यदि तर्हि लोक एषु प्रमाणम्,
किं शास्त्रेण क्रियते?
“लोकतो ऽर्थ-प्रयुक्ते शब्द-प्रयोगे
शास्त्रेण धर्म-नियमः ॥” -
लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः क्रियते ॥
किमिदं धर्मनियम इति?
धर्माय नियमः - धर्म-नियमः,
धर्मार्थो वा नियमः - धर्मनियमः,
धर्मप्रयोजनो वा नियमः - धर्मनियमः॥
“यथा लौकिक-वैदिकेषु ॥”
प्रिय-तद्धिता दाक्षिणात्याः ।+++(5 कात्यायनो ऽपि?)+++
‘यथा लोके वेदे च’ इति प्रयोक्तव्ये
‘यथा लौकिक-वैदिकेषु’ इति प्रयुञ्जते ॥
अथवा - युक्त एव तद्धितार्थः।
यथा लौकिक-वैदिकेषु च कृतान्तेषु ॥
लोके तावत् -
‘अभक्ष्यो ग्राम्यकुक्कुटः, अभक्ष्यो ग्राम्यसूकरः’ इत्युच्यते ।
भक्ष्यं च नाम क्षुत्-प्रतीघातार्थम् उपादीयते ।
शक्यं चानेन श्वमांसादिभिर् अपि क्षुत् प्रतिहन्तुम् ।
तत्र नियमः क्रियते - इदं भक्ष्यम्, इदम् अभक्ष्यमिति ॥
तथा - +++(काम)+++खेदात् स्त्रीषु प्रवृत्तिर् भवति।
समानश् च खेद-विगमो गम्यायां चागम्यायां च ।
तत्र नियमः क्रियते - इयं गम्या - इयम् अगम्येति ॥ +++(5)+++
वेदे खल्वपि -
‘पयो-व्रतो ब्राह्मणः -
यवागू-व्रतो राजन्यः -
आमिक्षा-व्रतो वैश्यः’
इत्य् उच्यते ।
व्रतं च नामाभ्यवहारार्थम् उपादीयते । शक्यं चानेन शालिमांसादीन्य् अपि व्रतयितुम् । तत्र नियमः क्रियते ।
तथा - ‘बैल्वः खादिरो वा यूपः स्यात्’ इत्युच्यते ।
यूपश् च नाम पश्वनुबन्धार्थम् उपादीयते ।
शक्यं चानेन यत्किंचिद् एव काष्ठम् उच्छ्रित्यानुच्छ्रित्य वा पशुर् अनुबन्धुम् ।
तत्र नियमः क्रियते ।
तथा - ‘अग्नौ कपालान्य् अधिश्रित्याभिमन्त्रयते - भृगूणामङ्गिरसां घर्मस्य तपसा तप्यध्वम्’ इति । अन्तरेणापि मन्त्रम् अग्निर् दहनकर्मा कपालानि सन्तापयति । तत्र च नियमः क्रियते । एवं क्रियमाणम् अभ्युदयकारि भवतीति ॥+++(5)+++
एवम् इहापि समानायाम् अर्थगतौ शब्देनापशब्देन च
धर्मनियमः क्रियते - शब्देनैवार्थोऽभिधेयो नापशब्देनेति ।+++(5)+++
एवं क्रियमाणम् अभ्युदयकारि भवतीति ॥