इति वर्तते क्¯पेः एव च तास्परस्मैपदपरः न अन्येभ्यः वृतादिभ्यः । यदि एवं तास्ग्रहणेन अपि न अर्थः । तृचि कस्मात्न भवति । परस्मैपदेषु इति वर्तते ।
(पाणिनीयसूत्र ७,२।६२) कि.,२९८।१४-२९९।४ रो. V,१४३।२-१४४।५ (कात्यायन वार्तिक)तासौ अत्वत्प्रतिषेधे घसेः प्रतिषेधप्रसङ्गः अकारवत्त्वात्(वार्तिकान्त) । तासौ अत्वत्प्रतिषेधे घसेः प्रतिषेधः प्राप्नोति । जघसिथ । किं कारणं । अकारवत्त्वात। सः अपि हि अकारवान। (कात्यायन वार्तिक)सिद्धं तु हलादिग्रहणात्(वार्तिकान्त) । सिद्धं एतत। कथं । हलादिग्रहणं कर्तव्यं । तत्च अवश्यं कर्तव्यं । अठ्यशी प्रयोजयतः । आथ्यशी तावत्न प्रयोजयतः । किं कारणं । तासौ अनिटः इति उच्यते सेटौ च इमौ तासौ । अञ्ज्वशू तर्हि प्रयोजयतः । अञ्ज्वशू च अपि न प्रयोजयतः । किं कारणं । तासौ नित्यानिटः इति उच्यते विभाषितेटौ च एतौ । अदिः तर्हि प्रयोजयति । आदिथ । क्रियमाणे अपि वै हलादिग्रहणे अत्र प्राप्नोति । जघसिथ । एषः अपि हलादिः । (कात्यायन वार्तिक)तस्य च अभावात्तासौ(वार्तिकान्त) । तासौ अनिटः इति उच्यते न च घसिः तासौ अस्ति । ननु च यः तासौ न अस्ति अनिटपि असौ तासौ भवति । न एवं विज्ञायते यः तासौ अनिटिति । कथं तर्हि । यः तासौ अस्ति अनिट्च इति । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । सप्तम्यर्थे अपि वै वतिः भवति । तत्यथा । मथुरायां इव मथुरावत। पाटलिपुत्रे इव पाटलिपुत्रवत। एवं तासौ इव तास्वत।
(पाणिनीयसूत्र ७,२।६३) कि.,२९९।६-१९ रो. V,१४५।२-१४६।३ किमर्थं इदं उच्यते न अचः तास्वत्थलि अनिटः नित्यं इति एव सिद्धं । एवं तर्हि नियमार्थः अयं आरम्भः । ऋतः एव भारद्वाजस्य न अन्यतः भारद्वाजस्य इति । क्व मा भूत। ययिथ , वविथ इति । (कात्यायन वार्तिक)ऋतः भारद्वाजस्य इति नियमानुपपत्तिः अप्राप्तत्वात्प्रतिषेधस्य(वार्तिकान्त) । ऋतः भारद्वाजस्य इति नियमानुपपत्तिः । किं कारणं । अप्राप्तत्वात्प्रतिषेधस्य । गुणे कृते रपरत्वे च अनजन्तत्वात्प्रतिषेधः न प्राप्नोति । असति नियमे कः दोषः । (कात्यायन वार्तिक)तत्र पचादिभ्यः इड्वचनम्(वार्तिकान्त) । तत्र पचादिभ्यः इट्वक्तव्यः । पेचिथ , शेकिथ इति । यदिः पुनः अयं भारद्वाजः पुरस्तातपकृष्येत । अचः तास्वत्थलि अनिटः नित्यं भारद्वाजस्य । उपदेशे अत्वतः भारद्वाजस्य । ततः ऋतः । भारद्वाजस्य इति निवृत्तं । सिध्यते एवं अयं तु भारद्वाजः स्वस्मात्मतात्प्रच्यावितः भवति । एवं तर्हि (कात्यायन वार्तिक)योगविभागात्सिद्धम्(वार्तिकान्त) । योगविभागः करिष्यते । अचः तास्वत्थलि अनिटः नित्यं उपदेशे । ततः अत्वतः । अत्वतः च उपदेशे इति ।
(पाणिनीयसूत्र ७,२।६४) कि.,२९९।२१-२२ रो. V,१४६।५-७ वृग्रहणं किमर्थं न कृसृभृवृस्तुद्रुश्रुस्रुवः लिटि इति एव सिद्धं । एवं तर्हि नियमार्थः अयं आरम्भः । निगमः एव यथा स्यात। क्व मा भूत। ववरिथ ।
(पाणिनीयसूत्र ७,२।६७।१) कि.,३००।२-१६ रो. V,१४७ किमर्थं इदं उच्यते । (कात्यायन वार्तिक)वस्वेकाजाद्घसांवचनं नियमार्थम्(वार्तिकान्त) । नियमार्थः अयं आरम्भः । वसौ एकाजात्घसां एव । क्व मा भूत। बिभिद्वान। किं उच्यते नियमार्थं इति न पुनः विध्यर्थः अपि स्यात। प्रतिषेधः अपि हि अत्र प्राप्नोति न इट्वशि कृति इति । कृत्च एव हि अयं वशादिः च । एवं तर्हि कृसृभृवृस्तुद्रुश्रुस्रुवः लिटि इति एतस्मात्नियमातत्र इट्भविष्यति । न अत्र तेन परिप्रापणं प्राप्नोति । किं कारणं । प्रकृतिलक्षणस्य प्रतिषेधस्य सः प्रत्यारम्भः प्रत्ययलक्षणः च अयं प्रतिषेधः । उभयोः सः प्रत्यारम्भः । कथं ज्ञायते । वृङ्वृञोः ग्रहणात। कथं कृत्वा ज्ञापकं । इमौ वृङ्वृञौ उदात्तौ तयोः प्रकृतिलक्षणः प्रतिषेधः न प्राप्नोति । पश्यति तु आचार्यः उभयोः सः प्रत्यारम्भः इति ततः वृङ्वृञोः ग्रहणं करोति । न खलु अपि कः चितुभयवान्प्रतिषेधः प्रकृतिलक्षणः प्रत्ययलक्षणः च । तुल्यजातीये असति यथा एव प्रकृतिलक्षणसय नियामकः भवति एवं प्रत्ययलक्षणस्य अपि नियामकः भविष्यति । अथ यावता वसौ एकाज्भ्यः इटा भवितव्यं कः नु अत्र विशेषः नियमार्थे वा सति विध्यर्थे वा । न खलु कः चित्विशेषः । आहोपुरुषिकामात्रं तु भवानाह विध्यर्थं इति । वयं तु ब्रूमः नियमार्थं इति ।
(पाणिनीयसूत्र ७,२।६७।२) कि.,३००।१७-२७ रो. V,१४८-१४९ अथ एकाज्ग्रहणं किमर्थं । इह मा भूत। बिभिद्वान्, चिच्छिद्वानिति । क्रियमाणे अपि वा एकाज्ग्रहणे अत्र प्राप्नोति । एषः अपि हि एकाच। एवं तर्हि कृते द्विर्वचने यः एकाच। किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । एकाज्ग्रहणसामर्थ्यात। न हि कः चितकृते चिर्वचने एनकाचस्ति यदर्थं एकाज्ग्रहणं क्रियते । ननु च अयं अस्ति जागर्तिः । गागृवांसः अनु ग्मन। यत्तर्हि आकारग्रहणं करोति न हि कः चितकृते द्विर्वचने आकारान्तः अनेकाचस्ति । ननु च अयं अस्ति दरिद्रातिः । न दरिद्रातेः इटा भवितव्यं । किं कारणं । उक्तं एतत्दरिद्रातेः आर्धधातुके लोपः सिद्धः च प्रत्ययविधौ इति । यः च इदानीं प्रत्ययविधौ सिद्धः सिद्धः असौ इड्विधौ । एवं अपि भूतपूर्वगतिः विज्ञायेत । आकारान्तः यः भूतपूर्वः इति । एकाज्ग्रहणं एव तर्हि ज्ञापकं । ननु च उक्तं जागर्त्यर्थं एतत्स्यात। न एकं उदाहरणं एकाज्ग्रहणं प्रयोजयति । यदि एतावत्प्रयोजनं स्यात्जागर्तेः न इति एव भ्रूयात।
(पाणिनीयसूत्र ७,२।६७।३) कि.,३०१।१-११ रो. V, १५०-१५१ अथ घसिग्रहणं किमर्थ न एकाचिति एव सिद्धं । (कात्यायन वार्तिक)घसिग्रहणं अनच्कत्वात्(वार्तिकान्त) । घसिग्रहणं क्रियते लोपे कृते अनच्कत्वातिट्न प्राप्नोति । इदं इह सम्प्रधार्यं । इट्क्रियतां लोपः इति किं अत्र कर्तव्यं । परत्वातिडागमः । नित्यः लोपः । कृते अपि इटि प्राप्नोति अकृते अपि । इटपि नित्यः । कृते अपि लोपे प्राप्नोति अकृते अपि । अनित्यः इट्न हि कृते लोपे प्राप्नोति । किं कारणं । अनच्कत्वात। एवं तर्हि द्विर्वचने कृते अभ्यासे यः अकारः तदाश्रयः इट्भविष्यति । न सिध्यति । किं कारणं । द्वित्वात्लोपस्य परत्वात। द्विर्वचनं क्रियतां लोपः इति किं अत्र कर्तव्यं । परत्वात्लोपः । लोपे कृते अनच्कत्वात्द्विर्वचनं न प्राप्नोति । घसिग्रहणे पुनः क्रियमाणे न दोषः भवति । कथं । वचनातिट्भविष्यति । इटि कृते द्विर्वचनं क्रियतां लोपः इति यदि अपि परत्वात्लोपः स्थानिवद्भावात्द्विर्वचनं भविष्यति ।
(पाणिनीयसूत्र ७,२।६८) कि.,३०१।१३-१४ रो. V,१५१।५-६ दृशेः च इति वक्तव्यं । ददृश्वान्, ददृशिवान। तत्तर्हि वक्तव्यं । न वक्तव्यं । दृशेः इति वर्तते ।
(पाणिनीयसूत्र ७,२।७०) कि.,३०१,१६-२० रो. V,१५१।८-१२ (कात्यायन वार्तिक)स्वरतेः वेट्त्वातृतः स्ये विप्रतिषेधेन(वार्तिकान्त) । स्वरतिलक्षणात्वावचनातृतः स्ये इति एतत्भवति विप्रतिषेधेन । स्वरतिलक्षणस्य वावचनस्य अवकाशः । स्वर्ता , स्वरिता । ऋतः स्ये इति अस्य अवकाशः । करिष्यते , हरिष्यते । इह उभयं प्राप्नोति । स्वरिष्यति , अस्वरिष्यत। ऋतः स्ये इति एतत्भवति विप्रतिषेधेन ।
(पाणिनीयसूत्र ७,२।७३) कि.,३०१।२१-३०२।१० रो. V,१५१।१४-१५२।१० किं उदाहरणं । अयंसीत्, व्यरंसीत्, अनंसीत्, अयासीत्, अवासीत। न एततस्ति । न अस्ति अत्र विशेषः सति वा इटि असति वा । इदं तर्हि । अयंसिष्टां , अयंसिषुः , व्यरंसिष्टां , व्यरंसिषुः , अनंसिष्टां , अनंसिषुः , अयासिष्टां , अयासिषुः , अवासिष्टां , अवासिषुः । इदं च अपि उदाहरणं । अयंसीत्, व्यरंसीत्, अनंसीत्, अयासीत्, अवासीत। ननु च उक्तं न अस्ति अत्र विशेषः सति वा इटि असति वा इति । अयं अस्ति विशेषः । यदि अत्र इट्न स्यात्वृद्धिः प्रसज्येत । इटि पुनः सति न इटि इति प्रतिषेधः सिद्धः भवति । मा भूतेवं ह्म्यन्तानां इति एवं भविष्यति । अत्र अपि न इटि इति अनुवर्तते । तत्च अवश्यं इड्ग्रहणं अनुवर्त्यं अधाक्षीतिति एवमर्थं । आकारान्ताः च अपि पदपूर्वाः एकवचने उदाहरणं । मा हि यासीत। यदि अत्र इट्न स्यातनुदात्तस्य ईटः श्रवणं प्रसज्येत । इटि पुनः सति उक्तं एततर्थवत्तु सिचः चित्करणसामर्थ्यात्हि इटः उदात्तत्वं इति तत्र एकादेशः उदात्तेन उदात्तः इति उदात्तत्वं सिद्धं भवति ।
(पाणिनीयसूत्र ७,२।७७-७८) कि.,३०२।१३-१८ रो. V,१५२।१३-१५३।४ किमर्थः योगविभागः न इशीडजनां स्ध्वे इति एव उच्येत । ईशः ध्वे मा भूतिति । इष्यते एव : ईशिध्वे इति । ईडजनोः तर्हि से मा भूतिति । इष्यते एव । ईडिषे , जनिषे इति । ईशः तर्हि स्वे मा भूतिति । इष्यते एव । ईशिष्व इति । से तर्हि यः स्वशब्दः तत्र यथा स्यात्क्रियासमभिहारे यः स्वशब्दः तत्र मा भूतिति । अत्र अपि इष्यते । सः भवानीशिष्व इति एव अयं ईष्टे इति । आतः च इष्यते एवं हि आह सिद्धं तु लोण्मध्यमपुरुषैकवचनस्य क्रियासमभिहारे द्विर्वचनातिति ।
(पाणिनीयसूत्र ७,२।८०) कि.,३०२।२०-३०३।२ रो. V,१५४।१-६ किं सार्वधातुकग्रहणं अनुवर्तते उताहो न । किं च अर्थः अनुवृत्त्या । बाढं अर्थः यदि अकारात्परः याशब्दः आर्धधातुकं अस्ति । ननु च अयं अस्ति । चिकीर्ष्यात्, जिहीर्ष्यात। लोपः अत्र बाधकः भविष्यति । किं तर्हि अस्मिन्योगे उदाहरणं । पचेत्, यजेत। अत्र अपि अतः दीर्घः यञि इति दीर्घत्वं प्राप्नोति । सः यथा एव अयादेशः दीर्घत्वं बाधते एवं लोपं अपि बाधेत । तस्मात्सार्वधातुकग्रहणं अनुवर्त्यं ।
(पाणिनीयसूत्र ७,२।८२) कि.,३०३।४-२३ रो. V,१५५।२-१५६।१५ (कात्यायन वार्तिक)मुकि स्वरे दोषः(वार्तिकान्त) । मुकि सति स्वरे दोषः भवति । पचमानः , यजमानः । मुका व्यवहितत्वातनुदात्तत्वं न प्राप्नोति । ननु च अयं मुकदुपदेशभक्तः अदुपदेशग्रहणेन ग्राहिष्यते । न सिध्यति । अङ्गस्य मुकुच्यते विकरणान्तं च अङ्गं सः अयं सङ्घातभक्तः अशक्यः अदुपदेशग्रहणेन ग्रहीतुं । एवं तर्हि अभक्तः करिष्यते । (कात्यायन वार्तिक)अभक्ते च(वार्तिकान्त) । किं । स्वरे दोषः भवति । पचमानः , यजमानः । मुका व्यवहितत्वातनुदात्तत्वं न प्राप्नोति । एवं तर्हि परादिः करिष्यते । (कात्यायन वार्तिक)परादौ दीर्घप्रसङ्गः(वार्तिकान्त) । यदि परादिः क्रियते अतः दीर्घः यञि इति दीर्घत्वं प्राप्नोति । न एषः दोषः । तिङि इति एवं तत। सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं मुकि स्वरे दोषः इति । परिहृतं एततदुपदेशभक्तः अदुपदेशग्रहणेन ग्राहिष्यते । ननु च उक्तं अङ्गस्य मुकुच्यते विकरणान्तं च अङ्गं सः अयं सङ्घातभक्तः अशक्यः अदुपदेशग्रहणेन ग्रहीतुं इति । अथ अयं अद्भक्तः स्यात्गृह्येत अदुपदेशग्रहणेन । बाढं गृह्येत । अद्भक्तः तर्हि भविष्यति । तत्कथं । अतः या इयः इति अत्र अकारग्रहणं पञ्चमीनिर्दिष्टं अङ्गस्य इति च षष्ठीनिर्दिष्टं तत्र अशक्यं विविभक्तित्वाततः इति पञ्चम्या अङ्गं विशेषयितुं । तत्प्रकृतं इह अनुवर्तिष्यते । एवं अपि षष्ठ्यभावात्न प्राप्नोति । आनः इति एषा सप्तमी अतः इति पञ्चम्याः षष्ठीं प्रकल्पयिष्यति तस्मिनिति निर्दिष्टे पूर्वस्य इति ।
(पाणिनीयसूत्र ७,२।८४) कि.,३०४।२-१५ रो. V,१५७।२-१५९।३(कात्यायन वार्तिक) अष्टन्जनादिपथिमथ्यात्वेषु आन्तरतम्यातनुनासिकप्रसङ्गः(वार्तिकान्त) । अष्टन्जनादिपथिमथ्यात्वेषु आन्तरतम्यातनुनासिकः प्राप्नोति । अष्टाभिः , अष्टाभ्यः , जातः , जातवान्, पन्थाः , मन्थाः । (कात्यायन वार्तिक)सिद्धं अनण्त्वात्(वार्तिकान्त) । सिद्धं एतत। कथं । अनण्त्वात। कथं अनण्त्वं । अण्सवर्णान्गृह्णाति इति उच्यते न च अकारः अण। (कात्यायन वार्तिक)उच्चारणसामर्थ्यात्वा(वार्तिकान्त) । अथ वा शुद्धोच्चारणसामर्थ्यात्न भविष्यति । न एतौ स्तः परिहारौ । यत्तावतुच्यते अनण्त्वातिति न ब्रूमः अण्सवर्णान्गृह्णाति इति । कथं तर्हि तपरः तत्कालस्य इति । यतपि उच्यते उच्चारणसामर्थ्यात्वा इति अस्ति अन्यतुच्चारणे प्रयोजनं । किं । उत्तरार्थं । रायः हलि इति । एवं तर्हि न इमौ पृथक्परिहारौ । एकपरिहरः अयं । सिद्धं अनण्त्वातुच्चारणसामर्थ्यात्वा इति । इह तावतष्टाभिः , अष्टाभ्यः इति अनण्त्वात्सिद्धं । जातः , जातवान्, पन्थाः , मन्थाः उच्चारण्सामर्थ्यात्सिद्धं । यदि एवं पृथक्परिहारयोः अपि न दोषः । यः यत्र परिहारः सः तत्र भविष्यति ।
(पाणिनीयसूत्र ७,२।८६) कि.,३०४।१७-१८ रो. V,१५९।५-६ अनादेशग्रहणं शक्यं अकर्तुं । कथं हलि इति अनुवर्तते न च आदेशः हलादिः अस्ति । ततेततनादेशग्रहणं तिष्ठतु तावत्सान्न्यासिकं ।
(पाणिनीयसूत्र ७,२।८९) कि.,३०४-२१ रो. V,१५९।८-९ अज्ग्रहणं शक्यं अकर्तुं । कथं । अविशेषेण यत्वं उत्सर्गः तस्य हलादौ आत्वं अपवादः ।
(पाणिनीयसूत्र ७,२।९०) कि.,३०५।२-३ रो. V,१६०।२-३ शेषग्रहणं शक्यं अकर्तुं । कथं । अविशेषेण लोपः उत्सर्गः तस्य अजादौ यत्वं अपवादः हलादौ आत्वं ।
(पाणिनीयसूत्र ७,२।९१) कि.,३०५।५-१३ रो. V,१६०।५-१६२।२ परिग्रहणं शक्यं अकर्तुं । मान्तस्य इति एव सिद्धं । न सिध्यति । किं कारणं । अन्तशब्दस्य उभयार्थत्वात। कथं । अयं अन्तशब्दः अस्ति एव सह तेन वर्तते । तत्यथा । मर्यादान्तं देवदत्तस्य क्षेत्रं । सह मर्यादया इति गम्यते । अस्ति प्राक्तस्मात्वर्तते । तत्यथा । नद्यन्तं देवदत्तस्य क्षेत्रं इति । प्राक्नद्याः इति गम्यते । तत्यः सह तेन वर्तते तस्य इदं ग्रहणं यथा विज्ञायेत । न एततस्ति प्रयोजनं । सर्वत्र एव अन्तशब्दः सह तेन वर्तते । अथ कथं नद्यन्तं देवदत्तस्य क्षेत्रं इति । नद्याः क्षेत्रत्वे सम्भः न अस्ति इति कृत्वा प्राक्नद्याः इति गम्यते । अवधिद्योतनार्थं तर्हि परिग्रहणं कर्तव्यं । मान्तस्य इति इयति उच्यमाने यत्र एव मान्ते युष्मदस्मदी तत्र एव आदेशाः स्युः । क्व च मान्ते युष्मदस्मदी । युष्मानाचष्टे , अस्मानाचष्टे इति युष्मयतेः अस्मयतेः च अप्रत्ययः ।
(पाणिनीयसूत्र ७,२।९८।१) कि.,३०५।१५-३०६।५ रो. V,१६३-१६४ किमर्थं इदं उच्यते न त्वमौ एकवचने इति एव सिद्धं । न सिध्यति । किं कारणं । एकवचनाभावात। एकवचने इति उच्यते न च अत्र एकवचनं पश्यामः । प्रत्ययलक्षणेन । न लुमता अङ्गस्य इति प्रत्ययलक्षणस्य प्रतिषेधः । एवं तर्हि इदं इह सम्प्रधार्यं । लुक्क्रियतां आदेशौ इति किं अत्र कर्तव्यं । परत्वातादेशौ । नित्यः लुक। कृतयोः अपि आदेशयोः प्राप्नोति अकृतयोः अपि । अन्तरङ्गौ आदेशौ । एवं तर्हि सिद्धे सति यत्प्रत्ययोत्तरपदयोः त्वमौ शास्ति तत्ज्ञापयति आचार्यः अन्तरङ्गानपि विधीन्बाधित्वा बहिरङ्गः लुक्भवति इति । किं एतस्य ज्ञापने प्रयोजनं । गोमान्प्रियः अस्य गोमत्प्रियः , यवमत्प्रियः गोमानिव आचरति गोमत्यते , यवमत्यते अन्तरङ्गानपि नुमादीन्बहिरङ्गः लुक्बाधते इति । न एततस्ति ज्ञापकं । अस्ति अन्यतेतस्य वचने प्रयोजनं । किं । ये अन्ये एकवचनादेशाः प्राप्नुवन्ति तद्बाधनार्थं एतत्स्यात। तत्यथा । तव पुत्रः त्वत्पुत्रः , मम पुत्रः मत्पुत्रः , तुभ्यं हितं त्वद्धितं , मह्यं हितं मद्धितं इति । यत्तर्हि मपर्यन्तग्रहणं अनुवर्तयति । यति अत्र अन्ये एकवचनादेशाः स्युः मपर्त्यन्तानुवृत्तिः अनर्थिका स्यात।
(पाणिनीयसूत्र ७,२।९८।२) कि.,३०६।६-३०७।१६ रो. V,१६५-१६७ (कात्यायन वार्तिक)त्रिचतुर्युष्मदस्मद्ग्रहणेषु अर्थग्रहणं शब्दविशेषणम्(वार्तिकान्त) । त्रिचतुर्युष्मदस्मद्ब्रहणेषु अर्थग्रहणं शब्दविशेषणं द्रष्टव्यं । त्रिचतुरोः स्त्रियां तिसृचतसृ । यदि अपि समासः पुंसि नपुंसके वा वर्तते त्रिचतुरौ च स्त्रियां वर्तेते भवति एव तिसृचतसृभावः । प्रियाः तिस्रः ब्राह्मण्यः अस्य ब्राह्मणस्य प्रियतिसा , प्रियतिस्रौ , प्रियतिस्रः , प्रियचतसा , प्रियचतस्रौ , प्रियचतस्रः , प्रियाः तिस्रः ब्राह्मण्यः अस्य ब्राह्मणकुलस्य प्रियतिसृ, प्रियतिसृणी , प्रियतिस्®णि , प्रियचतसृ , प्रियचतसृणी , प्रियचतस्®णि । यदा हि समासः स्त्रियां वर्तते त्रिचतुरौ च पुंसि नपुंसके वा तदा म भूतां इति । प्रियाः त्रयः ब्राह्मणाः अस्याः ब्राह्मण्याः प्र्यत्रिः , प्रियत्री , प्रियत्रयः , प्रियचत्वाः , प्रियचत्वारौ , प्रियचत्वारः । प्रियाणि त्रीणि ब्राह्मणकुलानि अस्याः ब्राह्मण्याः प्रियत्रिः , प्रियत्री , प्रियत्रयः , प्रियचत्वाः प्रियचत्वारौ प्रियचत्वारः । युवावौ द्विवचने । यदि अपि समासः एकार्थः वा भवति बह्वर्थः वा भवति द्व्यर्थे च युष्मदस्मदी भवतः एव युवावौ । किं अविशेषेण । न इति आह । यूयवयौ जसि त्वाहौ सौ तुभ्यमह्यौ ङयि तवममौ ङसि इति एतान्विधीन्वर्जयित्वा । अतिक्रान्तः युवां अतित्वं , अत्यहं , अतिक्रान्तौ युवां अतियुवां , अत्यावां , अतिक्रान्तौ युवां अतियुवां , अत्यावां , अतिक्रान्तान्युवां अतियुवान्, अत्यावान्, अतियुवया , अत्यावया , अतियुवाभ्यां , अत्यावाभ्यां , अतियुवाभिः अत्यावाभिः , अतितुभ्यं , अतिमह्यं , अतियुवाभ्यां , अत्यावाभ्यां , अतियुवभ्यं , अत्यावभ्यं , अतियुवत्, अत्यावत्, अतियुवाभ्यां अत्यावाभ्यं , अतियुवत्, अत्यावत्, अतितव , अतिमम, अतियुवयोः , अत्यावयोः , अतियुवाकं , अत्यावाकं , अतियुवयि , अत्यावयि , अतियुवयोः , अत्यावयोः , अतियुवासु , अत्यावासु । त्मौ एकवचने । यदि अपि समासः द्व्यर्थः भवति बह्वर्थः वा एकार्थे च युष्मदस्मदी भवतः एव त्वमौ । किं अविशेषेण । न इति आह । तानेव विधीन्वर्जयित्वा । अतिक्रान्तः त्वां अतित्वं , अत्यहं , अतिक्रान्तौ त्वां अतित्वां , अतिमां , अतिक्रान्तौ त्वां अतित्वां , अतिमां , अतिक्रान्तान्त्वां अतित्वानतिमान्, अतित्वया , अतिमया , अतित्वाभ्यां , अतिमाभ्यां , अतित्वभ्यं , अतिमभ्यं , अतित्वत्, अतिमत्, अतित्वाभ्यां , अतिमाभ्यां , अतित्वभ्यं , अतिमभ्यं , अतित्वत्, अतिमत्, अतिमाभ्यां , अतित्वत्, अतिमत्, अतितव , अतिमम , अतित्वयोः अतिमयोः , अतित्वाकं , अतिमाकं , अतित्वयि , अतिमयि , अतित्वयोः , अतिमयोः , अतित्वासु , अतिमासु । यदि एवं यूयवयौ जसि त्वाहौ सौ तुभ्यमह्यौ ङयि तवममौ ङसि इति एतेभ्यः विधिभ्यः परत्वात्त्वमौ एकवचने इति प्राप्नोति । सावकासाः हि एते विधयः इदानीं भवन्ति । कः अवकाशः । अनेकार्थे युष्मदस्मदी । त्वमौ एकवचने इति अस्य अवकाशः । अन्यानि वचनानि । एकार्थयोः युष्मदस्मदोः एतेषु वचनेषु उभयं प्राप्नोति । परत्वात्त्वमौ एकवचने इति प्राप्नोति । न एषः दोषः । शेषे इति वर्तते । कः च शेषः । जसादिभिः अव्याप्तं यतेकवचनं तस्मिन्शेषे । अशेषत्वात्न भविष्यति । अथ वा तमौ एकवचने इति अत्र यूयवयौ जसि त्वाहौ सौ तुभ्यमह्यौ ङयि तवममौ ङसि इति एततनुवर्तिष्यते ।
(पाणिनीयसूत्र ७,२।९९) कि.,३०७।१८-३०८।६ रो. V,१६७।१६-१६९।२ (कात्यायन वार्तिक)तिसृभावे सञ्ज्ञायां कनि उपसङ्ख्यानम्(वार्तिकान्त) । तिसृभावे सञ्ज्ञायां कनि उपसङ्ख्यानं कर्तव्यं । तिसृका नाम ग्रामः । (कात्यायन वार्तिक)चतसरि आद्युदात्तनिपातनं च(वार्तिकान्त) । चतसरि आद्युदात्तनिपातनं कर्तव्यं । त्रिचतुरोः स्त्रियां तिसृचतसृ । किं प्रयोजनं । चतस्रः पश्य । शसि स्वरः मा भूतिति । किं च अन्यत। (कात्यायन वार्तिक)उपदेशिवद्वचनं च(वार्तिकान्त) । उपदेशिवद्भावः च वक्तव्यः । किं प्रयोजनं । (कात्यायन वार्तिक)स्वरसिद्ध्यर्थम्(वार्तिकान्त) । उपदेशावस्थायां एव आद्युदात्तनिपातने कृते विभक्तिस्वरेण बाधनं यथा स्यातः चतसृणां इति । सः तर्हि उपदेशिवद्भावः वक्तव्यः । न वक्तव्यः । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । विभक्तिस्वरभावः च हलादिग्रहणाताद्युदात्तनिपातने हि हलादिग्रहणानर्थक्यं इति ।
(पाणिनीयसूत्र ७,२।१००) कि.,३०८।८-२२ रो. V,१६९।४-१७१।३ (कात्यायन वार्तिक)अचि रादेशे जसि उपसङ्ख्यानं गुणपरत्वात्(वार्तिकान्त) । अचि रादेशे जसि उपसङ्ख्यानं कर्तव्यं । तिस्रः तिष्ठन्ति , चतस्रः तिष्ठन्ति । किं पुनः कारणं न सिध्यति । गुणपरत्वात। परत्वात्गुणः प्राप्नोति । तत्तर्हि वक्तव्यं । (कात्यायन वार्तिक)न वा अनवकाशत्वात्रस्य(वार्तिकान्त) । न वा वक्तव्यं । किं कारणं । अनवकाशत्वात्रस्य । अनवकाशः रादेशः गुणं बाधिष्यते । सावकाशः रादेशः । कः अवकाशः । तिस्रः पश्य । चतस्रः पश्य । न एषः अस्ति अवकाशः । अत्र अपि पूर्वसवर्णदीर्घः प्राप्नोति । सः यथा एव पूर्वसवर्णं बाधते एवं गुणं अपि बाधिष्यते । गुणः अपि अनवकाशः । सावकाशः गुणः । कः अवकाशः । हे कर्तः । न एषः सर्वनामस्थाने गुणः । कः तर्हि । सम्बुद्धिगुणः । अयं तर्हि । हे मातः । एषः अपि सम्बुद्धिगुणः एव । न अत्र सम्बुद्धिगुणः प्राप्नोति । किं कारणं । अम्बार्थनद्योः ह्रस्वः इति ह्रस्वत्वेन भवितव्यं । भवेत्दीर्घाणां ह्रस्ववचनसामर्थ्यात्न स्यात्ह्रस्वानां तु खलु ह्रस्वत्वं क्रियतां सम्बुद्धिगुणः इति परत्वात्सम्बुद्धिगुणेन भवितव्यं । अथ अपि कथं चित्सावकासः गुणः स्यातेवं अपि न दोषः । पुरस्तातपवादाः अनन्तरान्विधीन्बाधन्ते इति एवं अयं रादेशः जसि गुणं बाधते सर्वनामस्थानगुणं न बाधिष्यते । तस्मात्सुष्ठु उच्यते अचि रादेशे जसि उपसङ्ख्यानं गुणपरत्वातिति ।
(पाणिनीयसूत्र ७,२।१०१) कि.,३०९।२-१२ रो. V,१७२।२-१७३।४ नुमः अनङ्जरसौ भवतः विप्रतिषेधेन । नुमः अवकाशः । त्रपुणी , जतुनी , तुम्बुरुणी । अनङः अवकाशः । प्रियसक्थ्ना ब्राह्मणेन । इह उभयं प्राप्नोति । दध्ना , सक्थ्ना । जरसः अवकाशः । जरसा , जरसे । नुमः अवकाशः । कुण्डानि , वनानि । इह उभयं प्राप्नोति । अतिजरांसि ब्राह्मणकुलानि । अनङ्जरसौ नुमः भवतः विप्रतिषेधेन । अथ इह लुक्कस्मात्न भवति । अतिजरसं पश्य इति । किं पुनः कारणं द्वितीयैकवचनं एव उदाह्रियते न पुनः प्रथमैकवचनं अपि । अतिजरसं तिष्ठति इति । अस्ति अत्र विशेषः । न अत्र अकृते अम्भावे जरस्भावः प्राप्नोति । किं कारणं । अचि इति उच्यते । यदा च जरस्भावः कृतः तदा लुक्न भविष्यति सन्निपातलक्षणः विधिः अनिमित्तं तद्विघातस्य इति । यदि एवं अतिजरसं , अतिजरसैः इति अत्र न प्राप्नोति अतिजरं , अतिजरैः इति भवितव्यं । गोनर्दीयः आह । इष्टं एव एतत्सङ्गृहीतं भवति । अतिजरं अतिजरैः इति भवितव्यं सत्यां एतस्यां परिभाषायां सन्निपातलक्षणः विधिः अनिमित्तं तद्विघातस्य इति ।
(पाणिनीयसूत्र ७,२।१०२) कि.,३०९।१५-३१०।२५ रो. V,१७४।२-१७८।६ (कात्यायन वार्तिक)त्यदादीनां द्विपर्यन्तानां अकारवचनम्(वार्तिकान्त) । त्यदादीनां द्विपर्यन्तानां अत्वं वक्तव्यं । किं प्रयोजनं । युष्मदस्मदन्तानां भवदन्तानां वा मा भूतिति । तत्तर्हि वक्तव्यं । न वक्तव्यं । (कात्यायन वार्तिक)त्यदादीनां अकारेण सिद्धत्वात्युष्मदस्मदोः , शेषे लोपस्य लोपेन ज्ञायते प्राक्ततः अतिति(वार्तिकान्त) । यतयं त्यदादीनां अत्वेन सिद्धे युष्मदस्मदोः शेषे लोपं शास्ति तत्ज्ञापयति आचार्यः प्राक्ततः अत्वं भवति इति । न सर्वेषां इति । (कात्यायन वार्तिक)अपि वा उपसमस्तार्थं अत्वाभावात्कृतं भवेत्(वार्तिकान्त) । न एततस्ति प्रयोजनं । उपसमस्तार्थं एतत्स्यातः अतियूयं , अतिवयं । उपसमस्तानां हि त्यदादीनां अत्वं न इष्यते : अतितत्, अतितदौ , अतितदः । (कात्यायन वार्तिक)टिलोपः टाबभावार्थः कर्तव्यः इति तत्स्मृतम्(वार्तिकान्त) । यः तु शेषे लोपः टिलोपः सः वक्तव्यः । किं प्रयोजनं । टाप्प्रतिषेधार्थं । टाप्मा भूतिति । सः तर्हि टिलोपः वक्तव्यः । न वक्तव्यः । (कात्यायन वार्तिक)अथ वा शेषसप्तम्या शेषे लोपः विधीयते(वार्तिकान्त) । इह युष्मदस्मदोः लोपः इति इयता अन्त्यस्य लोपः सिद्धः । सः अयं एवं सिद्धे सति यत्शेषग्रहणं करोति तस्य एतत्प्रयोजनं अवशिष्टस्य लोपः यथा स्यातिति । (कात्यायन वार्तिक)लुप्तशिष्टे हि तस्य आहुः कार्यसिद्धिं मनीषिणः(वार्तिकान्त) । एवं तर्हि आचार्यप्रवृत्तिः ज्ञापयति न सर्वेषां त्यदादीनां अत्वं भवति इति यतयं किमः कः इति कादेशं शास्ति । इतरथा हि किमः अत्भवति इति एव ब्रूयात। सिद्धे विधिः आरभ्यमाणः ज्ञापकार्थः भवति न च किमः अत्त्वेन सिध्यति । अत्त्वे हि सति अन्त्यस्य प्रसज्येत । सिद्धं अन्त्यस्य पूर्वेण एव तत्र आरम्भसामर्थ्यातिकारस्य भविष्यति । कुतः नु खलु एततनन्त्यार्थे आरम्भे सति इकारस्य भविष्यति न पुनः ककारस्य स्यात। यत्तर्हि किमः ग्रहणं करोति । इतरथा हि कटत्भवति इति एव ब्रूयात। एवं अपि ककारमात्रात्परस्य प्राप्नोति । त्यदादीनां इति वर्तते न च अन्यत्किमः त्यदादिषु ककारवतस्ति । एवं अपि अनैकान्तिकं ज्ञापकं । एतावत्तु ज्ञाप्यते न सर्वेषां त्यदादीनां अत्वं भवति इति तत्र कुतः एतत्द्विपर्यन्तानां भविष्यति न पुनः युष्मदस्मदन्तानां वा स्यात्भवदन्तानां वा । किं च अवश्यं खलु अपि उत्तरार्थं किमः ग्रहणं कर्तव्यं । कु तिहोः क्व अति इति । कादेशः खलु अपि अवश्यं साकच्कार्थः वक्तव्यः कः कौ के इति एवं अर्थं । तस्मात्द्विपर्यन्तानां अत्वं वक्तव्यं । (कात्यायन वार्तिक)त्यदादीनां अकारेण सिद्धत्वात्युष्मदस्मदोः , शेषे लोपस्य लोपेन ज्ञायते प्राक्ततः अतिति । अपि वा उपसमस्तार्थं अत्वाभावात्कृतं भवेत्, टिलोपः टाबभावार्थः कर्तव्यः इति तत्स्मृतं । अथ वा शेषसप्तम्या शेषे लोपः विधीयते , लुप्तशिष्टे हि तस्य आहुः कार्यसिद्धिं मनीषिणः(वार्तिकान्त) ।
(पाणिनीयसूत्र ७,२।१०५) कि.,३१०।२७-२८ रो. V,१७८।८-९ किमर्थं क्वादेशः उच्यते न कु तिहात्सि इति एव उच्यते । का रूपसिद्धिः : क्व । यणादेशेन सिद्धं । न सिध्यति । ओः गुणः प्रसज्येत ।
(पाणिनीयसूत्र ७,२।१०६) कि.,३११।२-१२ रो. V,१७८।११-१८०।५ किमर्थं अनन्त्ययोः इति उच्यते । अन्त्ययोः मा भूतिति । न एततस्ति प्रयोजनं । अत्वं अन्त्ययोः बाधकं भविष्यति । अनवकाशाः विधयः बाधकाः भवन्ति सावकाशं च अत्वं । कः अवकाशः । द्विशब्दः । सत्वं अपि सावकाशं । कः अवकाशः । अनन्त्यः । कथं पुनः सति अन्त्ये अनन्त्यस्य सत्वं स्यात। भवेत्यः तकारदकाराभ्यां अङ्गं विशेषयेत्तस्य अनन्त्ययोः न स्यात। वयं तु खलु अङ्गेन तकारदकारौ विशेषयिष्यामः । एवं अपि उभयोः सावकासशयोः परत्वात्सत्वं प्राप्नोति । किं च स्यात्यदि अन्त्ययोः सत्वं स्यात। इह हे सः इति एङ्ह्रस्वातिति सम्बुद्धिलोपः न स्यात। इह च या सा अतः इति टाप्न स्यात। तस्मातनन्त्ययोः इति वक्तव्यं । न वक्तव्यं । एवं वक्ष्यामि । तदोः सः सौ । ततः अदसः । अदसः च दकारस्य सः भवति इति । इदं इदानीं किमर्थं । नियमार्थं । अदसः एव दकारस्य न अन्यस्य दकारस्य इति । यदि नियमः क्रियते द्वीयतेः अप्रत्ययः द्वः इति प्राप्नोति स्वः इति च इष्यते । यथालक्षणं अप्रयुक्ते ।
(पाणिनीयसूत्र ७,२।१०७।१) कि.,३११।१४-३१२।१३ रो. V,१८०-१८२ (कात्यायन वार्तिक)अदसः सोः भवेतौत्वं किं सुलोपः विधीयते(वार्तिकान्त) । अदसः एव सोः भवेतौत्वं किमर्थं सुलोपः विधीयते । (कात्यायन वार्तिक)ह्रस्वात्लुप्येत सम्बुद्धिः(वार्तिकान्त) । इह हे असौ इति एङ्ह्रस्वात्सम्बुद्धेः इति लोपः प्रसज्येत । (कात्यायन वार्तिक)न हलः(वार्तिकान्त) । हलः लोपः सम्बुद्धिलोपः । तत्हल्ग्रहणं कर्तव्यं । (कात्यायन वार्तिक)प्रकृतं हि तत्(वार्तिकान्त) । प्रकृतं हल्ग्रहणं । क्व प्रकृतं । हल्ङ्याब्भ्यः दीर्घात्सुतिस्यपृक्तं हलिति । तत्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन च इह अर्थः । ह्रस्वातिति एषा पञ्चमी हलिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मातिति उत्तरस्य इति । (कात्यायन वार्तिक)आपः एत्त्वं भवेत्तस्मिन्(वार्तिकान्त) । इह हे असौ ब्राह्मणि आङि च आपः सम्बुद्धौ च इति एत्त्वं प्रसज्येत । (कात्यायन वार्तिक)न झलि इति अनुवर्तनात्(वार्तिकान्त) । झलि इति तत्र अनुवर्तते । क्व प्रकृतं । सुपि च बहुवचने झलि एतिति । (कात्यायन वार्तिक)प्रत्ययस्थात्च कातित्त्वम्(वार्तिकान्त) । इह च असकौ ब्राह्मणी इति प्रत्यय्स्थात्कात्पूर्वस्य इति ईत्त्वं प्रसज्येत । न एषः दोषः । प्रश्लिष्टनिर्देशः अयं । आ , आप्, आपिति । इह अपि तर्हि न प्राप्नोति । कारिके , हारिके , इति । (कात्यायन वार्तिक)शीभावः च प्रसज्यते(वार्तिकान्त) । इह च शीभावः च प्राप्नोति । असौ ब्राह्मणी । आपः उत्तरस्य औङः शी भवति इति शीभावः प्राप्नोति । तस्मात्सोः लोपः वक्तव्यः ।
(पाणिनीयसूत्र ७,२।१०७।२) कि.,३१२।१४-३१३।४ रो. V,१८२ (कात्यायन वार्तिक)सौ औत्वप्रतिषेधः साकच्कात्वा सातुत्वं च(वार्तिकान्त) । सौ औत्वप्रतिषेधः साकच्कात्वा वक्तव्यः । सात्च परस्य उत्वं वक्तव्यं । असकौ , असुकः । (कात्यायन वार्तिक)उत्तरपदभूतानां आदेशे उपदेशवद्वचनम्(वार्तिकान्त) । उत्तरपदभूतानां त्यदादीनां आदेशे उपदेशिवद्भावः वक्तव्यः । परमाहं , परमायं , परमानेन । किं प्रयोजनं । (कात्यायन वार्तिक)अनादिष्टार्थम्(वार्तिकान्त) । अकृते एकादेशे आदेशाः यथा स्युः इति । किं पुनः कारणं एकादेशः तावत्भवति न पुनः आदेशाः । न परत्वातादेशैः भवितव्यं । (कात्यायन वार्तिक)बहिरङ्गलक्षणत्वात्(वार्तिकान्त) । बहिरङ्गाः आदेशाः । अन्तरङ्गः एकादेशः । असिद्धं बहिरङ्गं अन्तरङ्गे । सः तर्हि उपदेशिवद्भावः वक्तव्यः । न वक्तव्यः । आचार्यप्रवृत्तिः ज्ञापयति पूर्वपदोत्तरपदयोः तावत्कार्यं भवति न एकादेशः इति यतयं न इन्द्रस्य परस्य इति प्रतिषेधं शास्ति । कथं कृत्वा ज्ञापकं । इन्द्रे द्वौ अचौ । तत्र एकः यस्य इति लोपेन अपह्रियते अपरः एकादेशेन । अनच्कः इन्द्रः संवृत्तः । तत्र कः वृद्धेः प्रसङ्गः । पश्यति तु आचार्यः पूर्वपदोत्तरपदयोः तावत्कार्यं भवति न एकादेशे इति ततः न इन्द्रस्य परस्य इति प्रतिषेधं शास्ति ।
(पाणिनीयसूत्र ७,२।१०७।३) कि.,३१३।५-८ रो. V,१८२-१८३ (कात्यायन वार्तिक)अदसः सोः भवेतौत्वं किं सुलोपः विधीयते , ह्रस्वात्लुप्येत सम्बुद्धिः न हलः प्रकृतं हि तत। आपः एत्त्वं भवेत्तस्मिन्न झलि इति अनुवर्तनात्, प्रत्ययस्थात्च कातित्त्वं शीभावः च प्रसज्यते(वार्तिकान्त) ।
(पाणिनीयसूत्र ७,२।११४) कि.,३१३।१०-२२ रो. V,१८३।४-१८४।४ (कात्यायन वार्तिक)मृजेः वृद्धिविधौ क्विप्रतिषेधः(वार्तिकान्त) । मृजेः वृद्धिविधौ क्व्यन्तस्य प्रतिषेधः वक्तव्यः । कंसपरिमृड्भ्यां , कंसपरिमृड्भिः । (कात्यायन वार्तिक)धातोः स्वरूपग्रहणे वा तत्प्रत्ययविज्ञानात्सिद्धम्(वार्तिकान्त) । अथ वा धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात्सिद्धं । धातुप्रत्यये कार्यं भवति इति एषा परिभाषा कर्तव्या । कानि एतस्याः परिभाषायाः प्रयोजनानि । (कात्यायन वार्तिक)प्रयोजनं सृजिदृशिमस्जिनशिहन्तिगिरत्यर्थम्(वार्तिकान्त) । सृजि । रज्जुसृड्भ्यां , रज्जुसृड्भिः । सृजि । दृशि । देवदृग्भ्यां , देवदृग्भिः । दृशि । मस्जि । उदकमग्भ्यां , उदकमग्भिः । मस्जि । नशि । प्रनड्भ्यां , प्रनड्भिः । नशि । हन्ति । वार्त्रघ्नः , भ्रौणघ्नः । हन्ति । गिरति । देवगिरः । यदि स्वरूपग्रहणे इति उच्यते प्रसृब्भ्यां , प्रसृब्भिः , अनुदात्तस्य च ऋदुपस्य अन्यतरस्यां इति अं प्राप्नोति । एवं तर्हि इयं परिभाषा कर्तव्या धातोः कार्यं उच्यमानं तत्प्रत्यये भवति इति । सा तर्हि एषा परिभाषा कर्तव्या । न कर्तव्या । आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाषा इति यतयं भ्रौणहत्ये तत्वं शास्ति ।
(पाणिनीयसूत्र ७,२।११५) कि.,३१३।२४-३१४।१४ रो. V,१८४।५-१८५।७ (कात्यायन वार्तिक)वृद्धौ अज्ग्रहणं गोऽर्थम्(वार्तिकान्त) । वृद्धौ अज्ग्रहणं क्रियते गोतः वृधिः यथा स्यात। गौः इति । न एततस्ति प्रयोजनं । णित्करणसामर्थ्यातेव अत्र वृद्धिः भविष्यति । अथ योगविभागः किमर्थः न ञ्णिति अतः उपधायाः इति एव उच्येत । का रूपसिद्धः चायकः , लावकः , कारकः । गुणे कृते अयवः रपरत्वे च अतः उपधायाः इति एव सिद्धं । (कात्यायन वार्तिक)योगविभागः सखिव्यञ्जनाद्यर्थः(वार्तिकान्त) । योगविभागः क्रियते सख्यर्थः व्यञ्जनाद्यर्थः च । सख्यर्थः तावत। सखायौ , सखायः । व्यञ्जनाद्यर्थः । जैत्रं , यौत्रं , च्यौत्रं । योगविभागे च इदानीं सखिव्यञ्जनाद्यर्थे क्रियमाणे अज्ग्रहणं अपि कर्तव्यं भवति । किं प्रयोजनं । गोर्थं । ननु च उक्तं णित्करणसामर्थ्यातेव अत्र वृद्धिः भविष्यति इति । अस्ति अन्यत्णित्करणसय प्रयोजनं । किं । गावौ , गावः । अवादेशे कृते अतः उपधायाः इति वृद्धिः यथा स्यात। यत्तु सौ णित्करणं ततनवकाशं तस्य अनवकाशत्वातेव वृद्धिः भविष्यति । यथा एव खलु अपि णित्करणसामर्थ्यातनिकः अपि वृद्धिः प्रार्थ्यते एवं तत्वं अपि प्राप्नोति । तत्वं अपि हि ञ्णिति इति उच्यते । तस्मातज्ग्रहणं कर्तव्यं ।
(पाणिनीयसूत्र ७,२।११७।१) कि.,३१४।१६-३१५।२ रो. V,१८५-१८६ अज्ग्रहणं कर्तव्यं । ननु च क्रियते एव । द्वितीयं कर्तव्यं यथा अचामादिग्रहणं अज्विशेषणं विज्ञायेत । अचां आदेः अचः इति । अथ अक्रियमाणे अज्ग्रहणे कस्य अचामादिग्रहणं विशेषणं स्यात। इग्विशेषणं इति आह । अचां आदेः इकः इति । तत्र कः दोषः । इह एव स्यात। ऐत्कायनः , औपगवः । इह न स्यात। गार्ग्यः , वात्स्यः इति । तत्तर्हि अज्ग्रहणं कर्तव्यं । न कर्तव्यं । प्रकृतं अनुवर्तते । क्व प्रकृतं । अचः ञ्णिति इति । यदि ततनुवर्तते अतः उपधायाः अचः इति अज्मात्रस्य उपधायाः वृद्धिः प्रसज्येत । छेदकः इति । अकारेण तपरेण अचं विशेषयिष्यामः । अचः अतः इति । इह इदानीं अचः इति एव अनुवर्तते अतः इति निवृत्तं । अथ वा मण्डूकगतयः अधिकाराः । यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वतधिकाराः । अथ वा एकयोगः करिष्यते । अचः ञ्णिति अतः उपधायाः । ततः तद्धितेषु अचां आदेः इति । न च एकयोगे अनुवृत्तिः भवति ।
(पाणिनीयसूत्र ७,२।११७।२) कि.,३१५।३-१६ रो. V,१८६-१८८ (कात्यायन वार्तिक)तद्धितेषु अचामादिवृद्धौ अन्त्योपधलक्षणप्रतिषेधः(वार्तिकान्त) । तद्धितेषु अचामादिवृद्धौ अन्त्योपधलक्षणायाः वृद्धेः प्रतिषेधः वक्तव्यः । क्रौष्टुः जागतः इति । ननु च अचामादिवृद्धिः अन्त्योपधलक्षणां वृद्धिं बाधिष्यते । कथं अन्यस्य उच्यमाना अन्यस्य बाधिका स्यात। असति खलु अपि सम्भवे बाधनं भवति अस्ति च सम्भवः यतुभयं स्यात। (कात्यायन वार्तिक)लोकविज्ञानात्सिद्धम्(वार्तिकान्त) । सति अपि सम्भवे बाधनं भवति । तत्यथा । ब्राह्मणेभ्यः दधि दीयतां तक्रं कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानं निवर्तकं भवति । एवं इह अपि सति अपि सम्भवे अचामादिवृद्धिः अन्त्योपधलक्षणां वृद्धिं बाधिष्यते । विषमः उपन्यासः । न अप्राप्ते दधिदाने तक्रदानं आरभ्यते तत्प्राप्ते आरभ्यमाणं बाधकं भविष्यति । इह पुनः अप्राप्तायां अन्त्योपधलक्षणायां वृद्धौ अचामादिवृद्धिः आरभ्यते । सुश्रुत्, सौश्रुतः इति । (कात्यायन वार्तिक)पुष्करसद्ग्रहणात्वा(वार्तिकान्त) । अथ वा यतयं अनुशतिकादिषु पुष्करसच्शब्दं पठति तत्ज्ञापयति आचार्यः अचामादिवृद्धौ अन्त्योपधलक्षणा वृद्धिः न भवति इति ।
(पाणिनीयसूत्र ७,३।१) कि.,३१६।२-३१७।१० रो. V,१८९।३-१९२।२ (कात्यायन वार्तिक)देविकादिषु तदादिग्रहणम्(वार्तिकान्त) । देविकादिषु तदादिग्रहणं कर्तव्यं । देविकाद्यादीनां इति वक्तव्यं । इह अपि यथा स्यात। दाविकाकुलाः शालयः , शांशपास्थलाः देवाः । किं पुनः कारणं न सिध्यति । (कात्यायन वार्तिक)अन्यत्र तद्ग्रहणात्तदन्तग्रहणात्वा(वार्तिकान्त) । अन्यत्र हि तस्य वा ग्रहणं भवति तदन्तस्य वा न च इदं तत्न अपि तदन्तं । (कात्यायन वार्तिक)आद्यज्विशेषणत्वात्सिद्धम्(वार्तिकान्त) । आद्यज्विशेषणं देविकादयः । न एवं विज्ञायते देविकादीनां अङ्गानां अचां आदेः आकारः भवति इति । कथं तर्हि । ञ्णिति अङ्गस्य अचां आदेः आकारः भवति सः चेत्देविकादीनां आद्ज्यच्भवति इति । (कात्यायन वार्तिक)आन्तरतम्यनिवर्तकत्वात्वा(वार्तिकान्त) । अथ वा न अनेन अनन्तरतमा वृद्धिः निर्वर्त्यते । किं तर्हि अन्तरतमा अनेन निवर्त्यते । सिद्धा अत्र वृद्धिः तद्धितेषु अचां आदेः इति एव तत्र अनेन अन्तरतमा वृद्धिः निवर्त्यते । परिहारान्तरं एव इदं मत्वा पठितं कथं च इदं परिहारान्तरं स्यात। यदि न आद्यज्विशेषणं देविकादयः । अवश्यं च एततेवं विज्ञेयं अद्यज्विशेषणं देविकादयः इति । यदि न आद्यज्विशेषणं देविकादयः स्युः इह अपि प्राप्नोति : सुदेविकायां भवः सौदेविकः इति । अथ अत्र अपि आद्यज्विशेषणत्वातिति एव सिद्धं परिहारान्तरं न भवति । न ब्रूमः यत्र क्रियमाणे दोषः तत्र कर्तव्यं इति । किं तर्हि । यत्र क्रियमाणे न दोषः तत्र कर्तव्यं । क्व च क्रियमाणे न दोषः । सञ्ज्ञाविधौ । वृद्धिः आतैच्देविकादीनां आकारः इति । इध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं देविकादिषु तदादिग्रहणं अन्यत्र तद्ग्रहणात्तदन्तग्रहणात्वा इति । परिहृतं एतताद्यज्विशेषणत्वात्सिद्धं इति । (कात्यायन वार्तिक)न्यग्रोधे च केवलग्रहणात्(वार्तिकान्त) । न्यग्रोधे च केवलग्रहणात्मन्यामहे आद्यज्विशेषणं देविकादयः इति । तस्य हि केवलग्रहणस्य एतत्प्रयोजनं इह मा भूत्न्याग्रोधमूलाः शालयः इति । यदि च आद्यज्विशेषणं देविकादयः ततः केवलग्रहणं अर्थवत्भवति । ततेतत्कथं कृत्वा ज्ञापकं भवति । यदि न्यग्रोधशब्दः अव्युत्पन्नं प्रातिपदिकं भवति । अथ हि न्यग्रोहति इति न्यग्रोधः ततः नियमार्थं पदान्तः इति कृत्वा न ज्ञापकं भवति । (कात्यायन वार्तिक)वहीनरस्य इद्वचनम्(वार्तिकान्त) । वहीनरस्य इत्त्वं वक्तव्यं । वहीनरस्य अपत्यं वैहीनरिः । कुणरवाडवः तु आह । न एषः वहीनरः । कः तर्हि । विहीनरः एषः । विहीनः नरः कामभोगाभ्यां विहीनरः । विहीनरस्य अपत्यं वैहीनरिः ।
(पाणिनीयसूत्र ७,३।३) कि.,३१७।८-३१८।२४ रो. V,१९२।४-१९४।११ (कात्यायन वार्तिक)य्वाभ्यां परस्य अवृद्धित्वम्(वार्तिकान्त) । य्वाभ्यां परस्य अवृद्धित्वं सिद्धं । कुतः । (कात्यायन वार्तिक)अपवादौ वृद्धेः हि तौ(वार्तिकान्त) । अपवादौ हि वृद्धेः तौ ऐचौ उच्येते । (कात्यायन वार्तिक)नित्यौ ऐचौ तयोः वृद्धिः(वार्तिकान्त) । अथ वा नित्यौ ऐचौ । कृतायां अपि वृद्धौ प्राप्नुतः अकृतायां अपि । नित्यत्वातैचोः कृतयोः यदि अपि वृद्धिः तयोः एव । (कात्यायन वार्तिक)किमर्थं न इति शिष्यते(वार्तिकान्त) । अथ किमर्थं प्रतिषेधः उच्यते । (कात्यायन वार्तिक)एचोः विषयार्थं प्रतिषेधसन्नियुक्तवचनम्(वार्तिकान्त) । एचोः विषयार्थं प्रतिषेधसन्नियोगेन ऐचौ उच्येते । (कात्यायन वार्तिक)यत्र य्वाभ्यां परावृद्धिः तत्र अध्यश्वेः यथा न तौ(वार्तिकान्त) । यत्र य्वाभ्यां परस्य अवृद्धित्वं उच्यते तत्र ऐचौ यथा स्यातां । इह मा भूतां । आध्यश्विः , दाध्यश्विः , माध्वश्विः इति । न एततस्ति प्रयोजनं । (कात्यायन वार्तिक)अचां आदेः य्वाभ्यां हि तौ(वार्तिकान्त) । अचां आदिना अत्र य्वौ विशेषयिष्यामः । अचां आदेः यौ य्वौ इति । (कात्यायन वार्तिक)कथं द्व्याशीतिके न तौ(वार्तिकान्त) । द्व्याशीतिकः इति अत्र कस्मात्न तौ भवतः । (कात्यायन वार्तिक)यत्र वृद्धिः अचां आदेः तत्र ऐचौ अत्र घोः हि सा(वार्तिकान्त) । तत्र अचां आदेः इति एवं वृद्धिः तत्र ऐचौ उच्येते । अत्र घोः इति एवं वृद्धिः । किं इदं घोः इति । उत्तरपदस्य इति । उत्तरपदाधिकारे अपि अवश्यं ऐजागमः अनुवर्त्यः पूर्वत्र्यलिन्दे भवः पूर्वत्रयलिन्दः इति एवमर्थं । न एषः दोषः । उत्तरपदेन अत्र अचां आदि विशेषयिष्यामः अचां आदिना य्वौ । उत्तरपदस्य अचां आदेः यौ य्वौ इति । (कात्यायन वार्तिक)अथ कस्मात्पदान्ताभ्याम्(वार्तिकान्त) । अथ किमर्थं पदान्ताभ्यां इति उच्यते । (कात्यायन वार्तिक)यथा इणः न भवेत्यणः(वार्तिकान्त) । इणः यणादेशे मा भूत। यतः छात्रा , याता इति । इह वैयाकरणः , सौवश्वः इति शाकलं प्राप्नोति य्वोः च स्थानिवद्भावातायावौ प्राप्नुतः । (कात्यायन वार्तिक)शकलायावादेशेषु च उक्तम्(वार्तिकान्त) । किं उक्तं । शाकले तावतुक्तं सिन्नित्यसमासयोः शाकलप्रतिषेधः इति । आयावोः किं उक्तं । अचः पूर्वविज्ञानातैचोः सिद्धं इति । (कात्यायन वार्तिक)य्वाभ्यां परस्य अवृद्धित्वं अपवादौ वृद्धेः हि तौ , नित्यौ ऐचौ तयोः वृद्धिः किमर्थं न इति शिष्यते । यत्र य्वाभ्यां परावृद्धिः तत्र अध्यश्वेः यथा न तौ , अचां आदेः य्वाभ्यां हि तौ कथं द्व्याशीतिके न तौ । यत्र वृद्धिः अचां आदेः तत्र ऐचौ अत्र घोः हि सा , अथ कस्मात्पदान्ताभ्यां यथा इणः न भवेत्यणः(वार्तिकान्त) ।
(पाणिनीयसूत्र ७,३।४) कि.,३१८।२६-३१९।९ रो. V,१९५।१३-१९७।२ अथ परस्य अवृद्धिः इति अनुवर्तते उताहो न । किं च अतः । यदि अनुवर्तते शौवं मांसं टिलोपे कृते ऐजागमः न प्राप्नोति । अथ निवृत्तं स्वाध्यायशब्दः द्वारादिषु पठ्यते तत्र यावन्तः यणः सर्वेभ्यः पूर्वः ऐजागमः प्राप्नोति । यथ इच्छसि तथा अस्तु । अस्तु तावतनुवर्तते । कथ शौवं मांसं । आनुपूर्व्या सिद्धं एतत। न अत्र अकृते ऐजागमे टिलोपः प्राप्नोति । किं कारणं । प्रकृत्या एकाचिति प्रकृतिभावेन भवितव्यं । ततेततानुपूर्व्या सिद्धं भवति । अथ वा पुनः अस्तु निवृत्तं । ननु च उक्तं स्वाध्यायशब्दः द्वारादिषु पठ्यते तत्र यावन्तः यणः सर्वेभ्यः पूर्वः ऐजागमः प्राप्नोति इति । कः पुनः अर्हति स्वाध्यायशब्दं द्वारादिषु पठितुं । एवं किल्पठ्येत स्वं अध्ययनं स्वाध्यायः इति । तत्च न । सुष्ठु वा अध्ययनं स्वाध्यायः शोभनं वा अध्ययनं स्वाध्यायः । अथ अपि स्वं अध्ययनं स्वाध्यायः एवं अपि न दोषः । अचां आदेः इति वर्तते ।
(पाणिनीयसूत्र ७,३।८) कि.,३१९।११-२२ रो. V,१९७।४-१९८।५ अयं श्वन्शब्दः द्वारादिषु पठ्यते तत्र कः प्रसङ्गः यत्तदादेः स्यात। न एव प्राप्नोति न अर्थः प्रतिषेधेन । तदादिविधिना प्राप्नोति । न एव तदादिविधिः अस्ति । अतः उत्तरं पठति । (कात्यायन वार्तिक)प्रतिषेधे श्वादिग्रहणं ज्ञापकं अन्यत्र श्वन्ग्रहणे तदादिग्रहणस्य शौवहानाद्यर्थम्(वार्तिकान्त) । प्रतिषेधे श्वादिग्रहणं क्रियते ज्ञापकार्थं । किं ज्ञाप्यं । एतत्ज्ञापयति आचार्यः अन्यत्र श्वन्ग्रहणे तदादिविधिः भवति इति । किं एतस्य ज्ञापने प्रयोजनं । शौवहानाद्यर्थं । शौवहानं नाम नगरं । शौवादंष्ट्रः मणिः इति । (कात्यायन वार्तिक)इकारादिग्रहणं च श्वागणिकाद्यर्थम्(वार्तिकान्त) । इकारादिग्रहणं च कर्तव्यं । किं प्रयोजनं । श्वागणिकाद्यर्थं । श्वगणेन चरति श्वागणिकः । (कात्यायन वार्तिक)तदन्तस्य च अन्यत्र प्रतिषेधः(वार्तिकान्त) । तदन्तस्य च अन्यत्र प्रतिषेधः वक्तव्यः । श्वाभस्त्रेः स्वं श्वाभस्त्रं ।
(पाणिनीयसूत्र ७,३।१०) कि.,३२०।२-१६ रो. V,१९८।७-१९९।९ किमर्थं इदं उच्यते । अवयवातृतोः इति वक्ष्यति तदुत्तरपदस्य यथा स्यातचां आदेः मा भूत। न एततस्ति प्रयोजनं । अवयवातिति पञ्चमी तत्र अन्तरेण अपि उत्तरपदग्रहणं उत्तरपदस्य एव भविष्यति । उत्तरार्थं तर्हि सुसर्वार्धात्जनपदस्य इति । सुसर्वार्धातिति पञ्चमी । दिशः अमद्राणां । दिशः इति पञ्चमी । प्राचां ग्रामनगराणां । दिशः इति एव । सङ्ख्यायाः संवत्सरसङ्ख्यस्य च । सङ्ख्यायाः इति पञ्चमी । वर्षस्य अभविष्यति । सङ्ख्यायाः इति एव । परिमाणान्तस्य असञ्ज्ञाशाणयोः इति । सङ्ख्यायाः इति एव । इदं तर्हि प्रयोजनं जे प्रोष्ठपदानां उत्तरपदस्य यथा स्यात्पूर्वपदस्य मा भूत। प्रोष्ठपदासु जातः प्रोष्ठपादः ब्राह्मणः । (कात्यायन वार्तिक)तद्धितेषु अचां आदिवृद्धेः उत्तरपदवृद्धिः विप्रतिषेधेन द्व्याशीतिकाद्यर्थम्(वार्तिकान्त) । तद्धितेषु अचां आदिवृद्धेः उत्तरपदवृद्धिः भवति विप्रतिषेधेन । किं प्रयोजनं । द्व्याशीतिकाद्यर्थं । अचां आदिवृद्धेः अवकाशः । ऐतिकायनः , औपगवः । उत्तरपदवृद्धेः अनवकाशः । द्विषाष्टिकः , त्रिषाष्टिकः । इह उभयं प्राप्नोति । द्व्याशीतिकः , त्र्याशीतिकः । उत्तरपदवृद्धिः भवति विप्रतिषेधेन । कः पुनः अत्र विशेषः अचां आदिवृद्धौ वा सत्यां उत्तरपदवृद्धौ वा । अयं अस्ति विशेषः । यदि अत्र अचां आदिवृद्धिः स्यातैजागमः प्रसज्येत ।
(पाणिनीयसूत्र ७,३।१४) कि.,३२०।१८-३२१।१० रो. V,१९९।११-२०१।३ नगरग्रहणं किमर्थं न प्राचां ग्रामाणां इति एव सिद्धं । न सिध्यति । अन्यः ग्रामः अन्यत्नगरं । कथं ज्ञायते । एवं हि कः चित्कं चित्पृच्छति । कुतः भवानागच्छति ग्रामात। सः हि आह । न ग्रामात्नगरातिति । ननु च भो यः एव ग्रामः तत्नगरं । कथं ज्ञायते । लोकतः । ये हि ग्रामे विधयः न इष्यन्ते साधीयः ते नगरे न क्रियन्ते । तत्यथा । अभक्ष्यः ग्राम्यकुक्कुटः अभक्ष्यः ग्राम्यशूकरः इति उक्ते सुतरां नागरः अपि न भक्ष्यते । तथा ग्रामे न अध्येयं इति साधीयः नगरे न अधीयते । तस्मात्यः एव ग्रामः तत्नगरं । कथं यतुक्तं एवं हि कः चित्कं चित्पृच्छति कुतः भवानागच्छति ग्रामात्सः आह न ग्रामात्नगरातिति । संस्त्यायविशेषं असौ आचष्टे । संस्त्यायविशेषाः हि एते ग्रामः घोषः नगरं संवाहः इति । एवं तर्हि सिद्धे सति यत्ग्रामग्रहणे नगरग्रहणं करोति तत्ज्ञापयति आचार्यः अन्यत्र ग्रामग्रहणे नगरग्रहणं न भवति इति । किं एतस्य ज्ञापने प्रयोजनं । विशिष्टलिङ्गः नदीदेशः अग्रामाः इति अत्र नगरप्रतिषेधः चोदितः सः न वक्तव्यः भवति । यदि एतत्ज्ञाप्यते उदीच्यग्रामात्च बह्वचः अन्तोदात्तातिति अत्र नगरग्रहणं कर्तव्यं । बाहीकग्रामेभ्यः च नगरग्रहणं कर्तव्यं । दिक्शब्दाः ग्रामजनपदाख्यानचानराटेषु नगरग्रहणं कर्तव्यं । इदं चतुर्थं ज्ञापकार्थं । तत्र अतिनिर्बन्धः न लाभः । तस्मात्यस्मिनेव ग्रामग्रहणे नगरग्रहणं न इष्यते तस्य प्रतिषेधः वक्तव्यः ।
(पाणिनीयसूत्र ७,३।१५) कि.,३२१।१२-२५ रो. V,२०१।५-१८ (कात्यायन वार्तिक)संवत्सरग्रहणं अनर्थकं परिमाणान्तस्य इति कृतत्वात्(वार्तिकान्त) । संवत्सरग्रहणं अनर्थकं । किं कारणं । परिमाणान्तस्य इति कृतत्वात। परिमाणान्तस्य असञ्ज्ञाशाणयोः इति एव सिद्धं । (कात्यायन वार्तिक)ज्ञापकं तु कालपरिमाणानां वृद्धिप्रतिषेधस्य(वार्तिकान्त) । एवं तर्हि ज्ञापयति आचार्यः कालपरिमाणानां वृद्धिः न भवति इति । किं एतस्य ज्ञापने प्रयोजनं । द्वैरात्रिकः , त्रैरात्रिकः , अत्र वृद्धिः न भवति । न एततस्ति प्रयोजनं । न अस्ति अत्र विशेषः सत्यां वा उत्तरपदवृद्धौ असत्यां वा । इदं तर्हि । द्वसमिकः , त्रैसमिकः । इदं च अपि प्रयोजनं द्वैरात्रिकः , त्रैरात्रिकः । ननु च उक्तं न अस्ति अत्र विशेषः सत्यां वा उत्तरपदवृद्धौ असत्यां वा इति । अयं अस्ति विशेषः । यदि अत्र उत्तरपदवृद्धिः स्यातचां आदेः वृद्धिः न स्यात। अपरः आह : ज्ञापकं तु कालपरिमाणानां परिमाणाग्रहणस्य । एवं तर्हि ज्ञापयति आचार्यः कालपरिमाणानां परिमाणग्रहणेन ग्रहणं न भवति इति । किं एतस्य ज्ञापने प्रयोजनं । अपरिमाणबिस्ताचितकम्बल्येभ्यः न तद्धितलुकि द्विवर्षा , त्रिवर्षा । परिमाणपर्युदासेन पर्युदासः न भवति ।
(पाणिनीयसूत्र ७,३।२८) कि.,३२२।२-६ रो. V,२०२।२-७ परस्य वृद्धिः न इति अनुवर्तते उताहो न । किं च अतः । यदि अनुवर्तते प्रवाहणेयी भार्या अस्य इति प्रवाहणेयीभार्यः वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः न प्राप्नोति । अथ निवृत्तं न दोषः भवति । यथा न दोषः तथा अस्तु । अथ वा पुनः अस्तु अनुवर्तते । ननु च उक्तं प्रवाहणेयी भार्या अस्य प्रवाहणेयीभार्यः वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः न प्राप्नोति इति । न एषः दोषः । मा भूतेवं । जातेः इति एवं भविष्यति ।
(पाणिनीयसूत्र ७,३।३१) कि.,३२२।८-११ रो. V,२०२।९-२०३।३ अयं योगः शक्यः अवक्तुं । कथं अयाथातथ्यं , आयथातथ्यं , अयाथापुर्यं , आयथापुर्यं । यदा तावत्पूर्वपदस्य वृद्धिः तदा एवं विग्रहः करिष्यते । न यथातथा , अयथातथा । अयथातथाभावः आयथातथ्यं । यदा उत्तरपदस्य वृद्धिः तदा एवं विग्रहः करिष्यते । यथातथाभावः याथातथ्यं । न याथातथ्यं अयाथातथ्यं ।
(पाणिनीयसूत्र ७,३।३२) कि.,३२२।१३-१६ रो. V,२०३।५-८ (कात्यायन वार्तिक)हन्तेः तकारे तद्धिते प्रतिषेधः(वार्तिकान्त) । हन्तेः तकारे तद्धिते प्रतिषेधः वक्तव्यः । वार्त्रघ्नं , भ्रौणघ्नं । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात्सिद्धं इति ।
(पाणिनीयसूत्र ७,३।३३) कि.,३२२।१८-३२३।४ रो. V,२०३।१०-२०४।२ कृद्ग्रहणं किमर्थं । इह मा भूत। ददौ , दधौ । न एततस्ति प्रयोजनं । अचिण्णलोः इति वर्तते । यदि अचिण्णलोः इति वर्तते अदायि , अधायि इति अत्र न प्राप्नोति । वचनात्चिणि भविष्यति । अचिण्णलोः इति वर्तते । एवं अपि चौडिः , बालाकिः इति अत्र प्राप्नोति । लोपः अत्र बाधकः भविष्यति । इदं इह सम्प्रधार्यं । लोपः क्रियतां युकिति किं अत्र कर्तव्यं । परत्वात्युक। एवं तर्हि अचां आदेः इति वर्तते । यत्र अचां आदिः आकारः तत्र युकिति । एवं अपि ज्ञा देवता अस्य स्थालीपाकस्य ज्ञः स्थालीपाकः , अत्र प्राप्नोति । तस्मात्कृद्ग्रहणं कर्तव्यं ।
(पाणिनीयसूत्र ७,३।३४) कि.,३२३।५-७ रो. V,२०४।४-५ अत्यल्पं इदं उच्यते : अनाचमेः इति । अवमिकमिचमीनां इति वक्तव्यं : वामः , कामः , आचामः ।
(पाणिनीयसूत्र ७,३।३७) कि.,३२३।९-१२ रो. V,२०४।६-१० (कात्यायन वार्तिक)णिच्प्रकरणे धूञ्प्रीञोः नुग्वचनम्(वार्तिकान्त) । णिच्प्रकरणे धूञ्प्रीञोः नुक्वक्तव्यः । धूनयति , प्रीणयति । (कात्यायन वार्तिक)पातेः लुग्वचनम्(वार्तिकान्त) । पालयति ।
(पाणिनीयसूत्र ७,३।४४।१) कि.,३२३।१४-२१ रो. V,२०४-२०५ स्थग्रहणं किमर्थं । इदं विचारयिष्यते इत्त्वे कग्रहणं सङ्घातग्रहणं वा स्यात्वर्णग्रहणं वा इति । तत्यदा सङ्घतग्रहणं तदा स्थग्रहणं कर्तव्यं इह अपि यथा स्यात्कारिका , हारिका । यदा हि वर्णग्रहणं तदा केवलः ककारः प्रत्ययः न अस्ति इति कृत्वा वचनात्भविष्यति । अथ असुपः इति कथं इदं विज्ञायते । असुब्वतः अङ्गस्य इति । आहोस्वित्न चेत्सुपः परः आपिति । किं च अतः । यदि विज्ञायते असुब्वतः अङ्गस्य इति बहुचर्मिका अत्र न प्राप्नोति । अथ विज्ञायते न चेत्सुपः परः आपिति न दोषः भवति । यथा न दोषः तथा अस्तु ।
(पाणिनीयसूत्र ७,३।४४।२) कि.,३२३।२२-३२४।१८ रो. V,२०६-२०८ इदं विचार्यते : इत्त्वे कग्रहणं सङ्घातग्रहणं वा स्यात्वर्णग्रहणं वा इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)इत्त्वे कग्रहणं सङ्घातग्रहणं चेतेतिकासु अप्राप्तिः(वार्तिकान्त) । इत्त्वे कग्रहणं सङ्घातग्रहणं चेतेतिकास्वु अप्राप्तिः । एतिकाः चरन्ति । वचनात्भविष्यति । अस्ति वचने प्रयोजनं । किं । कारिका , हारिका । अस्तु तर्हि वर्णग्रहणं । (कात्यायन वार्तिक)वर्णग्रहणं चेत्व्यवहितत्वातप्रसिद्धिः(वार्तिकान्त) । वर्णग्रहणं चेत्व्यवहितत्वात्न प्राप्नोति । कारिका , हारिका । अकारेण व्यवहितत्वात्न प्राप्नोति । एकादेशे कृते न अस्ति व्यवधानं । एकादेशः पूर्वविधौ स्थानिवत्भवति इति स्थानिवद्भावात्व्यवधानं एव । एवं तर्हि आह अयं प्रत्ययस्थात्कात्पूर्वस्य इति न क्व चितव्यवधानं तत्र वचनात्भविष्यति । (कात्यायन वार्तिक)वचनप्रामाण्यातिति चेत्रथकट्यादिषु अतिप्रसङ्गः(वार्तिकान्त) । वचनप्रामाण्यातिति चेत्रथकट्यादिषु दोषः भवति । रथकट्या , गर्गकाम्या । न एषः दोषः । येन न अव्यवधानं तेन व्यवहिते अपि वचनप्रामाण्यात। केन च न अव्यवधानं वर्णेन एकेन । सङ्घातेन पुनः व्यवधानं भवति न भवति च । अथ वा पुनः अस्तु सङ्घातग्रहणं । ननु च उक्तं इत्त्वे कग्रहणं सङ्घातग्रहणं चेतेतिकासु अप्राप्तिः इति । परिहृतं एतत्वचनात्भविष्यति इति । ननु च उक्तं अस्ति वचने प्रयोजनं । किं । कारिका , हारिका इति । अत्र अपि एकादेशे कृते व्यपवर्गाभावात्न प्राप्नोति । अन्तादिवद्भावेन व्यपवर्गः । उभयतः आश्रये न अन्तादिवत। एवं तर्हि एकादेशः पूर्वविधौ स्थानिवत्भवति इति स्थानिवद्भावात्व्यपवर्गः । एवं तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकानां अपि इत्त्वं इति यतयं न यासयोः इति प्रतिषेधं शास्ति ।
(पाणिनीयसूत्र ७,३।४४।३) कि.,३२४।१९-२५ रो. V,२०८ (कात्यायन वार्तिक)ममक((वार्तिकान्त)ऱः(कात्यायन वार्तिक) मामक)नरकयोः उपसङ्ख्यानं अप्रत्ययस्थत्वात्(वार्तिकान्त) । ममक(ऱः मामक)नरकयोः उपसङ्ख्यानं कर्तव्यं । मामिका , नरिका । किं पुनः कारणं न सिध्यति । अप्रत्ययस्थत्वात। (कात्यायन वार्तिक)त्यक्त्यपोः च प्रतिषिद्धत्वात्(वार्तिकान्त) । त्यक्त्यपोः च उपसङ्ख्यानं कर्तव्यं । दाक्षिणात्यिका , अमात्यिका । किं पुनः कारणं न सिध्यति । प्रतिषिद्धत्वात। उदीचां आतः स्थाने यकपूर्वायाः इति प्रतिषिद्धत्वात।
(पाणिनीयसूत्र ७,३।४५।) कि.,३२५।२-३२६।९ रो. V,२०८।१०-२१०।१५ न यत्तदोः इति वक्तव्यं । इह अपि यथा स्यात। यकां यकां अधीते , तकां तकां पचामहे इति । (कात्यायन वार्तिक)प्रतिषेधे त्यकनः उपसङ्ख्यानम्(वार्तिकान्त) । प्रतिषेधे त्यकनः उपसङ्ख्यानं कर्तव्यं । उपत्यका , अधित्यका । तत्तर्हि उपसङ्ख्यानं कर्तव्यं । न कर्तव्यं । आचार्यप्रवृत्तिः ज्ञापयति न एवञ्जातीयकानां इत्त्वं भवति इति यतयं मृदः तिकनिति इत्त्वभूतं निर्देशं करोति । (कात्यायन वार्तिक)पावकादीनां छन्दसि उपसङ्ख्यानम्(वार्तिकान्त) । पावकादीनां छन्दसि उपसङ्ख्यानं कर्तव्यं । हिरण्यवर्णाः श्रुचयः पावकाः , ऋक्षकाः , अलोमकाः । छन्दसि इति किमर्थं । पाविका , अलोमिका । (कात्यायन वार्तिक)आशिषि च(वार्तिकान्त) । आशिषि च उपसङ्ख्यानं कर्तव्यं । जीवतात्जीवका , नन्दतात्नन्दका , भवतात्भवका । (कात्यायन वार्तिक)उत्तरपदलोपे च(वार्तिकान्त) । उत्तरपदलोपे च उपसङ्ख्यानं कर्तव्यं । देवदत्तिका , देवका , यज्ञदत्तिका , यज्ञका । (कात्यायन वार्तिक)क्षिपकादीनां च(वार्तिकान्त) । क्षिपकादीनां च उपसङ्ख्यानं कर्तव्यं । क्षिपका , ध्रुवका , धुवका । (कात्यायन वार्तिक)तारका ज्योतिषि(वार्तिकान्त) । तारका ज्योतिषि उपसङ्ख्यानं कर्तव्यं । तारका । ज्योतिषि इति किमर्थं । तारिका दासी । (कात्यायन वार्तिक)वर्णका तानवे(वार्तिकान्त) । वर्णका तान्तवे उपसङ्ख्यानं कर्तव्यं । वर्णका । तान्तवे इति किमर्थं । वर्णिका भागुरी लोकायतस्य । (कात्यायन वार्तिक)वर्तका शकुनौ प्राचाम्(वार्तिकान्त) । वर्तका शकुनौ प्राचां उपसङ्ख्यानं कर्तव्यं । वर्तका शकुनिः । शकुनौ इति किमर्थं । वर्तिका भागुरी लोकायतस्य । प्राचां इति किमर्थं । वर्तिका । (कात्यायन वार्तिक)अष्टका पितृदेवत्ये(वार्तिकान्त) । अष्टका पितृदेवत्ये उपसङ्ख्यानं कर्तव्यं । अष्टका । पितृदेवत्ये इति किमर्थं । अष्टिका खारी । (कात्यायन वार्तिक)वा सूतकापुत्रकावृन्दारकाणाम्(वार्तिकान्त) । वा सूतकापुत्रकावृन्दारकाणां उपसङ्ख्यानं कर्तव्यं । सूतका , सूतिका , पुत्रका , पुत्रिका , वृन्दारका , वृन्दारिका ।
(पाणिनीयसूत्र ७,३।४६) कि.,३२६।११-१६ रो. V,२११।२-७ किमर्थं स्त्रीलिङ्गनिर्देशः क्रियते न यकपूर्वस्य इति एव उच्येत । स्त्रीविषयः यः आकारः तस्य स्थाने यः अकारः तस्य प्रतिषेधः यथा स्यात। इह मा भूत। शुभं याति इति शुभंयाः शुभंयिका , भद्रंयिका । (कात्यायन वार्तिक)यकपूर्वे धात्वन्तप्रतिषेधः(वार्तिकान्त) । यकपूर्वे धात्वन्तप्रतिषेधः वक्तव्यः । किं प्रयोजनं । सुनयिका , अशोकिका , अपाकिका ।
(पाणिनीयसूत्र ७,३।४७) कि.,३२६।१८-३२७।३ रो. V,२११।९-२१२।३ एषाद्वे नञ्पूर्वे अनुदाहरणे असुपः इति प्रतिषेधात। अथ भस्त्राग्रहणं किमर्थं न अभाषितपुंस्कातिति एव सिद्धं । (कात्यायन वार्तिक)भस्त्राग्रहणं उपसर्जनार्थम्(वार्तिकान्त) । उपसर्जनार्थः अयं आरम्भः । अभस्त्रिका , अभस्त्रका । (कात्यायन वार्तिक)नञ्पूर्वग्रहणानर्थक्यं च उत्तरपदमात्रस्य इद्वचनात्(वार्तिकान्त) । नञ्पूर्वग्रहणं च अनर्थकं । किं कारणं । उत्तरपदमात्रस्य इद्वचनात। उत्तरपदमात्रस्य इत्त्वं वक्तव्यं । निर्भस्त्रका , निर्भस्त्रिका , बहुभस्त्रका , बहुभस्त्रिका ।
(पाणिनीयसूत्र ७,३।५०) कि.,३२८।२-३२९।५ रो. V,२१२।७-२१५।१ किं इदं ठादेशे वर्णग्रहणं आहोस्वित्सङ्घातग्रहणं । कः च अत्र विशेषः । (कात्यायन वार्तिक)ठादेशे वर्णग्रहणं चेत्धात्वन्तस्य प्रतिषेधः(वार्तिकान्त) । ठादेशे वर्णग्रहणं चेत्धात्वन्तस्य प्रतिषेधः वक्तव्यः । पठिता , पठितुं । अस्तु तर्हि सङ्घातग्रहणं । (कात्यायन वार्तिक)सङ्घातग्रहणं चेतणादिमाथितिकादीनां प्रतिषेधः(वार्तिकान्त) । सङ्घातग्रहणं चेतुणादिमाथितिकादीनां प्रतिषेधः वक्तव्यः । उणादीनां तावत। कण्ठः , वण्ठः , शण्ठः । इह च मथितं पण्यं अस्य माथितिकः इति अकारलोपे कृते तान्तातिति कादेशः प्राप्नोति । वर्ङग्रहणे पुनः सति अल्विधिः अयं भवति । (कात्यायन वार्तिक)तस्मात्विशिष्टग्रहणम्(वार्तिकान्त) । तस्मात्विशिष्टस्य ठकारस्य ग्रहणं कर्तव्यं । न कर्तव्यं । अस्तु तावत्वर्णग्रहणं । ननु च उक्तं ठादेशे वर्णग्रहणं चेत्धात्वन्तस्य प्रतिषेधः इति । न एषः दोषः । अङ्गातिति वर्तते । न वा अङ्गातिति पञ्चमी अस्ति । एवं तर्हि प्रत्ययस्थस्य इति वर्तते । क्व प्रकृतं । प्रत्ययस्थात्कात्पूर्वस्य अतः इतापि असुपः इति । तत्वै पञ्चमीनिर्दिष्टं षष्ठीनिर्दिष्टेन च इह अर्थः । अर्थात्विभक्तिविपरिणामः भविष्यति । तत्यथा । उच्चानि देवदत्तस्य गृहाणि । आमन्त्रयस्व एनं । देवदत्तं इति गम्यते । देवदत्तस्य गावः अश्वाः हिरण्यं । आढ्यः वैधवेयः । देवदत्तः इति गम्यते । पुरस्तात्षष्ठीनिर्दिष्टं सतर्थात्प्रथमानिर्दिष्टं द्वितीयानिर्दिष्टं च भवति । एवं इह अपि पुरस्तात्पञ्चमीनिर्दिष्टं सतर्थात्षष्ठीनिर्दिष्टं भविष्यति । एवं अपि उणादीनां प्रतिषेधः वक्तव्यः । न वक्तव्यः । उणादयः अव्युत्पन्नानि प्रातिपदिकानि । एवं अपि कर्मठः इति अत्र प्राप्नोति । एवं तर्हि अङ्गस्य इति सम्बन्धषष्ठी विज्ञास्यते । अङ्गस्य यः ठकारः । किं च अङ्गस्य ठकारः । निमित्तं । यस्मिनङ्गं इति एतत्भवति । कस्मिन्च एतत्भवति । प्रत्यये । अथ वा पुनः अस्तु सङ्घातग्रहणं । ननु च उक्तं सङ्घातग्रहणं चेतुणादिमाथितिकादीनां प्रतिषेधः इति उणादीनां तावत्प्रतिषेधः न वक्तव्यः । परिहृतं एततुणादयः अव्युत्पन्नानि प्रातिपदिकानि इति । यतपि उच्यते इह च मथितं पण्यं अस्य माथितिकः इति अकारलोपे कृते तान्तातिति कादेशः प्राप्नोति इति । न एषः दोषः । अकारलोपस्य स्थानिवद्भावात्न भविष्यति । न सिध्यति । पूर्वविधौ स्थानिवद्भावः न च अयं पूर्वविधिः । अयं अपि पूर्वविधिः । पूर्वस्मातपि विधिः पूर्वविधिः इति । अथ अपि उणादयः व्युत्पाद्यन्ते एवं अपि न दोषः । क्रियते न्यासे एव विशिष्टग्रहणं ठस्य इति ।
(पाणिनीयसूत्र ७,३।५१) कि., ३२९।७-९ रो. V,२१५।३-५ इह कस्मात्न भवति । आशिषा तरति आशिषिकः , उषा तरति औषिकः । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति । अथ इह कथं भवितव्यं । दोर्भ्यां तरति । दौष्कः इति भवितव्यं । कथं । यदि वर्णैकदेशाः वर्णग्रहणेन गृह्यन्ते ।
(पाणिनीयसूत्र ७,३।५४) कि.,३२९।११-३३०।१६ रो. V,२१५।७-२१७।१३ किं इदं ञ्णिन्नकारग्रहणं हन्तिविशेषणं : ञ्णिन्नकारपरस्य हन्तेः यः हकारः इति । आहोस्वित्हकारविशेषणं : ञ्णिन्नकारपरस्य हकारस्य सः चेत्हन्तेः इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)हन्तेः तत्परस्य इति चेत्नकारे अप्रसिद्धिः(वार्तिकान्त) । हन्तेः तत्परस्य इति चेत्नकारे अप्रसिद्धिः । घ्नन्ति , घ्नन्तु , अघ्नन। अस्तु तर्हि हकारविशेषणं । (कात्यायन वार्तिक)हकारस्य इति चेत्ञ्णिति अप्राप्तिः(वार्तिकान्त) । हकारस्य इति चेत्ञ्णिति अप्राप्तिः । घातयति घातकः । किं कारणं । नकारेण व्यवहितत्वात्न प्राप्नोति । वचनात्भविष्यति । इह अपि वचनात्प्राप्नोति । हननं इच्छति हननीयते हननीयतेः ण्वुल्हननीयकः इति । (कात्यायन वार्तिक)स्थानिवद्भावात्च अचः नकारे अप्रसिद्धिः(वार्तिकान्त) । स्थानिवद्भावात्च अचः नकारे अप्रसिद्धिः । घ्नन्ति , घ्नन्तु । वचनात्भविष्यति । (कात्यायन वार्तिक)वचनप्रामाण्यातिति चेतलोपे प्रतिषेधः(वार्तिकान्त) । वचनप्रामाण्यातिति चेतलोपे प्रतिषेधः वक्तव्यः । हन्ता , हन्तुं । नकारग्रहणसामर्थ्यातलोपे न भविष्यति । अस्ति अन्यत्नकारग्रहणस्य प्रयोजनं । किं । श्रूयमाणविशेषणं । यत्र नकारः श्रूयते तत्र यथा स्यात। इह मा भूत। हतः हथः इति । (कात्यायन वार्तिक)सिद्धं तु उपधालोपे इति वचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । उपधालोपे च इति वक्तव्यं । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं हन्तेः तत्परस्य इति चेत्नकारे अप्रसिद्धिः इति । वचनात्भविष्यति । अथ वा पुनः अस्तु हकारविशेषणं । ननु च उक्तं हकारस्य इति चेत्ञ्णिति अप्राप्तिः इति । वचनात्भविष्यति । ननु च उक्तं इह अपि वचनात्प्राप्नोति हननीयकः इति । न एषः दोषः । येन न अव्यवधानं तेन व्यवहिते अपि वचनप्रामाण्यात। न च क्व चित्धात्ववयवेन अव्यवधानं एतेन पुनः सङ्घातेन व्यवधानं भवति न च भवति । यतपि उच्यते स्थानिवद्भावात्च अचः नकारे अप्रसिद्धिः इति वचनात्भविष्यति । ननु च उक्तं वचनप्रामाण्यातिति चेतलोपे प्रतिषेधः इति । न एषः दोषः । आनन्तर्यं इह आश्रीयते हकारस्य नकारः इति । क्व चित्च सन्निपातकृतं आनन्तर्यं शास्त्रकृतं अनानन्तर्यं क्व चित्च न सन्निपातकृतं न अपि शास्त्रकृतं । लोपे सन्निपातकृतं आनन्तर्यं अलोपे न एव सन्निपातकृतं न अपि शास्त्रकृतं । यत्र कुतः चितेव आनन्तर्यं तताश्रयिष्यामः ।
(पाणिनीयसूत्र ७,३।५५) कि.,३३०।१८-२५ रो. V,२१७।१५-२१८।८ (कात्यायन वार्तिक)अभ्यासात्कुत्वं असुपः(वार्तिकान्त) । अभ्यासात्कुत्वं असुपः इति वक्तव्यं । इह मा भूत। हननं इच्छति हननीयति हननीयतेः सन्जिहननीयिषति इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । हन्तेः अभ्यासातिति उच्यते न च एषः हन्तेः अभ्यासः । हन्तेः एषः अभ्यासः । कथं । एकाचः द्वे प्रथमस्य इति । एवं तर्हि हन्तेः अङ्गस्य यः अभ्यासः तस्मातिति उच्यते न च एषः हन्तेः अङ्गस्य अभ्यासः । हन्तेः अङ्गस्य एषः अभ्यासः । कथं । एकाचः द्वे प्रथमस्य इति । एवं तर्हि यस्मिन्हन्तिः अङ्गं तस्मिन्यः अभ्यासः तस्मातिति उच्यते । यस्मिन्च अत्र हन्तिः अङ्गं न तस्मिनभ्यासः यस्मिन्च अभ्यासः न तस्मिन्हन्तिः अङ्गं भवति ।
(पाणिनीयसूत्र ७,३।५६) कि.,३३१।२-८ रो. V,२१९।२-८ अचङि इति किमर्थं । प्राजीहयत्दूतं । (कात्यायन वार्तिक)हेः चङि प्रतिषेधानर्थक्यं अङ्गान्यत्वात्(वार्तिकान्त) । हेः चङि प्रतिषेधः अनर्थकः । किं कारणं । अङ्गान्यत्वात। ण्यन्तं एततङ्गं अन्यत्भवति । लोपे कृते न अङ्गान्यत्वं । स्थानिवद्भावातङ्गान्यत्वं एव । (कात्यायन वार्तिक)ज्ञापकं तु अन्य्त्र ण्यधिकस्य कुत्वविज्ञानार्थम्(वार्तिकान्त) । एवं तर्हि ज्ञापयति आचार्यः अन्यत्र ण्यधिकस्य कुत्वं भवति इति । किं एतस्य ज्ञापने प्रयोजनं । प्रजिघाययिषति इति अत्र कुत्वं सिद्धं भवति ।
(पाणिनीयसूत्र ७,३।५७) कि.,३३१।१०-१४ रो. V,२१९।१०-१४ (कात्यायन वार्तिक)जिग्रहणे ज्यः प्रतिषेधः(वार्तिकान्त) । जिग्रहणे ज्यः प्रतिषेधः वक्तव्यः । जिज्यतुः , जिज्युः इति । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवं एतस्य न भविष्यति । सा तर्हि एषा परिभषा कर्तव्या । अवश्यं कर्तव्या अध्याप्य गतः इति एवमर्थं ।
(पाणिनीयसूत्र ७,३।५९) कि.,३३१।१६-३३२।२ रो. V,२१९।१६-२२०।७ (कात्यायन वार्तिक)क्वाद्यजिव्रजियाचिरुचीनां अप्रतिषेधः निष्ठायां अनिटः कुत्ववचनात्(वार्तिकान्त) । क्वाद्यजिव्रजियाचिरुचीनां अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । कुत्वं कस्मात्न भवति । निष्ठायां अनिटः कुत्ववचनात। निष्ठायां अनिटः कुत्वं वक्ष्यामि सेटः च एते निष्ठायां । यदि निष्ठायां अनिटः कुत्वं उच्यते कथं शोकः समुद्रः इति । (कात्यायन वार्तिक) शुच्युब्ज्योः घञि कुत्वम्(वार्तिकान्त) । शुच्युब्ज्योः घञि कुत्वं वक्तव्यं । कथं अर्कः । (कात्यायन वार्तिक)अर्चेः कविधानात्सिद्धम्(वार्तिकान्त) । न एतत्घञन्तं । औणादिकः एषः कशब्दः तस्मिनाष्टमिकं कुत्वं ।
(पाणिनीयसूत्र ७,३।६१) कि.,३३२।४-१० रो. V,२२१।२-८ (कात्यायन वार्तिक)भुजः पाणौ(वार्तिकान्त) । भुजः पाणौ इति वक्तव्यं । कथं न्युब्जः उपतापे इति । (कात्यायन वार्तिक)न्युब्जेः कर्तृत्वातप्रतिषेधः(वार्तिकान्त) । अनर्थकः प्रतिषेधः अप्रतिषेधः । कुत्वं कस्मत्न भवति । कर्तृत्वात। न एतत्घञन्तं । कर्तृप्रत्ययः एषः । न्युब्जति इति न्युब्जः । अधिकरणसाधनः वै लक्ष्यते घञ। न्युब्जिताः शेरते अस्मिन्न्युब्जः उपतापे इति । एषः अपि हि कर्तृसाधनः एव । न्युब्जयति इति न्युब्जः ।
(पाणिनीयसूत्र ७,३।६६) कि.,३३२।१२-२१ रो. V,२२१।१०-२२२।८ (कात्यायन वार्तिक)प्रवचिग्रहणं अनर्थकं वचः अशब्दसञ्ज्ञाभावात्(वार्तिकान्त) । प्रवचिग्रहणं अनर्थकं । किं कारणं । वचोऽशब्दसञ्ज्ञाभावात। वचोऽशब्दसञ्ज्ञायां प्रतिषेधः उच्यते प्रपूर्वः च वचिः अशब्दसञ्ज्ञायां वर्तते । उपसर्गनियमार्थं तर्हि इदं वक्तव्यं । प्रपूर्वस्य एव वचेः अशब्दसञ्ज्ञायां प्रतिषेधः यथा स्यात। इह मा भूत। अविवाक्यं इति । (कात्यायन वार्तिक)उपसर्गपूर्वनियमार्थं इति चेतविवाक्यस्य विशेषवचनत्सिद्धम्(वार्तिकान्त) । विशेषे एतत्वक्तव्यं । अविवाक्यं अहः इति । क्व मा भूत। अविवाच्यं एव अन्यतिति । (कात्यायन वार्तिक)ण्यप्रतिषेधे त्यजेः उपसङ्ख्यानम्(वार्तिकान्त) । ण्यप्रतिषेधे त्यजेः उपसङ्ख्यानं कर्तव्यं । त्याज्यं ।
(पाणिनीयसूत्र ७,३।६९) कि.,३३३।२-६ रो. V,२२२।१०-१४ (कात्यायन वार्तिक)\भोज्यं अभ्यवहार्ह्ये[^1] । भोज्यं अभ्यवहार्ये इति वक्तव्यं । इह अपि यथा स्यात। भोज्यः सूपः , भोज्या यवागूः इति । किं पुनः कारणं न सिध्यति । भक्षिः अयं खरविशदे वर्तते तेन द्रवे न प्राप्नोति । न अवश्यं भक्षिः खरविशदे एव वर्तते । किं तर्हि अन्यत्र अपि वर्तते । तत्यथा । अब्भक्षः , वायुभक्षः इति ।
(पाणिनीयसूत्र ७,३।७०) कि.,३३३।८-१० रो. V,२२३।२-४ वा इति शक्यं अवक्तुं । कस्मात्न भवति । ततग्निः अग्नये ददात। अस्तु अत्र लोपः आटः श्रवणं भविष्यति तेन उभयं सिध्यति । दधत्रत्नानि दाशुषे , ददात्रत्नानि दाशुषे ।
(पाणिनीयसूत्र ७,३।७१) कि.,३३३।१२-२० रो. V,२२३।६-२२४।१ (कात्यायन वार्तिक)\ओतः शिति[^1] । ओतः शिति इति वक्तव्यं । किं प्रयोजनं । (कात्यायन वार्तिक)उत्तरत्र शिद्ग्रहणाभावाय(वार्तिकान्त) । तत्र अयं अपि अर्थः ष्ठिवुक्लम्वाचमां शिति इति शिद्ग्रहणं न कर्तव्यं भवति । ननु च भोः श्यन्ग्रहणं अपि तर्हि उत्तरार्थं कर्तव्यं । शमां अष्टानां दीर्घः श्यनि इति श्यन्ग्रहणं न कर्तव्यं भवति । अत्र अपि अस्तु शिति इति एव । यदि शिति इति उच्यते अनु त्वा इन्द्रः भ्रमतु मदतु अत्र अपि प्राप्नोति । शमादिभिः अत्र शितं विशेषयिष्यामः । शमादीनां यः शितिति । कः च शमादीनां शित। शमादिभ्यः यः विहितः । एवं अपि तस्यति , यस्यति अत्र प्राप्नोति । अष्टानां इति वचनात्न भविष्यति ।
(पाणिनीयसूत्र ७,३।७५) कि.,३३४।२-४ रो. V,२२४।३-५ (कात्यायन वार्तिक)दीर्घत्वं आङि चमः(वार्तिकान्त) । दीर्घत्वं आङि चमः इति वक्तव्यं । आचामति । इह मा भूत। उच्चमति , विचमति इति ।
(पाणिनीयसूत्र ७,३।७७) कि.,३३४।६-१२ रो. V,२२४।७-१३ (कात्यायन वार्तिक)इषेः छत्वं अहलि(वार्तिकान्त) । इषेः छत्वं अहलि इति वक्तव्यं । इह मा भूत। इष्णाति , इष्यति । तत्तर्हि वक्तव्यं । न वक्तव्यं । अचि इति वर्तते । एवं अपि इषाण इति अत्र प्राप्नोति । अथ अहलि इति उच्यमाने कस्मातेव अत्र छत्वं न भवति । न एवं विज्ञायते न हलहलहलि इति । कथं तर्हि । अविद्यमानः हलस्मिन्सः अयं अहलहलि इति । यदि एवं अचि इति अपि वर्तमाने न दोषः । न हि अचा शित्विशेष्यते । शिति भवति कतर्स्मिनचि इति । कथं तर्हि । शिता अच्विशेष्यते । अचि भवति कतर्स्मिन्शिति इति ।
(पाणिनीयसूत्र ७,३।७८) कि.,३३४।१५-२० रो. V,२२५।३-८ (कात्यायन वार्तिक)पिबेः गुणप्रतिषेधः(वार्तिकान्त) । पिबेः गुणप्रतिषेधः वक्तव्यः । पिबति । लघूपधगुणः प्राप्नोति । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । गुणः कस्मात्न भवति । पिबिः अदन्तः । (कात्यायन वार्तिक)अदन्ते इति चेतुक्तम्(वार्तिकान्त) । किं उक्तं । धातोः अन्ते इति चेतनुदात्तेचबग्रहणं इति । अथ वा अङ्गवृत्ते पुनर्वृत्तौ अविधिः निष्ठितस्य इति एवं न भविष्यति ।
(पाणिनीयसूत्र ७,३।७९) कि.,३३५।२-६ रो. V,२२५-२२६ दीर्घोच्चारणं किमर्थं न ज्ञाजनोः जः इति एव उच्येत । का रूपसिद्धिः : जानाति , जायते । अतः दीर्घः यञि इति दीर्घत्वं भविष्यति । एवं तर्हि सिद्धे सति यत्दीर्घोच्चारणं करोति तत्ज्ञापयति आचार्यः भवति एषा परिभाषा अङ्गवृत्ते पुनर्वृत्तौ अविधिः इति । किं एतस्य ज्ञापने प्रयोजनं । पिबेः गुणप्रतिषेधः चोदितः सः न वक्तव्यः भवति ।
(पाणिनीयसूत्र ७,३।८३) कि.,३३५।८-१६ रो. V,२२६ (कात्यायन वार्तिक)जुसि गुणे यासुट्प्रतिषेधः(वार्तिकान्त) । जुसि गुणे यासुडादौ प्रतिषेधः वक्तव्यः । चिनुयुः , सुनुयुः इति । न वक्तव्यः । न एवं विज्ञायते मिदेः गुणः जुसि च इति । कथं तर्हि । मिदेः गुणः अजुसि च इति । किं इदं अजुसि इति । अजादौ उसि अजुसि इति । इह अपि तर्हि प्राप्नोति । चक्रुः , जह्रुः इति । एवं तर्हि शिति इति वर्तते । एवं अपि अजुहवुः , अबिभयुः इति अत्र न प्राप्नोति । भूतपूर्वगत्या भविष्यति । न सिध्यति न हि उस्शिद्भूतपूर्वः । उस्शिद्भूतपूर्वः न अस्ति इति कृत्वा उसि यः शिद्भूतपूर्वः तस्मिन्भविष्यति । अथ वा क्रियते न्यासे एव । अविभक्तिकः निर्देशः । न एवं विज्ञायते मिदेः गुणः जुसि च इति । कथं तर्हि । मिदेः गुणः उ जुसि इति । किं इदं उ जुसि इति । उकारादौ जुसि । अथ वा अचि इति वर्तते तेन जुसं विशेषयिष्यामः । अजादौ जुसि इति ।
(पाणिनीयसूत्र ७,३।८५) कि.,३३५।१८-३३७।३ रो. V,२२६।१५-२२९।३ इह जागरयति , जागरकः इति गुणे कृते रपरत्वे च अतः उपधायाः इति वृद्धिः प्राप्नोति तस्याः प्रतिषेधः वक्तव्यः । (कात्यायन वार्तिक)चिण्णलोः प्रतिषेधसामर्थ्यातन्यत्र गुणभूतस्य वृद्धिप्रतिषेधः(वार्तिकान्त) । यतयं अचिण्णलोः इति प्रतिषेधं शास्ति तत्ज्ञापयति आचार्यः न गुणाभिनिर्वृत्तस्य वृद्धिः भवति इति । किं पुनः अयं पर्युदासः : यतन्यत्विचिण्णल्ङिद्भ्यः इति । आहोस्वित्प्रसज्य अयं प्रतिषेधः : विचिण्णल्ङित्सु न इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)प्रसज्यप्रतिषेधे जुसिगुणप्रतिषेधप्रसङ्गः(वार्तिकान्त) । प्रसज्यप्रतिषेधे जुसिगुणप्रतिषेधः प्राप्नोति । अजागरुः । (कात्यायन वार्तिक)उत्तमे च णलि(वार्तिकान्त) । प्रसज्यप्रतिषेधे जुसिगुणप्रतिषेधः प्राप्नोति । अजागरुः । (कात्यायन वार्तिक)न वा अनन्तरस्य प्रतिषेधात्(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । अनन्तरस्य प्रतिषेधात। अनन्तरं यत्गुणविधानं तस्य प्रतिषेधः । (कात्यायन वार्तिक)जुसि पूर्वेण गुणविधानम्(वार्तिकान्त) । जुसि पूर्वेण गुणः विधीयते जुसि च इति । (कात्यायन वार्तिक)णलि च(वार्तिकान्त) । किं । न वा अनन्तरस्य प्रतिषेधातिति एव । णलि च पूर्वेण गुणः विधीयते सार्वधातुकार्धधातुकयोः इति । अथ वा पुनः अस्तु पर्युदासः । (कात्यायन वार्तिक)अतः अन्यत्र विधाने वौ अगुणत्वम्(वार्तिकान्त) । अतः अन्यत्र विधाने वौ अगुणत्वं । (कात्यायन वार्तिक)न वा पर्युदाससामर्थ्यात्(वार्तिकान्त) । न वा वक्तव्यं । किं कारणं । पर्युदाससामर्थ्यातत्र गुणः न भविष्यति । अस्ति अन्यत्पर्युदासे प्रयोजनं । किं । क्विबर्थं पर्युदासः स्यात। शुद्धपरस्य विशब्दस्य प्रतिषेधे ग्रहणं अनुनासिकपरः च क्वौ विशब्दः । वस्वर्थं तर्हि पर्युदासः स्यात। जागृवांसः अनु ग्मन। कथं पुनः वेः पर्युदासः उच्यमानः वस्वर्थः शक्यः विज्ञातुं । सामर्थ्यात्वस्वर्थं इति विज्ञास्यते । (कात्यायन वार्तिक)वस्वर्थं इति चेत्न सार्वधातुकत्वात्सिद्धम्(वार्तिकान्त) । वस्वर्थं इति चेत्न । किं कारणं । सार्वधातुकत्वात्सिद्धं । कथं सार्वधातुकसञ्ज्ञा । छान्दसः क्वसुः । लिट्च छन्दसि सार्वधातुकं अपि भवति । तत्र सार्वधातुकं अपिन्ङितिति ङित्त्वात्पर्युदासः भविष्यति । अथ वा वकारस्य एव इदं अशक्तिजेन इकारेण ग्रहणं ।
(पाणिनीयसूत्र ७,३।८६) कि.,३३७।५-३३८।१२ रो. V,२२९।५-२३२।४(कात्यायन वार्तिक) संयोगे गुरुसञ्ज्ञायां गुणः भेत्तुः न सिध्यति(वार्तिकान्त) । संयोगे गुरुसञ्ज्ञायां भेत्ता , भेत्तुं इति गुणः न प्राप्नोति । (कात्यायन वार्तिक)विध्यपेक्षं लघोः च असौ(वार्तिकान्त) । विध्यपेक्षं लघुग्रहणं कृतं लघोः च असौ विहितः । (कात्यायन वार्तिक)कथं कुण्डिः न दुष्यति(वार्तिकान्त) । कुण्डिता , हुण्डिता अत्र कस्मात्न भवति । (कात्यायन वार्तिक)धातोः नुमः(वार्तिकान्त) । धातोः नुम्विधौ उक्तं तत्र धातुग्रहणस्य प्रयोजनं धातूपदेशावस्थायां एव नुं भवति इति । (कात्यायन वार्तिक)कथं रञ्जेः(वार्तिकान्त) । कथं रञ्जेः उपधालक्षणा वृद्धिः । आश्चर्यः रागः , विचित्रः रागः । (कात्यायन वार्तिक)स्यन्दिश्रन्थ्योः निपातनात्(वार्तिकान्त) । यतयं स्यन्दिश्रन्थ्योः अवृद्ध्यर्थं निपातनं करोति तत्ज्ञापयति आचार्यः भवति एवञ्जातीयकानां वृद्धिः इति । (कात्यायन वार्तिक)अनङ्लोपशिदीर्घत्वे विध्यपेक्षे न सिध्यतः(वार्तिकान्त) । अनङ्लोपः । दध्ना , सक्थ्ना । शिदीर्घत्वं । कुण्डानि , वनानि । एवं तर्हि (कात्यायन वार्तिक)अभ्यस्तस्य यताह अचि(वार्तिकान्त) । यतयं न अभ्यस्तस्य अचि पिति सार्वधातुके इति अज्ग्रहणं करोति तत्ज्ञापयति आचार्यः भवति एवञ्जातीयकानां गुणः इति । (कात्यायन वार्तिक)लङर्थं तत्कृतं भवेत्(वार्तिकान्त) । लङर्थं एतत्स्यात। अनेन इक। (कात्यायन वार्तिक)क्नुसुनोः यत्कृतं कित्त्वं ज्ञापकं स्यात्लघोः गुणे(वार्तिकान्त) । यतयं त्रसिगृधिधृषिक्षिपेः क्नुः इकः झल्हलन्तात्च इति क्नुसनौ कितौ करोति तत्ज्ञापयति आचार्यः भवति एवञ्जातीयकानां गुणः इति । (कात्यायन वार्तिक)संयोगे गुरुसञ्ज्ञायां गुणः भेत्तुः न सिध्यति , विध्यपेक्षं लघोः च असौ कथं कुण्डिः न दुष्यति । धातोः नुमः कथं रञ्जेः स्यन्दिश्रन्थ्योः निपातनात्, अनङ्लोपशिदीर्घत्वे विध्यपेक्षे न सिध्यतः । अभ्यस्तस्य यताह अचि लङर्थं तत्कृतं भवेत्, क्नुसुनोः यत्कृतं कित्त्वं ज्ञापकं स्यात्लघोः गुणे(वार्तिकान्त) ।
(पाणिनीयसूत्र ७,३।८७) कि.,३३८।१४-२६ रो. V,२३२।६-२३३।४ (कात्यायन वार्तिक)अभ्यस्तानां उपधाह्रस्वत्वं अचि पस्पशाते , चाकशीमि , वावशतीः इति दर्शनात्(वार्तिकान्त) । अभ्यस्तानां उपधाह्रस्वत्वं अचि वक्तव्यं । किं प्रयोजनं । पस्पशाते , चाकशीमि । वावशतीः इति प्रयोगः दृश्यते । कपोतः शरदं पस्पशाते । अहं भुवनं चाकशीमि । वावशतीः उताजतिति । (कात्यायन वार्तिक)बहुलं छन्दसि आनुषक्जुजोषतिति दर्शनात्(वार्तिकान्त) । बहुलं छन्दसि वक्तव्यं उपधाह्रस्वत्वं । किं प्रयोजनं । आनुषक्जुजोषतिति दर्शनात। यः ते आतित्यं आनुषक्जुजोषत। यदि उपधाह्रस्वत्वं उच्यते , प्रियां मयूरः प्रतिनर्नृतीति यद्वत्त्वं नरवर नर्नृतीषि हृष्टः , अत्र गुणः प्राप्नोति । तस्मात्न अर्थः उपधाह्रस्वत्वेन । कस्मात्न भवति । पस्पशाते , चाकशीमि , वावशतीः इति । स्पशिकशिवशयः प्रकृत्यन्तराणि ।
(पाणिनीयसूत्र ७,३।८८) कि.,३३९।२-७ रो. V,२३३।६-११ (कात्यायन वार्तिक)भूसुवोः प्रतिषेधे एकाज्ग्रहणं बोभवीत्यर्थम्(वार्तिकान्त) । भूसुवोः प्रतिषेधे एकाज्ग्रहणं कर्तव्यं । किं प्रयोजनं । बोभवीत्यर्थं । इह मा भूत। बोभवीति । यदि एकाज्ग्रहणं क्रियते अभूतत्र न प्राप्नोति । क्व तर्हि स्यात। मा भूत। तस्मात्न अर्थः एकाज्ग्रहणेन । कस्मात्न भवति । बोभवीति इति । बोभूतु इति एतत्नियमार्थं भविष्यति । अत्र एव यङ्लुगन्तस्य गुणः न भवति न अन्यत्र इति । क्व मा भूत। बोभवीति इति ।
(पाणिनीयसूत्र ७,३।९२) कि.,३३९।९ रो. V,२३४।२-१२ किमर्थं तृहिरागतश्नम्कः न तृहेः इं भवति इति एव उच्येत । (कात्यायन वार्तिक)तृणहिग्रहणं श्नमिमोः व्यवस्थार्थम्(वार्तिकान्त) । तृणहिग्रहणं श्नमि कृते इं यथा स्यात। (कात्यायन वार्तिक)तृहिग्रहणे हि इम्विषये श्नमभावः अनवकाशत्वात्(वार्तिकान्त) । तृहिग्रहणे हि सति इम्विषये श्नमः अभावः स्यात। किं कारणं । अनवकाशत्वात। अनवकाशः इं श्नमं बाधेत । इदं अयुक्तं वर्तते । किं अत्र अयुक्तं । तृणहिग्रहणं श्नमिमोः व्यवस्थार्थं इति उक्त्वा ततः उच्यते तृहिग्रहणे हि इम्विषये श्नमभावः अनवकाशत्वातिति । तत्र वक्तव्यं तृणहिग्रहणं श्नमिमोः भावाय तृहिग्रहणे हि इम्विषेये श्नमभावः अनवकाशत्वातिति । तत्तर्हि वक्तव्यं । न वक्तव्यं । व्यवस्थार्थं इति एव सिद्धं न हि असतः व्यवस्था इति ।
(पाणिनीयसूत्र ७,३।९५) कि.,३३९।२०-२२ रो. V,२३४।१४-२३५।१ सार्वधातुके इति वर्तमाने पुनः सार्वधातुकग्रहणं किमर्थं । (कात्यायन वार्तिक)पुनः सार्वधातुकग्रहणं अपिदर्थम्(वार्तिकान्त) । अपिदर्थः अयं आरम्भः । अध्रिगो शमीध्वं सुशमि शमीध्व शमीध्वं अध्रिगो ।
(पाणिनीयसूत्र ७,३।१०३) कि.,३४०।२-५ रो. V,२३५।३-७ (कात्यायन वार्तिक)अतः दीर्घात्बहुवचने एत्त्वं विप्रतिषेधेन(वार्तिकान्त) । अतः दीर्घात्बहुवचने एत्त्वं भवति विप्रतिषेधेन । अतः दीर्घः यञि सुपि च इति अस्य अवकाशः । वृक्षाभ्यां , प्लक्षाभ्यां । बहुवचने झलि एतिति अस्य अवकाशः । वृक्षेषु , प्लक्षेषु । इह उभयं प्राप्नोति । वृक्षेभ्यः , प्लक्षेभ्यः । एत्त्वं भवति विप्रतिषेधेन ।
(पाणिनीयसूत्र ७,३।१०७) कि.,३४०।७-१६ रो. V,२३५।९-२३६।३(कात्यायन वार्तिक) (वार्तिकान्त)डलकवतीनां प्रतिषेधः वक्तव्यः । अम्बाडे , अम्बाले , अम्बिके । तल्ह्रस्वत्वं वा ङिसम्बुद्ध्योः । तल्ह्रस्वत्वं वा ङिसम्बुद्ध्योः इति वक्तव्यं । देवत , देवते । देवतायां , देवते । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । सः कथं न वक्तव्यः भवति । (कात्यायन वार्तिक)अम्बार्थं द्व्यक्षरं यदि(वार्तिकान्त) । यदि अम्बार्थं द्व्यक्षरं गृह्यते । तत्तर्हि ह्रस्वत्वं वक्तव्यं । अवश्यं छन्दसि ह्रस्वत्वं वक्तव्यं उपगायन्तु मां पत्नयः गर्भिणयः युवतयः इति एवं अर्थं । मात्®णां मातच्पुत्रार्थं अर्हते । मात्®णां मातजादेशः वक्तव्यः पुत्रार्थं अर्हते । गार्गीमात , वात्सीमात ।
(पाणिनीयसूत्र ७,३।१०८) कि.,३४०।१८-३४१।२ रो. V,२३६।५-१२ इह कस्मात्न भवति । नदि, कुमारि , किशोरि , ब्राह्मणि , ब्रह्मबन्धु । ह्रस्ववचनसामर्थ्यात। अस्ति अन्यत्ह्रस्ववचने प्रयोजनं पृथग्विभक्तिं मा उच्चीचरं इति । शक्यं पृथग्विभक्तिः अनुच्चारयितुं । कथं । एवं अयं ब्रूयात। अम्बार्थानां ह्रस्वः नदीह्रस्वयोः गुणः इति । यदि एवं उच्यते जसि च इति अत्र नद्याः अपि गुणः प्राप्नोति । एवं तर्हि योगविभागः करिष्यते । अम्बार्थनद्योः ह्रस्वः । ततः ह्रस्वस्य । ह्रस्वस्य च ह्रस्वः भवति । किमर्थं इदं । गुणं वक्ष्यति तद्बाधनार्थं । ततः गुणः । गुणः च भवति ह्रस्वस्य इति । अथ वा ह्रस्वस्य गुणः इति अत्र अम्बार्थनद्योः ह्रस्वः इति एततनुवर्तिष्यते ।
(पाणिनीयसूत्र ७,३।१०९) कि.,३४१।४-९ रो. V,२३७।२-७ (कात्यायन वार्तिक)जसादिषु छन्दसि वावचनं प्राक्णौ चङि उपधायाः(वार्तिकान्त) । जसादिषु छन्दसि वा इति वक्तव्यं । किं अविशेषेण । न इति आह । प्राक्णौ चङ्युपधायाः । किं प्रयोजनं । (कात्यायन वार्तिक)अम्बे, दर्वि , शतक्रत्वः , पश्वे नृभ्यः , किकिदीव्या(वार्तिकान्त) । अम्बे , अम्ब , दर्वि , दर्वे , शतक्रवः शतक्रतवः , पश्वे , पशवे , किकिदीव्या , किकिदीविना ।
(पाणिनीयसूत्र ७,३।१११) कि.,३४१।११-१५ रो. V,२३७।९-२३८।३ (कात्यायन वार्तिक)घेः ङिति गुणविधाने ङीसार्वधातुके प्रतिषेधः(वार्तिकान्त) । घेः ङिति गुणविधाने ङीसार्वधातुके प्रतिषेधः वक्तव्यः । पट्वी , मृद्वी , कुरुतः इति । (कात्यायन वार्तिक)सुबधिकारात्सिद्धम्(वार्तिकान्त) । सुपिति वर्तते । क्व प्रकृतं । सुपि च बहुवचने झलि एतिति ।
(पाणिनीयसूत्र ७,३।११३) कि.,३४१।१७-३४२।५ रो. V,२३८।५-१३ इह अतिखट्वाय , अतिमालाय इति ह्रस्वत्वे कृते स्थानिवद्भावात्याट्प्राप्नोति तस्य प्रतिषेधः वक्तव्यः । न वक्तव्यः । (कात्यायन वार्तिक)याड्विधाने अतिखट्वाय इति अप्रतिषेधः ह्रस्वादेशत्वात्(वार्तिकान्त) । याड्विधाने अतिखट्वाय , अतिमालाय इति अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । याट्कस्मात्न भवति । ह्रस्वादेशत्वात। ह्रस्वादेशः अयं । उक्तं एतत्ङ्याब्ग्रहणे अदीर्घः इति । अथ इदानीं असति अपि स्थानिवद्भावे दीर्घत्वे कृते आप्च असौ भूतपूर्वः इति कृत्वा याट्कस्मात्न भवति । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति । ननु च इदानीं सति अपि स्थानिवद्भावे एतया परिभाषया शक्यं उपस्थातुं । न इति आह । न च तदानीं क्वचितपि स्थानिवद्भावः स्यात।
(पाणिनीयसूत्र ७,३।११६) कि.,३४२।७-१२ रो. V,२३९।२-७ (कात्यायन वार्तिक)इदुद्भ्यां आम्विधानं औत्त्वस्य परत्वात्(वार्तिकान्त) । इदुद्भ्यां आं विधेयः । शकट्यां , पद्धत्यां , धेन्वां इति । किं पुनः कारणं न सिध्यति । औत्त्वस्य परत्वात। परत्वातौत्त्वं प्राप्नोति । (कात्यायन वार्तिक)योगविभागात्सिद्धम्(वार्तिकान्त) । योगविभागः करिष्यते । ङेः आं नद्याम्नीभ्यः । ततः इदुद्भ्यां । इदुद्भ्यां उत्तरस्य ङेः आं भवति इति । शकट्यां , पद्धत्यां , धेन्वां इति । ततः औतत्च घेः ।
(पाणिनीयसूत्र ७,३।११८-११९) कि.,३४२।१४-३४३।९ रो. V,२३९।९-२४१।१ (कात्यायन वार्तिक)औत्त्वे योगविभागः(वार्तिकान्त) । औत्त्वे योगविभागः कर्तव्यः । औत। औत्भवति इदुद्भ्यां । ततः अत्च घेः । अकारः च भवति घेः इति । किमर्थः योगविभागः । (कात्यायन वार्तिक)सखिपतिभ्यां औत्त्वार्थः(वार्तिकान्त) । सखिपतिभ्यां औत्त्वं यथा स्यात। सख्यौ , पत्यौ । (कात्यायन वार्तिक)एकयोगे हि अप्राप्तिः अत्त्वसन्नियोगात्(वार्तिकान्त) । एकयोगे हि सति औत्त्वस्य अप्राप्तिः । किं कारणं । अत्त्वसन्नियोगात। अत्त्वसन्नियोगेन औत्त्वं उच्यते तेन यत्र एव औत्त्वं स्यात। (कात्यायन वार्तिक)न वा अकारस्य अन्वाचयवचनात्यथा क्यङि सलोपः(वार्तिकान्त) । न वा अर्थ औत्त्वे योगविभागेन । किं कारणं । अकारस्य अन्वाचयवचनात। प्रधानशिष्टं औत्त्वं अन्वाचयशिष्टं अत्त्वं यथा क्यङि सलोपः । तत्यथा । प्रधानशिष्टः क्यङ्प्रातिपदिकमात्रात्भवति यत्र च स्कारः तत्र लोपः । (कात्यायन वार्तिक)अत्त्वे टाप्प्रतिषेधः(वार्तिकान्त) । अत्त्वे टापः प्रतिषेधः वक्तव्यः । शकटौ , पद्धतौ , धेनौ । अत्त्वे कृते टाप्प्राप्नोति । (कात्यायन वार्तिक)न वा सन्निपातलक्षणस्य अनिमित्तत्वात्(वार्तिकान्त) । न वा वक्तव्यः । किं कारणं । सन्निपातलक्षणस्य अनिमित्तत्वात। सन्निपातलक्षणः विधिः अनिमित्तं तद्विघातस्य इति टाप्न भविष्यति । (कात्यायन वार्तिक)डित्करणात्वा(वार्तिकान्त) । अथ वा डिताउकारः करिष्यते । औ डित्च घेः ।
(पाणिनीयसूत्र ७,३।१२०) कि.,३४३।११-१४ रो. V,२४१।३-६ किमर्थं अस्त्रियां इति उच्यते न आङः ना पुंसि इति एव उच्येत । का रूपसिद्धिः : त्रपुणा , जतुना । नुमा सिद्धं । न एवं शक्यं । इह हि अमुना ब्राह्मणकुलेन इति मुभावस्य असिद्धत्वात्नुं न स्यात। अस्त्रियां इति पुनः उच्यमाने न दोषः भवति । कथं । वक्ष्यति एतत्न मु टादेशे ।
(पाणिनीयसूत्र ७,४।१।१) कि.,३४४।२-३४५।७ रो. V,२४२-२४५ अथ णिग्रहणं किमर्थं न चङि उपधायाः ह्रस्वः इति एव उच्येत । चङि उपधायाः ह्रस्वः इति इयति उच्यमाने , अलीलवत्, अपीपवत्, ऊकारस्य एव ह्रस्वत्वं प्रसज्येत । न एततस्ति प्रयोजनं । वृद्धिः अत्र बाधिका भविष्यति । वृद्धौ तर्हि कृतायां औकारस्य एव ह्रस्वत्वं प्रसज्येत । न एततस्ति । अन्तरङ्गत्वातत्र आवादेशः भविष्यति । न हि इदानीं ह्रस्वभाविनी उपधा भवति । तस्मात्णिग्रहणं कर्तव्यं । अथ चङ्ग्रहणं किमर्थं न णौ उपधायाः इति एव सिद्धं । णौ उपधायाः ह्रस्वः इति इयति उच्यमाने , कारयति , हारयति इति अत्र अपि प्रसज्येत । न एततस्ति प्रयोजनं । आचार्यप्रवृत्तिः ज्ञापयति न णौ एव ह्रस्वत्वं भवति इति यतयं मितां ह्रस्वत्वं शास्ति । इह अपि तर्हि न प्राप्नोति । अचीकरत्, अजीहरत। वचनात्भविष्यति । इह अपि तर्हि वचनात्प्राप्नोति । कारयति , हारयति । तस्मात्चङ्ग्रहणं कर्तव्यं । अथ उपधाग्रहणं किमर्थं । (कात्यायन वार्तिक)णौ चङि उपधाग्रहणं अन्त्यप्रतिषेधार्थम्(वार्तिकान्त) । णौ चङि उपधाग्रहणं क्रियते अन्त्यस्य ह्रस्त्वत्वं मा भूत। णौ चङि ह्रस्वः इति इयति उच्यमाने , अलीलवत्, अपीपवत्, अन्त्यस्य एव ह्रस्वत्वं प्रसज्येत । न एततस्ति प्रयोजनं । अन्तरङ्गत्वातत्र आवादेशः भवति । न हि इदानीं ह्रस्वभावी अन्त्यः अस्ति । अन्त्यः ह्रस्वभावी न अस्ति इति कृत्वा वचनातनन्त्यस्य भविष्यति । इह अपि वचनात्प्राप्नोति । अचकाङ्क्षत्, अववाञ्छत। येन न अव्यवधानं तेन व्यवहिते अपि वचनप्रामाण्यात। केन च न अव्यवधानं । वर्णेन । एतेन पुनः सङ्घतेन वय्वधानं भवति न भवति च । उत्तरार्थं तर्हि उपधाग्रहणं कर्तव्यं । लोपः पिबतेः ई च अभ्यासस्य उपधायाः यथा स्यात। अपीप्यत्, अपीप्यतां , अपीप्यन। अथ इह कथं भवितव्यं । मा भवानटिटतिति । आहोस्वित्मा भवानाटिटतिति । मा भवानाटिटतिति भवितव्यं । ह्रस्वत्वं कस्मात्न भवति । द्विर्वचने कृते परेण रूपेण व्यवहितं इति कृत्वा । इदं इह सम्प्रधार्यं । द्विर्वचनं क्रियतां ह्रस्वत्वं इति किं अत्र कर्तव्यं । परत्वात्ह्रस्वत्वं । नित्यं द्विर्वचनं । कृते ह्रस्वत्वे प्राप्नोति अकृते अपि । एवं तर्हि आचार्यप्रवृत्तिः ज्ञापयति द्विर्वचनात्ह्रस्वत्वं बलीयः इति यतयं ओणिं ऋदितं करोति । कथं कृत्वा ज्ञापकं । ऋदित्करणे एतत्प्रयोजनं ऋदितां न इति प्रतिषेधः यथा स्यात। यदि च अत्र पूर्वं द्विर्वचनं स्यातृदित्करणं अनर्थकं स्यात। द्विर्वचने कृते परेण व्यवहितत्वात्ह्रस्वत्वं न भविष्यति । पश्यति तु आचार्यः द्विर्वचनात्ह्रस्वत्वं बलीयः इति ततः ओणिं ऋदितं करोति । तस्मात्मा भवानटिटतिति एव भवितव्यं ।
(पाणिनीयसूत्र ७,४।१।२) कि.,३४५।८-२२ रो. V,२४५-२४७ (कात्यायन वार्तिक)उपधाह्रस्वत्वे णेः णिचि उपसङ्ख्यानात्(वार्तिकान्त) । उपधाह्रस्वत्वे णेः णिचि उपसङ्ख्यानं कर्तव्यं : वादितवन्तं प्रयोजितवानवीवदद्वीणां परिवादकेन । किं पुनः कारणं न सिध्यति । णिचा व्यवहितत्वात। णिलोपे कृते न अस्ति व्यवधानं । स्थानिवद्भावात्व्यवधानं एव । प्रतिषिध्यते अत्र स्थानिवद्भावः चङ्परनिर्ह्रासे न स्थानिवतिति । एवं अपि अग्लोपिनां न इति प्रतिषेधः प्राप्नोति । वृद्धौ कृतायां लोपः तत्न अग्लोपै अङ्गं भवति । इदं इह सम्प्रधार्यं । वृद्धिः क्रियतां लोपः इति किं अत्र कर्तव्यं । परत्वात्वृद्धिः । नित्यः लोपः । कृतायां अपि वृद्धौ प्राप्नोति अकृतायां अपि । अनित्यः लोपः । अन्यस्य कृतायां वृद्धौ प्राप्नोति अन्यस्य अकृतायां शब्दान्तरस्य च प्राप्नुवन्विधिः अनित्यः भवति । उभयोः अनित्ययोः परत्वात्वृद्धिः । वृद्धौ कृतायां लोपः तत्न अग्लोपि अङ्गं भवति । एवं तर्हि आचार्यप्रवृत्तिः ज्ञापयति वृद्धेः लोपः बलीयानिति यतयं अग्लोपिनां न इति प्रतिषेधं शास्ति । न एततस्ति ज्ञापकं । अस्ति अन्यतेतस्य वचने प्रयोजनं । किं । यत्र वृद्धौ अपि कृतायां एव लुप्यते । अत्यरराजत। यत्तर्हि प्रत्याहारग्रहणं करोति । इतरथा हि अलोपिनां न इति ब्रूयात। एवं वा वृद्धेः लोपः बलीयानिति । अथ वा आरभ्यते पूर्वविप्रतिषेधः ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घत्वेभ्यः पूर्वविप्रतिषिद्धं इति । तस्मातुपसङ्ख्यानं कर्तव्यं इति ।
(पाणिनीयसूत्र ७,४।२) कि.,३४५।२४-३४६।१६ रो. V,२४७।४-२४९।४ (कात्यायन वार्तिक)अग्लोपिप्रतिषेधानर्थक्यं च स्थानिवद्भावात्(वार्तिकान्त) । अग्लोपिप्रतिषेधः च अनर्थकः । किं कारणं । स्थानिवद्भावात। स्थानिवद्भावातत्र ह्रस्वत्वं न भविष्यति । यत्र तर्हि स्थानिवद्भावः न अस्ति तदर्थं अयं योगः वक्तव्यः । क्व स्थानिवद्भावः न अस्ति । यः हलचोः आदेशः । अत्यरराजत। किं पुनः कारणं हलचोः आदेशः न स्थानिवतिति उच्यते । अजादेशः स्थानिवतिति उच्यते न च अयं अचः एव आदेशः । किं तर्हि अचः अन्यस्य च । अग्लोपिनां न इति अपि तर्हि प्रतिषेधः न प्राप्नोति । किं कारणं । अग्लोपिनां न इति उच्यते न च अत्र अचेव लुप्यते । किं तर्हि । अच्च अन्यः च । यः अत्र अच्लुप्यते तदाश्रयः प्रतिषेधः भविष्यति । यथा एव तर्हि यः अत्र अच्लुप्यते तदाश्रयः प्रतिषेधः भवति एवं यः अत्र अच्लुप्यते तदाश्रयः स्थानिवद्भावः भविष्यति । एवं तर्हि सिद्धे सति यतग्लोपिनां न इति प्रतिषेधं शास्ति तत्ज्ञापयति आचार्यः इतः उत्तरं स्थानिवद्भावः न भवति इति । किं एतस्य ज्ञापने प्रयोजनं । पूर्वत्र असिद्धे न स्थानिवतिति उक्तं तत्न वक्तव्यं भवति । यदि एतत्ज्ञाप्यते , आदीधयतेः आदीधकः , आवेवयतेः आवेवकः । यीवर्णयोः दीधीवेव्योः इति लोपः न प्राप्नोति । इह च यत्प्रलुनीहि अत्र तिङि च उदात्तवति इति एषः स्वरः न प्राप्नोति । न एषः दोषः । यत्तावतुच्यते आदीधयतेः आदीधकः , आवेवयतेः आवेवकः , यीवर्णयोः इति लोपः न प्राप्नोति इति यीवर्णयोः इति अत्र वर्णग्रहणसामर्थ्यात्भविष्यति । यतपि उच्यते यत्प्रलुनीहि अत्र तिङि च उदात्तवति इति एषः स्वरः न प्राप्नोति इति बहिरङ्गः यणादेशः अन्तरङ्गः स्वरः असिद्धं बहिरङ्गं अन्तरङ्गे ।
(पाणिनीयसूत्र ७,४।३) कि.,३४६।१८-२० रो. V,२४९।६-२५०।३ काण्यादीनां च इति वक्तव्यं । के पुनः काण्यादयः । काणिराणिश्राणिभाणिहेठिलोपयः । अचकाणत्, अचीकणत्, अरराणत्, अरीरणत्, अशश्राणत्, अशीश्रणत्, अबभाणत्, अबीभणत्, अजिहेठत्, अजीहिठत्, अलुलोपत्, अलूलुपत।
(पाणिनीयसूत्र ७,४।९) कि.,३४६।२२-३४७।१५ रो. V,२५०।५-२५२।५ इह अवदिग्ये , अवदिग्याते , अवदिग्यरे दिग्यादेशे कृते द्विर्वचनं प्राप्नोति तत्र साभ्यासस्य इति वक्तव्यं । ननु च द्विर्वचने कृते साभ्यासस्य दिग्यादेशः भविष्यति । न सिध्यति । किं कारणं । (कात्यायन वार्तिक)दिग्यादेशस्य परत्वात्साभ्यासस्य आदेशवचनम्(वार्तिकान्त) । दिग्यादेशः क्रियतां द्विर्वचनं इति परत्वात्दिग्यादेशेन भवितव्यं । तत्र साभ्यासस्य इति वक्तव्यं । एवं तर्हि दिग्यादेशः द्विर्वचनं बाधिष्यते । पुनःप्रसङ्गविज्ञानात्द्विर्वचनं प्राप्नोति । पुनःप्रसङ्गः इति चेतमादिभिः तुल्यं । पुनःप्रसङ्गः इति चेतमादिभिः तुल्यं एतत्भवति । तत्यथा । अमादिषु कृतेषु पुनःप्रसङ्गात्शिशीलुग्नुमः न भवन्ति । एवं दिग्यादेशे कृते पुनःप्रसङ्गात्द्विर्वचनं न भविष्यति । अथ वा विप्रतिषेधे पुनःप्रसङ्गः इति उच्यते विप्रतिषेधः च द्वयोः सावकशयोः । इह पुनः अनवकाशः दिग्यादेशः द्विर्वचनं बाधिष्यते । यदि तर्हि अनवकाशाः विधयः बाधकाः भवन्ति , बभूव , भूभावः द्विर्वचनं बाधेत । सावकाशः भूभावः । कः अवकाशः । भविता , भवितुं । इह तर्हि चक्षिङः ख्याञ्वा लिटि इति ख्याञ्द्विर्वचनं बाधेत । इह च अपि बभूव इति यदि तावत्स्थाने द्विर्वचनं भूभावः सर्वादेशः प्राप्नोति अथ द्विःप्रयोगः द्विर्वचनं परस्य भूभावे कृते पूर्वस्य श्रवणं प्राप्नोति । न एषः दोषः । आर्धधातुकीयाः सामान्येन भवन्ति अनवस्थितेषु प्रत्ययेषु । तत्र आर्धधातुकसामान्ये भूभावे कृते यः यतः प्रत्ययः प्राप्नोति सः ततः भविष्यति ।
(पाणिनीयसूत्र ७,४।१०) कि.,३४७।१७-३४८।७ रो. V,२५२।७-२५४।३ (कात्यायन वार्तिक)संयोगादेः गुणविधाने संयोगोपधग्रहणं कृञर्थम्(वार्तिकान्त) । संयोगादेः गुणविधाने संयोगोपधग्रहणं कर्तव्यं । किमर्थं । कृञर्थं । इह अपि यथा स्यात। सञ्चस्करतुः , सञ्चस्करुः । यदि संयोगोपधग्रहणं क्रियते न अर्थः संयोगादिग्रहणेन । इह अपि सस्वरतुः , सस्वरुः संयोगोपधस्य इति एव सिद्धं । भवेत्सिद्धं सस्वरतुः , सस्वरुः इति इदं तु न सिध्यति सञ्चस्करतुः , सञ्चस्करुः इति । किं कारणं । सुटः बहिरङ्गलक्षणत्वात। बहिरङ्गं सुट। अन्तरङ्गः गुणः । असिद्धं बहिरङ्गं अन्तरङ्गे । संयोगादिग्रहणे तु क्रियमाणे संयोगोपधग्रहणं अनन्यार्थं विज्ञायते । (कात्यायन वार्तिक)ऋतः लिटि गुणात्ञ्णिति वृद्धिः विप्रतिषेधेन(वार्तिकान्त) । ऋतः लिटि गुणाञ्ञ्ङिति वृद्धिः भवति पूर्वविप्रतिषेधेन । ऋतः लिटि गुणस्य अवकाशः । सस्वरतुः , सस्वरुः । ञ्णिति वृद्धेः अवकाशः । स्वारकः , ध्वारकः । इह उभयं प्राप्नोति । सस्वार , दध्वार । ञ्णिति वृद्धिः भवति पूर्वविप्रतिषेधेन । (कात्यायन वार्तिक)पुनःप्रसङ्गविज्ञानात्वा सिद्धम्(वार्तिकान्त) । अथ वा पुनःप्रसङ्गात्गुणे कृते रपरत्वे च अतः उपधायाः इति वृद्धिः भविष्यति । न एषः युक्तः परिहारः । पुनःप्रसङ्गः नाम सः भवति यत्र तेन एव कृते प्राप्नोति तेन एव च अकृते । अत्र खलु गुणे कृते रपरत्वे च अतः उपधायाः इति वृद्धिः प्राप्नोति अकृते च अचः ञ्णिति इति । तस्मात्सुष्ठु उच्यते लिति गुणात्ञ्णिति वृद्धिः विप्रतिषेधेन इति ।
(पाणिनीयसूत्र ७,४।१२) कि.,३४८।९-१४ रो. V,२५४।५-१० किमर्थं ह्रस्वः वा इति उच्यते न गुणः वा इति उच्येत । तत्र अयं अपि अर्थः गुणग्रहणं न कर्तव्यं भवति । प्रकृतं अनुवर्तते । क्व प्रकृतं । ऋतः च संयोगादेः गुणः इति । (कात्यायन वार्तिक)ऋतः ह्रस्वत्वं इत्त्वप्रतिषेधार्थम्(वार्तिकान्त) । ऋतः ह्रस्वत्वं उच्यते इत्त्वप्रतिषेधार्थं । इत्त्वं मा भूतिति । गुणः वा इति इयति उच्यमाने गुणेन मुक्ते इत्त्वं प्रसज्येत । ह्रस्वः वा इति उच्यमाने ह्रस्वेन मुक्ते यथाप्राप्तः गुणः भविष्यति ।
(पाणिनीयसूत्र ७,४।१३) कि.,३४८।१६-१९ रो. V,२५५।२-५ (कात्यायन वार्तिक)के अणः ह्रस्वत्वे तद्धितग्रहणं कृन्निवृत्त्यर्थम्(वार्तिकान्त) । के अणः ह्रस्वत्वे तद्धितग्रहणं कर्तव्यं । किं प्रयोजनं । कृन्निवृत्त्यर्थं । कृति मा भूत। राका , धाका इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । उणादयः अव्युत्पन्नानि प्रातिपदिकानि ।
(पाणिनीयसूत्र ७,४।२३) कि.,३४८।२१-२२ रो. V,२५५।७-८ इह कस्मात्न भवति । प्रोह्यते , उपोह्यते । एकादेशे कृते व्यपवर्गाभावात। एवं अपि आ , ऊह्यते , ओह्यते , समोह्यते । अणः इति वर्तते ।
(पाणिनीयसूत्र ७,४।२४) कि.,३४९।२-६ रो. V,२५६।१-५ (कात्यायन वार्तिक)एतेः लिङि उपसर्गात्(वार्तिकान्त) । एतेः लिङि उपसर्गातिति वक्तव्यं । इह मा भूत। ईयात। तत्तर्हि वक्तव्यं । न वक्तव्यं । उपसर्गातिति वर्तते । एवं तर्हि आचार्यः अन्वाचष्टे उपसर्गातिति अनुवर्तते इति । न एततन्वाख्येयं अधिकाराः अनुवर्तन्ते इति । एषः एव न्यायः यतुत अधिकाराः अनुवर्तेरन।
(पाणिनीयसूत्र ७,४।२७) कि.,३४९।८-१२ रो. V,२५६।७-११ दीर्घोच्चारणं किमर्थं न रिङृतः इति एव उच्यते । का रूपसिद्धिः : मात्रीयति , पित्रीयति । अकृत्सार्वधातुकयोः इति दीर्घत्वं भविष्यति । एवं तर्हि सिद्धे सति यत्दीर्घोच्चारणं करोति तत्ज्ञापयति आचार्यः भवति एषा परिभाषा अङ्गवृत्ते पुनः वृत्तौ अविधिः निष्ठितस्य इति । किं एतस्य ज्ञापने प्रयोजनं । पिबेः गुणप्रतिषेधः चोदितः सः न वक्तव्यः भवति ।
(पाणिनीयसूत्र ७,४।३०) कि.,३४९।१४-१६ रो. V,२५६।१३-२५७।३ (कात्यायन वार्तिक)यङ्प्रकरणे हन्तेः हिंसायां ईट्(वार्तिकान्त) । यण्प्रकरणे हन्तेः हिंसायां ईट्वक्तव्यः । जेघ्नीयते । यदि ईटभ्यासरूपं न सिध्यति । एवं तर्हि यङ्प्रकरणे हन्तेः हिंसायां ईक। एवं अपि उपधालोपः न प्राप्नोति । एवं तर्हि यङ्प्रकरणे हन्तेः हिंसायां घ्नी ।
(पाणिनीयसूत्र ७,४।३५) कि.,३४९।१९-३५०।५ रो. V,२५७।५-११ अत्यल्पं इदं उच्यते : अपुत्रस्य इति । अपुत्रादीनां इति वक्तव्यं इह अपि यथा स्यातः जनीयन्तः न्वग्रवः पुत्रीयन्तः सुदानवः । (कात्यायन वार्तिक)छन्दसि प्रतिषेधे दीर्घप्रतिषेधः(वार्तिकान्त) । छन्दसि प्रतिषेधे दीर्घत्वस्य प्रतिषेधः वक्तव्यः । संस्वेदयुः , मित्रयुः । (कात्यायन वार्तिक)न वा अश्वाघस्य आद्वचनं अवधारणार्थम्(वार्तिकान्त) । न वा वक्तव्यं । किं कारणं । अश्वाघस्य आद्वचनं अवधारणार्थं भविष्यति अश्वाघयोः एव छन्चसि दीर्घः भविष्यति न अन्यस्य इति ।
(पाणिनीयसूत्र ७,४।४१) कि.,३५०।७-११ रो. V,२५८।२-६ (कात्यायन वार्तिक)श्यतेः इत्त्वं व्रते नित्यम्(वार्तिकान्त) । श्यतेः इत्त्वं व्रते नित्यं इति वक्तव्यं । संशितव्रतः । तत्तर्हि वक्तव्यं । न वक्तव्यं । (कात्यायन वार्तिक)देवत्रातः गलः ग्राहः इतियोगे च सद्विधिः , मिथः ते न विभाष्यन्ते गवाक्षः संशितव्रतः(वार्तिकान्त) ।
(पाणिनीयसूत्र ७,४।४६) कि.,३५०।१५-३५१।२ रो. V,२५९।२-१५ (कात्यायन वार्तिक)अवदत्तं विदत्तं च प्रदत्तं च आदिकर्मणि , सुदत्तं अनुदत्तं च निदत्तं इति च इष्यते(वार्तिकान्त) । किं पुनः अयं तकारान्तः आहोस्वित्दकारान्तः उत धकारान्तः अथ वा थकारान्तः । कः च अत्र विशेषः । (कात्यायन वार्तिक)तान्ते दोषः दीर्घत्वं स्यात्(वार्तिकान्त) । यदि तकारान्तः दस्ति इति दीर्घत्वं प्राप्नोति । (कात्यायन वार्तिक)दान्ते दोषः निष्ठानत्वम्(वार्तिकान्त) । अथ दकारान्तः रदाभ्यां निष्ठातः इति नत्वं प्राप्नोति । (कात्यायन वार्तिक)धान्ते दोषः धत्वप्राप्तिः(वार्तिकान्त) । अथ धान्तः झषः तथोः धः अधः इति धत्वं प्राप्नोति । (कात्यायन वार्तिक)थान्ते अदोषः तस्मात्थान्तः(वार्तिकान्त) । अथ थकारान्तः न दोषः भवति ।
(पाणिनीयसूत्र ७,४।४७) कि.,३५१।४-२२ रो. V,२६०।२-२६१।४ (कात्यायन वार्तिक)अचः उपसर्गात्तत्वे आकारग्रहणम्(वार्तिकान्त) । अचः उपसर्गात्तत्वे आकारग्रहणं कर्तव्यं । न कर्तव्यं । अलः अन्त्यस्य विधयः भवन्ति इति आकारस्य भविष्यति । न सिध्यति । किं कारणं । (कात्यायन वार्तिक)आदेः हि परस्य(वार्तिकान्त) । अत्र हि तस्मातिति उत्तरस्य आदेः परस्य इति दकारस्य प्राप्नोति । न एषः दोषः । (कात्यायन वार्तिक)अवर्णप्रकरणात्सिद्धम्(वार्तिकान्त) । अस्य इति वर्तते । क्व प्रकृतं । अस्य द्वौ इति । यदि अवर्णग्रहणं अनुवर्तते दद्भावे दोषः भवति । एवं तर्हि एवं वक्ष्यामि दः अद्घोः इति । दः यः आकारः तस्य अत्भवति । ततः अचः उपसर्गात्तः । अस्य इति एव । एवं अपि सूत्रभेदः कृतः भवति । न असौ सूत्रभेदः । सूत्रभेदं कं उपाचरन्ति । यत्र ततेव अन्यत्सूत्रं क्रियते भूयः वा । यत्हि ततेव उपसंहृत्य क्रियते न असौ सूत्रभेदः । अथ वा द्वितकारकः निर्देशः क्रियते सः अनेकाल्शित्सर्वस्य इति सर्वस्य भविष्यति । इह अपि तर्हि प्राप्नोति । अद्भिः , अद्भ्यः इति । अचः इति वर्तते । तत्च अवश्यं अज्ग्रहणं अनुवर्त्यं लवाभ्यां इति एवमर्थं । अथ वा त्रितकारकः निर्देशः करिष्यते इहार्थौ द्वौ उत्तरार्थः च एकः । (कात्यायन वार्तिक)द्यतेः इत्त्वातचः तः(वार्तिकान्त) । द्यतेः इत्त्वातचः तः इति एतत्भवति विप्रतिषेधेन । द्यतेः इत्त्वस्य अवकाशः । निर्दितं , निर्दितवान। अचः तः इति अस्य अवकाशः । प्रत्तं , अवत्तं । इह उभयं प्राप्नोति । नीत्तं , वीत्तं । अचः तः इति एतत्भवति विप्रतिषेधेन ।
(पाणिनीयसूत्र ७,४।४८) कि.,३५१।२४-३५२।३ रो. V,२६१।६-१० (कात्यायन वार्तिक)अपः भि मासः छन्दसि(वार्तिकान्त) । अपः भि इति अत्र मासः छन्दसि उपसङ्ख्यानं कर्तव्यं : मा अद्भिः इष्ट्वा इन्द्रः वृत्रहा । अत्यल्पं इदं उच्यते । (कात्यायन वार्तिक)स्ववस्स्वतवसोः मासः उषसः च तः इष्यते(वार्तिकान्त) : स्ववद्भिः , स्वतवद्भिः , समुषद्भिः अजायथाः , मा अद्भिः इष्ट्वा इन्द्रः वृत्रहा ।
(पाणिनीयसूत्र ७,४।५४) कि.,३५२।५-७ रो. V,२६१।१२-१४ (कात्यायन वार्तिक)इस्त्वं सनि राधः हिंसायाम्(वार्तिकान्त) । इस्त्वं सनि राधः हिंसायां इति वक्तव्यं । प्रतिरित्सति । हिंसायां इति किमर्थं । आरिरात्सति ।
(पाणिनीयसूत्र ७,४।५५) कि.,३५२।९-१७ रो. V,२६२।१-९ (कात्यायन वार्तिक)ज्ञपेः ईत्त्वं अनन्त्यस्य(वार्तिकान्त) । ज्ञपेः ईत्त्वं अनन्त्यस्य इति वक्तव्यं । ज्ञीप्सति । तत्तर्हि वक्तव्यं । न वक्तव्यं । लोपः अन्त्यस्य बाधकः भविष्यति । अनवकाशाः विधयः बाधकाः भवन्ति सावकाशः च णिलोपः । कः अवकाशः । कारणा , हारणा । एवं अपि ईत्त्वं अन्त्यस्य लोपस्य बाधकं स्यात। अनवकाशाः हि विधयः बाधकाः भवन्ति ईत्त्वं अपि सावकाशं । कः अवकाशः । अनन्त्यः । कथं पुनः सति अन्त्ये अनन्त्यस्य ईत्त्वं स्यात। भवेत्यः अचा आङ्गं विशेषयेत्तस्य अनन्त्यस्य न स्यात। वयं तु खलु अङेन अचं विशेषयिष्यामः । अङ्गस्य अचः यत्रतत्रस्थस्य इति । एवं अपि उभयोः सावकाशयोः परत्वातीत्त्वं प्राप्नोति । तस्मातनन्त्यस्य इति वक्तव्यं ।
(पाणिनीयसूत्र ७,४।५८) कि.,३५२।१९-२० रो. V,२६२।११-१२ (कात्यायन वार्तिक)अभ्यासस्य अनचि(वार्तिकान्त) । अभ्यासस्य इति यतुच्यते ततनचि द्रष्टव्यं । पतापतः , चराचरः , वदावदः ।
(पाणिनीयसूत्र ७,४।६०) कि.,३५३।२-२० रो. V,२६३।२-२६४।६ किं अयं षष्ठीसमासः : हलां आदिः हलादिः हलादिः शिष्यते इति । आहोस्वित्कर्मधारयः : हलादिः हलादिः हलादिः शिष्यते इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)हलादिशेषे षष्ठीसमासः इति चेतजादिषु शेषप्रसङ्गः(वार्तिकान्त) । हलादिशेषे षष्ठीसमासः इति चेतजादिषु शेषः प्राप्नोति । आनक्ष , आनक्षतुः , आनक्षुः । अस्तु तर्हि कर्मधारयः । (कात्यायन वार्तिक)कर्मधारयः इति चेतादिशेषनिमित्तत्वात्लोपस्य तदभावे लोपवचनम्(वार्तिकान्त) । कर्मधारयः इति चेतादिशेषनिमित्तत्वात्लोपस्य तदभावे आद्यस्य हलः अभवे लोपः वक्तव्यः । आटतुः , आटुः । (कात्यायन वार्तिक)तस्मातनादिलोपः(वार्तिकान्त) । तस्मातनादिः हल्लुप्यते इति वक्तव्यं । (कात्यायन वार्तिक)उक्तं वा(वार्तिकान्त) । किं उक्तं । प्रतिविधास्यते हलादिशेषः इति । अयं इदानीं सः प्रतिविधानकालः । इदं प्रतिविधीयते । इदं प्रकृतं अत्र लोपः अभ्यासस्य इति । ततः वक्ष्यामि । ह्रस्वः । ह्रस्वः भवति आदेशः । अभ्यासस्य लोपः इति अनुवर्तते । तत्र ह्रस्वभाविनां ह्रस्वः लोपभाविनां लोपः भविष्यति । ततः हलादिः शेषः च इति । अथ वा एवं वक्ष्यामि । ह्रस्वः अहल। ह्रस्वः भवति अभ्यासस्य इति । ततः अहल। अहल्च भवति अभ्यासः । ततः आदिः शेषः । आदिः शेषः भवति अभ्यासस्य इति । अथ वा योगविभागः करिष्यते । ह्रस्वादेशः भवति अभ्यासस्य । ततः हल। हल्च लुप्यते अभ्यासस्य । ततः आदिः शेषः । आदिः शेषः च भवति अभ्यासस्य ।
(पाणिनीयसूत्र ७,४।६१) कि.,३५३।२२-३५४।२० रो. V,२६४।८-२६६।१० (कात्यायन वार्तिक)शर्पूर्वशेषे खर्पूर्वग्रहणम्(वार्तिकान्त) । शर्पूर्वशेषे खर्पूर्वग्रहणं कर्तव्यं । खर्पूर्वाः खयः शिष्यन्ते खरः लुप्यन्ते इति वक्तव्यं । किं प्रयोजनं । उचिच्छिषति । व्युचिच्छिषति । तुकः श्रवणं मा भूतिति । तत्तर्हि वक्तव्यं । न वक्तव्यं । चर्त्वे कृते तुक्न भविष्यति । असिद्धं चर्त्वं तस्य असिद्धत्वात्तुक्प्राप्नोति । सिद्धकाण्डे पठितं अभ्यासजश्त्वचर्त्वं एत्त्वतुकोः इति । एवं अपि अन्तरङ्गत्वात्प्राप्नोति तस्मात्खर्पूर्वग्रहणं कर्तव्यं । न कर्तव्यं । एत्त्वतुग्ग्रहणं न करिष्यते । अभ्यासजश्त्वचर्त्वं सिद्धं इति एव । (कात्यायन वार्तिक)आदिशेषप्रसङ्गः तु(वार्तिकान्त) । आदिशेषः तु प्राप्नोति । तिष्ठासति । ननु च अनादिशेषः आदिशेषं बाधिष्यते । कथं अन्यस्य उच्यमानं अन्यस्य बाधकं स्यात। असति खलु अपि सम्भवे बाधनं भवति अस्ति च सम्भवः यतुभयं स्यात। यदि आदिशेषः अपि भवति शर्पूर्ववचनं इदानीं किमर्थं स्यात। (कात्यायन वार्तिक)शर्पूर्ववचनं किमर्थं इति चेत्खयां लोपप्रतिषेधार्थम्(वार्तिकान्त) । शर्पूर्ववचनं किमर्थं इति चेत्खयां लोपः मा भूतिति । (कात्यायन वार्तिक)व्यपकर्षविज्ञानात्सिद्धम्(वार्तिकान्त) । व्यपकर्षविज्ञानात्सिद्धं एतत। किं इदं व्यपकर्षविज्ञानातिति । अपवादविज्ञानात। अपवादत्वातत्र अनादिशेषः आदिशेषं बाधिष्यते । ननु च उक्तं कथं अन्यस्य उच्यमानं अन्यस्य बाधकं स्यातिति । इदं तावतयं प्रष्टव्यः । यदि तत्न उच्येत किं इह स्यात। हलादिशेषः । हलादिशेषः चेत्न अप्राप्ते हलादिशेषे इदं उच्यते तत्बाधकं भविष्यति । यतपि उच्यते असति खलु अपि सम्भवे बाधनं भवति अस्ति च सम्भवः यतुभयं स्यातिति सति अपि सम्भवे बाधनं भवति । तत्यथा । दधि ब्राह्मणेभ्यः दीयतां तक्रं कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानं बाधकं भवति । एवं इह अपि सति अपि सम्भवे अनादिशेषः आदिशेषं बाधिष्यते ।
(पाणिनीयसूत्र ७,४।६५) कि.,३५४।२४-३५५।१६ रो. V,२६६।१४-२६७।१५ दाधर्ति इति किं निपात्यते । धारयतेः श्लौ अभ्यासस्य दीर्घत्वं णिलुक्च । अनिपात्यं । तूतुजानवदभ्यासस्य दीर्घत्वं पर्णशुषिवत्णिलुक्भविष्यति । धृङः वा अभ्यासस्य दीर्घत्वं परस्मैपदं च । अनिपात्यं । तूतुजानवदभ्यासस्य दीर्घत्वं युध्यतिवत्परस्मैपदं भविष्यति । दर्धर्ति इति किं निपात्यते । धारयतेः श्लौ अभ्यासस्य रुक्णिलुक्च । अनिपात्यं । देवाअदुह्रवद्रुट्पर्णश्रुषिवत्णिलुक्भविष्यति । धृङः वा अभ्यासस्य रुक्परस्मैपदं च । अनिपात्यं । देवाअदुह्रवत्रुड्युध्यतिवत्परस्मैपदं च भविष्यति । बोभूतु इति किं निपात्यते । भवतेः यङ्लुगन्तस्य अगुणत्वं निपात्यते । न एततस्ति प्रयोजनं । सिद्धं अत्र अगुणत्वं भूसुवोः तिङि इति । एवं तर्हि नियमार्थं भविष्यति । अत्र एव यङ्लुगन्तस्य गुणः न भवति न अन्यत्र इति । क्व मा भूत। बोभवीति इति । तेतिक्ते इति किं निपात्यते । तिजेः यङ्लुगन्तस्य आत्मनेपदं निपात्यते । न एततस्ति प्रयोजनं । सिद्धं अत्र आत्मनेपदं अनुदात्तङितः आत्मनेपदं इति । नियमार्थं तर्हि भविष्यति । अत्र एव यङ्लुगन्तस्य आत्मनेपदं भवति न अन्यत्र इति । क्व मा भूत। बेभिदि इति चेच्छिदि इति ।
(पाणिनीयसूत्र ७,४।६७) कि.,३५५।१८-३५६।५ रो. V,२६८।२-२६९।२ किमर्थं स्वपेः अभ्यासस्य सम्प्रसारणं उच्यते यदा सर्वेषु अभ्यासस्थानेषु स्वपेः सम्प्रसारणं उक्तं । (कात्यायन वार्तिक)स्वापिग्रहणं व्यपेतार्थम्(वार्तिकान्त) । स्वापिग्रहणं क्रियते व्यपेतार्थं । व्यपेतार्थः अयं आरम्भः । सुष्वापयिषति इति । अस्ति प्रयोजनं एतत। किं तर्हि इति । (कात्यायन वार्तिक)तत्र क्यजन्ते अतिप्रसङ्गः(वार्तिकान्त) । तत्र क्यजन्ते अतिप्रसङ्गः भवति । इह अपि प्राप्नोति । स्वापकं इच्छति स्वापकीयति स्वापकीयतेः सन्सिस्वापकीयिषति इति । (कात्यायन वार्तिक)सिद्धं तु णिग्रहणात्(वार्तिकान्त) । सिद्धं एतत। कथं । णिग्रहणं कर्तव्यं । न कर्तव्यं । निर्देशातेव हि व्यक्तं ण्यन्तस्य ग्रहणं इति । न अत्र निर्देशः प्रमाणं शक्यं कर्तुं । यथा हि निर्देशः तथा इह अपि प्रसज्येत । स्वापं करोति स्वापयति स्वापयतेः सन्सिस्वापयिषति इति । तस्मात्णिग्रहणं कर्तव्यं ।
(पाणिनीयसूत्र ७,४।७५) कि.,३५६।७-११ रो. V,२६९।४-८ (कात्यायन वार्तिक)त्रिग्रहणानर्थक्यं गणान्तत्वात्(वार्तिकान्त) । त्रिग्रहणं अनर्थकं । किं कारणं । गणान्तत्वात। त्रयः एव निजादयः । (कात्यायन वार्तिक)उत्तरार्थं तु(वार्तिकान्त) । उत्तरार्थं तर्हि त्रिग्रहणं कर्तव्यं । भृञां इत्त्रयाणां यथा स्यात। इह मा भूत। जहाति ।
(पाणिनीयसूत्र ७,४।७७) कि.,३५६।१३-१५ रो. V,२६९।१०-२७०।३ अर्तिग्रहणं किमर्थं न बहुलं छन्दसि इति एव सिद्धं । न हि अन्तरेण छन्दः अर्तेः श्लुः लभ्यः । एवं तर्हि सिद्धे यतर्तिग्रहणं करोति तत्ज्ञापयति आचार्यः भाषायां श्लुः भवति इति । किं एतस्य ज्ञापने प्रयोजनं । इयर्ति इति एतत्सिद्धं भवति ।
(पाणिनीयसूत्र ७,४।८२) कि.,३५६।१७-३५७।१९ रो. V,२७०।५-२७२।२ (कात्यायन वार्तिक)ऐचोः यङि दीर्घप्रसङ्गः ह्रस्वात्हि परं दीर्घत्वम्(वार्तिकान्त) । ऐचोः यङि दीर्घत्वं प्राप्नोति । डोढौक्यते , तोत्रौक्यते इति । ननु च ह्रस्वत्वे कृते दीर्घत्वं न भविष्यति । न सिध्यति । किं कारणं । ह्रस्वात्हि परं दीर्घत्वं । ह्रस्वत्वं क्रियतां दीर्घत्वं इति किं अत्र कर्तव्यं । परत्वात्दीर्घत्वेन भवितव्यं । (कात्यायन वार्तिक)न वा अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात्(वार्तिकान्त) । न वा एषः दोषः । किं कारणं । अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात। अभ्यासविकारेषु अपवादाः उत्सर्गान्न बाधन्ते इति एषा परिभाषा कर्तव्या । कानि एतस्याः परिभाषायाः प्रयोजनानि । (कात्यायन वार्तिक)प्रयोजनं सन्वद्भावस्य दीर्घत्वम्(वार्तिकान्त) । अचीकरत्, अजीहरत। सन्वद्भावं अपवादत्वात्दीर्घत्वं न बाधते । (कात्यायन वार्तिक)मान्प्रभृतीनां दीर्घत्वं इत्त्वस्य(वार्तिकान्त) । मान्प्रभृतीनां दीर्घत्वं अपवादत्वातित्त्वं न बाधते । (कात्यायन वार्तिक)गणेः ईत्वं हलादिशेषस्य(वार्तिकान्त) । गणेः ईत्वं अपवादत्वात्हलादिशेषं न बाधते । इदं अयुक्तं वर्तते । किं अत्र अयुक्तं । ऐचोः यङि दीर्घप्रसङ्गः ह्रस्वात्हि परं दीर्घत्वं इति उक्त्वा ततः उच्यते न वा अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वातिति । तस्याः च परिभाषायाः प्रयोजनानि नाम उच्यन्ते प्रयोजनं सन्वद्भावस्य दीर्घत्वं मान्प्रभृतीनां दीर्घत्वं इत्त्वस्य गणेः ईत्वं हलादिशेषस्य इति च । न च सन्वद्भावं अपवादत्वात्दीर्घत्वं बाधते । किं तर्हि परत्वात। न खलु अपि मान्प्रभृतीनां दीर्घत्वं अपवादत्वात्दीर्घत्वं बाधते । किं तर्हि अन्तरङ्गत्वात। न खलु अपि गणेः ईत्त्वं अपवादत्वात्हलादिशेषं बाधते । किं तर्हि अनवकाशत्वात। एवं तर्हि इयं परिभाषा कर्तव्या अभ्यासविकारेषु बाधकाः न बाधन्ते इति । सा तर्हि एषा परिभाषा कर्तव्या । न कर्तव्या । आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाषा इति यतयं अकितः इति प्रतिषेधं शास्ति ।
(पाणिनीयसूत्र ७,४।८३) कि.,३५७।२१-३५८।१८ रो. V,२७२।४-२७४।२ अकितः इति किमर्थं । यंयम्यते , रंरम्यते । अकितः इति शक्यं अकर्तुं । कस्मात्न भवति यंयम्यते , रंरम्यते इति । नुकि कृते अनजन्तत्वात। अतः उत्तरं पठति । (कात्यायन वार्तिक)अकिद्वचनं अन्यत्र किदन्तस्य अलः अन्त्यनिवृत्त्यर्थम्(वार्तिकान्त) । अकिद्वचनं क्रियते ज्ञापकार्थं । किं ज्ञाप्यं । एतत्ज्ञापयति आचार्यः अन्यत्र किदन्तस्य अभ्यासस्य अलोन्त्यविधिः न भवति इति । किं एतस्य ज्ञापने प्रयोजनं । (कात्यायन वार्तिक)प्रयोजनं ह्रस्वत्वात्त्वेत्त्वगुणेषु(वार्तिकान्त) । ह्रस्वत्वं । अवचच्छतुः , अवचच्छुः । अत्त्वं । चच्छृदतुः , चच्छृदुः । इत्त्वं । चिच्छादयिषति , चिच्छर्दयिषति । गुणः । चेच्छिद्यते , चोच्छुष्यते । तुकि कृते अनन्त्यत्वातेते विधयः न प्राप्नुवन्ति । (कात्यायन वार्तिक)विप्रतिषेधात्सिद्धम्(वार्तिकान्त) । न एतानि सन्ति प्रयोजनानि । विप्रतिषेधेन अपि एतानि सिद्धानि । तुक्क्रियतां एते विधयः इति किं अत्र कर्तव्यं । परत्वातेते विधयः इति । (कात्यायन वार्तिक)तदन्ताग्रहणात्वा(वार्तिकान्त) । अथ वा न एवं विज्ञायते अभ्यासस्य अजन्तस्य ऋकारान्तस्य अकारान्तस्य इगन्तस्य इति । कथं तर्हि । अभ्यासे यः अचभ्यासे यः ऋकारः अभ्यासे यः अकारः अभ्यासे यः इचिति । एवं च कृत्वा दीर्घत्वं प्राप्नोति । एवं तर्हि इदं इह व्यपदेश्यं सताचार्यः न व्यपदिशति । किं अपवादः नुक्दीर्घत्वस्य इति । एवं तर्हि सिद्धे सति यतकितः इति प्रतिषेधं शास्ति तत्ज्ञापयति आचार्यः भवति एषा परिभाषा अभ्यासविकारेषु बाधकाः न बाधन्ते इति । किं एतस्य ज्ञापने प्रयोजनं । ऐचोः यङि दीर्घप्रसङ्गः ह्रस्वात्हि परं दीर्घत्वं इति उक्तं सः न दोषः भवति ।
(पाणिनीयसूत्र ७,४।८५) कि.,३५८।२०-३५९।२ रो. V,२७४।४-१० (कात्यायन वार्तिक)नुकि यंयम्यते , रंरम्यते इति रूपासिद्धिः(वार्तिकान्त) । नुकि सति यंयम्यते , रंरम्यते इति रूपं न सिध्यति । (कात्यायन वार्तिक)अनुस्वारागमवचनात्सिद्धम्(वार्तिकान्त) । अनुस्वारागमः वक्तव्यः । एवं अपि इदं एव रूपं स्यात्यÁय्यम्यते , इदं न स्यात्यंयम्यते । (कात्यायन वार्तिक)पदान्तवत्च(वार्तिकान्त) । पदान्तात्च इति वक्तव्यं । वा पदान्तस्य इति ।
(पाणिनीयसूत्र ७,४।९०) कि.,३५९।४-६ रो. V,२७४।१२-१४ (कात्यायन वार्तिक)रीकृत्वतः संयोगार्थम्(वार्तिकान्त) । रीकृत्वतः इति वक्तव्यं । किं प्रयोजनं । संयोगार्थं । संयोगान्ताः प्रयोजयन्ति । वरीवृश्च्यते , परीपृच्छ्यते , बरीभृज्ज्यते ।
(पाणिनीयसूत्र ७,४।९१) कि.,३५९।८-९ रो. V,२७५।२-४ (कात्यायन वार्तिक)मर्मृज्यते , मर्मृज्यमानासः इति च उपसङ्ख्यानम्(वार्तिकान्त) । मर्मृज्यते , मर्मृज्यमानासः इति च उपसङ्ख्यानं कर्तव्यं । मर्मृज्यते , मर्मृज्यमानासः ।
(पाणिनीयसूत्र ७,४।९२) कि.,३५९।११-१७ रो. V,२७५।६-१२ किं इदं ऋकारग्रहणं अङ्गविशेषणं । ऋकारान्तस्य अङ्गस्य इति । आहोस्वितभ्यासविशेषणं । ऋकारान्तस्य अभ्यासस्य इति । अङ्गविशेषणं इति आह । कथं ज्ञायते । यतयं तपरकरणं करोति । कथं कृत्वा ज्ञापकं । न हि कः चितभ्यासे दीर्घः अस्ति यदर्थं तपरकरणं क्रियेत । अथ अङ्गविशेषणे ऋकारग्रहणे सति तपरकरणे किं प्रयोजनं । इह मा भूत। चाकीर्ति , चाकीर्तः , चाकिरति । (कात्यायन वार्तिक)किरतिं चर्करीतान्तं पचति इति अत्र यः नयेत्, प्राप्तिज्ञं तं अहं मन्ये प्रारब्धः तेन सङ्ग्रहः(वार्तिकान्त) ।
(पाणिनीयसूत्र ७,४।९३) कि.,३५९।१९-३६०।२४ रो. V,२७६।१-२७८।३ इह कस्मात्न भवति । अजजागरत। लघुनि चङ्परे इति उच्यते व्यवहितं च अत्र लघु चङ्परं । इह अपि तर्हि न प्राप्नोति । अचीकरत्, अजीहरत। वचनात्भविष्यति । इह अपि वचनात्प्राप्नोति । अजजागरत। येन न अव्यवधानं तेन व्यवहिते अपि वचनप्रामाण्यात। केन च न अव्यवधानं । वर्णेन । एतेन पुनः सङ्घातेन व्यवधानं भवति न भवति च । एवं अपि अचिक्षणतत्र न प्राप्नोति । एवं तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकानां इत्त्वं इति यतयं अत्स्मृद्®त्वरप्रथम्रदस्त्®स्पशां इति इत्त्वबाधनार्थं अत्त्वं शास्ति । (कात्यायन वार्तिक)सन्वद्भावदीर्घत्वे णेः णिचि उपसङ्ख्यानम्(वार्तिकान्त) । सन्वद्भावदीर्घत्वे णेः णिचि उपसङ्ख्यानं कर्तव्यं : वादितवन्तं प्रयोजितवान्, अवीवदत्वीणां परिवादकेन । किं पुनः कारणं न सिध्यति । णिचा व्यवहितत्वात। लोपे कृते न अस्ति व्यवधानं । स्थानिवद्भावात्व्यवधानं एव । प्रतिषिध्यते अत्र स्थानिवद्भावः दीर्घविधिं प्रति न स्थानिवतिति । एवं अपि अनग्लोपः इति प्रतिषेधं प्राप्नोति । वृद्धौ कृतायां लोपः तत्न अग्लोपि अङ्गं भवति । एवं तर्हि इदं इह सम्प्रधार्यं । वृद्धिः क्रियतां लोपः इति किं अत्र कर्तव्यं । परत्वात्वृद्धिः । नित्यः लोपः । कृतायां अपि वृद्धौ प्राप्नोति अकृतायां अपि । लोपः अपि अनित्यः । अन्यस्य कृतायां वृद्धौ प्राप्नोति अकृतायां अन्यस्य शब्दान्तस्य च प्राप्नुवन्विधिः अनित्यः भवति । उभयोः अनित्ययोः परत्वात्वृद्धिः । वृद्धौ कृतायां लोपः तत्न अग्लोपि अङ्गं भवति । (कात्यायन वार्तिक)मीमादीनां तु लोपप्रसङ्गः(वार्तिकान्त) । मीमादीनां तु लोपः प्राप्नोति । अमीमपत। (कात्यायन वार्तिक)सिद्धं तु रूपातिदेशात्(वार्तिकान्त) । सिद्धं एतत। कथं । रूपातिदेशः अयं । सनि यादृशं अभ्यासरूपं तत्सन्वद्भावेन अतिदिश्यते न च मीमादीनां सनि अभ्यासरूपं अस्ति । (कात्यायन वार्तिक)अङ्गान्यत्वात्वा सिद्धम्(वार्तिकान्त) । अथ वा ण्यन्तं एततङ्गं अन्यत। लोपे कृते न अङ्गान्यत्वं । स्थानिवद्भावातङ्गं अन्यत। कथं अजिज्ञपत। अत्र सनि अपि ण्यन्तस्य एव उपादानं आप्ज्ञप्यृधां ईतिति । अत्र अङ्गान्यत्वाभावातभ्यासलोपः स्यात। तस्मात्पूर्वः एव परिहारः सिद्धं तु रूपातिदेशातिति ।
.
***अध्याय ८ ***
(पाणिनीयसूत्र ८,१।१।१) कि.,३६१।१-३६४।१२ रो. V,२७९-२८८ सर्ववचनं किमर्थं । (कात्यायन वार्तिक)सर्ववचनं अलोन्त्यनिवृत्त्यर्थम्(वार्तिकान्त) । सर्वग्रहणं क्रियते अलोन्त्यनिवृत्त्यर्थं । अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य द्विर्वचनं मा भूतिति । क्व पुनः अलोन्त्यनिवृत्त्यर्थेन अर्थः सर्वग्रहणेन । नित्यवीप्सयोः इति । नित्यवीप्सयोः इति उच्यते न च अन्त्यस्य द्विर्वचनेन नित्यता वीप्सा वा गम्यते । इह तर्हि परेः वर्जने इति अन्त्यस्य अपि द्विर्वचनेन वर्ज्यमानता गम्येत । (कात्यायन वार्तिक)षष्ठीनिर्देशार्थं च ।(वार्तिकान्त) षष्ठीनिर्देशार्थं च सर्वग्रहणं कर्तव्यं । षष्ठीनिर्देशः यथा प्रकल्पेत । (कात्यायन वार्तिक)अनिर्देशे हि षष्ठ्यर्थाप्रसिद्धिः ।(वार्तिकान्त) अक्रियमाणे सर्वग्रहणे षष्ठ्यर्थस्य अप्रसिद्धिः स्यात। कस्य । स्थानेयोगत्वस्य । क्व पुनः इह षष्ठीनिर्देशार्थेन अर्थः सर्वग्रहणेन यावता सर्वत्र एव षष्ठी उच्चार्यते । परेर्वर्जने प्रसमुपोदःपादपूरणे उपर्यध्यधसःसामीप्ये वाक्यादेरामन्त्रितस्य इति । इह न का चित्षष्ठी नित्यवीप्सयोः इति । ननु च एषा एव षष्ठी । न एषा षष्ठी । किं तर्हि । अर्थनिर्देशः एषः । नित्ये च अर्थे वीप्सायां च इति । अलोन्त्यनिवृत्त्यर्थेन तावत्न अर्थः सर्वग्रहणेन । इदं तावतयं प्रष्टव्यः । नित्यवीप्सयोः द्वे भवतः इति उच्यते द्विशब्दः आदेशः कस्मात्न भवति । आचार्यप्रवृत्तिः ज्ञापयति न द्विशब्दः आदेशः भवति इति यतयं तस्यपरमाम्रेडितं अनुदात्तम्च इति आह । कथं कृत्वा ज्ञापकं । द्विशब्दः अयं एकाच्तस्य एकाच्त्वात्तस्यपरमाम्रेडितं अनुदात्तम्च इति एतत्न अस्ति । पश्यति तु आचार्यः न द्विशब्दः आदेशः भवति इति ततः तस्य परमाम्रेडितं अनुदात्तम्च इति आह । यदि तर्हि न द्विशब्दः आदेशः भवति के तर्हि इदानीं द्वे भवतः । द्विशब्देन यतुच्यते । किं पुनः तत। द्विशब्दः अयं सङ्ख्यापदं सङ्ख्यायाः च सङ्ख्येयं अर्थः । सङ्ख्येये द्वे भविष्यतः । के पुनः ते । पदे वाक्ये मात्रे वा । तत्यदा तावत्पदे वाक्ये वा तदा अनेकाल्त्वात्सर्वादेशः सिद्धः । यदा मात्रे अपि तदा अनेकाल्शित्सर्वस्य इति सर्वादेशः भविष्यति । यदा तर्हि अर्धमात्रे तदा सर्वादेशः न सिध्यति । न एषः दोषः । न च अर्धमात्रे द्विः उच्येते । किं कारणं । इह व्याकरेणे यः सर्वाल्पीयान्स्वरव्यवहारः सः मात्रया भवति न अर्धमात्रया व्यवहारः अस्ति । तेन अर्धमात्रे न भविष्यतः । एवं अपि कुतः एतत्पदे द्वे भविष्यतः इति न पुनः वाक्ये स्यातां मात्रे वा । नित्यवीप्सयोः द्वे भवतः इति उच्यते न च वाक्यद्विर्वचनेन मात्राद्विर्वचनेन वा नित्यता वीप्सा वा गम्यते । षष्ठीनिर्देशार्थं एव तर्हि सर्वग्रहणं कर्तव्यं । (कात्यायन वार्तिक)न वा पदाधिकारात।(वार्तिकान्त) न वा वक्तव्यं । किं कारणं । पदाधिकारात। पदस्य इति प्रकृत्य द्विर्वचनं वक्ष्यामि । (कात्यायन वार्तिक)तत्च समासतद्धितवाक्यनिवृत्त्यर्थं ।(वार्तिकान्त) तत्च अवश्यं पदग्रहणं कर्तव्यं समासनिवृत्त्यर्थं तद्धितनिवृत्त्यर्थं वाक्यनिवृत्त्यर्थं च । समासनिवृत्त्यर्थं तावत। सप्तपर्णः अष्टापदं । तद्धितनिवृत्त्यर्थं । द्विपदिका त्रिपदिका । माषशः कार्षापणशः । वाक्यनिवृत्त्यर्थं । ग्रामे ग्रामे पानीयं । माषं माषं देहि । अथ क्रियमाणे अपि वै पदग्रहणे समासनिवृत्त्यर्थं इति कथं इदं विज्ञायते । समसस्य निवृत्त्यर्थं समासनिवृत्त्यर्थं इति । आहोस्वित्समासे निवृत्त्यर्थं समासनिवृत्त्यर्थं इति । किं च अतः । यदि विञायते समासस्य निवृत्त्यर्थं समासनिवृत्त्यर्थं इति सिद्धं सप्तपर्णः सप्तपर्णौ सप्तपर्णाः इति सप्तपर्णाभ्यां सप्तपर्णेभ्यः इति अत्र प्राप्नोति । अथ विज्ञायते समासे निवृत्त्यर्थं समासनिवृत्त्यर्थं इति सप्तपर्णः सप्तपर्णौ सप्तपर्णाः इति अत्र अपि प्राप्नोति । तथा तद्धितनिवृत्त्यर्थं इति । कथं इदं विज्ञायते । तद्धितस्य निवृत्त्यर्थं तद्धितनिवृत्त्यर्थं इति । आहोस्वित्तद्धिते निवृत्त्यर्थं तद्धितनिवृत्त्यर्थं इति । किं च अतः । यदि विज्ञायते तद्धितस्य निवृत्त्यर्थं तद्धितनिवृत्त्यर्थं इति सिद्धं द्विपदिकाः त्रिपदिकाः द्विपदिकाभ्यां त्रिपदिकाभ्यां माषशः कार्षापणशः इति अत्र प्राप्नोति । अथ विज्ञायते तद्धिते निवृत्त्यर्थं तद्धितनिवृत्त्यर्थं इति द्विपदिकाः त्रिपदिकाः इति अत्र अपि प्राप्नोति । तथा वाक्यनिवृत्त्यर्थं इति कथं इदं विज्ञायते । वाक्यस्य निवृत्त्यर्थं वाक्यनिवृत्त्यर्थं इति । आहोस्वित्वाक्ये निवृत्त्यर्थं वाक्यनिवृत्त्यर्थं इति । किं च अतः । यदि विज्ञायते वाक्यस्य निवृत्त्यर्थं वाक्यनिवृत्त्यर्थं इति यदि वाक्यं वीप्सायुक्तं भवितव्यं एव द्विर्वचनेन । अथ अपि अवयवः भवतु एव । ततेतत्क्रियमाणे अपि पदग्रहणे आलूनविशीर्णं भवति । किं चित्सङ्गृहीतं किं चितसङ्गृहीतं । (कात्यायन वार्तिक)सगतिग्रहणं च ।(वार्तिकान्त) सगतिग्रहणं च कर्तव्यं । प्रपचति प्रपचति । प्रकरोति प्रकरोति इति । किं पुनः कारणं न सिध्यति । न हि सगतिकं पदं भवति । समासनिवृत्त्यर्थेन तावत्न अर्थः पदग्रहणेन । समासेन उक्तत्वात्वीप्सायाः द्विर्वचनं न भविष्यति । किं च भोः समासः वीप्सायां इति उच्यते । न खलु वीप्सायां इति उच्यते गम्यते तु सः अर्थः । तत्र उक्तः समासेन इति कृत्वा द्विर्वचनं न भविष्यति । यत्र च समासेन अनुक्ता वीप्सा भवति तत्र द्विर्वचनं । तत्यथा । एकैकविचिताः अन्योन्यसहायाः इति । अथ वा यतत्र वीप्सायुक्तं न अदः प्रयुज्यते । किं पुनः तत। पर्वणि पर्वणि सप्त पर्णानि अस्य । पङ्क्तौ पङ्क्तौ अष्टौ पदानि अस्य इति । तद्धितनिवृत्त्यर्थेन च अपि न अर्थः पदग्रहणेन । तद्धितेन उकत्वात्वीप्सायाः द्विर्वचनं न भविष्यति । तद्धितः खलु अपि वीप्सायां इति उच्यते । यत्र च तद्धितेन अनुक्ता वीप्सा भवति तत्र द्विर्वचनं । तत्यथा । एकैकशः ददाति इति । वाक्यनिवृत्त्यर्थेन च अपि न अर्थः पदग्रहणेन । पदद्विर्वचनेन उक्तत्वात्वीप्सायाः वाक्यद्विर्वचनं न भविष्यति । यत्र च पदद्विर्वचनेन अनुक्ता वीप्सा भवति तत्र द्विर्वचनं । तत्यथा । प्रपचति प्रपचति । प्रकरोति प्रकरोति । उत्तरार्थं तर्हि पदग्रहणं कर्तव्यं । तस्यपरमाम्रेडितं अनुदात्तम्च इति वक्ष्यति तत्पदद्विर्वचने यथा स्यात्वाक्यद्विर्वचनेमा भूत। मह्यं ग्रहीष्यति मह्यं ग्रहीष्यति । मां अभिव्याहरिष्यति मां अभ्व्याहरिष्यति । कथं च अत्र द्विर्वचनं । छान्दसत्वात। स्वरः अपि तर्हि छान्दसत्वातेव न भविष्यति । उत्तरार्थं एव तर्हि पदग्रहणं कर्तव्यं । पदस्य पदातिति वक्ष्यति तत्पदग्रहणं न कर्तव्यं भवति । सर्वग्रहणं अपि तर्हि उत्तरार्थं । अनुदात्तंसर्वमपादादौ इति वक्ष्यति तत्सर्वग्रहणं कर्तव्यं भवति । उभयं क्रियते तत्र एव ।
(पाणिनीयसूत्र ८,१।१।२) कि.,३६३।२८-३६४।१३ रो. V,२८८-२९२ इहार्थं एव तर्हि षष्ठीनिर्देशार्थं अन्यतरत्कर्तव्यं । षष्ठीनिर्दिष्टस्य स्थाने द्विर्वचनं यथा स्यात्द्विःप्रयोगः मा भूतिति । किं च स्यात। आं पचसि देवदत्ता३ आमएकान्तरमामन्त्रितमनन्तिके इति एकान्तरता न स्यात। इह च पौनःपुन्यं पौनःपुनिकं इति अप्रातिपदिकत्वात्तद्धितोत्पत्तिः न स्यात। यदि तर्हि स्थाने द्विर्वचनं राजा राजा वाक्वाक्पदस्य इति नलोपादीनि न सिध्यन्ति । इदं इह सम्प्रधार्यं । द्विर्वचनं क्रियतां नलोपादीनि इति किं अत्र कर्तव्यं । परत्वात्नलोपादीनि । पूर्वत्र असिद्धे नलोपादीनि सिद्धासिद्धयोः च न अस्ति सम्प्रधारणा । एवं तर्हि पूर्वत्र असिद्धीयं अद्विर्वचने इति वक्ष्यामि । तत्च अवश्यं वक्तव्यं । किं प्रयोजनं । विभाषिताः प्रयोजयन्ति । द्रोग्धा द्रोग्धा । द्रोढा द्रोढा इति । इह तर्हि बिसं बिसं मुसलं मुसलं आदेशप्रत्यययोः इति षत्वं प्राप्नोति । आदेशः यः सकारः प्रतयः यः सकारः इति एवं एतत्विज्ञायते । इह तर्हि नृभिः नृभिः रषाभ्यान्नोणःसमानपदे इति णत्वं प्राप्नोति । समानपदे इति उच्यते समानं एव यत्नित्यं न च एतत्नित्यं समानपदं एव । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । समानग्रहणसामर्थ्यात। यदि हि यत्समानं च असमानं च तत्र स्यात्समानग्रहणं अनर्थकं स्यात।
(पाणिनीयसूत्र ८,१।१।३) कि.,३६४।१४-२१ रो. V,२९२-२९४ अथ वा पुनः अस्तु द्विःप्रयोगः द्विर्वचनं । ननु च उक्तं आं पचसि पचसि देवदत्ता३ आमः एकान्तरं आमन्त्रितं अनन्तिके इति एकान्तरता न प्राप्नोति । न एषः दोषः । सुप्तिङ्भ्यां पदं विशेषयिष्यामः । सुप्तिङन्तम्पदं । यस्मात्सुप्तिङ्विधिः तदादि सुप्तिङन्तं च । ननु च एकैकस्मातेव अत्र सुप्तिङ्विधिः । समुदाये या वाक्यपरिसमाप्तिः तया पदसञ्ज्ञा । कुतः एतत। शास्त्राहानेः । एवं हि शास्त्रं अहीनं भवति । यतपि उच्यते इह पौनःपुन्यं पौनःपुनिकं इति अप्रातिपदिकत्वात्तद्धितोत्पत्तिः न प्राप्नोति इति मा भूतेवं । समर्थातिति एवं भविष्यति । अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकेभ्यः तद्धितोत्पत्तिः इति यतयं कस्कादिषु कौतस्कुतशब्दं पठति ।
(पाणिनीयसूत्र ८,१।४।१) कि.,३६४।२२-२६ रो. V,२९४-२९६ इह कस्मात्न भवति । हिमवान्खाण्डवः पारियात्रः समुद्रः इति । नित्ये द्वे भवतः इति प्राप्नोति । न एषः दोषः । अयं नित्यशब्दः अस्ति एव कूटस्थेषु अविचालिषु भावेषु वर्तते । तत्यथा : नित्या द्यौः नित्या पृथिवी नित्यं आकाशं इति । अस्ति आभीक्ष्ण्ये वर्तते । तत्यथा : नित्यप्रहसितः नित्यप्रजल्पितः इति । तत्यः आभीक्ष्ण्ये वर्तते तस्य इदं ग्रहणं ।
(पाणिनीयसूत्र ८,१।४।२) कि.,३६५।१-२१ रो. V,२९७-३०० अथ किं इदं वीप्सा इति । आप्नोतेः अयं विपूर्वाइ इच्छायां अर्थे सन्विधीयते । यदि एवं चिकीर्षति जिहीर्षति इति अत्र अपि प्राप्नोति । न एषः दोषः । न एवं विज्ञायते वीप्सायां अभिधेयायां इति । कथं तर्हि । कर्तृविशेषणं एतत। वीप्सति इति वीप्सः । वीप्सः चेत्कर्ता भवति इति । कः पुनः वीप्सार्थः । अनवयवाभिधानं वीप्सार्थः । अनवयवेन द्रव्याणां अभिधानं एषः वीप्सार्थः । (कात्यायन वार्तिक)अनवयवाभिधानं वीप्सार्थः इति चेत्जात्याख्यायां द्विर्वचनप्रसङ्गः(वार्तिकान्त) । अनवयवाभिधानं वीप्सार्थः इति चेत्जात्याख्यायां द्विर्वचनं प्राप्नोति । व्रीहिभिः यवैः वा इति । (कात्यायन वार्तिक)न वा एकार्थत्वात्जातेः ।(वार्तिकान्त) न वा एषः दोषः । किं कारणं । एकार्थत्वात्जातेः । एकार्थः हि जातिः । एकं अर्थं प्रत्याययिष्यामि इति जातिशब्दः प्रयुज्यते । (कात्यायन वार्तिक)अनेकार्थाश्रयत्वात्च वीप्सायाः ।(वार्तिकान्त) अनेकार्थाश्रया च पुनः वीप्सा । अनेकं अर्थं सम्प्रत्याययिष्यामि इति वीप्सा प्रयुज्यते । एकार्थत्वात्जातेः अनेकार्थाश्रयत्वात्च वीप्सायाः जात्याख्यायां द्विर्वचनं न भविष्यति । (कात्यायन वार्तिक)निवर्तकत्वाद्वा (वार्तिकान्त)। अथ वा न अनेन द्विर्वचनं निर्वर्त्यते । किं तर्हि अद्विर्वचनं अनेन निवर्त्यते । यावन्तः ते अर्थाः तावतां शब्दानां प्रयोगः प्राप्नोति । तत्र अनेन निवृत्तिः क्रियते । नित्यवीप्सयोः अर्थयोः द्वे एव शब्दरूपे प्रयोक्तव्ये न अतिबहु प्रयोक्तव्यं इति । (कात्यायन वार्तिक)सर्वपदसगतिग्रहणानर्थक्यं च अर्थाभिधाने द्विर्वचनविधानात।(वार्तिकान्त) सर्वग्रहणं च अनर्थकं । किं कारणं । सर्वस्य एव हि द्विर्वचनेन अर्थः गम्यते न अवयवस्य । पदग्रहणं च अनर्थकं पदस्य एव हि द्विर्वचनेन अर्थः गम्यते न अगतिकस्य ।
(पाणिनीयसूत्र ८,१।४।३) कि.,३६५।२२-३६६।११ रो. V,३००-३०२ किं पुनः इदं वीप्सायां सर्वं अभिधीयते आहोस्वितेकं । कः च अत्र विशेषः । (कात्यायन वार्तिक)वीप्सायां सर्वाभिधाने वचनाप्रसिद्धिः(वार्तिकान्त) । वीप्सायां सर्वाभिधाने वचनं न सिध्यति । ग्रामः ग्रामः । जनपदः जनपदः । बहवः ते अर्थाः तत्र बहुषुबहुवचनं इति बहुवचनं प्राप्नोति । अस्तु तर्हि एकं । (कात्यायन वार्तिक)एकाभिधाने असर्वद्रव्यगतिः ।(वार्तिकान्त) एकाभिधाने सर्वद्रव्यगतिः न सिध्यति । अस्तु तर्हि सर्वं । ननु च उक्तं वीप्सायां सर्वाभिधाने वचनाप्रसिद्धिः इति । (कात्यायन वार्तिक)न वा पदार्थत्वात।(वार्तिकान्त) न वा एषः दोषः । किं कारणं । पदार्थत्वात। पदस्य अर्थः वीप्सा । सुबन्तं च पदं ङ्याप्प्रातिपदिकात्च एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते न च एतत्प्रातिपदिकं । यत्तर्हि प्रातिपदिकं : दृषत्दृषत्समित्समितिति । एततपि प्रत्ययलक्षणेन सुबन्तं न प्रातिपदिकं । अपर आह । न वा पदार्थत्वात। न वा एषः दोषः । किं कारणं । पदार्थत्वात। पदस्य अर्थः वीप्सा सुबन्तं च पदं ङ्याप्प्रातिपदिकात्च एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते न च एतत्प्रातिपदिकं । यत्तर्हि प्रातिपदिकं । दृषत्दृषत्समित्समितिति । एततपि प्रत्ययलक्षणेन सुबन्तं न प्रातिपदिकं ।
(पाणिनीयसूत्र ८,१।४।४) कि.,३६६।१२-३६६।२३ रो. V,३०२-३०४ अथ इह कथं भवितव्यं । पचति पचतितरां तिष्ठति । आहोस्वित्पचतितरां पचतितरां तिष्ठति इति । पचति पचतितरां तिष्ठतीति भवितव्यं । कथं । द्विर्वचनं क्रियतां आतिशायिकः इति द्विर्वचनं भविष्यति विप्रतिषेधेन । इह अपि तर्हि आतिशायिकात्द्विर्वचनं स्यात। आद्यतरं आद्यतरं आनय इति । अस्ति अत्र विशेषः । अन्तरङ्गः आतिशायिकः । का अन्तरङ्गता । ङ्याप्प्रातिपदिकातातिशायिकः पदस्य द्विर्वचनं । आतिशायिकः अपि न अन्तरङ्गः । कथं । समर्थात्तद्धितः असौ उत्पद्यते सामर्थ्यं च सुबन्तेन । अथ वा स्पर्धायां आतिशायिकः विधीयते न च अन्तरेण प्रतियोगिनं स्पर्धा गम्यते । एवं तर्हि इह द्वौ अर्थौ वक्तव्यौ नित्यवीप्से च अतिशयः च न च एकस्य प्रयोक्तुः अनेकं अर्थं युगपत्वक्तुं सम्भवः अस्ति । ततेतत्प्रयोक्तरि अधीनं भवति । एतस्मिन्च प्रयोक्तरि अधीने क्व चित्का चित्प्रसृततरा गतिः भवति । इह तावत्पचति पचतितरां तिष्ठति इति एषा प्रसृततरा गतिः यत्नित्यं उक्त्वा अतिशयः उच्यते । इह इदानीं आद्यतरं आद्यतरं आनय इति एषा प्रसृततरा गतिः यततिशयं उक्त्वा वीप्साद्विर्वचनं उच्यते ।
(पाणिनीयसूत्र ८,१।५) कि.,३६६।२४-३६७।५ रो. V,३०४-३०५ (कात्यायन वार्तिक)परेः असमासे(वार्तिकान्त) । परेः असमासे इति वक्तव्यं । इह मा भूत। परित्रिगर्तं वृष्टः देवः । तत्तर्हि वक्तव्यं । न वक्तव्यं । परेः वर्जने इति उच्यते न च अत्र परिः वर्जने वर्तते । कः तर्हि । समासः । (कात्यायन वार्तिक)परेर्वर्जने वावचनं ।(वार्तिकान्त) परेर्वर्वने वा इति वक्तव्यं । परि त्रिगर्तेभ्यः वृष्टः देवः । परि परि त्रिगर्तेभ्यः वृष्टः देवः ।
(पाणिनीयसूत्र ८,१।८) कि.,३६७।६-१३ रो. V,३०५-३०६ (कात्यायन वार्तिक)असूयाकुत्सनयोः कोपभर्त्सनयोः च एकार्थत्वात्पृथक्त्वनिर्देशानर्थक्यम्(वार्तिकान्त) । असूया कुत्सनं इति एकः अर्थः । कोपः भर्त्सनं इति एकः अर्थः । असूयाकुत्सनयोः कोपभर्त्सनयोः च एकार्थत्वात्पृथक्त्वनिर्देशः अनर्थकः । न हि अनसूयन्कुत्सयति न च अपि अकुपितः भर्त्सयते । ननु च भोः अकुपिताः अपि दृश्यन्ते दारकान्भर्त्सयमानाः । अन्ततः ते तां शरीराकृतिं कुर्वन्ति या कुपितस्य भवति । एवं तर्हि आह । (कात्यायन वार्तिक)सामृतैः पाणिभिः घ्नन्ति गुरवः न विषोकितैः । लाडनाश्रयिणः दोषाः ताडनाश्रयिणः गुणाः । एकं बहुव्रीहिवत्(वार्तिकान्त)
(पाणिनीयसूत्र ८,१।९) कि.,३६७।१४-२२ रो. V,३०६-३०७ इह कस्मात्बहुव्रीहिवद्भावः न भवति । एकः इति । एकस्य द्विर्वचनसम्बन्धेन बहुव्रीहिवद्भावः उच्यते न च अत्र द्विर्वचनं पश्यामः । (कात्यायन वार्तिक)एकस्य द्विर्वचनसम्बन्धेन इति चेतर्थनिर्देशः(वार्तिकान्त) । एकस्य द्विर्वचनसम्बन्धेन इति चेतर्थनिर्देशः कर्तव्यः । द्विर्वचनं अपि हि अत्र कस्मात्न भवति । तस्मात्वाच्यं अस्मिनर्थे द्वे भवतः बहुव्रीहिवत्च इति । (कात्यायन वार्तिक)न वा वीप्साधिकारात।(वार्तिकान्त) न वा वक्तव्यं । किं कारणं । वीप्साधिकारात। नित्यवीप्सयोः इति वर्तते ।
(पाणिनीयसूत्र ८,१।९) कि.,३६७।२२-३६८।११ रो. V,३०७-३०९ अथ बहुव्रीहिवत्त्वे किं प्रयोजनं । (कात्यायन वार्तिक)बहुव्रीहिवत्त्वे प्रयोजनं सुब्लोपपुंवद्भावौ(वार्तिकान्त) । सुब्लोपः । एकैकं । पुंवद्भावः । गतगता । यदि एवं (कात्यायन वार्तिक)सर्वनामस्वरसमासान्तेषु दोषः ।(वार्तिकान्त) सर्वनामस्वरसमासान्तेषु दोषः भवति । सर्वनामविधौ दोषः भवति । एकैकस्मै । नबहुव्रीहौ इति प्रतिषेधः प्राप्नोति । सर्वनाम । स्वर । नन सुसु । नञ्सुभ्यां इति एषः स्वरः प्राप्नोति । स्वर । समासान्त । ऋगृक्पूःपूः । ऋक्पूरब्धूःपथामानक्षे इति समासान्तः प्राप्नोति । सर्वनामविधौ तावत्न दोषः । उक्तं तत्र बहुव्रीहिग्रहणस्य प्रयोजनं बहुव्रीहिः एव यः बुहुव्रीहिः तत्र प्रतिषेधः यथा स्यात्बहुव्रीहिवद्भावेन यः बहुव्रीहिः तत्र मा भूतिति । स्वरसमासान्तयोः अपि प्रकृतं समासग्रहणं अनुवर्तते तेन एव बहुव्रीहिं विशेषयिष्यामः । समासः यः बहुव्रीहिः इति ।
(पाणिनीयसूत्र ८,१।११) कि.,३६८।१२-३६८।१५ रो. V,३१० कर्मधारयवत्त्वे कानि प्रयोजनानि । (कात्यायन वार्तिक)कर्मधारयवत्त्वे प्रयोजनं सुब्लोपपुंवद्भावान्तोदात्तत्वानि(वार्तिकान्त) । सुब्लोपः । पटुपटुः । पुंवद्भावः । पटुपट्वी । अन्तोदात्तत्वं । पटुपटुः ।
(पाणिनीयसूत्र ८,१।१२।१) कि.,३६८।१६-३६९।८ रो. V,३१०-३१२ गुणवचनस्य इति किमर्थं । अग्निः माणवकः । गौः वाहीकः । (कात्यायन वार्तिक)प्रकारे सर्वेषां गुणवचनत्वात्सर्वप्रसङ्गः(वार्तिकान्त) । सर्वे हि शब्दाः प्रकारे वर्तमानाः गुणवचनाः सम्पद्यन्ते तेन इह अपि प्राप्नोति । अग्निः माणवकः । गौः वाहीकः इति । (कात्यायन वार्तिक)सिद्धं तु प्रकृत्यर्थविशेषणत्वात।(वार्तिकान्त) सिद्धं एतत। कथं । प्रकृत्यर्थविशेषणत्वात। प्रकृत्यर्थः विशेष्यते । न एवं विज्ञायते प्रकारे गुणवचनस्य इति । कथं तर्हि । गुणवचनस्य शब्दस्य द्वे भवतः प्रकारे वर्तमानस्य इति । अथ वा प्रकारे गुणवचनस्य इति उच्यते सर्वः च शब्दः प्रकारे वर्तमानः गुणवचनः सम्पद्यते तत्र प्रकर्षगतिः विज्ञास्यते : साधीयः यः गुणवचनः इति । कः च साधीयः । यः प्रकारे च प्राक्च प्रकारात। अथ वा प्रकारे गुणवचनस्य इति उच्यते सर्वः च शब्दः प्रकारे वर्तमानः गुणवचनः सम्पद्यते ते एवं विज्ञास्यामः प्राक्प्रकारात्यः गुणवचनः इति ।
(पाणिनीयसूत्र ८,१।१२।२) कि.,३६९।९-१०-३७०।१९ रो. V,३१२-३१८ (कात्यायन वार्तिक)\आनुपूर्व्ये[^1] । आनुपूर्व्ये द्वे भवतः इति वक्तव्यं । मूले मूले स्थूलाः । अग्रे अग्रे सूक्ष्माः । (कात्यायन वार्तिक)स्वार्थे अवधार्यमाणे अनेकस्मिन्(वार्तिकान्त)। स्वार्थे अवधार्यमाणे अनेकस्मिन्द्वे भवतः इति वक्तव्यं । अस्मात्कार्षापणातिह भवद्भ्यां माषं माषं देहि । अवधार्यमाणे इति किमर्थं । अस्मात्कार्षापणातिह भवद्भ्यां माषं देहि द्वौ देहि त्रीन्देहि । अनेकस्मिनिति किमर्थं । अस्मात्कार्षापणातिह भवद्भ्यां माषं देहि । माषं एव देहि । किं पुनः कारणं न सिध्यति । अनवयवाभिधानं वीप्सार्थः इति उच्यते अवयवाभिधानं च अत्र गम्यते । आतः च अवयवाभिधानं यः हि उच्यते अस्मात्कार्षापणातिह भवद्भ्यां माषं माषं देहि इति माषं माषं असौ दत्त्वा शेषं पृच्छति किं अनेन क्रियतां इति। यः पुनः उच्यते इमं कार्षापणं इह भवद्भ्यां माषं माषं देहि इति माषं माषं असौ दत्त्वा तूष्णीं आस्ते । (कात्यायन वार्तिक)[चापले ।(वार्तिकान्त)] चापले द्वे भवतः इति वक्तव्यं । अहिः अहिः बुध्यस्व बुध्यस्व । न च अवश्यं द्वे एव । यावद्भिः शब्दैः सः अर्थः गम्यते तावन्तः प्रयोकव्याः । अहिः अहिः अहिः बुध्यस्व बुध्यस्व बुध्यस्व इति ।(कात्यायन वार्तिक)क्रियासमभिहारे ।(वार्तिकान्त) क्रियासमभिहारे द्वे भवतः इति वक्तव्यं । सः भवान्लुनीहि लुनीहि इति एव अयं लुनाति । (कात्यायन वार्तिक)[आभीक्ष्ण्ये ।(वार्तिकान्त)] आभीक्ष्ण्ये द्वे भवतः इति वक्तव्यं । भुक्त्वा भुक्त्वा व्रजति । भोजं भोजं व्रजति । (कात्यायन वार्तिक)डाचि च ।(वार्तिकान्त) डाचि च द्वे भवतः इति वक्तव्यं । पटपटायति मटमटायति । (कात्यायन वार्तिक)पूर्वप्रथमयोः अर्थातिशयविवक्षायां ।(वार्तिकान्त) पूर्वप्रथमयोः अर्थातिशयविवक्षायां द्वे भवतः इति वक्तव्यं । पूर्वं पूर्वं पुष्प्यन्ति । प्रथमं प्रथमं पच्यन्ते । (कात्यायन वार्तिक)डतरडतमयोः समसम्प्रधारणायां स्त्रीनिगदे भावे ।(वार्तिकान्त) डतरडतमयोः समसम्प्रधारणायां स्त्रीनिगदे भावे द्वे भवतः इति वक्तव्यं । उभौ इमौ आढ्यौ कतरा कतरा अनयोः आढ्यता । सर्वे इमे आढ्याः कतमा कतमा एषां इति । (कात्यायन वार्तिक)कर्मव्यतिहारे सर्वनाम्नः समासवत्च बहुलं यदा न समासवत्प्रथमैकवचनं तदा पूर्वपदस्य ।(वार्तिकान्त) कर्मव्यतिहारे सर्वनाम्नः द्वे भवतः इति वक्तव्यं समासवत्च बहुलं । यदा न समासवत्प्रथमैकवचनं भवति तदा पूर्वपदस्य । अन्योऽन्यं इमे ब्राह्मणाः भोजयन्ति । अन्योऽन्यस्य भोजयन्ति । इतरेतरं भोजयन्ति । इतरेतरस्य भोजयन्ति । (कात्यायन वार्तिक)स्त्रीनपुंसकयोः उत्तरपदस्य वा अम्भावः ।(वार्तिकान्त) स्त्रीनपुंसकयोः उत्तरपदस्य वा अम्भावः वक्तव्यः । अन्योऽन्यं इमे ब्राह्मण्यौ भोजयतः । अन्योऽन्यां भोजयतः । इतरेतरं भोजयतः । इतरेतरां भोजयतः । अन्योऽन्यं इमे ब्राह्मणकुले भोजयतः । अन्योऽन्यां भोजयतः । इतरेतरं भोजयतः । इतरेतरां भोजयतः ।
(पाणिनीयसूत्र ८,१।१५) कि.,३७०।२०-३७१।२ रो. V,३१९ (कात्यायन वार्तिक)अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वं इति उपसङ्ख्यानम्(वार्तिकान्त) । अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वं इति उपसङ्ख्यानं कर्तव्यं । द्वन्द्वं स्कन्दविशाखौ । द्वन्द्वं नारदपर्वतौ । अत्यन्तसहचरिते इति किमर्थं । द्वौ युधिष्ठिरार्जुनौ । लोकविज्ञाते इति किमर्थं । द्वौ देवदत्तयज्ञदत्तौ ।
(पाणिनीयसूत्र ८,१।१५) कि.,३७१।२-७ रो. V,३१९ अथ द्वन्द्वं इति किं निपात्यते । (कात्यायन वार्तिक)द्वन्द्वं इति पूर्वपदस्य च अम्भावः उत्तरपदस्य च अत्वं नपुंसकत्वं च(वार्तिकान्त) । पूर्वपदस्य च अम्भावः निपात्यते उत्तरपदस्य च अत्वं नपुंसकत्वं च । (कात्यायन वार्तिक)उक्तं वा ।(वार्तिकान्त) किं उक्तं । लिङ्गं अशिष्यं लोकाश्रयत्वात्लिङ्गस्य इति तत्र नपुंसकत्वं अनिपात्यं ।
(पाणिनीयसूत्र ८,१।१६-१७) कि.,३७१।८-३७२।७ रो. V,३२०-३२२ आ कुतः पदाधिकारः । (कात्यायन वार्तिक)पदाधिकारः प्राकपदान्ताधिकारात्(वार्तिकान्त) । अपदान्तस्यमूर्धन्यः इति अतः प्राक्पदाधिकारः । अथ पदातिति अधिकारः आ कुतः । (कात्यायन वार्तिक)पदात्प्राक्सुपि कुत्सनात।(वार्तिकान्त) पदातिति अधिकारः प्राक्सुपि कुत्सनात। कुत्सने च सुप्यगोत्रादौ इति अतः प्राक। (कात्यायन वार्तिक)यणेकादेशस्वरः तु ऊर्ध्वं पदाधिकारात।(वार्तिकान्त) यणेकादेशस्वरः तु ऊर्ध्वं पदाधिकारात्कर्तव्यः । (कात्यायन वार्तिक)इह वचने हि अपदान्तस्य अप्राप्तिः (वार्तिकान्त)। इह हि क्रियमाणे अपदान्तस्य अप्राप्तिः स्यात। उदात्तस्वरितयोर्यणःस्वरितः अनुदात्तस्य इति इह एव स्यात्कुमार्यौ किशोर्यौ इह न स्यात्कुमार्यः किशोर्यः । एकादेशे उदात्तेनोदात्तः इह एव स्यात्वृक्षौ प्लक्षौ इह न स्यात्वृक्षाः प्लक्षाः । (कात्यायन वार्तिक)न वा पदाधिकारस्य विशेषणत्वात्(वार्तिकान्त)। न वा ऊर्ध्वं पदाधिकारात्कर्तव्यः यणेकादेशस्वरः । किं कारणं । पदाधिकारस्य विशेषणत्वात। पदस्य इति न एषा स्थानषष्ठी । का तर्हि । विशेषणषष्ठी । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । प्रत्याख्यायते स्थनषष्ठी । (कात्यायन वार्तिक)अन्तग्रहणात्वा नलोपे ।(वार्तिकान्त) अथ वा यतयं नलोपःप्रातिपदिकान्तस्य इति अन्तग्रहणं करोति तत्ज्ञापयति आचार्यः विशेषणषष्ठी एषा न स्थानषष्ठी इति ।
(पाणिनीयसूत्र ८,१।१८।१) कि.,३७२।८-३७३।९ रो. V,३२२-३२४ सर्ववचनं किमर्थं । सर्ववचनं अनादेः अनुदात्तार्थं । सर्वग्रहणं क्रियते अनादेः अपि अनुदात्तत्वं यथा स्यातिति । तिङतिङः इह एव स्यात्देवदत्तः : पचति इति इह न स्यातः देवदत्तः करोति इति । (कात्यायन वार्तिक)सर्ववचनं अनादेः अनुदात्तार्थं इति चेत्लुटि प्रतिषेधात्सिद्धम्(वार्तिकान्त) । सर्ववचनं अनादेः अनुदात्तार्थं इति चेत्तत्न । किं कारणं । लुटि प्रतिषेधात्सिद्धं । यतयं लुटि प्रतिषेधं शास्ति नलुटिति तत्ज्ञापयति आचार्यः अनादेः अपि अनुदात्तत्वं भवति इति । कथं कृत्वा ज्ञापकं । न हि लुडन्तं आद्युदात्तं अस्ति । (कात्यायन वार्तिक)अलोऽन्त्यविधिप्रसङ्गः तु ।(वार्तिकान्त) अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य विधिः प्राप्नोति । यत्र हि आदिविधिः न अस्ति अलोऽन्त्यविधिना तत्र भवितव्यं । तत्र कः दोषः । तिङतिङः इति इह एव स्यात्देवदत्तयज्ञदत्तौ कुरुतः इह न स्यात्देवदत्तः करोति इति । (कात्यायन वार्तिक)लृटि प्रतिषेधात्सिद्धं ।(वार्तिकान्त) यतयं लृटि प्रतिषेधं शास्ति तत्ज्ञापयति आचार्यः अनन्त्यस्य अपि अनुदात्तत्वं भवति इति । कथं कृत्वा ज्ञापकं । न हि लृडन्तं अन्तोदात्तं अस्ति । ननु च इदं अस्ति भोक्ष्ये इति । (कात्यायन वार्तिक)उक्तं वा ।(वार्तिकान्त) किं उक्तं । न वा पदाधिकारस्य विशेषणत्वातिति । इदं तर्हि प्रयोजनं युष्मदस्मदोःषष्ठीचतुर्थीद्वितीयास्थयोर्वाम्नावौ इति वाम्नौ आदयः सविभक्तिकस्य यथा स्युः इति । एततपि न अस्ति प्रयोजनं । पदस्य इति हि वर्तते विभक्त्यन्तं च पदं तत्र अन्तरेण सर्वग्रहणं सविभक्तिकस्य भविष्यति । भवेत्सिद्धं यत्र विभक्त्यन्तं पदं यत्र तु खलु विभक्तौ पदं तत्र न सिध्यति । ग्रामः वां दीयते । ग्रामः नौ दीयते । जनपदः वां दीयते । जनपदः नौ दीयते । ननु च स्थग्रहणं क्रियते तेन सविभक्तिकस्य एव भविष्यति । अस्ती अन्यत्स्थग्रहणस्य प्रयओजनं । किं । श्रूयमाणविभकिविशेषणं यथा विज्ञायेत । यत्र विभक्तिः श्रूयते तत्र यथा स्यातिह मा भूतिति युष्मत्पुत्रः ददाति इति अस्मत्पुत्रः ददाति इति ।
(पाणिनीयसूत्र ८,१।१८।२) कि.,३७३।१०-१९ रो. V,३२४-३२५ (कात्यायन वार्तिक)समानवाक्ये निघातयुष्मदस्मदादेशाः(वार्तिकान्त) । समानवाक्ये इति प्रकृत्य निघातयुष्मदस्मदादेशाः वक्तव्याः । किं प्रयोजनं । नानावाक्ये मा भूवनिति । अयं दण्डः हर अनेन । ओदनं पच तव भविष्यति मम भविष्यति । (कात्यायन वार्तिक)पश्यार्थैः च प्रतिषेधः ।(वार्तिकान्त) पश्यार्थैः च प्रतिषेधः समानवाक्ये इति प्रकृत्य वक्तव्यः । इतरथा हि यत्र एव पश्यार्थानां युष्मदस्मदी साधनं तत्र प्रतिषेधः स्यात। ग्रामः त्वां सम्प्रेक्ष्य सन्दृश्य समीक्ष्य गतः । ग्रामः मां सम्प्रेक्ष्य सन्दृश्य समीक्ष्य गतः। इह न स्यात। ग्रामः तव स्वं सम्प्रेक्ष्य सन्दृश्य समीक्ष्य गतः । ग्रामः मम स्वं सम्प्रेक्ष्य सन्दृश्य समीक्ष्य गतः ।
(पाणिनीयसूत्र ८,१।२६) कि.,३७३।२०-३७४।६ रो. V,३२६ (कात्यायन वार्तिक)युष्मदस्मदोः अन्यतरस्यां अनन्वादेशे(वार्तिकान्त) । युष्मदस्मदोः अन्यतरस्यां अनन्वादेशे इति वक्तव्यं । ग्रामे कम्बलः ते स्वं । ग्रामे कम्बलः तव स्वं । ग्रामे कम्बलः मे स्वं । ग्रामे कम्बलः मम स्वं । अनन्वादेशे इति किमर्थं । अथो ग्रामे कम्बलः ते स्वं । अथो ग्रामे कम्बलः मे स्वं । अपरः आह : सर्वे एव वाम्नावादयः अनन्वादेशे विभाषा वक्तव्याः । कम्बलः ते स्वं । कम्बलः तव स्वं । कम्बलः मे स्वं । कम्बलः मम स्वं । अनन्वादेशे इति किमर्थं । अथो कम्बलः ते स्वं । अथो कम्बलः मे स्वं । न तर्हि इदानीं इदं वक्तव्यं सपूर्वायाः प्रथमायाः विभाषा इति । वक्तव्यं च । किं प्रयोजनं । अन्वादेशार्थं । अन्वादेशे विभाषा यथा स्यात। अथो ग्रामे कम्बलः ते स्वं । अथो ग्रामे कम्बलः तव स्वं । अथो ग्रामे कम्बलः मे स्वं । अथो ग्रामे कम्बलः मम स्वं ।
(पाणिनीयसूत्र ८,१।२७) कि.,३७४।७-२० रो. V,३२७ किं इदं तिङः गोत्रादिषु कुत्सनाभीक्ष्ण्यग्रहणं पाठविशेषणं । कुत्सनाभीक्ष्ण्ययोः अर्थयोः गोत्रादीनि भवन्ति तिङः पराणि अनुदात्तानि इति । आहोस्वितनुदात्तविशेषणं । तिङः पराणि गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः अर्थयोः अनुदात्तानि भवन्ति इति । (कात्यायन वार्तिक)तिङः गोत्रादिषु कुत्सनाभीक्ष्ण्यग्रहणं पाठविशेषणम्(वार्तिकान्त) । तिङः गोत्रादिषु कुत्सनाभीक्ष्ण्यग्रहणं क्रियते पाठविशेषणं । पाठः विशेष्यते । (कात्यायन वार्तिक)अनुदात्तविशेषणे हि अन्यत्र गोत्रादिग्रहणे कुत्सनाभीक्ष्ण्यग्रहणं ।(वार्तिकान्त) अनुदात्तविशेषणे हि सति अन्यत्र गोत्रादिग्रहणे कुत्सनाभीक्ष्ण्यग्रहणं कर्तव्यं स्यात। चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः इति कुत्सनाभीक्ष्ण्ययोः इति वक्तव्यं स्यात। (कात्यायन वार्तिक)अनुदात्तग्रहणं वा ।(वार्तिकान्त) अथ वा यानि अनुदात्तानि इति वक्तव्यं स्यात। तस्मात्सुष्ठु उच्यते तिङः गोत्रादिषु कुत्सनाभीक्ष्ण्यग्रहणं पाठविशेषणं अनुदात्तविशेषणे हि अन्यत्र गोत्रादिग्रहणे कुत्सनाभीक्ष्ण्यग्रहणं अनुदात्तग्रहणं वा इति ।
(पाणिनीयसूत्र ८,१।२८) कि.,३७४।२१-२५ रो. V,३२७-३२८ अतिङः इति किमर्थं । पचति करोति । (कात्यायन वार्तिक)अतिङ्वचनं अनर्थकं समानवाक्याधिकारात्(वार्तिकान्त) । अतिङ्वचनं अनर्थकं । किं कारणं । समानवाक्याधिकारात। समानवाक्ये इति वर्तते न च समानवाक्ये द्वे तिङन्ते स्तः ।
(पाणिनीयसूत्र ८,१।३०।१) कि.,३७५।१-६ रो. V,३२८ निपातैः इति किमर्थं । यत्कूजति शकटं । यती कूजति शकटी । यन्रथः कूजति । निपातैः इति शक्यं अवक्तुं । कस्मात्न भवति । यत्कूजति शकटं । यती कूजति शकटी । यन्रथः कूजति । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति । न एषा परिभाषा इह शक्या विज्ञातुं । इह हि दोषः स्यात। यावद्यथाभ्यां इह न स्यात्यावतस्ति अत्र एषः सरः जनेभ्यः कृणवत।
(पाणिनीयसूत्र ८,१।३०।२) कि.,३७५।७-९ रो. V,३२९ (कात्यायन वार्तिक)चण्णिद्विशिष्टः चेदर्थे(वार्तिकान्त) । चण्णिद्विशिष्टः चेदर्थे द्रष्टव्यः । अयं च वै मरिष्यति । अयं चेत्मरिष्यति । न च पितृभ्यः पूर्वेभ्यः दास्यति । अप्रायश्चित्तिकृतौ च स्यातां ।
(पाणिनीयसूत्र ८,१।३५) कि.,३७५।१०-१३ रो. V,३२९ अनेकं इति किं उदाहरणं । यदा हि असौ मत्तः भवति अथ यत्तपति । न एततस्ति । एकं अत्र हियुक्तं अपरं यद्युक्तं ततः उभयोः अपि अनिघातः । इदं तर्हि । अनृतं हि मत्तः वदति पाप्मा एनं विपुनाति । एकं खलु अपि । अग्निः हि पूर्वं उदजयत्तं इन्द्रः अनूदजयतिति ।
(पाणिनीयसूत्र ८,१।३९) कि.,३७५।१४-१९ रो. V,३३० पूजायां इति वर्तमाने पुनः पूजाग्रहणं किमर्थं । अनिघातप्रतिषेधाभिसम्बद्धं तत। यदि ततनुवर्तेत इह अपि अनिघातप्रतिषेधः प्रसज्येत । इष्यते च अत्र निघातप्रतिषेधः । यथा पुनः तत्र यावत्यथा इति एताभ्यां अनिघाते प्राप्ते अनिघातप्रतिषेधः उच्यते इह इदानीं केन अनिघाते प्राप्ते अनिघातप्रतिषेधः उच्येत । इह अपि यद्वृत्तान्नित्यं इति एवमादिभिः ।
(पाणिनीयसूत्र ८,१।४६) कि.,३७५।२०-२२ रो. V,३३० किमर्थं इदं उच्यते न गत्यर्थलोटा लृटिति एव सिद्धं । नियमार्थः अयं आरम्भः । एहि मन्ये प्रहासे एव यथा स्यात। क्व मा भूत। एहि मन्ये रथेन यास्यसि इति ।
(पाणिनीयसूत्र ८,१।४७) कि.,३७६।१-१० रो. V,३३१ किं इदं अपूर्वग्रहणं जातुविशेषणं । जातुशब्दातपूर्वात्तिङन्तं इति । आहोस्वित्तिङन्तविशेषणं । जातुशब्दात्तिङन्तं अपूर्वं इति । जातुविशेषणं इति आह । कथं ज्ञायते । यतयं किंवृत्तञ्चचिदुत्तरं इति आह । कथं कृत्वा ज्ञापकं । अत्र अपि अपूर्वं इति एततनुवर्तते न च अस्ति सम्भवः यत्किंवृत्तं च चिदुत्तरं स्यात्तिङन्तं च अपूर्वं । अत्र अपि तिङन्तविशेषणं एव । कथं । किंवृत्तात्चिदुत्तरात्तिङन्तं अपूर्वं इति । यत्तर्हि आहोउताहोचानन्तरं इति अनन्तरग्रहणं करोति । एतस्य अपि अस्ति वचने प्रयोजनं । किं । शेषप्रक्¯प्त्यर्थं एतत्स्यात। शेषेविभाषा कः च शेषः । सान्तरं शेषः इति । अन्तरेण अपि अनन्तरग्रहणं प्रक्¯प्तः शेषः । कथम। अपूर्वः इति वर्तते । शेषे विभाषा । कः च शेषः । सपूर्वः शेषः इति ।
(पाणिनीयसूत्र ८,१।५१) कि.,३७७।१-१७ रो. V,३३२-३३३ (कात्यायन वार्तिक)लृटः प्रकृतिभावे कर्तुः अन्यत्वे उपसङ्ख्यानं कारकान्यत्वात्(वार्तिकान्त) । लृटः प्रकृतिभावे कर्तुः यत्कारकं अन्यत्तस्य अन्यत्वे उपसङ्ख्यानं कर्तव्यं । आगच्छ देवदत्त ग्रामं ओदनं भोक्ष्यसे । किं पुनः कारणं न सिध्यति । कारकान्यत्वात। न चेत्कारकं सर्वान्यतिति उच्यते सर्वान्यत्च अत्र कारकं । किं पुनः कारणं सर्वान्यत्प्रतिषेधेन आश्रीयते न पुनः असर्वान्यद्विधानेन आश्रीयेत । कर्ता च अत्र असर्वान्यः ततः कर्तृसामान्यात्सिद्धं । (कात्यायन वार्तिक)कर्तृसामान्यात्सिद्धं इति चेत्तद्भेदे अन्यसामान्ये प्रकृतिभावप्रसङ्गः ।(वार्तिकान्त) कर्तृसामान्यात्सिद्धं इति चेत्तद्भेदे कर्तृभेदे अन्यस्मिन्कारकसामान्ये प्रकृतिभावः प्राप्नोति । आहर देवदत्त शालीन्यज्ञदत्त एनान्भोक्ष्यते । एवं तर्हि व्यक्तं एव पठितव्यं न चेत्कर्ता सर्वान्यः इति । (कात्यायन वार्तिक)न चेत्कर्ता सर्वान्यः इति चेतन्याभिधाने प्रतिषेधं एके (वार्तिकान्त)। न चेत्कर्ता सर्वान्यः इति चेतन्याभिधाने प्रतिषेधं एके इच्छन्ति । उह्यन्तां देवदत्तेन शालयः यज्ञदत्तेन भोक्ष्यन्ते इति प्राप्नोति भोक्ष्यन्ते इति च इष्यते । (कात्यायन वार्तिक)सिद्धं तु तिङोः एकद्रव्याभिधानात।(वार्तिकान्त) सिद्धं एतत। कथं । तिङोः एकद्रव्याभिधानात। यत्र तिङ्भ्यां एकं द्रव्यं अभिधीयते तत्र इति वक्तव्यं ।
(पाणिनीयसूत्र ८,१।५५) कि.,३७७।१८-३७८।७ रो. V,३३४-३३६ कस्य अयं प्रतिषेधः । (कात्यायन वार्तिक)आमः एकान्तरे ऐकश्रुत्यप्रतिषेधः(वार्तिकान्त) । आमः एकान्तरे ऐकश्रुत्यस्य अयं प्रतिषेधः । कथं पुनः अप्रकृतस्य असंशब्दितस्य ऐकश्रुत्यस्य प्रतिषेधः शक्यः विज्ञातुं । अनन्तिके इति उच्यते । अनन्तिकं च किं । दूरं । दूरात्सम्बुद्धौ एकश्रुतिः उच्यते । अस्ति प्रयोजनं एतत। किं तर्हि इति । (कात्यायन वार्तिक)निघातप्रसङ्गः तु ।(वार्तिकान्त) निघातः तु प्राप्नोति । आं भोः देवदत्त३ । आमन्त्रितस्य अनुदात्तत्वं प्राप्नोति । (कात्यायन वार्तिक)सिद्धं तु प्रतिषेधाधिकारे प्रतिषेधवचनात।(वार्तिकान्त) सिद्धं एतत। कथं । प्रतिषेधाधिकारे प्रतिषेधवचनसामर्थ्यात्निघातः न भविष्यति । न एव वा पुनः अत्र ऐकश्रुत्यं प्राप्नोति । किं कारणं । अनन्तिके इति उच्यते अन्यत्च दूरं अन्यतनन्तिकं । यदि एवं प्लुतः अपि तर्हि न प्राप्नोति प्लुतः अपि हि दूरातिति उच्यते । इष्टं एव एतत्सङ्गृहीतं । आं भोः देवदत्त इति एव भवितव्यं ।
(पाणिनीयसूत्र ८,१।५६) कि.,३७८।८-१९ रो. V,३३६-३३८ किमर्थं इदं उच्यते । यदादैः एव सर्वैः एतैः अनिघातकारणैः योगे अनिघातः उच्यते । यथा एव पूर्वैः योगे एवं परैः अपि । अतः उत्तरं पठति । (कात्यायन वार्तिक)यद्धितुपरस्य छन्दसि अनिघातः अन्यपरप्रतिषेधार्थः(वार्तिकान्त) । यद्धितुपरस्य छन्दसि अनिघातः उच्यते अन्यपरप्रतिषेधार्थः । अन्यपरस्य प्रतिषेधः मा भूतिति । जाये स्वः रोहाव एहि । अथ इदानीं रोहाव इति अनेन युक्ते एहि इति अस्य कस्मात्न भवति । लोट्च गत्यर्थलोटा युक्तः इति प्राप्नोति । न रुहिः गत्यर्थः । कथं ज्ञायते । यतयं गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च इति पृथक्रुहिग्रहणं करोति । यदि न रुहिः गत्यर्थः आरोहन्ति हस्तिनं मनुष्याः आरोहयति हस्ती स्थलं मनुष्यान्गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्तासणौ इति कर्मसञ्ज्ञा न प्राप्नोति । तस्मात्न एतत्शक्यं वक्तुं न रुहिः गत्यर्थः इति । कस्मात्तर्हि रोहाव इति अनेन युक्ते एहि इति अस्य न भवति । छान्दसत्वात।
(पाणिनीयसूत्र ८,१।५७) कि.,३७८।२०-३७९।४ रो. V,३३८ (कात्यायन वार्तिक)आम्रेडितेषु अगतेः सगतिः अपि तिङिति अत्र गतिग्रहणे उपसर्गग्रहङम्(वार्तिकान्त) । आम्रेडितेषु अगतेः सगतिरपितिङिति अत्र गतिग्रहणे उपसर्गग्रहणं द्रष्टव्यं । इह मा भूत। शुक्लीकरोति चन । क्र्ष्णीकरोति चन । यत्काष्ठा शुक्लीकरोति । यत्काष्ठा कृष्णीकरोति । अपर आह । सर्वत्र एव आष्टमिके गतिग्रहणे उपसर्गग्रहणं द्रष्तव्यं गतिर्गतौतिङिचोदात्तवतिवर्जं इति ।
(पाणिनीयसूत्र ८,१।६६) कि.,३७९।५-१३ रो. V,३३९ यद्वृत्तातिति उच्यते तत्र इदं न सिध्यति यः पचति यं पचति इति । वृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयात। कथं यतरः पचति यतमः पचति इति । डतरडतमौ च प्रतीयात। कथं यदा ददाति इति । एषः अपि विभक्तिसञ्ज्ञः । कथं यावतस्ति अत्र एषः सरः जनेभ्यः कृणवत। यावद्यथाभ्यां इति एवं भविष्यति । कथं यद्र्यङ्वायुः पवते यत्कामाः ते जुहुमः । एवं तर्हि यतस्मिन्वर्तते यद्वृत्तं यद्वृत्तातिति एवं भविष्यति । (कात्यायन वार्तिक)वा याथाकाम्ये(वार्तिकान्त) । वा याथाकाम्ये इति वक्तव्यं । यत्र क्व चन यजते देवयजने एव यजते ।
(पाणिनीयसूत्र ८,१।६७) कि.,३७९।१४-१९ रो. V,३४० (कात्यायन वार्तिक)पूजितस्य अनुदात्तत्वे काष्ठादिग्रहणम्(वार्तिकान्त) । पूजितस्य अनुदात्तत्वे काष्ठादिग्रहणं कर्तव्यं । काष्ठादिभ्यः पूजनातिति वक्तव्यं । इह मा भूत। शोभनः अध्यापकः । (कात्यायन वार्तिक)मलोपवचनं च ।(वार्तिकान्त) मलोपः च वक्तव्यः । दारुणाध्यापकः दारुणाभिरूपः ।
(पाणिनीयसूत्र ८,१।६८।१) कि.,३७९।२०-३८०।१० रो. V,३४०-३४१ सगतिग्रहणं किमर्थं । (कात्यायन वार्तिक)सगतिग्रहणं अपदत्वात्(वार्तिकान्त) । सगतिग्रहणं क्रियते अपदत्वात। पदस्य इति वर्तते न हि सगतिकं पदं भवति । (कात्यायन वार्तिक)उत्तरार्थं च ।(वार्तिकान्त) उत्तरार्थं च सगतिग्रहणं क्रियते । कुत्सने च सुपि अगोत्रादौ सगतिः अपि । प्रपचति पूति । अथ अपिग्रहणं किमर्थं । अगतिकस्य अपि यथा स्यात। यत्काष्ठा पचति । न एततस्ति प्रयोजनं । सिद्धं पूर्वेण अगतिकस्य । न सिध्यति । मलोपाभिसम्बद्धं तत। यदि ततनुवर्तेत इह अपि मलोपः प्रसज्येत । दारुणं पचति इति । उत्तरार्थं च अपिग्रहणं क्रियते । कुत्सने च सुपि अगोत्रादौ अगतिः अपि इति । पचति पूति इति ।
(पाणिनीयसूत्र ८,१।६८।२) कि.,३८०।११-१६ रो. V,३४१-३४२ (कात्यायन वार्तिक)तिङ्निघातात्पूजनात्पूजितं अनुदात्तं विप्रतिषेधेन(वार्तिकान्त) । तिङ्निघातात्पूजनात्पूजितं अनुदात्तं इति एतत्भवति विप्रतिषेधेन । तिङ्निघातस्य अवकाशः । देवदत्तः पचति । पूजनात्पूजितं अनुदात्तं इति अस्य अवकाशः । काष्टाध्यापकः । इह उभयं प्राप्नोति । काष्ठा पचति । पूजनात्पूजितं इति एतत्भवति विप्रतिषेधेन । कः पुनः अत्र विशेषः तेन वा सति अनेन वा । अयं अस्ति विशेषः । सापवादकः सः विधिः अयं पुनः निरपवादकः । यदि हि तेन स्यातिह न स्यात। यत्काष्ठा पचति ।
(पाणिनीयसूत्र ८,१।६९) कि.,३८०।१७-२५ रो. V,३४२-३४४ (कात्यायन वार्तिक)सुपि कुत्सने क्रियायाः मकारलोपः अतिङि इति च उक्तार्थं । (वार्तिकान्त)क्रियायाः कुत्सने इति वक्तव्यं । कर्तुः कुत्सने मा भूत। पचति पुतिः । (कात्यायन वार्तिक)पूतिः च चानुबन्धः(वार्तिकान्त) । पूतिः च चानुबन्धः द्रष्टव्यः । पचति पूति । (कात्यायन वार्तिक)विभाषितं च अपि बह्वर्थं ।(वार्तिकान्त) विभाषितं च अपि बह्वर्थं द्रष्टव्यं । पचन्ति पुति । पचन्ति पुति । (कात्यायन वार्तिक)सुपि कुत्सने क्रियायाः मकारलोपः अतिङि इति च उक्तार्थं । पूतिः च चानुबन्धः । विभाषितं च अपि बह्वर्थं ।(वार्तिकान्त)
(पाणिनीयसूत्र ८,१।७०) कि.,३८१।१-२३ रो. V,३४४-३४७ गतौ इति किमर्थं । प्रपचति प्रकरोति । (कात्यायन वार्तिक)गतेः अनुदात्तत्वे गतिग्रहणानर्थक्यं तिङि अवधारणात्(वार्तिकान्त) । गतेः अनुदात्तत्वे गतिग्रहणं अनर्थकं । किं कारणं । तिङि अवधारणात। तिङिच उदात्तवति इति एतत्नियमार्थं भविष्यति । तिङि उदात्तवति एव गतिः अनुदात्तः भवति न अन्यत्र इति । छन्दोर्थं तर्हि गतिग्रहणं कर्तव्यं । छन्दसि गतौ परतः अनुदात्तत्वं यथा स्यात्मन्द्रशब्दे मा भूत। अ मन्द्रैः इन्द्र हरिभिः याहि मयुररोमभिः । (कात्यायन वार्तिक)छन्दोर्थं इति चेत्न अगतित्वात्(वार्तिकान्त)। छन्दोर्थं इति चेत्तत्न । किं कारणं । अगतित्वात। यत्क्रियायुक्ताः तं प्रति गत्युपसर्गसञ्ज्ञे भवतः न च अत्र आङः मन्द्रशब्दं प्रति क्रियायोगः । किं तर्हि याहिशब्दं प्रति । इह अपि तर्हि न प्राप्नोति । अभ्युद्धरति उपसमादधाति इति । अत्र अपि न अभेः उदं प्रति क्रियायोगः । किं तर्हि हरतिं प्रति क्रियायोगः । न एषः दोषः । उदं प्रति क्रियायोगः । कथं । उद्धरतिक्रियां विशिनष्टि । उदा विशिष्टां अभिः विशिनष्टि । तत्र यत्क्रियायुक्ताः इति भवति एव सङ्घातं प्रति क्रियायोगः । इह अपि तर्हि मन्द्रसाधना क्रिया आङा व्यज्यते । आ याहि मन्द्रैः इति । ननु पूर्वं धातुः उपसर्गेण युज्यते पश्चात्साधनेन इति । न एतत्सारं । पूर्वं धातुः साधनेन युज्यते पश्चातुपसर्गेण । किं कारणं । साधनं हि क्रियां निर्वर्तयति तां उपसर्गः विशिनष्टि अभिनिर्वृत्तस्य च अर्थस्य उपसर्गेण विशेषः शक्यः वक्तुं । सत्यं एवं एतत। यः तु असौ धातूपसर्गयोः अभिसम्बन्धः तं अभ्यन्तरे कृत्वा धातुः साधनेन युज्यते । अवश्यं च एततेवं विज्ञेयं । यः हि मन्यते पूर्वं धातुः साधनेन युज्यते पश्चातुपसर्गेण इति आस्यते गुरुणा इति अकर्मकः उपास्यते गुरुः इति केन सकर्मकः स्यात। (कात्यायन वार्तिक)गतिना तु विशिष्टस्य गतिः एव विशेषकः । साधने केन ते न स्यात्बाह्यं आभ्यन्तरः हि सः (वार्तिकान्त)।
(पाणिनीयसूत्र ८,१।७१) कि.,३८१।२४-३८२।१५ रो. V,३४७-३४९ तिङ्ग्रहणं किमर्थं । (कात्यायन वार्तिक)तिङ्ग्रहणं उदात्तवतः परिमाणार्थम्(वार्तिकान्त) । तिङ्ग्रहणं क्रियते उदात्तवतः परिमाणार्थं । तिङि उदात्तवति यथा स्यात्मन्द्रशब्दे मा भूत। आ मन्द्रैः इन्द्र हरिभिः याहि । यद्योगात्गतिः । यत्क्रियायुक्ताः तं प्रति गत्युपसर्गसञ्ज्ञे भवतः न च आङः मन्द्रशब्दं प्रति क्रियायोगः । किं तर्हि याहिशब्दं प्रति । (कात्यायन वार्तिक)यद्योगात्गतिः इति चेत्प्रत्ययोदात्तत्वे अप्रसिद्धिः ।(वार्तिकान्त) यद्योगात्गतिः इति चेत्प्रत्ययोदात्तत्वे अप्रसिद्धिः स्यात। यत्प्रकरोति । तस्मात्तिङ्ग्रहणं कर्तव्यं । यदि तिङ्ग्रहणं क्रियते आमन्ते न प्राप्नोति । प्रपचतितरां । प्रजल्पतितरां । असति पुनः तिङ्ग्रहणे क्रियाप्रधानं आख्यातं तस्माततिशये तरपुत्पद्यते तरबन्तात्स्वार्थे आं तत्र यत्क्रियायुक्ताः तं प्रति गत्युपसर्गसञ्ज्ञे भवतः इति भवति एतं सङ्घातं प्रति क्रियायोगः । तस्मात्न अर्थः तिङ्ग्रहणेन । कस्मात्न भवति । अ मन्द्रैः इन्द्र हरिभिः याहि मयुररोमभिः । यद्योगात्गतिः इति । ननु च उक्तं यद्योगात्गतिः इति चेत्प्रत्ययोदात्तत्वे अप्रसिद्धिः इति । न एषः दोषः । यद्क्रियायुक्ताः इति न एवं विज्ञायते यस्य क्रिया यत्क्रिया यत्क्रियायुक्ताः तं प्रति गत्युपसर्गसञ्ज्ञे भवतः इति । कथं तर्हि । या क्रिया यत्क्रिया यत्क्रियायुक्ताः तं प्रति गत्युपसर्गसञ्ज्ञे भवतः इति ।
(पाणिनीयसूत्र ८,१।७२।१) कि.,३८२।१६-३८२।१८ रो. V,३४९ वत्करणं किमर्थं । स्वाश्रयं अपि यथा स्यात। आं भोः देवदत्त इति अत्र आमएकान्तरमामन्त्रितमनन्तिके इति एकान्तरता यथा स्यात।
(पाणिनीयसूत्र ८,१।७२।२) कि.,३८२।१९-३८२।२५ रो. V,३४९-३५० (कात्यायन वार्तिक)पूर्वं प्रति विद्यमानवत्त्वातुत्तरत्र आनन्तर्याप्रसिद्धिः । (वार्तिकान्त)पूर्वं प्रति विद्यमानवत्त्वातुत्तरत्र आनन्तर्यस्य अप्रसिद्धिः स्यात। इमं मे गङ्गे यमुने सरस्वति । गङ्गेशब्दः अयं यमुनेशब्दं प्रति अविद्यमानवत्भवति । तत्र आमन्त्रितस्य पदात्परस्य इति अनुदात्तत्वं न स्यात। (कात्यायन वार्तिक)सिद्धं तु पदपूर्वस्य इति वचनात्(वार्तिकान्त) । सिद्धं एतत। कथं । पदपूर्वस्य इति वचनात। पदपूर्वस्य च आमन्त्रितस्य अविद्यमानवद्भावः भवति इति वक्तव्यं ।
(पाणिनीयसूत्र ८,१।७२।३) कि.,३८३।१-३८३।२० रो. V,३५०-३५२ कानि पुनः अस्य योगस्य प्रयोजनानि । (कात्यायन वार्तिक)अविद्यमानवत्त्वे प्रयोजनं आमन्त्रितयुष्मदस्मत्तिङ्निघाताः(वार्तिकान्त) । आमन्त्रितस्य पदात्परस्य अनुदात्तः भवति इति इह एव भवति पचसि देवदत्त । देवदत्त यज्ञदत्त इति अत्र न भवति अविद्यमानवत्त्वातामन्त्रितस्य । युष्मदस्मदोःषष्ठीचतुर्थीद्वितीयास्थयोर्वाम्नावौ इति इह एव भवति ग्रामः वां स्वं जनपदः नौ स्वं । देवदत्तयज्ञदत्तौ युवयोः स्वं इति अत्र न भवति अविद्यमानवत्त्वातामन्त्रितस्य । तिङतिङः इति इह एव भवति देवदत्तः पचति । देवदत्त पचसि इति अत्र न भवति अविद्यमानवत्त्वातामन्त्रितस्य । (कात्यायन वार्तिक)पूजायां अनन्तरप्रतिषेधः(वार्तिकान्त) । पूजायां अनन्तरप्रतिषेधः प्रयोजनं । यावत्पचति शोभनं । यावत्देवदत्त पचति इति अत्र अपि सिद्धं भवति । (कात्यायन वार्तिक)जातु अपूर्वं ।(वार्तिकान्त) जातु अपूर्वं प्रयोजनं । जातु पचति । देवदत्त जातु पचसि इति अत्र अपि सिद्धं भवति । (कात्यायन वार्तिक)आहो उताहो च अनन्तरविधौ ।(वार्तिकान्त) आहो उताहो च अनन्तरविधौ प्रयोजनं । आहो पचसि । आहो देवदत्त पचसि इति अत्र अपि सिद्धं भवति । उताहो पचसि । उताहो देवदत्त पचसि इति अत्र अपि सिद्धं भवति । (कात्यायन वार्तिक)आमः एकान्तरविधौ ।(वार्तिकान्त) आमः एकान्तरविधौ प्रयोजनं । आं पचसि देवदत्त । आं भोः पचसि देवदत्त अत्र अपि सिद्धं भवति ।
(पाणिनीयसूत्र ८,१।७३) कि.,३८३।२१-२४ रो. V,३५२ इह कस्मात्न भवति । अघ्न्ये देवि सरस्वति इडे कव्ये विहव्ये एतनि ते अघ्न्ये नमानि । योगविभागः करिष्यते । न आमन्त्रिते समानाधिकरणे सामान्यवचनं । ततः विभाषितं विशेषवचने इति ।
(पाणिनीयसूत्र ८,१।७४) कि.,३८४।१-८ रो. V,३५३ इह कस्मात्न भवति । ब्रह्मण वैयाकरण । बहुवचनं इति वक्ष्यामि । सामान्यवचनं इति शक्यं अवक्तुं । कथं । विभाषितं विशेषवचने इति उच्यते तेन यत्प्रति विशेषवचनं इति एतत्भवति तस्य भविष्यति । किं च प्रति एतत्भवति । सामान्यवचनं । अपरः आह : विशेषवचने इति शक्यं अवक्तुं । कथं । सामान्यवचनं विभाषितं इति उच्यते तेन यत्प्रति सामान्यवचनं इति एतत्भवति । किं च प्रति एतत्भवति । विशेषवचनं । सामान्यवचनं विभाषितं विशेषवचने इति ।
(पाणिनीयसूत्र ८,२।१।१) कि.,३८५।१-२१ रो. V,३५४-३५६ या इयं सपादसप्ताध्यायी अनुक्रान्ता एतस्यां अयं पादोनः अध्यायः असिद्धः वेदितव्यः । यदि सपादायां सप्ताध्याय्यां अयं पादोनः अध्यायः असिद्धः इति उच्यते यः इह सप्तमीनिर्देशाः पञ्चमीनिर्देशाः च उच्यन्ते षष्ठीनिर्देशाः च उच्यन्ते ते अपि असिद्धाः स्यूः । तत्र कः दोषः । झलोझलि ह्रस्वादङ्गात्संयोगान्तस्यलोपः इति एतेषां निर्देशानां असिद्धत्वात्तस्मिन्नितिनिर्देष्टेपूर्वस्य तस्मादित्युत्तरस्य षष्ठीस्थानेयोगा इति एताः परिभाषाः न प्रकल्पेरन। न एषः दोषः । यदि अपि इदं तत्र असिद्धं तत्तु इह सिद्धं । कथं । कार्यकालं सञ्ज्ञापरिभाषं यत्र कार्यं तत्र द्रष्टव्यं । झलोझलि । ह्रस्वादङ्गात। संयोगान्तस्यलोपः । उपस्थितं इदं भवति तस्मिन्नितिनिर्दिष्टेपूर्वस्य तस्मादित्युत्तरस्य षष्ठीस्थानेयोगा इति । यदि कार्यकालं सञ्ज्ञापरिभाषं इति उच्यते इयं अपि परिभाषा अस्ति विप्रतिषेधे परं इति सा अपि इह उपतिष्ठेत । तत्र कः दोषः । विस्फोर्यं अवगोर्यं इति गुणात्दीर्घत्वं स्यात्विप्रतिषेधेन । अतः उत्तरं पठति । (कात्यायन वार्तिक)पूर्वत्रासिद्धे न अस्ति विप्रतिषेधः अभावातुत्तरस्य(वार्तिकान्त) । पूर्वत्रासिद्धे न अस्ति विप्रतिषेधः । किं कारणं । अभावातुत्तरस्य । द्वयोः हि सावकाशयोः समवस्थितयोः विप्रतिषेधः भवति न च पूर्वत्रासिद्धे परं पूर्वं प्रति भवति । यदि एवं दोग्धा दोग्धुं घत्वस्य असिद्धत्वात्ढत्वं प्राप्नोति काष्ठतट्कूटतट्संयोगादिलोप्स्य असिद्धत्वात्संयोगान्तलोपः प्राप्नोति । (कात्यायन वार्तिक)अपवादः वचनप्रामाण्यात।(वार्तिकान्त) अनवकाशौ एतौ वचनप्रामाण्यात्भविष्यतः । तस्मात्कार्यकालं सञ्ज्ञापरिभाषं इति न दोषः ।
(पाणिनीयसूत्र ८,२।१।२) कि.,३८६।१-११ रो. V,३५६-३५७ (कात्यायन वार्तिक)पूर्वत्रासिद्धं अधिकारः(वार्तिकान्त) । पूर्वत्रासिद्धं इति अधिकारः अयं द्रष्टव्यः । किं प्रयोजनं । (कात्यायन वार्तिक)परस्य परस्य पूर्वत्र पूर्वत्र असिद्धविज्ञानार्थं ।(वार्तिकान्त) परः परः योगः पूर्वं पूर्वं योगं प्रति असिद्धः यथा स्यात। (कात्यायन वार्तिक)अनधिकारे हि समुदाये असिद्धविज्ञानं ।(वार्तिकान्त) अनधिकारे हि सति समुदायस्य समुदाये असिद्धत्वं विज्ञायेत । तत्र कः दोषः । (कात्यायन वार्तिक)तत्र अयथेष्टप्रसङ्गः ।(वार्तिकान्त) तत्र अयथेष्टं प्रसज्येत । योधुङ्मान्गुडलिण्मानिति । घत्वढत्वयोः कृतयोः झयः इति वत्वं प्रसज्येत । (कात्यायन वार्तिक)तस्मातधिकारः ।(वार्तिकान्त) तस्मातधिकारः अयं द्रष्टव्यः ।
(पाणिनीयसूत्र ८,२।१।३) कि.,३८६।१२-२१ रो. V,३५७-३५८ असिद्धवचनं किमर्थं । (कात्यायन वार्तिक)असिद्धवचने उक्तम्(वार्तिकान्त) । किं उक्तं । तत्र तावतुक्तं षत्वतुकोः असिद्धवचनं आदेशलक्षणप्रतिषेधार्थं उत्सर्गलक्षणभावार्थं च इति । एवं इह अपि पूर्वत्रासिद्धवचनं आदेशलक्षणप्रतिषेधार्थं उत्सर्गलक्षणभावार्थं च । आदेशलक्षणप्रतिषेधार्थं तावत। राजभिः तक्षभिः राजभ्यां तक्षभ्यां राजसु तक्षसु इति नलोपे कृते अतः इति ऐस्भावादयः प्राप्नुवन्ति । असिद्धत्वात्न भवन्ति । उत्सर्गलक्षणभावार्थं च । अमुष्मै अमुष्मातमुष्य अमुष्मिनिति अत्र मुभावे कृते अतः इति स्मायादयः न प्राप्नुवन्ति । असिद्धत्वात्भवन्ति । सुपर्वाणौ सुपर्वाणः । णत्वे कृते नोपधायाः इति दीर्घत्वं न प्रप्नोति । असिद्धत्वात्भवति ।
(पाणिनीयसूत्र ८,२।२।१) कि.,३८६।२२-३८७।३ रो. V,३५८ सुब्विधिं प्रति नलोपः असिद्धः भवति इति उच्यते । भवेतिह राजभिः तक्षभिः इति नलोपे कृते अतः इति ऐस्भावः न स्यात। इह तु खलु राजभ्यां तक्षभ्यां राजसु तक्षसु इति नलोपे कृते दीर्घत्वैत्त्वे प्राप्नुतः। न एषः दोषः । सुब्विधिः इति सर्वविभक्त्यन्तः समासः : सुपः विधिः सुब्विधिः , सुपि विधिः सुब्विधिः इति ।
(पाणिनीयसूत्र ८,२।२।२) कि.,३८७।४-१८ रो. V,३५९-३६१ अथ सञ्ज्ञाविधौ किं उदाहरणं । पञ्च सप्त । पञ्च सप्त इति अत्र नलोपे कृते ष्णान्ताषटिति षट्सञ्ज्ञा न प्राप्नोति । असिद्धत्वात्भवति । (कात्यायन वार्तिक)सञ्ज्ञाग्रहणानर्थक्यं च तन्निमित्तत्वात्लोपस्य(वार्तिकान्त) । सञ्ज्ञाग्रहणं च अनर्थकं । किं कारणं । तन्निमित्तत्वात्लोपस्य । न अकृतायां षट्सञ्ज्ञायां जश्शसोः लुक्न च अकृते लुकि पदसञ्ज्ञा न च अकृतायां पदसञ्ज्ञायां नलोपः प्राप्नोति । ततेततानुपूर्व्या सिद्धं भवति । इदं तर्हि प्रयोजनं पञ्चभिः सप्तभिः इति षट्त्रिचतुर्भ्योहलादिः झल्युपोत्तमं इति एषः स्वरः यथा स्यात। (कात्यायन वार्तिक)स्वरे अवधारणात्च ।(वार्तिकान्त) स्वरे अवधारणात्च सञ्ज्ञाग्रहणं अनर्थकं । स्वरे अवधारणं क्रियते स्वरविधिं प्रति इति । तुग्विधौ किं उदाहरणं । वृत्रहभ्यां वृत्रहभिः । नलोपे कृते ह्रस्वस्यपितिकृतितुकिति तुक्प्राप्नोति । असिद्धत्वात्न भवति । (कात्यायन वार्तिक)तुग्विधौ च उक्तं ।(वार्तिकान्त) किं उक्तं । सन्निपातलक्षणः विधिः अनिमित्तं तद्विघातस्य इति । इदं तर्हि प्रयोजनं । कृति इति वक्ष्यामि । इह मा भूत। ब्रह्महच्छत्रं भ्रूणहच्छाया । न एषः सन्निपातलक्षणः ।
(पाणिनीयसूत्र ८,२।३) कि.,३८७।१९ रो. V,३६१-३६२ इह ने यत्कार्यं प्राप्नोति तत्प्रति मुभावः न असिद्धः इति उच्यते नाभावः च एव तावत्न प्राप्नोति । एवं तर्हि (कात्यायन वार्तिक)न मु टादेशे(वार्तिकान्त) । न मु टादेशे इति वक्तव्यं । किं इदं टादेशः इति । टायाः आदेशः टादेशः इति । यदि तर्हि टायाः आदेशे इति उच्यते टायां आदेशे अप्रसिद्धिः । तत्र कः दोषः । अमुना इति अत्र मुभावस्य असिद्धत्वाततोदीर्घोयञि सुपिच इति दीर्घत्वं प्रसज्येत । न एषः दोषः । सर्वविभक्त्यन्तः समासः : टायाः आदेशः टादेशः , टायां आदेशः टादेशः इति । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं ने यत्कार्यं प्राप्नोति तस्मिन्मुभावः न असिद्धः इति उच्यते नाभावः च एव तावत्न प्राप्नोति इति । न एषः दोषः । इह इङ्गितेन चेष्टितेन निमिषितेन महता वा सूत्रनिबन्धेन आचार्याणां अभिप्रायः लक्ष्यते । एततेव ज्ञापयति भवति अत्र नाभावः इति यतयं ने परतः असिद्धत्वप्रतिषेधं शास्ति । अथ वा द्विगताः अपि हेतवः भवन्ति । तत्यथा । आम्राः च सिक्ताः पितरः च प्रीणिताः भवन्ति । तथा वाक्यानि अपि द्विगतानि दृश्यन्ते । श्वेतः धावति । अलम्बुसानां याता इति । अथ वा वृद्धकुमारीवाक्यवतिदं द्रष्टव्यं । तत्यथा । वृद्धकुमारी इन्द्रेण उक्ता वरं वृणीष्व इति सा वरं अवृणीत पुत्राः मे बहुक्षीरघृतं ओदनं कांस्यपात्र्यां भुञ्जीरनिति । न च तावतस्याः पतिः भवति कुतः पुत्राः कुतः गावः कुतः धान्यं । तत्र्सनया एकेन वाक्येन पतिः पुत्राः गावः धान्यं इति सर्वं सङ्गृहीतं भवति । एवं इह अपि ने असिद्धत्वप्रतिषेधं ब्रुवता नाभावः अपि सङ्गृहीतः भवति ।
(पाणिनीयसूत्र ८,२।४) कि.,३८८।१६-३८९।६ रो. V,३६२-३६४ (कात्यायन वार्तिक)यण्स्वरः यणादेशे स्वरितयणः स्वरितार्थम्(वार्तिकान्त) । यण्स्वरः यणादेशे सिद्धः वक्तव्यः । किं प्रयोजनं । स्वरितयणः स्वरितार्थं । स्वरितयणः स्वरितत्वं यथा स्यात। खलप्वि अटति । खल्प्वि अश्नाति । तत्तर्हि वक्तव्यं । न वक्तव्यं । आह अयं स्वरितयणः इति न च अस्ति सिद्धः स्वरितः तत्र आश्रयात्सिद्धत्वं भविष्यति । (कात्यायन वार्तिक)आश्रयात्सिद्धत्वं इति चेतुदात्तात्स्वरिते दोषः ।(वार्तिकान्त) आश्रयात्सिद्धत्वं इति चेतुदात्तात्स्वरिते दोषः भवति । दध्याश । मध्वाश । एवं तर्हि योगविभागः करिष्यते । उदात्तयणः परस्य अनुदात्तस्य स्वरितः भवति । ततः स्वरितयणः । स्वरितयणः च परस्य अनुदात्तस्य स्वरितः भवति । उदात्तयणः इति एव । अथ वा स्वरितग्रहणं न करिष्यते । केन इदानीं स्वरितयणः परस्य अनुदात्तस्य स्वरितः भविष्यति । उदात्तयणः इति एव । ननु च स्वरितयणा व्यवहितत्वात्न प्राप्नोति । स्वरविधौ व्यञ्जनं अविद्यमानवतिति न अस्ति व्यवधानं । अथ वा न एवं विज्ञायते स्वरितस्य यण्स्वरितयण्स्वरितयणः इति । कथं तर्हि । स्वरिते यण्स्वरितयण्स्वरितयणः इति ।
(पाणिनीयसूत्र ८,२।६।१) कि.,३८९।७-१५ रो. V,३६४-३६५ स्वरितग्रहणं शक्यं अकर्तुं । कथं । अनुदात्ते परतः पदादौ वा उदात्तः इति एव सिद्धं । केन इदानीं स्वरितः भविष्यति । गाङ्गे अनूपे इति । आन्तर्यतः उदात्तानुदात्तयोः एकादेशः स्वरितः भविष्यति । इदं तर्हि प्रयोजनं तेन वर्ज्यमानता मा भूत। अथ क्रियमाणे अपि स्वरितग्रहणे यः सिद्धः स्वरितः तेन वर्ज्यमानता कस्मात्न भवति । कन्या अनूपे इति । बहिरङ्गलक्षणत्वात। असिद्धं बहिरङ्गं अन्तरङ्गे इति एवं न भविष्यति । यथा एव तर्हि क्रियमाणे स्वरितग्रहणे यः सिद्धः स्वरितः तेन वर्ज्यमानता न भवति एवं अक्रियमाणे अपि न भविष्यति । तस्मात्न अर्थः स्वरितग्रहणेन । बहिरङ्गलक्षणत्वात्सिद्धं ।
(पाणिनीयसूत्र ८,२।६।२) कि.,३८९।१६-३९४।४ रो. V,३६५-३७५ (कात्यायन वार्तिक)एकादेशस्वरः अन्तरङ्गः(वार्तिकान्त) । एकादेशस्वरः अन्तरङ्गः सिद्धः वक्तव्यः । किं प्रयोजनं । (कात्यायन वार्तिक)अयवायावेकादेशशतृस्वरैकाननुदात्तसर्वानुदात्तार्थं ।(वार्तिकान्त) अय। वृक्षे इदं प्लक्षे इदं । उदात्तानुदात्तयोः एकादेशः । तस्य एकादेशे उदात्तेनोदात्तः इति एतत्भवति । तस्य सिद्धत्वं वक्तव्यं आन्तर्यतः उदात्तस्य उदात्तः अयादेशः यथा स्यात। अवादेशः न अस्ति । आय। कुमार्यै इदं । उदात्तानुदात्तयोः एकादेशः । तस्य एकादेशे उदात्तेनोदात्तः इति एतत्भवति । तस्य सिद्धत्वं वक्तव्यं आन्तर्यतः उदात्तस्य उदात्तः आयादेशः यथा स्यात। न एततस्ति प्रयोजनं । एकादेशे कृते उदात्तयणोहल्पूर्वातिति उदात्तत्वं भविष्यति । इदं इह सम्प्रधार्यं । उदात्तत्वं क्रियतां एकादेशः इति किं अत्र कर्तव्यं । परत्वातुदात्तत्वं । नित्यः एकादेशः । कृते अपि उदात्तत्वे प्राप्नोति अकृते अपि प्राप्नोति । एकादेशः अपि अनित्यः । अन्यथास्वरस्य कृते उदात्तत्वे प्राप्नोति अन्यथास्वरस्य अकृते स्वरभिन्नस्य च प्राप्नुवन्विधिः अनित्यः भवति । अन्तरङ्गः तर्हि एकादेशः । का अन्तरङ्गता । वर्णौ आश्रित्य एकादेशः पदस्य उदात्तत्वं । एवं तर्हि इदं इह सम्प्रधार्यं । आट्क्रियतां उदात्तत्वं इति किं अत्र कर्तव्यं । परत्वाताडागमः । नित्यं उदात्तत्वं । कृते अपि आटि प्राप्नोति अकृते अपि प्राप्नोति । आटपि नित्यः । कृते अपि उदात्तत्वे प्राप्नोति अकृते अपि प्राप्नोति । अनित्यः आट। अन्यथास्वरस्य कृते उदात्तत्वे प्राप्नोति अन्यथास्वरस्य अकृते स्वरभिन्नस्य च प्राप्नुवन्विधिः अनित्यः भवति । उदात्तत्वं अपि अनित्यं । अन्यस्य कृते आटि प्राप्नोति अन्यस्य अकृते प्राप्नोति शब्दान्तरस्य च प्राप्नुवन्विधिः अनित्यः भवति । उभयोः अनित्ययोः परत्वाताडागमः आटि कृते अन्तरङ्गः एकादेशः । आव। वृक्षविदं । उदात्तानुदात्तयोः एकादेशः । तस्य एकादेशे उदात्तेन उदात्तः इति एतत्भवति । तस्य सिद्धत्वं वक्तव्यं आन्तर्यतः उदात्तस्य उदात्तः आवादेशः यथा स्यात। एकादेशस्वर । गाङ्गे अनूपे इति । उदात्तानुदात्तयोः एकादेशः । तस्य एकादेशे उदात्तेन उदात्तः इति एतत्भवति । तस्य सिद्धत्वं वक्तव्यं स्वरितोवानुदात्तेपदादौ इति एतत्यथा स्यात। शतृस्वर । तुदति नुदति । उदात्तानुदात्तयोः एकादेशः । तस्य एकादेशे उदात्तेन उदात्तः इति एतत्भवति । तस्य सिद्धत्वं वक्तव्यं शतुः अनुमः नद्यजादिः अन्तोदात्तातिति एषः स्वरः यथा स्यात। न एततस्ति प्रयोजनं । आचार्यप्रवृत्तिः ज्ञापयति सिद्धः एकादेशस्वरः शतृस्वरः इति यतयं अनुमः इति प्रतिषेधं शास्ति । कथं कृत्वा ज्ञापकं । न हि अन्तरेण उदात्तानुदात्तोः एकादेशं शत्रन्तं सनुम्कं अन्तोदात्तं अस्ति । ननु च इदं अस्ति यन्ती वन्ती । एततपि निघाते कृते न अन्तरेण उदात्तानुदात्तयोः एकादेशं शत्रन्तं सनुम्कं अन्तोदात्तं अस्ति । इदं इह सम्प्रधार्यं । निघातः क्रियतां एकादेशः इति किं अत्र कर्तव्यं । परत्वात्निघातः । नित्यः एकादेशः । कृते अपि निघाते प्राप्नोति अकृते अपि प्राप्नोति । एकादेशः अपि अनित्यः । अन्यथास्वरस्य कृते निघाते प्राप्नोति अन्यथास्वरस्य अकृते निघाते स्वरभिन्नस्य च प्राप्नुवन्विधिः अनित्यः भवति । अन्तरङ्गः तर्हि एकादेशः । का अन्तरङ्गता । वर्णौ आश्रित्य एकादेशः पदस्य निघातः । निघातः अपि अन्तरङ्गः । कथं । उक्तं एतत्पदग्रहणं परिमाणार्थं इति । उभयोः अन्तरङ्गयोः परत्वात्निघातः निघाते कृते एततपि न अन्तरेण उदात्तानुदात्तयोः एकादेशं अन्तोदात्तं भवति । शतृस्वर । एकानुदात्त । तुदन्ति लिखन्ति। उदात्तानुदात्तयोः एकादेशः । तस्य एकादेशे उदात्तेन उदात्तः इति एतत्भवति । तस्य सिद्धत्वं वक्तव्यं तेन वर्ज्यमानता यथा स्यात। सर्वानुदात्त । ब्राह्मणाः तुदन्ति । ब्राह्मणाः लिखन्ति । उदात्तानुदात्तयोः एकादेशः । तस्य एकादेशे उदात्तेनोदात्तः इति एतत्भवति । तस्य सिद्धत्वं वक्तव्यं । किं प्रयोजनं । तिङतिङः इति निघातः यथा स्यात। किं उच्यते अन्तरङ्गः इति । यः हि बहिरङ्गः असिद्धः एव असौ भवति । प्रपचतिति । सोमसुत्पचतिति । तत्तर्हि वक्तव्यं । न वक्तव्यं । सर्वत्र एव नुम्प्रतिषेधः ज्ञापकः सिद्धः एकादेशस्वरः अन्तरङ्गः इति । (कात्यायन वार्तिक)संयोगान्तलोपः रोः उत्त्वे हरिवः मेदिनं त्वा ।(वार्तिकान्त) संयोगान्तलोपः रोः उत्त्वे सिद्धः वक्तव्यः । किं प्रयोजनं । हरिवः मेदिनं त्वा । संयोगान्तलोपस्य असिद्धत्वात्हशि इति उत्त्वं न प्राप्नोति । (कात्यायन वार्तिक)प्लुतिः च ।(वार्तिकान्त) प्लुतिः च उत्त्वे सिद्धा वक्तव्या । सुस्रोत३ अत्र नु असि इति अत्र प्लुतेः असिद्धत्वाततः अति इति उत्त्वं प्राप्नोति । अप्लुतातप्लुते इति एतत्न वक्तव्यं भवति । न एततस्ति प्रयोजनं । क्रियते न्यासे एव । (कात्यायन वार्तिक)सिज्लोपः एकादेशे ।(वार्तिकान्त) सिज्लोपः एकादेशे सिद्धः वक्तव्यः । अलावीतपावीत। सिज्लोपस्य असिद्धत्वात्सवर्णदीर्घत्वं न प्राप्नोति । यदि पुनः इडादेः सिचः लोपः उच्येत । न एवं शक्यं । इह हि मा हि लावित्मा हि पावित्यदि अत्र इट्न स्यातनुदात्तस्य ईटः श्रवणं प्रसज्येत । इटि पुनः सति उक्तं एततर्थवत्तु चित्करणसामर्थ्यात्हि इटः उदात्तत्वं इति तत्र एकादेशे उदात्तेनोदात्तः इति उदात्तत्वं सिद्धं भवति । (कात्यायन वार्तिक)संयोगादिलोपः संयोगान्तलोपे (वार्तिकान्त)। संयोगादिलोपः संयोगान्तस्य लोपे सिद्धः वक्तव्यः । काष्ठतट्कूटतट। संयोगादिलोपस्य असिद्धत्वात्संयोगान्तलोपः प्राप्नोति । न एषः दोषः । उकं एततपवादः वचनप्रामाण्यातिति । (कात्यायन वार्तिक)निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु ।(वार्तिकान्त) निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु सिद्धः वक्तव्यः । वृक्णः वृक्णवान। निष्ठादेशस्य असिद्धत्वात्झलि इति षत्वं प्राप्नोति । स्वर । क्षिवः । निष्ठादेशस्य असिद्धत्वात्निष्ठाचद्व्यजनातिति एषः स्वरः न प्राप्नोति । प्रत्यय । क्षीवेण तरति क्षीविकः । निष्ठादेशस्य असिद्धत्वात्द्व्यचः ठनिति ठन्न प्राप्नोति । इड्विधि । निष्ठादेशस्य असिद्धत्वात्वलादिलक्षणः इट्प्राप्नोति । ननु च यः प्रत्ययविधौ सिद्धः सिद्धः असौ इड्विधौ । इदं तर्हि प्रयोजनं । ओलस्जी लग्नः । निष्ठादेशः सिद्धः वक्तव्यः नेड्वशिकृति इति इट्प्रतिषेधः यथा स्यात। ईदित्करणं न कर्तव्यं भवति । एततपि न अस्ति प्रयोजनं । क्रियते एतत्न्यासे एव । (कात्यायन वार्तिक)वस्वादिषु दत्वं सौ दीर्घत्वे ।(वार्तिकान्त) वस्वादिषु दत्वं सौ दीर्घत्वे सिद्धं वक्तव्यं । उखास्रत। पर्णध्वत। दत्वस्य असिद्धत्वातत्वसन्तस्य इति दीर्घत्वं प्राप्नोति । अधातोः इति न वक्तव्यं भवति । न एततस्ति प्रयोजनं । क्रियते न्यासे एव । (कात्यायन वार्तिक)अदसः ईत्त्वोत्वे स्वरे बहिष्पदलक्षणे ।(वार्तिकान्त) अदसः ईत्त्वोत्वे स्वरे बहिष्पदलक्षणे सिद्धे वक्तव्ये । अमी अत्र । अमी आसते । अमू अत्र । अमू आसाते । ईत्त्वोत्वयोः असिद्धत्वातेचः इति अयावेकादेशाः प्राप्नुवन्ति । किं उच्यते बहिष्पदलक्षणे इति । यः हि अन्यः असिद्धः एव असौ भवति । अमुया अमुयोः इति । (कात्यायन वार्तिक)प्रगृह्यसञ्ज्ञायां च ।(वार्तिकान्त) प्रगृह्यसञ्ज्ञायां च सिद्धे वक्तव्ये । अमी अत्र । अमी आसते । अमू अत्र । अमू आसाते । ईत्त्वोत्वयोः असिद्धत्वातदसोमातिति प्रगृह्यसञ्ज्ञा न प्राप्नोति । किं अर्थं इदं उभयं उच्यते न प्रगृह्यसञ्ज्ञायां इति एव स्वरे अपि बहिष्पदलक्षणे चोदितं स्यात। पुरस्तातिदं आचार्येण दृष्टं स्वरे बहिष्पदलक्षणे इति तत्पठितं । ततः उत्तरकालं इदं दृष्टं प्रगृह्यसञ्ज्ञायां च इति तदपि पठितं । न च इदानीं आचार्याः सूत्राणि कृत्वा निवर्तयन्ति । (कात्यायन वार्तिक)प्लुतिः तुग्विधौ छे ।(वार्तिकान्त) प्लुतिः तुग्विधौ छे सिद्धा वकव्या । अग्न३इ च्छत्त्रं । पट३उ च्छत्त्रं । प्लुतेः असिद्धत्वात्छेच इति तुक्न प्राप्नोति । किं उच्यते छे इति । यः हि अन्यः असिद्धः एव असौ भवति । अग्निचि३त्सोमसु३त।(कात्यायन वार्तिक)श्चुत्वं धुट्त्वे ।(वार्तिकान्त) श्चुत्वं धुट्त्वे सिद्धं वक्तव्यं । अट्श्च्योतति । पट्स्च्योतति । श्चुत्वस्य असिद्धत्वात्डःसिधुटिति धुट्प्रसज्येत । (कात्यायन वार्तिक)अभ्यासजश्त्वचर्त्वं एत्त्वतुकोः ।(वार्तिकान्त) अभ्यासजश्त्वचर्त्वं एत्त्वतुकोः सिद्धं वक्तव्यं । बभणतुः बभणुः । अभ्यासादेशस्य असिद्धत्वातेत्त्वं प्राप्नोति । उचिच्छिषति । अभ्यासादेशस्य असिद्धत्वात्छेच इति तुक्प्राप्नोति । (कात्यायन वार्तिक)द्विर्वचने परसवर्णत्वं ।(वार्तिकान्त) द्विर्वचने परसवर्णत्वं सिद्धं वक्तव्यं । सय्Áयन्ता सव्Áवत्सरः तल्Á लोकं यल्Á लोकं इति परसवर्णस्य असिद्धत्वात्यरः इति द्विर्वचनं न प्राप्नोति । (कात्यायन वार्तिक)पदाधिकारः चेत्लत्वघत्वनत्वरुत्वषत्वणत्वानुनासिकछत्वानि ।(वार्तिकान्त) पदाधिकारः चेत्लत्वघत्वनत्वरुत्वषत्वणत्वानुनासिकछत्वानि सिद्धानि वक्तव्यानि । लत्व गरः गरः । गलः गलः । लत्व। घत्व । द्रोग्धा द्रोग्धा । द्रोढा द्रोढा । घत्व । नत्व। नुन्नः नुन्नः । नुत्तः नुत्तः । नत्व । रुत्व । अभिनः अभिनः । अभिनतभिनत। रुत्व षत्व । मातुःष्वसा मातुःष्वसा । मातुःस्वसा मातुःस्वसा पितुःष्वसा पितुःष्वसा । पितुःस्वसा पितुःस्वसा । षत्व । णत्व । माषवापाणि माषवापाणि । माषवापानि माषवापानि । णत्व । अनुनासिक । नाङ्नयनं नाङ्नयनं । वाग्नयनं वाग्नयनं । अनुनासिक । छत्व । वाक्छयनं वाक्छयनं । वाक्शयनं वाक्शयनं । उभयथा च अयं दोषः यदि अपि स्थाने द्विर्वचनं अथ अपि द्विःप्रयोगः । कथं । यदि तावत्स्थाने द्विर्वचनं सम्प्रमुग्धत्वात्प्रकृतिप्रत्ययस्य लत्वाद्यभावः । अथ द्विःप्रयोगः असिद्धत्वात्लत्वादीनि निवर्तेरन।
(पाणिनीयसूत्र ८,२।७।१) कि.,३९४।५-९ रो. V,३७५ अन्तग्रहणं किमर्थं । (कात्यायन वार्तिक)नलोपे अन्तग्रहणं पदाधिकारस्य विशेषणत्वात्(वार्तिकान्त) । नलोपे अन्तग्रहणं क्रियते । किं कारणं । पदाधिकारस्य विशेषणत्वात। पदाधिकारः विशेषणं । कथं । पदस्य इति न एषा स्थानषष्ठी । का तर्हि । विशेषणषष्ठी ।
(पाणिनीयसूत्र ८,२।७।२) कि.,३९४।१०-१९ रो. V,३७५-३७६ (कात्यायन वार्तिक)अह्नः नलोपप्रतिषेधः(वार्तिकान्त) । अह्नः नलोपप्रतिषेधः वक्तव्यः । अहोभ्यां अहोभिः इति । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । रुः अत्र बाधकः भविष्यति । असिद्धः रुः तस्य असिद्धत्वात्नलोपः प्राप्नोति । अनवकाशः रुः नलोपं बाधिष्यते । सावकाशः रुः । कः अवकाशः । अनन्त्यः अकारः । आचार्यप्रवृत्तिः ज्ञापयति न अनन्त्यस्य रुः भवति इति यतयं अहन्ग्रहणं करोति । (कात्यायन वार्तिक)अहन्ग्रहणातिति चेत्सम्बुद्ध्यर्थं वचनं ।(वार्तिकान्त) अहन्ग्रहणातिति चेत्सम्बुद्ध्यर्थं एतत्स्यात। हे अहः इति । यत्तर्हि रुत्वं शास्ति । एततपि सम्बुद्ध्यर्थं एव स्यात। हे दीर्घाहः अत्र । यत्तर्हि रूपरात्रिरथन्तरेषु उपसङ्ख्यानं करोति तत्ज्ञापयति आचार्यः न अनन्त्यस्य रुः भवति इति । कथं कृत्वा ज्ञापकं । न हि अस्ति विशेषः रूपरात्रिरथन्तरेषु अनन्त्यस्य रौ वा रे वा ।
(पाणिनीयसूत्र ८,२।८) कि.,३९४।२०-३९५।१८ रो. V,३७७-३७८ (कात्यायन वार्तिक)न ङिसम्बुद्ध्योः अनुत्तरपदे(वार्तिकान्त) । न ङिसम्बुद्ध्योः अनुत्तरपदे इति वक्तव्यं । इह मा भूत। चर्मणि तिला अस्य चर्मतिलः इति । राजन्वृन्दारक राजवृन्दारक इति । (कात्यायन वार्तिक)वा नपुंसकानां ।(वार्तिकान्त) वा नपुंसकानां इति वक्तव्यं । हे चर्म हे चर्मन। हे वर्म हे वर्मन। तत्तर्हि अनुत्तरपदे इति वक्तव्यं । न वक्तव्यं । न ङिसम्बुद्ध्योः इति उच्यते न च अत्र ङिसम्बुद्धी पश्यामः । प्रत्ययलक्षणेन । न लुमता तस्मिनिति प्रत्ययलक्षणस्य प्रतिषेधः । न क्वचित्ङिः लोपेन लुप्यते सर्वत्र लुमता एव । यथा एव इह भवति आर्द्रे चर्मन्लोहिते चर्मनिति एवं इह अपि स्यात्चर्मणि तिला अस्य चर्मतिलः इति । तस्मातुपसङ्ख्यानं कर्तव्यं । एवं तर्हि ङ्यर्थेन तावत्न अर्थः । (कात्यायन वार्तिक)भत्वात्तु ङौ प्रतिषेधानर्थक्यं ।(वार्तिकान्त) ङौ प्रतिषेधः अनर्थकः । किं कारणं । भत्वात। भसञ्ज्ञा अत्र भविष्यति । यदि तर्हि भसञ्ज्ञा अत्र भवति रथन्तरे सामनिति अत्र अल्लोपः अनः इति अल्लोपः प्राप्नोति । न एषः दोषः । उक्तं उभयसञ्ज्ञानि अपि छन्दांसि दृश्यन्ते तद्यथा सः सुष्टुभा सः ऋक्वता गणेन पदत्वात्कुत्वं भत्वात्जश्त्वं न भवति । एवं इह अपि पदत्वातल्लोपः न भत्वात्नलोपः न भविष्यति । तस्मात्न अर्थः ङिग्रहणेन । सम्बुद्ध्यर्थेन च अपि न अर्थः । कथं । सम्बुद्ध्यन्तानां असमासः । राजवृन्दारक इति । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । इह समानार्थेन वाक्येन भवितव्यं समासेन च यः च इह अर्थः वाक्येन गम्यते न असौ जातु चित्समासेन गम्यते । अवयवसम्बोधनं वाक्येन गम्यते समुदायसम्बोधनं समासेन । वा नपुंसकानां इति एतत्वक्तव्यं एव ।
(पाणिनीयसूत्र ८,२।९, ४२) कि.,३९५।१९-२४ रो. V,३७८ (कात्यायन वार्तिक)अनन्त्ययोः अपि निष्ठामतुपोः आदेशः(वार्तिकान्त) । निष्ठामतुपोः आदेशः अनन्त्ययोः अपि इति वक्तव्यं । भिन्नवन्तौ भिन्नवन्तः । वृक्षवन्तौ वृक्षवन्तः । न वक्तव्यं । वचनात्भविष्यति । अस्ति वचने प्रयोजनं । किं । भिन्नवान्छिन्नवान। वृक्षवान्प्लक्षवान।
(पाणिनीयसूत्र ८,२।९) कि.,३९६।१-५ रो. V,३७८-३७९ (कात्यायन वार्तिक)नार्मते प्रतिषेधः(वार्तिकान्त) । नार्मते प्रतिषेधः वक्तव्यः । नृमतः नार्मतः इति । (कात्यायन वार्तिक)उक्तं वा ।(वार्तिकान्त) किं उक्तं । निष्ठामतुपोः तावतुक्तं न वा पदाधिकारस्य विशेषणत्वातिति । नार्मते अपि उक्तं न वा बहिरङ्गलक्षणत्वातिति ।
(पाणिनीयसूत्र ८,२।११-१२) कि.,३९६।६-१३ रो. V,३७९ किं अयं एकयोगः आहोस्वित्नानायोगौ । किं च अतः । यदि एकयोगः हीवती कपीवती अत्र न प्राप्नोति । अथ नानायोगौ इक्षुमती द्रुमती अत्र अपि प्राप्नोति । यथा इच्छसि तथा अस्तु । अस्तु तावतेकयोगः । कथं अहीवती कपीवती । आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकानां वत्वं इति यतयं अन्तोऽवत्याः ईवत्याः इति आह । अथ वा पुनः अस्तु नानायोगौ । ननु च उक्तं इक्षुमती द्रुमती अत्र अपि प्राप्नोति इति । यवादिषु पाथः करिष्यते ।
(पाणिनीयसूत्र ८,२।१५) कि.,३९६।१४-३९७।२ रो. V,३७९-३८० छन्दसि इरः इति उच्यते तत्र ते विश्वकर्माणं ते सप्तर्षिमन्तं इति अत्र अपि प्राप्नोति । न एषः दोषः । न एवं विज्ञायते छन्दसि इरः इति । कथं तर्हि । छन्दसि ईरः इति । एवं अपि त्विषीमान्पतीमानिति अत्र अपि प्राप्नोति । न एषः दोषः । विहितविशेषणं ईकारग्रहङं । ईकारान्तात्यः विहितः इति । एवं अपि सूरं ते द्यावापृथिवीमन्तं इति अत्र अपि प्राप्नोति । इह च न प्राप्नोति त्रिवतीः याज्यानुवाक्याः भवन्ति इति । एवं तर्हि परिगणनं कर्तव्यं । त्रिहर्यधिपत्यग्निरे । त्रिवतीः याज्यानुवाक्याः भवन्ति । त्रि । हरि । हरिवः मेदिनं त्वा । हरि । अधिपति । अधिपतिवतीः जुहोति । अधिपति । अग्नि । चरुः अग्निवानिव । अग्नि । रे । आ रेवनेतु नो विश इति । यदि तर्हि परिगणनं क्रियते सरस्वतीवान्भारतीवानपूपवान्दधिवान्चरुः इति अत्र न प्राप्नोति । एवं तर्हि छन्दसि इरः बहुलं इति वक्तव्यं ।
(पाणिनीयसूत्र ८,२।१६) कि.,३९७।३-३९८।१० रो. V,३८०-३८२ यदि पुनः अयं नुट्पूर्वान्तः क्रियेत । (कात्यायन वार्तिक)अनः नुकि विनामरुविधिप्रतिषेधः(वार्तिकान्त) । अनः नुकि सति विनामः विधेयः । अक्षण्वान। पदान्तस्य न इति प्रतिषेधः प्राप्नोति । रुः च प्रतिषेध्यः । सुपथिन्तरः । नश्छव्यप्रशानिति रुः प्राप्नोति । अस्तु तर्हि परादिः । (कात्यायन वार्तिक)परादौ वत्वप्रतिषेधः अवग्रहः च ।(वार्तिकान्त) यदि परादिः वत्वस्य प्रतिषेधः वक्तव्यः । अक्षण्वान। मादुपधायाश्चमतोर्वोऽयवादिभ्यः इति वत्वं प्राप्नोति । अवग्रहः च अनिष्टे देशे प्राप्नोति । अक्षण्वान। अस्तु तर्हि पूर्वान्तः । ननु च उक्तं अनः नुकि विनामरुविधिप्रतिषेधः इति । (कात्यायन वार्तिक)भत्वात्सिद्धं ।(वार्तिकान्त) भसञ्ज्ञा वक्तव्या । यदि तर्हि भसञ्ज्ञा अल्लोपोऽनः इति अल्लोपः प्राप्नोति । (कात्यायन वार्तिक)अनः तु प्रकृतिभावे मतुब्ग्रहणं छन्दसि ।(वार्तिकान्त) अनः तु प्रकृतिभावे मतुब्ग्रहणं छन्दसि वक्तव्यं । इह तर्हि सुपथिन्तरः नान्तस्य टिः तद्धिते लुप्यते इति लोपः प्राप्नोति । (कात्यायन वार्तिक)घग्रहणं च ।(वार्तिकान्त) घग्रहणं च कर्तव्यं । तत्तर्हि इदं बहु वक्तव्यं । नुक्वक्तव्यः । भसञ्ज्ञा च वक्तव्या । अनः तु प्रकृतिभावे मतुब्ग्रहणं छन्दसि वक्तव्यं । घग्रहणं च कर्तव्यं इति । न कर्तव्यं । यत्तावतुच्यते नुक्वक्तव्यः इति नुकः एषः परिहारः भत्वात्सिद्धं इति । भसञ्ज्ञा वक्तव्या इति क्रियते न्यासे एव अयस्मयादीनि छन्दसि इति । यतपि उच्यते अनः तु प्रकृतिभावे मतुब्ग्रहणं छन्दसि घग्रहणं च कर्तव्यं इति न कर्तव्यं । उभयसञ्ज्ञानि अपि हि छन्दांसि दृश्यन्ते । तत्यथा । सः सुष्टुभा स ऋक्वता गणेन । पदत्वात्कुत्वं भत्वात्जश्त्वं न भवति । एवं इह अपि पदत्वातल्लोपटिलोपौ न भत्वात्विनामरुविधिप्रतिषेधौ भविष्यतः । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं परादौ वत्वप्रतिषेधः अवग्रहः च इति । यत्तावतुच्यते वत्वप्रतिषेधः इति निर्दिश्यमानस्य आदेशाः भवन्ति इति एवं न भविष्यति । यः तर्हि निर्दिश्यते तस्य न प्राप्नोति । किं कारणं । नुटा व्यवहितत्वात। असिद्धः नुट्तस्य असिद्धत्वात्भविष्यति । अवग्रहे अपि न लक्षणेन पदकाराः अनुवर्त्याः पदकारैः नाम लक्षणं अनुवर्त्यं । यथालक्षणं पदं कर्तव्यं ।
(पाणिनीयसूत्र ८,२।१७) कि.,३९८।११-१५ रो. V,३८२ (कात्यायन वार्तिक)ईत्रथिनः(वार्तिकान्त) । रथिनः ईत्वक्तव्यः । रथीतरः । (कात्यायन वार्तिक)भूरिदाव्नः तुट।(वार्तिकान्त) भुरिदाव्नः तुट्वक्तव्यः । भूरिदावत्तरः जनः ।
(पाणिनीयसूत्र ८,२।१८) कि.,३९८।१६-२३ रो. V,३८२-३८३ कृपणादीनां प्रतिषेधः वक्तव्यः । कृपणः कृपाणः कृपीटं । वालमूललघ्वलमड्गुलीनां वा लः रं आपद्यते इति वक्तव्यं । अश्ववालः अश्ववारः । मूलदेवः मूरदेवः । वरुणस्य लघुस्यदः वरुणस्य रघुस्यदः । अलं भक्ताय अरं भक्ताय । सुबाहुः स्वङ्गुलिः सुबाहुः स्वङ्गुरिः । सञ्ज्ञाछन्दसोः वा कपिलकादीनां इति वक्तव्यं । कपिरकः कपिलकः । तिल्विरीकः तिल्विलीकः । रोमाणि लोमानि । पांसुरं पांसुलं । कर्म कल्म । शुक्रः शुक्लः ।
(पाणिनीयसूत्र ८,२।१९) कि.,३९९।१-१९ रो. V,३८३-३८४ किं इदं अयतिग्रहणं रेफविशेषणं : अयतिपरस्य रेफस्य लः भवति सः चेतुपसर्गस्य भवति इति । आहोस्वितुपसर्गविशेषणं : अयतिपरस्य उपसर्गस्य यः रेफः तस्य लः भवति इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)रेफस्य अयतौ इति चेत्परेः उपसङ्ख्यानम्(वार्तिकान्त) । रेफस्य अयतौ इति चेत्परेः उपसङ्ख्यानं कर्तव्यं । पल्ययते । वचनात्भविष्यति । अस्ति वचने प्रयोजनं । किं । प्लायते पलायते । अस्तु तर्हि उपसर्गविशेषणं । (कात्यायन वार्तिक)उपसर्गस्य इति चेतेकादेशे अप्रसिद्धिः ।(वार्तिकान्त) उपसर्गस्य इति चेतेकादेशे अप्रसिद्धिः भवति । प्लायते पलायते । एकादेशे कृते व्यपवर्गाभावात्न प्राप्नोति । अन्तादिवत्भावेन व्यपवर्गः । उभयतः आश्रये न अन्तादिवत। एवं तर्हि एकादेशः पूर्वविधौ स्थानिवत्भवति इति स्थानिवद्भावात्व्यपवर्गः । प्रतिषिध्यते अत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवतिति । दोषाः एव एते तस्याः परिभाषायाः तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति । अथ वा पुनः अस्तु रेफविशेषणं । ननु च उक्तं रेफस्य अयतौ इति चेत्परेः उपसङ्ख्यानं इति । वचनात्भविष्यति । ननु च उक्तं अस्ति वचने प्रयोजनं किं प्लायते पलायते इति । अत्र अपि अकारेण व्यवहितत्वात्न प्राप्नोति । एकादेशे कृते न अस्ति व्यवधानं । एकादेशः पूर्वविधौ स्थानिवत्भवति इति स्थानिवद्भावात्व्यवधानं एव । प्रतिषिध्यते अत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवतिति । दोषाः एव एते तस्याः परिभाषायाः तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति ।
(पाणिनीयसूत्र ८,२।२१) कि.,३९९।२०-४००।२ रो. V,३८५ णौ उपसङ्ख्यानं कर्तव्यं । इह अपि यथा स्यात। निगार्यते निगाल्यते । किं पुनः कारणं न सिध्यति । अचि इति उच्यते न च अत्र अजादिं पश्यामः । प्रत्ययलक्षणेन । वर्णाश्रये न अस्ति प्रत्ययलक्षणं । एवं तर्हि स्थानिवद्भावात्भविष्यति । प्रतिषिध्यते अत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवतिति । अतः उत्तरं पठति । (कात्यायन वार्तिक)गिरतेः लत्वे णौ उक्तम्(वार्तिकान्त) । किं उक्तं । तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति ।
(पाणिनीयसूत्र ८,२।२२।१) कि.,४००।३-४ रो. V,३८५ योगे च इति वक्तव्यं । इह अपि यथा स्यात। परियोगः पलियोगः ।
(पाणिनीयसूत्र ८,२।२२।२) कि.,४००।५-२४ रो. V,३८५-३८७ (कात्यायन वार्तिक)सङि लत्वसलोपसंयोगादिलोपकुत्वदीर्घत्वानि(वार्तिकान्त) । सङि इति प्रकृत्य लत्वसलोपसंयोगादिलोपकुत्वदीर्घत्वानि वक्तव्यानि । किं प्रयोजनं । (कात्यायन वार्तिक)प्रयोजनं गिरौ गिरः पयः धावति द्विष्टरां दृषत्स्थानं काष्ठशक्स्थाता क्रुञ्चा धुर्यः इति ।(वार्तिकान्त) गिऋऔ गिरः इति अत्र अचिविभाषा इति लत्वं प्राप्नोति । सङि इति वचनात्न भवति । न एततस्ति प्रयोजनं । उक्तं एतत्धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात्सिद्धं इति । पयः धावति इति अत्र धिच इति सलोपः प्राप्नोति सङि इति वचनात्न भवति । एततपि न अस्ति प्रयोजनं । वक्ष्यति एतत्धिसकारे सिचः लोपः इति । द्विष्टरां इति अत्र ह्रस्वातङ्गातिति सलोपः प्राप्नोति सङि इति वचनात्न भवति । एततपि न अस्ति प्रयोजनं । अत्र अपि सिचः इति एव अनुवर्तिष्यते । दृषत्स्थानं इति अत्र झलोझलि इति सलोपः प्राप्नोति सङि इति वचनात्न भवति । एततपि न अस्ति प्रयोजनं । अत्र अपि सिचः इति एव अनुवर्तिष्यते । काष्ठशक्स्थाता इति अत्र स्कोःसंयोगाद्योरन्तेच इति ककारलोपः प्राप्नोति सङि इति वचनात्न भवति । एततपि न अस्ति प्रयोजनं । काष्ठशकेव न अस्ति कुतः यः काष्ठशकि तिष्ठेत। क्रुञ्चा इति अत्र चोःकुः झलि इति कुत्वं प्राप्नोति सङि इति वचनात्न भवति । एततपि न अस्ति प्रयोजनं । निपातनातेतत्सिद्धं । किं निपातनं । ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां इति । धुर्यः इति अत्र हलिच इति दीर्घत्वं प्राप्नोति सङि इति वचनात्न भवति । एततपि न अस्ति प्रयोजनं । नभकुर्छुरां इति प्रतिषेधः भविष्यति ।
(पाणिनीयसूत्र ८,२।२३।१) कि.,४०१।१-९ रो. V,३८७-३८८ (कात्यायन वार्तिक)संयोगान्तस्य लोपे यणः प्रतिषेधः (वार्तिकान्त)। संयोगान्तस्य लोपे यणः प्रतिषेधः वक्तव्यः । दधि अत्र मधु अत्र इति । संयोगादिलोपे च यणः प्रतिषेधः वक्तव्यः । काकी अर्थं वासी अर्थं । (कात्यायन वार्तिक)न वा झलः लोपात्(वार्तिकान्त) । न वा वक्तव्यः । किं कारणं । झलः लोपात। झलः लोपः संयोगान्तलोपः वक्तव्यः । (कात्यायन वार्तिक)बहिरङ्गलक्षणत्वात्वा ।(वार्तिकान्त) अथ वा बहिरङ्गः यणादेशः अन्तरङ्गः लोपः असिद्धं बहिरङ्गं अन्तरङ्गे ।
(पाणिनीयसूत्र ८,२।२३।२) कि.,४०१।१०-४०२।२ रो. V,३८८-३८९ (कात्यायन वार्तिक)संयोगान्तलोपे सग्रहणम्(वार्तिकान्त) । संयोगान्तलोपे सग्रहणं कर्तव्यं । संयोगान्तलोपः सस्य च इति वक्तव्यं । इह अपि यथा स्यात। श्रेयान्भूयान्ज्यायान। किं पुनः कारणं न सिध्यति । परत्वात्रुः प्राप्नोति । असिद्धः रुः तस्य असिद्धत्वात्लोपः भविष्यति । न सिध्यति । किं कारणं । (कात्यायन वार्तिक)रुविधानस्य अनवकाशत्वात।(वार्तिकान्त) अनवकासः रुः लोपं बाधेत । सावकाशः रुः । कः अवकाशः । पयः शिरः । ननु च अत्र अपि जश्त्वं प्राप्नोति । सः यथा एव रुः जश्त्वं बाधते एवं लोपं अपि बाधेत । न बाधते । किं कारणं । येन नाप्राप्ते तस्य बाधनं भवति न च अप्राप्ते जश्त्वे रुः आरभ्यते लोपे पुनः प्राप्ते च अप्राप्ते च । (कात्यायन वार्तिक)योगविभागात्सिद्धं ।(वार्तिकान्त) अथ वा योगविभागः करिष्यते । एवं वक्ष्यामि । संयोगान्तस्य लोपः अरात। संयोगान्तस्य लोपः भवति अरात। ततः सस्य । सस्य च लोपः भवति संयोगान्तस्य । किं अर्थं पुनः इदं उच्यते । प्रतिषिद्धार्थं रुबाधनार्थं च । अथ वा यतेतत्रात्सस्य इति सग्रहणं तत्पुरस्तातपक्रक्ष्यते । संयोगान्तस्य लोपः । ततः सस्य । सस्य च संयोगान्तस्य लोपः भवति । ततः रात। रात्सस्य एव संयोगान्तस्य लोपः भवति । अथ वा रात्सस्य इति अत्र संयोगान्तस्य लोपः इति एततनुवर्तिष्यते ।
(पाणिनीयसूत्र ८,२।२५) कि.,४०२।३-४०३।२४ रो. V,३८९-३९१ (कात्यायन वार्तिक)धि सकारे सिचः लोपः(वार्तिकान्त) । धि सकारे सिचः लोपः वक्तव्यः । किं प्रयोजनं । (कात्यायन वार्तिक)चकाद्धि इति प्रयोजनं ।(वार्तिकान्त) इह मा भूत। चकाद्धि पलितं शिरः । यदि तर्हि सिचः लोपः इति उच्यते । (कात्यायन वार्तिक)आशाध्वं तु कथं ते स्यात।(वार्तिकान्त) आशाध्वं इति अत्र न प्राप्नोति । (कात्यायन वार्तिक)जश्त्वं सस्य भविष्यति ।(वार्तिकान्त) जश्त्वं अत्र सकारस्य भविष्यति । (कात्यायन वार्तिक)सर्वत्र एवं प्रसिद्धं स्यात।(वार्तिकान्त) सर्वत्र एवं जश्त्वेन सिद्धं स्यात। इह अपि आयन्ध्वं अरन्ध्वं इति जश्त्वेन एव सिद्धं । (कात्यायन वार्तिक)श्रुतिः च अपि न भिद्यते ।(वार्तिकान्त) श्रुतिकृतः च अपि न कः चित्भेदः भवति । (कात्यायन वार्तिक)लुङः च अपि न मूर्धन्ये ग्रहणं ।(वार्तिकान्त) तत्र अयं अपि अर्थः इणःषीध्वंलुङ्लिटान्धोऽङ्गातिति अत्र लुङ्ग्रहणं न कर्तव्यं । इह अपि अच्योड्ढ्वं अप्लोड्ढ्वं इति षत्वे सिचः धस्य ष्टुत्वे च कृते जश्त्वेन सिद्धं । (कात्यायन वार्तिक)सेटि दुष्यति ।(वार्तिकान्त) सेटि दोषः भवति । इदं एव रूपं स्यातलविड्ढ्वं इदं न स्यातलविध्वं इति । तस्मात्सिचः ग्रहणं कर्तव्यं । यदि तर्हि सिचः ग्रहणं क्रियते । (कात्यायन वार्तिक)घसिभस्योः न सिध्येत्तु ।(वार्तिकान्त) घसिभस्योः न सिध्यति । सग्धिः च मे सपीतिः च मे, बब्धां ते हरी धानाः इति अत्र न प्राप्नोति । (कात्यायन वार्तिक)तस्मात्सिज्ग्रहणं न तत।(वार्तिकान्त) तस्मात्धिच इति अत्र सिचः ग्रहणं न कर्तव्यं । कथं चकाद्धि पलितं शिरः इति । एवं तर्हि सिज्ग्रहणं कर्तव्यं । कथं सग्धिः च मे सपीतिः च मे , बब्धं ते हरी धानाः इति । इह तावत्सग्धिः इति न एतत्घसेः रूपं । किं तर्हि सघेः एतत्रूपं । बब्धां ते हरी धानाः इति न एतत्भसेः रूपं । किं तर्हि बन्धेः एतत्रूपं । (कात्यायन वार्तिक)छान्दसः वर्णलोपः वा यथा इष्कर्तारमध्वरे ।(वार्तिकान्त) अथ वा छान्दसः वर्णलोपः भविष्यति यथा इष्कर्तारमध्वरे । तत्यथा । तुभ्येदं अग्ने । तुभ्यं इदं अग्ने इति प्राप्ते । आम्बानां चरुः । नाम्बानां चरुः इति प्राप्ते । आव्याधिनीः उगणाः । आव्याधिनीः सुगणाः इति प्राप्ते । इष्कर्तारं अध्वरस्य । निष्कर्तारं इति प्राप्ते । शिवा उद्रस्य भेषजी । शिवा रुद्रस्य भेषजीति प्राप्ते । तस्मात्सिज्ग्रहणं कर्तव्यं । न कर्तव्यं । यतेतत्रात्सस्य इति सकारग्रहणं तत्सिचः ग्रहणं विज्ञास्यते । कथं । रात्सस्य इति उच्यते न च अन्यः रेफात्परः सकारः अस्ति अन्यततः सिचः । ननु च अयं अस्ति मातुः पितुः इति । तस्मात्सिचः ग्रहणं कर्तव्यं । न कर्तव्यं । कस्मात्न भवति चकाद्धि पलितं शिरः इति । इष्टं एव एतत्सङ्गृहीतं । चकाधि इति एव भवितव्यं । (कात्यायन वार्तिक)धि सकारे सिचः लोपः । चकाद्धि इति प्रयोजनं । आशाध्वं तु कथं ते स्यात। जश्त्वं सस्य भविष्यति । सर्वत्र एवं प्रसिद्धं स्यात। श्रुतिः च अपि न भिद्यते । लुङः च अपि न मूर्धन्ये ग्रहणं । सेटि दुष्यति । घसिभस्योः न सिध्येत्तु । तस्मात्सिज्ग्रहणं न तत। छान्दसः वर्णलोपः वा यथा इष्कर्तारमध्वरे । दादेर्धातोर्घः(वार्तिकान्त)
(पाणिनीयसूत्र ८,२।३२।१) कि.,४०३।२५-४०४।२ रो. V,३९२ इह दोग्धा दोग्धुं इति घत्वस्य असिद्धत्वात्ढत्वं प्राप्नोति । न एषः दोषः । उक्तं एततपवादः वचनप्रामाण्यातिति । अथ वा एवं वक्ष्यामि । हः ढः अदादेः । हः ढः भवति अदादेः । ततः धातोः घः इति । दादेः इति अनुवर्तते न इति निवृत्तं ।
(पाणिनीयसूत्र ८,२।३२।२) कि.,४०४।३-८ रो. V,३९२-३९३ दादेः इति उच्यते तत्र इदं न सिध्यति । अधोक। क्व तर्हि स्यात। मा स्म धोक। न एषः दोषः । धातोः इति न एषा दादिसमानाधिकरणा षष्ठी । दादेः धातोः इति । का तर्हि । अवयवयोगा एषा षष्ठी । धातोः यः दादिः अवयवः इति । सा च अवश्यं अवयवयोगा षष्ठी विज्ञेया उत्तरार्था । किं प्रयोजनं । एकाचः बशः भष्झषन्तस्य स्ध्वोः इति इह अपि यथा स्यातः गर्दभयतेः अप्रत्ययः गर्धपिति । यदि अवयवयोगा षष्ठी दोग्धा दोग्धुं इति अत्र न प्राप्नोति । एषः अपि व्यपदेशिवद्भावेन धातोः दादिः अवयवः भवति ।
(पाणिनीयसूत्र ८,२।३२।३) कि.,४०४।९-११ रो. V,३९३ (कात्यायन वार्तिक)हृग्रहोः भः छन्दसि हस्य(वार्तिकान्त) । हृग्रहोः छन्दसि हस्य भत्वं वक्तव्यं । गर्दभेन सम्भरति । मरुतस्य ग्रभीता । सामिधेन्यः जभ्रिरे । उद्ग्राभं च निग्राभं च ब्रह्म देवाः अवीवृधन।
(पाणिनीयसूत्र ८,२।३८।१) कि.,४०४।१२-२४ रो. V,३९३ किमर्थः चकारः । स्ध्वोः इति एततनुकृष्यते । न एततस्ति प्रयोजनं । सिद्धं स्ध्वोः पूर्वेण एव । न सिध्यति । किं कारणं । अबशादित्वात। ननु च जश्त्वे कृते बशादिः । असिद्धं जश्त्वं तस्य असिद्धत्वात्न बशादिः । एवं तर्हि सिद्धकाण्डे पठितं अभ्यासजश्त्वचर्त्वं एत्त्वतुकोः इति । एत्त्वतुकोः ग्रहणं न करिष्यते । अभ्यासजश्त्वचर्त्वं सिद्धं इति एव । एवं अपि अझषन्तत्वात्न प्राप्नोति । लोपे कृते झषन्तः । स्थानिवद्भावात्न झषन्तः । अतः उत्तरं पठति । (कात्यायन वार्तिक)दधः तथोः अनुकर्षणानर्थक्यं स्थानिवत्प्रतिषेधात्(वार्तिकान्त)। दधः तथोः अनुकर्षणं अनर्थकं । किं कारणं । स्थानिवत्प्रतिषेधात। प्रतिषिध्यते अत्र स्थनिवद्भावः पूर्वत्रासिद्धे न स्थानिवतिति । स च अवश्यं प्रतिषेधः आश्रयितव्यः । (कात्यायन वार्तिक)इतरथा हि अलोपे प्रतिषेधः (वार्तिकान्त)। यः हि मन्यते अनुकर्षणसामर्थ्यात्मे अत्र भवति अलोपे तेन प्रतिषेधः वक्तव्यः स्यातः दधाति दधासि ।
(पाणिनीयसूत्र ८,२।३८।२) कि.,४०५।१-२ रो. V,३९४ तथोः च अपि ग्रहणं शक्यं अकर्तुं । कथं । झलि झषन्तस्य इति उच्यते तथोः च अयं झलि झषन्तः भवति न अन्यत्र ।
(पाणिनीयसूत्र ८,२।३८।३) कि.,४०५।३-७ रो. V,३९४ अथ अपि एतत्न अस्ति पूर्वत्रासिद्धे न स्थानिवतिति एवं अपि न एव अर्थः अनुकर्षणार्थेन चकारेण न अपि तथोः ग्रहणेन । आनन्तर्यं इह आश्रीयते झलि झषन्तस्य इति । क्व चित्च सन्निपातकृतं आनन्तर्यं शास्त्रकृतं अनानन्तर्यं क्व चित्न एव सन्निपातकृतं न अपि शास्त्रकृतं । लोपे सन्निपातकृतं आनन्तर्यं शास्त्रकृतं अनानन्तर्यं अलोपे न एव सन्निपातकृतं न अपि शास्त्रकृतं । यत्र कुतः चितेव आनन्तर्यं तताश्रयिष्यामः ।
(पाणिनीयसूत्र ८,२।४०) कि.,४०५।८-१२ रो. V,३९४ अधः इति किमर्थं । धत्तः । धत्थः । अधः इति शक्यं अकर्तुं । कस्मात्न भवति धत्तः धत्थः इति । जश्त्वे योगविभागः करिष्यते । इदं अस्ति दधस्तथोश्च इति । ततः वक्ष्यामि झलां जशः । झलां जशः भवन्ति दधः तथोः । ततः अन्ते । अन्ते च झलां जशः भवन्ति । तत्र जश्त्वे कृते अझषन्तत्वात्न भविष्यति ।
(पाणिनीयसूत्र ८,२।४२।१) कि.,४०६।१-१० रो. V,३९५ रदाभ्यां इति किमर्थं । चरितं मुदितं । ननु च रदाभ्यां इति उच्यमाने अपि अत्र प्राप्नोति । अत्र अपि रेफदकाराभ्यां परा निष्ठा । न रेफदकाराभ्यां निष्ठा विशेष्यते । किं तर्हि । तकारः विशेष्यते । रफदकाराभ्यां उत्तरस्य तकारस्य नः भवति स चेत्निष्ठायाः इति । अथ पूर्वग्रहणं किमर्थं । (कात्यायन वार्तिक)निष्ठादेशे पूर्वग्रहणं परस्य आदेशप्रतिषेधार्थम्(वार्तिकान्त) । निष्ठादेशे पूर्वग्रहणं क्रियते परस्य आदेशः मा भूतिति । भिन्नवद्भ्यां भिन्नवद्भिः । (कात्यायन वार्तिक)पञ्चमीनिर्दिष्टात्हि परस्य ।(वार्तिकान्त) पञ्चमीनिर्दिष्टात्हि परस्य इति परस्य प्राप्नोति ।
(पाणिनीयसूत्र ८,२।४२।२) कि.,४०६।११-४०७।७ रो. V,३९६-३९७ (कात्यायन वार्तिक)वृद्धिनिमित्तात्प्रतिषेधः(वार्तिकान्त) । वृद्धिनिमित्तात्प्रतिषेधः वक्तव्यः । किं प्रयोजनं । (कात्यायन वार्तिक)प्रयोजनं कार्तिक्षैतिफौल्लयः ।(वार्तिकान्त) कार्तिः इति वृद्धौ कृतायां रदाभ्यां इति नत्वं प्राप्नोति । क्षैतिः इति वृद्धौ कृतायां क्षियोदीर्घातिति नत्वं प्राप्नोति । फौल्लिः इति वृद्धौ कृतायां उदुपधत्वसन्नियोगेन लत्वं उच्यमानं न प्राप्नोति । अथ उच्यमाने अपि प्रतिषेधे वृद्धिनिमित्तातिति कथं इदं विज्ञायते । वृद्धिः एव निमित्तं वृद्धिनिमित्तं वृद्धिनिमित्तातिति । आहोस्वित्वृद्धिः निमित्तं अस्य सः अयं वृद्धिनिमित्तः वृद्धिनिमित्तातिति । किं च अतः । यदि विज्ञायते वृद्धिः एव निमित्तं वृद्धिनिमित्तं वृद्धिनिमित्तातिति क्षैतिः सङ्गृहीतः कार्तिः असङ्गृहीतः । अथ विज्ञायते वृद्धिः निमित्तं अस्य सः अयं वृद्धिनिमित्तः वृद्धिनिमित्तातिति कार्तिः सङ्गृहीतः क्षैतिः असङ्गृहीतः । उभयथा च फौल्लिः असङ्गृहीतः । यथा इच्छसि तथा अस्तु । अस्तु तावत्वृद्धिः एव निमित्तं वृद्धिनिमित्तं वृद्धिनिमित्तातिति । ननु च उक्तं क्षैतिः सङ्ग्र्हीतः कार्तिः असङ्गृहीतः इति । कार्तिः च सङ्गृहीतः । कथं । वृद्धिः भवति गुणः भवति इति रेफशिराः गुणवृद्धिसञ्ज्ञकः अभिनिर्वर्तते । अथ वा पुनः अस्तु वृद्धिः निमित्तं अस्य सः अयं वृद्धिनिमित्तः वृद्धिनिमित्तातिति । ननु च उक्तं कार्तिः सङ्गृहीतः क्षैतिः असङ्गृहीतः इति । क्षैतिः च सङ्गृहीतः । कथं । यत्तत्वृद्धिशास्त्रं तस्मिन्वृद्धिशब्दः वर्तते । सः तर्हि प्रतिषेधः वक्तव्यः । (कात्यायन वार्तिक)न वा बहिरङ्गलक्षणत्वात।(वार्तिकान्त) न वा वक्तव्यं । किं कारणं । बहिरङ्गलक्षणत्वात। बहिरङ्गा वृद्धिः । अन्तरङ्गं नत्वं । असिद्धं बहिरङ्गं अन्तरङ्गे । एवं च कृत्वा लत्वं अपि सिद्धं भवति फौल्लिः इति ।
(पाणिनीयसूत्र ८,२।४४) कि.,४०७।८-१८ रो. V,३९७-३९८ ऋकारल्वादिभ्यः क्तिन्निष्ठावत। ऋकारल्वादिभ्यः क्तिन्निष्ठावत्भवति इति वक्तव्यं । कीर्णिः गीर्णिः । लूनिः धूनिः । (कात्यायन वार्तिक)दुग्वोः दीर्घः च ।(वार्तिकान्त) दुग्वोः दीर्घः च इति वक्तव्यं । आदूनः विगूनः । (कात्यायन वार्तिक)पूञः विनाशे ।(वार्तिकान्त) पूञः विनाशे इति वक्तव्यं । पूनाः यवाः । विनाशे इति किमर्थं । पूतं धान्यं । (कात्यायन वार्तिक)सिनोतेः ग्रासकर्मकर्तृकस्य ।(वार्तिकान्त) सिनोतेः ग्रासकर्मकर्तृकस्य इति वक्तव्यं । सिनः ग्रासः । ग्रासकर्मकर्तृकस्य इति किमर्थं । सिता पाशेन सूकरी ।
(पाणिनीयसूत्र ८,२।४६) कि.,४०७।१९-४०८।१० रो. V,३९८-३९९ दीर्घातिति किमर्थं । अक्षितं असि मा मे क्षेष्ठाः । दीर्घातिति शक्यं अकर्तुं । कस्मात्न भवति अक्षितं असि मा मे क्षेष्ठाः इति । निर्देशातेव इदं अभिव्यक्तं दीर्घस्य ग्रहणं इति । यदि ह्रस्वस्य ग्रहणं स्यात्क्षेः इति एव ब्रूयात। न अत्र निर्देशः प्रमाणं शक्यं कर्तुं । यथा एव अत्र अप्राप्ता विभक्तिः एवं इयङादेशः अपि । न अत्र अप्राप्ता विभक्तिः । सिद्धा अत्र विभक्तिः प्रातिपदिकातिति । कथं प्रातिपदिकसञ्ज्ञा । अर्थवत्प्रातिपदिकं इति । ननु च अधातुः इति प्रतिषेधः प्राप्नोति । न एषः धातुः धातोः एषः अनुकरणः । यदि अनुकरणः इयङादेशः न प्राप्नोति । प्रकृतिवतनुकरणं भवति इति एवं इयङादेशः भविष्यति । यदि प्रकृतिवतनुकरणं भवति इति उच्यते स्वाद्युत्पत्तिः न प्राप्नोति । एवं तर्हि आतिदेशिकानां स्वाश्रयाणि अपि न निवर्तन्ते । अथ अपि एतत्न अस्ति आतिदेशिकानां स्वाश्रयाणि अपि न निवर्तन्ते इति एवं अपि न दोषः । अवश्यं अत्र सर्वतः नैर्देशिकी विभक्तिः वक्तव्या । तत्यथा । नेर्विशः परिव्यवेभ्यःक्रियः विपराभ्याञ्जेः इति । अथ अपि एतत्न अस्ति प्रकृतिवतनुकरणं भवति इति एवं अपि न दोषः । धातोः अजादौ यत्रूपं ततनुक्रियते ।
(पाणिनीयसूत्र ८,२।४८) कि.,४०८।११-४०९।२ रो. V,४००-४०१ (कात्यायन वार्तिक)अञ्चेः नत्वे व्यक्तप्रतिषेधः(वार्तिकान्त) । अञ्चेः नत्वे व्यक्तस्य प्रतिषेधः वक्तव्यः । व्यक्तं अनृतं कथयति इति । (कात्यायन वार्तिक)अञ्जिविज्ञानात्सिद्धं ।(वार्तिकान्त) न एततञ्चेः रूपं । अञ्जेः एतत्रूपं । अञ्चत्यर्थः वै गम्यते । कः पुनः अञ्चत्यर्थः । अञ्चतिः प्रकाशने वर्तते । अञ्चितं गच्छति । प्रकाशयति आत्मानं इति गम्यते । न वै लोके अञ्चितं गच्छति इति प्रकाशनं गम्यते । किं तर्हि । समाधानं गम्यते । समाहितः भूत्वा गच्छति इति । एवं तर्हि अञ्चतेः अङ्कः अङ्कः च प्रकाशनं । अङ्किताः गावः इति उच्यते अन्याभ्यः गोभ्यः प्रकाश्यन्ते । (कात्यायन वार्तिक)अञ्चत्यर्थः इति चेतञ्जेः तदर्थत्वात्सिद्धं ।(वार्तिकान्त) अञ्चत्यर्थः इति चेतञ्जिः अपि अञ्चत्यर्थे वर्तते । कथं पुनः अन्यः नाम अन्यस्य अर्थे वर्तते । कथं अञ्जिः अञ्चत्यर्थे वर्तते । अनेकार्थाः अपि धातवः भवन्ति । अस्ति पुनः क्व चितन्यत्र अपि अञ्जिः अञ्चत्यर्थे वर्तते । अस्ति इति आह । अञ्जेः अञ्जनं अञ्जनं च प्रकाशनं । अङ्क्तेषिणी इति उच्यते यत्तत्सितं च असितं च एतत्प्रकाशयति । तथा अञ्जेः व्यञ्जनं व्यञ्जनं च प्रकाशनं । यत्तत्स्नेहेन मधुरेण च जडीकृतानां इन्द्रियाणां स्वस्मिनात्मनि व्यवस्थापनं सः रागः तत्व्यञ्जनं । अन्वर्थं खलु अपि निर्वचनं । व्यज्यते अनेन इति व्यञ्जनं इति ।
(पाणिनीयसूत्र ८,२।५०) कि.,४०९।३-६ रो. V,४०१-४०२ (कात्यायन वार्तिक)अवाताभिधाने(वार्तिकान्त) । अवाताभिधाने इति वक्तव्यं । इह अपि यथा स्यात। निर्वाणः अग्निः वातेन । निर्वाणः प्रदीपः वातेन इति ।
(पाणिनीयसूत्र ८,२।५५।१) कि.,४०९।७-१६ रो. V,४०२-४०३ अनुपसर्गातिति उच्यते तत्र इदं न सिध्यति परिकृशं इति । (कात्यायन वार्तिक)कृशेः कः एषः विहितः इगुपधात्(वार्तिकान्त) । न एतत्निष्ठान्तं । किं तर्हि कृशः एषः इगुपधात्कः विहितः । (कात्यायन वार्तिक)स्वरे हि दोषः भवति परिकृशे ।(वार्तिकान्त) न एवं शक्यं । इह हि परिकृशः इति स्वरे दोषः स्यात। अन्तस्थाथघञ्क्ताजबित्रकाणां । इति एषः स्वरः प्रसज्येत । (कात्यायन वार्तिक)पदस्य लोपः विहितः इति मतं ।(वार्तिकान्त) एवं तर्हि पदस्य लोपः द्रष्टव्यः । पर्यागतः कार्श्येन परिकृशः । (कात्यायन वार्तिक)जगती अनूना भवति हि रुचिरा ।(वार्तिकान्त)
(पाणिनीयसूत्र ८,२।५५।२) कि.,४०९।१७-२४ रो. V,४०३ (कात्यायन वार्तिक)फलेः लत्वे उत्पूर्वस्य उपसङ्ख्यानम्(वार्तिकान्त) । फलेः लत्वे उत्पूर्वस्य उपसङ्ख्यानं कर्तव्यं : उत्फुल्लः अनृतं कथयति । अत्यल्पं इदं उच्यते उत्पूर्वातिति । उत्फुल्लसम्फुल्लयोः इति वक्तव्यं : उत्फुल्लः , सम्फुल्लः । (कात्यायन वार्तिक)कृशेः कः एषः विहितः इगुपधात। स्वरे हि दोषः भवति परिकृशे । पदस्य लोपः विहितः इति मतं । जगति अनूना भवति हि रुचिरा (वार्तिकान्त)।
(पाणिनीयसूत्र ८,२।५६) कि.,४१०।१-११ रो. V,४०३-४०४ किं अयं विधिः आहोस्वित्प्रतिषेधः । किं च अतः । यदि तावत्विधिः नकारग्रहणं कर्तव्यं । न कर्तव्यं । प्रकृतं अनुवर्तते । क्व प्रकृतं । रदाभ्यान्निष्ठातोनःपूर्वस्यचदः इति । तत्वा अनेकेन निपातनेन व्यवच्छिन्नं न शक्यं अनुवर्तयितुं । अथ प्रतिषेधः ह्रीग्रहणं अनर्थकं न हि एतस्मात्विधिः अस्ति । यथा इच्छसि तथा अस्तु । अस्तु तावत्विधिः । ननु च उक्तं नकारग्रहणं कर्तव्यं । न कर्तव्यं । प्रकृतं अनुवर्तते । क्व प्रकृतं । रदाभ्यान्निष्ठातोनःपूर्वस्यचदः इति । तत्वा अनेकेन निपातनेन व्यवच्छिन्नं न शक्यं अनुवर्तयितुं इति । सम्बन्धं अनुवर्तिष्यते । अथ वा क्रियते न्यासे एव । द्विनकारकः निर्देशः । नुदविदोन्दत्राघ्राह्रीभ्यः अन्यतरस्यां न्न ध्याख्याप्®मूर्छिमदां इति । अथ वा पुनः अस्तु प्रतिषेधः । ननु च उक्तं ह्रीग्रहणं अनर्थकं न हि एतस्मात्विधिः अस्ति इति । न अनर्थकं । एततेव ज्ञापयति आचार्यः भवति एतस्मात्विधिः इति यतयं ह्रीग्रहणं करोति ।
(पाणिनीयसूत्र ८,२।५८) कि.,४१०।१२-४११।२ रो. V,४०४-४०५ बहवः इमे विदयः पठ्यन्ते । तत्र न ज्ञायते कस्य नित्यं नत्वं कस्य विभाषा कस्य प्रतिषेधः कस्य इटिति । अतः उत्तरं पठति । (कात्यायन वार्तिक)यस्य विदेः श्नशकौ तपरत्वे तनवचने तदु वाप्रतिषेधौ(वार्तिकान्त) । श्नविकरणस्य विभाषा शविकरणस्य प्रतिषेधः । (कात्यायन वार्तिक)श्यविकरणात्नविधिः छिदितुल्यः ।(वार्तिकान्त) श्यन्विकरणात्विदेः नविधिः छिदिना तुल्यः । (कात्यायन वार्तिक)लुग्विकरणः वलि पर्यवपन्नः ।(वार्तिकान्त) लुग्विकरणः विदिः वलादौ पर्यवपन्नः । एष एवार्थः । (कात्यायन वार्तिक)ययोः विद्योः श्नशौ उक्तौ तयोः नत्वस्य वानञौ । ययोः तु श्य~ल्लुकौ ताभ्यां छिदिवच्च इट्च इष्यते ।(वार्तिकान्त) अपरः आह : (कात्यायन वार्तिक)वेत्तेः तु विदितः निष्ठा । विद्यतेः विन्नः इष्यते । विन्त्तेः विन्नः च वित्तः च वित्तः भोगेषु विन्दतेः । भित्तं शकलम्(वार्तिकान्त) ।
(पाणिनीयसूत्र ८,२।५९) कि.,४११।३-८ रो. V,४०५-४०६ भित्तं शकलं इति उच्यते तत्र इदं न सिध्यति भित्तं भिन्नं इति । न एषः दोषः । सर्वत्र एव अत्र भिदिः विदारणसामान्ये वर्तते तत्र अवश्यं विशेषार्थिना विशेषः अनुप्रयोक्तव्यः । भिन्नं किं भित्तं इति । (कात्यायन वार्तिक)तत्वं अभिधायकं चेत्शकलस्य अनर्थकः प्रयोगः स्यात। शकलेन च अपि अभिहिते न भवति तत्वं निगमयामः । क्विन्प्रत्ययस्य कुः(वार्तिकान्त) ।
(पाणिनीयसूत्र ८,२।६२) कि.,४११।९-१८ रो. V,४०७ प्रत्ययग्रहणं किमर्थं न क्विनः कुः इति एव उच्येत । क्विनः कुः इति इयति उच्यमाने वकारस्य एव कुत्वं प्रसज्येत । ननु च लोपे कृते न भविष्यति । अनवकाशं कुत्वं लोपं बाधेत । सावकाशं कुत्वं । कः अवकाशः । अनन्त्यः । कथं पुनः सति अन्त्ये अनन्त्यस्य कुत्वं स्यात। आचार्यप्रवृत्तिः ज्ञापयति नान्त्यस्य कुत्वं भवति इति यतयं क्विनः कुः इति कवर्गनिर्देशं करोति । इतरथा हि तद्गुणं एव अयं निर्दिशेत। इदं तर्हि प्रयोजनं येभ्यः क्विन्प्रत्ययः विधीयते तेषां अन्यप्रत्ययान्तानां अपि पदान्ते कुत्वं यथा स्यात। मा नः अस्राक। मा नः अद्राक। (कात्यायन वार्तिक)क्विनः कुः इति वक्तव्ये प्रत्ययग्रहणं कृतं । क्विन्प्रत्ययस्य सर्वत्र पदान्ते कुत्वं इष्यते (वार्तिकान्त)।
(पाणिनीयसूत्र ८,२।६८) कि.,४११।१९-२२ रो. V,४०८ (कात्यायन वार्तिक)रुविधौ अह्नः रूपरात्रिरथन्तरेषु उपसङ्ख्यानम्(वार्तिकान्त) । रुविधौ अह्नः रूपरात्रिरथन्तरेषु उपसङ्ख्यानं कर्तव्यं । अहोरूपं अहोरात्रः अहोरथन्तरं साम ।
(पाणिनीयसूत्र ८,२।६९) कि.,४१२।१-९ रो. V,४०८-४०९ (कात्यायन वार्तिक)असुपि रादेशे उपसर्जनसमासे प्रतिषेधः अलुकि(वार्तिकान्त) । असुपि रादेशे उपसर्जनसमासे अलुकि प्रतिषेधः वक्तव्यः । दीर्घाहा निदाघः इति । (कात्यायन वार्तिक)सिद्धं तु सुपि प्रतिषेधात।(वार्तिकान्त) सिद्धं एतत। कथं । सुपि प्रतिषेधात। प्रसज्य अयं प्रतिषेधः सुपि न इति । इह अपि तर्हि न प्राप्नोति । अहन्ददाति । अहन्भुङ्क्ते इति । (कात्यायन वार्तिक)लुकि च उक्तं ।(वार्तिकान्त) किं उक्तं । अह्नः रविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवति इति ।
(पाणिनीयसूत्र ८,२।७०) कि.,४१२।१०-१५ रो. V,४०९ (कात्यायन वार्तिक)छन्दसि भाषायां च प्रचेतसः राजनि उपसङ्ख्यानम्(वार्तिकान्त) । छन्दसि भाषायां च प्रचेतसः राजनि उपसङ्ख्यानं कर्तव्यं । प्रचेतः राजन। प्रचेतर्राजन। अहरादीनां पत्यादिषु उपसङ्ख्यानं कर्तव्यं । अहर्पतिः अहःपतिः । अहर्पुत्रः अहःपुत्रः । गीर्पतिः गीःपतिः ।
(पाणिनीयसूत्र ८,२।७२) कि.,४१२।१६-४१३।१० रो. V,४०९-४१० इह कस्मात्न भवति । पपिवान्तस्थिवानिति । सस्य इति वर्तते । एवं अपि अत्र प्राप्नोति । लोपे कृते न भविष्यति । अनवकाशं दत्वं लोपं बाधेत । सावकाशं दत्वं । कः अवकाशः । पपिवद्भ्यां पपिवद्भिः इति । अत्र अपि रुः प्राप्नोति । तत्यथा एव रुं बाधते एवं लोपं अपि बाधेत । न बाधते । किं कारणं । येन न अप्राप्ते तस्य बाधनं भवति न च अप्राप्ते रौ दत्वं आरभ्यते लोपे पुनः प्राप्ते च अप्राप्ते च । यदि तर्हि सस्य इति वर्तते अनडुद्भ्यां अनडुद्भिः इति अत्र न प्राप्नोति । वचनातनडुहि भविष्यति । यदि एवं । (कात्यायन वार्तिक)अनडुहः दत्वे नकारप्रतिषेधः(वार्तिकान्त) । अनडुहः दत्वे नकारस्य प्रतिषेधः वक्तव्यः । अनड्वान। (कात्यायन वार्तिक)सिद्धं तु प्रतिपदविधानात्नुमः ।(वार्तिकान्त) सिद्धं एतत। कथं । नुमः प्रतिपदविधानसामर्थ्यात्दत्वं न भविष्यति । यदि तर्हि यत्यतनडुहः प्राप्तं तत्तत्नुमः प्रतिपदविधानसामर्थ्यात्बाध्यते रुत्वं अपि न प्राप्नोति । अनड्वान्तत्र इति । न एषः दोषः । यं विधिं प्रति उपदेशः अनर्थकः सः विधिः बाध्यते यस्य तु विधेः निमित्तं एव न असौ बाध्यते । दत्वं च प्रति नुमः प्रतिपदविधिः अनर्थकः रोः पुनः निमित्तं एव ।
(पाणिनीयसूत्र ८,२।७८।१) कि.,४१३।११-१९ रो. V,४११ किमर्थं इदं उच्यते न हलि इति एव सिद्धं । न सिध्यति । धातोः इति तत्र वर्तते तत्र रेफवकाराभ्यां धातुः विशेष्यते । रेफवकारान्तस्य धातोः इति । किं पुनः कारणं पूर्वस्मिन्योगे रेफवकाराभ्यां धातुः विशेष्यते । इह मा भूत। अग्निः वायुः इति । एवं तर्हि पूर्वस्मिन्योगे यत्धातुग्रहणं ततुत्तरत्र निवृत्तं । एवं अपि कुर्कुरः मुर्मुरः इति अत्र अपि प्राप्नोति । एवं तर्हि अनुवर्तते तत्र धातुग्रहणं न तु रेफवकाराभ्यां धातुः विशेष्यते । किं तर्हि । इक्विशेष्यते । रेफवकारान्तस्य इकः धातोः इति । एवं अपि कुर्कुरीयति मुर्मुरीयति इति अत्र प्राप्नोति । तस्मात्धातुः एव विशेष्यः धातौ च विशेष्यमाणे उपधायां च इति वक्तव्यं ।
(पाणिनीयसूत्र ८,२।७८।२) कि.,४१३।२०-४१४।७ रो. V,४११-४१२ (कात्यायन वार्तिक)उपधादीर्घत्वे अभ्यासजिव्रिचतुर्णां प्रतिषेधः(वार्तिकान्त) । उपधादीर्घत्वे अभ्यासजिवृइचतुर्णां प्रतिषेधः वक्तव्यः । रिर्यतुः रिर्युः । संविव्यतुः संविव्युः । जिव्रः । चतुर्यिता चतुर्यितुं । (कात्यायन वार्तिक)उणादिप्रतिषेधः च ।(वार्तिकान्त) उणादीनां च प्रतिषेधः वक्तव्यः । किर्योः गिर्योः इति । अभ्यासप्रतिषेधः तावत्न वक्तव्यः । हलि इति उच्यते न च अत्र हलादिं पश्यामः । यणादेशे कृते प्राप्नोति । स्थानिवद्भावात्न भविष्यति । प्रतिषिध्यते अत्र स्थानिवद्भावः दीर्घविधिं प्रति न स्थानिवतिति । न एषः अस्ति प्रतिषेधः । उक्तं एतत्प्रतिषेधे स्वरदिर्घयलोपेषु लोपाजादेशः इति । जिव्रिप्रतिषेधः च न वक्तव्यः । उणादयः अव्युत्पन्नानि प्रातिपदिकानि । चतुर्यिता चतुर्यितुं इति सुपि न इति वर्तते । यदि एवं गीर्भ्यां गीर्भिः इति अप्रसिद्धिः । न सुपः विभक्तिविपरिणामात्गीर्भ्यां गीर्भिः इति अदोषः । उणादिप्रतिषेधः वक्तव्यः इति परिहृतं एततुणादयः अव्युत्पन्नानि प्रातिपदिकानि इति ।
(पाणिनीयसूत्र ८,२।८०।१) कि.,४१४।८-१९ रो. V,४१२-४१३ (कात्यायन वार्तिक)अदसः अनोस्रेः(वार्तिकान्त) । अदसः अनोस्रेः इति वक्तव्यं । किं इदं अनोस्रेः इति । अनोकारस्य असकारस्य अरेफकस्य इति । अनोकारस्य । अदः अत्र । असकारस्य । अदस्यते । अरेफकस्य । अदः । तत्तर्हि वक्तव्यं । न वक्तव्यं । क्रियते न्यासे एव । अविभक्तिकः निर्देशः । अदस्, ओ , इति । ओकारात्परः पतिषेधः पूर्वभूतः । ततः सकारः । ततः रेफः इति । अथ वा न एवं विज्ञायते अदसः असकारस्य इति । कथं तर्हि । अकारः अस्य सकारस्य सः अयं असिः असेः इति । यदि एवं अमुमुयङिति न सिध्यति अदद्र्यङिति प्राप्नोति । अदमुयङिति भवितव्यं अनन्त्यविकारे अन्त्यसदेशस्य कार्यं भवति इति । (कात्यायन वार्तिक)अदसः अद्रेः पृथक्मुत्वं केचितिच्छन्ति लत्ववत। केचितन्त्यसदेशस्य । न इति एके । असेः हि दृश्यते । (वार्तिकान्त)
(पाणिनीयसूत्र ८,२।८०।२) कि.,४१४।२०-२४ रो. V,४१३ (कात्यायन वार्तिक)तत्र पदाधिकारातपदान्तस्य अप्राप्तिः(वार्तिकान्त) । तत्र पदाधिकारातपदान्तस्य न प्राप्नोति । अमुया अमुयोः इति । (कात्यायन वार्तिक)सिद्धं तु सकारप्रतिषेधात।(वार्तिकान्त) सिद्धं एतत। कथं । सकारप्रतिषेधात। यतयं असेः इति प्रतिषेधं शास्ति तत्ज्ञापयति आचार्यः अपदान्तस्य अपि भवति इति ।
(पाणिनीयसूत्र ८,२।८०।३) कि.,४१५।१-४ रो. V,४१४ अथ दाद्ग्रहणं किमर्थं । (कात्यायन वार्तिक)दाद्ग्रहणं अन्त्यप्रतिषेधार्थम्(वार्तिकान्त) । दाद्ग्रहणं क्रियते अन्त्यप्रतिषेधार्थं । अलः अन्त्यस्य मा भूतिति । अमुया अमुयोः इति ।
(पाणिनीयसूत्र ८,२।८१) कि.,४१५।५-१० रो. V,४१४ (कात्यायन वार्तिक)ईत्त्वं बहुवचनान्तस्य(वार्तिकान्त) । ईत्त्वं बहुवचनान्तस्य इति वक्तव्यं । बहुवचने इति इयति उच्यमाने इह एव स्यात। अमीभिः अमीषु। इह न स्यात। अमी अत्र । अमी आसते । तत्तर्हि वक्तव्यं । न वक्तव्यं । न इदं पारिभाषिकस्य बहुवचनस्य ग्रहणं । किं तर्हि । अन्वर्थग्रहणं एतत। बहूनां अर्थानां वचनं बहुवचनं बहुवचने इति ।
(पाणिनीयसूत्र ८,२।८२) कि.,४१५।११-४१६।६ रो. V,४१४-४१६ वाक्याधिकारः किमर्थः । (कात्यायन वार्तिक)वाक्याधिकारः पदनिवृत्त्यर्थः । वाक्याधिकारः क्रियते पदनिवृत्त्यर्थः । पदाधिकारः निवर्त्यते । न हि काकः वाश्यते इति अधिकाराः निवर्तन्ते । दोषः खलु अपि स्यात्यदि वाक्याधिकारः पदाधिकारं निवर्तयेत। इष्यन्ते एव उत्तरत्र पदकार्याणि तानि न सिध्यन्ति । नश्छव्यप्रशानिति । पदनिवृत्त्यर्थं इति न एवं विज्ञायते पदस्य निवृत्त्यर्थं पदनिवृत्त्यर्थं इति । किं तर्हि। पदे निवृत्त्यर्थं पदनिवृत्त्यर्थं इति । वाक्ये यावन्ति पदानि तेषां सर्वेषां टेः प्लुतः प्राप्नोति । इष्यते च वाक्यपदयोः अन्त्यस्य स्यातिति तत्च अन्तरेण यत्नं न सिध्यति इति एवमर्थः वाक्याधिकारः । अथ टिग्रहणं किमर्थं । टिग्रहणं अलः अन्त्यनियमे व्यञ्जनान्तार्थं ।(वार्तिकान्त) टिग्रहणं क्रियते अलः अन्त्यनियमे व्यञ्जनान्तस्य अपि यथा स्यात। अग्निचि३त्सोमसु३त। अस्ति प्रयोजनं एतत। किं तर्हि इति । (कात्यायन वार्तिक)सर्वादेशप्रसङ्गः तु ।(वार्तिकान्त) सर्वादेशः तु टेः प्लुतः प्राप्नोति । किं कारणं । अचः इति वचनातन्त्यस्य न अन्त्यस्य इति वचनातचः न उच्यते च प्लुतः सः सर्वादेशः प्राप्नोति । (कात्यायन वार्तिक)उक्तं वा ।(वार्तिकान्त) किं उक्तं । ह्रस्वः दीर्घः प्लुतः इति यत्र ब्रूयातचः इति एतत्तत्र उपस्थितं द्रष्टव्यं इति ।
(पाणिनीयसूत्र ८,२।८३।१) कि.,४१६।७-१५ रो. V,४१६-४१७ अशूद्रे इति किमर्थं । कुशली असि तुषजक । अत्यल्पं इदं उच्यते : असूद्रे इति । (कात्यायन वार्तिक)अशूद्रस्त्र्यसूयकेषु (वार्तिकान्त)। अशूद्रस्त्र्यसूयकेषु इति वक्तव्यं । तत्र शूद्रे उदाहृतं । स्त्रियां : गार्गी अहं , भोः आयुष्मती भव गार्गि । असूयके : स्थाली अहं , भोः आयुष्मानेधि स्थालि३न। न एषा मम सञ्ज्ञा स्थाली इति । किं तर्हि दण्डिन्यायः मम विवक्षितः । सः वक्तव्यः । स्थाली अहं भोः आयुष्मानेधि स्थालिन। न मम दण्डिन्यायः विवक्षितः । किं तर्हि सञ्ज्ञा मम एषा । असूयकः त्वं असि जाल्म न त्वं प्रत्यभिवादं अर्हसि भिद्यस्व वृषल स्थालिन।
(पाणिनीयसूत्र ८,२।८३।२) कि.,४१६।१६-२२ रो. V,४१७ (कात्यायन वार्तिक)भोराजन्यविशां वा(वार्तिकान्त) । भोराजन्यविशां वा इति वक्तव्यं । देवदत्तः अहं भोः आयुष्मानेधि देवदत्त भो३ः । देवदत्त भोः । भोः । राजन्य । इन्द्रवर्मा अहं भोः आयुष्मानेधि इन्द्रवर्म३न। इन्द्रवर्मन। राजन्य । विट। इन्द्रपालितः अहं भोः आयुष्मानेधि इन्द्रपालित३ । इन्द्रपालित । अपरः आह : । सर्वस्य एव नाम्नः प्रत्यभिवादे भोःशब्दः आदेशः वक्तव्यः । देवदत्तः अहं भोः आयुष्मानेधि भो३ः । आयुष्मानेधि देवदत्त३ इति वा ।
(पाणिनीयसूत्र ८,२।८३।३) कि.,४१६।२३-४१७।५ रो. V,४१७-४१८ इह कस्मात्न भवति । देवदत्त कुशली असि इति । इह किं चितुच्यते किं चित्प्रत्युच्यते । अप्रधानं उच्यते प्रधानं प्रत्युच्यते । तत्र प्रधानस्थस्य टिसञ्ज्ञकस्य प्लुत्या भवितव्यं न च अत्र प्रधानस्थं टिसञ्ज्ञं । इह अपि तर्हि न प्राप्नोति । आधेयः अग्नि३ः न आधेय३ः इति । न एतत्विचार्यते आधेयः न आधेयः अग्निः चेत्भवति इति । किं तर्हि । इह अग्निसाधना क्रिया विचार्यते आधेयः अग्निः न आधेयः इति । यदि एवं द्वितीयः अग्निशब्दस्य प्रयोगः प्राप्नोति । उक्तार्थानां अप्रयोगः इति न भविष्यति । यदि एवं आधेयशब्दस्य अपि तर्हि द्वितीयस्य प्रयोगः न प्राप्नोति उक्तार्थानां अप्रयोगः नाम भवति इति । न एषः दोषः । उक्तार्थानां अपि प्रयोगः दृश्यते । तत्यथा । अपूपौ द्वौ आनय । ब्राह्मणौ द्वौ आनय इति ।
(पाणिनीयसूत्र ८,२।८४) कि.,४१७।६-१४ रो. V,४१९ दूरात्हूते इति उच्यते दूरशब्दः च अयं अनवस्थितपदार्थकः । ततेव हि कं चित्प्रति दूरं कं चित्प्रति अन्तिकं भवति । एवं हि कः चित्कं चिताह । एषः पार्श्वतः करकः तं आनय इति । सः आह । उत्थाय गृहाण दूरं न शक्ष्यामि इति । अपरः आह : दूरं मथुरायाः पाटलिपुत्रं इति । सः आह । न दूरं इदं अन्तिकं इति । एवं एषः दूरशब्दः अनवस्थितपदार्थकः तस्य अनवस्थितपदार्थकत्वात्न ज्ञायते कस्यां अवस्थायां प्लुत्या भवितव्यं इति । एवं तर्हि ह्वयतिना अयं निर्देशः क्रियते । ह्वयतिप्रसङ्गे यत्दूरं । किं पुनः तत। तत्र प्राकृतात्प्रयत्नात्प्रयत्नविशेषे उपादीयमाने सन्देहः भवति श्रोष्यति न श्रोष्यति इति तत्दूरं इह अवगम्यते ।
(पाणिनीयसूत्र ८,२।८५) कि.,४१७।१५-२४ रो. V,४१९-४२० हैहेग्रहणं किमर्थं । (कात्यायन वार्तिक)हैहेप्रयोगे हैहेग्रहणं हैहयोः प्लुत्यर्थम्(वार्तिकान्त) । हैहेप्रयोगे :ऐहेग्रहणं क्रियते हैहयोः प्लुतिः यथा स्यात। देवदत्त है३ । देवदत्त हे३ । अक्रियमाणे हि हैहेग्रहणे तयोः प्रयोगे अन्यस्य स्यात। अथ प्रयोगग्रहणं किमर्थं । (कात्यायन वार्तिक)प्रयोगग्रहणं अर्थवद्ग्रहणे अनर्थकार्थं ।(वार्तिकान्त) प्रयोगग्रहणं क्रियते अर्थवद्ग्रहणे अनर्थकयोः अपि यथा स्यात। देवदत्त है३ । देवदत्त हे३ । अथ पुनः हैहेग्रहणं किमर्थं । (कात्यायन वार्तिक)पुनः हैहेग्रहणं अनन्त्यार्थं ।(वार्तिकान्त) पुनः हैहेग्रहणं क्रियते अनन्त्ययोः अपि यथा स्यात। है३ देवदत्त । हे३ देवदत्त इति ।
(पाणिनीयसूत्र ८,२।८६।१) कि.,४१८।१-१० रो. V,४२०-४२१ (कात्यायन वार्तिक)गुरोः प्लुतविधाने लघोः अन्त्यस्य प्लुतप्रसङ्गः अन्येन विहितत्वात्(वार्तिकान्त) । गुरोः प्लुतविधाने लघोः अन्त्यस्य प्लुतः प्राप्नोति । दे३वदत्त । किं कारणं । अन्येन विहितत्वात। अन्येन हि लक्षणेन लघोः अन्त्यस्य प्लुतः विधीयते दूराद्धूतेच इति । (कात्यायन वार्तिक)न वा अनन्त्यस्य अपि इति वचनं उभयनिर्देशार्थं ।(वार्तिकान्त) न वा एषः दोषः । किं कारणं । अनन्त्यस्य अपि इति वचनं उभयनिर्देशार्थं भविष्यति । अनन्त्यस्य अपि गुरोः अन्त्यस्य अपि टेः इति । ननु च एतत्गुर्वपेक्षं स्यात। अनन्त्यस्य अपि गुरोः अन्त्यस्य अपि गुरोः इति । न इति आह । द्व्यपेक्षं एतत। अनन्त्यस्य अपि गुरोः अन्त्यस्य अपि टेः इति ।
(पाणिनीयसूत्र ८,२।८६।२) कि.,४१८।१०-२४ रो. V,४२१-४२२ अथ प्राग्वचनं किमर्थं । (कात्यायन वार्तिक)प्राग्वचनं विभाषार्थम्(वार्तिकान्त) । प्राग्वचनं क्रियते विभाषा यथा स्यात। (कात्यायन वार्तिक)प्राग्वचनानर्थक्यं च एकैकस्य इति वचनात।(वार्तिकान्त) प्राग्वचनं अनर्थकं । किं कारणं । एकैकस्य इति वचनात। एकैकग्रहणं क्रियते तत्विभाषार्थं भविष्यति । अस्ति अन्यतेकैकग्रहणस्य प्रयोजनं । किं । युगपत्प्लुतः मा भूतिति । अनुदात्तं पदं एकवर्जं इति वचनात्न अस्ति यौगपद्येन सम्भवः । असिद्धः प्लुतः तस्य असिद्धत्वात्नियमः न प्राप्नोति । न एषः दोषः । यदि अपि इदं तत्र असिद्धं तत्तु इह सिद्धं । कथं । कार्यकालं सञ्ज्ञापरिभाषं इति यत्र कार्यं तत्र उपस्थितं द्रष्टव्यं । गुरोः अनृतः अनन्त्यस्य अपि एकैकस्य प्राचां । उपस्थितं इदं भवति अनुदात्तम्पदमेकवर्जं इति । इह अपि तर्हि समावेशः न प्राप्नोति । देवदत्त३ । सिद्धासिद्धौ एतौ । यौ हि सिद्धौ एव असिद्धौ एव वा तयोः नियमः । यः तर्हि स्वरितप्लुतः तेन समावेशः प्राप्नोति । स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु इति । स्वरिते अपि उदात्तः अस्ति । यः तर्हि अनुदात्तप्लुतः तेन समावेशः प्राप्नोति । अनुदात्तम्प्रश्नान्ताभिपूजितयोः इति । तस्मात्प्राग्वचनं कर्तव्यं ।
(पाणिनीयसूत्र ८,२।८८) कि.,४१९।१-५ रो. V,४२२ (कात्यायन वार्तिक)ये यज्ञकर्मणि इति अतिप्रसङ्गः(वार्तिकान्त) । ये यज्ञकर्मणि इति अतिप्रसङ्गः भवति । इह अपि प्राप्नोति । ये देवासः दिव्येकादश स्थ इति । (कात्यायन वार्तिक)सिद्धं तु ये यजामहे इति ब्रूह्यादिषु उपसङ्ख्यानात।(वार्तिकान्त) सिद्धं एतत। कथं । येयजामहेशब्दः ब्रूह्यादिषु उपसङ्ख्येयः ।
(पाणिनीयसूत्र ८,२।८९) कि.,४१९।६-९ रो. V,४२३ प्रणवः इति उच्यते कः प्रणवः नाम । पादस्य वा अर्धर्चस्य वा अन्त्यं अक्षरं उपसंहृत्य तदाद्यक्षरशेषस्य स्थाने त्रिमात्रं ओङ्कारं त्रिमात्रं ओकारं वा विदधति तं प्रणवः इति आचक्षते । अथ टिग्रहणं किमर्थं । टिग्रहणं सर्वादेशार्थं । यदा ओकारः तदा सर्वादेशः यथा स्यात। यदा ओङ्कारः तदा अनेकाल्शित्सर्वस्य इति सर्वादेशः भविष्यति ।
(पाणिनीयसूत्र ८,२।९०) कि.,५१९।१३-१६ रो. V,४२४ अन्तग्रहणं किमर्थं । याज्या नाम ऋचः वाक्यसमुदायः तत्र यावन्ति वाक्यानि सर्वेषां टेः प्लुतः प्राप्नोति । इष्यते च अन्त्यस्य स्यातिति तत्च अन्तरेण यत्नं न सिध्यति इति एवमर्थं अन्तग्रहणं ।
(पाणिनीयसूत्र ८,२।९२।१) कि.,४१९।१७-४२०।४ रो. V,४२४ (कात्यायन वार्तिक)अग्नीत्प्रेषणे इति अतिप्रसङ्गः(वार्तिकान्त) । अग्नीत्प्रेषणे इति अतिप्रसङ्गः भवति । इह अपि प्राप्नोति । अग्नीदग्नीन्विहर । (कात्यायन वार्तिक)सिद्धं तु ओश्रावये परस्य च इति वचनात।(वार्तिकान्त) सिद्धं एतत। कथं । ओश्रावये परस्य इति वक्तव्यं । ओ३ श्रा३वय । आ३ श्रा३वय । अपरः आह : ओश्रावयाश्रावययोः इति वक्तव्यं । ओ३ श्रा३वय । अ३ श्र३वय ।
(पाणिनीयसूत्र ८,२।९२।२) कि.,४२०।५-८ रो. V,४२४-४२५ बहुलं अन्यत्र इति वक्तव्यं । उद्धर३ उद्धर । आहर३ आहर । तत्तर्हि वक्तव्यं । न वक्तव्यं । योगविभागः करिष्यते । अग्नीत्प्रेषणे परस्य च विभाषा । ततः पृष्ठप्रतिवचने हेः । विभाषा इति एव । अपरः आह : सर्वः एव प्लुतः साहसं अनिच्छता विभाषा वक्तव्यः ।
(पाणिनीयसूत्र ८,२।९५) कि.,४२०।९-१२ रो. V,४२५ (कात्यायन वार्तिक)भर्त्सने पर्यायेण(वार्तिकान्त) । भर्त्सने पर्यायेण इति वक्तव्यं । चौर३ चौर । चौर चौर३ । कुशील३ कुशील । कुशील कुशील३ ।
(पाणिनीयसूत्र ८,२।१०३) कि.,४२०।१३-१६ रो. V,४२५ (कात्यायन वार्तिक)असूयादिषु वावचनम्(वार्तिकान्त) । असूयादिषु वा इति वक्तव्यं । कन्ये३ कन्ये । कन्ये कन्ये । शक्तिके३ शक्तिके । शक्तिके शक्तिके ।
(पाणिनीयसूत्र ८,२।१०६) कि.,४२०।१७-४२१।१४ रो. V,४२६-४२७ किमर्थं इदं उच्यते । (कात्यायन वार्तिक)ऐचोः उभयविवृद्धिप्रसङ्गातिदुतोः प्लुतवचनम्(वार्तिकान्त) । ऐचोः उभयविऋद्धिप्रसङ्गातिदुतोः प्लुतः उच्यते । किं उच्यते उभयविवृद्धिप्रसङ्गातिति यदा नित्याः शब्दाः नित्येषु च शब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यं अनपायोपजनविकारिभिः । न एषः दोषः । उभयविवृद्धिप्रसङ्गातिति न एवं विज्ञायते उभयोः विवृद्धिः उभयविवृद्धिः उभयविवृद्धिप्रसङ्गातिति । कथं तर्हि । उभयोः विवृद्धिः अस्मिन्सः अयं उभयविवृद्धिः उभयविवृद्धिप्रसङ्गातिति । इमौ ऐचौ समाहारवर्णौ मात्रा अवर्णस्य मात्रा इवर्णोवर्णयोः इति तयोः प्लुतः उच्यमाने उभयविवृद्धिः प्राप्नोति । तत्यथा । अभिवर्धमानः गर्भः सर्वाङ्गपरिपूर्णः वर्धते । अस्ति प्रयोजनं एतत। किं तर्हि इति । (कात्यायन वार्तिक)तत्र अयथेष्टप्रसङ्गः ।(वार्तिकान्त) तत्र अयथेष्टं प्रसज्येत । चतुर्मात्रः प्लुतः प्राप्नोति । (कात्यायन वार्तिक)सिद्धं तु इदुतोः दीर्घवचनात।(वार्तिकान्त) सिद्धं एतत। कथं । इदुतोः दीर्घः भवति इति वक्तव्यं । ततेतत्कथं कृत्वा सिद्धं भवति । यदि समः प्रविभागः मात्रा अवर्णस्य मात्रा इवर्णोवर्णयोः । अथ हि अर्धमात्रा अवर्णस्य अध्यर्धमात्रा इवर्णोवर्णयोः अर्धतृतीयमात्रः प्राप्नोति । अथ हि अध्यर्धमात्रा अवर्णस्य अर्धमात्रा इवर्णोवर्णयोः अर्धचतुर्थमात्रः प्राप्नोति । सूत्रं च भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं तत्र अयथेष्टप्रसङ्गः इति । तत्र सौर्यभगवता उक्तं अनिष्टिज्ञः वाडवः पठति । इष्यते एव चतुर्मात्रः प्लुतः ।
(पाणिनीयसूत्र ८,२।१०७।१) कि.,४२१।१५-४२२।२ रो. V,४२७-४२८ (कात्यायन वार्तिक)एचः प्लुतविकारे पदान्तग्रहणं (वार्तिकान्त)। एचः प्लुतविकारे पदान्तग्रहणं कर्तव्यं इह मा भूतः भद्रं करोषि गौ३ः इति । (कात्यायन वार्तिक)विषयपरिगणनं च(वार्तिकान्त) । विषयपरिगणनं च कर्तव्यं । प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेषु इति वक्तव्यं । प्रश्नान्त । अगम३ः पूर्व३न्ग्राम३नग्निभूत३इ । पट३उ । प्रश्नान्त । अभिपूजित । सिद्धः असि माणवक अग्निभूत३इ । पट३उ । अभिपूजित । विचार्यमाण । होतव्यं दीक्षितस्य गृह३इ । विचार्यमाण । प्रत्यभिवाद । आयुष्मानेधि अग्निभूत३इ । प्रत्यभिवाद । याज्यान्त । उक्षन्नाय वशन्नाय सोमपृष्ठाय वेधसे । स्तोमैः विधेम अग्नय३इ ।
(पाणिनीयसूत्र ८,२।१०७।२) कि.,४२२।३-५ रो. V,४२८ (कात्यायन वार्तिक)आमन्त्रिते छन्दसि उपसङ्ख्यानम्(वार्तिकान्त) । आमन्त्रिते छन्दसि उपसङ्ख्यानं कर्तव्यं । अग्न३इ पत्नीव३ः सजुः देवेन त्वष्ट्रा सोमं पिब ।
(पाणिनीयसूत्र ८,२।१०८।१) कि.,४२२।६-१० रो. V,४२८-४२९ अथ कयोः इमौ य्वौ उच्येते । इदुतोः इति आह । ततिदुतोः ग्रहणं कर्तव्यं । न कर्तव्यं । प्र्कृतं अनुवर्तते । क्व प्रकृतं । पूर्वस्य अर्धस्य अदुत्तरस्य इदुतौ इति । तत्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन च इह अर्थः । अचि इति एषा सप्तमी इदुतौ इति प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मिन्नितिनिर्दिष्टेपूर्वस्य इति ।
(पाणिनीयसूत्र ८,२।१०८।२) कि.,४२२।११-४२३।४ रो. V,४२९-४३० किमर्थं इदं उच्यते न इकः यणचि इति एव सिद्धं । न सिध्यति । असिद्धः प्लुतः प्लुतविकारौ च इमौ । सिद्धः प्लुतः स्वरसन्धिषु । कथं ज्ञायते । यतयं प्लुतः प्रकृत्या इति प्लुतस्य प्रकृतिभावं शास्ति । कथं कृत्वा ज्ञापकं । सतः हि कार्यिणः कार्येण भवितव्यं । इदं तर्हि प्रयोजनं दीर्घशाकलप्रतिषेधार्थं । दीर्घत्वं शाकलं च मा भूतिति । अग्ना३यिन्द्रं । पटा३वुदकं । एततपि न अस्ति प्रयोजनं । आरभ्यते प्लुतपूर्वस्य यणादेशः प्लुतपुर्वस्य दीर्घशाकलप्रतिषेधार्थं इति । तत्न वक्तव्यं भवति । अवश्यं तत्वक्तव्यं यौ प्लुतपूर्वौ इदुतौ अप्लुतविकारौ तदर्थं । भो३यिन्द्र । भो३यिह इति । यदि तर्हि तस्य निबन्धनं अस्ति ततेव वक्तव्यं इदं न वक्तव्यं । इदं अपि अवश्यं वक्तव्यं स्वरार्थं । तेन हि सति उदात्तस्वरितयोर्यणःस्वरितोऽनुदात्तस्य इति एषः स्वरः प्रसज्येत । अनेन पुनः सति असिद्धत्वात्न भविष्यति । यदि तर्हि अस्य निबन्धनं अस्ति इदं एव वक्तव्यं तत्न वक्तव्यं । ननु च उक्तं ततपि अवश्यं वक्तव्यं यौ प्लुतपूर्वौ इदुतौ अप्लुतविकारौ तदर्थं भो३यिन्द्र भो३यिह इति । छान्दसं एतत्दृष्टानुविधिः छन्दसि भवति । यत्तर्हि न छान्दसं । भो३यिन्द्रं साम गायति । एषः अपि छन्दसि दृष्टस्य अनुप्रयोगः इति । किं नु यणा भवति इह न सिद्धं य्वौ इदुतोः यतयं विदधाति । तौ च मम स्वरसन्धिषु सिद्धौ शाकलदीर्घविधी तु निवर्त्यौ ।१। इक्तु यदा भवति प्लुतपूर्वः तस्य यणं विदधाति अपवादं । तेन तयोः च न शाकलदीर्घौ यण्स्वरबाधनं एव तु हेतुः ।
(पाणिनीयसूत्र ८,३।१।१) कि.,४२४।१-६ रो. V,४३१ (कात्यायन वार्तिक)मतुवसः रादेशे वनः उपसङ्ख्यानम्(वार्तिकान्त) । मतुवसः रादेशे वनः उपसङ्ख्यानं कर्तव्यं । यः त्वा आयन्तं वसुना प्रातरित्वः । (कात्यायन वार्तिक)इभाषा भवद्भगवदघवतां ओत्च अवस्य ।(वार्तिकान्त) छन्दसि भाषायां च भवत्भगवतघवतिति एतेषां विभाषा रुः वक्तव्यः ओत्च अवस्य वक्तव्यः । भोः , भवन। भगोः , भगवन। अघोः , अघवनिति ।
(पाणिनीयसूत्र ८,३।१।२) कि.,४२४।६-१० रो. V,४३१-४३२ सम्बुद्धौ इति उच्यते तत्र इदं न सिध्यति । भोः ब्राह्मणाः इति । तथा विभक्तौ लिङ्गविशिष्टग्रहणं न इति इह न प्राप्नोति । भोः ब्राह्मणि । न एषः दोषः । अव्ययं एषः भोःशब्दः न एषा भवतः प्रवृत्तिः । कथं अव्ययत्वं । विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा निपातः अव्ययं इति अव्ययसञ्ज्ञा ।
(पाणिनीयसूत्र ८,३।५-६, १२) कि.,४२४।११-४१६।८ रो. V,४३२-४३४ (कात्यायन वार्तिक)सम्पुङ्कानां सत्वम्(वार्तिकान्त) । सम्पुङ्कानां सत्वं वक्तव्यं । संस्कर्ता पुंस्कामा कांस्कानिति । (कात्यायन वार्तिक)रुविधौ हि अनिष्टप्रसङ्गः ।(वार्तिकान्त) रुविधौ हि सति अनिष्टं प्रसज्येत । इह तावत्संस्कर्ता इति वा शरि इति प्रसज्येत । पुंस्कामा इति इदुदुपधस्य इति षत्वं प्रसज्येत । कांस्कानिति कुप्वोः ह्कः प्रसज्येत । तत्तर्हि वक्तव्यं । न वक्तव्यं । क्रियते न्यासे एव । समः सुटि इति द्विसकारकः निर्देशः : समः सुटि सकारः भवति । तत्प्रकृतं उत्तरत्र अनुवर्तिष्यते । यदि ततनुवर्तते नश्छव्यप्रशानिति अत्र अपि प्राप्नोति । सम्बन्धं अनुवर्तिष्यते । समःसुटि । पुमः खयि अम्परे सः भवति । नः छवि अप्रशान्रुः भवति पुमः खयि अम्परे सकारः । उभयथर्क्षु दीर्घादटिसमानपादे न्®न्पे स्वतवान्पायौ रुः भवति पुमः खयि अम्परे सकारः । कानाम्रेडिते सकारः । पुमः खयि अम्परे इति निवृत्तं । समः वा लोपं एके इच्छन्ति : संस्कर्ता सÁस्कर्ता ।
(पाणिनीयसूत्र ८,३।१३) कि.,४२५।९-२३ रो. V,४३४-४३५ ढलोपे अपदान्तग्रहणं । ढलोपे अपदान्तग्रहणं कर्तव्यं । इह मा भूत। श्वलिट्ढौकते । गुडलिट्ढौकते । तत्तर्हि वक्तव्यं । न वक्तव्यं । जश्त्वं अत्र बाधकं भविष्यति । (कात्यायन वार्तिक)जश्भावातिति चेतुत्तरत्र ढस्य अभावातपवादप्रसङ्गः ।(वार्तिकान्त) जश्भावातिति चेतुत्तरत्र ढकारस्य अभावातसिद्धत्वातपवादः अयं विज्ञायते । कस्य । जश्त्वस्य । (कात्यायन वार्तिक)तस्मात्सिद्धवचनं ।(वार्तिकान्त) तस्मात्सिद्धत्वं वक्तव्यं । कस्य । ष्टुत्वस्य । (कात्यायन वार्तिक)सङ्ग्रहणं वा ।(वार्तिकान्त) सङ्ग्रहणं वा कर्तव्यं । सङि ढः इति वक्तव्यं । तत्तर्हि वक्तव्यं । न वक्तव्यं । आनन्तर्यं इह आश्रीयते ढकारस्य ढकारे इति । क्व चित्च सन्निपातकृतं आनन्तर्यं शास्त्रकृतं अनानन्तर्यं क्व चित्च न एव सन्निपातकृतं न अपि शास्त्रकृतं । ष्टुत्वे सन्निपातकृतं आनन्तर्यं जश्त्वे न एव सन्निपातकृतं न अपि शास्त्रकृतं । यत्र कुतः चितेव आनन्तर्यं तताश्रयिष्यामः ।
(पाणिनीयसूत्र ८,३।१५) कि.,४२६।१-१९ रो. V,४३५-४३९ (कात्यायन वार्तिक)विसर्जनीयः अनुत्तरपदे(वार्तिकान्त) । विसर्जनीयः अनुत्तरपदे इति वक्तव्यं । इह मा भूत। नार्कुटः नार्पत्यः इति । (कात्यायन वार्तिक)न वा बहिरङ्गलक्षणत्वात।(वार्तिकान्त) न वा वक्तव्यं । किं कारणं । बहिरङलक्षणत्वात। बहिरङ्गः रेफः । अन्तरङ्गः विसर्जनीयः । असिद्धं बहिरङ्गं अन्तरङ्गे । न एषः युक्तः परिहारः । अन्तरङ्गं बहिरङ्गं इति प्रतिद्वन्द्वभाविनौ एतौ पक्षौ । सति अन्तरङ्गे बहिरङ्गं सति बहिरङ्गे अन्तर्गं । न च अत्र अन्तरङ्गबहिरङ्गयोः युगपत्समवस्थानं अस्ति । किं कारणं । असिद्धत्वात। न च अनभिनिर्वृत्ते बहिरङ्गे अन्तरङ्गं प्राप्नोति । तत्र निमित्तं एव बहिरङ्गं अन्तरङ्गस्य । अनिमित्तं बहिरङ्गं अन्तरङ्गस्य । किं कारणं । असिद्धत्वात। कथं असिद्धत्वं यावता पूर्वत्र असिद्धं इति असिद्धा परिभाषा । असिद्धं बहिरङ्गं अन्तरङ्गे । कथं । कार्यकालं सञ्ज्ञापरिभाषं इति खरवसानयोर्विसर्जनीयः उपस्थितं इदं भवति असिद्धं बहिरङ्गं अन्तरङ्गे इति । एवं एषा सिद्धा परिभाषा भवति । कुतः नु खलु एतत्द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः पूर्वत्र असिद्धं इति च असिद्धं बहिरङ्गं अन्तरङ्गे इति च पूर्वत्रासिद्धं इति एतां उपमृद्य असिद्धं बहिरङ्गं अन्तरङ्गे इति एतया व्यवस्था भविष्यति न पुनः असिद्धं बहिरङ्गं अन्तरङ्गे इति एतां उपमृद्य पुर्वत्रासिद्धं इति एतया व्यवस्था स्यात। अतः किं । अतः अयुक्तः परिहारः न वा बहिरङ्गलक्षणत्वातिति ।
(पाणिनीयसूत्र ८,३।१६) कि.,४२६।२०-२२ रो. V,४३९ किमर्थं इदं उच्यते न खरवसानयोः विसर्जनीयः इति एव सिद्धं । नियमार्थः अयं आरम्भः । रोः एव सुपि न अन्यस्य सुपि । क्व मा भूत। गीर्षु धूर्षु ।
(पाणिनीयसूत्र ८,३।१७) कि.,४२७।१-१२ रो. V,४४०-४४१ (कात्यायन वार्तिक)अश्ग्रहणं अनर्थकं अन्यत्र अभावात्(वार्तिकान्त) । अश्ग्रहणं अनर्थकं । किं कारणं । अन्यत्र अभावात। न हि अन्यत्र रुः अस्ति अन्यततः अशः । ननु च अयं अस्ति। छन्दःसु पयःसु इति । किं पुनः कारणं सुकारपरः एव उदाह्रियते न पुनः अयं वृक्षः तत्र प्लक्षः तत्र इति । अस्ति अत्र विशेषः । विसर्जनीये कृते न भविष्यति । इह अपि तर्हि विसर्जनीये कृते न भविष्यति । छन्दःसु पयःस्विति । स्थानिवद्भावात्प्राप्नोति । ननु च इह अपि स्थानिवद्भावात्प्राप्नोति । वृक्षः तत्र प्लक्षः तत्र इति । अनल्विधौ स्थानिवद्भावः । अथ अयं अल्विधिः स्यात्शक्यं अश्ग्रहणं अवक्तुं । बाढं शक्यं । अल्विधिः तर्हि भविष्यति । कथं । इदं अस्ति रोरि इति । ततः वक्ष्यामि खरवसानयोः विसर्जनीयः रः । ततः रोः सुपि विसर्जनीयः रः इति एव । उत्तरार्थं तर्हि अश्ग्रहणं कर्तव्यं हलिसर्वेषां हलि अशि इति यथा स्यात। इह मा भूतः वृक्षवयतेः अप्रत्ययः वृक्षव्करोति ।
(पाणिनीयसूत्र ८,३।२०) कि.,४२७।१३-१६ रो. V,४४२ किमर्थं इदं उच्यते न लोपः शाकल्यस्य इति एव सिद्धं । (कात्यायन वार्तिक)ओकारात्लोपवचनं नित्यार्थम्(वार्तिकान्त) । ओकारात्लोपवचनं क्रियते । नित्यार्थः अयं आरम्भः ।
(पाणिनीयसूत्र ८,३।२१) कि.,४२७।१७-२१ रो. V,४४२ पदे इति किमर्थं । तन्त्रे , उतं , तन्त्रयुतं , तन्त्र*उतं । पदे इति शक्यं अवक्तुं । कस्मात्न भवति तन्त्रे , उतं , तन्त्रयुतं , तन्त्र*उतं इति । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति । उत्तरार्थं तर्हि पदग्रहणं कर्तव्यं ङमोह्रस्वादचिङमुण्नित्यं इति अपदे मा भूत। दण्डिना शकटिना ।
(पाणिनीयसूत्र ८,३।२६) कि.,४२८।१-४ रो. V,४४३ (कात्यायन वार्तिक)यवलपरे यवलाः वा(वार्तिकान्त) । यवलपरे हकारे यवलाः वा इति वक्तव्यं । किय्ह्यः किं ह्यः । किव्ह्वलयति किं ह्वलयति । किल्ह्लादयति किं ह्लादयति ।
(पाणिनीयसूत्र ८,३।२८-३२) कि.,४२८।५-४२९।६ रो. V,४४३-४४४ इह धुडादिषु केचित्पूर्वान्ताः केचित्परादयः । यदि पुनः सर्वे एव पूर्वान्ताः स्युः सर्वे एव परादयः । कः च अत्र विशेषः । (कात्यायन वार्तिक)धुगादिषु ष्टुत्वणत्वप्रतिषेधः(वार्तिकान्त) । धुगादिषु सत्सु ष्टुत्वणत्वयोः प्रतिषेधः वक्तव्यः । ष्टुत्वस्य तावत। श्वलिट्त्साये । मधुलिट्त्साये । ष्टुनाष्टुः इति ष्टुत्वं प्राप्नोति । परादौ पुनः सति नपदान्ताट्टोरनां इति प्रतिषेधः सिद्धः भवति । णत्वस्य । कुर्वन्नास्ते । कृषन्नास्ते । रषाभ्यान्नोणःसमानपदे इत्णत्वं प्राप्नोति । परादौ पुनः सति पदान्तस्य न इति प्रतिषेधः सिद्धः भवति । सन्तु तर्हि परादयः । (कात्यायन वार्तिक)परादौ छत्वषत्वविधिप्रतिषेधः ।(वार्तिकान्त) यदि परादयः छत्वं विधेयं षत्वं च प्रतिषेध्यं । छत्वं विधेयं । कुर्वञ्च्छेते । कृषञ्च्छेते । यत्हि तत्शश्छोऽटि इति झयः पदान्तातिति एवं तत। किं पुनः कारणं झयः पदान्तातिति एवं तत। इह मा भूत। पुरा क्रूरस्य विसृपः विरप्शिनिति । षत्वं च प्रतिषेध्यं । प्रत्यङ्क्सिञ्च । उदङ्क्सिञ्च । आदेशप्रत्यययोः इति षत्वं प्राप्नोति । पूर्वान्ते पुनः सति सात्पदाद्योः इति प्रतिषेधः सिद्धः भवति । तस्मात्सन्तु यथान्यासं एव केचित्पूर्वान्ताः केचित्परादयः ।
(पाणिनीयसूत्र ८,३।३२।१) कि.,४२९।६-१० रो. V,४४४ अयं तु खलु शि तुक्छत्वार्थं नियोगतः पूर्वान्तः कर्तव्यः तत्र कुर्वञ्च्छेते कृषञ्च्छेते इति रषाभ्यान्नोणःसमानपदे इति णत्वं प्राप्नोति । न एषः दोषः । श्चुत्वे योगविभागः करिष्यते । इदं अस्ति क्षुभ्नादिषु न णकारः भवति । ततः स्तोः श्चुना । स्तोः श्चुना सन्निपाते न णकारः भवति । ततः श्चुः । श्चुः च भवति स्तोः श्चुना सन्निपाते ।
(पाणिनीयसूत्र ८,३।३२।२) कि.,४२९।११-२४ रो. V,४४४-४४६ (कात्यायन वार्तिक)ङमुटि पदादिग्रहणम्(वार्तिकान्त) । ङमुटि पदादिग्रहणं कर्तव्यं । इह मा भूत। दण्डिना शकटिना इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । पदातिति वर्तते । एवं अपि परमदण्डिना परमच्छत्त्रिणा इति प्राप्नोति । न एषः दोषः । उक्तं एततुत्तरपदत्वे च अपदादिविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवति इति । एवं अपि पदातिति वक्तव्यं । यत्हि तत्प्रकृतं प्राक्सुपि कुत्सनातिति एवं तत। एवं तर्हि ङमः एव अयं ङमुट्क्रियते । कथं । पदस्य इति वर्तते ङमः इति च न एषा पञ्चमी । का तर्हि । सम्बन्धषष्ठी । पदान्तस्य ङमः ङमुट्भवति ह्रस्वातुत्तरस्य अचि इति । यदि ङमः एव ङमुट्क्रियते कुर्वन्नास्ते कृषन्नास्ते रषाभ्यान्नोणःसमानपदे इति णत्वं प्राप्नोति । पदान्तस्य न इति प्रतिषेधः भविष्यति । पदान्तस्य इति उच्यते न एषः पदान्तः । पदान्तभक्तः पदान्तग्रहणेन ग्राहिष्यते । एवं अपि न सिध्यति । किं कारणं । उक्तं एतत्न वा पदाधिकारस्य विशेषणत्वातिति । एवं तर्हि पदे इति वर्तते । क्व प्रकृतं । उञि च पदे इति ।
(पाणिनीयसूत्र ८,३।३३) कि.,४३०।१-६ रो. V,४४६ किमर्थं मयः उत्तरस्य उञः वः वा इति उच्यते न इकः यणचि इति एव सिद्धं । न सिध्यति । प्रगृह्यः प्रकृत्या इति प्रकृतिभावः प्राप्नोति । यदि पुनः तत्र एव उच्येत इकः यणचि मयः उञः वा इति । न एवं शक्यं । इह हि दोषः स्यात। किम्वावपनं महत। मः अनुस्वारः हलि इति अनुस्वारः प्रसज्येत । वत्वे पुनः सति असिद्धत्वात्न भविष्यति ।
(पाणिनीयसूत्र ८,३।३४) कि.,४३०।७-४३१।६ रो. V,४४७-४५० इह कस्मात्न भवति : वृक्षः , प्लक्षः इति । संहितायां इति वर्तते । एवं अपि अत्र प्राप्नोति । किं कारणं । परः सन्निकर्षः संहिता इति उच्यते । सः यथा एव परेण परः सन्निकर्षः एवं पूर्वेण अपि । एवं तर्हि अनवकाशा अवसानसञ्ज्ञा संहितासञ्ज्ञां बाधिष्यते । अथ वा संहितासञ्ज्ञायां प्रकर्षगतिः विज्ञास्यते : साधीयः यः परः सन्निकर्षः इति । कः च साधीयः । यः पूर्वपरयोः । यदि एव अनवकाशा अवसानसञ्ज्ञा संहितासञ्ज्ञां बाधते अथ अपि संहितासञ्ज्ञायां प्रकर्षगतिः विज्ञायते उभयथा दोषः भवति । इष्यन्ते इतः उत्तरं अवसाने संहिताकार्याणि तानि न सिध्यन्ति । अणः अप्रगृह्यस्य अनुनासिकः इति । एवं तर्हि आचार्यप्रवृत्तिः ज्ञापयति न सर्वस्य विसर्जनीयस्य सत्वं भवति इति यतयं खरवसानयोर्विस्जनीयः इति आह । इतरथा खरवसानयोः सः भवति इति एव ब्रूयात। तत्च लघु भवति विसर्जनीयस्य सः इति एतत्च न वक्तव्यं भवति । अवश्यं शर्परेविसर्जनीयः इति अत्र प्रकृतिनिर्देशार्थं विसर्जनीयग्रहणं कर्तव्यं । अथ इदानीं एततपि रसान्निध्यार्थं पुरस्तातपक्रक्ष्यते खरवसानयोः सः इति अत्र एव एवं अपि कुप्वोः Xक्कXप्पौ च इति एवमादिना अनुक्रमणेन व्यवच्छिन्नं भोभगोअघोअपूर्वस्ययोऽशि इति अत्र रुग्रहणं कर्तव्यं स्यात। एवं अपि एकं विसर्जनीयग्रहणं व्याजः भवति । सः अयं एवं लघीयसा न्यासेन सिद्धे सति यत्गरीयांसं यत्नं आरभते तत्ज्ञापयति आचार्यः न सर्वस्य विसर्जनीयस्य सत्वं भवति इति । एवं अपि अनैकान्तिकं ज्ञापकं । एतावत्ज्ञाप्यते न सर्वस्य विजनीयस्य सत्वं भवति इति तत्र कुतः एततिह भविष्यति वृक्षः तत्र प्लक्षः तत्र इति इह न भविष्यति वृक्षः प्लक्षः इति । एवं तर्हि आचार्यप्रवृत्तिः ज्ञापयति न अस्य विसर्जनीयस्य सत्वं भवति इति यतयं शर्परे विसर्जनीयः इति आह । अथ वा हलि इति वर्तते । क्व प्रकृतं । हलि सर्वेषां इति । यदि ततनुवर्तते मयः उञः वः वा हलि च इति हलि अपि वत्वं प्राप्नोति । शमु नः । शमु योः अस्तु । एवं तर्हि विसर्जनीयस्यसः इति अत्र खरि इति अनुवर्तिष्यते । अथ वा सम्बन्धं अनुवर्तिष्यते ।
(पाणिनीयसूत्र ८,३।३६) कि.,४३१।७-९ रो. V,४५० (कात्यायन वार्तिक)वाशर्प्रकरणे खर्परे लोपः(वार्तिकान्त) । वाशर्प्रकरणे खर्परे लोपः वक्तव्यः । वृक्षाः स्थातारः । वृक्षाः स्थातारः ।
(पाणिनीयसूत्र ८,३।३७) कि.,४३१।१०-४३२।७ रो. V,४५०-४५३ (कात्यायन वार्तिक)सस्य कुप्वोः विसर्जनीयजिह्वामूलीयोपध्मानीयाः(वार्तिकान्त) । सस्य कुप्वोः विसर्जनीयजिह्वामूलीयोपध्मानीयाः वक्तव्याः । (कात्यायन वार्तिक)विसर्जनीयादेशे हि शर्परयोः एव आदेशप्रसङ्गः ।(वार्तिकान्त) विसर्जनीयादेशे हि सति शर्परयोः एव कुप्वोः ह्क्कह्प्पौ स्यातां । अद्भिः प्सातं । वासः क्ष्ॐअं । वचनात्न भविष्यतः । अस्ति वचने प्रयोजनं । किं । पुरुषः त्सरुकः । तत्तर्हि वक्तव्यं । न वक्तव्यं । यतेतत्विसर्जनीयस्य सः इति अत्र विसर्जनीयग्रहणं एततुत्तरत्र अनुवर्तिष्यते तस्मिन्च शर्परे विसर्जनीयः असिद्धः । न असिद्धः । कथं । अधिकारः नाम त्रिप्रकारः । कः चितेकदेशस्थः सर्वं शास्त्रं अभिज्वलयति यथा प्रदीपः सुप्रज्वलितः सर्वं वेश्म अभिज्वलयति । अपरः यथा रज्ज्वा अयसा वा बद्धं काष्ठं अनुकृष्यते तद्वत। अपरः अधिकारः प्रतियोगं तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते । तत्यदा एषः पक्षः अधिकारः प्रतियोगं तस्य अनिर्देशार्थः इति तदा हि यतेतत्विसर्जनीयस्यसः इति अत्र विसर्जनीयग्रहणं एततुत्तरत्र अनुवृत्तं सतन्यत्सम्पद्यते तस्मिन्च शर्परे विसर्जनीयः सिद्धः । एवं च क्र्त्वा शर्परयोः एव कुप्वोः ह्क्कह्प्पौ स्यातां । अद्भिः प्सातं । वासः क्ष्ॐअं इति । एवं तर्हि योगविभागः करिष्यते । शर्परे विसर्जनीयः । वा शरि । ततः कुप्वोः । कुप्वोः च शर्परयोः विसर्जनीयस्य विसर्जनीयः भवति इति । किमर्थं इदं । कुप्वोः ह्क्कह्प्पौ वक्ष्यति तद्बाधनार्थं । ततः ह्क्कह्प्पौ भवतः कुप्वोः इति एव । शर्परयोः इति निवृत्तं । अथ वा शर्परेविसर्जनीयः इति एतत्कुप्वोः ह्क्कह्प्पौ च इति अत्र अनुवर्तिष्यते ।
(पाणिनीयसूत्र ८,३।३८) कि.,४३२।८-२३ रो. V,४५३-४५४ (कात्यायन वार्तिक)सः अपदादौ अनव्ययस्य(वार्तिकान्त) । सः अपदादौ अनव्ययस्य इति वक्तव्यं । इह मा भूत। प्रातःकल्पं पुनःकल्पं । (कात्यायन वार्तिक)रोः काम्ये नियमार्थं ।(वार्तिकान्त) रोः काम्ये इति वक्तव्यं । किं प्रयोजनं । नियमार्थं । रोः एव काम्ये न अन्यस्य । पयस्काम्यति । क्व मा भूत। गीःकाम्यति पूःकाम्यति । उपध्मानीयस्य च सत्वं वक्तव्यं । किं प्रयोजनं । अयं उब्जिः उपध्मानीयोपधः पठ्यते तस्य सत्वे कृते जश्भावे च अभ्युद्गः समुद्गः इति एतत्रूपं यथा स्यात। यदि उपध्मानीयोपधः पठ्यते उब्जिजिषति इति उपध्मानीयस्य द्विर्वचनं प्राप्नोति । दकारोपधे पुनः सति नन्द्राःसंयोगादयः इति प्रतिषेधः सिद्धः भवति । यदि दकारोपधः पठ्यते का रूपसिद्धिः : उब्जिता उब्जितुं इति । असिद्धे भः उद्जेः । इदं अस्ति स्तोःश्चुनाश्चुः । ततः वक्ष्यामि । भः उद्जेः । उद्जेः च श्चुना सन्निपाते भः भवति इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । निपातनातेतत्सिद्धं । किं निपातनं । भुजन्युब्जौपाण्युपतापयोः इति । इह अपि प्राप्नोति । अभ्युद्गः समुद्गः । अकुत्वविषये निपातनं । अथ वा न एततुब्जेः रूपं । किं तर्हि गमेः द्व्युपसर्गात्डः विधीयते । अभ्युद्गतः अभ्युद्गः । समुद्गतः समुद्गः ।
(पाणिनीयसूत्र ८,३।३९) कि.,४३२।२४-४३३।२८ रो. V,४५४-४५६ किं अविशेषेण सत्वं उक्त्वा ततः इणः उत्तरस्य सकारस्य षत्वं उच्यते आहोस्वितिणः उत्तरस्य विसर्जनीयस्य एव षत्वं विधीयते । किं च अतः । यदि अविशेषेण सत्वं उक्त्वा इणः उत्तरस्य सकारस्य षत्वं उच्यते निष्कृतं , निष्पीतं इति अत्र सत्वस्य असिद्धत्वात्षत्वं न प्राप्नोति । अथ इणः उत्तरस्य विसर्जनीयस्य एव षत्वं विधीयते सत्वं अपि अनुवर्तते उताहो न । किं च अतः । यदि अनुवर्तते सत्वं अपि प्राप्नोति । अथ निवृत्तं नमस्पुरसोर्गत्योः इति अत्र सकारग्रहणं कर्तव्यं । तस्मिन्च क्रियमाणे षत्वं अपि अनुवर्तते उताहो न । किं च अतः । यदि अनुवर्तते षत्वं अपि प्राप्नोति । अथ निवृत्तं इदुदुपधस्य च अप्रत्यस्य इति अत्र षकारग्रहणं कर्तव्यं । तस्मिन्च क्रियमाणे सत्वं अपि अनुवर्तते उताहो न । किं च अतः । यदि अनुवर्तते सत्वं अपि प्राप्नोति । अथ निवृत्तं तिरसः अन्यतरस्यां इति अत्र सकारग्रहणं कर्तव्यं । तस्मिन्च क्रियमाणे षत्वं अपि अनुवर्तते उताहो न । किं च अतः । यदि अनुवर्तते षत्वं अपि प्राप्नोति । अथ निवृत्तं द्विस्त्रिश्चतुरितिकृत्वोऽर्थे इसुसोः सामर्थ्ये नित्यंसमासे अनुत्तरपदस्थस्य इति षकारग्रहणं कर्तव्यं । तस्मिन्च क्रियमाणे सत्वं अपि अनुवर्तते उताहो न । किं च अतः । यदि अनुवर्तते सत्वं अपि प्राप्नोति । अथ निवृत्तं अतःकृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य इति सकारग्रहणं कर्तव्यं । यथा इच्छसि तथा अस्तु । अस्तु तावतविशेषेण सत्वं उक्त्वा इणः उत्तरस्य सकारस्य षत्वं उच्यते । ननु च उक्तं निष्कृतं , निष्पीतं इति अत्र सत्वस्य असिद्धत्वात्षत्वं न प्राप्नोति इति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न योगे योगः असिद्धः । किं तर्हि प्रकरणे प्रकरणं असिद्धं इति यतयं उपसर्गातसमासे अपि णोपदेशस्य इति असमासेपिग्रहणं करोति । अथ वा पुनः अस्तु इणः उत्तरस्य विसर्जनीयस्य षत्वं विधीयते । ननु च उक्तं सत्वं अपि अनुवर्तते उताहो न किं च अतः यदि अनुवर्तते सत्वं अपि प्राप्नोति इति । न एषः दोषः । सम्बन्धं अनुवर्तिष्यते । सः अपदादौ । इणःषः । नमस्पुरसोः गत्योः सकारः इणः उत्तरस्य षकारः । इदुदुपधस्य च अप्रत्ययस्य षकारः नमस्पुरसोः गत्योः सकारः । तिरसः अन्यतरस्यां सकारः इदुदुपधस्य च अप्रत्ययस्य षकारः । द्विस्त्रिश्चतुरितिकृत्वोऽर्थे इसुसोःसामर्थ्ये नित्यम्समासेऽनुत्तरपदस्थस्य इति षकारः तिरसः अन्यतरस्यां सकारः । अतःकृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य । सकारः अनुवर्तते षकारग्रहणं निवृत्तं ।
(पाणिनीयसूत्र ८,३।४१।१) कि.,४३४।१-१० रो. V,४५६-४५७ (कात्यायन वार्तिक)इदुदुपधस्य च अप्रत्ययस्य इति चेत्पुम्मुहुसोः प्रतिषेधः(वार्तिकान्त) । इदुदुपधस्य च अप्रत्ययस्य इति चेत्पुम्मुहुसोः प्रतिषेधः वक्तव्यः । पुंस्कामा मुहुःकामः इति । वृद्धिभूतानां षत्वं वक्तव्यं । दौष्कुल्यं नैष्पुरुष्यं । (कात्यायन वार्तिक)प्लुतानां तादौ च ।(वार्तिकान्त) प्लुतानां तादौ च कुप्वोः च इति वक्तव्यं । सर्पि३ष्टर । बर्ही३ष्टर नि३ष्कुल दु३ष्पुरुष । (कात्यायन वार्तिक)न वा बहिरङ्गलक्षणत्वात।(वार्तिकान्त) न वा वक्तव्यं । किं कारणं । बहिरन्गलक्षणत्वात्वृद्धेः । बहिरङ्गलक्षणा वृद्धिः ।
(पाणिनीयसूत्र ८,३।४१।२) कि.,४३४।१०-१६ रो. V,४५७-४५८ इह कस्मात्न भवति । पितुः करोति । मातुः करोति । अप्रत्ययविसर्जनीयस्य इति षत्वं प्रसज्येत । अप्रत्ययविसर्जनीयस्य इति उच्यते प्रत्ययविसर्जनीयः च अयं । लुप्यते अत्र प्रत्ययविसर्जनीयः रात्सस्य इति । एवं तर्हि । (कात्यायन वार्तिक)भ्रातुष्पुत्रग्रहणं ज्ञापकं एकादेशनिमित्तात्षत्वप्रतिषेधस्य(वार्तिकान्त) । यतयं कस्कादिषु भ्रातुष्पुत्रशब्दं पठति तत्ज्ञापयति आचार्यः न एकादेशनिमित्तात्षत्वं भवति इति ।
(पाणिनीयसूत्र ८,३।४३) कि.,४३४।१७-१८ रो. V,४५८-४६० द्विस्त्रिश्चतुर्ग्रहणं किमर्थं । इह मा भूत। पञ्चकृत्वः करोति । अथ कृत्वोर्थग्रहणं किमर्थं । इह मा भूत। चतुष्कपालः चतुष्कण्टकः इति । न एततस्ति । अस्तु एतेन विभाषा पूर्वेण नित्यः विधिः भविष्यति । न अप्राप्ते पूर्वेण इयं विभाषा आरभ्यते सा यथा एव इह बाधिका भवति चतुः करोति चतुष्करोति इति एवं चतुष्कपाले अपि बाधिका स्यात। न अत्र पूर्वेण षत्वं प्राप्नोति । किं कारणं । अप्रत्ययविसर्जनीयस्य इति उच्यते प्रत्ययविसर्जनीयः च अयं । लुप्यते प्रत्ययविसर्जनीयः रात्सस्य इति । तस्मात्कृत्वोर्थग्रहणं कर्तव्यं । द्विस्त्रिश्चतुर्ग्रहणं शक्यमवक्तुं । कस्मात्न भवति पञ्चकृत्वः करोति इति । इदुदुपधस्य इति वर्तते । न एवं शक्यं । अक्रियमाणे द्विस्त्रिश्चतुर्ग्रहणे कृत्वोऽर्थग्रहणेन विसर्जनीयः विशेष्येत । तत्र कः दोषः । इह एव स्यात्द्विष्करोति द्विः करोति । इह न स्यात्चतुष्करोति चतुः करोति इति । द्विस्त्रिश्चतुर्ग्रहणे पुनः क्रियमाणे कृत्वोऽर्थग्रहणे द्विस्त्रिश्चतुरः विशेष्यन्ते । द्विस्त्रिश्चतुर्णां कृत्रोऽर्थे वर्तमानानां यः विसर्जनीयः इति । एततपि न अस्ति प्रयोजनं । पदस्य इति वर्तते तत्कृत्वोऽर्थग्रहणेन विशेषयिष्यः । पदस्य कृत्वोऽर्थे वर्तमानस्य यः विसर्जनीयः इति । (कात्यायन वार्तिक)कृत्वसुजर्थे षत्वं ब्रवीति(वार्तिकान्त) । कस्मात्चतुष्कपाले मा । षत्वं विभाषया भूत। ननु सिद्धं तत्र पूर्वेण । सिद्धे हि अयं विधत्ते चतुरः षत्वं तदा अपि क्र्त्वोऽर्थे । लुप्ते कृत्वोऽर्थीये रेफस्य विसर्जनीयः हि । एवं सति तु इदानीं द्विः त्रिः चतुः इति अनेन किं कार्यं । अन्यः हि न इदुदुपधः कृत्वोऽर्थे कः चितपि अस्ति । अक्रियमाणे ग्रहणे विसर्जनीयः तदा विशेष्येत । चतुरः न सिध्यति तदा रेफस्य विसर्जनीयः हि । तस्मिन्तु गृह्यमाणे युक्तं चतुरः विशेषणं भवति । प्रकृतं पदं तदन्तं तस्य अपि विशेषणं न्याय्यं ।
(पाणिनीयसूत्र ८,३।४५) कि.,४३५।२०-४३६।२४ रो. V,४६०-४६२ अनुत्तरपदस्थस्य इति किमर्थं । परमसर्पिःकुण्डिका । अथ इदानीं अनेन मुक्ते पूर्वेण षत्वं विभाषा कस्मात्न भवति इसुसोः सामर्थ्ये इति । (कात्यायन वार्तिक)नानापदार्थयोः वर्तमानयोः ख्यायते यदा योगः(वार्तिकान्त) । तस्मिन्षत्वं कार्यं तत्युक्तं तत्च मे न इह । व्यपेक्षासामर्थ्ये पूर्वयोगः न च अत्र व्यपेक्षासामर्थ्यं । किं पुनः कारणं व्यपेक्षासामर्थ्यं आश्रीयते न पुनः एकार्थीभावः यथा अन्यत्र । (कात्यायन वार्तिक)ऐकार्थ्ये सामर्थ्ये वाक्ये षत्वं न मे प्रसज्येत ।(वार्तिकान्त) ऐकार्थ्ये सामर्थ्ये सति वाक्ये षत्वं न स्यातः सर्पिष्करोति । सर्पिः करोति इति । (कात्यायन वार्तिक)तस्मातिह व्यपेक्षां सामर्थ्यं साधु मन्यन्ते । अथ चेत्कृदन्तं एतत्ततः अधिके न एव मे भवेत्प्राप्तिः (वार्तिकान्त)। यदि कृदन्तं एतत्ततः अधिकस्य षत्वं न प्राप्नोति । किं कारणं । प्रत्ययग्रहणे यस्मात्सः तदादेः ग्रहणं भवति इति । वाक्ये अपि तर्हि न प्राप्नोति । परमसर्पिष्करोति परमसर्पिः करोति इति । (कात्यायन वार्तिक)वाक्ये च मे विभाषा प्रतिषेधः न प्रकल्पेत ।(वार्तिकान्त) यतयं अनुत्तरपदस्थस्य इति प्रतिषेधं शास्ति तत्ज्ञापयति आचार्यः भवति वाक्ये विभाषा इति । (कात्यायन वार्तिक)अथ चेत्संविज्ञानं नित्ये षत्वे ततः विभाषा इयं ।(वार्तिकान्त) अथ अव्युत्पन्नं प्रातिपदिकं ततः नित्ये षत्वे प्राप्ते इयं विभाषा आरभ्यते । (कात्यायन वार्तिक)सिद्धं च मे समासे । (वार्तिकान्त)षत्वं । किमर्थं तर्हि इदं उच्यते । (कात्यायन वार्तिक)प्रतिषेधार्थः तु यत्नः अयं ।(वार्तिकान्त) अनुत्तरपदस्थस्य इति प्रतिषेधं वक्ष्यामि इति । (कात्यायन वार्तिक)नानापदार्थयोः वर्तमानयोः ख्यायते यदा योगः । तस्मिन्षत्वं कार्यं तत्युक्तं तत्च मे न इह । ऐकार्थ्ये सामर्थ्ये वाक्ये षत्वं न मे प्रसज्येत । तस्मातिह व्यपेक्षां सामर्थ्यं साधु मन्यन्ते । अथ चेत्कृदन्तं एतत्ततः अधिके न एव मे भवेत्प्राप्तिः । वाक्ये च मे विभाषा प्रतिषेधः न प्रकल्पेत । अथ चेत्संविज्ञानं नित्ये षत्वे ततः विभाषा इयं । सिद्धं च मे समासे प्रतिषेधार्थः तु यत्नः अयं ।(वार्तिकान्त)
(पाणिनीयसूत्र ८,३।५५) कि.,४३६।२५-४३७।६ रो. V,४६३ अथ मूर्धन्यग्रहणं किमर्थं न अपदान्तस्य षः भवति इति एव उच्येत । तत्र अयं अपि अर्थः षकारग्रहणं न कर्तव्यं भवति प्रकृतं अनुवर्तते । क्व प्रकृतं । इणःषः इति । न एवं शक्यं । अवश्यं मूर्धन्यग्रहणं कर्तव्यं इहार्थं उत्तरार्थं च । इहार्थं तावत। इणःषीध्वंलुङ्लिटाम्धोऽङ्गातिति अत्र ंऊर्धन्यग्रहणं न कर्तव्यं भवति । उत्तरार्थं च । रषाभ्यान्नोणःसमानपदे इति अत्र णकारग्रहणं न कर्तव्यं भवति । तत्र अयं अपि अर्थः पदान्तस्य न इति प्रतिषेधः न वक्तव्यः भवति । अपदान्ताभिसम्बद्धं मूर्धन्यग्रहणं अनुवर्तते ।
(पाणिनीयसूत्र ८,३।५६) कि.,४३८।१-१९ रो. V,४६४-४६५ सग्रहणं किमर्थं न सहेः साडः मूर्धन्यः भवति इति एव उच्येत । सहेः साडः मूर्धन्यः भवति इति उच्यमाने अन्त्यस्य प्रसज्येत । ननु च अन्त्यस्य मूर्धन्यवचने प्रयोजनं न अस्ति इति कृत्वा सकारस्य भविष्यति । कुतः नु खलु एततनन्त्यार्थे आरम्भे सकारस्य भविष्यति । न पुनः आकारस्य स्यात। स्थने अन्तरतमः भवति इति सकारस्य भविष्यति । भवेत्प्रकृतितः अन्तरतमनिर्वृत्तौ सत्यां सिद्धं स्यात। आदेशतः तु अन्तरतमनिर्वृत्तौ सत्यां आकारस्य प्रसज्येत । तस्मात्सकारग्रहणं कर्तव्यं । उत्तरार्थं च सकारग्रहणं क्रियते । आदेशप्रत्यययोः सकारस्य यथा स्यात। इह मा भूत। चितं , स्तुतं । अथ सहिग्रहणं किमर्थं न साडः सः भवति इति एव उच्येत । सहेः एव साड्रूपं भवति न अन्यस्य । यदि एवं । (कात्यायन वार्तिक)साडः षत्वे समानशब्दप्रतिषेधः(वार्तिकान्त) । साडः षत्वे समानशब्दानां प्रतिषेधः वक्तव्यः । साडः दण्डः। साडः वृश्चिकः इति । अर्थवद्ग्रहणात्सिद्धं । अर्थवतः साड्शब्दस्य ग्रहणं न च एषः अर्थवान। (कात्यायन वार्तिक)अर्थवद्ग्रहणात्सिद्धं इति चेत्तद्धितलोपे अर्थवत्त्वात्प्रतिषेधः ।(वार्तिकान्त) अर्थवद्ग्रहणात्सिद्धं इति चेत्तद्धितलोपे अर्थवत्त्वात्प्रतिषेधः वक्तव्यः । सह अडेन साडः साडस्य अपत्यं साडिः अत्र प्राप्नोति । न वक्तव्यः । षत्वतुकोः एकादेशस्य असिद्धत्वात्न एषः साड्शब्दः । एवं अपि सह डेन सडः सडस्य अपत्रं साडिः अत्र प्राप्नोति । तस्मात्सहिग्रहणं कर्तव्यं ।
(पाणिनीयसूत्र ८,३।५७-५८) कि.,४३८।२०-४३९।९ रो. V,४६५-४६६ (कात्यायन वार्तिक)नुम्विसर्जनीयशर्व्यवाये निंसेः प्रतिषेधः(वार्तिकान्त) । नुम्विसर्जनीयशर्व्यवाये निंसेः प्रतिषेदः वक्तव्यः । निंस्से निंस्स्व इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । नुमा एव व्यवाये विसर्जनीयेन एव व्यवाये शरा एव व्यवाये इति । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । प्रत्येकं वाक्यपरिसमाप्तिः दृष्टा इति । तत्यथा । गुणवृद्धिसञ्ज्ञे प्रत्येकं भवतः । ननु च अयं अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः । तत्यथा । गर्गाः शतं दण्ड्यन्तां । अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकं दण्डयन्ति । एवं तर्हि । (कात्यायन वार्तिक)योगविभागात्सिद्धं ।(वार्तिकान्त) योगविभागः करिष्यते । नुम्व्यवाये । ततः विसर्जनीयव्यवाये । ततः शर्व्यवाये । सः तर्हि योगविभागः कर्तव्यः । न कर्तव्यः । प्रत्येकं व्यवायशब्दः परिसमाप्यते ।
(पाणिनीयसूत्र ८,३।५९।१) कि.,४३९।१०-१८ रो. V,४६६-४६७ (कात्यायन वार्तिक)आदेशप्रत्यययोः षत्वे सरकः प्रतिषेधः (वार्तिकान्त)। आदेशप्रत्यययोः षत्वे सरकः प्रतिषेदः वक्तव्यः : कृसरः , धूसरः । अत्यल्पं इदं उच्यते : सरकः इति । सरगादीनां इति वक्तव्यं इह अपि यथा स्यातः वर्सं तर्सं इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । उणादयः अव्युत्पन्नानि प्रातिपदिकानि । न वै एतत्षत्वे शक्यं विज्ञातुं उणदयः अव्युत्पन्नानि प्रातिपदिकानि इति । इह हि न स्यात। सर्पिषः यजुषः इति । एवं तर्हि । (कात्यायन वार्तिक)बहुलवचनात्सिद्धं (वार्तिकान्त)। बहुलं प्रत्ययसञ्ज्ञा भवति ।
(पाणिनीयसूत्र ८,३।५९।२) कि.,४३९।१९-४४१।५ रो. V,४६७-४६९ किं पुनः इयं अवयवषष्ठी : आदेशस्य यः सकारः प्रत्ययस्य यः सकारः इति । आहोस्वित्समानाधिकरणा : आदेशः यः सकारः प्रत्ययः यः सकारः इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)आदेशप्रत्यययोः इति अवयवषष्ठी चेत्द्विर्वचने प्रतिषेधः(वार्तिकान्त) । आदेशप्रत्यययोः इति अवयवषष्ठी चेत्द्विर्वचने प्रतिषेधः वक्तव्यः । बिसं बिसं । मुसलं मुसलं । (कात्यायन वार्तिक)समानाधिकरणानां च अप्राप्तिः ।(वार्तिकान्त) समानाधिकरणानां च षत्वस्य अप्राप्तिः । एषः , अकार्षीत। अस्तु तर्हि समानाधिकरणा । यदि समानाधिकरणा सिषेच सुष्वाप , अत्र न प्राप्नोति । न धातुद्विर्वचने स्थाने द्विर्वचनं शक्यं आस्थातुं । इह अपि हि प्रसज्येत सरीसृप्यते इति । तस्मात्तत्र द्विःप्रयोगः द्विर्वचनं । इह तर्हि करिष्यति हरिष्यति प्रत्ययः यः सकारः इति षत्वं न प्राप्नोति । अस्तु तर्हि आदेशः यः सकारः प्रत्ययस्य यः सकारः इति । इह तर्हि अकार्षीत्प्रत्ययस्य यः सकारः इति षत्वं न प्राप्नोति । मा भूतेवं आदेशः यः सकारः इति एवं भविष्यति । इह तर्हि : जोषिषत्, मन्दिषतिति प्रत्ययस्य यः सकारः इति षत्वं न प्राप्नोति । एषः अपि इटि कृते प्रत्ययस्य सकारः । इह तर्हि इन्द्रः मा वक्षत्सः , सः देवन्यक्षत। (कात्यायन वार्तिक)नानाविभक्तीनां च समासानुपपत्तिः ।(वार्तिकान्त) नानाविभक्तीनां च समासः न उपपद्यते आदेशप्रत्यययोः इति । (कात्यायन वार्तिक)योगविभागात्सिद्धं ।(वार्तिकान्त) योगविभागः करिष्यते । आदेशस्य षः भवति इति । ततः प्रत्ययसकारस्य षः भवति इति । स तर्हि योगविभागः कर्तव्यः । न कर्तव्यः । कथं । अस्तु तावतवयवषष्ठी । ननु च उक्तं आदेशप्रत्यययोः इति अवयवषष्ठी चेत्द्विर्वचने प्रतिषेधः इति । न एषः दोषः । द्विःप्रयोगः द्विर्वचनं । यतपि उच्यते समानाधिकरणानां च अप्राप्तिः इति व्यपदेशिवद्भावेन भविष्यति । अथ वा पुनः अस्तु समानाधिकरणा । कथं करिष्यति हरिष्यति । आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकानां षत्वं इति यतयं सात्पदाद्योः इति सात्प्रतिषेधं शास्ति । अथ वा पुनः अस्तु आदेशः यः सकारः प्रत्ययस्य यः सकारः इति । कथं इन्द्रः मा , वक्षत्सः देवान्यक्षत। व्यपदेशिवद्भावेन भविष्यति । सः तर्हि व्यपदेशिवद्भावः वक्तव्यः । न वक्तव्यः । (कात्यायन वार्तिक)उक्तं वा ।(वार्तिकान्त) किं उक्तं । तत्र व्यपदेशिवद्वचनं एकाचः द्वे प्रथमार्थं षत्वे च आदेशसम्प्रत्ययार्थं अवचनात्लोकविज्ञनात्सिद्धं इति । यतपि नानाविभक्तीनां च समासानुपपत्तिः इति आचार्यप्रवृत्तिः ज्ञापयति नानाविभक्त्योः एषः समासः इति यतयं शासिवसिघसीनाञ्च इति घसिग्रहणं करोति । कथं कृत्वा ज्ञापकं । यदि हि आदेशस्य यः सकारः इति एवं स्यात्घसिग्रहणं अनर्थकं स्यात। पश्यति तु आचार्यः आदेशः यः सकारः तस्य षत्वं इति ततः घसिग्रहणं करोति ।
(पाणिनीयसूत्र ८,३।६१) कि.,४४१।६-२१ रो. V,४७०-४७१ स्तौतिणिग्रहणं किमर्थं । अस्तौतिण्यन्तानां मा भूत। सिसिक्षति । अथ एवकारः किमर्थः । नियमार्थः । स्थौतिण्यन्तानां एव न अन्येषां इति । न एततस्ति प्रयोजनं । सिद्धे विधिः आरभ्यमाणः अन्तरेण एवकारकरणं नियमार्थः भविष्यति । इष्टतः अवधारणार्थः तर्हि । यथा एवं विज्ञायेत स्तौतिण्योः एव षणि इति । मा एवं विज्ञायि स्तौतिण्योः षणि एव इति । इह न स्यात्तुष्टाव । अथ षणि इति किमर्थं । सेषीव्यते । कः विनते अनुरोधः । अविनते नियमः मा भूत। सुषुप्सति इति । कः सानुबन्धे अनुरोधः । षशब्दमात्रे नियमः मा भूत। सुषुपिषे इन्द्रं । सुषुपिषे इह इति । अभ्यासातिति किमर्थं । अभ्यासात्या प्राप्तिः तस्याः नियमः यथा स्यातुपसर्गात्या प्राप्तिः तस्याः नियमः मा भूत। अभिषिषिक्षति । न एततस्ति । असिद्धं उपसर्गात्षत्वं तस्य असिद्धत्वात्नियमः न भविष्यति । इदं तर्हि प्रयोजनं । सनि यः अभ्यासः तस्मात्या प्राप्तिः तस्याः नियमः यथा स्यात्यङि यः अभ्यासः तस्मात्या प्राप्तिः तत्र नियमः मा भूतिति । सोषुप्यतेः सन्सोषुपिषते । अथ वा अभ्यासात्या प्राप्तिः तस्याः नियमः यथा स्यात्धातोः या प्राप्तिः तस्याः नियमः मा भूत। अधीषिषति । ननु च षणि इति उच्यते । षणि इति न एषा परसप्तमी शक्या विज्ञातुं सन्यङन्तं हि द्विरुच्यते । तस्मातेषा सत्सप्तमी षणि सति इति । सत्सप्तमी चेत्प्राप्नोति ।
(पाणिनीयसूत्र ८,३।६४) कि.,४४१।२२-४४२।८ रो. V,४७२ किमर्थं इदं उच्यते । (कात्यायन वार्तिक)स्थादिषु अभ्यासवचनं नियमार्थम्(वार्तिकान्त) । नियमार्थः अयं आरम्भः । स्थादिषु एव अभ्यासस्य यथा स्यात। इह मा भूत। अभिसुसूषति । अथ किमर्थं अभ्यासेन च इति उच्यते । (कात्यायन वार्तिक)तद्व्यवाये च अषोपदेशार्थं ।(वार्तिकान्त) तद्व्यवाये अभ्यासव्यवाये च अषोपदेशस्य अपि यथा स्यात। अभिषिषेणयिषति । (कात्यायन वार्तिक)अवर्णार्थं षणि प्रतिषेधार्थं च ।(वार्तिकान्त) अवणार्थं तवत। अभितष्ठौ । षणि प्रतिषेधार्थं । अभिषिषिक्षति ।
(पाणिनीयसूत्र ८,३।६५।१) कि.,४४२।९-२१ रो. V,४७३-४७४ (कात्यायन वार्तिक)उपसर्गात्षत्वे निसः उपसङ्ख्यानं अनिणन्तत्वात्(वार्तिकान्त) । उपसर्गात्षत्वे निसः उपसङ्ख्यानं कर्तव्यं । निःषुणोति निःषिञ्चति । किं पुनः कारणं न सिध्यति । अनिणन्तत्वात। इणन्तातुपसर्गात्षत्वं उच्यते न च निस्* इणन्तः । (कात्यायन वार्तिक)न वा वर्णाश्रयत्वात्षत्वस्य तद्विशेषकः उपसर्गः धातुः च(वार्तिकान्त) । न वा वक्तव्यं । किं कारणं । वर्णाश्रयत्वात्षत्वस्य । वर्णाश्रयं षत्वं । तद्विशेषकः उपसर्गः धातुः च । न एवं विज्ञायते इणन्तातुपसर्गातिति । कथं तर्हि । इणः उत्तरस्य सकारस्य सः चेतिणुपसर्गस्य सः चेत्सकारः सुनोत्यादीनां इति । तत्र शर्व्यवाये इति एव सिद्धं । यदि एवं धातूपसर्गयोः अभिसम्बन्धः अकृतः भवति । तत्र कः दोषः । इह अपि प्राप्नोति । विगताः सेचकाः अस्मात्ग्रामात्विसेचकः ग्रामः । धातूपसर्गयोः च अभिसम्बन्धः कृतः । कथं । सुनोत्यादिभिः अत्र उपसर्गं विशेषयिष्यामः सुनोत्यादीनां यः उपसर्गः तस्य यः इणिति ।
(पाणिनीयसूत्र ८,३।६५।२) कि.,४४२।२१-४४३।४ रो. V,४७४ (कात्यायन वार्तिक)सुनोत्यादीनां षत्वे ण्यन्तस्य उपसङ्ख्यानं अधिकत्वात्(वार्तिकान्त) । सुनोत्यादीनां षत्वे ण्यन्तस्य उपसङ्ख्यानं कर्तव्यं । अभिषावयति । किं कारणं । अधिकत्वात। व्यतिरिक्तः सुनोत्यादिः इति कृत्वा उपसर्गात्सुनोत्यादीनां इति षत्वं न प्राप्नोति । (कात्यायन वार्तिक)न वा अवयवस्य अनन्यत्वात।(वार्तिकान्त) न वा वक्तव्यं । किं कारणं । अवयवस्य अनन्यत्वात। अवयवः अत्र अनन्यः ।
(पाणिनीयसूत्र ८,३।६५।३) कि.,४४३।५-४४३।१२ रो. V,४७४-४७५ (कात्यायन वार्तिक)नामधातोः तु प्रतिषेधः(वार्तिकान्त) । नामधातोः तु प्रतिषेधः वक्तव्यः । सावकं इच्छति अभिसावकीयति परिसावकीयति । (कात्यायन वार्तिक)न वा अनुपसर्गत्वात।(वार्तिकान्त) न वा वक्तव्यः । किं कारणं । अनुपसर्गत्वात। यत्क्रियायुक्ताः तं प्रति गत्युपसर्गसञ्ज्ञे भवतः न च अत्र सुनोतिं प्रति क्रियायोगः । किं तर्हि सावकीयतिं प्रति । इह अपि तर्हि न प्राप्नोति : अभिषावयति । अत्र अपि न सुनोतिं प्रति क्रियायोगः । किं तर्हि सावयतिं प्रति । सुनोतिं प्रति अत्र क्रियायोगः । कथं । न असौ एवं प्रेष्यते सुनु अभि इति । किं तर्हि । उपसर्गविशिष्टां असौ क्रियां प्रेष्यते अभिषुणु इति ।
(पाणिनीयसूत्र ८,३।६७) कि.,४४३।१३-१८ रो. V,४७५ अप्रतेः इति वर्तते उताहो निवृत्तं । निवृत्तं इति आह । कथं ज्ञायते । योगविभागकरणसामर्थ्यात। इतरथा हि सदिस्तम्भ्योः अप्रतेः इति एव ब्रूयात। अस्ति अन्यत्योगविभागकरणे प्रयोजनं । किं । अवाच्चालम्बनाविदूर्वयोः इति वक्ष्यति तत्स्तम्भेः एव यथा स्यात्सदेः मा भूतिति । न एततस्ति प्रयोजनं । एकयोगे अपि सति यस्य आलम्बनाविदूर्ये स्तः तस्य भविष्यति । कस्य च आलम्बनाविदूर्ये स्तः । स्तम्भेः एव ।
(पाणिनीयसूत्र ८,३।७२) कि.,४४३।१९-२३ रो. V,४७५ अथ यः प्राणी अप्राणी च कथं तत्र भवितव्यं । अनुष्यन्देते मत्स्योदके इति । आहोस्वितनुस्यन्देते मत्स्योदके इति । यदि तावतप्राणी विधिना आश्रीयते अस्ति अत्र अप्राणी इति कृत्वा भवितव्यं षत्वेन । अथ प्राणी प्रतिषेधेन आश्रीयते अस्ति अत्र प्राणी इति कृत्वा भवितव्यं प्रतिषीधेन । किं पुनः अत्र अर्थसतत्त्वं । देवाः ज्ञातुं अर्हन्ति ।
(पाणिनीयसूत्र ८,३।७४) कि.,४४४।१-४ रो. V,४७६ अनिष्ठायां इति वर्तते उताहो निवृत्तं । निवृत्तं इति आह । कथं ज्ञायते । योगविभागकरणसामर्थ्यात। इतरथा हि विपरिभ्यां च स्कन्देः अनिष्ठायां इति एव ब्रूयात।
(पाणिनीयसूत्र ८,३।७८-७९) कि.,४४४।५-९ रो. V,४७६ इण्ग्रहणं किमर्थं । (कात्यायन वार्तिक)इण्ग्रहणं ढत्वे कवर्गनिवृत्त्यर्थम्(वार्तिकान्त) । इण्घ्रहणं क्रियते कवर्गात्ढत्वं मा भूतिति । पक्षीध्वं यक्षीध्वं ।
(पाणिनीयसूत्र ८,३।७९) कि.,४४४।१०-४४५।१४ रो. V,४७६-४७८ किं पुनः इदं इण्ग्रहणं प्रत्ययविशेषणं : इणः उत्तरेषां षीध्वंलुङ्लिटां यः धकारः इति । आहोस्वित्धकारविशेषणं : इणः उत्तरस्य धकारस्य सः चेत्षीध्वंलुङ्लिटां धकारः इति । कः च अत्र विशेषः । (कात्यायन वार्तिक)तत्र प्रत्ययपरत्वे इटः लिटि ढत्वं परादित्वात्(वार्तिकान्त)। तत्र प्रत्ययपरत्वे इटः लिटि ढत्वं न प्राप्नोति । लुलुविढ्वे लुलुविध्वे इति । किं कारणं । परादित्वात। इट्परादिः । वचनात्भविष्यति । अस्ति वचने प्रयोजनं । किं । अलविढ्वं अलविध्वं । अस्तु तर्हि धकारविशेषणं । (कात्यायन वार्तिक)धकारपरत्वे षीध्वमि अननन्तरत्वातिटः विभाषाभावः(वार्तिकान्त) । धकारपरत्वे षीध्वमि अननन्तरत्वातिटः विभाषा न प्राप्नोति । लविषीढ्वं लविषीध्वं इति । वचनात्भविष्यति । अस्ति वचने प्रयोजनं । किं । लुलुविढ्वे लुलुविध्वे इति । (कात्यायन वार्तिक)इण्ग्रहणस्य च अविशेषणत्वात्ष्यादिमात्रे ढत्वप्रसङ्गः ।(वार्तिकान्त) इण्ग्रहणस्य च अविशेषणत्वात्ष्यादिमात्रे ढत्वं प्राप्नोति : पक्षीध्वं , यक्षीध्वं इति । न एषः दोषः । अङ्गातिति वक्ष्यामि । अङ्गग्रहणात्च दोषः । इह न प्राप्नोति : उपदिदीयिध्वे , उपदिदीयिढ्वे । यः हि अत्र अङ्गान्त्यः इण्न तस्मातुत्तरः इट्यस्मात्च उत्तरः इट्न असौ अङ्गान्त्यः इणिति । यथा इच्छसि तथा अस्तु । अस्तु तावत्प्रत्ययविशेषणं । ननु च उक्तं तत्र प्रत्ययपरत्वे इटः लिटि ढत्वं परादित्वात्लुलुविढ्वे लुलुविध्वे इति । वचनात्भविष्यति । ननु च उक्तं अस्ति वचने प्रयोजनं । किं । अलविढ्वं अलविध्वं इति । यतेतस्मिन्योगे लिड्ग्रहणं तदनवकाशं तस्य अनवकाशत्वात्वचनात्भविष्यति । अथ वा पुनः अस्तु धकारविशेषणं इति । ननु च उक्तं धकारपरत्वे षीध्वमि अननन्तरत्वातिटः विभाषाभावः लविषीढ्वं लविषीध्वं इति । वचनात्भविष्यति । ननु च उक्तं अस्ति वचने प्रयोजनं । किं । लुलुविढ्वे लुलुविध्वे इति । यतेतस्मिन्योगे षीध्वङ्ग्रहणं ततनवकाशं तस्य अनवकाशत्वात्वचनात्भविष्यति । यतपि उच्यते इण्ग्रहणस्य च अविशेषणत्वात्ष्यादिमात्रे ढत्वप्रसङ्गः इति अङ्गातिति वक्ष्यामि । ननु च उक्तं अङ्गग्रहणात्च दोषः इति । पूर्वस्मिन्योगे यतङ्गग्रहणं ततुत्तरत्र निवृत्तं । अथ वा पूर्वस्मिन्योगे इण्ग्रहणं प्रत्ययविशेषणं उत्तरत्र धकारविशेषणं ।
(पाणिनीयसूत्र ८,३।८२) कि.,४४५।१५-२३ रो. V,४७८-४७९ (कात्यायन वार्तिक)अग्नेः दीर्घात्सोमस्य(वार्तिकान्त) । अग्नेः दीर्घात्सोमस्य इति वक्तव्यं । अग्नीषोमौ । (कात्यायन वार्तिक)इतरथा हि अनिष्टप्रसङ्गः ।(वार्तिकान्त) इतरथा हि अनिष्टं प्रसज्येत । अग्निसोमौ माणवकौ इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । गौणमुख्ययोः मुख्ये सम्प्रतिप्रत्तिः । तत्यथा । गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति न बाहीकः अनुबध्यते । कथं तर्हि बाहीके वृद्ध्यात्त्वे भवतः । गौः तिष्ठति । गां आनय इति । अर्थाश्रये एततेवं भवति । यत्हि शब्दाश्रयं शब्दमात्रे तत्भवति । शब्दाश्रये च वृद्ध्यात्वे ।
(पाणिनीयसूत्र ८,३।८५) कि.,४४६।१-६ रो. V,४८० सान्ताभ्यां च इति वक्तव्यं । इह अपि यथा स्यात। मातुःष्वसा मातुःस्वसा । पितुःष्वसा पितुःस्वसेति । (कात्यायन वार्तिक)मातुः पितुः इति सान्तग्रहणानर्थक्यं एकदेशविकृतस्य अनन्यत्वात्(वार्तिकान्त) । मातुः पितुः इति सान्तग्रहणं अनर्थकं । किं कारणं । एकदेशविकृतस्य अनन्यत्वात। एकदेशविकृतं अनन्यवत्भवति इति सान्तस्य अपि भविष्यति ।
(पाणिनीयसूत्र ८,३।८७) कि.,४४६।७-१८ रो. V,४८०-४८१ अस्तिग्रहणं किमर्थं । इह मा भूत। अनुसृतं , विसृतं इति । न एततस्ति प्रयोजनं । यद्क्रियायुक्ताः तं प्रति गत्युपसर्गसञ्ज्ञे भवतः न च एतं सकारं प्रति क्रियायोगः । इह अपि तर्हि न प्राप्नोति अभिषन्ति विषन्ति इति न हि अस्तिः क्रियावचनः । कः पुनः आह न अस्तिः क्रियावचनः इति । क्रियावचनः अस्तिः । आतः च क्रियावचनः व्यत्यनुषते कर्तरिकर्मव्यतिहारे इति अनेन आत्मनेपदं भवति । कर्मव्यतिहारः च कः । क्रियाव्यतिहारः । प्रादुःशब्दात्तर्हि मा भूत। प्रादुःशब्दः च नियतविषयः कृभ्वस्तियोगे एव वर्तते । उपसर्गात्तर्हि स्यतेः मा भूतिति । इष्यते उपसर्गात्स्यतेः षत्वं । आतश्च इष्यते । एवं हि आह : उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वङ्जां इति । प्रादुःशब्दात्तर्हि स्यतेः मा भूतिति । प्रादुःशब्दः च नियतविषयः कृभ्वस्तियोगे एव वर्तते । इदं तर्हि प्रयोजनं इह मा भूतः अनुसूतेः अप्रत्ययः अनुसूः अनुस्वः अपत्यं आनुसेयः ।
(पाणिनीयसूत्र ८,३।८८) कि.,४४६।१९-४४७।२० रो. V,४८१-४८३ किमर्थं स्वपेः सुपिभूतस्य ग्रहणं क्रियते । (कात्यायन वार्तिक)सुपेः षत्वं स्वपेः मा भूत्(वार्तिकान्त) । सुपेः षत्वं उच्यते तत्स्वपेः मा भूतिति । सुस्वप्नः विस्वप्नकिति । (कात्यायन वार्तिक)विसुष्वाप इति केन न (वार्तिकान्त)। विसुष्वाप इति अत्र कस्मात्न भवति । (कात्यायन वार्तिक)हलादिशेषात्न सुपिः ।(वार्तिकान्त) हलादिशेषे कृते न एषः सुपिः भवति । इदं इह सम्प्रधार्यं । हलादिशेषः क्रियतां सम्प्रसारणं इति किं अत्र कर्तव्यं । परत्वात्हलादिशेषः । (कात्यायन वार्तिक)इष्टं पूर्वं प्रसारणं ।(वार्तिकान्त) इष्यते हलादिशेषात्पूर्वं सम्प्रसारणं । आतः च इष्यते । एवं हि आह : अभ्याससम्प्रसारणं हलादिशेषात्विप्रतिषेधेन इति । एवं तर्हि स्थादिषु अभ्यासस्य इति एतस्मात्नियमात्न भविष्यति । (कात्यायन वार्तिक)स्थादीनां नियमः न अत्र प्राक्सितातुत्तरः सुपिः ।(वार्तिकान्त) प्राक्सितसंशब्दनात्सः नियमः उत्तरः च सुपिः पठ्यते । एवं तर्हि अर्थवद्ग्रहणे न अनर्थकस्य इति एवं एतस्य न भविष्यति । (कात्यायन वार्तिक)अनर्थके विषुषुपुः ।(वार्तिकान्त) यदि अर्थवतः ग्रहणं विषुषुपुः इति न सिध्यति । न एषः दोषः । कथं । (कात्यायन वार्तिक)सुपिभूतः द्विः उच्यते ।(वार्तिकान्त) सुपिभुतस्य द्विर्वचनं । (कात्यायन वार्तिक)सुपेः षत्वं स्वपेः मा भूत। विसुष्वाप इति केन न । हलादिशेषात्न सुपिः । इष्टं पूर्वं प्रसारणं । स्थादीनां नियमः न अत्र प्राक्सितातुत्तरः सुपिः । अनर्थके विषुषुपुः सुपिभूतः द्विः उच्यते (वार्तिकान्त)।
(पाणिनीयसूत्र ८,३।९१) कि.,४४७।२१-४४८।२ रो. V,४८३-४८४ (कात्यायन वार्तिक)कपिष्ठलः गोत्रप्रकृतौ(वार्तिकान्त) । कपिष्ठलः गोत्रप्रकृतौ इति वक्तव्यं । गोत्रे इति उच्यमाने इह एव स्यात। कापिष्ठलिः । इह न स्यात। कपिष्ठलः कापिष्ठलायनः । तत्तर्हि वक्तव्यं । न वक्तव्यं । न एवं विज्ञायते कपिष्ठलः इति गोत्रे निपात्यते इति । कथं तर्हि । गोत्रे यः कपिष्ठलशब्दः तस्य षत्वं निपात्यते यत्र वा तत्र वा इति ।
(पाणिनीयसूत्र ८,३।९७) कि.,४४८।३-९ रो. V,४८४ स्थः इति किं इदं धातुग्रहणं आहोस्वित्रूपग्रहणं । किं च अतः । यदि धातुग्रहणं गोस्थानं इति अत्र प्राप्नोति । अथ रूपग्रहणं सव्येष्ठाः , परमेष्ठी , सव्येष्ठा सारथिः इति अत्र न प्राप्नोति । यथा इच्छसि तथा अस्तु । अस्तु तावत्धातुग्रहणं । कथं गोस्थानं इति । सवनादिषु पाठः करिष्यते । अथ वा पुनः अस्तु रूपग्रहणं । कथं सव्येष्ठाः , पर्मेष्ठी , सव्येष्ठा सारथिः इति । स्थः स्थास्थिन्स्थ्®णां इति वक्तव्यं ।
(पाणिनीयसूत्र ८,३।९८) कि.,४४८।१०-११ रो. V,४८५ अविहितलक्षणः मूर्धन्यः सुषामादिषु द्रष्टव्यः ।
(पाणिनीयसूत्र ८,३।१०१) कि.,४४८।१२-१४ रो. V,४८५ (कात्यायन वार्तिक)ह्रस्वात्तादौ तिङि प्रतिषेधः(वार्तिकान्त) । ह्रस्वात्तादौ तिङि प्रतिषेधः वक्तव्यः । भिन्द्युस्तरां छिन्द्युस्तरां इति ।
(पाणिनीयसूत्र ८,३।१०५) कि.,४४८।१५-१८ रो. V,४८५ (कात्यायन वार्तिक)स्तुतस्तोमयोः छन्दसि अनर्थकं वचनं पूर्वपदातिति सिद्धत्वात्(वार्तिकान्त) । स्तुतस्तोमयोः छन्दसि वचनं अनर्थकं । किं कारणं । पूर्वपदातिति सिद्धत्वात। पूर्वपदातिति एव सिद्धं ।
(पाणिनीयसूत्र ८,३।१०८) कि.,४४९।१-१३ रो. V,४८५-४८६ (कात्यायन वार्तिक)सनोतेः अनः इति च(वार्तिकान्त) । किं । वचनं अनर्थकं इति एव । किं कारणं । पूर्वपदातिति सिद्धत्वात। नियमार्थं तर्हि इदं वक्तव्यं । सनोतेः अनकारस्य एव यथा स्यात। इह मा भूत। गोसनिं इति । (कात्यायन वार्तिक)सनोतेः अनः इति नियमार्थं इति चेत्सवनादिकृतत्वात्सिद्धं ।(वार्तिकान्त) सनोतेः अनः इति नियमार्थं इति चेत्सवनादिषु पाठः करिष्यते । (कात्यायन वार्तिक)सनर्थं तु ।(वार्तिकान्त) सनर्थं तु इदं वक्तव्यं । सिसनिषति । एततपि न अस्ति प्रयोजनं । स्तौतिण्योरेवषण्यभ्यासातिति एतस्मात्नियमात्न भविष्यति । ण्यर्थं तर्हि इदं वक्तव्यं । सिसानयिषति । कथं पुनः अण्यन्तस्य प्रतिषेधे ण्यन्तः शक्यः विज्ञातुं । सामर्थ्यात। अण्यन्तस्य प्रतिषेधवचने प्रयोजनं न अस्ति इति कृत्वा ण्यन्ते विज्ञास्यते । अथ वा अयं अस्ति अण्यन्तः : सिसनिषतेः अप्रत्ययः सिसनीः ।
(पाणिनीयसूत्र ८,३।११०) कि.,४४९।१४-२० रो. V,४८६ किमर्थं सवादिषु अश्वसनिशब्दः पठ्यते । पूर्वपदातिति षत्वं प्राप्नोति । तद्बाधनार्थं । न एततस्ति प्रयोजनं । इणन्तातिति तत्र अनुवर्तते अनिणन्तः च अयं । न एव प्राप्नोति न अर्थः प्रतिषेधेन । एवं तर्हि सिद्धे सति यत्सवनादिषु अश्वसनिशब्दं पठति तत्ज्ञापयति आचार्यः अनिणन्तातपि षत्वं भवति इति । किं एतस्य ज्ञापने प्रयोजनं । जलाषाहं माषः इति एतत्सिद्धं भवति । अथ वा एकदेशविकृतार्थः अयं आरम्भः । अश्वषाः इति ।
(पाणिनीयसूत्र ८,३।११२) कि.,४५०।१-८ रो. V,४८६-४८७ उपसर्गातिति या प्राप्तिः भवितव्यं तस्याः प्रतिषेधेन उताहो न । न भवितव्यं । किं कारणं । उपसर्गात्षत्वं प्रतिषेधविषये आरभ्यते तत्यथा एव पदादिलक्षणं प्रतिषेधं बाधते एवं सिचः यङि इति एतं अपि बाधते । न बाधते । किं कारणं । येन न अप्राप्ते तस्य बाधनं भवति न च अप्राप्ते पदादिलक्षणे प्रतिषेधे उपसर्गात्षत्वं आरभ्यते सिचः यङि इति एतस्मिन्पुनः प्राप्ते च अप्राप्ते च । अथ वा पुरस्तातपवादाः अनन्तरान्विधीन्बाधन्ते इति एवं उपसर्गात्षत्वं पदादिलक्षणं प्रतिषेधं बाधिष्यते सिचः यङि इति एतं न बाधिष्यते । तस्मातभिसेसिच्यते इति भवितव्यं ।
(पाणिनीयसूत्र ८,३।११५) कि.,४५०।९-११ रो. V,४८७ किमर्थं सहिः सोढभूतः गृह्यते । यत्र अस्य एतत्रूपं तत्र यथा स्यात। इह मा भूत। परिषहते इति ।
(पाणिनीयसूत्र ८,३।११६) कि.,४५०।१२-१६ रो. V,४८७ (कात्यायन वार्तिक)स्तम्भुसिवुसहां चङि उपसर्गात्(वार्तिकान्त) । स्तम्भुसिवुसहां चङि उपसर्गातिति वक्तव्यं । किं प्रयोजनं । उपसर्गात्या प्राप्तिः तस्याः प्रतिषेधः यथा स्यात। अभ्यासात्या प्राप्तिः तस्याः प्रतिषेधः मा भूतिति । पर्यसीषहत।
(पाणिनीयसूत्र ८,३।११७) कि.,४५०।१७-२१ रो. V,४८७ सनि किं उदाहरणं । सुसूषति । न एततस्ति प्रयोजनं । स्तौतिण्योः एव षणि इति एतस्मात्नियमात्न भविष्यति । इदं तर्हि । अभिसुसूषति । एततपि न अस्ति प्रयोजनं । स्थादिष्वभ्यासेनचाभ्यासस्य इति एतस्मात्नियमात्न भविष्यति । इदं तर्हि प्रयोजनं : अभिसुसूषतेः अप्रत्ययः अभिसुसूः ।
(पाणिनीयसूत्र ८,३।११८) कि.,४५१।१-३ रो. V,४८७ (कात्यायन वार्तिक)सदः लिटि प्रतिषेधे स्वञ्जेः उपसङ्ख्यनम्(वार्तिकान्त) । सदः लिटि प्रतिषेधे स्वञ्जेः उपसङ्ख्यानं कर्तव्यं । परिषस्वजे ।
(पाणिनीयसूत्र ८,४।१) कि.,४५२।१-२० रो. V,४८८-४९० (कात्यायन वार्तिक)रषाभ्यां णत्वे ऋकारग्रहणम्(वार्तिकान्त) । रषाभ्यां णत्वे ऋकारग्रहणं कर्तव्यं । रषाभ्यां नः णः समानपदे ऋकारात्च इति वक्तव्यं । इह अपि यथा स्यातः मात्®णां , पित्®णां इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । यः असौ ऋकारे रेफः तदाश्रयं णत्वं भविष्यति । न सिध्यति । किं कारणं । न हि वर्णैकदेशाः वर्णग्रहणेन गृह्यन्ते । (कात्यायन वार्तिक)एकदेशे नुडादिषु च उक्तं (वार्तिकान्त)। किं उक्तं । अग्रहणं चेत्नुड्विधिलादेशविनामेषु ऋकारग्रहणं इति । तस्मात्गृह्यन्ते । एवं अपि न सिध्यति । किं कारणं । अननन्तरत्वात। यत्तत्रेफात्परं भक्तेः तेन व्यवहितत्वात्न प्राप्नोति । अड्व्यवाये इति एवं भविष्यति । न सिध्यति । किं कारणं । वर्णैकदेशाः के वर्णग्रहणेन गृह्यन्ते । ये व्यपवृक्ताः अपि वर्णाः भवन्ति । यत्च अत्र रेफात्परं भक्तेः न तत्क्व चितपि व्यपवृक्तं दृश्यते । एवं तर्हि योगविभागः करिष्यते । रषाभ्यां नः णः समानपदे । ततः व्यवाये । व्यवाये च रषाभ्यां नः णः भवति इति । ततः अट्कुप्वाङ्नुम्भिः इति । इदं इदानीं किमर्थं । नियमार्थं । एतैः एव अक्षरसमाम्नायिकैः व्यवाये न अन्यैः इति । अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति ऋकारात्णत्वं इति यतयं क्षुभ्नादिषु नृनमनशब्दं पठति । न एततस्ति ज्ञापकं । वृद्ध्यर्थं एतत्स्यात। नार्नमनिः इति । यत्तर्हि तत्र एव तृप्नोतिशब्दं पठति । यत्च अपि नृनमनशब्दं पठति । ननु च उक्तं वृद्ध्यर्थं एतत्स्यातिति । बहिरङ्गा वृद्धिः । अन्तरङ्गं णत्वं । असिद्धं बहिरङ्गं अन्तरङ्गे । अथ वा उपरिष्टात्योगविभागः करिष्यते । ऋतः नः णः भवति । ततः छन्दसि अवग्रहातृतः इति एव ।
(पाणिनीयसूत्र ८,४।२।१) कि.,४५२।२१-४५३।८ रो. V,४९०-४९१ (कात्यायन वार्तिक)अड्व्यवाये णत्वे अन्यव्यवाये प्रतिषेधः(वार्तिकान्त) । अड्व्यवाये णत्वे अन्यव्यवाये प्रतिषेधः वक्तव्यः । आदर्शेन अक्षदर्शेन । (कात्यायन वार्तिक)न वा अन्येन व्यपेतत्वात।(वार्तिकान्त) न वा वक्तव्यः । किं कारणं । अन्येन व्यपेतत्वात। अन्येन अत्र व्यवायः । यदि अपि अत्र अन्येन व्यवायः अटा अपि तु व्यवायः अस्ति तत्र अस्ति अड्व्यवाये इति प्राप्नोति । अटा एव व्यवाये भवति । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । अड्ग्रहणसामर्थ्यात। यदि हि यत्र अटा च अन्येन च व्यवायः तत्र स्यातड्ग्रहणं अनर्थकं स्यात। व्यवाये नः णः भवति इति एव ब्रूयात। अस्ति अन्यतड्ग्रहणस्य प्रयोजनं । किं । यः अनिर्दिष्टैः एव व्यवायः तत्र मा भूत। कृत्स्नं मृत्स्ना इति । यदि एतावत्प्रयोजनं स्यात्शर्व्यवाये न इति एव ब्रूयात।
(पाणिनीयसूत्र ८,४।२।२) कि.,४५३।९-१७ रो. V,४९१ (कात्यायन वार्तिक)तत्समुदाये णत्वाप्रसिद्धिः यथा अन्यत्र(वार्तिकान्त) । तत्समुदाये व्यवायसमुदाये णत्वस्य अप्रसिद्धिः । अर्केण अर्घेण । यथा अन्यत्र अपि व्यवायसमुदाये कार्यं न भवति । क्व अन्यत्र । नुम्विसर्जनीयशर्व्यवायेऽपि निंस्से निंस्स्व इति । किं पुनः कारणं अन्यत्र अपि व्यवायसमुदाये कार्यं न भवति । प्रत्येकं वाक्यपरिसमाप्तिः दृष्टा इति । तत्यथा । गुणवृद्धिसञ्ज्ञे प्रत्येकं भवतः । ननु च अयं अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति । तत्यथा । गर्गाः शतं दण्ड्यन्तां इति । अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकं दण्डयन्ति । यदि एवं एकेन व्यवाये न प्राप्नोति । किरिणा रिरिणा इति । उभयथा अपि वाक्यपरिसमाप्तिः दृश्यते । तत्यथा । गर्गैः सह न भोक्तव्यं इति प्रत्येकं च न सम्भुज्यते समुदितैः च ।
(पाणिनीयसूत्र ८,४।२।३) कि.,४५३।१८-४५४।७ रो. V,४९१-४९२ (कात्यायन वार्तिक)कुव्यवाये हादेशेषु प्रतिषेधः(वार्तिकान्त) । कुव्यवाये हादेशेषु प्रतिषेधः वकव्यः । किं प्रयोजनं । (कात्यायन वार्तिक)प्रयोजनं वृत्रघ्नः स्रुघ्नः प्राघानि इति ।(वार्तिकान्त) हन्तेरत्पूर्वस्य इति अत्पूर्वग्रहणं न कर्तव्यं भवति । (कात्यायन वार्तिक)नुम्व्यवाये णत्वे अनुस्वाराभावे प्रतिषेधः ।(वार्तिकान्त) नुम्व्यवाये णत्वे अनुस्वाराभावे प्रतिषेधः वक्तव्यः । प्रेन्वनं प्रेन्वनीयं । (कात्यायन वार्तिक)अनागमे च णत्वं ।(वार्तिकान्त) अनागमे च णत्वं वक्तव्यं । तृम्पणीयं । (कात्यायन वार्तिक)अनुस्वारव्यवायवचनात्तु सिद्धं (वार्तिकान्त)। अनुस्वारव्यवाये नः णः भवति इति वक्तव्यं । तदनुस्वारग्रहणं कर्तव्यं । न कर्तव्यं । क्रियते न्यासे एव । नकारे अनुस्वारः परसवर्णीभूतः निर्दिश्यते । इह अपि तर्हि प्राप्नोति । प्रेन्वनं प्रेन्वनीयं । अनुस्वारविशेषणं नुम्ग्रहणं । नुमः यः अनुस्वारः इति । इह अपि तर्हि न प्राप्नोति । तृम्पणं तृम्पणीयं । एवं तर्हि अयोगवाहानां अविशेषेण उपदेशः चोदितः तत्र अनुस्वारे कृते अड्व्यवाये इति एव सिद्धं । यदि एवं न अर्थः नुम्ग्रहणेन । अनुस्वारे कृते अड्व्यवाये इति एव सिद्धं ।
(पाणिनीयसूत्र ८,४।३।१) कि.,४५४।८-१६ रो. V,४९३ (कात्यायन वार्तिक)पूर्वपदात्सञ्ज्ञायां उत्तरपदग्रहणम्(वार्तिकान्त) । पूर्वपदात्सञ्ज्ञायां उत्तरपदग्रहणं कर्तव्यं । किं प्रयोजनं । (कात्यायन वार्तिक)तद्धितपूर्वपदस्थाप्रतिषेधार्थं ।(वार्तिकान्त) तद्धितस्थस्य पूर्वपदस्थस्य च प्रतिषेधः मा भूत। खारपायणः करणप्रियः ॥ तत्तर्हि वक्तव्यं । न वक्तव्यं । पूर्वपदं उत्तरपदं इति सम्बन्धिशब्दौ एतौ । सति पूर्वपदे उत्तरपदं भवति सति च उत्तरपदे पूर्वपदं भवति । तत्र सम्बन्धातेतत्गन्तव्यं यत्प्रति पूर्वपदं इति एतत्भवति तत्स्थस्य नियमः इति । किं च प्रति एतत्भवति । उत्तरपदं प्रति ।
(पाणिनीयसूत्र ८,४।३।२) कि.,४५४।१७-४५५।९ रो. V,४९३-४९४ (कात्यायन वार्तिक)सञ्ज्ञायां नियमवचने गप्रतिषेधात्नियमप्रतिषेधः(वार्तिकान्त) । सञ्ज्ञायां नियमवचने गप्रतिषेधात्नियमस्य अयं प्रतिषेधः विज्ञायते अगः इति । तत्र कः दोषः । (कात्यायन वार्तिक)तत्र नित्यं णत्वप्रसङ्गः ।(वार्तिकान्त) तत्र पूर्वेण सञ्ज्ञायां च असञ्ज्ञायां च नित्यं णत्वं प्राप्नोति । (कात्यायन वार्तिक)योगविभागात्सिद्धं ।(वार्तिकान्त) योगविभागः करिष्यते । पूर्वपदात्सञ्ज्ञायां । ततः अगः । गान्तात्पूर्वपदात्या च यावती णत्वप्राप्तिः तस्याः सर्वस्याः प्रतिषेधः । (कात्यायन वार्तिक)अप्रतिषेधः वा यथा सर्वनामसञ्ज्ञायां ।(वार्तिकान्त) न वा अर्थः प्रतिषेधेन । णत्वं कस्मात्न भवति । यथा सर्वनामसञ्ज्ञायां । उक्तं च सर्वनामसञ्ज्ञायां सर्वनामसञ्ज्ञायां निपातनात्णत्वाभावः इति । यथा पुनः तत्र निपातनं क्रियते सर्वादीनि सर्वनामानि इति इह इदानीं किं निपातनं । इह अपि निपातनं अस्ति । किं । अणृगयनादिभ्यः इति । न एव वा पुनः अत्र पूर्वेण णत्वं प्राप्नोति । किं कारणं । समानपदे इति उच्यते न च एतत्समानपदं । समासे कृते समानपदं । समानं एव यत्नित्यं न च एतत्नित्यं समानपदं एव । किं वक्तव्यं एतत। न हि । कथं अनुच्यमानं गंस्यते । समानग्रहणसामर्थ्यात। यदि हि यत्समानं च असमानं च तत्र स्यात्समनग्रहणं अनर्थकं स्यात।
(पाणिनीयसूत्र ८,४।६) कि.,४५५।१०-१२ रो. V,४९४ द्व्यक्षरत्र्यक्षरेभ्यः इति वक्तव्यं । इह मा भूत। देवदारुवनं । इरिकादिभ्यः प्रतिषेधः वक्तव्यः । इरिकावनं तिमिरवनं ।
(पाणिनीयसूत्र ८,४।७) कि.,४५५।१३-१६ रो. V,४९४-४९५ अदन्तातदन्तस्य इति वक्तव्यं । इह मा भूत। दीर्घाह्नी शरतिति । तत्तर्हि वक्तव्यं । न वक्तव्यं । न एषा अहन्शब्दात्षष्ठी । का तर्हि । अह्नशब्दात्प्रथमा पूर्वसूत्रनिर्देशः च । अथ वा युवादिषु पाठः करिष्यते ।
(पाणिनीयसूत्र ८,४।८) कि.,४५५।१७-२१ रो. V,४९५ आहितोपस्थितयोः इति वक्तव्यं । इह अपि यथा स्यात। इक्षुवाहणं शरवाहणं । अपरः आह : वाहनं वाह्यातिति वक्तव्यं । यदा हि गर्गाणां वाहनं अपविद्धं तिष्ठति तदा मा भूत। गर्गवाहनं इति ।
(पाणिनीयसूत्र ८,४।१०) कि.,४५६।१-४ रो. V,४९५ (कात्यायन वार्तिक)वाप्रकरणे गिरिनद्यादीनां उपसङ्ख्यानम्(वार्तिकान्त) । वाप्रकरणे गिरिनद्यादीनां उपसङ्ख्यानं कर्तव्यं । गिरिणदी गिरिनदी । चक्रणितम्बा चक्रनितम्बा ।
(पाणिनीयसूत्र ८,४।११) कि.,४५६।५-१४ रो. V,४९५-४९६ (कात्यायन वार्तिक)प्रातिपदिकान्तस्य णत्वे समासान्तग्रहणं असमासान्तप्रतिषेधार्थम्(वार्तिकान्त) । प्रातिपदिकान्तस्य णत्वे समासान्तग्रहणं कर्तव्यं । किं प्रयोजनं । असमासान्तप्रतिषेधार्थं । असमासान्तस्य मा भूत। गर्गभगिनी दक्षभगिनी इति । न वा भवति गर्गभगिणी इति । भवति यदा एतत्वाक्यं गर्गाणां भगः गर्गभगः गर्गभगः अस्याः अस्ति इति । यदा तु एतत्वाक्यं भवति गर्गाणां भगिनी गर्गभगिनी इति तदा न भवितव्यं । तदा मा भूतिति । यदि समासान्तग्रहणं क्रियते माषवापिणी वृईहिवापिणी अत्र न प्राप्नोति । (कात्यायन वार्तिक)लिङ्गविशिष्टग्रहणे च उक्तं ।(वार्तिकान्त) किं उक्तं । गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः इति ।
(पाणिनीयसूत्र ८,४।११) कि.,४५६।१५-१७ रो. V,४९६ (कात्यायन वार्तिक)तत्र युवादिप्रतिषेधः(वार्तिकान्त) । तत्र युवादीनां प्रतिषेदः वक्तव्यः । आर्ययूना क्षत्रिययूना प्रपक्वानि परिपक्वानि दीर्घाह्नी शरतिति ।
(पाणिनीयसूत्र ८,४।१३) कि.,४५६।१८-४५७।२ रो. V,४९६-४९७ अथ इह कथं भवितव्यं । माषकुम्भवापेण व्रीहिकुम्भवापेण इति । किं नित्यं णत्वेन भवितव्यं आहोस्वित्विभाषया । यदा तावतेतत्वाक्यं भवति कुम्भस्य वापः कुम्भवापः माषाणां कुम्भवापः माषकुम्भवाप इति तदा नित्यं णत्वेन भवितव्यं । यदा तु एतत्वाक्यं भवति माषाणां कुम्भः माषकुम्भः माषकुम्भस्य वापः माषकुम्भवापः इति तदा विभाषया भवितव्यं ।
(पाणिनीयसूत्र ८,४।१४।१) कि.,४५७।३-१४ रो. V,४९७-४९८ असमासग्रहणं किमर्थं । समासे इति वर्तते असमासे अपि यथा स्यात। प्रणमति परिणमति । क्व पुनः समासग्रहणं प्रकृतं । पूर्वपदात्सञ्ज्ञायामगः इति । कथं पुनः तेन समासग्रहणं शक्यं विज्ञातुं । पूर्वपदग्रहणसामर्थ्यात। समासे एव एतत्भवति पूर्वपदं उत्तरपदं इति । अथ अपिग्रहणं किमर्थं । समासे अपि यथा स्यात। प्रणामकः परिणामकः । यदि तर्हि समासे च असमासे च इष्यते न अर्थः असमासेपिग्रहणेन । निवृत्तं पूर्वपदातिति । अविशेषेण उपसर्गात्णत्वं वक्ष्यामि । समासे नियमात्न प्राप्नोति । असिद्धं उपसर्गात्णत्वं तस्य असिद्धत्वात्नियमः न भविष्यति । एवं तर्हि सिद्धे सति यतसमासे अपिग्रहणं करोति तत्ज्ञापयति आचार्यः न योगे योगः असिद्धः । किं तर्हि प्रकरणे प्रकरणं असिद्धं इति । किं एतस्य ज्ञपने प्रयोजनं । यत्ततुक्तं निष्कृतं निष्पीतं इति अत्र सत्वस्य असिद्धत्वात्षत्वं न प्राप्नोति इति सः न दोषः भवति ।
(पाणिनीयसूत्र ८,४।१४।२) कि.,४५७।१५-४५८।२ रो. V,४९८ णोपदेशं प्रति उपसर्गाभावातनिर्देशः । अगमकः निर्देशः अनिर्देशः । यत्क्रियायुक्ताः तं प्रति गत्युपसर्गसञ्ज्ञे भवतः न च णोपदेशं प्रति क्रियायोगः । एवं तर्हि आह अयं उपसर्गातसमासे अपि णोपदेशस्य इति न च णोपदेशं प्रति उपसर्गः अस्ति तत्र वचनात्भविष्यति । (कात्यायन वार्तिक)वचनप्रामाण्यातिति चेत्पदलोपे प्रतिषेधः ।(वार्तिकान्त) वचनप्रामाण्यातिति चेत्पदलोपे प्रतिषेधः वक्तव्यः । प्रगताः नायकाः अस्मात्ग्रामात्प्रनायकः ग्रामः इति । (कात्यायन वार्तिक)सिद्धं तु यं प्रति उपसर्गः तत्स्थस्य इति वचनात।(वार्तिकान्त) सिद्धं एतत। कथं । यं प्रति उपसर्गः तत्स्थस्य णः भवति इति वक्तव्यं । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं णोपदेशं प्रति उपसर्गाभावातनिर्देशः इति । न एषः दोषः । णोपदेशः इति न एवं विज्ञायते णः उपदेशः णोपदेशः णोपदेशस्य इति । कथं तर्हि । णः उपदेशः अस्य सः अयं णोपदेशः णोपदेशस्य इति ।
(पाणिनीयसूत्र ८,४।१५) कि.,४५८।३-१० रो. V,४९९ (कात्यायन वार्तिक)हिनुमीनाग्रहणे विकृतस्य उपसङ्ख्यानम्(वार्तिकान्त) । हिनुमीनाग्रहणे विकृतस्य उपसङ्ख्यानं कर्तव्यं । प्रहिणोति प्रमीणीते । वचनात्भविष्यति । अस्ति वचने प्रयोजनं । किं । प्रहिणुतः प्रमीणाति । (कात्यायन वार्तिक)सिद्धं अचः स्थानिवत्त्वात।(वार्तिकान्त) सिद्धं एतत। कथं । अचः स्थानिवत्त्वात। स्थानिवद्भावातत्र णत्वं भविष्यति । प्रतिषिध्यते अत्र स्थानिवद्भावः पूर्वत्रासेद्धे न स्थानिवतिति । दोषाः एव एते तस्याः परिभाषायाः तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति ।
(पाणिनीयसूत्र ८,४।१६) कि.,४५८।११-२२ रो. V,४९९ लोटिति किमर्थं । प्रहिमानि कुलानि । प्रवपानि मांसानि । (कात्यायन वार्तिक)आनि लोड्ग्रहणानर्थक्यं अर्थवद्ग्रहणात्(वार्तिकान्त) । आनि लोड्ग्रहणं अनर्थकं । किं कारणं । अर्थवद्ग्रहणात। अर्थवतः आनिशब्दस्य ग्रहणं न एषः अर्थवान। (कात्यायन वार्तिक)अनुपसर्गात्वा ।(वार्तिकान्त) अथ वा यत्क्रियायुक्ताः तं प्रति गत्युपसर्गसञ्ज्ञे भवतः न च एतं आनिशब्दं प्रति क्रियायोगः । इह अपि तर्हि न प्राप्नोति । प्रयाणि परियाणि इति । अत्र अपि न आनिशब्दं प्रति क्रियायोगः । आनिशब्दं प्रति अत्र क्रियायोगः । कथं । यत्क्रिययुक्ताः इति न एवं विज्ञायते यस्य क्रिया यत्क्रिया यत्क्रियायुक्ताः तं प्रति गत्युपसर्गसञ्ज्ञे भवतः इति । कथं तर्हि । या क्रिया यत्क्रिया यत्क्रियायुक्ताः तं प्रति गत्युपसर्गसञ्ज्ञे भवतः इति ।
(पाणिनीयसूत्र ८,४।१७) कि.,४५९।१-१० रो. V,५०० (कात्यायन वार्तिक)नेः गदादिषु अड्व्यवाये उपसङ्ख्यानम्(वार्तिकान्त) । नेः गदादिषु अड्व्यवाये उपसङ्ख्यानं कर्तव्यं । प्रण्यगदत्परिण्यगदत। आङा च इति वक्तव्यं । प्रण्यागदत। ननु च अयं अट्गदादिभक्तः गदादिग्रहणेन ग्राहिष्यते । न सिध्यति । अङ्गस्य अटुच्यते विकरणान्तं च अङ्गं सः असौ सङ्घातभक्तः अशक्यः गदादिग्रहणेन ग्रहीतुं । एवं तर्हि अड्व्यवाये इति वर्तते । क्व प्रकृतं । अट्कुप्वाङ्नुम्व्यवाये अपि इति । तत्वै कार्यिविशेषणं निमित्तविशेषणेन च इह अर्थः । तत्र अपि निमित्तविशेषणं एव ।
(पाणिनीयसूत्र ८,४।१९-२०) कि.,४५९।११-२२ रो. V,५००-५०१ अन्तग्रहणं किमर्थं । (कात्यायन वार्तिक)अनितेः अन्तग्रहणं सम्बुद्ध्यर्थम्(वार्तिकान्त) । अनितेः अन्तग्रहणं क्रियते सम्बुद्ध्यर्थं । हे प्राण। अप्ररः आह । अनितेः अन्तः पदान्तस्य । अनितेः अन्तग्रहणं क्रियते पदान्तस्य न इति प्रतिषेधः प्राप्नोति तद्बाधनार्थं । (कात्यायन वार्तिक)यः वा तस्मातनन्तरः (वार्तिकान्त)। अथ वा अयं अन्तशब्दः अस्ति एव अवयववाची । तत्यथा : वस्त्रान्तः वसनान्तः इति । अस्ति सामीप्ये वर्तते । तत्यथा । उदकान्तं गतः । उदकसमीपं गतः इति गम्यते । तत्यः सामीप्ये वर्तते तस्य ग्रहणं विज्ञायते । अनितेः समीपे यः रेफः तस्मात्नस्य यथा स्यात। प्राणिति । इह मा भूत। पर्यनिति ।
(पाणिनीयसूत्र ८,४।२१) कि.,४६०।१-३ रो. V,५०१ (कात्यायन वार्तिक)साभ्यासस्य द्वयोः इष्टम्(वार्तिकान्त) । साभ्यासस्य द्वयोः णत्वं इष्यते । प्राणिणिषति ।
(पाणिनीयसूत्र ८,४।२२) कि.,४६०।४-७ रो. V,५०१ अत्पूर्वस्य इति किमर्थं । प्रघ्नन्ति परिघ्नन्ति । (कात्यायन वार्तिक)हन्तेः अत्पूर्वस्य वचने उक्तम्(वार्तिकान्त) । किं उक्तं । कुव्यवाये हादेशेषु प्रतिषेधः इति ।
(पाणिनीयसूत्र ८,४।२८) कि.,४६०।८-१६ रो. V,५०२ कथं इदं विज्ञयते । ओकारात्परः ओत्परः न ओत्परः अनोत्परः इति । आहोस्वितोकारः परः अस्मात्सः अयं ओत्परः न ओत्परः अनोत्परः इति । किं च अतः । यदि विज्ञयते ओकारात्परः ओत्परः न ओत्परः अनोत्परः इति प्र नः मुञ्चतं अत्र अपि प्राप्नोति । अथ विज्ञायते ओकारः परः अस्मात्सः अयं ओत्परः न ओत्परः अनोत्परः इति प्र णः वनिः देवकृता अत्र न प्राप्नोति । उभयथा च प्रक्रमे दोषः भवति । प्र नः* मुञ्चतं , प्र नः मुञ्चतं । प्र* उ नः , प्र उ नः । (कात्यायन वार्तिक)भाविनि अपि ओति न इष्यते(वार्तिकान्त) । भाविनि अपि ओकारे णत्वं न इष्यते । एवं तर्हि उपसर्गात्बहुलं इति वक्तव्यं ।
(पाणिनीयसूत्र ८,४।२९) कि.,४६०।१७-१९ रो. V,५०३ (कात्यायन वार्तिक)कृत्स्थस्य णत्वे निर्विण्णस्य उपसङ्ख्यानम्(वार्तिकान्त) । कृत्स्थस्य णत्वे निर्विण्णस्य उपसङ्ख्यानं कर्तव्यं । निर्विण्णः अहं अनेन वासेन ।
(पाणिनीयसूत्र ८,४।३०) कि.,४६१।१-७ रो. V,५०३ णेर्विभाषायां साधनव्यवाये उपसङ्ख्यानं । णेर्विभाषायां साधनव्यवाये उपसङ्ख्यानं कर्तव्यं । प्राप्यमाणं प्राप्यमानं । (कात्यायन वार्तिक)तद्विधानात्सिद्धं ।(वार्तिकान्त) विहितविशेषणं णिग्रहणं । ण्यन्तात्यः विहितः इति । (कात्यायन वार्तिक)अडधिकारात्वा ।(वार्तिकान्त) अथ वा अड्व्यवाये इति वर्तते ।
(पाणिनीयसूत्र ८,४।३२) कि.,४६१।८-४६२।६ रो. V,५०३-५०४ किमर्थं इदं उच्यते न कृत्यचः इति एव सिद्धं । नियमार्थः अयं आरम्भः । इजादेः एव च सनुम्कात्न अन्यस्मात्सनुम्कातिति । क्व मा भूत। प्रमङ्कनं परिमङ्कनं । (कात्यायन वार्तिक)सनुमः णत्वे अवधारणाप्रसिद्धिः विधेयभावात्(वार्तिकान्त) । सनुमः णत्वे अवधारणस्य अप्राप्तिः । किं कारणं । विधेयभावात। कैमर्थक्यात्नियमः भवति । विधेयं न अस्ति इति कृत्वा । इह च अस्ति विधेयं । किं । ण्यन्तात्विभाषा प्राप्ता तत्र नित्यं णत्वं विधेयं । तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः विधिः भविष्यति न नियमः । (कात्यायन वार्तिक)सिद्धं तु प्रतिषेधाधिकारे सनुम्ग्रहणात।(वार्तिकान्त) सिद्धं एतत। कथं । प्रतिषेधाधिकारे सनुम्ग्रहणात। प्रतिषेधाधिकारे सनुम्ग्रहणं कर्तव्यं । न भाभूपूकमिगमिप्यायिवेपिसनुमां इति । इह अपि तर्हि न प्राप्नोति । प्रेङ्गणं प्रेङ्गणीयं । (कात्यायन वार्तिक)कृत्स्थस्य च णत्वे इजादेः सनुमः ग्रहणं ।(वार्तिकान्त) कृत्स्थस्य च णत्वे इजादेः सनुमः ग्रहणं कर्तव्यं । सिध्यति सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं सनुमः णत्वे अवधारणाप्रसिद्धिः विधेयभावातिति । न एषः दोषः । हलः इति वर्तते । क्व प्रकृतं । हलश्चेजुपधातिति । तत्वै तत्र आदिविशेषणं अन्तविशेषणेन च इह अर्थः । कथं पुनः ज्ञायते तत्र आदिविशेषणं इति । इजुपधातिति उच्यते अत्र न अर्थः अन्तविशेषणेन । तत्र आदिविशेषणं सतिह अन्तविशेषणं भविष्यति । कथं । इजादेः इति उच्यते तत्र न अर्थः आदिविशेषणेन । अथ वा इजादेः सनुमः इति अत्र णेर्विभाषा इति एततनुवर्तिष्यते ।
(पाणिनीयसूत्र ८,४।३४) कि.,४६२।७-१२ रो. V,५०५ (कात्यायन वार्तिक)भादिषु पूञ्ग्रहणं । भादिषु पूञ्ग्रहणं कर्तव्यं । इह मा भूत। प्रपवणं सोमस्य इति । ण्यन्तस्य च उपसङ्ख्यनं ।(वार्तिकान्त) ण्यन्तस्य च उपसङ्ख्यानं कर्तव्यं । किं पूञः एव । न इति आह । अविशेषेण । प्रभापनं परिभापनं ।
(पाणिनीयसूत्र ८,४।३५) कि.,४६२।१३-१७ रो. V,५०५ षात्पदादिपरवचनं । षात्पदादिपरग्रहणं कर्तव्यं । इह एव यथा स्यात। निष्पानं दुष्पानं । इह मा भूत। ससर्पिष्केण सयजुष्केण । तत्तर्हि वक्तव्यं । न वक्तव्यं । न एवं विज्ञायते पदस्य अन्तः पदान्तः पदान्तातिति । कथं तर्हि । पदे अन्तः पदान्तः पदान्तातिति ।
(पाणिनीयसूत्र ८,४।३६) कि.,४६२।१८-२२ रो. V,५०५ (कात्यायन वार्तिक)नशेः अशः(वार्तिकान्त) । नशेः अशः इति वक्तव्यं । इह अपि यथा स्यात। प्रनङ्क्ष्यति परिनङ्क्ष्यति । तत्तर्हि वक्तव्यं । न वक्तव्यं । इह नशेः षः इति इयता सिद्धं । सः अयं एवं सिद्धे सति यतन्तग्रहणं करोति तस्य एतत्प्रयोजनं षान्तभूतपूर्वस्य अपि यथा स्यात।
(पाणिनीयसूत्र ८,४।३८) कि.,४६३।१-५ रो. V,५०६ (कात्यायन वार्तिक)पदव्यवाये अतद्धिते(वार्तिकान्त) । पदव्यवाये अतद्धिते इति वक्तव्यं । इह मा भूत। आर्द्रगोमयेण शुष्कगोमयेण इति । तत्तर्हि वक्तव्यं । न वक्तव्यं । न एवं विज्ञायते पदेन व्यवाये पदव्यवाये इति । कथं तर्हि । पदे व्यवायः पदव्यवायः पद्व्यवाये इति ।
(पाणिनीयसूत्र ८,४।३९) कि.,४६३।६-७ रो. V,५०६ अविहितलक्षणः णत्वप्रतिषेधः क्षुभ्नादिषु द्रष्टव्यः ।
(पाणिनीयसूत्र ८,४।४०) कि.,४६३।८-११ रो. V,५०६ किमर्थं तृतीयानिर्देशः क्रियते न श्चौ इति एव उच्येत । आनन्तर्यमात्रे श्चुत्वं यथा स्यात। यज्ञः राज्ञः याच्ञा । अथ सङ्ख्यातानुदेशः कस्मात्न भवति । आचार्यप्रवृत्तिः ज्ञापयति सङ्ख्यातानुदेशः न इह इति यतयं शात्प्रतिषेधं शास्ति ।
(पाणिनीयसूत्र ८,४।४१) कि.,४६३।१२-१५ रो. V,५०७ किमर्थं त्र्तीयानिर्देशः क्रियते न ष्टौ इति एव उच्येत । आनन्तर्यमात्रे ष्टुत्वं यथा स्यात। पेष्टा लेढा । अथ सङ्ख्यातानुदेशः कस्मात्न भवति । आचार्यप्रवृत्तिः ज्ञापयति न इह सङ्ख्यातानुदेशः भवति इति यतयं तोःषि इति प्रतिषेधं शास्ति ।
(पाणिनीयसूत्र ८,४।४२) कि.,४६३।१६-१८ रो. V,५०७ अनां इति किं । षण्णां भवति कश्यपः । अत्यल्पं इदं उच्यते अनां इति । अनान्नवतिनगरीणां च इति वक्तव्यं : षण्णां , षण्णवतिः , षण्णगरी ।
(पाणिनीयसूत्र ८,४।४५) कि.,४६४।१-४ रो. V,५०७ (कात्यायन वार्तिक)यरः अनुनासिके प्रत्यये भाषायां नित्यवचनम्(वार्तिकान्त) । यरः अनुनासिके प्रत्यये भाषायां नित्यं इति च वक्तव्यं । वाङ्मयं । त्वङ्मयं इति ।
(पाणिनीयसूत्र ८,४।४७) कि.,४६४।५-१७ रो. V,५०७-५०८ (कात्यायन वार्तिक)द्विर्वचने यणः मयः (वार्तिकान्त)। द्विर्वचने यणः मयः इति वक्तव्यं । किं उदाहरणं । यदि यणः इति पञ्चमी मयः इति षष्ठी उल्क्का वल्म्मीकं इति उदहरणं । अथ मयः इति पञ्चमी यणः इति षष्ठी दध्य्यत्र मध्व्वत्र इति उदाहरणं । (कात्यायन वार्तिक)शरः खयः(वार्तिकान्त) । शरः खयः इति वक्तव्यं । किं उदाहरणं । यदि शरः इति पञ्चमी खयः इति षष्ठी स्थ्थाली स्थ्थाता इति उदाहरणं । अथ खयः इति पञ्चमी शरः इति षष्ठी वत्स्सः क्ष्षीरं अप्स्सराः इति उदाहरणं । (कात्यायन वार्तिक)अवसाने च ।(वार्तिकान्त) अवसाने च द्वे भवतः इति वक्तव्यं । वाक्क्वाक। त्वक्क्त्वक। स्रुक्क्स्रुक। तत्तर्हि वक्तव्यं । न वक्तव्यं । न अयं प्रसज्यप्रतिषेधः । अचि न इति । किं तर्हि पर्युदसः अयं । यतन्यतचः इति ।
(पाणिनीयसूत्र ८,४।४८) कि.,४६४।१८-२० रो. V,५०८ (कात्यायन वार्तिक) न आदिनि आक्रोशे पुत्रस्य इति तत्परे च(वार्तिकान्त) । न आदिनि आक्रोशे पुत्रस्य इति अत्र तत्परे च इति वक्तव्यं । पुत्रपुत्रादिनि ।
(पाणिनीयसूत्र ८,४।४८) कि.,४६४।२१-२२ रो. V,५०८ (कात्यायन वार्तिक)वा हतजग्धपरे च(वार्तिकान्त) । वा हतजग्धपरे इति वक्तव्यं । पुत्रहती पुत्त्रहती । पुत्रजग्धी पुत्त्रजग्धी ।
(पाणिनीयसूत्र ८,४।४८) कि.,४६५।१-३ रो. V,५०८ (कात्यायन वार्तिक)चयः द्वितीयाः शरि पौष्करसादेः(वार्तिकान्त) । चयः द्वितीयाः भवन्ति शरि परतः पौष्करसादेः आचार्यस्य मतेन । वथ्सः , ख्षीरं , अफ्सराः ।
(पाणिनीयसूत्र ८,४।६१) कि.,४६५।४-६ रो. V,५०९ (कात्यायन वार्तिक)उदः पूर्वत्वे स्कन्देः छन्दसि उपसङ्ख्यानम्(वार्तिकान्त) । उदः पूर्वत्वे स्कन्देः छन्दसि उपसङ्ख्यानं कर्तव्यं । अघ्न्ये दूरं उत्कन्द ।
(पाणिनीयसूत्र ८,४।६१) कि.,४६५।७ रो. V,५०९ रोगे च इति वक्तव्यं । उत्कन्दकः रोगः ।
(पाणिनीयसूत्र ८,४।६३) कि.,४६५।८-१० रो. V,५०९ (कात्यायन वार्तिक)छत्वं अमि तच्छ्लोकेन तच्छ्मश्रुणा इति प्रयोजनम्(वार्तिकान्त) । छत्वं अमि इति वक्तव्यं । किं प्रयोजनं । तच्छ्लोकेन । तच्छ्मश्रुणा इति ।
(पाणिनीयसूत्र ८,४।६५) कि.,४६५।११-१५ रो. V,५०९ सवर्णग्रहणं किमर्थं । (कात्यायन वार्तिक)झरः झरि सवर्णग्रहणं समसङ्ख्यप्रतिषेधार्थम्(वार्तिकान्त) । झरः झरि सवर्णग्रहणं क्रियते समसङ्ख्यप्रतिषेधार्थं । सङ्ख्यातानुदेशः मा भूतिति । किं च स्यात। इह न स्यात। शिण्ढि पिण्ढि इति ।
(पाणिनीयसूत्र ८,४।६८) कि.,४६५।१६-४६७।३ रो. V,५०९-५१२ किमर्थं इदं उच्यते । अकारः अयं अक्षरसमाम्नाये विवृतः उपदिष्टः तस्य संवृतताप्रत्यापत्तिः क्रियते । किं पुनः कारणं विवृतः उपदिश्यते । (कात्यायन वार्तिक)आदेशार्थं सवर्णार्थं अकारः विवृतः स्मृतः(वार्तिकान्त) । आकारस्य तथा ह्रस्वः तदर्थं पाणिनेः अ अ । आदेशार्थं तावत। वृक्षाभ्यां , देवदत्ता३ । आन्तर्यतः विवृतस्य विवृतौ दीर्घप्लुतौ यथा स्यातां । सवर्णार्थं च । अकारः सवर्णग्रहणेन आकारं अपि यथा गृह्णीयात। आकारस्य तथा ह्रस्वः । तथा च अतिखट्वः , अतिमालः इति अत्र आकारस्य ह्रस्वः उच्यमानः विवृतः प्राप्नोति सः संवृतः स्यातिति एवमर्था प्रयापत्तिः । अस्ति प्रयोजनं एतत। किं तर्हि इति । (कात्यायन वार्तिक)अकारस्य प्रत्यापत्तौ दीर्घप्रतिषेधः ।(वार्तिकान्त) अकारस्य प्रत्यापत्तौ दीर्घस्य प्रतिषेधः वक्तव्यः । खट्वा माला । न एषः दोषः । यथा एव प्रकृतितः सवर्णग्रहणं एवं आदेशतः अपि भवितव्यं तत्र आन्तर्यतः ह्रस्वस्य ह्रस्वः दीर्घस्य दीर्घः भविष्यति । (कात्यायन वार्तिक)आदेशस्य च अनण्त्वात्न सवर्णग्रहणं ।(वार्तिकान्त) आदेशस्य च अनण्त्वात्सवर्णानां ग्रहणं न प्राप्नोति । केषां । उदात्तानुदात्तस्वरितानुनासिकानां । (कात्यायन वार्तिक)सिद्धं तु तपरनिर्देशात।(वार्तिकान्त) सिद्धं एतत। कथं । तपरनिर्देशात। तपरनिर्देशः कर्तव्यः । अत* इति । अपरः आह : अकारस्य प्रत्यापत्तौ दीर्घप्रतिषेधः । अकारस्य प्रत्यापत्तौ दीर्घस्य प्रतिषेधः वक्तव्यः : खट्वा माला । न एषः दोषः । दीर्घोच्चारणसामर्थ्यात्न भविष्यति । इदं तर्हि प्रयोजनं । वृक्षाभ्यां प्लक्षाभ्यां । अत्र अपि दीर्घवचनसामर्थ्यात्न भविष्यति । इदं तर्हि । अपि काकः श्येनायते । ननु च अत्र अपि दीर्घवचनसमर्थ्यातेव न भविष्यति । अस्ति अन्यत्दीर्घवचने प्रयोजनं । किं । दधीयति मधूयति । अत्र एव च एषः दोषः आदेशस्य च अनण्त्वात्सवर्णानां ग्रहणं न प्राप्नोति । केषां । उदात्तानुदात्तस्वरितानुनासिकानां । सिद्धं तु तपरनिर्देशात। सिद्धं एतत। कथं । तपरनिर्देशात। तपरनिर्देशः कर्तव्यः । अततिति । (कात्यायन वार्तिक)एकशेषनिर्देशात्वा स्वरभिन्नानां भगवतः पाणिनेः सिद्धं ।(वार्तिकान्त) एकशेषनिर्देशात्वा स्वरभिन्नानं भगवतः पाणिनेः आचार्यस्य सिद्धं । एकशेषनिर्देसः अयं । अ , अ , अ इति ।
.
]