[[महाभाष्यप्रदीपः Source: EB]]
[
“*शे ॥ 13 ॥ इह कस्मादिति ।” अत्र हि प्रत्यक्षमेव ‘शे’ इति रूपम् । ‘युष्मे-अस्मे’ इत्यत्र तु शकारस्यानुबन्धस्याश्रवणादनुमेयमिति “*प्रश्नः” ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-51.
“*शेस्रथवद्ग्रहणादिति” । `स्वं सब्दस्य’ इत्येवान्तरन्ङ्गत्वादहेयत्वादसादारणत्वाच्च रूपपरिग्रहे सिद्धे रुपवदर्थस्याप्यङ्गीकरणार्थम् रूपग्रहणं कृतम् । अत्र च शशब्दोऽनर्थकः, सप्तर्येकवचनम् त्वर्तरत्, तयोः समुदायोऽर्थान्तराप्रादुर् भावादनत्थकः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-52.
“*एवमपीति ।” अत्र हि मत्वर्थीयसप्तम्येकवचनयोरर्थवतोः समुदायोऽर्थवानेव, अवयवधर्मानुविधानात्समुदायस्येति प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-53.
“*लक्षणेति ।” प्रतिपदोक्ते हि झटिति प्रतिपत्तिर्भवति, लाक्षणिके तु
लक्षणानुसन्धानद्वारेण बहिरङ्गा-इति न तस्य ग्रहणम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-54.
“*अथवेति ।” अर्थवत्समुदायस्यापि कस्यचिदानर्थक्यं, यथा-दशदाडिमादिवाक्यस्य पदार्थानं परस्परसमन्वयाभावात् । इहापि हरिशशब्दवाच्यार्थगतसंख्याधिकरणशक्तिप्रतिपादनाय प्रवृत्ता सप्तमी न शप्रत्ययमात्रप्रतिपाद्येनार्थेनान्वेतीति शेशब्दस्यानर्थक्यम् ॥ 13 ॥
“*तृतीयासमासे ॥ 30 ॥ " अत्र तादर्थ्यात्ताच्छब्द्यलाभे सति प्रयोगार्हस्य लौकिकस्य वाक्यस्य ग्रहणे सति ‘मासेन पूर्वाय’ इति प्रयोगः शाधुः । वाक्यभेदेन च मुख्ये समासे निषेधः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-65.
“*अथवेति ।” पर्युदासाश्रयणात्समाससदृशस्य वाक्यस्य ग्रहणम् । `पूर्वसदृशे’ति च प्रतिपदोक्तस्तृतीयासमासो गृअह्यते ॥ 30 ॥
“*इकोगुणवृद्धी ॥ 3 ॥ इग्ग्रहणमिति” । वक्ष्यमाणज्ञापकवशादाकारादिनिरासादिक एव गुणवृद्धी भविष्यत इति प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-47.
“*आत्सन्ध्यक्षरेति” । आकारादीनां स्थानित्वस्य निवृत्त्यर्थमित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-48.
आकारस्याञ्गान्त्यस्य वृद्धिविधावभावाद्विशेषाभावाच्चाकारस्य च ‘अतो लोपः’
इति लोपविधानादाकारस्य गुणप्रसञ्गमुदाहरति-यातेति ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-49.
“*ग्लायतीति” । एचाम् द्विमात्रत्वाविशेषात् प्रयत्नाधिक्याभावादैकारोपदेशे$प्येकारो गुणः स्यात् ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-50.
“*उम्भितेति” । भकारस्यौष्ट्यत्वादोकारो गुणः स्यात् ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-51.
“*पररूपेणेति । अतो लोपस्तु” न भवति, आर्धधातुकोपदेशे यदकारान्तं
तस्य लोपविधानात् ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-52.
“*उपदेशसामर्थ्यादिति”।प्रतिपत्तिलाघवार्थमेकारमेवोपदिशेदित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-53.
“*यदयं जनेरिति” । यद्येवं मिदेर्गुणो विधीयमानो ज्ञापकेन व्यञ्ज्ननस्य निरस्तत्वादिग्ग्रहणाभावाच्च
सर्वादेशः प्राप्नोति । मिद इः-मिदिः-इत्याश्रयणादिकारस्यैव भविष्यतीत्यदोषः ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-54.
“*यत्तावदिति” । विशेषप्रतिपादनाय सकलज्ञापकाक्षेपः ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-55.
“*केचिदाहुः-टकः कित्त्वेन ज्ञापकेनाकारनिवृत्त्यर्थत्वे निराकृते ‘यदप्युच्यते’ इति ज्ञापकाक्षेपो ग्रन्थच्छायां न पुष्णाति तस्Mआदार्थेन क्रमेण सर्वज्ञापकभन्गोपन्यासं कृत्वा यथासंभवं ज्ञापकसमर्थनं कर्तव्यम् ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-56.
“*आयादयो$पीति” । ऐकारोच्चारणस्याविकृतरूपश्रवणार्थत्वादिति भावः ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-57.
“*यं विधिमिति” । आयादेशस्य ह्यैकार एव निमित्तमित्यायादेशो न बाध्यते । न हि ग्लायित्वेवं पाठः शक्यः कर्तुम्, त्वया ग्लायत इत्यादिरूपासिद्धिप्रसङ्गात् ॥ “*न ध्याख्येति*” निपातनादात्वं गुणवन्न बाधिष्यते ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-58.
“*पररूपेणेति” । रूपग्रहणस्येदमेव प्रयोजनम् यादृक् परस्य रूपं
तादृगेव यथा स्यादिति ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-59.
“*गामेरप्ययमिति । ‘सप्तम्यां जनेर्ढः (3.2.98)’ इत्यतो$‘न्येष्वपिदृ श्यते (101) इत्यत्र डो$नुवर्तमान् गमेरपि विधीयत इत्यज्ञापकं डित्त्वमिति व्यञ्जननिवृत्त्यर्थं सूत्रं स्थितम् ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-60.
“*संज्ञयेति” । गुणवृध्यनुवृत्त्यैव गुणवृद्ध्योरिकः सिद्धत्वाद् द्वितीयं गुणवृद्धिग्रहणमाश्रितगुणवृद्धिशब्दव्यापारार्थं विज्ञायते । तेन गुण इतेवं यो गुणः, वृद्धिरित्येवं या वृद्धिरिति विज्ञायते । अथवा गुणवृद्धिमात्रग्रःअणे गुणवृद्धधिकारादेव सिद्धे पुनर्गुणव्रुद्धिग्रहणं गुणवृद्धिशब्दव्यापाराश्रयणार्थं विज्ञायते ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-61.
“*अदेङामिति” । पूर्वसूत्रे संज्ञिसंबन्धायोपात्तो यादृशो वृद्धिशब्दस्तादृश एवोत्तरत्रानुवर्तते इति ‘अदेङां’
इत्युक्तम् । तेनैतन्न चोदनीयम्-वृद्धिशब्दो$नुवर्तमान आदैचः प्रत्याययतीत्यादैचं गुणसंज्ञा प्राप्नोति-इति ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-62.
“*संबन्धमिति” । संबध्यत इति संबन्धं, कर्मणि घञ् । नपुंसकस्याभिधेयत्वान्नपुंसकनिर्देशः । आदैज्ग्रहणसंबन्धं वृद्धिग्रहणमदेङ्गुण इत्यत्रानुवर्तते, तेनादेङ्भिर्न संबध्यते । इह त्वनुवृत्तमादैचो जहाति । कान्तारोत्तारणाय सार्थस्येव त्यागोपादाने ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-63.
“*अथवेति” । वृइद्धिशब्दस्येहाक्ञाक्षावशादुपस्थानं, न तु अदेङ् गुणः इत्यत्र ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-64.
“*अथवैकयोग इति” । एको भवतिरध्याह्रियते । वृद्धिरादैजदेङ्गुणो भवति-इत्येकवाक्यत्वं संपद्यते । यद्यपि प्रतिपत्तिकाले भवतिक्रिया भिद्यते तथाप्येककाला प्रतिपत्तिरित्यादैच्संबद्धा वृद्धिसंज्ञा$देङ्संबद्धा गुणसंज्ञेति नास्ति वृद्दिसंज्ञाया अदेङ्भिः संबन्धः ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-65.
“*अथवान्यवचनादिति” । यथा कप्रत्ययेनाण् बाध्यते, असंदिग्धत्वादनवकाशत्वात्तात्पर्याच्च कविधेः ॥ अणस्तु विपर्ययात् । एवमदेङ्गुण इत्यत्र वृद्धिग्रहणमनुवृत्तं सत्संदिह्यते-किमुत्तरार्था वेहानुवृत्तिरथेहार्थापीति । सावकाशा च वृद्धिसंज्ञा, तात्प्र्यं च नास्ति । गुणसंज्ञा तु तात्पर्यादसंदेहान्निरवकासत्वाच्च वृद्धिसंज्ञासंबन्धमदेञं बधते । । प्रत्ययसंज्ञा तु संज्ञिविशेषेणासंयुक्ता$धिकारेणैव विधीयमानाकृत्यादिसंज्ञाविषये$पि प्रवर्तते ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-66.
“अथवेति” । ‘विभाषा तिलमाषोमा’ -इत्यत्र ह्युमाभङ्गयोरधान्यत्वात्ख्ञो$प्राप्तौ चोदितायां खञ्ग्रहणस्यानुवृत्तिराश्रिता, अनुवर्तमानश्च खञ् यत्नाभावात् व्रीहिशल्यादिर्भ्र्न संबध्यते, अपि तु विभाषाश्रुत्या यत्नेन तिलादिभिरेव संबध्यते । तथेहापि वृद्धिग्रहणमदेङ्गुण इत्यत्रानुवर्तमानमपि यत्नाभावाददेङ्भिर्न संबध्यते । इह पुनर्गुणवृद्धिग्रहणम् यत्नो भवति ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-67.
“*अथवेति” । अपेक्षालक्षणं लौकिकमधिकारमाश्रयति । समुदायस्य चापेक्षायां नास्त्येतत्-‘अनन्तरस्य विधिर्वा भवति प्रतिषेधो वे’ति गुणस्यैवापेक्षा युक्ता इति समुदायस्य भेदाभ?आत् ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-68.
“*किं पुनरिति” । उभयथा संभवाद्दोषदर्शनाच्च प्रश्नः । तत्राङ्गस्य गुण इति षष्टीनिर्देशाल्लिङ्गात्
‘अलोन्त्यस्य’ इत्युपतिष्टते, गुणश्रुत्या तु ‘इकः’ इति । तत्र यदि पूर्वमिका$ङ्गं विशेष्यते-इगन्ताङ्गस्य गुणो भवतीति, स च भवन्नलोन्त्यस्येत्यन्त्यस्य भवति तदा सो$स्य शेषो भवति ॥ यदा त्वङ्गस्येति पूर्वमेवान्त्यमलं षष्टी नीयते-अन्गान्त्यस्य गुण इति पश्चादिका$न्त्यो$ल् विशेष्यते, तदा तस्यायं विशेषणत्वाच्छेषो भवति ॥
अथ तु ‘अङ्गस्य’ इति गुणवृद्धिविधौ न स्थानषष्टी, किं तर्हि ?
इगपेक्षया$वयवषष्टी, तदा स्थानषष्ट्यभावात् ‘अलो$न्त्यस्य’ इत्यस्यानुपस्थानमिति तदपवादपक्षो भवति । अप्राप्त्यनुमानमेव हि बाधः, वचनेन प्राप्तस्य भाधायोगात् । ततश्चाङ्गआवयवस्य यत्र तत्र स्थितस्येको गुणवृद्धी इत्यर्थः संपद्यते ॥
समुच्चयस्त्वसंभवान्नोपन्यस्तः । न हि युगपह्द्दौ षष्ट्यर्थौ संभवतः-स्थानेयोगो$वयवयोगस्र-इति ॥ विकल्पो$पि न भवति, एकत्वात्ष्ष्ट्यर्थस्य । तस्मात्तच्छेषतदपवादपक्षावेवात्राशन्ङ्कितौ ॥
“*यद्येकमिति” । अनेक्योगव्यवहितयोरपि एक्स्मिन्कार्यदेशे स्वस्वनिमित्तसन्निधापितयोरङ्गाङ्गिभावात् - विशेषणविशेष्यभावा- देकवाक्यत्वोपपत्तिः ॥ “*अथ नानेति*” । अङ्गस्येतीगपेक्षया$वयवषष्ट्यामिकः स्थानित्वात्तद्विशेषणत्वादङ्गस्यानुपस्थानमलोन्त्यस्येत्यस्य । ततश्चानयोर्भिन्नविषयत्वान्नानावाक्यत्वम् ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-69.
“*वृद्धिगुणाविति” । मिदादीनामनिगन्तत्वादलोन्त्यस्येत्येतदङ्गमिग्ग्रहणं न सन्निपततीति तेषु प्रदेशेष्विग्ग्रहणम् कर्तव्यम् ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-70.
दोषान्तरमत्याह-”*सर्वादेशप्रसङ्गश्चेति” । अङ्गस्येत्येतद्भेदेन सर्वाङ्गेषु व्याप्रियते । तत्रेगन्तेष्वेव ‘अलो$न्त्यस्य’ इति विधिरन्यत्र तु षष्ट्या अन्त्ये$ल्यनुपसंहारात्-याता-वाता-इति सर्वादेशो गुणः प्राप्नोति ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-71.
“*यथैव हीति” । ‘अङ्गस्य’ इति षष्टी उच्चारितैवान्त्यमलं नीतेति नास्या अपरं रूपमस्तीति नास्ति सर्वादेशगुणप्रसङ्गः ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-72.
“*पूर्वापेक्षो$यमिति” । ‘मिदादिष्विग्ग्रहणं कर्तव्यम्’ इत्यत्रैवार्थे हेतुत्वेनेदमुपात्तमित्यर्थः ॥ “*उच्यते चेति*” । ‘मिदेर्-’ इति चोदनया ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-73.
“*इङ्मात्रस्येति” । यद्यङ्गस्येतीगपेक्षय्$$वयवषष्ठी तदा ‘अलो$न्त्यस्य’ इत्यस्य निमित्ताभावादनुपस्थानम् श्ताणषष्ठी हि अस्योपस्थाने निमित्तम् । ततश्चाङ्गावयवस्यान्त्यस्यानन्त्यस्य चेको गुणः प्राप्नोतीति दोषः । “*ह्रस्वस्य गुण इति*” । समानन्यायत्तादेददुक्तम् । अङ्गस्यावयवो यो ह्रस्वस्तस्य गुण इति । न त्वत्रेक्परिभाषोपतिष्ठते, निर्दिष्टस्थानिकत्वात् ॥ “*अन्येत्वाहुः*”- अत्रापि परिभाषोपस्ताने सति
ह्रस्वेनेग्विशेष्यते - ह्रस्वस्येको गुणो यथा स्यात्, दीर्घस्य मा भूदिति ॥ “*ओर्गुण इति*” । अत्राप्यस्या उपस्थानमनन्त्यस्याप्युकारस्य गुणार्थम् । असति ह्यस्या उपस्थाने$ङ्गस्येति स्थानषष्ठी स्यादङ्गम् चोकारेण विशेष्यत इत्युकारान्तस्यैवाङ्गस्य गुणः स्यात् ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-74.
“*पुगन्तेति” । भेत्तेत्यादौ गुणे सिद्धे पुनः श्रुतिर्नियमार्थेति गुरूपधस्य ‘ईहिता’ इत्यादो न भविष्यति ।
नापि हे अग्निचिदित्यादौ, उभयनियमाश्रयणादिति भावः ॥ ननु च भेत्तेति दकारस्य ह्रेपयतीति पकारस्य च यथा स्यादिति विध्यर्थमेतत्स्यात् ।
नैतदस्ति, पुकि अन्तः-पुगन्तः, लघ्वी उपधा-लघूपधा, ततः समाहारद्वन्द्वनिर्देश इत्यन्त्यस्य गुणेन भाव्यम् ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-75.
“*प्रकृतस्येति” । एकेन वाक्येन नियमद्वयस्यालाभात्प्रकृतस्यैव गुणस्य नियमः स्यात्-पुगन्तलघूपधस्यैव सार्वधातुकार्ददातुकयोरिति, न तु सार्वधातुकार्ददातुकयोरेव पुगन्तलघूपधस्येति ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-76.
“*अथापीति । ‘अनन्तरस्य विधिर्वे’ति परिभाषा यदि नाश्रीयते-इति भावः ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-77.
“*अथापीति” । अभ्युपेत्यवादेनोच्यते, आवृत्यातिन्यायाश्रयणेन वा । एकस्मिंस्तु वाक्ये नियमद्वयं न लभ्यते । “*एवमपीति*” । अनेनिजुः पर्यवेविषुरित्यत्र लघूपधं चाङ्गं सार्वधातुकं चास्तीति ‘जुसि चे’ति गुणः प्राप्नोति । हे पिचव्य हे बुद्धे बुद्धये बुद्धय इत्यादो चालघूपधत्वादनन्त्यस्य गुणो$परिहृतः ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-78.
“*एवं तर्हीति” । परस्परानपेक्षयोः स्वस्वनिमित्तप्रयुक्तसन्निधानयोर्द्वयोः परिभाषयोः प्रदेशेषु स्वकार्यप्रतिपादनम्, । तत्र यदि कथंचिदेकस्मिन् विषये सन्निपातो भवति, नैतावता परस्परापेक्षा भवतीत्यर्थः ॥ “*अन्यदेवेति*” अन्तरशब्दो विशेषवाचीति अन्यान्तरशब्दयोरविरुद्धः प्रयोगो$पर्यायत्वात् ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-79.
“*चयनमिति । ‘अलो$न्त्य-’ परिभाषायाः प्रयोजनाभावादत्रानुपस्थानमित्याशयः ॥ “*चायक इति*” । कथमत्रेक्परिभाषोपतिष्टते यावता$च इति स्थानी निर्दिष्टः । अत्राहुः-अच इत्यस्याङ्गविशेषणतयोपयोगादचः स्थानित्वाभावाद्वृद्दिग्रहणेन लिङ्गेनेक्परिभाषा$त्राप्युपतिष्टत एव ॥ “*मेद्यतीति*” । इक इति वचनादिकारस्य प्राप्नोति, अलो$न्त्यस्तेति वचनाद्दकारस्य ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-80.
“*नैष युक्त इति” । इष्टसिद्धये इत्यर्थः । यथोद्देशपक्षे च परिभाषयोः
पौर्वापर्यम्, न तु कार्यकालतायाम् ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-81.
“*द्विकार्ययोग इति” । द्वाभ्यां कार्याभ्यां योगो यस्य स्थानिनः स विप्रतिषेधविषयत्वाद्विप्रतिषेधः ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-82.
“*नावश्यमिति” । द्विकार्ययोगत्वाभावे केवलो$प्यसंभवो विप्रतिषेध इत्यर्थः ॥ “*इह तावदिति*” । दीर्घत्वं च यञ्यनन्तरे विधीयते एत्वं झल्यनन्तरे ॥ न च संभवो$स्ति यत् द्वयोः स्वेन स्वेन निमित्तेनानन्तर्यं स्यात् ॥ “*इहेदानीमिति*” । मिदेरित्येका षष्ठी सा यद्यवयवसंबद्धा तदेकारस्य गुणेन भाव्यम्, अथ
स्थानषष्ठी तदा$लो$न्त्यस्येति वचनाद्दकारस्येति । न चास्ति संभवो युगपदुभयोर्गुणस्येत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-83.
“*एवमपीति” । यदीदं नारभ्येत गुणवृद्धी कस्य स्याताम् ? अलो$न्त्यस्येति चेत्, येन नाप्राप्तिन्यायेन तर्ह्यस्यापवादत्वाद्विप्रतिषेधानुपपत्तिरित्यर्थः । एवं च क्रोष्ट्रीयमतं असंबद्धपरिभाषान्तरपक्षश्च नोपपद्यते ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-84.
“*एवं तर्हीति” । प्रदेशार्थत्वादनयोः परिभाषयोर्गुणत्वात्परस्परेण संबन्धाभावात् प्रदेशवाक्यपर्यालोचनया वाक्यार्थस्यावस्थानमित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-85.
“*अथवेति” । तच्छेषपक्षोक्तदोषपरिहारः । “*क्षिप्रक्षुद्रयोरपीति*” । अत्र च योगविभागः क्रियते-स्थूलादीनां यणादिपरं लुप्यते, ततः “*पूर्वस्य च गुण इति*” । अत्र च स्वरितत्वात् क्षिप्रक्षुद्रावेवानुवर्तेते, स्थूलादयो निवृत्ताः तेषं तु यणादिलोपे सति ‘ओर्गुणः’ इति गुणो भवति । असिद्धवदत्राभादित्यसिद्धत्वमनित्यत्वान्न भवति । तत्र क्षिप्रक्षुद्रयोर्यण् आदिः पकारो दकारश्च, तस्माद्यणादेः परं लुप्यते तस्मादेव च यणादेः पूर्वस्य च गुण इति सिद्धम्-क्षेपिष्ठः क्षेदिष्ठ इति ॥ ‘यणादिपरं’ इति पञ्चमीसमासः ॥ यदि तर्हि ‘पुगन्तलघूपधस्य’ इति स्थानी निर्दिश्यते तच्छेषपक्षाश्रयणाच्चात्रेक्परिभाषा नोपतिष्ठते तदा$स्य गुणस्यानिग्लक्षणत्वात् भिन्नमित्यादौ ‘क्ङिति च’ इति निषेधो नप्राप्नोति । यथालैगवायन इति ॥ नैष दोषः, क्नुसनोः कित्वविधानात् ज्ञापकादनिग्लक्षणत्वे$पि लघूपधगुणस्य प्रतिषेधो भविष्यति ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-86.
“*गुणविधाविति” । क्वचिन्न निर्दिश्यत इति नञो व्यवहितेन संबन्धः ।
क्वचिद्धि निर्दिश्यत एव-ओर्गुण इत्यादौ ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-87.
“*मृजेर्वृद्धिरिति” । तत्र हि सूत्रे$भिमतस्थान्यनुपादानादलो$न्त्यपरिभाषया$न्त्यस्यैव स्यादित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-88.
“*अटो$पीति” । नन्वडागमात्पूरमेव परत्वाद्वृद्धिर्भविष्यति, लक्षणस्य च प्रवृत्तत्वादटि कृते पुनर्लक्षणं न प्रवर्तिष्यते ॥ एवं तर्हि विप्रतिषेधानपेक्षएयैवात्र चोद्यपरिहारावुक्तौ ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-89.
“*अचिकीर्षीदिति” । पूर्वविप्रतिषेधादतो लोपः, यथा-चिकीर्षक इति ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-90.
“*अयासीदिति” । परत्वादत्र सगिटोः कृतयोरनन्त्यत्वादाकारस्य नास्ति वृद्धिप्रसङ्ग इति यद्यपि परिहारो$स्ति, तथापि विशेषाभावेन परिहृअतत्वान्नायमाश्रितः ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-91.
“*उदवोढामिति” । ढलोपादीनामसिद्धत्वात्पूर्वं हलन्तलक्षणा वृद्धिः, ततो ढलोपादिषु कृतेषु ढलोपस्यासिद्दत्वादोकारस्य न भविष्यति ॥ गोशब्दादाचारे क्विपि अगवीदिति संद्यक्षरमन्त्यमस्ति तस्य कस्माद्वृद्धिर्न भवति ? उच्यते ‘सिचि वृद्धिः-’ इत्यत्र धातुग्रहणं ‘ऋत इद्धातोः’ इतत औपदेशिकधातुपरिग्रहार्थमनुवर्तत इत्यदोषः ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-92.
“*लक्षणं हीति । ‘नेटि’” इति लक्षणमविशेषेण वृद्धिमात्रस्य निषेधं कथयतीति ‘ध्वनति’ इत्युच्यते । यो ह्यव्यक्तं कथयति स ध्वनतीत्युच्यते । एवमिहाप्यस्या एव वृद्धेर्निषेध इति नास्ति व्यक्तिः ॥ स्यादेतत्-एकनिषेधे चरितार्थत्वात्पुनः प्रतिषेध्यान्तरे प्रवृत्तिर्न स्यादित्याह-”*भ्रमतीति*” । सर्वत्र व्याप्रियत इत्यर्थः । स्यादेतत्-यावदेकनिषेध्ये$स्य व्यापारस्तावदेव द्वितीयो विधिः प्रवृत्तः प्रवृत्तस्य च निषेधो$शक्यः कर्तुमित्याह ‘-मुहूर्तमिति’ उभयत्रापि व्यापारान्नैकत्र विश्राम्यतीत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-93.
“*तस्या अपीति” । अपिशब्दात्सिचि वृउद्धेरपि ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-94.
“*अस्तीत्याहेति । ‘नान्तःपादमव्यपरे’ " इति पाठमाश्रित्यैतदुक्तम् ॥ यद्येवं वृक्षावित्यत्र ‘नादिचि’ इत्यनेन पूर्वसवर्णदीर्घे निषिद्धे वृद्धेरपि प्रतिषेधप्रसङ्गः । नैष दोषः, ‘संघोद्धौ-’ इत्यादेर्ज्ञापकादनन्तरस्यैव ‘नादिचि’ इति प्रतिषेधात् ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-95.
“*अन्तरङ्गत्वादिति” । उवङादेशः सिचमेवापेक्षते, वृद्दिस्तु सिच्परस्मैपदे ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-96.
“*लुप्तनिर्दिष्ट इति” । ‘लोपो व्योर्वलि’ इति भावः ॥ किमत्र प्रमाणमिति चेत्, अभियुक्तस्मरणमेव ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-97.
“*णिश्र्विभ्यामिति” । णिश्विग्रहणमकृत्वा-अविमवी प्रतिषेधार्थं कर्तव्यौ । एवं सति गौरवाभावः ॥ “*निमातव्याविति*” । मेङो रूपम् ।
परिवर्तनीयावित्यर्थः
॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-98.
(”*यच्च करोत्यकारस्य ग्रहणं लघोरिति कृते*”)
‘न सिचि’ इति न्यायादप्येतत्सिद्ध्यति, येन नाप्राप्तिन्यायेनान्तरअङ्गस्य वृद्ध्या बाधनात् । प्रयोजनं च चिरिजिर्योर्यङ्लुगन्तानां च नयत्यादीनां ‘अचिरायीत्’ ‘अजिरायीत्’ ‘अनेनायीत्’ अचेचायीत्’ इत्यआदौ वृद्धिसिद्धिः । अन्यथा गुणायादेशयोः कृतयोर्यान्तत्वाद्वृध्दिप्रतिषेधः स्यात् ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-99.
“*षष्ठ्या इति” । स्वतन्त्रमिदं गुणवृद्ध्योर्विधायकमिति पूर्वः पक्षः ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-100.
“*अन्यतरार्थमिति” । ननु अनिको$पि यथा स्यात्-इति विध्यर्थं स्यात् न तु नियमार्थम्, नियमाद्विधेर्बलीयस्त्वात् ॥ एवं मन्यते-द्वितीयं गुणवृद्धिग्रहणमनुवर्तते, तेन गुणवृद्धिप्रदेशेष्वपि ‘इकः’इत्यस्योपस्थानान्नास्त्यनिकः प्रसङ्गः ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-101.
“*प्रसारणे चेति” । तुल्यन्यायत्वादुपन्यासः । ‘इग्यणः’ इत्यत्र यण इति स्थानषष्ठी तेन यणः स्थान इग्भवति स च संप्रसारणसंज्ञ इति वाक्यार्थः स्यात् । वाक्यभेदेन च कार्यद्वयं विधीयते ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-102.
“*कर्तृ-हर्तृ इति” । अन्तरतमस्याभावात्सर्वे पर्यायेणाणः प्राप्न्वन्ति ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-103.
“*सिद्धमिति” । स्वातन्त्र्यमेषां निवर्तयति तेन यत्र षष्ठी तत्रैषामुपस्थानम्-अङ्गस्य-वच्यादीनं Qwa इद्धातोह्-इत्यादौ ॥ “*इमावपीति*” । स्वरितत्वात् अन्योरन्तरालवर्तिभिश्चायोग्यत्वात्संबन्धाभावः ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-104.
“*अथवेति । ‘षष्ठीस्थाने योगा’ इत्यत्र योगविभागः करिष्यते-“षष्ठि” इति, यदेतदनुक्रान्तं तत् यत्र षाष्ठी तत्रोपतिष्ठत इत्यर्थः । तत्र योग्यत्वादनयोरेवापेक्षा नान्येषाम् । ततः स्थानेयोगा इति, षष्ठी इत्येतदुपतिष्ठते ॥
1.प्रथमाध्याये प्रथमपादे त्रुतीयआह्निक-105.
“*अथवेति । अन्यतरार्थं पुनर्-’ इति वदता$वश्यमेवं संबन्धः कर्तव्यः -‘यत्र गुणवृद्धिशब्दोच्चारणेन गुणवृद्धी वीधीयेते तत्रेक इति उपतिष्ठते इति । अन्यथा याता वातेत्यादिविध्यर्थत्वे संभवति कथमन्यतरार्थं पुनर्वचनम् स्यादित्युच्यते । अवश्यकर्तव्यायां चापेक्षायामेकवाक्यतयैवापेक्षा$स्तु । तेनैकरूप एवास्यार्थः न तु वाक्यभेदेन स्वातन्त्र्यं पारतन्त्र्यं च ॥ 3 ॥
“*तदपेक्षिष्यामह*” इति । अस्य स्वान्त्र्यं निरसितुमित्यर्थः ॥
इत्युपाद्यायजैयटपुत्रकैयटकृते म्हाभाष्यप्रदीपे प्रथमस्याध्यायस्य
प्रथमे पादे “*तृतीयम्*“आह्निकम् ॥
“*न धातुलोप आर्ददातुके ॥ 4 ॥ गुणवृद्ध्याः प्राधान्यादयं निषेधः, न त तद्गुणभावाधिक्य परिभाषायाः । ‘दीधीवेवीटाम्’ इति चासंबद्धं परिभाषामिषेधे स्यात् ॥ कृत्स्नस्य दातोर्लोपे गुनवृद्धि प्रसङ्गाभावादनर्थको निषेधः स्यादिति सामर्थ्याद्धात्वेकदेशलोपो$त्र धातुलोपो$भिमतः, अवयवक्रियया$पि समुदायस्य व्यपदेशदर्शनात् । यथा-पटो दग्ध इति।अथवा समुदायशब्दो$वयवे तद्रूपारोपाद्वर्तते ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-2.
“*धातुग्रहणमिति”। उपसर्जनस्यापि यथा परामर्शस्तथा ‘केषां शब्दानं’ इत्यत्र प्रतिपादितम् ॥ विनापि धातुग्रहणेन लोपविशेषनमार्धधातुकं विज्ञास्यते । अनुबन्धलोपस्य चानैमित्तिकत्वात् ‘लविता’ इति गुणप्रतिषेधो न भविष्यतीति प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-3.
सिद्धान्ते तु गुणवृद्धिविशेषणमार्धधातुकग्रहणमित्यभिप्रायः ॥ अनुबन्धो न धात्वेकदेशः, यस्मादुपदेश एवेत्संज्ञा । प्रयोगे तु लूशब्द एव धातुसंज्ञः, केवलमसौ ञित्कार्यं लभते । लूशब्दस्यैव हि क्रियावाचित्वमिति तस्यैव युक्ता धातुसंज्ञा ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-4.
“*रोरवीतीति” । सत्यार्धधातुकग्रहणे शब्दवत्त्वादन्यपदार्थे बहुव्रीहिरसंदिग्धो भवति, नान्यथा ॥ क्रमेण सूत्रप्रत्याख्यानायार्ददातुकस्य च लोपविशेषणत्वे धातुग्रहणानर्तक्यप्रतिपादनाय प्रत्युदाहरणोपन्यासः ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-5.
“*किं पुनरिति” । आर्धधातुकग्रहणं लोपविशेषणं वा, गुणवृद्धिविशेषणं वा बहुव्रीहिपक्षे उभयविशेषणं वा-इति पक्षत्रयसंभवात् प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-6.
“*प्रेद्ध् इति” । नन्वाद्गुणो$निग्लक्षण इति तन्निषेधो न भविष्यति, परिहारान्तराभिधानादेतन्नाश्रितमित्यदोषः ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-7.
“*बहिरङ्ग इति” । यदापूर्वं प्रत्ययः पश्चादुपसर्गयोगस्तदा प्रतिषेधो$न्तरङ्गः गुणो बहिरङ्गः ॥ यदा तु पूर्वमुपसर्गयोगस्तदा गुणो$न्तरङ्गः पश्चात्प्रत्ययोत्पत्तौ निषेधो बहिरङ्गः ॥ सर्वथा बहिरङ्गस्यासिद्धत्वादिष्टसिद्धिः । ननु ‘नाजानन्तर्य’ इति निषेधात् कथं परिभाषाप्रवृत्तिः ? यत्र कार्यविधावानन्तर्येणाचोराश्रयणं तत्र निषेधादनुपस्थानं परिभाषायाः । यथा अक्षाअद्यूरिति । तत्र हि ‘इको यणचि’ इति वचनादिगचोराश्रयणम् । अस्मिंस्तु प्रतिषेधसूत्रे नास्त्यचोराश्रयणमित्यदोषः ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-8.
“*यङ्यक्क्यवलोप इति” । ‘व’ इत्यत्राकारो विवक्षितः । तेन धातुपाठे यो$कारान्तः पठितस्तस्य ग्रहणम् । अन्यथा स्रिविः कथं निरार्येत ? बेभिदितेति । बेभिद्यशब्दात्तच्, इट्, ‘यस्य हलः इति’ यलोपः । “*‘मरीमृज इति’*” यङो$चि च इति यङ्लुक् ॥ कुषुभमगधशब्दौ कण्ड्वादिगणपठितौ धातू ताभायं यक्, ‘ण्वुल्तृचौ’ ‘यस्य हल’ इति यलोपः ॥ समिद्वहषच्छब्दाभ्यं क्यजन्ताभ्यं प्रत्ययौ-ण्वुल्त्रुचौ’ क्यस्य विभाषा इति यलोपः ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-9.
“*नुम्लोप इति” । ‘नुम्’ इति नकारस्य पूर्वाचार्यसंज्ञा ॥
“*उपबर्हणमिति*” । ‘बृहि वृद्धौ’ इदित्वान्नुम् ।
ब्रुंहेरच्यनिटि इति वार्तिकेन नलोपः ॥ “*आस्रेमाणमिति ।
आस्रे*“माणमित्यादि वेदे पठ्यते । तर नञ्पूर्वात् स्रिवेर्मनिन्प्रत्ययः ॥ ऊडादेशश्छान्दसत्वान्न भवति ॥ परिगणने सति धातुग्रहणं न कर्तव्यं भवतीत्यनुबन्धलोपः प्रयोजनत्वेन पठितः ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-10.
“*इक्प्रकरणादिति” । तेन यत्रेक्परिभाषा स्थान्यन्तरनिवृत्तये व्याप्रियते तत्रायं निषेध इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-11.
“*प्रत्ययाश्रयत्वादिति” । लोपविशेषणमार्धधातुकग्रहणमित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-12.
“*जीरदानुरिति” । वर्णनिमित्तो$त्र वलोपो न प्रत्ययनिमित्तः ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-13.
“*रकि ज्य इति” । एवं च ‘जीर’ इत्यवग्रहः सिध्यति ।
बहुव्रीहित्वाच्च
जीरदानुशब्दे रेफाकार उदात्तः ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-14.
“*बृहिरिति । ‘बृह बृहि वृद्धौ’” इति पाठात् ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-15.
“*भेद्यत इति” । गुणो णिलोपश्चार्धधातुकनिमित्त इति पक्षद्वये$पि दोषः
। अपवादविषयपरिहाराच्चान्तरङ्गो$पि गुणो$त्र न प्रवर्तत इत्युपन्यासः ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-16.
“*कथं तर्हीति” । बहुव्रीहौ सत्येकार्धधातुकनिमित्तत्वं लोपस्य गुणवृद्ध्योश्चाश्रितमिति ‘भेद्यते’ इत्यादौ भिन्ननिमित्तत्वाद्गुणो न निषिध्यते ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-17.
“*यत्र हलचोरादेश इति” । लुका कृत्स्नो यङ् लुप्यत इत्याशयः ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-18.
“*अत्रापीति” । कृते$प्यकारलोपे एकदेशविकृतमनन्यवदिति यकारः प्रत्ययसंज्ञो भवत्येवेति भावः ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-19.
“*नित्यो लुगिति” । लुक्शास्त्रप्रवृत्तिर्नित्या ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-20.
“*अनवकाश इति” । नाप्राप्ते लोपे लुगारम्भात् ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-21.
“*सावकाश इति” । भिन्नविषयौ लुग्लोपौ । आकारस्य लोपः, यकारस्य लुक् ।
ततश्च नास्ति येन नाप्राप्तिन्यायः ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-22.
“*अथापिति । ‘यङो$चि च’” इत्यत्र यकाराकारसमुदायस्य यङः इति निर्दिष्टस्य विवक्षितत्वादवयवे च यङ्व्यपदेशस्य गौणत्वादिति भावः ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-23.
“*समानाश्रय इति” । तुल्यकालत्वादिति भावः । नोनावेत्यत्र बहुलग्रहणानुवृत्त्या$नैमित्तिको$न्तरङ्गोलुक् प्रागेव प्रत्ययोत्पत्तेर्भवति ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-24.
“*निकुचित इति” । कित्त्वसंयोगेन नलोपे सति उदुपधत्वमिति निमित्तमकित्वस्य न भवति ॥ यदि तर्ह्यकारलोपः क्रियते, तदा ‘जङ्गमः’ इत्यत्र तस्य स्थानिवद्भावादुपधालोपः प्राप्नोति । नैष दोषः, अनङीति
प्रतिषेधात् ॥ अनर्थको$यमङिति चेत् उपधालोपस्यापि तर्ह्यप्राप्तिः अजादौ प्रत्यये तस्य विधानात् ॥ ननु लोलुवादिषूवङादयः स्थानिवद्भावेन न सिध्द्यन्ति, तेषां स्थानिन्यदर्शनात् । संभवमात्रेणाप्यतिदेशो भवतीत्यदोषः ॥ 4 ॥
क्ङि
“*मुखनासिकावचनोऽनुनासिकः*” ॥ 8 ॥ प्राण्यङ्गत्वात्समाहारद्वन्द्वे ह्रस्वत्वेन भाव्यम्, ‘अवचनं’ इति नञ्समासाश्रयणेऽर्थो न संगच्छते इति प्रश्नः -किमिदमिति ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-83.
“*निपातनादिति” । प्रसङ्गेनास्य लौकिकशब्दस्य साधुत्वं क्रियते । निपातनानां च बाधकत्वात् ‘मुखनासिकवचनः’ इति न भाव्यम् । अबाधकत्वपक्षे तु भाव्यमेव ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-84.
“*ईषद्वचनमिति” । भागस्य मुखेनोच्चारणात् भागस्य नासिकया ।
अस्मिन्पक्षे
‘मुखनासिकवचनः’ इत्यपि भवति । यो हीषदुच्यते स उच्यत एव ।
यथा-ईषच्छुक्लोऽपि शुक्ल एव ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-85.
“*मुखद्वितीयेति” । मुखसहाया-इत्यर्थः । तत्र नासिका मुखसाहचर्यान्मुखशब्देनोच्यते । मुखं च तन्नासिका च मुखनासिका, सा वचनमस्येति ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-86.
“*मुखोपसंहितेति” । मुखस्य च नासिकायास्चान्तरालं स्थानान्तरमेवानुनासिकस्य दर्शयति । तत्र सामीप्यान्मुखं च तन्नासिका चेत्युभाभ्यामन्तरालं व्यपदिश्यते । पदसंस्कारपक्षे मुखनासिकापदनिरपेक्षं ‘वचनं’ इत्येतत्पदं लिङ्गसर्वनामनपुंसकाश्रयेण संस्क्रियते । पश्चात्स्त्रीत्वस्य पदान्तरसंबन्धेन प्रतीयमानत्वाद्बहिरङ्गत्वान्ङिप्प्रत्ययो न भवति । यदा तु स्त्रीत्वाश्रयेण `वचनी’ इतिपदं व्युत्पाद्यते तदा मुखनासिकावचनीक इति भवत्येव ॥ अत्र चानेकं दर्शनम् । अनुनासिकस्य पूर्वः परो वा भागो मुखेनोच्चार्यते, भागो नासिकया । तत्र नासिकावचनभागानुरागवशात् मुखवचनोऽपि भागौ नासिकावचन इव लक्ष्यते । यथा-सँय्यन्तेत्यत्रानुनासिकयकारानुरागात् अकारोऽनुनासिक इव प्रतिभाति ॥ अत्र च प्रासादवासिन्यायो नास्ति, भागस्यैव मुखेन नासिकया चोच्चारणात् न तु समग्रस्य ॥ अन्येषां तु दर्शनं-मुखनासिकान्तरालं स्थानान्तरमेवास्य-इति । अत्रापि नास्ति प्रासादवासिन्यायः ॥ यदा सर्व एव वर्णो मुखेनोच्चार्यते नासिकया च तदा प्रासादवासिन्यायेन भाष्यकारो मुखग्रहणम् प्रत्याचष्टे । यथा-भ्राष्ट्रेणोखया च पक्कः सूप उभाभ्यां व्यपदिश्यते ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-87.
“*यमानुस्वाराणामेवेति” । प्रासादवासिन्यायानवतारपक्ष इति भावः । तत्र विधिप्रदेशेषु यमानुस्वारा एवादेशाः स्युः । `विड्वनोरनुनासिक स्यात्’ इत्यादिषु त्वनुवादप्रदेशेषु यमानुस्वाराणामसंभवादप्रतिपत्तिः स्यात् ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-88.
“*कचटतपानामिति” । `पक्वं’ इति चकारलोपप्रसङ्गः, ओ`दनपक्’ इत्यत्र `अनुनासिकस्य क्विझलोः क्ङिति इति’ दीर्घाप्रसङ्गः ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-89.
“*प्रासादवासिन्यायेनेति” । अयं न्यायः क्रियाशब्देष्वेव, न रूढिशब्देषु ॥
1.प्रथमाध्याये प्रथमपादे चतुर्थाह्निक-90.
“*नैव दोष इति” । अनुवादे तावत् यमानुस्वाराणामसंभव एव । विधावप्यान्तरतम्यान्मुखवचनस्योभयवचनो भविष्यति, न तु केवलनासिकावचनः ॥ 8 ॥

“*मुखनासिकावचनोऽनुनासिकः*” ॥ 8 ॥
प्राण्यङ्गत्वात्समाहारद्वन्द्वे ह्रस्वत्वेन भाव्यम्, ‘अवचनं’ इति नञ्समासाश्रयणेऽर्थो न संगच्छते इति प्रश्नः -किमिदमिति ॥

“ईदूदेद्द्विवचनं प्रगृह्यम् ॥ 11 ॥। किमर्थमिति ।” ईदूतोरनण्त्वाद्भिन्नकालनिवृत्यर्थं नोपपद्यते तपरत्वम् । उदात्तादीनामभेदकत्वाद्गुणान्तरयुक्तानां सवर्णानां ग्रहणार्थमपि नोपपद्यते । झातिपक्षेऽपि दीर्घोच्चारणात्प्रयत्नाधिक्यात् ह्रस्वानां न भविष्यति, प्लुतानां चेष्यत एव-इतीष्टव्याघतं प्रत्युत तपरत्वं करोतीति प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-2.
“*तपर इति ।” व्यक्तिपक्षो भेदकाश्च गुणा इति भावः ॥ “*केषामिति ।” प्लुतानामग्रहणप्रसङ्गात्प्रश्नः । “*उदात्तेति*” । क्वचिदनुनासिकग्रहणमप्यस्ति, तत् गुणप्रसङ्गेनोच्चारितम् । न हि प्रगृह्योऽनुनासिकः सम्भवति, `अणोऽप्रगृह्यस्यानुनासिकः’ इति निषेधात् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-3.
“*प्लुतानाम् त्विति ।” व्यक्तिपक्षाश्रयणादयं दोषः, न तु तपरत्वात् ।
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-4.
“*असिद्ध इति ।” शस्त्रासिद्धत्वास्श्रयणात् प्लुतबुद्धावसत्यां प्रगृह्यत्वे विधीयमाने द्विमात्रविषाया बुद्धिः प्रवर्तते । तथा हि वक्ष्यति-`असिद्धत्ववचनमुत्सर्गलक्षणभावार्थमादेशलक्षणप्रतिषेधार्थं च’ इति ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-5.
“*यदयमिति ।” असिद्धत्वे ‘प्लुतः प्रकृत्या’ इत्येवमाश्रयणायोगात् कार्यित्वेनाश्रयणादसिद्धत्वाभावोऽनुमीयते । सामान्येन स्वरसन्धिप्रकरणविषयं सिद्धत्वं ज्ञाप्यते, न तु प्रकृतिभाव एव । यथा रोरुत्वे । एवं सोत्सर्गं सापवादं च प्रकरणमिति प्रकृतिभावेऽपि प्रगृह्यत्वहेतुके सिद्धत्वमुच्यते ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-6.
“*किमेतस्येति ।” प्रकृतिभाव एवाश्रयात्सिद्धत्वमस्त्विति प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-7.
इतरो लाघवं दर्शयति-”*अप्लुतादिति ।” सिद्धे हि प्लुते ‘अतः-अति’-इति तपरत्वादेवोत्त्वाप्रसङ्गः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-8.
दोषान्तरेणेमं पक्षं निराकर्तुमाह-”*लुकि प्रतिषेध इति ।” दोषसद्भावेनैवास्य पक्षस्य निराकरणात्तदन्तविध्यभावोऽत्र नोक्तः ॥
“*कुमार्यगारमिति ।” कथं पुनरत्र द्विवचनान्तस्य समासः, यावता वृत्तौ संख्याविशेषो न गम्यते । नैष दोषः । यथा ‘तावकीनः’ इत्यादावादेशेन संख्याविशेषो व्यज्यते, तथेहापि सत्यां
प्रगृह्यसंज्ञायां प्रकृतिभावेन द्वित्वं व्यज्येतेति दोषोपन्यासः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-9.
“*सप्तम्यामिति” । `ईदूतौ सप्तमी’ इत्येव तदन्तविधौ सति प्रत्ययलक्षणेन `सोमो गौरी अधिश्रितः’ इत्यादिषु सिद्धायां प्रगृह्यसंज्ञायामर्थग्रहणं ज्ञापयति-`प्रगृह्यसंज्ञाप्रकरणे प्रत्ययलक्षणं न भवति’- इति ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-10.
“*तत्तर्हीति ।” आद्यन्तवद्भावानाश्रयणाय तृतीयः पक्षः परिगृहीतः । तत्र च दोषप्रतिविधानार्थमधिकमर्थग्रहणं ज्ञापकार्थं कर्तव्यं भवतीति सुतरां गौरवं भवतीत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-11.
“*ईदादिभिरिति ।” अत्र पक्षे ‘कुमार्यगारं’ इत्यत्राप्रसङ्गः । न ह्यत्रेदूदेदन्तं, किं तर्हि ? ‘ओस्’ इति सकारान्तम् ॥ “*तदन्तमिति ।” द्विवचनान्तम् । “*ईदाद्यन्तमिति ।” ईदादिभिः साक्षात्समुदायस्य संबन्धाभावादीदादिशब्देनेदाद्यन्तमुच्यते, तेनेदाद्यन्तान्तमित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-12.
“*शुक्ल्यास्तामिति ।” शुक्लशब्दाद्द्विवचनं ‘औ’, तस्य `‘नपुंसकाच्च’ इति शीभावः, ततश्च्व्रिप्रत्ययः । शीशब्दस्य `सुपः’ इति लुक् । “*अस्य च्वौ” इतीत्वं । तद्धितान्तत्वात्सुप् । तस्य `अव्ययात्’ इति लुक् । अत्र हि शीशब्द ईकारान्तं द्विवचनम्, तदन्तश्च समुदायः प्रत्ययलक्षणेनेति प्रगृह्यसंज्ञाप्राप्नोति ॥ “*अत्र हीदादि च द्विवचनमिति ।” ईदादिशब्देनद्यान्तमुच्यते ॥ क्विचित्तु पाठः`-ईदाद्यन्तं च श्रूयते’ इति, तत्रैवं व्याख्येयम्-ईदाद्यन्तं च श्रूयते सूत्रे, तदन्तविधिरीदादिभिर्द्विवचनस्याश्रीयत इत्यर्थः । यस्त्वयं `अस्य च्वौ’ इतीकारः, स द्विवचनस्य न कश्चिदिति न तदभिप्रायेण भाष्यं व्याख्येयम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-13.
“*अथापि कथंचिदिति ।” स्थानिविशेषानपेक्षायां कृताकृतप्रसङ्गित्वेन लुक्शास्त्रस्य प्रवर्तनादित्यर्थः ॥ `अथवा’ नित्यत्वेन बाधकत्वं लक्ष्यते । तेनान्तरङ्गानपीति शीभावस्य लुक् बाधक इत्यर्थः ॥ “*एवमपि दोष इति ।” पक्षस्योत्तानमेव नास्तीति एतत्पक्षासंभव एव दोषः ॥
“*अवश्यमिति” । यदाश्रयणभयादयं पक्षोऽङ्गीकृतस्तस्याद्यन्तरद्भावस्यास्मिन्नपि पक्षेऽवश्यमाश्रयणमङ्गीकर्तव्यम् । ‘अग्नी’ इत्यत्र हीकारा एव द्विवचनं, न त्वीकारान्तम् ॥ “*तस्मादिति” । त्विसीय एव पक्षोऽस्त्वित्यर्थह् ॥
`मनीवादीनाम् प्रतिषेधो वक्तव्यः’ इति भाष्यकारवार्तिककाराभ्यामपठितत्वादप्रमाणमेतत् । `मणीवोष्ट्रस्य’ इति तु प्रयोगो वासब्दस्योपमानार्थस्य । `रोदसीव’ इत्यादिस्तु छान्दसः प्रयोगः । चन्दसि तु सर्वे विधयो विकल्फ्यन्ते ॥ 11 ॥
“*अदसो मात् ॥ 12 ॥ मात्प्रगृह्येति ।” अस्मिन्सूत्रन्यास इत्यर्थः ॥ “*ऊत्वस्य चेति ।” चशब्दान्मत्वस्यच । शास्त्रासिद्धत्वाच्च स्थानिलक्षणमेव कार्यं पाप्नोति, नादेशलक्षणमित्यादिप्रसङ्गः ॥ ‘अमी आसते’ इत्यत्रायादेशः प्राप्नोति । ‘अमू आसाते’ इत्यावादेशः । ‘अमी अत्र’ इत्यत्र-एकादेशः ॥ ननु च द्विपदाश्रयत्वाद्बहिरङ्गा अयादयोऽन्तरङ्गेष्वीत्त्वादिष्वसिद्धा इति पूर्वाभावे कथं `पूर्वत्रासिद्धं’ इतीत्वादीनामसिद्धत्वं स्यात् ? नैष दोषः । `नाजानतर्ये-’ इति बहिरङ्गपरिभाषया निषेधात् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-29.
“*ननु चेति ।” यथोद्देशपक्षे आस्रयात्सिद्धत्वं भविष्यतीत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-30.
कार्यकालपक्षमाश्रित्याह-”*वचनार्थो हीति ।” वचनस्य प्रयोजनमित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-31.
“*नैकमिति ।” अनेककार्यसिद्ध्यर्थं संज्ञासूत्रं नैकेन प्रयुज्यत इत्यर्थः । अन्यसूत्रमेएकेनापि प्रयुज्यत इत्यर्थः । अन्यसूत्रमेकेनापि प्रयुज्यते - `मुद्गादण्’ इत्यादि ॥ “*तत्रैवायमिति ।” न च तत्र ‘ईदूदेत्-’ ग्रहणम् कर्तव्यं, मादिति वा । यस्मादणोऽवसानेऽनुनासिको विधीयते, पूर्वेण च णकारेणाण्ग्रहणमिति ‘असौ-अमुके-अमुकाभ्यां’ इत्यादावनुनासिकस्याप्रसङ्ग एव । तदेवं कार्यकालेऽपि संज्ञापरिभाषे प्रकरणोत्कार्षेण विधीयमाना प्रगृह्यसंज्ञा सर्वप्रगृह्यकार्यार्था सति असिद्धत्वं भाधिष्यत इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-32.
“*विप्रतिषेधाद्वेति ।” ‘अयावेकादेशप्रतिषेधो वा वक्तव्यः’ ‘विप्रतिषेधाद्वा प्रगृह्यसंज्ञा’ इति विकल्पार्थो वाशब्दः । “*नैकं प्रयोजनम्’” इत्यादिस्तु परिहारो भाष्यकारेणोक्तो न वार्तिककारेणेति न तदपेक्षो विकल्पः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-33.
“*नैष युक्त इति ।” इष्टसिद्धये-इति भावः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-34.
“*करिष्यत इति ।” आश्रयिष्यते-इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-35.
इतरस्त्वगृहीताभिप्राय आह-”*सूत्रविपर्यास इति” ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-36.
अभिप्रायं प्रकाशयितुमाह-”*एवं तर्हीति ॥”
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-37.
“*द्विकार्ययोगो हीति ।” द्वाभ्यां कार्यभ्यां यो युज्यते स विप्रतिषेधविषयत्वाद्विप्रतिषेधः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-38.
“*असंभवोऽपीति ।” अस्Mभव एव विप्रतिषेधः । स तु कदाचित् द्विकार्ययोगोभवति, कदाचित्केवलोऽपि । तथा हि-सति संभवे द्विकार्ययोगो न विप्रतिषेधः, यथा-एकस्य दधातेरडागमद्विर्वचने भवतः-अदधादिति । क्वचिदेकस्य द्विकार्ययोगाभावेऽत्यसंभवोऽप्ति, यथा-त्रपूणामित्यत्र नुम्नुटोः प्रकृतिप्रत्ययभक्तयोः परस्परनिमित्तव्याघातात् ॥ “*अयादीन्बाधत इति” प्रकृतिभावविधानात् ॥ “*निमित्तमिति ।” ईत्वमूत्वं च ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-39.
“*आश्रयात् सिद्धत्वमिति ।” प्रगृह्यसंज्ञायां कार्यित्वेनाश्रयणादसिद्धत्वाभावादीत्वादीनां तेषामयादीनां च विप्रतिषेधो निरूप्यते । तथाहि-सतोर्हि विप्रतिषेधो भवतीति पूर्वपक्षे ‘ईदादीनं’ एव विप्रतिषेध आक्षिप्तः । तत्रायादीनां चयनं चायकः, लवनं-लावकः, अग्रेऽत्र-इत्यत्रावकाशः । ईदादीनां तु यत्रायादीनामप्रस्ङ्गः सोऽवकाशः-अमी स्थिताः-अमू स्थितौ अमीभ्य इति । ‘अमी अत्र’ इत्यादावुभयप्रस्ङ्गे परत्वादीत्वादय एव भवन्ति ॥ अत्र व्याख्यानान्तरं क्लिष्टत्वान्नोपन्यस्तम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-40.
“*न पुनर्यत्रेविति । ‘रोःसुपि’” इत्यस्यानन्तरं ‘अत उरति’ इति वक्तव्यम् । एवं चासिद्धत्वं न बाधितं भवति । तत्र पाठक्रमेऽसिद्धत्वस्य प्राप्त्यभावात् प्लुतस्य चोत्वे सिद्धत्वात्तत्कालत्वाभावात् “*‘अप्लुतादप्लुते’” इति न वक्तव्यं भवति ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-41.
“*अथ वेति ।” यथोद्देशपक्षाश्रयेणैतद्वुच्यते ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-42.
कार्यकालत्यामप्याह-”*अथ वेति ।” ‘अदसः’ इति संबन्धसामान्ये षष्ठी
। अदसः संबन्धिन ईदूदेत इति ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-43.
“*इहापीति ।” ‘अदस् टा’ ‘अदस् ओस्’, अत्वम्, टाप्, सवर्णदीर्घत्वम् । ‘आङि चापः’ इत्येत्वम् । ‘अदे
आ’ ‘अदे ओस्’ इति स्थिते ‘अदसः’ इत्यत्र ‘माद्’ इति विशेषणाभावात्प्रगृह्यसंज्ञायां सत्यामयादेशाप्रसङ्गः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-44.
“*अमुकेऽत्रेति ।” ‘अदसः’ इत्यनेन प्राप्नोति ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-45.
“*एदन्तमिति ।” ईदूतोरेव स्वरितत्वप्रतिज्ञानादिति भावः । अननुव्रुत्तिरेव च निवृत्तिः । यद्येवं माद्ग्रहणं न कर्तव्यम्, एद्ग्रहणनिवृत्त्यैव ‘अमुकेत्र’ इत्यत्राप्रसङ्गात् । नैतदस्ति । सति माद्ग्रहणे योगविभागो भवति, नान्यथा ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-46.
एकयोगे परिहारान्तरमप्याह-”*अथ वेति ॥ मार्थादिति ।" मार्थ एव स्थणी
मशब्देनोक्तः, ईधुदेदर्थश्चेदूदेदिति । न चास्यां कल्पनायामसिद्धत्वं भवति,
बुद्धिसङ्कलनायामसिद्धत्वाभावस्योक्तत्वात् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-47.
“*उक्तं वेति ।” असिद्धत्वमेवात्र प्रतिषिध्धमित्यर्थः ॥ “*स्वरे इति ।” अचीत्यर्थः ॥ “*बहिष्पदलक्षण इति ।” द्वितीयपदव्यवस्थित इत्यर्थः । तेनैकपदव्यवस्थितेऽचि असिद्धे ईत्वोत्वे । तेन ‘अमुया’ ‘अमुयोः’ इत्यत्रायादेशो भव्त्स्येव ॥ “*प्रगृह्यसंज्ञायां चेति ।” प्रगृह्यसंज्ञायामेव सिद्धत्वेन सिद्धे लक्ष्ये प्रपञ्चार्थः पुर्ववाक्योपन्यासः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-48.
“*तत्र सकि दोष इति ।” मात्परं यदीदाद्यन्तमिति दोषोपन्यासः । पूर्वसूत्रे हि तदन्तं गृहीतमितीहापि तदन्तस्यैवानुवृत्तिरिति भावः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-49.
स्वरितत्वेन शब्दमात्रमनुमीयत इति उत्तरेऽभिप्रआय्H । तत्र माद्ग्रहणेन गृह्यमाणभीदूदेद्विशेष्यते, तेन ‘अमुकेऽत्र’ इत्यत्र व्यवधानाद्दोषाभाव एव । योगविभागे दोषप्रसङ्गात् ‘एदन्तमिति निवृत्तं’ इत्युक्तम् । एकयोगे तु तन्निवृत्या न प्रयोजनमिति “*‘न वा ग्रहणविशेषणत्वात्’” इत्युत्तरमुक्तम् ॥ 12 ॥
“*शे ॥ 13 ॥ इह कस्मादिति ।” अत्र हि प्रत्यक्षमेव ‘शे’ इति रूपम् । ‘युष्मे-अस्मे’ इत्यत्र तु शकारस्यानुबन्धस्याश्रवणादनुमेयमिति “*प्रश्नः” ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-51.
“*शेस्रथवद्ग्रहणादिति” । `स्वं सब्दस्य’ इत्येवान्तरन्ङ्गत्वादहेयत्वादसादारणत्वाच्च रूपपरिग्रहे सिद्धे रुपवदर्थस्याप्यङ्गीकरणार्थम् रूपग्रहणं कृतम् । अत्र च शशब्दोऽनर्थकः, सप्तर्येकवचनम् त्वर्तरत्, तयोः समुदायोऽर्थान्तराप्रादुर् भावादनत्थकः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-52.
“*एवमपीति ।” अत्र हि मत्वर्थीयसप्तम्येकवचनयोरर्थवतोः समुदायोऽर्थवानेव, अवयवधर्मानुविधानात्समुदायस्येति प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-53.
“*लक्षणेति ।” प्रतिपदोक्ते हि झटिति प्रतिपत्तिर्भवति, लाक्षणिके तु
लक्षणानुसन्धानद्वारेण बहिरङ्गा-इति न तस्य ग्रहणम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-54.
“*अथवेति ।” अर्थवत्समुदायस्यापि कस्यचिदानर्थक्यं, यथा-दशदाडिमादिवाक्यस्य पदार्थानं परस्परसमन्वयाभावात् । इहापि हरिशशब्दवाच्यार्थगतसंख्याधिकरणशक्तिप्रतिपादनाय प्रवृत्ता सप्तमी न शप्रत्ययमात्रप्रतिपाद्येनार्थेनान्वेतीति शेशब्दस्यानर्थक्यम् ॥ 13 ॥
“*निपात एकाजनाङ् ॥ 14 ॥ निपात इति किमर्थमिति ।” निपातस्यैवैकाचोऽर्थवक्त्वात् प्रत्ययस्य केवलस्य प्रयोगाभावादानर्थयात् कल्पितरूपत्वात् कल्पनायाश्च नियमाभावात् प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-56.
“*चकारात्रेति ।” अन्वयव्यतिरेकाभ्यां प्रत्ययस्याप्यर्थवत्वमिति भावः
॥ निपातोऽपि केवलो न प्रयुज्यते, द्योतकत्वात्-इति साम्यमेव निपातप्रत्यययोः ॥ `अततेर्डः-’ `अ आगच्छ’ इत्यपि प्रत्युदाहरणम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-57.
“*एकाजिति किमर्थमिति ।” एकग्रहणसामर्थ्याद्बहुव्रीहिं मन्यते, ततस्च ‘प्रेदं ब्रह्मा’ इत्यनिष्टनिवृत्तिर्न कृतेति प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-58.
“*तत्पुरुषोऽयमिति ।” अन्तरङ्गत्वद्विर्तिप्रदार्थप्राधान्यादिति भावः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-59.
“*नैव दोष इति ।” ननु `पुरोऽहिः’ इति हलन्तस्य प्रकृतिभावाद्रोरुत्वं न स्यात् । नैष दोषः, प्रगृह्यसंज्ञायां रुत्वस्यासिद्धत्वात् सकारस्य च कार्यान्तराप्रसङ्गात् । उत्वे तु रुत्वमाश्रयात्सिद्धम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-60.
“*एवमपीति ।” अन्यतरनिवृत्त्याऽज्ग्रहणस्यार्थवत्त्वादज्मात्रं गृह्यते तदन्तं निरस्यते, विपर्ययस्तु न भवतीति विशेषाभावात् प्रश्नः ॥ पारार्थ्यसामान्यात् संज्ञाऽतिदेशौ परिभाषाशब्देनोक्तौ ॥ “*सावकाशयोरिति ।” निरवकाशस्य बाधकत्वादेवमुक्तम् । तत्र तदन्तविधेरवकाशः-"*‘ओरावश्यके’" लाव्यं-पाव्यम्-इति । आद्यन्तवद्भावस्यावकाशः-"*‘मिदचोऽन्त्यात्परः’-तानि-यानीति । अत्र हि साक्षादन्त्यग्रहणमस्तीति तदन्तविध्यभावः ॥ “*समवस्थितयोरिति ।” इह प्राप्तयोः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-61.
“*आचार्यप्रव्रुत्तिरिति ।” यदि तर्हि लिङ्गेन तदन्तविधिर्निराक्रियते तदा तन्मूलाद्यन्तवत्परिभाषा कथं प्रवर्तेत ? नैष दोषः, `आधन्तवत्-’ इत्यस्योपस्थानाय तदन्तविधिः प्रथमं सन्निधीयते, पश्चात्तु लिङ्गात् परित्यज्यते ॥ अथवा लिङ्गादज्ग्रहणं निपातेन विशेष्यत इति विशेष्येण तदन्तविधेरभावादतिदेशस्यापि मा भूत् प्रवृत्तिः, तत्फलसंपत्त्यातूक्तम्-`परिभाषा भविष्यतीति’ ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-62.
“*एवं तर्हीति ।” संज्ञाया विधीयमानत्वात् प्राधान्यात् संज्ञिनो गुणत्वात् `पशुना यजेते` तिवत् संख्याया विवक्षायां सिद्धायामेकग्रहणमन्यत्र जातिसंप्रत्ययार्थम् । अच्समुदायग्रहणाशङ्काया निरासार्थं ह्येकग्रहणं ज्ञापनफलं संपद्यएते ॥ किं पुनः स्यात् यद्यत्राच्समुदायस्य ग्रहणं स्यात् ? उच्यते-इह ‘अइउ अपेहि’ इति समुदायस्यैका संज्ञा स्यात्, नावयवानाम्; समुदायैकाज्द्विर्वचनवत्-इत्यन्त्यस्यैव प्रकृतिभावाद्यणादेशो न स्यात् । पूर्वयोस्तु स्वरसंधिः स्यात् । अच्समुदायपरिग्रहानुरोधाच्च निपातसमुदायो गृह्येत, एकनिपातस्याच्समुदायस्याभावात् ।
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-63.
“*अनाङिति किमर्थमिति ।” ङिदङितोराकारयोर्विषयविभागप्रदर्शनाय प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-64.
“*इह कस्मादिति ।” अनुबन्धनिवृत्तौ विशेषापरिज्ञानात् प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-65.
अर्थवशात् विशेषावसाय इत्युत्तरम् ॥ “*क्रियायोगो-“आ इतः-एतः, प्रादिषु हि ङित् पठ्यते ॥ “*आङ्मर्यादाभिविध्योः’ इति च समासविधौ ङिन्निर्दिष्टः-आ उदकान्तात्-ओदकान्तात्, आ अहिच्छत्रात्-आहिच्छत्रादिति ॥ विना तेन-इति “*मर्यादा”, सह तेन-इत्य”*भिविधिः ॥” पूर्वप्रक्रान्तस्य वाक्यार्थस्यान्यथात्वद्योतन्याऽऽकारः प्रयुज्यते-आ एवं मु मन्यसे, नैवं पूर्वममंस्थाः संप्रति मन्यस इति । वाक्यारम्भसूचनायाऽऽकार इत्यपरे ॥ तथा स्मृतेः सूचक आकारः प्रयुज्यते ततः स्मृतोऽर्थो निर्दिश्यते-आ एवं किल तदिति ॥14॥
र
“*ईदूतौ च सप्तम्यर्थे ॥ 19 ॥ ईदूतौ सप्तमीत्येवेति ।” सप्तमीसहचरितं यदीदूदन्तं सप्तम्यां वा परतस्तत् प्रगृह्यसंज्ञं भवतीत्येवं प्रत्ययलक्षणेन लुप्तायामपि सप्तम्यां ‘सोमो गौरी अधिश्रितः’ इत्यादौ भविष्यति प्रगृह्यसंज्ञेति प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-79.
“*लुप्त इति ।” संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधादसत्यर्थग्रहणे सप्तम्या एव संज्ञिनीत्वादसत्याश्च कार्याभावात् प्रत्ययनिमित्तं यत्रान्यस्य कार्यं विधीयते तत्रैव प्रत्ययलक्षणस्य सद्भावात् ‘गौरी’ इत्यत्राप्रसङ्गादर्थग्रहणं कृतम् । अर्थग्रहणे सति अर्थनिमित्ता संज्ञेयं भवति, न प्रत्ययनिमित्ता-इति लोपेऽपि सिध्यति ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-80.
“*पूर्वसवर्ण इति ।” सतिच पूर्वसवर्णे एकादेशे चादिवद्भवती कारः
सप्तमीति सिद्धा सम्ज्ञा ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-81.
“*आडाम्भाव इति ।” एकादेशं बाधित्वाऽऽडामौ स्याताम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-82.
“*वचनादिति ।” सर्वत्रैव सप्तमी लुप्यत इति वचनसामर्थ्यात् सप्तमीशब्देन सप्तमीसहचरितस्य ग्रहणान्मुख्यकल्पनाऽसंभवे गौणी कल्पना गृह्यते-इत्याश्रयणात् सिध्यतीति भावः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-83.
मुख्यकल्पना सम्भवत्येवेत्याह-”*यत्रेति ।" सरसीत्यत्र । सरःशब्दात् परस्य ङिशब्दस्य ‘इयाडियाजीकाराणामुपसंख्यानम्’ इतीकारे कृते भवतीकारः सप्तमीति तत्रैव स्यात्, न तु ‘गौरी’ इत्यत्रेति भावः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-84.
“*सरसी यदीति ।” ‘यदि’ इति सम्भावनायाम् । तस्मात् स्थितमेतत्-वचनात् सर्वत्र लुप्तायामपि सप्तम्यां भविष्यतीति नार्थोऽर्थग्रहणेन ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-85.
“*ज्ञापकमिति ।” ‘ईदूदेत्’ इत्यत्र तृतीयचतुर्थपक्षयोरित्यर्थः ॥
इह प्रगृह्यसंज्ञाप्रकरणे यदि प्रत्ययलक्षणं स्यात् तदा ‘ईदूतौ च सप्तमी’ इत्येवसप्तमीसहचरितं सप्तम्यां वा परतो यदीदूदन्तं तत् प्रगृह्यमिति
प्रत्ययलक्षणेन लुप्तायामपि सप्तम्यां संज्ञा भविष्यतीति किं अर्थग्रहणेन, तत् क्रियमाणं प्रत्ययलक्षणाभावं सूचयति ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-86.
संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेरभावात् तदन्तपक्षस्तत्र नैव स्थित इति ज्ञापनफलाभावादाह-"*मा वेति ॥ वाप्यश्र्वो नद्यातिरिति ।" ‘संज्ञायां’ इति समासे कृते साप्तमीसहचरितमीकारान्तं पूर्वपदमिति स्यात् प्रगृह्यसंज्ञा-इति तदर्थमर्थग्रहणम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-87.
“*अथेति ।” अस्त्येवात्र सप्तम्यर्थ इति प्रश्नः ।
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-88.
“*जहत्स्वार्थेति ।” समासस्यैवार्थवत्त्वात् पूर्वोत्तरपदयोर्वर्णवदानर्थक्यात् सप्तम्यर्थोऽत्र नास्तीत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-89.
“*समुदायार्थ इति ।” वृत्तौ हि पूर्वपदं स्वार्थामत्यभिधत्ते प्रधानार्थमपि-इति स्वार्थसंसृष्टस्य प्रधानार्थस्याभिधानात् पांसूदकवत् स्वार्थस्य विवेकानवगमात् समुदायार्थो वृत्तो संसृष्टरूप एवाभिधीयते ।
सप्तम्यर्थग्रहणेन यावानेवार्थो वाक्ये सप्तम्यन्तेनाभिधीयते केवलोऽसंसृष्ट उद्भूतस्तस्यैवेह ग्रहणमिति समासे न भवति प्रगृह्यसंज्ञा ॥ 18 ॥
“*तर्प्त्पमपौ ॥ 22 ॥ अतिशायनिकप्रकरण एव ‘तादी घः’ `पितौ घः’इतिवा वक्तव्ये प्रकरणोत्कर्षेण संज्ञाकरणं -‘स्वार्थेऽपि तरबस्ति’ इति सूचनार्थम्। तेन ‘अल्पाच्तरम्’ इत्यादि सिद्धं भवतीत्याहुः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-138.
“*न्दीतर इति ।” तरतेः ‘ऋदोरप्’ इत्यप् । सर्वत्र चानुबन्धाः स्मर्यमाणाएव कार्यं प्रति हेतुत्वं लभन्त इति घसंज्ञाप्राप्तिः । साहचर्यं चेह व्यवस्थाहेतुः सर्वत्र नाश्रीयते । तथा हि ‘द्विस्त्रिश्चतुरिति कृत्वोर्थे’ इति कृत्वोर्थग्रहणं चतुश्शब्दविशेषणार्थं कृतम् । अन्यथा द्विस्त्रिश्शब्दसाहचर्याच्चतुश्सब्दोऽपि कृत्वोर्थ एव ग्रहिष्यत इति किं कृत्वोर्थग्रहणेन ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-139.
“*अप्रतिषेध इति ।” न प्रतिषेधः-इति प्रतिषेधनक्रिया नञा निषिध्यते । भाष्यकारस्तु वस्त्वर्थं व्याचष्टे-‘अनर्थकः प्रतिषेधः’ इति ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-140.
“*औपदेशिकमिति ।” उपदेशः प्रयोजनमस्य, तत्र वा भवं-औपदेशिकम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-141.
“*यत्रास्येति ।” अनुबन्धयुक्तमित्यर्थः ॥ “*न चैष इति ।” काल्पनिकमस्य तरप्त्वं, न तु साक्षान्निर्दिष्टम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-142.
“*समानाधिकरणेष्विति ।” आतिशायनिकश्चस्वार्थिकत्वात् समानाधिकरणः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-143.
“*यदा तर्हीति । ननु ‘तीर्णिः’ इति भवितव्यम् । एवं तर्हि ‘तीर्यत इति-तरः’ इति सामान्येन पदं संस्क्रियते, पश्चान्नद्या विशेष्यते इति न दोषः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-144.
“*स्त्रीलिङ्गेष्विति ।” स्वार्थिकश्च प्रकृतिलिङ्गानुविधानात् स्त्रीलिङ्गः ॥ “*महिषी रूपमिवेति ।” इव शब्दो भिन्नक्रमः । तेनायमर्थः-महिषीवेयमाकृतिरिति । तत्र ‘सुप्सुपा’ इति समासे कृते ह्रस्वत्वं स्याथ् ॥ 22 ॥
“*बहुगणवतुडति ॥ 23 ॥ संख्यासंप्रत्ययार्थमिति ।” संख्याया एकादिकायाः संख्याप्रदेशेषु संप्रत्ययार्थमित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-146.
“*ननु चेति ।” यथा-पशुःअपत्यं-देवता-इति लौकिकोऽर्थो गृह्यते, तथैकादिकाऽपि संख्या ग्रहीष्यत इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-147.
“*कृत्रिमाकृत्रिमयोरिति ।” न्यायोऽयम् ।
तथाहि-सर्वार्थाभिधानशक्तियुक्तः शब्दो यदा विशिष्टेऽर्थे
व्यवहाराय नियम्यते तदा तत्रैव प्रतीतिं जनयति, नान्यत्र ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-148.
“*नदीपौर्णमासीति ।” ‘यू स्त्र्याख्यौ नदी’ इति संज्ञाविधानात् संज्ञिनो ग्रहणं प्राप्तं न तु स्वरूपस्य, अशब्दसंज्ञा’ इति निषेधात् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-149.
“*पौर्णमासीति ।” नियमार्थं पौर्णमास्याग्रहायणीग्रहणमीकारान्तानां स्यादिति चेत्, एवमपि ‘ऊपौर्णमास्याग्रहायणीभ्यः’ इति वक्तव्यं स्यात् । ऊकारग्रहणेन च नदीसंज्ञकमेवोकारान्तं पौर्णमास्याग्रहायणीशब्दसाहचर्यत् ग्रहीष्यते ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-150.
“*तद्विशेषेभ्य इति ।” गङ्गादिभ्यः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-151.
“*यदयमिति ।” नित्यार्थः पाठः स्यादिति चेत्, व्यवस्थितविभाषया विपाट्शब्दस्य नित्यष्टज् भविष्यतीत्यदोषः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-152.
“*बहुवचनेति ।” अन्यथा ‘आणन्द्याः’ इत्यादौ यथैकवचननिर्देशस्तथेहापि कर्तवयः स्यात् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-153.
“*न चेदमिति ।” अनाश्रितमित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-154.
“*उत्तरार्थं चेति ।” अयं हि सूत्रोपात्तः संख्याशब्दः स्वरूपपदार्थकः । उत्तरत्र संज्ञिनिर्देशेन प्रयोजनम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-155.
“*इहार्थेनेति । इहार्थो यस्य-इति सामान्यविशेषभावान्न पौनरुक्त्यम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-156.
“*आतश्चेति ।” इतश्चेत्यर्थः ॥ “*अर्थः”-सामर्थ्यम् । यथा-गोपालकमानय माणवकमध्यापयिष्यति-इति यष्टिहस्तस्याध्यापनासंभवात्संज्ञिनो ग्रहणम् । “*प्रकरणं”-प्रस्तावः । यथा-भोजनप्रकरन्णे सैन्धवमान्य-इति लवणे प्रतीतिः, गमनप्रकरणे त्वश्वे ॥ “*ग्राम्यमिति ।” ऊहितुमसमर्थम् ॥ “*पांशुरपादमिति ।” अचिरोषितम् । अत एवाप्रकरणज्ञम् ॥ “*उभयगतिरिति ।” किं संज्ङेयं यस्य कस्यचिन्निर्दिष्टा स्यात्, उत यष्टिहस्तोऽस्य विवक्षितः स्यात्-इति संदेहवान् भवतीत्यर्थः ॥ “*साधीयो वेति ।” यो मम प्रसिद्धः सोऽनेन चोदितो न च ममैवंसंज्ञकः प्रसिद्ध इत्येवं मन्यते । लोके गोपालकशब्दः संज्ञिनि नियम्यमानः संज्ञ्यन्तरंनिवर्तयति, क्रियानिमित्तं त्वर्थ न निरस्यति, तुल्यजातीयविषय एव हि नियमो भवति ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-157.
“*एवमिहापीति ।” बह्वादय एवात्र संख्यात्वेन प्रकृउता इति भावः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-158.
“*न यथा लोक इति” । संख्याशब्दो हि बह्वादिप्रतिपादनाय संज्ञात्वेन विनियुक्तः,न त्वेकादिसंख्यानिरासाय।अधिकार्थप्रतिपत्यर्थत्वादिह संज्ञाकरणस्य ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-159.
“*कर्मणि द्वितीयेति ।” ङ्याप्प्रतिपदिकादनभिहिते कर्मणि संख्यायं द्वितीयां विधीयते । न च क्रियायाः संख्या संभवतीति सामर्थ्यात्कारकग्रहणम् । ‘कर्तरि कर्मव्यतिहारे’ इत्यत्र धातोः साक्षात् क्रियायां वृत्त्या क्रियाया एव ग्रहणम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-160.
“*कण्वमेधेभ्यः करण इति ।” तव्यादिप्रत्ययोत्पत्यर्थं धातुसंज्ञा क्रियते, क्रियावाचिनश्च तव्यादयः साधने उत्पद्यन्त इति सामर्थ्यात् क्रियाग्रहणम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-161.
“*विप्रतिषिद्धमिति ।” द्वन्द्वावयवानां शक्त्यनभिधायित्वादधिकरणं द्रव्यं गृह्यते ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-162.
“*तद्वदतिदेशोऽयमिति ।” संख्याकायार्तिदेशोऽयमित्यर्थः । यदि हि संझ्ञा स्यात् टि-घु-भादिसंज्ञावदेकाक्षरा क्रियेत । तस्य्माल्लौकिकार्थाभिधायी । संख्याशब्द उपादीयमानोऽतिदेशार्थत्वमस्य बोधयति ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-163.
“*अथवेति ।” गुरुसंज्ञाकरणादेकादयः संख्याशब्देन प्रदेशेषु न त्यज्यन्त इति लिङ्गेनाप्यनुमीयत इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-164.
“*अर्थवत इति ।” ननूभयसंभवे-इयं परिभाषोपतिष्टते । डत्यन्ता च कृत्रिमाऽस्ति, डतेश्च तिशब्दोऽनर्थक एवेति तस्यैव निषेधः स्यादित्यज्ञापकस्त्यन्तायः प्रतिषेधः । नैष दोषः । “*‘अतिशदन्तायाः’ इत्युच्चारणकाल एवार्तवतस्तिशब्दस्य ग्रहणमिति प्रतीतिरिति ज्ञापकत्वमेव प्रतिषेधस्य ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-165.
“*अथवेति ।” ननु महत्याह् संज्ञायाः करणात्तदर्थानुगतानामुपात्तानामेव संज्ञिनां भवतु संज्ञा । यथा। सर्वादीनामेव संज्ञा, न त्वधिकानाम् । तेन बहुगणशब्दयोः सङ्घऐपुल्यवाच्ल्नोः सज्ञा मा भूत्, एकादीनां तु कथं स्यात् ? नैष दोषः । इहान्वर्थसंज्ञाकरणेन तावदनुरूपः संज्ञी सर्वं आक्षिप्यते । तेनैकादीनांतावत् ग्रहणं भवति, पश्चात् “*बहुगणवतुडइति” इति भूर्यादिनिवृत्त्यर्थं नियमार्थं व्याक्यायते । अत एव सङ्घोवैपुल्यवृत्त्योर्बहुगणशब्दयोः संज्ञा न भवति । तद्वदतिदेशपक्षेऽपि परस्परसाहचर्यात् संख्यावाचिनोरेव भूर्यादिनिवृत्तये नियमायातिदेशः क्रियत इत्यतिप्रसङ्गो न भवति ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-166.
“*संज्ञिविशेषणेनार्थ इति । ‘ष्णान्ता’” इत्यनेन विशिष्टं संज्ञिनं प्रतिपादयितुमुपयोग इत्यर्थः ॥ “*न चान्यार्थमिति” एकशब्दत्वदर्शन इति भावः ॥ भवतु तर्हि प्रतियोगं शब्दभेद इत्याह-”*न खल्वपीति ।” यथा गोधा देशान्तरगमनमात्रेण गोधात्वं न जहाति, एवं शब्दोऽपि रूपान्तरं न गृह्णातीत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-167.
“*अन्यार्थना” । `अन्यार्थनमिति’ । पदार्थामपीति शक्तिवैचित्र्यात् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-168.
“*शब्दस्त्विति ।” स्वरितत्वेन वाक्यान्तरे शब्दान्तरं वाक्यार्थानुग्राहिवस्तुप्रतिपादनयोअयमनुमीयते । सादृश्यात्तु तत्वाध्यवसाय इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-169.
“*सापेक्षोऽयमिति । स्त्रीलिङ्गेन निर्देशः कृतः । तत्र प्रकृतत्वादन्यपदार्थत्वेन संख्या स्वरितत्वेन विनाऽप्यपेक्ष्यत इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-170.
“*अध्यर्धग्रहणं चेति ।” वार्तिके संख्याग्रहणं कर्तव्यत्वेन स्थितम् । तदपेक्षया समुच्चयार्थश्चशब्दः । विध्यर्थं चेदं, अध्यर्धशब्दस्य त्रिभागचतुर्भागादिशब्दवदसंख्यावाचित्वात् । अर्धशब्दस्चैकदेशवाची न संख्यावाची, एकदेशादिशब्दवत् । तस्याधिशब्देन समासे कृते यौगिकोऽर्थः प्रतीयते, न संख्या ॥ “*अध्यर्धशुर्पमिति ।” अध्यर्धेन शूर्पेण क्रीतमिति ‘दिक्संख्ये’ इत्यनुवर्तमाने ‘तद्धितार्थ’ इति समासः । ततः ‘शूर्पादञन्यतरस्याम्’ इति अञष्ठञो वा ‘अध्यर्धपूर्व’ इति लुक् ॥ “*अध्यर्धकमिति ।” ‘संख्याया अतिशदन्तायाः कन्’ इति कन् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-171.
“*द्विगोरित्येव सिद्धमिति ।” ‘समासकन्विध्द्यर्थम्’ इति च संबन्धसामान्येषष्ठी । तेन समासे विधीयमाने समासनिमित्ते चान्यस्मिन् कार्ये विधीयमान इत्यर्थः । तेन द्विगुनिमित्तो लुगापि लभ्यते ॥
अन्ये त्वाहुः-अध्यर्धशब्दः संख्यावाच्येन । तथाहि गण्यते एकोऽध्यर्धः, द्वौ-अध्यर्धौ, अध्यर्धतृतीया इति । तन्मते नियमार्थं अध्यर्धशब्दस्यैव संख्यात्वेन ग्रहणं यथा स्यात्, सार्धादीनां मा भूदिति । वक्यभेदेन च द्वितीयो नियमः । तस्य च समासकन्विध्यर्थं संख्यात्वं, न कार्यान्तरार्थमिति ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-172.
“*अधिकषाष्टिक इति ।” अधिकया षष्ट्या क्रीत इति संख्याविशेषणमधिकसभ्दः, न संक्येति वचनम् । ‘तद्धितार्थ’ इति समासः । ‘प्राग्वतेष्टञ्’ । ‘अलुकि’ इति वचनाल्लुकि कर्तव्ये संख्यासंज्ञा नास्तीति ‘अध्यर्धपूर्व’ इति लुञ्न भवति । ततः ‘संख्यायाः संवत्सरसंख्यस्य च’ इत्युत्तरपदवृद्धिः॥ ननु ‘उत्तरपदव्रुध्धर्थ’ इति वचनाल्लुञ् न भविष्यति, किं ‘अलुकि’ इत्यनेन । नैतदस्ति, अर्हत्यर्थत् परेष्वर्थेषु युः प्रत्ययस्तस्य लुगभावात्तत्रैवोत्तरपदवृउद्धिः स्यात् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-173.
“*ज्ञापकात्सिद्धमिति ।” एकादिवन्नियतसंख्यावाचित्वं बह्वादीनां नास्तीति ज्ञापकाश्रयः ॥ “*योगापेक्षमिति ।” अस्य योगस्य प्रत्याख्यानादेतद्योगापेक्षमिति नबोद्धव्यम्, किंतु योगान् अपेक्षत इति-योगापेक्षम् । यदयं “*बहुपूगगणसञ्घस्यतियुक्” `वदोरियुक्’ ‘षट्कति’” इति डटि परत आगमं शास्ति, तज्ज्ञापयति-भवति
संख्याकार्यमिति ॥ 23 ॥
“*ष्णान्ता- ॥ 25 ॥ षट्संज्ञायामिति ।” प्रकृतिप्रत्यविभागेन प्रतिपादनंगुणैः प्रापणमुपदेशः । तेन प्रकृतिप्रत्ययाद्युपदेशो षकारनकारान्ता या संख्याएसे षट्संज्ञेत्यर्थः ॥ “*नुम्नुडर्थमिति” । अर्थशब्दः प्रयोजनवाची । तत्र नुमि ‘शतानि’ इत्यादौ षट्संज्ञानिवृत्तिः प्रयोजनम्, नुटि तु विधीयमाने षट्संजिञाप्रवृत्तिः प्रयोजनम् ॥
“*अष्टानामिति” । परत्वान्नित्याच्चात्वे कृते नुटोऽप्राप्तिः । कार्यकालत्वात्संज्ञायाः प्रवृत्तेर्नास्त्यन्तरङ्गत्वम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-175.
“*अष्टनो दीर्घेति ।” तत्र हि दीर्घग्रहणं ‘अष्टसु’ इति सुप उदात्तत्वनिवृत्त्यर्थं क्रियते । यदि च कृतात्वस्य षट्संज्ञा न स्यात् तदा ‘अष्टसु’ इति परत्वात् षट्स्वरः ‘झल्युपोत्तमम्’ इति भविष्यतीति किं दीर्घग्रहणेन ? कृतं च तत्कृतात्वस्याऽपि षट्संज्ञा ज्ञापयति । ततश्चापवादत्वात् षट्स्वरोऽनेन बाध्यत इति दीर्घपक्ष इवादीर्घपक्षेऽपि विभक्तेः स्वरः स्यादिति कर्तव्यं दीर्घग्रहणम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-176.
“*एकास्ता इति ।” संख्यावाचित्वाभ्युपगमवादी व्यत्ययेन बहुवचनं मन्यते । अन्यवाचित्वा श्रयं तूत्तरम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-177.
“*इह तर्हीति ।” ‘द्वाभ्याम्’ इति षट्स्वरः स्यात् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-178.
“*सप्तम इति ।” ‘अष्टाभ्यः’ इति कृतात्वानुकरणम् ।
औश्त्वव्धानसामर्थ्य्
आLufna विधीयते ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-179.
“*हलीति । ततश्च ‘अष्ट नाम्’ इति नुटि कृतात्वनिर्देशात् ज्ञापकादात्वं भवति । कृतात्वस्य हि निर्देशस्य प्रयोजनम्-यत्रात्वं तत्रोश्त्वं यथा स्यादिति । यदी ह्येतत्कृतात्वस्वनिर्देशस्य प्रयोजनं न स्याल्लाघवार्थं `अष्टभ्य औश्’ इति ब्रूयात् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-180.
“*यद्येवमिति ।” हलादावुच्यमानमात्वमौजसोर्न प्राप्नोति । यत्राष्टार्थस्य प्राधान्यं तत्रौश्त्वेन भवितव्यम्, तत्रैव चौश्त्वेनात्वमनुमीयत इति जस्यप्यात्वमत्र ज्ञापकान्न प्राप्नोति । विभक्तिमात्रे त्वात्वं विधीयमानमौजसोः सिध्यति । ‘अष्टन आविभक्तौ’ इत्यत्र ‘पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च’ इति तदन्तविधिसद्भावाद्बहुवचननिर्देशाभावत् गुणभुतेऽप्यष्टार्थे आत्वेन भाव्यमिति अत्रापि सिध्यतीति प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-181.
“*यथालक्षणमिति ।” यस्य विशिष्टः प्रयोगो न स्मर्यते नापि प्रयोगनिषेधस्मृतिः, तद्यथालक्षणमनुगन्तव्यम् । तदत्र मा भूदात्वमित्यर्थः । नैव वा लक्षणमप्रयुक्ते प्रवर्तते, प्रयुक्तानामेव लक्षणेनान्वाख्यानात् ॥ 24 ॥
“*डति च ॥ 25 ॥ यदि तावदिति ।” तत्र वतुसाहचर्यात्तद्धित एव डतिर्गृह्यते, न तु पातेर्डतिः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-183.
“*अथेति ।” तत्र संख्यासंज्ञाया अनुवर्तनादन्वर्थत्वाच्च संज्ञायाः संख्याप्रश्नविषय एव डतिर्गृह्यते, न त्वौणादिको डतिः ॥ 25 ॥
“*क्तक्तवतू- ॥ 26 ॥” इहानुबन्धाः कार्यार्थमुपादीयन्ते । प्रयोगस्त्वेषां लुप्तत्वान्नास्ति । यत्र च सारूप्यं तत्र सन्देहः-कथमस्यानुबन्धकार्यं कृतमस्य तु न कृतमिति पूर्वपक्षाभिप्रायः ॥ सिद्धान्तवादी तु मन्यते-अध्रुवेणानुबन्धेन नियतसन्निधाना अर्थाः कारककालादयो लक्ष्यन्ते । तद्दर्शनादनुबन्धस्मृतौ च तल्लक्षितानां कार्याणां साधुत्वं विज्ञायते । तत्र यदा ‘देवदत्तेन लूनः शालिः’ इति कश्चित्प्रयुङ्क्ते, तदा लक्षणज्ञः कर्मभुतकालावगमात् क्तप्रत्ययं मन्यते । यदा तु ‘लोतमालभेत’ इति प्रयोगस्तदा मेषवाची लोतशब्दस्तन्प्रत्ययान्तः प्रयुक्त इति मन्यते ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-185.
“*सिद्धविपर्यास इति ।” सिद्धो विपर्यासः, संसय इत्यर्थः ॥ “*इदं तद्गृहमिति ।” बुद्धेरनवस्थितत्वमनेन प्रतिपाद्यते । न त्वेतद्द्विर्वचनं, वीप्साद्यर्थाभावात् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-186.
“*प्राकीर्ष्टेति।” अत्र भूतकालोऽस्तीति भावः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-187.
“*दृश्यन्तेऽत्रेति । सिजादि इति आदिशब्दः प्रकारे । तत्र ‘प्राभित्त घटं देवदत्तः’ इति प्रयोगे कर्त्त्रेकत्वाद्यवगमाल्लुङन्तस्यायं प्रयोगः, न निष्टान्तस्येति प्रतिपद्यन्ते । ‘अञ्जिघृइभ्यः क्त्यः’ इत्यस्य निष्टासंज्ञा न भवति, उणादीनामव्युत्पन्नत्वाद्बाहुलकाद्वा । अन्यथा ‘निष्टा च द्व्यजनात्’ इत्याद्युदात्तत्वं स्यात् ॥ 26 ॥
इत्युपाध्याय”*जैयट"पत्र”*कैयट"कृते महाभाष्य”*प्रदीपे”
प्रथमस्याध्यायस्य प्रथमे पादे “*पञ्चम"माह्निकम् ॥
“*सर्वादीनि सर्व ॥ 27 ॥ कोऽयमिति ।” ननु नपुंसकबहुवचननिर्देशादेव बहुव्रीहिनिश्चयात्समासान्तराशङ्का नैवास्तीति प्रश्नानुपपत्तिः । एवं तर्हि किमयं बहुव्रीहिरेव-आहोस्विद्बहुव्रीहितत्पुरुषयोरेकशेषः । यथा-‘कतन्तेभ्यः कण्वादिभ्यश्च’ इति प्रश्नः । तत्र सारूप्यार्थं
सर्वश्चासावादिः सर्वादिरित्यत्रादिशब्द उपादीयते, न त्वस्य प्रयोजनान्तरमस्ति । तत्र ‘नपुंसकमनपुंसकेन-इति वा `स्वरभिन्नानं यस्योत्तरस्वरविधिः स शिष्यते’ इति वा बहुव्रीहेः शेषः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-2.
वक्ष्यमाणेन न्यायेन विनाऽप्येकशेषेण सर्वशब्दस्य संज्ञा सिध्यतीति मत्वाऽऽह-”*बहुव्रीहिरिति ॥"
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-3.
एवमपि संदेहः । किं प्राथमकल्पिको बहुव्रीहिः, अथ बहुव्रीहितत्पुरुषयोरेकशेषे बहुव्रीहिरिति पृच्छति-"*कोऽस्येति ॥"
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-4.
“*तानीमानीति । अन्यपदार्थस्य प्राधान्यं प्रदर्श्यते । अन्यथा यथा-चित्रा गावोऽस्येति गवां विशेष्यत्वं तद्वतश्च विशेषणत्रमवगम्यते, तथेहाप्यवगम्येत । अत्र चार्थे बहुव्रीहिर्नेष्यते । यधा तु स्वामिनः प्रादाय्यं गवाम् विशेषणभावस्तदा बहुव्रीहिः । अत एव चित्रा गावो यस्य स चित्रगुरिति स्वामिनः प्राधान्यं पदर्श्यते । ‘तनीमानि’ इति सर्वनामद्वयोपादानेन प्रत्यक्षविषयत्वादिदंशब्दस्य गणपठितेषु सर्वशब्दस्यान्तर्भावात्तद्गुणसंविज्ञानं सूचयति । तस्यान्यपदार्थस्य गुणा उपलक्षणानि तेषामपि कार्ये संविज्ञानं तद्गुणसंविज्ञानम् । तत्र चित्रगुरानीयतामिति स्वस्वामिभावसंबन्दः षष्ट्यर्थ इति स्वविशेषोपलक्षितस्य स्वामिन एवानयनं, न तु गवाम् । ‘दण्डी विषाणी चानीयताम्’ इत्यत्र संयोगसमवायलक्षणेन संबन्धेन संबन्धिनि कार्ये विज्ञायमान उपलक्षणस्याप्यन्तर्भावो भवति। इहाप्यादिशब्दस्यावयववाचित्वादुध्भूतावयवभेदः समुदायः समासार्थः । तस्य च समुदायस्य युगपल्लक्ष्ये प्रयोगाभावात्तदन्तर्भूतानामेव पृथक् प्रयोगसत्वात्कार्यार्थया संज्ञया प्रवर्तितव्यमिति सर्वशब्दस्यापि सा सिध्यति । ‘यथा-‘देवदत्तशालायां ब्रह्मणा आनीयन्ताम्’ इत्युक्ते देवदत्तोऽपि यदि ब्राह्मणो भवति स्वशालस्थाश्च तदा सोऽप्यानीयत एव ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-5.
“*णत्वं प्राप्नोतीति ।” राजपुरुषादिवत्संज्ञाशब्दा अपि शास्त्रप्रक्रियायां सन्तमसन्तं वाऽवयवार्थमाश्रित्य व्युत्पाद्यन्त इति णत्वप्रस्ङ्गः । प्रयोगे च सणत्वा अणत्वाश्च नित्या एव शब्दाः । तत्र संज्ञायं सणत्वा एव साधावः, असंज्ञायां त्वणत्वा एवेति शास्त्रव्यापाराण्णत्वं प्राप्नोत्येव । सर्वार्थाभिधानयोग्यस्य शब्दस्य शक्तिनियमनमात्रं संज्ञाकरणमिति शब्दार्थसंबन्धनित्यत्वस्यापि न विरोधः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-6.
“निपातनादिति ।” लोकेऽप्ययं णत्वरहिति एव प्रयुज्यते, तस्यात्र प्रस्ङ्गेन साधुत्वं प्रतिपाद्यते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-7.
“*किमेतदिति ।” भवतु अस्य साधुत्वं, णत्वप्रतिषेधे त्वस्य तात्पर्याभावाद्विकल्पः प्राप्नोतीति भावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-8.
“*इतरः” । प्रतिषेधेन साम्यं प्रतिपादयितुं पर्यनुयुङ्क्ते-”*अथ क इति" ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-9.
सर्वत्रैवाप्राप्त्यनुमानं बाधः । निपातनं चापि णत्वाप्राप्त्यनुमानमिति भावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-10.
“*ननु चेति ।” प्रतिषेधस्य हि निवृत्तावेव तात्पर्यम्, निपातनस्य तु तद्रूपसाधुत्वप्रतिपादने, न तु रूपान्तरनिवृत्ताविति भावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-11.
“इको यणचीति ।” यणो हि साधुत्वं प्रतिपाद्यते न त्विङ्निवृत्तिरित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-12.
“*षष्ट्याऽत्रेति ।” ततश्च संहिताविषये स्वाभाविकोऽप्रयोग इकः षष्ठीनिर्देशेन प्रतिपाद्यते । यथा-‘दर्भाणां स्थाने शरैः प्रस्तरितव्यम्’ इति, न तत्र दर्भाः प्रस्तीर्यन्ते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-13.
“*इह तरीह्ति ।” विकल्पः प्राप्नोतीति भावः । समुच्चयस्तु न भवति, एकेन परदेशस्यावष्टब्धत्वाद्दातुसार्वधातुकयोश्चार्थाभिधाने एकेनैव साहायकस्य संपादनात् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-14.
“शबादेशा इति । श्यनश्च शित्करणं ज्ञापकम्-स्थानिवद्भावाभावस्य । तेन ‘करोति’ इत्युप्रत्ययस्यापित्वादनुदात्तत्वं न भवति । ‘कुर्वती’ इत्यत्र ‘शप्श्यनोर्नित्यम्’ इति नुमागमो न भवति, ‘आत्’ इत्यधिकाराद्वा । ‘रुधादिभ्यः श्नम्’ इत्यत्र रुधादीनां श्रुतत्वात्तेषामेवान्त्यादचः परः श्नम् भवति, न तु शपः । यथा च -‘भ्रस्जो रोपधयो रमन्यतरस्याम्’ इति रमागमो रोपधयोर्निवर्तकः एवं शपः श्नम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-15.
“*इह तर्हीति ।” देशभेदाद्विरोधाभावेऽपि काकचोरेकार्थत्त्वाद्विकल्प एव चोधते, न समुच्चयः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-16.
“कर्तव्योऽत्र यत्न इति ।” `लुम्पेदवश्यमः’ इत्ययं स्लोकोऽन्यार्थमवश्यं पठितव्यः । तेनैव ‘सततं’ ‘सन्ततम्’ इति च सिध्यति, न तु निपातनेनेत्यर्थः । सांतस्तम्’ इति चानभिधानात् व्यञन्तस्य प्रयोगाभवः । पुराणशब्देन पुरातनशब्दस्य बादः प्राप्तः पृषोदरादित्वान्न भवति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-17.
“*संज्ञोपसर्जनीभुतानामिति ।” ये विषयान्तरेदृष्टास्त एवेमामवस्थां प्राप्ता इति विवक्षाय च्विप्रत्ययनिर्देशः ॥ “*सर्वाय देहीति ।” पदकार्येषु गौणमुख्यन्यायो न प्रातिपदिककार्येष्विति ‘शब्दाश्रये च वृद्ध्यात्वे’ इत्यत्रोक्तिमिति प्रसिद्ध्यप्रसिद्धिवशात्संभवन्नपीह स नोक्तः । `समासकृत्तद्धिताव्ययसर्वनामासर्वलिङ्गा जातिरेकद्रव्योपनिवेशिनी संज्ञा’ इत्येतदनपेक्ष्य संज्ञाप्रतिषेधः । तत्र ह्यपेक्षिते परया पूर्व संज्ञा बाध्यत इति संज्ञासंज्ञया सर्वनामसंज्ञाबाधनात्प्रसङ्गाभावः ॥ “*अतिसर्वायेति” । प्रादिसमासोऽयं, बहुव्रीहौ संज्ञाप्रतिषेधात् । `प्रयोजनं सर्वनामाव्ययसंज्ञायाम्’ इति तदन्तविद्यिः ‘परमसर्वस्मै’ इत्याधर्थ आश्रितः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-18.
“*पाठादिति ।” यथा-”*तिङोगोत्रादीनि’ इत्यत्र “*कुत्सनाभीक्ष्ण्य"ग्रहणं गोत्रादि पाठविशेषणम्, तथेहापि सर्वादिसन्निवेशो विशेष्यते-असंज्ञोपसर्जनानि सर्वादीनि गणसन्निविष्टानिनान्यानीत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-19.
“*किमविशेषेणेति ।” किं यत् सर्वेषां सर्वादीनां सर्वनामकार्यं तदर्थमेव-इति प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-20.
“*विशेषेण चेति । च शब्दादविशेषेण चेत्यर्थः । यत् गणपाठोपलक्षितं विशिष्टं कार्यं ‘त्यदादीनामः’ ‘अद्ड्डतरादिभ्यः’ इत्यादि, तदर्थमपि पाठविशेषणमित्यर्थः । यक्त्तु कार्यं `युष्मदस्मद्भ्यां ङ्सोऽश इत्यादि स्वरूपमात्राश्रयं न सन्निवेशापेक्षं, तदविशेषेण भवति । तत्र हि न गणपठितयोर्युष्मदस्मदोर्निर्देशः, अपि त्वौणादिकयोः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-21.
“अनुपसर्जनादिति ।” ननु प्रधानेन तदन्तविध्यर्थो योगः प्रारब्धव्यः, ‘कौम्भकारेयः’ इति यथा स्यादिति ॥ न च ‘अण्’ इति कृद्ग्रहणम्, तद्धितोऽप्यणस्तीति ॥ नैतदस्ति, ‘स्त्रीप्रत्यये चानुपसर्जनेन’ इति तदादिनियमाभावात् कारशब्दादपि ङीपि कुम्भकारीशब्दात् ‘स्त्रीभ्यो ढक्’ इति ढग्भविष्यति ॥ “*अनुपसर्जन अ अदिति ।” ‘सुपां सुलुक्’ इति षष्ट्या लुक् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-22.
“*अ-अ-अदिति अकारेणाकारात्कारो विशेष्येते । अकारात्परौ यावकारात्कारौ तावनुपसर्जनस्येत्यर्थः ।
`पञ्चम्या अत्’ इत्ययं तु युष्मदस्मद्भ्यामनकारान्ताभ्यां विधीयत इति परिभाषाऽनुपस्थानादुपसर्जनाभ्यामपि भवति । ‘त्यदादीनामः’ इत्ययमकारात्परस्य हलः स्थाने विधीयत इति अकारात्परोऽकारो भवतीति परिभाषोपस्थानात् ‘अतितत्’ इत्यत्र न भवति । एवं तु प्रियौ द्वावस्येति बहुव्रीहौ कृतेऽकारादविधानात्परिभाषाऽनुपस्तानादत्वं प्राप्नोति ‘तदोः सः सा-’ इति सत्वमविशेषितमित्युपसर्जनस्यापि प्राप्नोति ॥ तत्रायं समाधिः-‘त्यादादीनामः’ इत्यत्र त्यदादिषु परिभाषोपस्थानादनुपसर्जनानां तेषां ग्रहणम्, तत्साहचर्यात्, द्विशब्दोऽपि तथाविध एव गृह्यते । सत्वविधौ च तथाविधानामेवानुवृत्तिरित्यत्रापि न दोषः ॥ ‘अतिसर्वाय’ इत्यादौ त्वविशेषकार्यमपरिहृअतमेव ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-23.
“*गृह्यमाणविभक्तेरिति ।” गृह्यमाणानां त्यदादीनां डेतरादीनां च स्वार्थद्वारेण संबन्धिनी या विभक्तिस्तदर्थगतसंख्याकर्मादिवाचिनी तस्यां-इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-24.
“*यद्येवमिति ।” गृह्यमणाद्या विहिता विभक्तिरित्येवं संबन्धं मन्वानस्य प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-25.
आर्थः संबन्धोऽत्र गृहीतः-इत्युत्तरेऽभिप्रायः ॥ यद्येवं पञ्चकाः शकुनय इति कनः स्वार्थिकत्वाज्जसो लुक् प्राप्नोति । उच्यते, कनि कृते शब्दान्तरत्वान्नान्तत्वाभावान्नान्तत्वाभावान्नायं षट्संज्ञक इत्यदोषः ॥ ‘युष्मदस्मद्भ्यां ङसोऽश्’ इत्यत्र त्वङ्गेन विभक्तिर्विशेष्यत इत्युपसर्जनाभ्यामपि सिध्यति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-26.
“*प्रियसक्थ्नेति ।” सक्थिशब्दः शकटावयववचनोऽत्रेति ‘बहुव्रीहौ सक्थ्यक्ष्णोः-’ इति समासान्तो न कृतः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-27.
“*प्रकृतविभक्ताविति ।” अङ्गार्थस्Mबन्धिन्यां विभक्तावित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-28.
“*तच्चापीति ।” ‘गृह्यमाणविभक्तेः’ इति सप्तमीनिर्दिष्टे यदुच्यते’ इति च ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-29.
“*इतरादिभ्यो यो विहित इति ।” अर्थद्वारकं विधानमाश्रयितव्यम् । तेन परमकतरत्-इत्यत्रापि भवति । ‘युष्मदस्मद्भ्यां ङ्सोऽश्’ इत्यत्र तु प्रकरणेऽङ्गेन विभक्तिर्विशेष्यतेऽर्थद्वारेण, युष्मदसमद्भ्यां तु
परत्वमात्रेणेति-अतियुष्मदित्यादावपि कार्यं भवति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-30.
“*अतिस इति ।” शोभनः सः इति प्रादिसमासः । नञ्समासोऽपि असः-अषट्-अकतरत्-इति भवति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-31.
“*सर्वेषं यानीति ।” स्वविषयापेक्षया सर्वनामत्वं बोद्धव्यम् । यथा-गोत्वादेः स्वविषयापेक्षं सर्वगतत्वम्, न तु एतानि सर्वादीनि पर्यस्परं पर्ययतां यान्ति, भिन्नार्थत्वात् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-32.
“*एतेषां चापीति ।” ततश्च ‘सर्वस्मिन्नोदने’ इत्योदनशब्दस्यापि सर्वनामकार्यं प्राप्नोति, सामानाधिकरण्यादनयोः । ननु प्रतिनियतवस्तुभागाभिनिवेशित्वाच्छब्दानां सर्वत्वमोदनशब्देन नाभिहितम्, ओदनत्वमपि सर्वशब्देनेति कुतोऽयं प्रस्ङ्गः ॥ तत्रेदं दर्शनम्-सर्वशब्द ओदनार्थावग्रहेण प्रवृत्तः, ओदनशब्दोऽपि सर्वशब्दार्थावग्रहेण । प्रतिपत्ता तु केवलात्सर्वशब्दाद्विशेषं न प्रतिपद्यते, रूपसादृश्यात्; नाप्योदनशब्दात्-इति तत्प्रतिपत्त्यर्थमुभयोरुपादानम् । तत्रैकस्य सर्वनामकार्य भवति नापरस्य-इति प्रमाणाभावादतिप्रसङ्ग उद्भावितः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-33.
“*एकशेषनिर्देश इति ।” ननु सहविवक्षाया अभावात् कथमेकशेषः । एकशेषफलत्वात्तन्त्रन्यायः-आवृत्तिर्वेकशेषशब्देनोच्यते । अथवा-आकृत्यभिधानपक्षे एकस्यैव प्रयोगे सिद्धे प्रत्याख्यातमेकशेषशास्त्रं संज्ञापरिभाषावच्छास्त्रप्रक्रियासंपादनार्थं भवतीति सहविवक्षामन्तरेणापि भवत्येकशेषः ॥ “*संज्ञोपसर्जने चेति ।” यदा सर्वशब्दः संज्ञात्वेन विनियुज्यते, तदाप्रसिद्धप्रवृत्तिनिमित्तपरित्यागेन स्वरूपमात्रौपकारी प्रवर्तते इति विशेष एवावतिष्टते । उपसर्जनमपि जहत्स्वार्थमजहद्वाऽतिक्रान्तार्थविशेषणतामापन्नमतिक्रान्तार्थवृत्ति भवति ‘अतिसर्वाय’ इत्यत्र ॥ वाक्ये त्वसंसृष्ठार्थत्वात् स्वार्थमात्रं प्रतिपादयतो न विशेषेऽवस्थानम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-34.
“*यतो न लघीय इति ।” शब्दव्यवहारो लघुः, ततोऽपि लघीयो नाम । तत्र गुरुसंज्ञाकरणात्सर्वादीनां विशिष्टो धर्मोऽनुमीयते-नूनमेतानि संज्ञाप्रवृत्तिनिमित्तेन सर्वनामत्वेन युक्तानि । यतस्तदनुरूपा तेषां संज्ञा कृतेति सर्वनामकार्यमन्तर्गणकार्यं च सर्वनामत्वयुक्तानामेव भवति, न संज्ञोपसर्जनानाम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-35.
“*अन्याभाव इति ।” टाब्विषयत्वमपि न द्विवचनादन्यत्र बोद्धव्यं ।
तत्र ‘उभादुदात्तो नित्यम्’ इत्यत्र नित्यग्रहणस्येदं प्रयोजनम्-वृत्तिविषये उभशब्दस्य प्रयोगो मा भूत्, उभयशब्दस्यैव यथा स्यादिति-उभयपुत्र
इत्यादि भवति ॥ `द्विदण्ड्यादिभ्यश्चे’त्यत्र निपातनात् ‘उभाबाहु’ इत्यादयः साधवः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-36.
“*कश्चेदानीमिति ।” रूपे स्वरे च नास्ति विशेषः । अवग्रहे च नास्त्यादरः, न हि लक्षणेन पदकारा अनुवर्त्याः । उभकाभ्यां हेतुभ्यां उभकयोर्हेत्वोरिति षष्ठीतृतीये सिद्धे, निमित्तकारणहेतुषु सर्वासां प्रायदर्शनमिति वचनात् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-37.
“*उभशब्दोऽयमिति ।” द्विवचनेऽनन्तरे श्रूयमाणे उभशब्देन साधुना भाव्यं न लुप्ते, न व्यवहिते ॥ “*के पुनः सतीति ।” पूर्वस्य द्विवचनस्य लुप्तत्वादपरस्य केन व्यवधानात् । तत्र-कविषये व्यवहितद्विवचनविषय उभशब्दः साधुर्भवतीति वक्तव्यम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-38.
“*यथैव तर्हीति ।” ननु ‘द्विवचनटाब्विषयत्वात्’ इत्यत्र टाप उपात्तत्वाच्चोद्यानुपपत्तिः । एवं तर्हि टाब्विषयत्वमेकवचनबहुवचनयोर्मा भूदित्येवमर्थमाप्यपि द्विवचनपरता वक्तव्येत्युक्तम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-39.
“*अवचनादिति ।” स्वार्थिकत्वादाप उभार्थस्याहानादापि सिद्धा द्विवचनपरतेत्यर्थः ।
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-40.
“*केऽपि तुल्यमिति ।” ‘द्विवचनविषयत्वात्’ इत्यत्र द्विवचनशब्देन प्रत्ययो न गृह्यते । किं तर्हि ? ह्यर्थाभिधानसमर्थ इत्यर्थः ॥ ‘उभयतः’ ‘उभयत्र’ इति त्रतसोरव्ययत्वात् द्वित्वाभिधानसामर्थ्यं नास्तीत्यभेदविषय उभयशब्द एव प्रयुज्यते, न तूभशब्दः ॥ एवं प्रत्याख्यातोऽकजर्थ उभशब्दस्य पाठः ॥ ‘सर्वनाम्रस्तृतीया च’ इति षष्ठीतृतीयार्थः पाठ इति केचित् । ‘निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम्’ इति वचनात्तदर्थोऽपि पाठो न कर्तव्य इत्यन्ये॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-41.
“*अथ भवत इति ।” अनकारान्तत्वात् स्मायाद्यभावात् प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-42.
“*शेष इति ।” पाठे सति त्यदादित्वाच्छेषो भवति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-43.
“*तृतीयादयोऽपीति ।” ‘निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम्’ इत्यनपेक्षयैतदुक्तम् ॥ इदं तु प्रयोजनम्-भावतायनिः, भवद्यञ्, भवन्मयः । पूर्वनिपातश्च-भवन्मित्त्रः । ‘भवतष्टक्छसौ’ इति वृद्धत्वात् ठक्छसौ, गुणवचनसंज्ञाबादनं च, भवतो भावः-भवत्यमिति मा भूत् ॥ 27 ॥
“*विभाषा दिक्समासे ॥ 28 ॥ दिक्ग्रहणमिति । एकस्मिन्विषये विकल्पप्रतिषेधयोरसंभवात्सामर्थ्याद्विषयभेद आश्रयितव्य इति प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-45.
वचनमन्तरेणाभिमतो विषयभेदो न लभ्यत इत्युत्तरम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-46.
“*समास एवेति ।” मुख्य इत्यर्थः । अन्यस्तुतत्कार्यलाभात् तद्व्यपदेशं लभत इत्यमुख्यः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-47.
“*दक्षिणोत्तरपूर्वाणामिति ।” ‘द्वन्द्वे च’ इत्यनेन सर्वाद्यन्तस्य द्वन्द्वस्य सर्वनामसंज्ञाप्रतिषेधः, नावयवानाम्-इति ‘सर्वनाम्नो वृत्तिमात्रे’ इति पुंवद्भावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-48.
“*येन नाप्राप्त इति ।” अयमत्रार्थः-‘न बहुव्रीहौ’ इत्यनेन सर्वः स्वविषयो व्याप्तः । ‘द्वन्द्वेच’ इत्यनेन तु न व्याप्तः, ‘विभाषा जसि’ इति जसि विकल्पविधानात् ॥ यदि चानेन द्वन्द्वे विभाषा स्यात् जस्यनुवाददोषः प्रसज्येत । बहुव्रीहौ त्वनुवाददोषमलभमाना कृतार्था सती परत्वादियं विभाषा ‘द्वन्दे च’ इत्यनेन बाध्यते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-49.
“*लख्षणप्रतिपदोक्तयोरिति ।” दिक्समास इति व्यपदेशः ‘दिङ्नामानि’ इति विहितस्य न्याय्यः, तत्र हि दिक्शब्दोऽस्ति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-50.
“*वस्त्रान्तरेति ।” उपसर्जनप्रतिषेधो वार्तिककारस्य न सूत्रकारस्य, ‘नब्हुव्रीहौ’ इत्यारम्भात् । तन्मतेनेदं प्रयोजनमुक्तम् ॥ 28 ॥
“*न बहुव्रीहौ ॥ 29 ॥ प्रियविश्वायेति ।” प्रियशब्दस्य विश्वविशेषणत्वात्पूर्वनिपातं मन्यते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-52.
“*ह्यन्यायेति ।” संख्यायाः संख्येयपरतन्त्रत्वाद्विशेषणत्वम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-53.
“*सर्वनाम्न एवेति । नियमः कथमिति चेत्, उच्यते-विशेषणत्वात्संख्यायाः पूर्वनिपाते प्राप्ते, एवमर्थमुपसंख्यानं स्यात्-सर्वनामसंख्ययोः संनिपाते सर्वनाम्न एव पूर्वनिपातः स्यादिति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-54.
“*वक्ष्यत्येतदिति । नैष वाक्यार्थे यस्त्वयाकल्पित इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-55.
“*व्यञ्जनान्तेष्विति ।” उपलक्षणमेतत् । ‘द्विकपुत्रः’ ‘द्वकिपुत्रः’ इत्यत्रापि विशेषदर्शनात् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-56.
“*कथं पुनरिति ।” अन्तरङ्गत्वात्संज्ञानिमित्ते नाकचा तावद्भाव्यं, पश्चात्पदान्तरसंनिधाने वर्तिपदार्थविशेषणान्यपदार्थविवक्षायां बहिरङ्गेण बहुव्रीहिणेत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-57.
“*अन्तरङ्गानपीति ।” प्रत्ययोत्तरपदयोश्च’ इति सामान्येन ज्ञापकम्-बहिरङ्गेऽपि समासाश्रयो विधिरन्तरङ्गं बाधते’ इत्यस्यार्थस्येति भावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-58.
“*क्रियते तत्रेति । लुग्विषयमेव तत्ज्ञापकमित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-59.
“*अस्त्यन्यदिति ।” अत्र हि विधिप्रतिषेधौ समानकालौ, कार्यकालत्वात्संज्ञाया इति मन्यते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-60.
“*अयं खल्वपीति । सूत्रोपारूढ एवायमर्थ इति प्रतिपादयति । अप्रयोगसमवायि यत् प्रक्रियावाक्यं तत्रायं प्रतिषेधः । न लौकिके वाक्ये प्रयोगार्हे, तस्य पृथगेव प्रयोगात्तादर्थ्याभावात् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-61.
“*गोनर्दीयस्त्वाहेति ।” सूत्रप्रत्याख्यानमेतत् । यथोत्तरं हि मुनित्रयस्य प्रामाण्यम् ॥ स्वरः -‘स्वाङ्गशिटामदन्तानाम्’ इत्याद्यउदात्तत्वम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-62.
“*आढ्यपूर्वयेति ।” अबहुव्रीह्यर्थ वचनम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-63.
“*न चाक्रेति” । प्राधान्येनेति भावः । अत्र हि पूर्वत्वमाढ्यत्वस्य विशेषणम् । यथा -‘अतिपूर्वाय’ इति पूर्वार्थोऽतिक्रान्तस्यइत्युपसर्जनत्वात्पूर्वार्थस्य न भवति संज्ञा । मयूरव्यंसकादित्वाच्चात्र समासः ॥ 29 ॥
“*तृतीयासमासे ॥ 30 ॥ " अत्र तादर्थ्यात्ताच्छब्द्यलाभे सति प्रयोगार्हस्य लौकिकस्य वाक्यस्य ग्रहणे सति ‘मासेन पूर्वाय’ इति प्रयोगः शाधुः । वाक्यभेदेन च मुख्ये समासे निषेधः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-65.
“*अथवेति ।” पर्युदासाश्रयणात्समाससदृशस्य वाक्यस्य ग्रहणम् । `पूर्वसदृशे’ति च प्रतिपदोक्तस्तृतीयासमासो गृअह्यते ॥ 30 ॥
“*विभाषा जा- ॥ 32 ॥ जसःकार्यं प्रतीति ।” जसः -जसीति निर्देशादिकारेण ईकारस्य ग्रहणादित्याहुः । अन्ये तु कार्यकालत्वात्संज्ञाया जसः शीत्यत्रैवोपस्थानं मन्यन्ते ॥ 32 ॥
“*पूर्वपरा- ॥ 34 ॥ अवरादीनं चेति ।” किमर्थं प्रतिपदं पूर्वेदीनि जसि विभाषाष्थं पठितानि, यावता गण एवार्थविशेषेण विशिष्टानि नित्यं सर्वनामसज्ञार्तं पठ्यन्ते । तत्र `पूर्वादीनि नवे’त्येवं सूत्रं पठितव्यम् ।
प्राप्तविभाषाचेयं भविष्यति । तेषामेवात्र प्रत्यभिज्ञानात् । गण एवर्थनिर्देशः पाठविशेषणंभविष्यति । यथा `तिङो गोत्रादीनी’त्यत्र कुत्सनाभीक्षण्यग्रहणं गोत्रादिपाठविशेषणमिति वार्तिककाराभिप्रायः ॥
“*अवरादीना"मित्यत्र प्रकारार्थ आदिशब्दः, तेन पूर्वपरशब्दावपि गृह्यते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-68.
“*कथं पुनरिति ।” पूर्वं गणपाठो नियतसंनिवेशो व्यवस्थितः प्रश्चात्तु सूत्रपाठ इत्यत्र प्रमाणाभावात् । आदिशब्दः प्रकारवाची दृष्टः, व्यवस्थावाची च । तत्र `सर्वदीनी-‘त्यत्रादिशब्दस्य प्रकारार्थताऽपि संभवति । प्रकारार्थप्रदर्शनाय पश्चादभियुक्ता गणान् पठन्ति । यदुक्तम्-`श्रेण्यादयः पठ्यन्ते कृतादिराकृतिगण’ इति ॥ कृतादयश्च वृत्तिकारैर्निदर्शनार्थं पठिताः । तत्र वेदे `मध्यमस्यामवमस्या’ मिति प्रयोगदर्शनात्प्रकारार्थता आदिशब्दस्य `सर्वदीनी’त्यत्र संभाव्यत इति प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-69.
“*तानि हि पूर्वादीनीति ।” पूर्वकालपठितत्वात्पूर्वशब्देन सर्वशब्दोऽभिधीयते । तेनायमर्थः-`सर्वदीनी-‘त्यत्र व्यवस्थावाच्यादिशब्दः । प्रकारवाचित्वे हिकृत्स्नादीनामपि संज्ञा स्यात् । मध्यमस्यामवमस्यामिति तु व्यत्ययेन छान्दसः प्रयोगः ॥ “इमान्यवरादीनीति ।” अवरकालपाठात्पूर्वशब्दोऽवरशब्देनोच्यते । तेन पूर्वं गणपाठः, पश्चात्सूत्रपाठ इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-70.
हेत्वभिधानमन्तरेणाशक्योऽयमर्थः प्रतिपत्तुमित्याह-”*इमान्यपीति ॥”
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-71.
“*नवग्रहणमिति ।” तत्र हि नवग्रहणं त्यदादिनिरासार्थं क्रियते । यदि च नियतसंनिवेशो गणपाठः पूर्वस्ततोऽधिकव्यवच्छेदाय नवग्रहणं कर्तव्यम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-72.
“*इदं तर्हीति ।” प्रतिनियतविशेषणाभिधानाय प्रतिपदपाठ इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-73.
“*एवंविशिष्टान्येवेति ।” पाठविशेषणाय गणेऽर्थनिर्देश इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-74.
“*द्वयादिपर्युदासेनेति ।” त्यदादीनि पठित्वा गणे कैश्चित् पूर्वदीनि पठितानि, तत्राद्व्यादिभ्य इति तसिलादीनां प्रतिषेधः प्राप्नोति । तत्र पुनः सर्वनामसंज्ञया तसिलादिर्विधीयते । तेन द्व्यादिपर्युदासो बाध्यते ।
यथा ‘अनुर्लक्षणे’ इतिपुनर्विधानेन हेतुतृतीया बाध्यते । वाक्यभेदेन च विभाषा जसि विधीयते । यथा ‘अमि पूर्वः’ ‘संप्रसारणाच्च’ इत्यत्र वाक्यभेदेन ‘वा छन्दसि’ इति संबन्धाच्छन्दसि विकल्पः क्रियते इति भावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-75.
“*इदं तर्हीति “। यदि पूर्वादीनि नवेत्युच्येत तदा गणपाठेऽर्थनिर्देशस्य नित्यसंज्ञाविधान एवोपयुक्तत्वात् पाठविशेषणे प्रमाणाभावादप्राप्तिविभाषेयमर्थान्तेरे पूर्वादीनां जसि विज्ञायेत, प्राप्तविभाषायामुक्तानुवाददोषप्रसङ्गादप्राप्तविभाषायामपूर्वविधानात् ॥ “*विभाषामिति” । प्राप्तविभाषामित्यर्थः । प्रतिपदपाठं चान्तरेणासंकरेणार्थनिर्देशोऽशक्यः कर्तुमिति भाष्यकारेण प्रतिपदपाठः समर्थितः ॥ 34 ॥
“*स्वमज्ञा- ॥ 35॥ आत्मात्मीयज्ञातिधनवचनः स्वशब्दः । आमिनिज्विषयस्त्वैश्वर्यवाची ॥ “*आख्याग्रहणमिति ।” स्वे पुत्राः स्वे गाव इत्यत्र स्वशब्द आत्मीयत्वमेवाह । पुत्रादिशब्दास्तु ज्ञातिधनयोर्वर्तन्ते, न स्वशब्द इति प्रतिषेधो न भविष्यतीति प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-77.
“*तस्य यथा स्यादिति ।” प्रतिषेध इति शेषः ॥ “इह मा भूदिति” । असत्याख्याग्रहणे स्वे पुत्रा इत्यादौ स्यादेव प्रतिषेधः । अत्राप्यात्मीयत्वं प्रवृत्तिनिमित्तमुपादाय स्वशब्दो ज्ञातिधनयोर्वर्तते, पुत्रादिभिः सामानाधिकरण्यात् । आख्याग्रहणे तु सति न दोषः । स्वशब्दो ह्यत्रात्मीयस्याख्या, न तु ज्ञातिधनयोरिति विधिः सिद्धः ॥ 35 ॥
“*अन्तरम्- ॥ 36 ॥ बहिरित्यनावृतो देश उच्यते, तेन योगो बहिर्योगः । स च बाह्यस्य भवतीति अन्तरे गृहा इति नगरबाह्याश्चण्डालादिगृहा उच्यन्ते । यदातु बहिश्शब्देन बाह्य उच्यते, बाह्येन योगो बहिर्योग इति, तदा नगराभ्यन्तरे येगृहास्त उच्यन्ते । उभयथाऽपि स्मर्यते । उपसंय्यानशब्दोऽपि कर्मकरणार्थभेदाद्भिन्नार्थः । ततः सर्वथा बहिर्योगात् सिद्धिं मत्वाऽऽह-”*उपसंव्वानेति " ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-79.
“*न वेति ।” समानप्रमाणे शाटकयुगे अपरिहिते इदं न ज्ञायते-किमुत्तरीयं किमन्तरीयमिति, तदर्थमेतदित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-80.
“*अत्रापीति” । यथोपसंव्यानत्वं भाविबुध्द्या व्यवस्थाप्यते तथा बहिर्योगोऽपीत्यर्थः ॥ “*अन्ये त्वाहुः”- आदिशब्दो वार्तिके “*शाटकयुगाधर्थ"मित्यत्रोपात्तः । तत्र शाटकानां त्रये चतुष्टये वा तृतीयचतुर्थयोर्बहिर्योगाभावादुपसंव्यानग्रहणम् कर्तव्यम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-81.
“*अपुरीति”। गणसूत्र एतत् कर्तव्यम्, `लिङ्गविशिष्ट-‘परिभाषया ग्रहणप्रसङ्गात् । इह त्वनेन नार्थः, अत इति जसः शीविधानादाबन्तात्प्राप्त्यभावात् । पूः कस्मिंश्चिच्द्देशे प्राकाराभ्यन्तरे क्रियते क्वचित्प्राकाराद्बहिरित्यस्ति पुरो बहिर्योगः ॥ 36 ॥
“*स्वरादिनिपातम ॥ 37 ॥ किमर्थमिति ।” स्वरादिषु किंचित्क्रियाप्रधानं किंचित्साधनप्रधानमिति असत्ववचनत्वाच्चादिष्वेव स्वरादीनि पठितव्यानीति मत्वा प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-83.
“*स्वरादीनां पुनरिति ।” स्वस्ति वाचयति स्वः पश्येति स्वस्तिस्वःशब्दे क्रियासम्बन्धेऽनेकशक्तिदर्शनात्सत्त्ववाचित्वनिश्चयः । लोहितगङ्गमित्यादीनाञ्चाव्ययानं सत्वधर्मनपुंसकत्वदर्शनाह्यक्तमेव सत्त्ववाचित्वम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-84.
“*न निपातसंज्ञैवेति । ‘प्राग्रीश्वरान्निपाताः’ ‘स्वरादीनि’ `चादयोऽसत्त्वे’ इति सूत्रन्यासः कार्य इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-85.
“*स्वरादीनामिति ।” ‘किमोऽत्’ इत्यत्प्रत्ययो ‘दक्षिणादाच्’ इत्याच् । केन्प्रभृतयस्तु कृत एकाचः सन्तीति भावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-86.
“*तच्चाशक्यमिति ।” अव्ययसंज्ञायामेव सत्यां “*‘अव्ययमेकाजनाङ्’” इति सूत्रं कर्तव्यम् । ततश्चात्प्रभृतीनामपि प्रगृह्यसंज्ञाप्रसङ्गः प्राप्नोति । अथ ‘चादय एकाजनाङ्’ इति क्रियते, तदा चादीनामसत्त्ववचनत्वं विशेषणमलभ्यम् ॥ 37 ॥
“*तद्धितश्चासर्वविभक्तिः” ॥ 38 ॥ इह “संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधाद् यद्यपि केवलस्य प्रत्ययस्य ग्रहणं, तथापि प्रयोजनं सर्वनामाव्ययसंज्ञायामिति वाचनिकस्तदन्तविधिरस्तीति तदन्तस्याव्ययसंज्ञा विज्ञायते ॥ तत्र वृत्तिकारेण व्याख्यातम्-असर्वा विभक्तिर्यस्य सोऽसर्वविभक्तिरिति ॥ तत्र यदाऽयमर्थः-यस्य तद्धितस्याऽसर्व विभक्तिः कार्या=यस्मान्न सर्वा विभक्तेरुत्पद्यते इत्यर्थस्तदा न दोषः । यदा तु यस्य तद्धितस्योत्पत्तौ निमित्तत्वेनासर्व विभक्तिराश्रिता सोऽसर्वविभक्तिः, यथा ‘सर्वैकान्य-’ इति दाप्रत्ययस्य
सप्तम्येवोत्पत्तिनिमित्तमिति । एतस्मिन् सूत्रार्थे विनानानेत्यव्ययसंज्ञा न सिध्यति । न हि’विनञ्भ्याम्’ इत्यत्र प्रतिनियता काचिद्विभक्तिराश्रितेत्याह-”*असर्वविभक्ताविति” । अतिव्याप्तिश्चास्मिन् सूत्रार्थे, दाक्षिरितीञः षष्ट्येव निमित्तमिति संज्ञाप्रसङ्गात् ॥”*अविभक्तिनिमित्तस्येति” । अश्रूयमाणविभक्तिकमव्ययमविभक्तीत्युच्यते । तन्निमित्तस्य यस्येष्यते न च प्राप्नोति तस्योपसंख्यानं कर्तव्यं; न तु सामान्येनाविभक्तिनिमित्तस्य संज्ञा विधेया, विशालविशङ्कटादीनामपि प्रसङ्गात् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-88.
“*किं पुनरिति” । ‘एकवचनमुत्सर्गतः’ इति वचनात् क्रमव्यतिक्रमे कारणाभावात् विनानानेत्यत्राप्यसर्वाविभक्तिरुत्पत्तौ निमित्तमिति प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-89.
“*सर्वविभक्तिरिति " । अविशेषेणोत्पधन्ते, उत्पन्नानां नियमः क्रियते-इत्यव्ययात् सर्वा विभक्तय उत्पद्यन्त इत्यर्थः ॥ “*अविशेषादिति " । विशेषस्यानाश्रयणादिति भावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-90.
“*त्रलादीनां चेति ।” आदिशब्दस्य प्रकारवाचित्वात्तसिलपि गृह्यते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-91.
“*वक्ष्यत्येतदिति " । भवदादिप्रयोग एवाप्राप्तिश्चोद्यत इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-92.
“*यदि पुनरिति” । प्रयोगे योऽश्रूयमाणविभक्तिः सोऽव्ययमित्यर्थः । न च दधिमध्विन्यत्रातिप्रस्ङ्गः, दध्रीत्यादौ विभक्तिश्रवणात् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-93.
“*अविभक्ताविति । अव्ययत्वादविभक्तित्वम्, अविभक्तित्वादव्ययत्वमिति दोषः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-94.
“*अलिङ्गमसङ्ख्यमिति । अविभक्तिरव्ययमित्यस्य लक्षणस्य दूषितत्वात् अत्रापि तदेव दूषणमिति प्रदर्शनार्थ् वाशब्दः । अलिङ्गासङ्ख्यत्वस्य लौकिकत्वान्नेतरेतराश्रयत्वमिति पूर्वपक्षः ॥ “*एवमपीति” । अर्थमपि कश्चित् क्वचित् शास्त्रादेव प्रतिपद्यत इति भावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-95.
“*सिद्धं त्विति” । वार्तिककारस्येतरेतराश्रयदोषः स्थित एवेति तुशब्दो विशेषप्रदर्शनार्थः । भाष्यकारेण त्वितरेतराश्रयदोषः परिहृअत इति वाशब्दार्थः-”*तु"शब्दो व्याख्यातः ॥ य एव`प्रकारवचने थल्’ स एव `प्रत्नदिभ्यो’ विधीयते इति नाव्याप्तिः ॥ “*मान्त इति” । अम् आम् ॥ “*तसिः- ‘प्रतियोगे पञ्चम्यास्तसिः’ ‘तेनैकदिक् तसिश्च’ इति ॥ “*कृत्वोऽर्थः”-कृत्वसुच् सुच् धा ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-96.
“*अथवेति” । वृद्धव्यवहारादेव शब्दार्थसम्बन्धावगमादेकत्वादिव्यवहारवदलिङ्गासङ्ख्यत्वमप्यव्ययार्थस्य प्रसिद्धमित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-97.
अत्रोविपपत्तिमाह-”*तच्चापीति ॥ किंचिदिति " । अव्ययानां द्वैविध्यमेवेति प्रतिपाद्यते, अलिङ्गासङ्ख्यत्वप्रतिपादनाय ॥ “*अन्ये त्वाहुः”-किंचिदव्ययं क्रियाप्रधानम्, किंचित्साधनप्रसाधनप्रधानम् । अन्यत्तु नापि क्रियाप्रधानम्, नापि साधनप्रधानम् । यथा-‘स्वः पश्य, लोहितगङ्गम्-उन्मत्तगङ्गं देशः’ इति । तथा चात्रनपुंसकत्वमव्ययीभावश्चेत्यन्वाख्यायते । पूर्वंच भाष्यकारेणोक्तम्-”*स्वरादीनां पुनः सत्त्ववचनानामसत्त्ववचनानां चेति” । तस्माद्बाहुल्याभिप्रायेणाऽलिङ्गमसङ्ख्यमव्ययमित्युच्यते । उच्चैर्नीचैरिति सप्तम्यर्थे वर्तते ॥ “*हिरुक्पृथगिति ।” क्रियाविशेषणत्वादेषां क्रियाप्रधान्यम् । क्रियापदप्रयोगमन्तरेणापि ‘पृथक् देवदत्तः’ इत्यादिप्रयोगः क्रियाक्षेपादुपपद्यते ॥ शब्दशक्तिस्वाभाव्याच्चैकस्मिन्नर्थे विधीयमानयोः ‘तेनैकदिक्’ ‘तसिश्च’ इत्यण्तसोर्भिन्नधर्मत्वम् । तत्र ‘पैलुमूलम्’ इति द्रव्यं प्राधान्येनाभिधीयते । ‘पीलुमूलतः’ इति तु द्रव्योपसर्जनस्तृतीयार्थ इति तस्य साधनप्रधानता ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-98.
“*अद्यत्व इति” । सूत्रारम्भकाल इत्यर्थः । पूर्वं हि न्यासान्तराश्रयेण सूत्रं प्रत्याख्यातम् ॥ “*अतिबह्विति " । एकस्मिन्नित्यपनीय ‘एकवचनम्’ सूत्रं इति कर्तव्यम् । ततः ‘द्विबह्वोर्द्विवचनबहुवचनने’ इत्येवं कर्तव्यम् । तेन द्वित्वबहुत्वयोर्द्विवचनबहुवचने भविष्यतः । एकवचनं त्वेकस्मिन्नपि भविष्यति, अलिङ्गासङ्ख्येभ्योऽव्ययेभ्यश्च ॥ ननु ‘कर्मणि द्वितीया’ इत्यादिना कर्मादिषु द्वितीयादीनां नियतत्वात्कथमेकवचनमव्ययेभ्यः स्यात् ॥ नैष दोषः । एतदर्थमेव ‘एकवचनम्’ इत्येतत् क्रियतेऽप्राप्रातप्रापणार्थम् । तेन कर्माद्यभावेऽपि भवति । द्वित्वबहुत्वयोस्तु प्राप्तं द्विवचनबहुवचनाभ्यां बाध्यते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-99.
न सर्वा विभक्तय उत्पत्तौ निमित्तमस्य-इति येन वृत्तिकारेण व्याख्यातं तन्मतं दूषितम् ॥ इदानीं
वृत्तिकारान्तरमतं विशेषदर्शनेन संस्क्रियते-”*न चाप्येवमिति” । एवं विग्रहे सर्वशब्दस्य प्रकारकार्त्स्न्येऽपि वर्तनादेकवचनमात्रोत्पत्तावापि सर्वा विभक्यः सप्त-अव्ययेभ्य उत्पद्यन्ते इति न स्यादसर्वविभक्तित्वम् ॥ “*कथं तर्हीति " । द्रव्यकार्त्स्न्यवृत्तिः सर्वशब्दः ।
एकवचनमात्रोत्पत्तौ निरवशेषा विभक्तिर्नोत्पन्ना भवतीति भवत्येवाऽसर्वविभक्तित्वम् । यदा त्वयंन्यायः-प्रथमातिक्रमे कारणाभावात्प्रथमाया एवैकवचनमव्ययेभ्य उत्पद्यत इति, तदाऽसर्वा विभक्तयो यस्मादित्यपि विग्रहे आश्रिते न दोषः । यदा तु खले कपोतिकान्यायेन
सर्वैकवचनोत्पत्तिपक्षस्तदैतदुक्तम् । अव्ययीभावादप्येकवचनमेवोत्पद्यते, तावतैव ‘तृतीयासप्तम्योर्बहुलम्’ इत्यस्योपपादनात् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-100.
“*एवं गत इति” । यदा असर्वा विभक्तिरस्मादिति विग्रह आश्रीयते, तदैवं विज्ञाते सत्येतावल्लक्षणमस्तु-`असर्वविभक्त्यव्ययम्’ इति । पञ्चसूत्री न कर्तव्या । एतद्सर्वविभक्तित्वं “*कृत्यपि तुल्यम्”-यस्य `कृन्मेजन्त’ इत्यनेनाव्ययसंज्ञेष्यते ॥ “*मान्तस्येति” । सूत्रोपलक्षणम् ॥ “*ततः पर इति” । `कृन्मेजन्त’इत्यस्मात् सूत्रात्परे “*कृदर्थाः”-कृत्संज्ञाविषयाः `क्त्वातोसुन्कसुन’ इत्यर्थः ॥”*ग्रहणेन”-उच्चारणेन, प्रतिपदमित्यर्थः ॥ “*योगाश्च*” न कर्तव्याः “*स्वरादिनिपातम्व्ययः"मित्येवमादयं पञ्चेत्युपसंहारः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-101.
इदानीमतिव्याप्तिपरिहारार्थं तद्धितग्रहणं कर्तव्यम्, तस्मिन् कृते `कृन्मेजन्त’ इत्याद्यपि कर्तव्यमिति दर्शयति-”*कृत्तद्धितानामिति ॥ संख्याविशेषमिति ।” तन्निवृत्यर्थमित्यर्थः ॥ “*तेषामिति " । असति तद्धितग्रहणे एकादीनामप्यसर्वविभक्तित्वात् प्रतिषेधो वक्तव्यः स्यादिति तद्धितग्रहणं कर्तव्यम् । तस्मिन्कृतेस्वरादिग्रहणं कर्तव्यं, खरादीनामतद्धितान्तत्वात् ॥ ननूभयशब्दस्य द्विवचनानुत्पादादसर्वविभक्तित्वं, तथा गोदौ वरणा इति, तत एषामपि `तद्धितश्चासर्वविभक्तिरि’त्यव्ययसंज्ञाप्रसङ्ग इत्याह-“कृत्तद्धितानामिति” । प्रतिपदं तद्धिताः पठितव्याः, येषामव्ययसंज्ञेष्यत इत्यर्थः । तस्माद्गणपाठ एवाश्रयितव्यः । प्रपञ्चार्थस्तु सूत्रारम्भः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-102.
“*तदन्तविधिनेति” । `प्रयोजनं सर्वनामाव्ययसंज्ञायं’ इति वचनेनेति भावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-103.
“*इत्युच्चैसाविति” । शाक्तिप्रधानान्यप्यव्ययानि वृत्तिविषये शक्तिमत्प्रधानानि भवन्ति । यथा-दोषामन्यमहः दोषाभूतमहरिति । तत उच्चैः शब्दस्य प्रक्रियायां द्वितीयान्तस्य समासः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-104.
“*क्व पुनरिति " । श्लोके सप्तमीनिर्देशात् प्रश्नेऽपि सप्तमी निर्दिष्टा ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-105.
“*सदृशमिति” । लिङ्गविशेषप्रतिपादने सामर्थ्याभावात् ॥
“*विभक्तिष्विति” । कारकेषु । तत्र यानि साधनप्रधानान्यव्ययानि तेषां शक्त्यन्तरानावेषात् क्रियाप्रधानानां च शक्तिसंबन्धाभावात् -”*सर्वासु च विभक्तिषु”-इत्युक्तुम् ॥ “*वचनेष्विति” । एकत्वादिषु । अव्ययीभावस्य शक्तिलिङ्गविशेषयोगेऽपि वचनादव्ययत्वम् । यथास्वत्यादीनां कर्मप्रवचनीयसंज्ञा । तत्र यान्यसत्त्वभूतार्थाभिधायीन्ययव्ययानि तेषां लिङ्गादिभिरयोगः, तेषं द्रव्यधर्मत्वात् । सत्त्ववाचिनामपि शब्दशक्तिस्वाभाव्यात्तदयोगः । यथा-युष्मदस्मदोर्लिङ्गायोगः ॥
केचित्तु
लिङ्गादिविशेषेणायोगात् तत्सामान्येन तु योगमव्ययानामाहुः ॥ तदयुक्तम् । लिङ्गादिसामान्यसद्भावे प्रमाणाभावात् ॥ “*यन्नव्येतीति” ।
नानात्वं न गच्छति, सत्वधर्मान्न गृह्णातीत्यर्थः ॥38॥
“*कृन्मेजन्तः ॥ 39 ॥ कथमिति” । किं मेजन्तग्रहणेन पूर्वं कृद्विशेष्यते, पश्चात्तु कृता तदन्तविधिः । आहोस्वित्पूर्वं कृता तदन्तविधिः , पश्चात्तु कृदन्तं मेजन्तग्रहणेन विशेष्यत इति प्रश्नः ॥ प्रयोजनं सर्वनामाव्ययसंज्ञायामिति चात्र तदन्तविधिः । अथवाऽन्वर्थसंज्ञाश्रयणात्प्रत्ययग्रहणे संज्ञाविधावप्यत्र तदन्तविधिर्भवति । न हि केवलस्य प्रत्ययस्याप्रयोजार्हस्य नानागमनमगमनं वा संभवति ॥ “*कारयांचकारेति ।” लिडत्र कृत्, स च मान्तो न भवति ॥ “*प्रतामाविति” ॥ क्विपि लुप्ते प्रत्ययलक्षणेन कृदन्तमेतद्भवति । श्रुत्याच मान्तम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-107.
“*अव्ययादिति लुगिति ।” हल्ङ्यादिलोपेन सिद्धत्वात् किं लुका प्रयोजनम् । यदा तर्ह्यनुप्रयोगवशात् द्वित्वबहुत्वावगतिः तदाऽस्ति द्विवचनबहुवचनोत्पत्तिरिति लुगेषितव्यः । अकच् तु न भवति, अपरिसमाप्तार्थत्वादज्ञानादिभिर्योगाभावात् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-108.
“*इष्यते चेति " । पूर्वोक्ताद्धेतोस्तरबाद्यनुत्पादादनुप्रयोग एव तरबाद्युत्पत्तिः, समात्य्पार्थस्य प्रकर्षादियोगादित्यर्थः ॥ अत्रैवार्थे ज्ञापकमाह-”*आतश्चेति “। तत्र ह्युक्तं “*व्यवहितनिवृत्यर्थं चे"ति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-109.
“*प्रशान्शब्दमिति । तस्य ‘मो नो धातोः’ इति नत्वस्यासिद्धत्वात्सिद्धमव्ययत्वमिति भावः । तुल्यजातीयस्य धातोर्नियमेन व्यावृत्तिः क्रियते-इति कारयांचकारेति भवत्येव मान्तस्याव्ययसंज्ञा ॥ ‘शान तेजने’ इत्यस्य तु प्रशानिति रूपं नभवति, तस्य क्विबन्तस्य प्रयोगादर्शनात् । लाव्यतेलौरित्यस्यापि न भवति, अस्मादेव ज्ञापकाल्लाक्षणिकत्वाद्वौकारस्य ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-110.
“*अनिकारोकारेति ।” एच एतद्विशेषणं न मकारस्य, व्यवच्छेद्यासंभवात् । “*आधय इति “। गुणे कृतेऽ`न्तरङ्गबहिरङ्गयो’रिति न्यायादव्ययसंज्ञा स्यात्, न त्वयादयः ॥ अन्तरङ्गत्वादेव च सुब्लुक् स्यात् । परिभाषान्तरप्र योजनकथनार्थं `लक्षनप्रतिपदोक्त्यओ’रि त्येतदनास्रितम् लाक्षणिकं ह्यनुमेयं, प्रतिपदोक्तंतु प्रत्यक्षमिति तस्यैव ग्रहणं न्याय्यम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-111.
“*संनिपातलक्षण इति” । संणिपातः-संश्लेषः तन्निमित्तो यो विधिः स तघ्विधातस्यानिमित्तं तं संनिपातं यो
विहन्ति तस्येत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-112.
“*ग्रामणिकुलमिति । इको ह्रस्व” इति पूर्वोत्तरपदसन्निपातनिमित्तं ह्रस्वत्वं तुको न निमित्तम् । तुकि हि
सति पूर्वोत्तरपदयोरानन्तर्यविघातः । यदा तु ह्रस्वमात्रस्य तुगागमो न तदन्तस्य, अवयवावयवश्च समुदायावयवो न भवति तदैतत्प्रयोजनं न त्वन्यथा ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-113.
“*बहिरङ्गमिति “। द्विपदाश्रयत्वात् । यदपि “*ह्रस्वो नपुंसके प्रातिपदिकस्ये"ति ह्रस्वत्वम्, तदपि अर्थाश्रयत्वाद्बहिरङ्गम्, तुक् तु वर्णाश्रयत्वादन्तरङ्गः । यदि तु “*सन्निपतलक्षण” इत्याश्रीयते तदा ग्रामणिच्छत्रमित्यत्रापि तुग्नस्यात् । ह्रस्वत्वतुगागमयोस्त्वत्र साम्यादन्तरङ्गत्वं बहिरङ्गत्वं नास्तीति छलक्षणस्तुक् सिद्धो भवति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-114.
“*असिद्धो नलोप इति” । `नलोपः सुप्स्वरेति-असिद्धं बहिरङ्ग्’अमिति वा ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-115.
“*निकुचित इति ।” कुञ्चेर्भावे क्तप्रत्ययः । `अनिदिता’मिति नलोपः । तत्र कित्वनिमित्तमुदुपधत्वं ‘उदुपधात्-’ इत्यकित्वस्यानिमित्तमिति गुणो न भवति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-116.
“*अमुनेति । न मु न” इत्यस्यायमर्थः-ने कर्तव्ये मुभावः सिद्धो भवति-इति, न तु ने परतोऽपि यद्दीर्घत्वं प्राप्नोति तत्र । तथाच तत्र मुभावस्यासिद्द्यत्वादकारान्तत्वाहीर्घप्रसङ्गः । तस्मिन् कृते “*अदसोऽसे"रिति दीर्घस्य दीर्घ ऊकारः प्राप्नोति । ततश्च ‘अमूना’ इति स्याथ् । उकारसन्निपातनिमित्तस्तु नाभावो दीर्घत्वस्याऽनिमित्तमिति सिद्धममुनेति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-117.
“*न मु टाऽऽदेश इति”। अनेकविभक्त्यन्तस्तत्र समास आश्रितः - टाया आदेशः, टायामादेश इति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-118.
“*उपादास्तेति ।” एज्विषय आत्वविधानादकित्वसन्निपातनिमित्तमात्वं `स्थाघ्वोरिच्चेति’ कित्वस्यानिमित्तम् । कित्वसंनियुक्तुं चेत्त्वमिति कित्त्वाभावे न भवति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-119.
“*यदयमिति “। ननु समस्तार्थमेतत्स्यात्- प्रियतिसृणां ब्राह्मणानामिति । अत्र ह्यङ्गं पुंसि वर्तत इति नास्ति ङीपः प्राप्तिरिति केचित् ॥ तदयुक्तम् । न हि ङीब्विधानेऽङ्गाधिकारोऽस्ति । तत्राऽवयवस्य स्त्रीत्ववृत्तित्वात् ङीपः प्राप्तिः केन वार्यत इति ज्ञापकमेव ।
ज्ञापकादेव च सिद्धत्वात् स्वस्रादिष्वनयोः पाठो न
कर्तव्यो भवति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-120.
“*शतानीति ।” विभक्तिसन्निपातनिमित्तो नुमागमः षट्संज्ञाहेतुकस्य विभक्तिलुको न निमित्तम् । “*ष्णान्ताषडि"त्यन्तग्रहणमौपदेशिकप्रतिपत्यर्थमिति अत्र न भविष्यतीति चेत्, संख्यासंप्रत्ययार्थं बहुव्रीह्यर्थं तत् स्यादित्यदोषः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-121.
“*शकटाविति ।” विभक्तिसंनिपातकृतमत्त्वं यदि टापो निमित्तं स्यात् आनन्तर्यं विहन्येत । शास्त्रीये च कार्येऽन्तादिवद्भावः, नानतर्ये लौकिके । टापि च सति शकटायामिति स्यात् ॥ `अच्च घे’रिति तपरकरणेनाप्यत्र टाप् निवर्तयितुं शक्यते । इदुतोर्हि स्थाने मात्रिक एवाकारो भविष्यति, भाव्य्मानत्वाद्वा सवर्णस्याकारो ग्राहको न भविष्यतीति लक्षणान्तरेणापि प्राप्तस्य दीर्घत्वस्य निराकरणार्थं तपरकरणं संपद्यते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-122.
“*इयेषेति “। आमि सति लुक् स्यादिति प्रकृतिप्रत्ययसंनिपातस्य विघातः स्यात् । `उषविदे’ति विकल्प ओषंचक्र्तुः-ऊषतुरित्यादौ सावकाश इत्युवोषेति नित्यं आम् प्रसज्येत ॥ `प्रतिपदविधे’स्तु बलवत्त्वात्परत्वाच्चात्रापि विकल्पेनैव भाव्यमित्यनुदाहरणमेतत् ॥ ‘गुरुमतः’ इति नित्ययोगो मतुबाश्रयणादपि शक्योऽत्राम्भावः प्रतिपादयितुम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-123.
“*दाक्षिरिति ।” प्रयोगे व्यवस्थितस्यैवेकारस्यान्वाख्यानमनेन ऋइयत इति संनिपातलक्षणत्वं प्रत्ययस्य संभाव्यते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-124.
“*न प्रत्यय इति ।” कल्पितप्रकृतिप्रत्ययविभागेनान्वाख्यानात्प्रकृतेरविद्यमान एव प्रत्यय उत्पाद्यत इत्याशयः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-125.
“*अङ्गसंज्ञेति”। सत्यामङ्गसंज्ञायामकारलोप इति स्यादानन्तर्यविघातः ।तत्र `वर्णविचालस्यानिमित्तं
स्या’दिति अङ्गसंज्ञाद्वारेणेत्यर्थः । अत्र केचित्-`वर्णाश्रय’ इति व्याचक्षते । तेनात्रेयाद्यप्युदाहरणम् । अन्ये `त्ववर्णाश्रय’ इत्यकारप्रश्लेषमाहुः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-126.
“क्रापयतीति ।” णिचि वृद्धौ कृतायामात्वं पुको न निमित्तं स्यात् । अङ्गस्य य आकारस्तस्य पुगित्यवयवभक्तं पुकं मत्वा दोषोपन्यासः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-127.
“*अग्निमानिति ।” पूर्वमुदात्तमाश्रित्य मतुप उदात्तत्वं क्रियमाणं पूर्वस्य निघातं न कुर्यात् ॥ `परमवाचेति । अन्तोदात्तादुत्तरपदादि’ति विभक्त्युदात्तत्वं विधीयमानं पूर्वनिघातस्यानिमित्तं स्यात् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-128.
“*मा भूदिति” । `हल्ङ्या’दिसूत्रे दीर्घग्रहणम्दृष्ट्वेदमुच्यते । तत्र कृतेऽपि ह्रस्वत्वे स्थानिवद्भावाद्भविष्यतीति भावः ॥ ब्रह्मबन्धुशब्दापेक्षया च नैतदुच्यते, तस्याङ्याबन्तत्वात् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-129.
“*नित्य इति ।” कार्यं तावन्नित्यं, तद्येन केनचिल्लक्षणेन भवत्विति भावः ॥ संबुद्धिलोपस्यावकाशः-हे देवदत्तेति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-130.
“*भुयांसो वेति ।” दुष्टत्वप्रतिपादनाय प्रकर्षारोपः । सर्वादिषु समशब्दस्य सर्वपर्ययस्य सर्वनामसंज्ञाविधानात्तुल्यवाचिनोऽत्र समा इति प्रयोगः ।अस्ति समशब्दः सर्वपर्यायः । यथा-`समराज्यं वर्तते’, सर्वेषां राज्यं वर्तते इत्यर्थः । वेदेऽपि-`मा नः समस्य दूढ्य’ इति प्रयोगः, सर्वस्य दुर्धियो मा न इत्यर्थः । तत्र प्रयोजनानामल्पत्वात्तान्येवोपसंख्यातव्यानीत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-131.
“*प्रतिविधेयमिति ।” तत्र विधानसामर्थ्यादाङ्गो वर्णविचालो भविष्यति ॥ `कष्टाये’ति ज्ञापकाद्यअशब्दे दीर्घोभविष्यति ॥ `न यासयो’रिति लिङ्गादाप् भविष्यति ॥ `पपिवानिति’ । `वस्वेकाजादि’त्ययं नियमः, इटो न त्वपूर्वेऽयं विधिरिति आकारस्य लोपः ॥ “*क्रापयती"त्याकारान्तभक्तः पुग्न व्यवधायकः ॥ `अदीदप’दितिलिङ्गाद् ह्रस्वः । यदयं `मरणतोषणेति’ जानातेर्मित्त्वमुपधाह्रस्वार्थं शास्ति तज् ज्ञापयति-पुकिकृते उपधाह्रस्वत्वं भवतीति । न हि जानातेरकृते पुकि ह्रस्वभाविन्युपधा भवति ॥ `अग्रिमानि’ति `अनुदात्तं पदमेकवर्ज’मिति परिभाषा स्वरविषया संनिपातपरिभाषा बाधते ॥ `एङ्ह्रस्वाद्’इत्यत्रापि `गुणात्संबुद्धे’रिति वक्तव्ये ह्रस्वग्रहणसामर्थ्यात्संनिपातपरिभाषाऽभावः । `दर्वी’त्यत्र छन्दसि गुणाभावपक्षे छान्दसो लुग्भविष्यति ॥ 39 ॥
“*अव्ययीभावश्र्च ॥ 41 ॥ प्रयोजनमिति ।” मुखस्वरोपचारौ निवर्त्यमानौ प्रयोजनम्, यथा मशाकार्थो धूम इति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-133.
“*अपि खल्विति ।” एवं खल्वित्यर्थः । परिगणनमनेन दृढीक्रियते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-134.
“*उपाग्न्यधीयानेति ।” अग्निसमीपे अधीयानेत्यर्थः । तत्र `षष्ट्यामन्त्रितकारकवचनम्’ इति पराङ्गवद्भावो भवति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-135.
“*न चैकमिति ।” सामान्यलक्षणमेकप्रयोजनार्थं न कर्तव्यमित्यर्थः ॥ “*तत्रैवायमिति ।” न चोक्तम्, तस्मान्मुखस्वरेणात्र भवितव्यमित्याहुः ॥ अन्ये तु वर्णयन्ति-अनव्ययमव्ययं भवतीत्यन्वर्थसंज्ञानान्मुखस्वरनिवृत्तिर्भविष्यतीति नार्थः सूत्रेणेति ॥ केचित्तु- स्वरादिपाठात्सिद्धायामव्ययसंज्ञायां पुनर्वचनमनित्यत्वज्ञापनार्थम् । तेन कतिपयान्येवाव्ययकार्याणि भवन्तीति नार्थः परिगणनेनेत्याहुः ॥ तेषां वचनमन्तरेण विशेषे प्रमाणाभावः ॥ 41 ॥
“*शि सर्व” ॥ 42 ॥ सुडनपुंसकस्येति चेदिति " । अस्मिन् सूत्रन्यासे दोषः । `सुट् स्त्रीपुंसयोः’ इत्यस्मिन्न्यासे न दोष इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-137.
प्रसज्यप्रतिषेधाश्रयेण पूर्वपक्षः, पर्युदासाश्रयेण सिद्धान्तः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-138.
“*अप्राप्तेर्वेति” । प्रसज्यप्रतिषेधेऽप्यदोषः । तत्र `सुडि’त्यनेन या प्राप्तिः, सा प्रतिषिध्यते । न तु `शि सर्वनामस्थान’मिति प्राप्तिः । अन्यथा `शि सर्वनामस्थान’मिति निरवकाशं स्यात् । नपुंसकस्यैव हि शिः संभवति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-139.
“*ननु चेयमिति” । परत्वादित्यर्थः । प्रतिषेधयुक्तायुक्तत्वाच्च विरोधसद्भावः । तत्र परत्वात् सुडिति प्राप्तिः
पूर्वां प्राप्तिं बाधते, तामपि प्रतिषेध इति दोषः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-140.
“*नोत्सहत इति” । अपवादविषयपरिहारेणास्याः प्रवर्तनादित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-141.
“*अथवैतर्हीति ।” इदानीमित्यर्थः । तत्र `स्त्रीपुंसयो’रिति वक्तव्ये `अनपुंसकस्ये’ति वचनं ज्ञापकम्-प्रसज्यप्रतिषेधेऽपि नञ्समासोऽस्तीति ॥ 43 ॥
“*न वेति ॥ 44 ॥ नवेतिविभाषायामिति “। समुदायस्यानुकरणत्वादनुकरणस्य चानुकार्येणार्थवत्त्वात्प्रातिपदिकत्वे सति विभक्त्युत्पत्तिः । स्त्रीप्रत्यये च तदादिनियमाभावाच्याडामौ भवतः । अथवा नवेत्युच्चर्य या विभाषा कृता तस्य्श्M-इति व्याख्या । तत्र लोके क्रियापदसंनिधाने नवाशब्दयोर्योऽर्थो द्योत्यो विकल्पप्रतिषेधलक्षणः स संज्ञीत्यर्थः । अन्यथा विभाषाप्रदेशेषु नवाशब्दावेवादेशौ स्याताम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-143.
“*घुग्रहणेष्विति ।” शब्दस्य संज्ञाकरणात्प्रदेशेषु तस्यैव संप्रत्यय इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-144.
“*इतिकरण इति ।” क्रियत इति-करणः कर्मणि ल्युट्, इतिश्चासो करणस्चेति विशेषणस्मासः ॥ `क्रियते’ इति सामान्यविशेषभावेन निर्देशः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-145.
“*शब्दाधिक्यादिति ।” उपहासपरमेतच्चोदकस्य वचनम् । अशब्दार्थस्यालाभादिति भावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-146.
“*गौरित्ययमाहेति ।” यद्यपि नित्ये शब्दार्थसंबन्धे उपात्तस्यार्थस्य त्यागो नास्ति, तथापि प्रसिद्धिवशादेत दभिधीयते-`अर्थपदार्थकतायाः प्रच्युतः’-इति ।तत्वत्तस्त्वादावेव स्वरूपपदार्थको गोशब्दः प्रयुक्तः, सादृश्यात्तु तमर्थमनभिव्यक्तं ‘इति’ शब्दो द्योतयतीति पदार्थविपर्यासकृत्-इत्युच्यते ॥ “अर्थपदार्थकतेति “। संबन्धे भावप्रत्ययः । संबन्धात्प्रच्युतोऽतोऽर्तात् प्रच्युतो भवति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-147.
“*समानशब्दप्रतिषेध इति “। समानः शब्दो वाचको येषामर्थानां तेषामित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-148.
“*विभाषा दिक्समास इति “। विभाषाशब्देनाभिनवलक्षणोऽर्थः प्रत्याय्यते । तत्र प्रत्यग्रवाची यो दिक्समास इति संप्रत्ययः स्यात् । तत्र दिशो नित्यत्वान्नवपुराणत्वासंभवात्तन्निमित्तो यदा शालायां व्यपदेशः-दक्षिणपूर्वा शाला सा चाभिनवा, तदा संज्ञा स्यादित्यर्थः । संज्ञाकार्यव्यङ्ग्यं च प्रत्यग्रत्वं स्यात् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-149.
“*न वा विधिपूर्वकत्वादिति” । प्रदेशवाक्यार्थं पर्यालोच्येयं संज्ञा व्यवस्थाप्यते । प्रदेशेषु च कार्याणि विधाय विभाषाशब्द उच्चारितो नवासब्धार्थं गमयति । तत्र लोकवन्निपातार्थावगतिर्भवति, न तु प्रत्यग्रार्थावगतिरित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-150.
“*विलिङ्गमिति “। भिन्नलिङ्गं, व्यधिकरणमित्यर्थः । विलिङ्गत्वेन वैयाधिकरण्यं लक्ष्यते, न तु प्रतिषेधवाचिनो नवाशब्दस्य लिङ्गयोगोऽस्ति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-151.
“*एतच्चैवेति ।” नैव क्वचिद् व्याकरणे समानलिङ्गो निर्देश इत्यर्थः ॥ ‘विभाषा सेनासुरा-’ इति यद्यपि समानलिङ्गो निर्देशः, तथापि भिन्नविभक्तित्वात्सामानाधिकरण्याभावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-152.
“*अपि चेति ।” तत्र साम्र्थ्याद्विशेषावगतिः ॥ यदाऽप्राप्ते यवागूभोजने वाक्यमुदीर्यते, तदा प्रत्यग्रार्थावगतिः । यदा त्वातुरं प्रति गुरुभोजननिषेधार्थमुच्यते, तदा निषेधार्थावगतिः ॥ “*न चेहेति “। क्रियायाः प्राधान्यात्सैव विभाषाग्रहणेन संबध्यते, न तु तदङ्गमित्यर्थः । तदेवं स्थितमेतत् - `न वा विधिपूर्वकत्वा’दिति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-153.
“*विध्यनित्यत्वमिति ।” विकल्प इत्यर्थः । नवाशब्द एकनिपातः प्रतिषेधवाची, तस्येहोपादानादिति भावः ॥ परिहारान्तराभिधानाय तु `न बहुव्रीहा’वित्यसंबद्धं स्यात्-इति नोक्तम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-154.
“*सिद्धं त्विति ।” प्रतिषेधाद्विधिरनुमास्यते, ततो विकल्पः सेत्स्यतीत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-155.
“*विप्रतिषिद्धं त्विति” । एकविषययोर्विधिप्रतिषेधयोर्विरोधादित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-156.
“*न वा प्रसङ्गेति ।” सामर्थ्याद्विधिप्रतिषेधयोः पर्ययो भविष्यतीत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-157.
“*महती संज्ञेति ।” तेन द्वावत्र संज्ञिनौ विकल्पप्रतिषेधावित्यर्थः । यदि हि केवलः प्रतिषेधः संज्ञी स्यात्, संज्ञाकरणमनर्थकं स्यात् । विभाषाप्रदेशेषु नेत्येव ब्रूयात् । तत्र समुदायस्येयं संज्ञेति विभाषाप्रदेशेषु विकल्पप्रतिषेधावुपतिष्ठेते । अप्राप्तविभाषासु च प्राप्त्यभावात् प्रतिषेधस्याव्यापाराद्विकल्प एवोपतिष्ठते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-158.
“*एवमपीति” । यद्यपि विरुद्धयोरेका संज्ञा क्रियते, तथापि प्रदेशेषु युगपद्विरोधाद्भावाभावौ विधातुं न शक्येते इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-159.
“*सिद्धं त्विति " । उभयत्रविभाषासु प्रतिषेधेन समीकृते विषये पस्चाद्विकल्पः प्रवर्तत इत्यर्थः ॥ यदि तु पूर्व विकल्पः प्रवर्तते पस्चात्प्रतिषेधस्तदा विकल्पप्रवृत्तिरनर्थिकैव स्यात् । आनुपूर्वी च या संज्ञाविधावाश्रिता सैव प्रदेशवाक्येष्वाश्रीयते ॥ उभयत्रविभाषार्था चेयं संज्ञा, प्राप्तविभाषायामप्राप्तविभाषायां च संज्ञाकरणस्यानुपयोगात् ॥ तथाहि-प्राप्तविभाषासु पक्षे निवृइत्तिः क्रियते, पक्षे तु प्रवृत्तिः स्थितैव । अप्राप्तविभाषासु च पक्षे कार्यस्य प्रवृत्तिः क्रियते, पक्षान्तरे त्वप्रवृइत्तिः स्थितैवेति नास्ति तत्र संज्ञाफलम् ॥ ‘विभाषा श्वेः’ इत्यत्र तु यदि विधिमुखेन विभाषाश्रुतिः प्रवर्तते-पित्स्वेव संप्रसारणं विभाषा स्यात्, कित्सु यजादित्वान्नित्यमेव स्यात् ॥ अथ प्रतिषेधमुखेन प्रवृत्तिस्तदाऽपि कित्स्वेव विकल्प इति पित्सु न स्यात् । संज्ञाकरणे तु पूर्वं प्रतिषेधे कित्सु प्रवृत्ते पश्चाद्विधिमुखेन सर्वत्र पक्षे संप्रसारणप्रवर्तनादिष्टं सिध्यति । यदा तु प्रतिलक्ष्यं भेदेन `विभाषा श्वे’रित्यस्य व्यापारः क्व्चिद्विधिमुखेन क्व्चित्प्रतिषेधमुखेन तदा संज्ञाकरणमन्तरेणापि सिध्यतीति अशिष्योऽयं योग इति वक्ष्यते _`अशिष्यो वा विदितत्वात्’ इति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-160.
“*साध्वनुशासन इति “। साधुत्वप्रतिपादनाच्छास्त्रस्य साधुत्वस्यैव प्राधान्याद्विकल्पेन संबन्धः स्यात्, न तु तदङ्गभुतानां समाससंज्ञादीनामिति भावः ॥ ततश्च `विभाषास्वे’रित्यस्यायमर्थः स्यात्-विभाषा श्वयतेः साधु संप्रसारणं भवति, पक्षे त्वसाध्विति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-161.
“*अस्तु । यः साधुरिति “। यथा भक्ष्याभक्र्यसंनिधौ भक्ष्यमेवोपादीयते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-162.
“*न चैव हीति ।” सर्वदा त्वस्य साधुत्वं, नोभयरूपत्वमित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-163.
“*द्वेधाऽप्रतिपत्तिरिति ।” साधुत्वविकल्पेन विभाषाग्रहणस्योपयुक्तत्वात् शिश्वियतुरित्यादि रूपं न सिध्यतीत्यर्थः ॥ “*यस्य पुनरिति " । एवं मन्यते-व्याकरणेन शब्दा उत्पाद्यन्ते, तन्मतेन विभाषाग्रहणेनापूर्वत्वेन विधेयत्वात्संप्रसारणमेव विकल्पयत इति द्वैधं प्रतिपत्तिः शब्दानां सिध्यतीति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-164.
“*यस्यापीति ।” साधुत्वस्यापौरूषेयत्वादविकल्प्यत्वात्तदङ्गानामेव विकल्पः ॥ “*तद्यथेति “। पशुत्वानडुत्वयोरविकल्प्यत्वात्क्रिया विकल्प्यते ॥ नन्वन्यत्रोक्तम् -“न च संज्ञाया भावाभावाविष्येते”-इति। इह तूक्तम् सम्ज्ञाऽभिसंबध्यते- इति । ततस्च विरोधः ॥ नैष दोषः इह वृत्तिवाक्ययोर्मुख्यार्थभेदादभिन्नार्थत्वमाश्रित्योक्तम् । अन्यत्र तु व्यपेक्षैकार्थीभावभेदाद्भिन्नार्थत्वमाश्रित्यैकार्थीभावे एव संज्ञाया भावाभावौ नेष्येते इत्युक्तमित्यविरोधः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-165.
नित्यवादी कार्यपक्षे दूषणमाह-”*कार्येष्विति”। युगपदिभावे युगपच्छब्दो वर्तत इति द्वन्द्वः कृतः ॥ अन्वाचयः समुच्चयोऽभिमतः, यस्य चकारेण स्वरितत्वेन वा विधानम् । यस्य कार्याः शब्दाः स प्रयोगनिरपेक्षं शब्दानन्वाचष्ट इति तव्यादीनां युगपदुत्पत्तिः प्राप्नोति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-166.
“*न चैकस्या इति ।” ननु व्यवहितेऽपि परशब्दः प्रवर्तते । सत्यम् । अन्तरालस्थमनपेक्ष्यानन्तर्यमारोप्य तत्र परशब्दप्रयोगः । निर्दिष्टग्रहणम् त्वानन्तर्यार्थमिति कुतो व्यवहितस्य प्रयोगः ॥ कथं तर्ह्युक्तम्-”*एका प्रकृतिर्बहवश्च यञ” इति ? तत्र यञाकृतेरेकत्वात्तस्याश्च परत्वाच्चानन्तर्याच्चादोषः । तव्यदादयस्त्वेकाकृतियुक्ता न भवन्ति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-167.
“*नापि ब्रूम इति ।” एकस्याः प्रकृतेः सर्वे भवन्तीति न ब्रूमः । किं तर्हि ? प्रत्ययान्तरेण प्रकृत्यन्तरस्याक्षेपात् ‘कर्तव्यं’ इति प्रयुयुक्षिते करणीयादीनामपि प्रयोगः प्राप्नोति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-168.
“*अर्थगत्यर्थ इति ।” ‘तव्यत्तव्यानीयरः’ इत्यस्माद्वाक्यावाक्यान्तराण्युपप्लवन्ते प्रतिपादकानि-धातोस्तव्यद्भवति भावकर्मणोरित्यादीनि । तत्र कर्तव्यशब्देन तस्यार्थस्य प्रतिपादितत्वात्करणीयशब्दो न प्रयुज्यते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-169.
“*आचार्येति । " आचार्यस्य देशस्य च पुनः पुनः संकीर्तनमाचार्यदेशशीलनं । तत्र तस्य शब्दस्य तद्विषयत्वमेव स्यात्, सर्वप्रयोक्तृप्रसङ्गे गालवस्यैव तत्प्रयोक्तुत्वमिति नियमार्थं स्यात् ॥ “*यस्य पुनरिति ।” अनादित्वाच्छब्दव्यवहारस्य नित्यत्वपक्षे नास्ति प्रयोक्तृनियमः । केवलं गालवः स्मर्तृत्वेन निर्दिष्टोऽस्य शास्त्रस्य प्रामाण्यं प्रतिपादयितुमिति पूजार्थमाचार्यग्रहणम् । शास्त्रस्य ह्यनाद्यर्थप्रतिपादकत्वात्पूजा भवति ॥ “*कीर्त्यर्थमिति” । कीर्तौ सत्यां तेषांस्वर्गव्यवस्थानं स्थिरं भवति । यथा-इन्द्रद्युम्नादीनाम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-170.
“*ननु च यस्यापीति “। कार्यपक्षेऽपि पूजा शक्यते व्याख्यातुम्-यस्माद्गालवेन ह्रस्वत्वं प्रयुक्तं तस्मात्त्व्मपि प्रयुङ्क्ष्वेति स्तुत्यर्थोऽर्थवादः स्यादित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-171.
इदानीं कार्यपक्षे दूषणमाह-”*तत्कीर्तन इति” । कर्यपक्षेऽयमर्थः स्यात्-यस्माद्गालवेन ह्रस्वत्वं प्रयुक्तं तस्मात्प्रयोक्तव्यमिति । ततश्च ह्रस्वत्वस्य विकल्पो न स्यात् । नित्यत्वपक्षे तु गालवो ह्रस्वत्वस्मर्ता, अन्यो दीर्घस्येति स्मृत्यन्तरानुसन्धानद्वारेण विकल्पः सिध्यतीति नित्यपक्ष एव युक्तः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-172.
“*अशिष्यो वेति ।” वाशब्दो विकल्पे ॥ तेनाकृतिपक्षे उभयत्र विभाषार्थं सूत्रं कर्तव्यम् । व्यक्तिपक्षे तु लक्ष्यभेदेन लक्षणभेदात्क्वचित् किञ्चिल्लक्षणं विधिमुखेन प्रवर्तते, क्वचित्प्रतिषेधमुखेन प्रवर्तत इतीष्टसिद्ध्या सूत्रं न कर्तव्यमित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-173.
“*अप्राप्ते इति ।” अधिकारोऽयम् ॥ “*त्रिसंशया इति ।” त्रिष्वर्थेषु संशयो यासु ताः-त्रिसंशयाः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-174.
“*द्वन्द्वे चेति ।” प्रकरणोपलक्षणार्थमेतदुपात्तम् । `प्रथमचरमत’येत्यत्र तयग्रहणे संशयः । तत्र तयशब्देन `प्रयोजनं सर्वनामाव्ययसंज्ञाया’मिति वा-अन्वर्थसंज्ञाविज्ञानाद्वा-केवलस्य प्रयोगाभावात्तदन्तस्यैव सर्वनामत्वसंभवात् `प्रत्ययग्रहण-‘परिभाषया तदन्तविधिः ॥ तत्र यदि सर्वादिग्रहणेन तयान्तं विशेष्यते, नमशब्दोऽव्यभिचारात् प्रथमादयस्त्वसंभवात् न विशेष्यन्ते, तदोभयशब्दस्य जसि नित्या संज्ञा विभाष्यत इति प्राप्तविभाषा स्यात् ॥ अथ `सर्वादीनीति’ निवृत्तम्-पूर्वविप्रतिषेधश्च, तदाऽप्राप्तविभाषा । अथ परविप्रतिषेधः, तदोभयत्रविभाषा ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-175.
“*प्रत्ययान्तरमिति ।” आदेशपक्षे पूर्वविप्रतिषेधौ वक्तव्य इति प्रत्ययान्तरपक्ष आश्रितः ॥ ‘उभादुदात्तो नित्यम्’ इत्यत्र `तथस्ये’ति नानुवर्तते-इति प्रत्ययान्तरमयज् भवति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-176.
“तैलमात्रेति ।” प्रत्याहारे सति चकारेण मात्र शब्दो न विशेषित इति ‘हुयामाश्रुवसिभसिभ्यस्त्रन्’ इति त्रन्नन्तादपि मात्रशब्दान्ञीप्रसङ्गः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-177.
“*सहशस्यापीति” । प्रमाणे वर्तमानात्प्रमेये यो मात्रज् विहितः, स प्रत्याहारेण गृह्यते-इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-178.
“*ऊर्णोर्विभाषेति” । ‘विभाषोर्णेः’ इति सूत्रं यद्य”*संयोगाल्लिट् कि"दित्यत्रानुवर्तते, ऊर्णुश्चासंयोगान्त एवेत्यसंयोगग्रहणाद्वाक्यभेदेनोर्णेः परस्येडादेर्लिटो नित्यं कित्वं प्राप्तं विकल्प्यते, ततः - प्राप्तविभाषा । इडुपजीवनार्थं तु स्थानान्तरे सूत्रं पठितम् । अथ तत्र सूत्रं नानुवर्तते, परविप्रतिषेधश्च, ततः-अप्राप्तविभाषा । अथ पूर्वविप्रतिषेधः, तदा-उभयत्रेति संशयः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-179.
“*अन्यद्धीति”। व्यपदेशातिदेशोऽयमिति कित्त्वङित्त्वयोर्भेदः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-180.
“*एकं चेदिति " । कार्यातिदेशपक्षे गुणनिषेधस्य कार्यस्यैकत्वमनयोरित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-181.
“*प्रौर्णुवीति “। लङ उत्तमैकवचनम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-182.
“*सार्वधातुकमपिदि"त्यत्र यदि `विभाषोर्णेरि’त्येतद्वाक्यभेदेन संबध्यते, ततः प्राप्तविभाषा । अथासंबन्धः पूरविप्रतिषेधः, ततः उभयत्र विभाषा । परविप्रतिषेधेतु-अप्राप्ते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-183.
“*विभाषोपयमन इति “। यदा गन्धनाङ्गमुपयमनं तत्र गृह्यते, तदा-प्राप्ते । पूर्वविप्रतिषेधे तु-अप्राप्ते। परविप्रतिषेधे-उभयत्रेति संदेहः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-184.
“*जातिरिति” । चर्मदिमयास्तदा मृगादयो ग्राह्याः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-185.
“*निवृत्तमिति”। तन्निवृत्तौ च गौणत्वाच्चर्मादिमयानामग्रहणम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-186.
“*प्रत्ययान्तादिति वेति” । कथं पुनः प्रत्ययान्ताः `शब्दा’ रूपान्तरयुक्ता उषादिव्यपदेशं लभन्ते । उच्यते-सनाद्यन्ता धातव’ इत्यस्य यदाऽयमर्थो व्याख्यायते-धातवः सनाद्यवयवा भवन्ति धातूनामवयवाः सनादयो भवन्ति । यथा-समासान्ताष्टजादयः, थदा पूर्वोक्तचोद्याभावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-187.
“*प्रत्ययान्ता इति । “सनाद्यन्था धातव” इत्ययं योगः संज्ञासंज्ञिसंबन्धार्थ इति भावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-188.
“*भावकर्मणोरिति” । `चिण्भावकर्मणो’रित्यत्र सूत्रे यदि `दीपजने’त्येतत्सूत्रमनुवर्त्यवाक्यभेदेन संबन्धः क्रियते पृथक्पाठसामर्थ्यात्, तदा-प्राप्तविभाषा । अथ नानुवर्वते परविप्रतिषेधश्च, तदा-अप्राप्तविभाषा । पूर्वविप्रतिषेधे तूभयत्र-इति संशयः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-189.
“*अकर्मकाश्चेति ।” यद्यपि बुधिः सकर्मकः, तथापि एकपरिहारोपन्यासार्थमविशेषेणैतदुक्तम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-190.
“*सोपसर्गा इति”। अर्थान्तरवृत्तित्वादनुभवतिवदिति भावः ।
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-191.
“*कर्तृस्थभावकाश्चेति । अचः `कर्तृयकी’त्यत्र जायते स्वयमेवेत्युदाहृअतं, तस्य ण्यर्थवृत्तित्वात्कर्मस्थभावकत्वमिति नास्ति तेनास्य विरोधः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-192.
“*आभीक्षण्य इति निवृत्तमिति ।” पूर्वविप्रतिषेधश्चेति भावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-193.
“*तृन्नादीनामिति । आक्रोश” इत्यत्र यद्यच्कौ नानुवर्तेते, ततोऽयं संशयः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-194.
“*एकहलादाविति ।” पूरयितव्यस्यास्ति संज्ञा उदपानमिति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-195.
“*चादिभिरिति” । प्रतिषेधस्याप्राप्तविभाषा स्थाप्यते, विधेस्तु प्राप्तविभाषैव ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-196.
“*यङीति वेति”। यङ्लुकि कृतेऽजादिः परः संभवति-जेगिल इति । अत्र च पचाद्यचि `यङोऽचि चे’ति यङ्लुक्॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-197.
“*प्राप्ते चेति”। प्रकृतानुवृत्त्या प्राप्तविभाषा व्यवतिष्ठते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-198.
“*अन्यत्र वेति ।” विप्रवदन्ति शकुनय इत्यत्र पूर्वविप्रतिषेधश्च यदीति भावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-199.
“*विभाषोपपदेनेति”। कर्त्रभिप्राये क्रियाफले विषये आत्मनेपदं भवति-इत्येवं प्राप्तविभाषा व्यवतिष्ठते ॥ अथ तु तदर्थद्योतनायात्मनेपदं क्रियते, तदोपपदेनैव द्योतितत्वादप्राप्तविभाषा स्यात् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-200.
“*गतिबुद्ध्वीति” । तत्र विपूर्वो हरतिर्गत्यर्थः, अभ्यवपूर्वः प्रत्यवसानार्थः । करोतिः क्वचिदकर्मकः, यथा-विकुर्वते सैन्धवा इति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-201.
“*यदीति वेति”। प्रतिषेधे प्राप्ते इत्यर्थः । लुट्तु यदि प्रतिषिद्धः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-202.
“*दैवयज्ञीत्यादि” न विचारितम्, तस्माद्दिङ्मात्रप्रदर्शनार्थं कृतम् ॥ 44 ॥
इत्युपाध्याय "\*जैयट"पुत्र"कैयट"कृते म्हाभाष्य"प्रदीपे"
प्रथमस्याध्यायस्य प्रथमे पादे "\*षष्ट"माह्निकम् ॥
क
“*प्रत्ययस्यां ॥ 61 ॥ प्रत्ययग्रहणमिति ।” लुगादिविधौ क्वचित्प्रत्ययः साक्षान्निर्दिश्यते, क्वचिदनुवर्तते, क्वचित्सामर्थ्यात्प्रतीयत इति प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-14.
“*अप्रत्ययस्येति ।” अविद्यमानः प्रत्ययो यस्मिन्नदर्शने इति तदप्रत्ययम् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-15.
“*गोरपीति ।” पञ्चेन्द्र इत्यादौ तु `निर्दिश्यमानस्यादेशा भवन्ती’ति वचनात् स्त्रीप्रत्ययस्यैव लुक् भविष्यति, न तदन्तस्य । `गोरतद्धितलुकी’त्यत्र गोर्लुकि कृते पञ्चगुरित्यादौ गोशब्दान्तत्वाभावात्समासान्ताप्राप्ता `वतद्धितलुकी’ति प्रतिषेधोऽनर्थकः स्यादिति चेत् ॥ कृते समासान्ते लुक् स्यादित्यर्थवानेव प्रतिषेधः ॥ ननु स्वभावतोऽप्रवृत्तिः ॥ नैष दोषः । शास्त्रानुसारिभिरस्यार्थस्य दुर्ज्ञानत्वात् ॥ “*प्रकृतेरपीति ।” समुदायस्य षष्ठीनिर्देशात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-16.
“*योगविभागादिति ।” एकयोगनिर्दिष्ठानामप्येकदेशानुवृत्तिरित्येतत् प्रकारान्तरेण प्रतिपाद्यते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-17.
“*विशिष्टनिर्देशादिति ।” छयतावेवात्र निर्देष्ठव्यावित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-18.
“*उणादय इति” । `अतः कृकमिकंसकुम्भे’ति कंसशब्दस्य भेदेनोपादानात् क्वचिदुणादयो व्युत्पत्तिकार्यं न लभन्त इत्यर्थः । यञञोस्तु विधानसामर्थ्याल्लुगभावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-19.
“*स एषोऽनन्यार्थ इति ।” प्रकृतिनिवृत्यर्थ एव, न तु प्रत्ययान्तरनिवृत्यर्थोऽपीत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-20.
“*षष्ठीनिर्देशार्थं त्विति ।” विशिष्टस्य षष्ठ्यर्थस्य स्थानियोगत्वनिर्देशार्थमित्यर्थः ॥ असति प्रत्ययस्येत्येतस्मिन् यः कश्चिदानन्तर्यादिः सम्बन्धः स्यात् । ततश्च `जनपदे लुवि’ति पञ्चालः शोभना इत्यादौ जनपदवाचिनोऽनन्तरस्य शोभनादेरपि लुप् स्यात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-21.
“*सर्वादेशार्थ वेति ।” षष्ठीनिर्देशार्थत्वं स्थितमेवेति वार्तिककारेण विकल्पार्थो वाशब्दः प्रयुक्तः ॥ `आगस्त्यकौण्डिन्ययो’रित्यत्र हि यदि लुगनुवर्तते, तदैकैकस्य त्रय आदेशाः । `अथ नानुवर्तते’, द्वावेवादेशौ विधीयेते । तदाऽगस्त्यादेशेन सर्वत्र भाव्यमिति ‘अगस्तीयाश्छात्राः’ इति न सिध्यति, अवृद्धत्वात् प्रकृतेः । ‘प्रत्ययस्य’ इति तूच्यमाने `गोत्रेऽलुगची’ति लुकि प्रतिषिद्धे संनियोगशिष्टत्वात् लुगभावादगस्त्यादेशाभावादागस्तीया इति सिध्यतीति षष्ठीनिर्देशार्थ प्रत्ययग्रहणम् ॥ भाष्यकारस्तु तर्ह्यर्थ वाशब्दं व्याचक्षाणः षष्ठी निर्देशार्थत्वं नेच्छति । स ह्येवं मन्यते -`अगस्त्यकौण्डिन्ययो’रित्यत्र `यस्कादिभ्यो गोत्र’ इत्यतो गोत्रग्रहणमनुवर्तते, `लुगि’ति च । तेनागस्त्यकौण्डिन्ययोर्यो गोत्रे विहितस्तस्य लुक् । परिशिष्टस्य तु प्रकृतिभागस्य यथासंख्यमगस्तिकुण्डिनचावादेशाविति सूत्रार्थः ॥ “*अथ क्रियमाणेऽपीति” । `अलोऽन्त्यस्ये’ति वचनात् प्रत्ययस्य योऽन्त्यस्तस्यैव प्राप्नुवन्तीति भावः ॥ “*वचनप्रामाण्यादिति” । `प्रत्ययस्ये’ति वचनसामर्थ्याद् `अलोऽन्त्यस्ये"ति बाध्यते । “*वचनप्रामाण्या"दिति ब्रुवतो वार्तिककारस्यापि षष्ठीनिर्देशार्थत्वमनवस्थितम् । तदर्थत्वे हि प्रत्ययस्येत्यस्य चरितार्थत्वात्कथमलोऽन्त्यविधिर्बाध्यते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-22.
“*यदयमिति ।” विपर्ययस्तु न प्रकल्प्यते । अनुपसंजातविरोधत्वाल्लोपस्तावदन्त्यादेशः स्थितः, ततो लुगारभ्यमाणो यद्यन्त्यस्य स्याल्लोपानुवृत्यैव सिद्धत्वाल्लुकं न विदध्यात् ॥ विहितस्तु सर्वदेशत्वस्य ज्ञापकः संपद्यते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-23.
“*द्वितीयमिति ।” लोपविशेषणापेक्षया द्वितीयं, पाठापेक्षया तु तृतीयं भवति ॥ “*एकदेशलोप इति ।” अवयवक्रिया समुदायेऽपि व्यपदिश्यते -यथा पटो दग्ध इति । अवयवे हि पटाख्योऽवयवी समवेत इति तस्याप्यसौ दाहः । न त्वयं गौणो व्यपदेशः । गौणत्वे हि सति मुख्यस्यैव संप्रत्ययान्न कर्तव्यमेव प्रत्ययग्रहणं स्यात् ॥ “*आधीतेति ।” परत्वादुपधालोपे कृते पुनःप्रसङ्गविज्ञानादनुनासिकलोपः स्यात् ॥ 61 ॥
“*प्रत्ययं ॥ 62 ॥ प्रत्ययग्रहणमिति ।” प्रत्ययनिमित्तं कार्यं लोपे भवतीत्युक्ते प्रत्यासत्या प्रत्ययस्यैव लोप इति विज्ञास्यत इति भावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-25.
“*सौरथीति ।” प्रत्ययस्य लक्षणं=दर्शनं=प्रादुर्भाव इत्यर्थं परिकल्प्यैतदुच्यते । सुरथस्य विहतस्य चापत्यं गोत्रं स्त्रीति अत इञि कृते मकारनकारयोर्भावे यथा गुरूपोत्तमत्वात् ष्यङ् भवति, एवं लोपोऽपि स्यात् । प्रत्ययग्रहणे तु सति विरुद्धत्वान्नायमर्थो भवति- प्रत्ययलोपे तस्यैव पुनः प्रादुर्भाव इति । एवं हि लोपविधानमर्थकं स्यात् । तस्मात् -प्रत्ययनिमित्तं कार्यं प्रत्ययलोपे भवतीति वाक्यार्थ आश्रीयते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-26.
“*नैवमिति ।” सन्देहेऽपि व्याख्यानात्करणसाधनो लक्षणशब्द आश्रयिष्यते । अन्यथा क्रियमाणेऽपि प्रत्ययग्रहणे भावसाधनाशङ्का न निवर्तते-प्रत्ययलोपे प्रत्यान्तरस्य प्रादुर्भाव इति । यथा-ग्रामणीरिति क्विलोपे स्वाद्युत्पत्तिः । ततश्चाधोगित्यत्र पदस्Mज्ञा न स्यादिति करणसाधनत्वे व्याख्यानमेव शरणमिति भावः । लक्षणशब्दोपादानसामर्थ्याद्वा करणसाधनो लक्षणशब्दः । अन्यथा ‘लोपे प्रत्ययः’ इत्येवं वक्तव्यं स्यात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-27.
“*सति प्रत्यय इति ।” प्रत्ययशब्दोऽत्र लुप्तसप्तमीको निर्दिश्यते । तेन प्रत्यये सति यत्कार्यं दृष्टं तल्लोपेऽपि भवति । न च ग्रामणीरित्यत्र क्विपि सति तुक् दृष्टः, ह्रस्वाभावात् । कृते क्विलोपे ह्रस्वत्वे च तुक्प्राप्तिः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-28.
“*जगदिति । धुतिगमिजुहोत्यादीनां द्वेचे"ति गमोः क्विप् । अत्रान्तरङ्गत्वात्पूर्वं विलोपः । `गमः क्वा’वित्ययं हि लोपोऽङ्गविशेषापेख्षत्वाद्बहिरङ्गः । भिन्नविषयत्वाच्च `येन नाप्राप्त-’ इति न्यायो न भवति । सति त्वस्मिन्न्याये नैव विलोपः स्यात् । तस्मात्सति क्विपि नाऽत्र तुकः प्राप्तिः, अपि तु विलोपे कृते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-29.
“*अन्यतरदिति ।” एकमेव प्रत्ययग्रहणं सामर्थ्यात् कृत्स्नप्रत्ययलोपप्रतिपादने समर्थं ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-30.
“*वर्णलख्षणमिति ।” `प्रत्ययलोपे तल्लक्षणं’ इत्युच्यमाने प्रत्ययस्य यत्र कार्ये निमित्तभावः प्रत्ययस्वरूपाऽऽश्रयेण वर्णरूपताऽऽश्रयेण वा तत्सर्वं स्यात्, सर्वनाम्नो वस्तुमात्रपरामर्शित्वात् । प्रत्ययग्रहणे सति प्रत्ययनिमित्तमेव कार्यं प्रत्यलोपे भवति, न वर्णरूपतानिमित्तम् ॥ “*रैकुलमिति ।” अवयवद्वारेणात्र प्रत्ययस्याप्यायादेशं प्रति निमित्तत्वमस्त्येव ।
प्रत्ययाश्रयस्त्वायादेशो न भवति-इति न प्रवर्तते । अनेनैव न्यायेन `न धातुलोप आर्धधातुक’ इति `धिन्विकृण्व्योर्विचि’ `लोपो व्योर्वली’ति वलोपस्य
वल्निमित्तत्वादार्धधातुकनिमित्तत्वाभावाद्गुणनिषेधो न भवति । तेन-`सुधे’ `सुकर्’ इति, न तु सुधी सुधिनौ सुकीरिति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-31.
“*किमर्थमिति ।” स्थनिवद्भावेन सिद्धमिति भावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-32.
“*सदन्वाख्यानादिति ।” शास्त्रं कर्तृ करणं वा शेषत्वेन विवक्षितमिति षष्ठी कृता ॥ “*सत् शास्त्रेणेति ।” शास्त्रेण कर्णेनाचार्यः-स्मर्ता सत्-विद्य्मानं वस्तुनिमित्तत्वेनान्वाचष्टे ॥ “*सतो वेति ।” शस्त्रस्यैवाविच्छेदेन प्रवर्तमानस्य स्व्तन्त्रत्वमन्वाख्याने-इति पूर्वस्माद्व्याख्यानादस्य विशेषः ॥ न च स्थानिवद्भावेन सिध्यति । अतृणेडित्यादावल्विधित्वात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-33.
“*लुक्युपसंख्यानमिति । तक्रकौण्डिन्य-“न्यायेन लोपसंज्ञाया लुगादिसंज्ञाभिर्बाधनादिति भावः । लुग्रहणस्योपलक्षणार्थत्वात् श्लुलुपावपि गृह्येते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-34.
“*न वाऽदर्शनस्येति ।” अदर्शनमात्रस्य लोपसंज्ञा विधीयमाना लुगादिसंज्ञाविषयमत्यवगाहते । न च संज्ञानां बाध्यबाधकभावः, समावेशदर्शनात्तासामिति `आकडार-‘सूत्रे वक्ष्यते । लोपस्य संज्ञि-लोपसंज्ञि, तस्य भावो लोपसंज्ञित्वं, तस्मादित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-35.
“*प्रत्ययादर्शनं त्विति ।” लुक्श्लुलुप्संज्ञानां सङ्करः प्राप्नोतीत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-36.
“*तत्र लुकि श्लुविधिरिति ।” उपलक्षणं चैतत् । तेन श्लावपि लुग्विधिः प्राप्नोति-जुहोतीति, “*उतोवृद्धिर्लुकि हली"ति ॥ लुप्यपि लुग्विधिप्रसङ्गः-हरीतकीति तथा लुकि लुप्विधिः-लवणः सूप इति , युक्तवद्भावः स्यात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-37.
“*न वा पृथगिति ।” एकयैव संज्ञया प्रदेशवाक्येषु संज्ञिप्रत्यायने सिद्धेऽनेकसंज्ञाविधानसामर्थ्यात्तद्भावितिअग्रहणं विज्ञायते ।
तत्राश्रितस्वरूपव्यापारा वा लुगादय आश्रीयन्ते, आवृत्तिर्वा लुगादिशब्दानामाश्रीयत इति तद्भावितग्रहणं सिध्यति ॥ विधिप्रदेशेषु
चेतरेतराश्रयदोषानवतारः,नित्यशब्दाश्रयणाद्भाविसंज्ञाविज्ञानाद्वा ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-38.
“*यथैवेति ।” तिसृणां संज्ञानां विधानसामर्थ्यात्परस्परविषयावगाहनं तासां मा भूत्, लोपसंज्ञाविषये तु
ताः प्रवर्तेरन् ॥ “*गोमतीभूतेति ।” च्वेर्लोपे कृते लुक्संज्ञायां सत्यां “*लुक् तद्धितलुकी"ति लुक् प्राप्नोति । पुंवद्भावस्त्वत्र न भवति, वैयधिकरण्यात् । महद्भूता ब्राह्मणीत्यत्र तु भवति, सामानाधिअक्रण्यात् । नित्यत्वाद्धि शब्दानां क्वचिद्विकारस्य जनिकर्तृत्वं, क्वचित्प्रकृतेः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-39.
“*ननु चात्रापीति ।” लुगादिसंज्ञानां भेदेनोपादानात्तद्भावितग्रहणमित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-40.
“*अस्त्यन्यदिति ।” प्रत्ययाप्रत्ययादर्शनस्य लोपसंज्ञा यथा स्यादिति ॥ “*लोपमात्रे मा भूदिति ।” यथा गोमतीभूतेति च्वेर्लोपे कृते `लुक्तद्धितलुकी’ति न भवति । तस्माल्लोपसंज्ञायां नास्ति तद्भावितग्रहणम् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-41.
“*सतो निमित्तभावादिति ।” निमित्तशब्देन निमित्तत्वमुच्यते । तेन यस्य सतः कार्यं प्रति निमित्तत्वं नाभूत्, स लुप्तोऽत्यनिमित्तं स्यादित्यर्थः ॥ “*राज्ञ इति ।” सति ङसि भसंज्ञायां `स्वादिष्वि’ति पदसंज्ञा बाधितेति नलोपो नाभूत्, अल्लोपस्चाभूदिति लुप्तेऽपितस्मिन्नलोपो न स्यात्, अल्लोपश्च स्यात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-42.
“*अस्तु तस्या इति ।” द्वे चात्र पदसंज्ञे । एका `स्वादिष्वि’ति अवयवस्य, सा च भस्Mज्ञया बाधिता द्वितीया सुबन्तत्वेन समुदायस्य, सा च लुप्तेऽपि स्थितैव अल्लोपस्तु `न लुमताङ्गस्ये’ति प्रतिषेधान्न भवति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-43.
“*सत्येतदिति ।” कालविप्रकर्षप्रतिपादनायानद्य्तनप्रत्ययप्रयोगः । राज्ञ इत्यत्रावधिभेदाद्भसंज्ञायाऽव्यवस्यैव पदसंज्ञा बाध्यते, न समुदायस्य सुबन्तत्वनिमित्ता । लुप्ते तु प्रत्ययेऽवधिभेदाभावात्प्रत्यय्लक्षणेन प्राप्तया भस्Mज्ञया द्वे अपि पदसंज्ञे बाधितव्ये । एकाऽपवादत्वेन, द्वितीया परत्वेनेति भावः ॥ “*अनयेति ।” पदसंज्ञाद्वयमनेन दर्शितम् । भसंज्ञा प्रत्यय्लक्षणेन वर्णाश्रयाऽपि भवति । यथा-अतृणेडितीमागमः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-44.
“*तुग्दीर्घत्वयोस्चेति ।” अनेनैव प्रत्ययनिमित्तानि कार्याणि लुप्तेऽपि प्रत्यय् विधीयन्ते-इति
क्रिमाभावात्पौर्वापर्यं न प्रकल्प्यते । कार्यस्य प्रादान्यान्नानेन शास्त्रव्यपदेशौ विधीयते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-45.
“*सिद्धं त्विति ।” अन्यो भावः-अन्यद्वस्तु स्थान्यपेक्षयाऽऽदेशः, अन्यभाव एवान्यभाव्यमिति स्वार्थे ष्यञ् ।
तत्र परिवीरिति स्थानिनः क्विपो या संज्ञा=यो व्यपदेशः-पित् कृत्प्रत्यय इत्यादिः, स लोपस्यानेन विधीयते । ततस्तन्निबन्धनं शास्त्रं प्रवर्तत इति सिद्धो विप्रतिषेधः ॥ “*सत्तामात्रमिति ।” कृदादिव्यपदेशस्येत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-46.
“*यद्येवमिति ।” हन्तिं स्तरूपेणोपादायात्मनेपदं विधीयते । न तु कांचित्संज्ञामाश्रित्येति भावः ॥ “*न हीति “। यद्यपि धातुसंज्ञाऽस्ति, तथापि न तदुपादानेनात्मनेपदं विधीयते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-47.
“*हन्तेरपीति” । `आङो यमहन-’ इति सूत्रोपात्तोहन्तिः संज्ञा, प्रयोगस्थस्तु संज्ञीति विधेर्हन्तिसंज्ञाऽतिदेक्ष्यते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-48.
“*चित्रायां जातेति । `चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्यान’मित्यणो लुक् ॥ `टिड्ढाणञित्य’त्रात इत्यधिकारात् ङीपोऽल्विधित्वम् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-49.
“*वतण्डीति ।” यथा-आवट्यायनीति चापं बाधित्वा सर्वत्रग्रहणापकर्षात् ष्फो भवति, एवं शार्ङ्गरवादिपाठात् प्राप्तं ङीनं बाधित्वा प्राचां ष्पः स्यात् ॥ अत इत्यधिकारादल्विधिः ष्फः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-50.
“*गव्यतीति” । `औतोऽम्शसो’रित्यत्राचीत्यनुवर्तनादल्विधिरात्त्वम् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-51.
“*चर्मन्निति” । `सुपां सुलुगि’ति ङेर्लुक् । अत्र भसंज्ञाया अभावान्नलोपः प्राप्नोतीति `न ङिसंबुद्ध्योरि’ति वक्त्यव्यं जायते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-52.
“*परत्वाद्दीर्घत्वमिति” । सति प्रत्यये यत्कार्यं दृष्टं तुल्लुप्तेऽपि भवतीति सूत्रार्थः । परिवीयेत्यादौ च सति
प्रत्यये दीर्घो दृष्टः, न तुगिति परिवीरित्यत्रापि दीर्घ एव भवति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-53.
“*प्रयोजनमिति ।” यद्यप्यल्विध्यर्थमतृणेडित्यादौ, तथापि विशेषविहितत्वान्नुमादयोऽप्यस्यैवोदाहरणानीति
भावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-54.
“*अनड्वन्निति ।” पूर्वं संबुद्धिलोपमाश्रित्यैतदुक्तम् ॥ यदि तु विशेषविहितत्वात् `अम् संबुद्धौ’ इति पूर्वमम् प्रवर्तते, तदा संबुद्धिलोपो न स्यात् ॥
“*एय इति “। इयर्तेर्लङ्-तिप्-शपः श्लः द्विर्वचनम् । `अर्तिपिपर्त्योस्चे’तीत्वम्, `अभ्यासस्यासवर्ण’ इतीयङ् ॥
“*औन इति ।” अन्देर्लङ्-सिप्-श्नम्-`श्नान्नलोपः दस्चे’ति रुत्वम् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-55.
“*न च लोप इति ।” दिशिरुच्चारणक्रियः । न च लोप उच्चार्यते, अभावरूपत्वात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-56.
“*लोपोऽपीति ।” प्रतिपादनक्रियोऽत्र दिशिरिति भावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-57.
“*अण्योऽकार इति ।” अकारेणाणन्तं न विशेष्यते, किं तर्ह्यणेव, सर्वश्चाण् अकार एवेति विशेषणसामर्थ्यात् `श्रूयमाणाकाररूपादणः’ इति विज्ञायते ॥ अथवा-अण्योऽकार इति अणाऽकारो विशेष्यत इति वर्णनिमित्तो ङीप्, न तु प्रत्ययनिमित्त इति प्रत्ययलक्षणाभावः ॥ “*यञ् योऽकार इति ।” अकारावयव इत्यर्थः । अथवा-यञवयवे यञ्शब्दोऽत्र वर्तते, यञवयवो योऽकार इत्यर्थः ॥ पूर्ववदेतदपि व्याख्येयम् ॥ “*अच्यमीति ।” अच् प्रधानं तद्विशेषणममिति तदादिविध्यभावः । तत्र वर्णनिमित्तमात्वम्, न प्रत्ययनिमित्तमिति दोषाभावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-58.
“*क्रियत एतदिति । त्वया ज्ञापनार्थमवश्यं वक्तव्यमिति भावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-59.
“*शास इत्त्व इति ।” कृतेऽप्यस्मिन् सूत्रे नियमार्थमेतद्वक्तव्यं ‘अशास्त’ इत्यादौ मा भूत् । अकृते तु
विध्यर्थम् । `आशास्ते’ इत्यादौ तु न भवति, `शासु अनुशिष्टा’वित्यस्यैव तत्र ग्रहणात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-60.
“*प्रत्ययं गृहीत्वेति ।” स्थानिवद्भावेन सिद्धे सत्ययं योगो नियमार्थः । प्रत्यय एव यस्य लक्षणं
तत्प्रत्ययलोपे यथा स्यात् ॥ ‘सोर्मनसी’ इत्यत्र तु `अनिनस्मन्ग्रहणानि’ चेति वचनादस् प्रत्ययश्चाप्रत्यय्स्च गृह्यते इति सुदृषदित्यत्र स्थानिवद्भावाभावादुत्तरपदाद्युदात्तत्वाभावे `नञ्सुभ्या’मित्यन्तोदात्तवं भवति । तत्र `चोत्तरपदादि’ रित्यधिकारादसन्तमुत्तरपदं गृह्यते इति सुद्षदित्यत्र स्थानिवद्भावादसन्तत्वमुत्तरपदस्य स्यात् ॥ 62 ॥
“*न लुमताऽङ्गस्य ॥ 63 ॥ लुमतीति ।” लुमत्संज्ञया प्रतिपादितमदर्शनं -लुमत्। तत्र यः प्रतिषेधः, तस्मिन्नित्यर्थः ॥ “*एकपदस्वरस्येति ।” एकपदाश्रयो यः स्वरः, तस्येत्यर्थः ॥ यस्तु `पदस्य पदादि’ति पदद्वयाश्रयः स्वरः, तत्र प्रत्ययलक्षणं भवत्येव । दधि तिष्टति-इति `तिङ्ङतिङ’ इति निघाथः ॥ `अङ्गस्ये’त्यङ्गाधिकारनिर्देशात् ञ्निति कित्स्वरस्य चानाङ्गत्वात्प्रतिषेधस्याप्राप्तिरिति भावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-62.
“*सर्वस्तोम इति । `सर्वस्य सुपी’ति यदाद्युदात्तत्वं तदेव च बहुव्रीहौ प्रकृत्येति विधीयत इत्येकपदस्वरो भवत्येव ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-63.
“*सर्पिरिति ।” सर्पिःशब्दोऽन्तोदात्तः प्रत्ययस्वरेण, घृतादित्वाद्वा । सप्तशब्दोऽपि घृतादित्वादन्तोदात्तः । नित्स्वरेण त्वाद्युदात्तत्वे विशेषो न स्यात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-64.
“*मा हि दातामिति । `गातिस्थाघ्वि’ति सिचो लुक्, लेरेव लुकि विधातव्ये सिचो लुग्विधानं प्रत्ययलक्षणार्थम् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-65.
“*ञिनिकिलुकीति ।” इकार उच्चारणार्थः । ञ्नित्कितां प्रत्ययानां लुकि कृते स्वरा निवर्त्यमानतया प्रयोजनमिति पदानां संबन्धः ॥ भाष्यकारस्तु वस्त्वर्थं व्याचष्टे-”*ञ्निकित्स्वरा इति ।” प्रतिषेधमित्यध्याहारः ॥ “*उष्ट्रग्रीवावामरजुरिति ।” `देवपथादि’त्वात्कनो लुप् । असंज्ञायां चेदमुदाहरणम् । संज्ञायां तु `संज्ञायामुपमान’मिति भवितव्यमाहुदात्तत्वेन ॥ “*अत्रय इति ।” राशदिभ्यां त्रिप्, ‘अदेस्त्रिनिश्च’ इति त्रिबन्तोऽत्रिशब्द आद्युदात्तः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-66.
“*पथिप्रियः, मथिप्रिय इति ।” पूर्वपदप्रकृतिस्वरेणान्तोदात्तो पथमथिशब्दौ भवतः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-67.
“*अहर्ददातीति ।” `असुपी’ति प्रसज्यप्रतिषेधः । पर्युदासे तु दीर्घाहा निदाघ इत्यत्रापि सुप्सदृशे निदाघशब्दे परतो रत्वं स्यात् । रुत्वं चेष्यते । लोपशब्देन सोर्लुप्तत्वात्प्रत्ययलक्षणेन सुपि नेति रत्वप्रतिषेधादुत्वे यत्वे तस्य च लोपे दीर्घाहा निदाघ इति सिध्यति ॥ लुकि तु प्रत्ययलक्षणप्रतिषेधात् रत्वे सति उत्वाभावादहर्ददातीत्यादि सिध्यति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-68.
“*उत्तरपदत्वे चेति ।” उत्तरपदम् उत्तरशब्देनोच्यते, पदैकदेशलोपात् । तेनोत्तरपदस्य पदत्वे=पदव्यपदेशे कर्तव्ये प्रत्ययलक्षणं न भवतीत्यर्थः ॥ “*परमवाचेति ।” समासार्था या विभक्तिः कृता, तां प्रत्यलक्षणेनाश्रित्य पदत्वनिबन्धनानि कृत्वादीनि प्राप्नुवन्ति । भसंज्ञा तु “*यस्मात् यजादिविधि"रिति समुदायस्यैव, न त्ववयवस्य ॥ “*दधिसेचाविति ।” दध्नः सेचाविति षष्ठीसमासः । उपपदसमासे तु प्राक्सुबुत्पत्तेः समासविधानात्सेच्शब्दस्य पदसंज्ञाया अभावात्पदादित्वं सकारस्य न स्यात् । अनभिधानात् सोपपदाद्विजभावाददिषेचावित्यादिप्रयोगाभावात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-69.
“*कर्णो वर्णलक्षणादिति ।” नन्वपदादिविधावित्युच्यते, स्वरश्चाऽयं पदादिविधिः । ककारोऽत्रातिः, न त्वकार इत्यदोषः । स्वरविधौ व्यञ्जनमविद्यमानवत्, न त्वादिव्यपदेशो । सूत्रं चासमासार्थ स्यात् । कर्णशब्दादर्श आदित्वादचि कृते `शुक्लः कर्णः’ इत्याद्युदात्तत्वं यथा स्यात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-70.
“*यदि पुनरिति ।” तेन पूर्वस्मिन् परत्र च भवत्येव प्रत्ययलक्षणम् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-71.
“*राजकुमार्याविति ।” `इकोऽसवर्णे’त्यत्रैङः पदान्तादतीत्यतः पदान्तग्रहणमनुवर्तते । तत्र प्रत्ययलक्षणेन पदान्तत्वाच्छाकलप्रसङ्गः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-72. इइइइइइइइइइइइइइ
“*दधि अधुनेति ।” अधुनाप्रत्यय इदमोविधीयते । तत `इदम इश्’ । `1यस्येति चे’ति लोपः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-72.
“*यस्माद्य इति ।” प्रत्यासत्येति भावः ॥ राजकुमार्यावित्यत्र यद्यपि समुदायाद्विहितः, तथाप्यवयवादत्यसौ विहित इति बुद्धिर्भवत्येव । समुदायद्विर्वचनेऽवयवद्विर्वचनबुद्धिवत् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-73.
“*उत्त्वमिति ।” उत्त्वविधा ‘वेङः पदान्तादि’ति पदाधिकारः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-74.
“*वचनादिति ।” समासे सति उत्तरपदं भवति । न च कर्णशब्दोऽच्प्रत्ययान्तोऽस्ति, अर्शआदिषु हि `स्वाङ्गाद्धीना’दिति पठ्यते । तेन खञ्जादिभ्य एव हीनस्वाङ्गवाचिभ्यो भवति । न च कर्णशब्दो
हीनस्वाङ्गवाची ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-75.
“*तत्तर्हीति ।” उत्तरपदत्वे चापदादि विधावित्येतत् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-76.
“*यचि भमिति ।” ततश्च परमवाचेत्यत्र वाक्शब्दस्य भत्वात्पदत्वाभावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-77.
“*इह तर्हीति ।” ‘असर्वनामस्थाने’ इति प्रसज्यप्रतिषेधं मन्यते । ततश्च सर्वनामस्थाने परतो यस्मात् स्वादिविधिस्तदादि सुबन्तं च पदसंज्ञं न भवतीति प्रत्ययलक्षणेन सर्वनामस्थानपरत्वात् पदत्वप्रतिषेधात् कुत्वाप्राप्तिः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-78.
“*सत्येतदिति ।” अवधिभेदात्संज्ञिनां भेदात् ॥ “*बलीयांस इति “। विध्युन्मूलनरूपत्वात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-79.
“*एवं तर्हीति ।” योगविभागे सति सर्वाप्राप्तिः प्रातषिद्ध्यत इति दोषाभावः ॥ ‘असर्वनामस्थाने’ इति नञः क्रियापदेन सम्बन्धादुत्तर्पदेनासम्बन्धः, यचीत्येतच्च सर्वनामस्थानविशेषणम् । तेनायमर्थो भवति-यजादौ सर्वनामस्थाने परतः पदसंज्ञा न भवतीति । हलादौ तु सुशब्दे भवत्येव । भाष्ये तु वस्तुमात्रमुपन्यस्तम् -”*सर्वनामस्थाने अयचीति ।” यजादौ सर्वनामस्थाने पदसंज्ञया निषेधात्सामर्थ्यादयमर्थः संपद्यते-अयजादौ सर्वनामस्थाने पदसंज्ञा भवतीति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-80.
“*वाक्यपदयोरिति । गौरित्यौकारो वाक्यान्तो न भवतीत्यदुतौ न भवतः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-81.
“*पदादादिरिति । पञ्चमी"ति योगविभागात्समासः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-82.
“*कथं बहुसेचाविति ।” समासाभावान्नोत्तरस्य पदत्वम्, नापि पूर्वस्य पदत्वम् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-83.
“*द्वन्द्वेऽन्त्यस्येति ।” उत्तरपदत्वे चेत्यनेनैव सिद्धे नियमार्थमिदम्-अन्त्यस्यैव-इति मध्यमपदस्यापि पूर्वपदापेक्षयोत्तरपदत्वसंभवात्प्रत्ययलक्षणाप्रतिषेधप्रसङ्गात् । मुख्ये तूत्तरपदे संभवति कथं मध्यमस्य ग्रहणं स्यादिति चिन्त्यमेतत् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-84.
“*आकारप्रकरणादिति ।” आकारस्य नियमार्यत्वेन प्रस्तावादित्यर्थः । अथवाऽऽकारे प्रकरणात्-”*आत” इत्यत्र सिचः प्रकृतत्वादित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-85.
“*इति युष्मत्पुत्र इति ।” पदादुत्तरयोर्युष्मदस्मदोरादेशविधानादितिशब्दप्रयोगः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-86.
“*स्रूयमाणविभक्तिविशेषाणमिति । षष्ठीचतुर्थीद्वितीयास्वि"तेयेव सिद्धे स्थाग्रहणे सत्ययमार्थे भवति-तासु ये त्ववस्थिते युष्मदस्मति इति । स्रूयमाणासु चावस्थानं सम्भवति । न तु लुप्तासु, लुप्तस्याधारत्वासंभवात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-87.
“*अस्त्यन्यदिति ।” तिष्टतिरहानावपि वर्तते ॥ यथा-तपसि स्थितः तपो न जहातीत्यर्थः । तथाच समये निष्ट सुग्रीव समयं मा हासिरित्यर्थः । तेन सति स्थग्रहणे तत्सहितयोः कार्य विज्ञायते ॥ अथवा यथा रथस्थ आनीयतामिति सरथ आनीयते, तथा षष्ट्यादिसहितयोर्युष्मदस्मदोः कार्य भवतीति विज्ञायते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-88.
“*पदस्येति वर्तत इति ।” केवलयोः पदत्वाभावात्तदवयवं पदं गृह्यत इति भावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-89.
“*यत्र त्विति ।” अत्र हि ते एव पदे इति तयोरेवादेशप्रसङ्गः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-90.
“*सर्वग्रहणमपीति ।” अनेकालत्वात्सर्वदेशत्वे लब्धे सर्वग्रहणमनुवृत्तं षष्ट्यन्तं विपरिणम्यमानं सर्वस्य प्रयोगार्हस्य विभक्तयन्तस्य स्थानित्वमपगमयतीर्य्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-91.
“*याजयंचकारेति ।” परत्वात्तिनादोषु कृतेषु “*आम” इति लुकि प्रत्ययलक्षणेन याजयामित्यस्य तिङन्तत्वमिति पूर्वः पक्षः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-92.
“*आमि लिलोपादिति ।” नाप्राप्तेषु तिबादिषु लुगारभ्यमाणस्तेषं बाधकः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-93.
“*अङ्गाधिकार इति । अङ्गस्ये"ति स्वर्यते, तेनाङ्गाधिकारविहितं यत् कार्य तुल्लमता लुप्ते प्रत्यये न भवतीति सूत्रार्थे दोषोपन्यसः ॥ “*जिगमिषेति । अतो हे"रिति लुकि कृते “*गोमेरिट् परस्मैपदेष्वि"तीट् न प्राप्नोति ॥ “*संविवृत्सेति । न वृद्भवस्चतुर्भ्य” इतीट्प्रतिषेधः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-94.
“*क्रमेरि"ति कार्यसमीपे स्रूयमाणस्चकारः कार्यमेव समुच्चिनुयादित्यभिप्रायेणाह्-किं “*चेति” ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-95.
“*अदेश इति ।” कार्यस्य समुचेतव्यस्याभावात्साम्र्थ्यत्प्रकृतितमुच्चय इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-96.
“*किंचिच्चेति ।” ञिनिकित्स्वराः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-97.
“*न लुमता तस्मिन्निति ।” लुमता यो लुप्तः प्रत्ययस्तस्मिन्यत्कार्यमाङ्गमनाङ्गं वा तन्न भवतीत्यर्थः । अत्रय इत्यत्र स्वरो न भवति, तद्धितस्यैव कितोऽन्तोदात्तत्वविधानात् । लुकि कृते कार्यिणोऽसत्वात् । प्रत्ययलक्षणं हि यदन्यस्य कार्य तत्प्रत्ययलोपेऽपि भवति, न तु यत्प्रत्ययस्यैव कार्य तदपि । न हि वचनेनासतः कार्यित्वं शक्यते प्रतिपादयितुम् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-98.
“*तद्विषोषणमिति ।” विशेषण एवोपक्षीणत्वात्कार्य प्रति निमित्तभवो नास्तीत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-99.
“*हनिणिङादेशा इति ।” लुका लुङो विषयंत्पापहारात् विषयसत्पम्यास्रयणेऽत्यसिद्धिः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-100.
“*तद्विषोषणं लुङ्ग्रहणमिति ।” तेन लुङ्पर चिणि आदेशविधनम् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-101.
“*न लुमतेति । अङ्गस्ये"त्यस्य स्वरितत्वाप्रतिज्ञानात्तत्र लुमता लुप्ते प्रत्यये यदङ्गं तस्य यत्कार्य प्रत्ययास्रयमाङ्गमनाङ्गं वा तन्न भवतीत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-102.
“*कर्तव्योऽत्रेति ।” सर्वशब्दार्थ वचनं कर्तव्यम् ॥ ?? ॥
“*यनं ॥ ?? ॥ इह कस्मादिति ।” शबानुशासनप्रस्तावाच्छब्दस्वदरूपमिका विशेष्यत इत्यस्ति तदन्तस्य तदन्तस्य प्रसङ्गः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-213.
“*येऽनेकाल इति ।” ततस्च चयनजयनादिष्वयनमिति प्राप्नोति । प्रकरणादिवशाच्चाक्षदिष्विवार्थविशेषावगतिः स्थत् । “*निर्दिश्यमानस्यादेशा” इति अत्र नास्चितं परिहारान्तरविवक्षया ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-214.
“*यदि चैवेति ।” ‘आद्गुणः’ इत्यादौ । अत्र हि ‘आत्’ इत्यकारान्तो गृह्यते । ‘अचि’ इति चाजादिः । तेन स्वट्वेन्त्र इत्यादाववर्णन्तस्य समुदायस्याजादेस्च गुणप्रसङ्गाद्वैरूप्यप्रसङ्गः । षष्ट्यनिर्देशाच्च “*निर्दिश्यमानस्ये"त्यपि नास्ति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-215.
“*स्योन इति ।” सवोर्बहुलकादौणादिके नप्रत्यये गुणो वलोप ऊठ्-इति कार्यत्रयस्य प्रसङ्गः ।
तत्रापवादत्वादूठा वलोपो बाध्यते, गुणस्त्वन्तरङ्गत्वाद्धाध्यते । गुणो ह्यङ्गसंबन्धिनीमिग्लक्षणं ल्द्वीमुपधामार्धधातुकं चास्रयति, ऊठ् तु वकारान्तमङ्गमनुनासिकादिकं च प्रत्ययमित्यल्पापेक्षात्वादन्तरङ्गः । तत्र कृते गुणस्च प्राप्नोति यणादेशस्च । तत्र वर्णमात्रापेक्षत्वाधणदेशोऽन्तरङ्गः प्रवर्तते ।
नानास्रयत्वा”*द्वर्णादाङ्गं बलीय” इत्येतन्नास्ति । यत्रैकास्रये आङ्गवर्णे यथा कार इति घञास्रये यण्वृद्धी तत्रैवास्य प्रवृत्तिः । यदि च “*इको यणची"त्यत्र तदन्ततदादिविधी स्यातं तदा यणादेशास्यान्तरङ्गत्वाभावात् परत्वाद्गुणः स्यात् ॥
“*अन्तरङ्गलक्षणस्येति ।” असति तदन्ततदादिविधित्वे योऽन्तरङ्गस्तस्येत्यर्थः ॥ एवं बहिरङ्गलक्षणो गुण इति व्याख्येयम् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-216.
“*अल्विधिरिति । अलोऽन्त्यस्ये"त्यत्रापि तदन्तविधिसद्भावादत्यालन्तस्य समुदायस्य कारेण भव्यमिति धौः पन्था इत्यात्रा”*लोऽन्त्यस्या"देशो न प्राप्नोतीत्यर्थः । तत्र कदाचित्पथिन्नित्यस्याकारः स्यात्, कदाचित् थिन्नित्यस्य । “*अनेकाल् शित्सर्वस्ये"त्येतत्तु सर्वस्यैवेति निमार्थ स्यात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-217.
“*प्रकृत इति ।” प्रस्तुते । प्रसावस्च क्कचित्साक्षात् तदन्तविधिभाजो निर्देशात् यथा-”*ईदूदेद्द्विवचनं प्रगृह्य"मित्यत्र द्विवचनस्य । क्कचिदधिकारात् यथा-”*परजि"त्यत्र धातोः । क्कचिदाक्षेपात् यथा-”*इको ज्ञलि"त्यत्र सना धतोः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-218.
“*करण एषेति ।” विधिशब्दः कर्मसाधनः । येन करणेन कार्य विधीयते स शब्दस्तदन्तस्य संज्ञेत्यर्थः । तेन विशेषणेन विशेष्यस्य तदन्तविधिः नान्याथा । “*इको यणची"त्यादौ च विशेष्यस्यासन्निधानात्तदन्तविधेरभवः ॥ “*इस्त्यस्वरथपदातिभिरिति ।” बहुप्रकृतित्वाभावादेकवद्भावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-219.
“*ग्रहणोपाधीनामिति ।” गृह्यते=उच्चार्यत इति ग्रहणं, तस्य ये उपाधय इष्यन्ते ते तदन्तस्य संज्ञिनः प्राप्युवन्ति । संज्ञा हि संज्ञिप्रत्यायने विशेषाणाभावमापन्ना कथमात्मानो विशेषणसंबन्धामनुभवेत् ॥ “*सङ्कीर्णमिति ।” ओष्ट्यः पूर्वे यस्मादूकारान्ताद्धातोः, तस्योत्वमित्येव सूत्रार्थः स्यात् । अत्र च सुत्रार्थे धत्ववयवत्वमोष्ट्यस्यास्रयितुं न युज्यते, अवधित्वावयवित्वयोरेकस्य विरोधात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-220.
“*सिद्धं त्विति ।” वृद्धादिसंज्ञा गुणप्रधानभावानपेक्षा एव प्रदेशेषु संज्ञिनः प्रत्याययन्ति इयं तु संज्ञा गुणाप्रधानभवापेक्षात्वात्कार्यकाला । तत्रोतस्च प्रत्ययादित्यादौ विशेषणसंबन्धमनुभुय विशेष्येण संबन्धमुकारादिरनुभवतीति यथोक्तदोषाभवः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-221.
“*समासेति ।” स्रितादिभिः सुबन्तस्य विशेषणे सति प्राप्तस्तदन्तविधिः प्रतिरिध्यते । प्रतिषेधध्वारेण चैतत् प्रदर्श्यते-स्रितादयः प्राधन्येनास्रयितव्यः तद्विशेषणात्वेन च सुपा-इति ॥ “*कष्टं परमस्रित इति ।” स्रितान्तमेतत् सुबन्तं न भवतीति सुवुध्धन्तमुदाहर्तव्यम्-परमस्रितेति ।एतत् प्रत्ययलक्षणेन सुबन्तं भवति, स्रितान्तं च स्रूयते ॥ “*सौत्रनाडिरिति ।” अनुशतिकादित्वादुभयपदवृद्धिः । नडादीनि प्रातिपदिकेन विशेष्यन्त इति तदन्तविध्यबावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-222.
“*अतिमहतीति ।” महान्त्मतिक्रान्तेति प्रादिसमासः । तत्र यधपि गौरादिषु बृहत् महदिति पठ्यते, तथापि “*अनुपसर्जना"धिकारात् तत्र ङीष् न भवतीति उगिल्लक्षणो ङीप् प्रार्थते ॥ अन्ये तु गौरादिष्वन्योः प्रमादपाठ”*माहुः” । तथा चोक्तम् -”**नधजाधुदात्तत्वे बृहन्महसोरूपसंख्यान"मिति । ङीषि हि सति उदात्तस्य सिद्धत्वात् किं नधा उदात्तविधानेन ॥ “*अत इति ।” तदन्तविधावसति ञित्करणमुत्तरार्थ स्यात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-223.
“*सर्वक इति ।” अकचि कृते शीभावो न स्यात् ॥ “*उच्चकैरिति ।” तथैवाकचि कृते लुग्र स्यत् । उच्चकैरधीयानेति “*अव्ययानं प्रतिषेध” इति पराङ्गवद्भावनिषेधो न स्यत् ॥ उच्चकैर्मुखमिति “*नाव्ययदिक्शब्दे"ति मुखस्वरनिषेधो न स्यात् ॥ “*भिनत्तीति” धातोरन्त उदात्तो भवतीति उदात्तत्व्M न् स्यात् । प्रत्ययस्वरेण तु तत्सिध्यतीत्यभिनोत्रेऽति “*दस्चे"ति धातोर्विधीयमानं रूत्वं न स्यादिति वक्त्वयम् ॥
अन्ये त्वाहुः-भिनत्तीत्यत्रागमानुदात्तत्वेन प्रत्ययस्वरस्य वाधितत्वात् सतिशिष्टः स्वरो धातुस्वर एष्टव्यः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-224.
“*सिद्धं त्विति ।” सर्वशब्दस्य योऽन्तोऽकारः सोऽन्तः सर्वकशब्दस्य ॥ एवमन्यत्रापि योज्यम् ॥ तत्र “*सर्वनामानी"त्यन्वर्थसंज्ञाऽऽक्षिप्तः संज्ञी सर्वादिभिर्विशेष्यते, अव्ययसंज्ञाऽऽक्षितः स्वरादिभिः, धातुसंज्ञाभाजो वाप्रकारा भुवादिभिरिति भावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-225.
“*उत्तरपदलोप इति ।” वाचनिकोऽत्र लोपः, न तु सामर्थ्याद्गम्यमानार्थस्य निवृत्तिरित्यथ्हुः ॥ अन्ये तु वर्नयन्ति-यथाऽवयवदर्शनात् गौरित्यवयविविषया बुद्धिरूदेति तथेहापि सर्वशब्दस्य योऽवयोऽन्त्यस्तत्रैव सर्वशब्दविषयबुद्धत्यादात् तदवयवान्तः सर्वशब्दान्त इति व्यपदिश्यते ॥ अथवा-अवयवे समुदायरूपारोपात् तदन्तता भविष्यति । गौनेनापि स्य्र्थेन शस्रे व्यवहारो इश्यते- छत्रपास्व्र्यःशुल्दण्डाचिनशीतोष्णार्द्धह्लस्वादिषु ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-226.
“*तदेकदेशाविक्षानादिति ।” मध्यपातिनोऽक्कजादयस्तदेकदेशा इति तत्वबुद्धिं न विध्रान्ति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-227.
“*अक्तपरिमाणानामिति ।” परिच्छिन्नपरिमाणानामित्यर्थः ॥ “*यावदिति ।” अल्पमधिकं वेत्यर्थः ॥ “*इमास्चापीति ।” सर्वधुपादानेन संज्ञाः क्रियमाणाः कथं सर्वकादीनं भवन्ति । नित्या हि शब्दा विकारोपजनरहिता इति सर्वशब्दः सर्वकशब्द इति न वक्तुं शक्यत इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-228.
“*एवं तर्हिति ।” यधपि नित्याः शब्दास्तथापि प्रक्रियायामकजादयो विधीयमाना ज्ञापकादव्यतिरेककृत इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-229.
“*प्रयोजनमिति ।” अन्वर्थसंज्ञाऽऽक्षिप्तः संज्ञी सर्वादिभिर्विषेष्यते । अपूर्वे वा तदन्तविधिरूपसंख्यायते । एवमुत्तरत्र विज्ञेयम् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-230.
“*उपपदविधाविति ।” भयाठ्यादिभिः कर्मविशेष्यते । “*क्षेमप्रियमद्रेऽण् चे"त्यत्र तु कर्मणा क्षेमादय इति तदन्तविध्यभवः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-231.
“*प्रतिषेध इति । विधीयत इति-विधिः सामान्येन गृह्यत इति प्रतिषैधेऽपि तदन्तविधिर्भवति, स्वस्त्रादिभिः प्रातिपादकस्य विशेषणात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-232.
“*द्विपरमबिस्तेति ।” द्विगुना सन्निधापितमुत्तरपदं बिस्तादिभिर्विशेष्यत इति तदन्तविधिः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-234.
“*तस्य चेति । स्वं रूप"मित्यस्यानुवृत्तिं वार्तिककारो नेच्छति । तथा “*चाधन्तव"दित्यत्र “*तेन विधिस्तदन्तत्व” इति प्रयोजनमवोचत् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-233.
“*दितिग्रहणं चेति ।” परमदित्यादिभ्वस्त्वनभिधानात् ण्यो न भवति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-235.
“*व्यपदेशिवद्भावोऽप्रातिपदिकेनेति ।” मनु रोणीशब्दो न प्रातिपदिकं प्रत्ययान्तत्वात् ॥ “*नैष दोषः ।”
‘अप्रातिपदिपदिकेन’ इत्यत्र वाक्ये “*प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहण"मिति वचनात् स्त्रीप्रत्ययान्तैरपि व्यपदेशइवद्भावो न भवति । न च लिङ्गविशिष्टपरिभाषा स्वरूपविधिविषयैवेति “*प्रातिपदिक"सुत्रे वक्ष्यते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-236.
“*सपूर्वदिति ।” पूर्वग्रहणे त्यक्ते त्यक्ते “*सपूर्वादिनि"रित्युच्यमाने सर्वस्मात् सपूर्वत्प्राप्नोतीति कथं ज्ञापकमित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-237.
“*यच्चानुक्रान्तमिति ।” अप्रातिपदिकनेति तु निषेधो यत्रान्तग्रहणं सूत्र एवोपात्तं तत्र यथा -”*दशान्ताद्ड’ इति ‘दश अधिका अस्मिन् शते’ इत्यत्र न भवति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-238.
“*यद्विधविति ।” ठग्विधौ तु तदन्तविधेरभावात् ‘पारमहलिकः’ इति ठक् न भवति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-239.
“*ऋतोरिति ।” ऋतुवाचिः शब्दाधो वृद्धिमान्प्रत्ययस्तद्विधानेऽवयवानां तदन्तविधिः । शरदः पूर्वे भगः
पूर्वशरत्, तत्र भवमिति ऋतुलक्षणोऽण् तत्र वृद्धिमदिति वचनात् प्रावृष एण्य इत्यत्र तदन्तविधिर्न भवति । तन ऋत्वणेव भवति-”*पूर्वप्रावृषमि"ति ।
प्रावृट्धब्दो वर्षापर्यायः ॥ अव्यवानामिति किम् ? पूर्वस्यां शरदि-पौर्वशरदिकमित्यण् न भवति, “*कालाट्ठ्ञि’त्येव भवति । तत्र हि यथाकथञ्चित्कालवाचिनो गृह्यन्ते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-240.
“*द्विषष्ठीकमिति ।” द्वे षष्टी परिमाणमस्येति समासे कृते “*आर्हादि"ति ठक् न भवति, संख्यायास्तदन्तविधौ सति संख्यान्तादपि ठक्प्रतिषेधात् । तेन “*प्राग्वते"रिति ठञ् भवति । “*अध्यर्धपूर्वे"ति लुग्र भवति “*सोऽस्यंआशवस्राभृतय” इत्यतः ‘सोऽस्य’ इत्यनुवर्तमाने “*तदस्य परिमाणा’मित्यत्र पुनः प्रत्ययः । तद्विधानसामर्थ्याच्च पुनर्लुगभवः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-241.
“*पदाङ्गाधिकार इति ।” पदशब्देनोत्तरपदं गृह्यते, पदैकदेशलोपात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-242.
उत्तरपदेन साम्र्थ्यादाक्षिप्तं पूर्वपदमिष्टकादिभिर्विशोष्यते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-243.
“*महदिति ।” महदादिभिरङ्गं विशोष्यते ॥ “*स्वाप इति । न पूजनादि"ति समासान्तनिषेधः । “*अपो भी"ति तत्वमपि स्वद्भिरिति भवति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-244.
“*द्विपद इति । पादः पदि"त्यत्र पाच्छब्देनाङ्गं विशेष्यते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-245.
“*पादस्य पदेति ।” ननु पद्भावे तदनविधिरुक्तः । अयं तु पदभावाविधिः । नैष दोषः । पादशब्देन पूर्वपदस्य विशेषाणात्पद्भावे तदन्तविधिः । अनेनैव न्यायेन पदभावेऽपि तदन्तविधिप्रसङ्गः यथाभुतः पूर्वसूत्रे पादशबो निर्दिश्यते तथाभुतस्योत्तरसूत्रेऽनुवर्तनात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-246.
“*एवं तर्हिति ।” एवं च परमपादेन कषातीति विवक्षायां परमपादकाषीति भवति । यदा तु परमः पत्काषीति विवक्षा तदा परमपत्काषीति भवति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-247.
“*पादयतेरिति ।?” पदेर्ण्यन्तादिदित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-248.
‘परमपन्थाः’ इति क्कचित्पाठः स त्वयुक्तः, समासान्तविधानात् ॥ “*न पूजना"दित्यत्र “*पूजायं स्वतिग्रहण"मिति वचनान्नास्ति निषेधः । तस्मात्सूपन्था इति पाठः ॥ “*परमगौ"रित्ययमत्यपपाठः; “*गौरतद्वितलुकी"ति टज्विधानात् । तस्मात् सुगौरिति पाठः ।”*परमसखाया"विति बहुव्रीहिः । तत्पुरुषे तु टचा भव्यम् ॥ अनङ्लुच्छब्दस्येह प्रपञ्चार्थः पाठः । “*अनडुहो नुम्” इत्यत एव वचनादादित्यधिकाराद्माभोः कृतयोर्नुम्विधानात् नुम्विधौ तदन्तविधिना अमामोरपि तदन्तविधेराक्षेपात् ॥ अन्ये त्वाहुः-असतीह पुनर्ग्रहणे यत्रैव नुम् क्रियते तत्रैवामामौ तदन्तस्य स्याताम् । परमानड्वाह इत्यत्र त्वाम् न स्यादिति पुनः पाठः कर्तव्यः । पूर्वत्रापि पाठो नुमर्थः कर्तव्यः । अन्यथा-अमामोरेव तदन्तविधिः स्यात्, न नुम्विधौ ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-249.
“*अतिस इति ।” शोभनः स इत्यर्थः । उपसर्जने तु तच्छब्दर्थेऽतितदिति भवति ॥ “*बहुभस्त्रिकेति । नण्पूर्वाणामपी"ति न वक्तव्यं भवति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-250.
“*वर्णग्रहणं चेति ।” यध्येव”*मुगिद्वर्णग्रहणवर्ज"मित्यत्र किमर्थ वर्णग्रहणम् ? उच्यते-प्रत्ययविधौ तदन्तविधिप्रतिषेधाद्वर्णग्रहणे प्रत्ययविधौ प्रदिषेधाशञ्कानिवारणार्थम् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-251.
“*प्रत्ययग्रहणं चापञ्च्म्या इति । प्रत्ययग्रहणो यस्मात् स विहित” इति सिद्धे तदन्तविधावपञ्च्म्या इति प्रतिषेधार्था वचनम् । यत्र प”*ञ्च्म्य"न्तात् परः प्रत्ययः कार्यान्तरविधानाय परिगृह्यते तत्र त्दन्तविधिर्माभूत् । यथा-”*रदाभ्या"मित्यत्र । तत्र हि तदन्तविधौ रेफदकाराभ्यामुत्तरो यो निष्टान्तस्तस्य यस्तकारस्तस्य नत्वं स्यात् । न च “*संज्ञाविधौ प्रत्ययग्रहणो तदन्तविधिर्नास्तीति” निषेधावतषः । यत्र हि संज्ञाविधानं तत्रायं निषेधः । इह तु विष्टानुवादेन नत्वविधिः । संज्ञाविधौ तर्हि तदन्तविधिनिषेधस्य किं फलम् ? उच्यते - यदि संज्ञाविधौ प्रत्ययग्र्हणो तदन्तस्य संज्ञा स्यत् प्रदेशेषु पुनस्तदन्तविधिः स्यादिति प्रत्ययान्तान्तं गृह्येत तस्मात्संज्ञाविधावपि तदन्तविधेर्निषेधो “*रदाभ्या"मित्यत्र च ॥ “*उपञ्चम्या” इत्यस्य नायमर्थः- यत्र पञ्च्म्यआन्तात्प्रत्ययो विधीयते तत्र त्दन्तविधिर्न भवतीति । एवं हि व्याख्यायमाने “*ञितस्च तस्परत्यया"दित्यत्र तत्रत्ययादेवाञि विधीयमाने तस्यैवाङ्गसंज्ञायं वृद्धिस्वरौ स्यातं, न तु तदन्तस्य “*परमगाग्यार्यण इति " । गाग्यर्यण इत्येवोदाहरणम् । गार्ग्यशब्दाध्यञ्न्तात् फग्विधानात् । न त्वत्र परमगार्ग्यशब्दात्प्रत्ययः, तस्य यञ्न्तत्वाभावात् । तस्माच्च फकि विधीयमाने पारमगार्ग्यायण इत्यनिष्टरूपप्रसङ्गः । तस्मादेतन्न्यायव्युत्पादनार्थ परमगाग्र्ग्ययण इत्युपन्यस्तम् । उत्तरपदाधिकारे प्रत्ययग्रहणेन तदन्तविध्यभावो लेखग्रहणेन ज्ञापितः । तत्र “*रदाभ्या"मित्यत्र निष्टायाः प्राधान्येनास्रयणात्तदन्तविध्यभावः । “*स्यतासी लृलुटो"रित्यत्र ध्वातोरित्यधिकारादपञ्चम्या इति निषेधात्, लृलुटोर्वा प्राधन्येनास्रयणात्तदन्तविध्यभावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-252.
“*अलैवानर्थकेनेति । अर्थवह्ग्रहणे नानर्थकस्ये"ति विर्णनिर्देषेशु नास्रीयत इति स्थितम् । वर्णरूपतया यस्य शब्दस्यास्रयणं नार्थवत्तारूपमास्रीयते तत्र “*वर्णग्रहणं च सर्वेत्रे"त्यत्र वर्णग्रहणे जातिग्रहणाद्विर्णसमुदायग्रहणेऽनर्थक्स्य ग्रहणं प्राप्तमनेन नियमेन निवार्यते । अलैवेति चैकत्वसंख्या गुणत्वाद्विवक्ष्यते । नियमविधानसामर्थ्यर्द्वा ॥
“*हन्ग्रहण इति ।” तेन प्लीहानाविति दीर्धे भवति ॥ “*उड्ग्रहण इति । उदः स्थास्ताम्भो"रित्यनेन गर्मुत्-स्थास्यतीति पूर्वसवर्णभावः ॥ “*शास्त्रीग्रहणमिति ।” तेन शस्त्र्याविति “*स्त्रिया” इतीयङ् न भवति ॥” *पायसंग्रहणमिति " । पायसं करोतीति -”*संपर्युपेभ्य” इति सुण् न भवति ॥
तत्र हन्ग्रहणे स्त्रीग्रहणे चाङ्गस्य विशेष्यत्वात् स्यात्तदन्तविधिः । “*उदः स्ये"त्यत्र “*तोरि"त्यधिकारात् तवर्गान्तस्योच्छब्देन विशेषणात् स्यात्तदन्तविधिः । प्रतिषेधविज्ञाने तु न भवति, उदस्च तव्र्गेण विशोष्यत्वात् तोरित्यस्य वा निवृत्तत्वात् । संग्रहणो पदप्रकरणात्तदन्तविधिः स्यादिति निवार्यते । पदेन समादयो विशोष्यन्ते इति तदन्तविध्यभावः । पायसं करोतीति करोतेर्भूषणार्थवृत्तिता संभवतीति सुद्र स्यात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-253.
“*किमर्थमिति । अलैवानार्थकेने"त्येतदाक्षिप्यते । अस्य हि नियमस्य प्लीहानावित्यादिप्रयोजनम्,
तच्चान्याथा सिध्यति । अङ्गाधिकारे हन्ग्रहणं स्त्रीग्रहणं चास्ति ।”* एङः पदान्तादि"ति पदाधिकारे संग्रहणम् । वा पदान्तेस्येत्यतः पदग्रहणानुवर्तनात् -”* उदः स्थास्तम्भो"रिति पूर्वसवर्णः पदाधिकारे विधीयते । “*पदाङ्गाधिकार” इत्यत्र च केवलपदाधिकारोऽपि ग्रहीष्यते, उत्तरपदाधिकारोऽपि ततस्च प्लीहानावित्यादिषु दोषो न भविष्यति । न हि प्लीहानावित्यत्र हनित्यङ्गं नापि तदुत्तरपदमिति “*प्रस्नः " ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-254.
“*तन्न वक्तव्यमिति । पदाङ्गाधिकार” इत्येतदित्यर्थः । “*अलैवानर्थकेने"ति वचनादर्थवता तदन्तविधिसद्भावादिति भावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-255.
“*तदन्तविधिरेवेति ।” प्राथमकल्पिकः सूत्रेणैव तदन्तविधीः । स एव त्वेलै”*वानर्थकेने"ति नियम्यते ॥ “*परमातिमहानिति” परमस्चासावतिमहानिति समासः । तत्र परमादिर्महच्छब्दो न भवति, नापि महच्छबोत्तरपदः, अतिमहच्छब्दोत्तरपदत्वादिति “सान्तमहत” इति दीर्धे न स्यथ् । अनेनैव न्यायेनोगिल्लक्षणो नुमागमोऽपि न स्यात् । तदन्तविधिना तु भवति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-256.
“*सूस्त्रोता इति । अनागमकानं सागमका आदेशा” इत्यास्रयणादस आनर्थक्यम् । “*अर्थवतो स्यागम्” इति न्यायास्त्रये त्वर्थवानेव अत् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-257.
“*यस्मिन्विधिरिति ।” तदन्तविध्यपवादस्तदादिविधिः । अत एव विशोषणेन भवति, नान्येन ॥ 72 ॥
“*वृद्धिर्यस्यां ॥ 73 ॥ वृद्धिग्रहणमिति ।” असति वृद्धिग्रहणे कथं सर्वस्य वृद्धिसंज्ञा न भवतीति चेत् । यस्याचामादिर्भिन्नजातीयो हल् तद्..द्धमित्यजाति व्यावर्तितं स्यात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-259.
“*दात्ता इति ।” असति वृद्धिग्रहणे निर्धारणहेतोर्धर्मस्यानुपादानादादिशब्दः समीपार्थे विज्ञायेत । दत्तशब्दस्चात्र क्रियाशब्दो द्रष्टव्यः । नामधेयस्य तु पक्षे भवत्येव वृद्धसंज्ञा । “*पस्थेऽवृद्ध"मित्यत्र यदा नामधेयत्वादवृद्धः पक्षे कक्यरादस्यस्तदर्थः प्रतिषेधः स्यात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-260.
“*यस्येति व्यपदेशायेति ।” संज्ञिने इति शेषः । अन्यथा तच्छब्देन किं प्रत्यवमृश्येत तदित्यस्यानुपादानेच
वृद्धेरेव वृद्धसंज्ञाप्रसङ्गः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-261.
“*गार्गिया इति ।” न हि गार्ग्यशब्दस्य वृद्धिरादिः । किं तर्हि हल् । “*मालादीनं चे"त्येतत्तु नामधेयार्थ स्यात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-262.
“*सभासंनयन इति ।” सति चेहादिग्रहणे “*आधन्तव"त्सूत्र एकग्रहणस्य सभासंनयनशब्दः प्रत्युदाहरणम् । असति त्विहादिशब्दे दरिद्रातेरिवर्णन्तलक्षणस्याचोऽभव एकग्रहणस्य प्रयोजनम् ॥ “*अचा"मिति तु बहुत्वसंख्याविवक्षर्थं स्यात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-263.
“*न ह्याचामिति ।” सर्वस्य प्रातिपदिकस्याज्ज्ञाल्समुदायरूपत्वात् । “*अचा"मित्यनेन केवलानामचं समुदायः संनिवेशरूपो निर्दिष्टः । पौर्वापर्येणावस्थानं -संनिवेशः । स च केवलानामचं नास्ति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-264.
“*ननु चैवमिति ।” अच्संनिवेशस्यासंभवादचं मध्येऽजपेक्षया यस्य वृद्धिरादिरिति विज्ञास्यत इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-265.
“*नैवं शक्यमिति ।” वृद्धिविशेषणार्था निर्धारणे षष्ठी स्यात् । अचां मध्ये अजूपा या वृद्धिरित्याकारस्य निवृत्तिप्रसङ्गः । आकारो ह्यनजेव सन् केवलेमच्कार्याणि ग्रहणकशास्त्रेण लभते । ततस्चास्वलायन इत्यत्र न स्यात् । गार्ग्य इत्यत्र चाकारस्यानच्त्वात् समुदायानादित्वाच्चा न स्यात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-266.
“*एकान्तादित्वे चेति ।” एकान्ता अवयवा अचः प्रातिपदिकस्य, तेषामचाम् आदिर्वृद्धिर्यस्य तद्द्धिमित्यर्थः ॥ “*सर्वप्रसङ्ग इति “। न ह्यत्र विशेष उपादीयते-सर्वेषामचामादिर्वृद्धिरिति । ततस्च मध्येऽपि वर्तमान आकारोऽन्याजपेक्षयाआदिरिति सभासन्नयने संज्ञाप्रसङ्गः । आदिग्रहणञ्चान्त्यनिवृत्यर्थस्यात् -ख्द्वेति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-267.
“*सिद्धमिति ।” उभयरूपत्वेऽपि प्रातिपदिकस्याजाकृतिः ‘अचाम्’ इति वचनादास्रीयते । विध्यमानाऽपि हलाकृतिर्न विवक्ष्यते । तेनायमर्थः-यस्य शब्दस्य सकलाजपेक्षया वृद्धिरादिस्तद्व्द्धमिति । यथा-पङ्क्तै ब्राह्मणानामादिमानयेक्तुत्वे सतोऽपि शुद्रादीन्नाह्यत्य ब्राह्मणजातीयापेक्षया यो ब्राह्मण आदिः स आनीयते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-268.
“*व्यञ्जनस्येति । अचा"मिति वचनाद्विध्यमानान्यपि व्यञ्जनानि न विवक्षितानीत्यर्थः ॥ “*यथाऽन्यत्रेति ।” यथा-स्वरविधावयोगयत्वाद्वयञ्जनमविध्यमानवत्, एवमिहात्यचामिति वचनादित्यर्थः ॥ “*ह्यस्वनुड्भ्या"मिति स्वरविधौ नुड्ग्रहणाल्लिङ्गाह्यञ्जनं व्यवधायकमेवेत्युदस्वित्वानिति मतुप उदात्तत्वं न प्रवरतते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-269.
“*वा नामधेयस्येति " । पौरुषेयं नाम् गृह्यते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-270.
“*कम्बलचारायणीया इति ।” कम्बलप्रियस्य चारायणस्य शिष्य इत्यर्थः ॥ “*ओदनपाणिनीया इति ।” पणिनोऽपत्यमित्यण् । “*गायिविदथी"ति प्रकृतिभावाद्वेलोपाभावः । पाध्निनस्यापत्यं युवेतीञ्, तस्य छात्रा इति विवक्षिते यूनि लुगितीओ लुक्, तेनेञ्स्चेत्यण् न भवतीति छो भवति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-271.
“*पैङ्गलकान्वा इति । कण्वादिभ्यो गोत्र " इत्यण् । वृद्धसंज्ञायं तु छः स्यात् ॥ 73 ॥
“*त्यदादीनि च ॥ 74 ॥ त्वात्पुत्रा इति ।” आदिग्रहणानुवृत्यन्यथानुपपत्योपसर्जनानामपि त्यदादित्वं स्यातिति भावः ॥ अचामित्यस्य तूत्तर्र्थेवानुवृत्तिः स्यथ्, तत्संबन्धस्येहायोग्यत्वात् । निर्धारणस्य समानजाचीयविषयत्वात् ॥ “*त्वदीय इति ।” व्यपदेशिवद्भावोऽत्र नास्ति, “*अप्रातिपदिकेने"ति निषेधात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-273.
“*संबन्धमिति ।” द्वितीयान्तमेतत् । संबन्धमनुरोत्स्यते-न हास्यतीत्यर्थः । “*अथवा”-संबन्ध्यत इति संबन्धम्, कर्मणणि धञ् नपुंसकेऽपि बाधकाभावाद्भवति । वृद्धिग्रहणसंबद्धमादिग्रहणमिहानुवर्तत इति नास्ति तस्य त्यदादिभिह् संबन्धः ॥ “*तध्यथेति” । एतह्यर्शयति - स्वरितत्वप्रतिज्ञानादुत्तरसूत्र एव योग्यत्वात् ‘यस्याचामादिः’ इति संबन्ध्यते ‘एड् यस्याचामादिस्तद् वृद्धम् इति वाक्यर्थसंपादनाय । इह त्वयोग्यत्वात् संबन्धानुपपत्तिः, तुलजातीयस्य निर्धारणात् । त्यदादीनं चाज्रूपत्वाभावाध्यस्याचामादयस्त्यदादय इति संबन्धाभावात् ॥ 74 ॥
“*एङ् प्राचां ॥ 75 ॥ " कुणिना ‘प्राग्ग्रहणमाचार्यनिर्देशार्थं व्यवस्तीतविभाष च’ इति व्याख्यातम् । तेनं क्रोडो नामोदग्ग्रामः, तत्र भावः-क्रौड इत्यणेव भवति ॥ अन्येन तु प्राग्ग्रहणं देशविशेषणं व्याखातम् । तेन देवदत्तो नाम् वाहिकेषु ग्रामः तत्र भवो दैवदत्त इत्यवृद्धत्वात् ठञ्ञिठौ न भवतः ॥ भाष्यकारस्तु
कुणिदराननमशिस्रियत् । सेपुरं स्कोनगरं च वाहीकग्रमौ । तत्र वृद्धत्वा”*द्वाहीकग्रमेभ्यस्चे"ति ठञ्ञिठौ भवतः । “*शौषिके"ष्विति वचनादपत्यविकारयोर्वृद्धलक्षणप्रत्ययाभवः ।
क्रोडदेवदत्तयोस्चाप्राग्देशवाचिनोर्यवस्थविभाषया न भवतीति ।
प्राग्देशवाचिनस्तु देवदत्तस्य वृद्धसंज्ञाकत्वात् काश्यादित्वात् वृद्धलक्षणौ ठञ्ञिठौ भवतः ॥ 75 ॥
इत्युपाध्याय”*जैयट"पुत्र”*कैयट"कृते भाष्यप्रदीपे
प्रथमाध्ययस्य प्रथमे पादे नवममाह्निकम् ॥
“ईदूदेद्द्विवचनं प्रगृह्यम् ॥ 11 ॥। किमर्थमिति ।” ईदूतोरनण्त्वाद्भिन्नकालनिवृत्यर्थं नोपपद्यते तपरत्वम् । उदात्तादीनामभेदकत्वाद्गुणान्तरयुक्तानां सवर्णानां ग्रहणार्थमपि नोपपद्यते । झातिपक्षेऽपि दीर्घोच्चारणात्प्रयत्नाधिक्यात् ह्रस्वानां न भविष्यति, प्लुतानां चेष्यत एव-इतीष्टव्याघतं प्रत्युत तपरत्वं करोतीति प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-2.
“*तपर इति ।” व्यक्तिपक्षो भेदकाश्च गुणा इति भावः ॥ “*केषामिति ।” प्लुतानामग्रहणप्रसङ्गात्प्रश्नः । “*उदात्तेति*” । क्वचिदनुनासिकग्रहणमप्यस्ति, तत् गुणप्रसङ्गेनोच्चारितम् । न हि प्रगृह्योऽनुनासिकः सम्भवति, `अणोऽप्रगृह्यस्यानुनासिकः’ इति निषेधात् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-3.
“*प्लुतानाम् त्विति ।” व्यक्तिपक्षाश्रयणादयं दोषः, न तु तपरत्वात् ।
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-4.
“*असिद्ध इति ।” शस्त्रासिद्धत्वास्श्रयणात् प्लुतबुद्धावसत्यां प्रगृह्यत्वे विधीयमाने द्विमात्रविषाया बुद्धिः प्रवर्तते । तथा हि वक्ष्यति-`असिद्धत्ववचनमुत्सर्गलक्षणभावार्थमादेशलक्षणप्रतिषेधार्थं च’ इति ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-5.
“*यदयमिति ।” असिद्धत्वे ‘प्लुतः प्रकृत्या’ इत्येवमाश्रयणायोगात् कार्यित्वेनाश्रयणादसिद्धत्वाभावोऽनुमीयते । सामान्येन स्वरसन्धिप्रकरणविषयं सिद्धत्वं ज्ञाप्यते, न तु प्रकृतिभाव एव । यथा रोरुत्वे । एवं सोत्सर्गं सापवादं च प्रकरणमिति प्रकृतिभावेऽपि प्रगृह्यत्वहेतुके सिद्धत्वमुच्यते ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-6.
“*किमेतस्येति ।” प्रकृतिभाव एवाश्रयात्सिद्धत्वमस्त्विति प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-7.
इतरो लाघवं दर्शयति-”*अप्लुतादिति ।” सिद्धे हि प्लुते ‘अतः-अति’-इति तपरत्वादेवोत्त्वाप्रसङ्गः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-8.
दोषान्तरेणेमं पक्षं निराकर्तुमाह-”*लुकि प्रतिषेध इति ।” दोषसद्भावेनैवास्य पक्षस्य निराकरणात्तदन्तविध्यभावोऽत्र नोक्तः ॥
“*कुमार्यगारमिति ।” कथं पुनरत्र द्विवचनान्तस्य समासः, यावता वृत्तौ संख्याविशेषो न गम्यते । नैष दोषः । यथा ‘तावकीनः’ इत्यादावादेशेन संख्याविशेषो व्यज्यते, तथेहापि सत्यां
प्रगृह्यसंज्ञायां प्रकृतिभावेन द्वित्वं व्यज्येतेति दोषोपन्यासः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-9.
“*सप्तम्यामिति” । `ईदूतौ सप्तमी’ इत्येव तदन्तविधौ सति प्रत्ययलक्षणेन `सोमो गौरी अधिश्रितः’ इत्यादिषु सिद्धायां प्रगृह्यसंज्ञायामर्थग्रहणं ज्ञापयति-`प्रगृह्यसंज्ञाप्रकरणे प्रत्ययलक्षणं न भवति’- इति ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-10.
“*तत्तर्हीति ।” आद्यन्तवद्भावानाश्रयणाय तृतीयः पक्षः परिगृहीतः । तत्र च दोषप्रतिविधानार्थमधिकमर्थग्रहणं ज्ञापकार्थं कर्तव्यं भवतीति सुतरां गौरवं भवतीत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-11.
“*ईदादिभिरिति ।” अत्र पक्षे ‘कुमार्यगारं’ इत्यत्राप्रसङ्गः । न ह्यत्रेदूदेदन्तं, किं तर्हि ? ‘ओस्’ इति सकारान्तम् ॥ “*तदन्तमिति ।” द्विवचनान्तम् । “*ईदाद्यन्तमिति ।” ईदादिभिः साक्षात्समुदायस्य संबन्धाभावादीदादिशब्देनेदाद्यन्तमुच्यते, तेनेदाद्यन्तान्तमित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-12.
“*शुक्ल्यास्तामिति ।” शुक्लशब्दाद्द्विवचनं ‘औ’, तस्य `‘नपुंसकाच्च’ इति शीभावः, ततश्च्व्रिप्रत्ययः । शीशब्दस्य `सुपः’ इति लुक् । “*अस्य च्वौ” इतीत्वं । तद्धितान्तत्वात्सुप् । तस्य `अव्ययात्’ इति लुक् । अत्र हि शीशब्द ईकारान्तं द्विवचनम्, तदन्तश्च समुदायः प्रत्ययलक्षणेनेति प्रगृह्यसंज्ञाप्राप्नोति ॥ “*अत्र हीदादि च द्विवचनमिति ।” ईदादिशब्देनद्यान्तमुच्यते ॥ क्विचित्तु पाठः`-ईदाद्यन्तं च श्रूयते’ इति, तत्रैवं व्याख्येयम्-ईदाद्यन्तं च श्रूयते सूत्रे, तदन्तविधिरीदादिभिर्द्विवचनस्याश्रीयत इत्यर्थः । यस्त्वयं `अस्य च्वौ’ इतीकारः, स द्विवचनस्य न कश्चिदिति न तदभिप्रायेण भाष्यं व्याख्येयम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-13.
“*अथापि कथंचिदिति ।” स्थानिविशेषानपेक्षायां कृताकृतप्रसङ्गित्वेन लुक्शास्त्रस्य प्रवर्तनादित्यर्थः ॥ `अथवा’ नित्यत्वेन बाधकत्वं लक्ष्यते । तेनान्तरङ्गानपीति शीभावस्य लुक् बाधक इत्यर्थः ॥ “*एवमपि दोष इति ।” पक्षस्योत्तानमेव नास्तीति एतत्पक्षासंभव एव दोषः ॥
“*अवश्यमिति” । यदाश्रयणभयादयं पक्षोऽङ्गीकृतस्तस्याद्यन्तरद्भावस्यास्मिन्नपि पक्षेऽवश्यमाश्रयणमङ्गीकर्तव्यम् । ‘अग्नी’ इत्यत्र हीकारा एव द्विवचनं, न त्वीकारान्तम् ॥ “*तस्मादिति” । त्विसीय एव पक्षोऽस्त्वित्यर्थह् ॥
`मनीवादीनाम् प्रतिषेधो वक्तव्यः’ इति भाष्यकारवार्तिककाराभ्यामपठितत्वादप्रमाणमेतत् । `मणीवोष्ट्रस्य’ इति तु प्रयोगो वासब्दस्योपमानार्थस्य । `रोदसीव’ इत्यादिस्तु छान्दसः प्रयोगः । चन्दसि तु सर्वे विधयो विकल्फ्यन्ते ॥ 11 ॥
“*अदसो मात् ॥ 12 ॥ मात्प्रगृह्येति ।” अस्मिन्सूत्रन्यास इत्यर्थः ॥ “*ऊत्वस्य चेति ।” चशब्दान्मत्वस्यच । शास्त्रासिद्धत्वाच्च स्थानिलक्षणमेव कार्यं पाप्नोति, नादेशलक्षणमित्यादिप्रसङ्गः ॥ ‘अमी आसते’ इत्यत्रायादेशः प्राप्नोति । ‘अमू आसाते’ इत्यावादेशः । ‘अमी अत्र’ इत्यत्र-एकादेशः ॥ ननु च द्विपदाश्रयत्वाद्बहिरङ्गा अयादयोऽन्तरङ्गेष्वीत्त्वादिष्वसिद्धा इति पूर्वाभावे कथं `पूर्वत्रासिद्धं’ इतीत्वादीनामसिद्धत्वं स्यात् ? नैष दोषः । `नाजानतर्ये-’ इति बहिरङ्गपरिभाषया निषेधात् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-29.
“*ननु चेति ।” यथोद्देशपक्षे आस्रयात्सिद्धत्वं भविष्यतीत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-30.
कार्यकालपक्षमाश्रित्याह-”*वचनार्थो हीति ।” वचनस्य प्रयोजनमित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-31.
“*नैकमिति ।” अनेककार्यसिद्ध्यर्थं संज्ञासूत्रं नैकेन प्रयुज्यत इत्यर्थः । अन्यसूत्रमेएकेनापि प्रयुज्यत इत्यर्थः । अन्यसूत्रमेकेनापि प्रयुज्यते - `मुद्गादण्’ इत्यादि ॥ “*तत्रैवायमिति ।” न च तत्र ‘ईदूदेत्-’ ग्रहणम् कर्तव्यं, मादिति वा । यस्मादणोऽवसानेऽनुनासिको विधीयते, पूर्वेण च णकारेणाण्ग्रहणमिति ‘असौ-अमुके-अमुकाभ्यां’ इत्यादावनुनासिकस्याप्रसङ्ग एव । तदेवं कार्यकालेऽपि संज्ञापरिभाषे प्रकरणोत्कार्षेण विधीयमाना प्रगृह्यसंज्ञा सर्वप्रगृह्यकार्यार्था सति असिद्धत्वं भाधिष्यत इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-32.
“*विप्रतिषेधाद्वेति ।” ‘अयावेकादेशप्रतिषेधो वा वक्तव्यः’ ‘विप्रतिषेधाद्वा प्रगृह्यसंज्ञा’ इति विकल्पार्थो वाशब्दः । “*नैकं प्रयोजनम्’” इत्यादिस्तु परिहारो भाष्यकारेणोक्तो न वार्तिककारेणेति न तदपेक्षो विकल्पः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-33.
“*नैष युक्त इति ।” इष्टसिद्धये-इति भावः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-34.
“*करिष्यत इति ।” आश्रयिष्यते-इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-35.
इतरस्त्वगृहीताभिप्राय आह-”*सूत्रविपर्यास इति” ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-36.
अभिप्रायं प्रकाशयितुमाह-”*एवं तर्हीति ॥”
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-37.
“*द्विकार्ययोगो हीति ।” द्वाभ्यां कार्यभ्यां यो युज्यते स विप्रतिषेधविषयत्वाद्विप्रतिषेधः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-38.
“*असंभवोऽपीति ।” अस्Mभव एव विप्रतिषेधः । स तु कदाचित् द्विकार्ययोगोभवति, कदाचित्केवलोऽपि । तथा हि-सति संभवे द्विकार्ययोगो न विप्रतिषेधः, यथा-एकस्य दधातेरडागमद्विर्वचने भवतः-अदधादिति । क्वचिदेकस्य द्विकार्ययोगाभावेऽत्यसंभवोऽप्ति, यथा-त्रपूणामित्यत्र नुम्नुटोः प्रकृतिप्रत्ययभक्तयोः परस्परनिमित्तव्याघातात् ॥ “*अयादीन्बाधत इति” प्रकृतिभावविधानात् ॥ “*निमित्तमिति ।” ईत्वमूत्वं च ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-39.
“*आश्रयात् सिद्धत्वमिति ।” प्रगृह्यसंज्ञायां कार्यित्वेनाश्रयणादसिद्धत्वाभावादीत्वादीनां तेषामयादीनां च विप्रतिषेधो निरूप्यते । तथाहि-सतोर्हि विप्रतिषेधो भवतीति पूर्वपक्षे ‘ईदादीनं’ एव विप्रतिषेध आक्षिप्तः । तत्रायादीनां चयनं चायकः, लवनं-लावकः, अग्रेऽत्र-इत्यत्रावकाशः । ईदादीनां तु यत्रायादीनामप्रस्ङ्गः सोऽवकाशः-अमी स्थिताः-अमू स्थितौ अमीभ्य इति । ‘अमी अत्र’ इत्यादावुभयप्रस्ङ्गे परत्वादीत्वादय एव भवन्ति ॥ अत्र व्याख्यानान्तरं क्लिष्टत्वान्नोपन्यस्तम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-40.
“*न पुनर्यत्रेविति । ‘रोःसुपि’” इत्यस्यानन्तरं ‘अत उरति’ इति वक्तव्यम् । एवं चासिद्धत्वं न बाधितं भवति । तत्र पाठक्रमेऽसिद्धत्वस्य प्राप्त्यभावात् प्लुतस्य चोत्वे सिद्धत्वात्तत्कालत्वाभावात् “*‘अप्लुतादप्लुते’” इति न वक्तव्यं भवति ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-41.
“*अथ वेति ।” यथोद्देशपक्षाश्रयेणैतद्वुच्यते ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-42.
कार्यकालत्यामप्याह-”*अथ वेति ।” ‘अदसः’ इति संबन्धसामान्ये षष्ठी
। अदसः संबन्धिन ईदूदेत इति ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-43.
“*इहापीति ।” ‘अदस् टा’ ‘अदस् ओस्’, अत्वम्, टाप्, सवर्णदीर्घत्वम् । ‘आङि चापः’ इत्येत्वम् । ‘अदे
आ’ ‘अदे ओस्’ इति स्थिते ‘अदसः’ इत्यत्र ‘माद्’ इति विशेषणाभावात्प्रगृह्यसंज्ञायां सत्यामयादेशाप्रसङ्गः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-44.
“*अमुकेऽत्रेति ।” ‘अदसः’ इत्यनेन प्राप्नोति ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-45.
“*एदन्तमिति ।” ईदूतोरेव स्वरितत्वप्रतिज्ञानादिति भावः । अननुव्रुत्तिरेव च निवृत्तिः । यद्येवं माद्ग्रहणं न कर्तव्यम्, एद्ग्रहणनिवृत्त्यैव ‘अमुकेत्र’ इत्यत्राप्रसङ्गात् । नैतदस्ति । सति माद्ग्रहणे योगविभागो भवति, नान्यथा ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-46.
एकयोगे परिहारान्तरमप्याह-”*अथ वेति ॥ मार्थादिति ।” मार्थ एव स्थणी
मशब्देनोक्तः, ईधुदेदर्थश्चेदूदेदिति । न चास्यां कल्पनायामसिद्धत्वं भवति,
बुद्धिसङ्कलनायामसिद्धत्वाभावस्योक्तत्वात् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-47.
“*उक्तं वेति ।” असिद्धत्वमेवात्र प्रतिषिध्धमित्यर्थः ॥ “*स्वरे इति ।” अचीत्यर्थः ॥ “*बहिष्पदलक्षण इति ।” द्वितीयपदव्यवस्थित इत्यर्थः । तेनैकपदव्यवस्थितेऽचि असिद्धे ईत्वोत्वे । तेन ‘अमुया’ ‘अमुयोः’ इत्यत्रायादेशो भव्त्स्येव ॥ “*प्रगृह्यसंज्ञायां चेति ।” प्रगृह्यसंज्ञायामेव सिद्धत्वेन सिद्धे लक्ष्ये प्रपञ्चार्थः पुर्ववाक्योपन्यासः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-48.
“*तत्र सकि दोष इति ।” मात्परं यदीदाद्यन्तमिति दोषोपन्यासः । पूर्वसूत्रे हि तदन्तं गृहीतमितीहापि तदन्तस्यैवानुवृत्तिरिति भावः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-49.
स्वरितत्वेन शब्दमात्रमनुमीयत इति उत्तरेऽभिप्रआय्H । तत्र माद्ग्रहणेन गृह्यमाणभीदूदेद्विशेष्यते, तेन ‘अमुकेऽत्र’ इत्यत्र व्यवधानाद्दोषाभाव एव । योगविभागे दोषप्रसङ्गात् ‘एदन्तमिति निवृत्तं’ इत्युक्तम् । एकयोगे तु तन्निवृत्या न प्रयोजनमिति “*‘न वा ग्रहणविशेषणत्वात्’” इत्युत्तरमुक्तम् ॥ 12 ॥
“*निपात एकाजनाङ् ॥ 14 ॥ निपात इति किमर्थमिति ।” निपातस्यैवैकाचोऽर्थवक्त्वात् प्रत्ययस्य केवलस्य प्रयोगाभावादानर्थयात् कल्पितरूपत्वात् कल्पनायाश्च नियमाभावात् प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-56.
“*चकारात्रेति ।” अन्वयव्यतिरेकाभ्यां प्रत्ययस्याप्यर्थवत्वमिति भावः
॥ निपातोऽपि केवलो न प्रयुज्यते, द्योतकत्वात्-इति साम्यमेव निपातप्रत्यययोः ॥ `अततेर्डः-’ `अ आगच्छ’ इत्यपि प्रत्युदाहरणम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-57.
“*एकाजिति किमर्थमिति ।” एकग्रहणसामर्थ्याद्बहुव्रीहिं मन्यते, ततस्च ‘प्रेदं ब्रह्मा’ इत्यनिष्टनिवृत्तिर्न कृतेति प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-58.
“*तत्पुरुषोऽयमिति ।” अन्तरङ्गत्वद्विर्तिप्रदार्थप्राधान्यादिति भावः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-59.
“*नैव दोष इति ।” ननु `पुरोऽहिः’ इति हलन्तस्य प्रकृतिभावाद्रोरुत्वं न स्यात् । नैष दोषः, प्रगृह्यसंज्ञायां रुत्वस्यासिद्धत्वात् सकारस्य च कार्यान्तराप्रसङ्गात् । उत्वे तु रुत्वमाश्रयात्सिद्धम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-60.
“*एवमपीति ।” अन्यतरनिवृत्त्याऽज्ग्रहणस्यार्थवत्त्वादज्मात्रं गृह्यते तदन्तं निरस्यते, विपर्ययस्तु न भवतीति विशेषाभावात् प्रश्नः ॥ पारार्थ्यसामान्यात् संज्ञाऽतिदेशौ परिभाषाशब्देनोक्तौ ॥ “*सावकाशयोरिति ।” निरवकाशस्य बाधकत्वादेवमुक्तम् । तत्र तदन्तविधेरवकाशः-”*‘ओरावश्यके’” लाव्यं-पाव्यम्-इति । आद्यन्तवद्भावस्यावकाशः-”*‘मिदचोऽन्त्यात्परः’-तानि-यानीति । अत्र हि साक्षादन्त्यग्रहणमस्तीति तदन्तविध्यभावः ॥ “*समवस्थितयोरिति ।” इह प्राप्तयोः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-61.
“*आचार्यप्रव्रुत्तिरिति ।” यदि तर्हि लिङ्गेन तदन्तविधिर्निराक्रियते तदा तन्मूलाद्यन्तवत्परिभाषा कथं प्रवर्तेत ? नैष दोषः, `आधन्तवत्-’ इत्यस्योपस्थानाय तदन्तविधिः प्रथमं सन्निधीयते, पश्चात्तु लिङ्गात् परित्यज्यते ॥ अथवा लिङ्गादज्ग्रहणं निपातेन विशेष्यत इति विशेष्येण तदन्तविधेरभावादतिदेशस्यापि मा भूत् प्रवृत्तिः, तत्फलसंपत्त्यातूक्तम्-`परिभाषा भविष्यतीति’ ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-62.
“*एवं तर्हीति ।” संज्ञाया विधीयमानत्वात् प्राधान्यात् संज्ञिनो गुणत्वात् `पशुना यजेते` तिवत् संख्याया विवक्षायां सिद्धायामेकग्रहणमन्यत्र जातिसंप्रत्ययार्थम् । अच्समुदायग्रहणाशङ्काया निरासार्थं ह्येकग्रहणं ज्ञापनफलं संपद्यएते ॥ किं पुनः स्यात् यद्यत्राच्समुदायस्य ग्रहणं स्यात् ? उच्यते-इह ‘अइउ अपेहि’ इति समुदायस्यैका संज्ञा स्यात्, नावयवानाम्; समुदायैकाज्द्विर्वचनवत्-इत्यन्त्यस्यैव प्रकृतिभावाद्यणादेशो न स्यात् । पूर्वयोस्तु स्वरसंधिः स्यात् । अच्समुदायपरिग्रहानुरोधाच्च निपातसमुदायो गृह्येत, एकनिपातस्याच्समुदायस्याभावात् ।
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-63.
“*अनाङिति किमर्थमिति ।” ङिदङितोराकारयोर्विषयविभागप्रदर्शनाय प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-64.
“*इह कस्मादिति ।” अनुबन्धनिवृत्तौ विशेषापरिज्ञानात् प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-65.
अर्थवशात् विशेषावसाय इत्युत्तरम् ॥ “*क्रियायोगो-“आ इतः-एतः, प्रादिषु हि ङित् पठ्यते ॥ “*आङ्मर्यादाभिविध्योः’ इति च समासविधौ ङिन्निर्दिष्टः-आ उदकान्तात्-ओदकान्तात्, आ अहिच्छत्रात्-आहिच्छत्रादिति ॥ विना तेन-इति “*मर्यादा”, सह तेन-इत्य”*भिविधिः ॥” पूर्वप्रक्रान्तस्य वाक्यार्थस्यान्यथात्वद्योतन्याऽऽकारः प्रयुज्यते-आ एवं मु मन्यसे, नैवं पूर्वममंस्थाः संप्रति मन्यस इति । वाक्यारम्भसूचनायाऽऽकार इत्यपरे ॥ तथा स्मृतेः सूचक आकारः प्रयुज्यते ततः स्मृतोऽर्थो निर्दिश्यते-आ एवं किल तदिति ॥14॥
र
“*ईदूतौ च सप्तम्यर्थे ॥ 19 ॥ ईदूतौ सप्तमीत्येवेति ।” सप्तमीसहचरितं यदीदूदन्तं सप्तम्यां वा परतस्तत् प्रगृह्यसंज्ञं भवतीत्येवं प्रत्ययलक्षणेन लुप्तायामपि सप्तम्यां ‘सोमो गौरी अधिश्रितः’ इत्यादौ भविष्यति प्रगृह्यसंज्ञेति प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-79.
“*लुप्त इति ।” संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधादसत्यर्थग्रहणे सप्तम्या एव संज्ञिनीत्वादसत्याश्च कार्याभावात् प्रत्ययनिमित्तं यत्रान्यस्य कार्यं विधीयते तत्रैव प्रत्ययलक्षणस्य सद्भावात् ‘गौरी’ इत्यत्राप्रसङ्गादर्थग्रहणं कृतम् । अर्थग्रहणे सति अर्थनिमित्ता संज्ञेयं भवति, न प्रत्ययनिमित्ता-इति लोपेऽपि सिध्यति ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-80.
“*पूर्वसवर्ण इति ।” सतिच पूर्वसवर्णे एकादेशे चादिवद्भवती कारः
सप्तमीति सिद्धा सम्ज्ञा ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-81.
“*आडाम्भाव इति ।” एकादेशं बाधित्वाऽऽडामौ स्याताम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-82.
“*वचनादिति ।” सर्वत्रैव सप्तमी लुप्यत इति वचनसामर्थ्यात् सप्तमीशब्देन सप्तमीसहचरितस्य ग्रहणान्मुख्यकल्पनाऽसंभवे गौणी कल्पना गृह्यते-इत्याश्रयणात् सिध्यतीति भावः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-83.
मुख्यकल्पना सम्भवत्येवेत्याह-”*यत्रेति ।” सरसीत्यत्र । सरःशब्दात् परस्य ङिशब्दस्य ‘इयाडियाजीकाराणामुपसंख्यानम्’ इतीकारे कृते भवतीकारः सप्तमीति तत्रैव स्यात्, न तु ‘गौरी’ इत्यत्रेति भावः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-84.
“*सरसी यदीति ।” ‘यदि’ इति सम्भावनायाम् । तस्मात् स्थितमेतत्-वचनात् सर्वत्र लुप्तायामपि सप्तम्यां भविष्यतीति नार्थोऽर्थग्रहणेन ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-85.
“*ज्ञापकमिति ।” ‘ईदूदेत्’ इत्यत्र तृतीयचतुर्थपक्षयोरित्यर्थः ॥
इह प्रगृह्यसंज्ञाप्रकरणे यदि प्रत्ययलक्षणं स्यात् तदा ‘ईदूतौ च सप्तमी’ इत्येवसप्तमीसहचरितं सप्तम्यां वा परतो यदीदूदन्तं तत् प्रगृह्यमिति
प्रत्ययलक्षणेन लुप्तायामपि सप्तम्यां संज्ञा भविष्यतीति किं अर्थग्रहणेन, तत् क्रियमाणं प्रत्ययलक्षणाभावं सूचयति ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-86.
संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेरभावात् तदन्तपक्षस्तत्र नैव स्थित इति ज्ञापनफलाभावादाह-”*मा वेति ॥ वाप्यश्र्वो नद्यातिरिति ।” ‘संज्ञायां’ इति समासे कृते साप्तमीसहचरितमीकारान्तं पूर्वपदमिति स्यात् प्रगृह्यसंज्ञा-इति तदर्थमर्थग्रहणम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-87.
“*अथेति ।” अस्त्येवात्र सप्तम्यर्थ इति प्रश्नः ।
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-88.
“*जहत्स्वार्थेति ।” समासस्यैवार्थवत्त्वात् पूर्वोत्तरपदयोर्वर्णवदानर्थक्यात् सप्तम्यर्थोऽत्र नास्तीत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-89.
“*समुदायार्थ इति ।” वृत्तौ हि पूर्वपदं स्वार्थामत्यभिधत्ते प्रधानार्थमपि-इति स्वार्थसंसृष्टस्य प्रधानार्थस्याभिधानात् पांसूदकवत् स्वार्थस्य विवेकानवगमात् समुदायार्थो वृत्तो संसृष्टरूप एवाभिधीयते । सप्तम्यर्थग्रहणेन यावानेवार्थो वाक्ये सप्तम्यन्तेनाभिधीयते केवलोऽसंसृष्ट उद्भूतस्तस्यैवेह ग्रहणमिति समासे न भवति प्रगृह्यसंज्ञा ॥ 18 ॥
“*तर्प्त्पमपौ ॥ 22 ॥ अतिशायनिकप्रकरण एव ‘तादी घः’ `पितौ घः’इतिवा वक्तव्ये प्रकरणोत्कर्षेण संज्ञाकरणं -‘स्वार्थेऽपि तरबस्ति’ इति सूचनार्थम्। तेन ‘अल्पाच्तरम्’ इत्यादि सिद्धं भवतीत्याहुः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-138.
“*न्दीतर इति ।” तरतेः ‘ऋदोरप्’ इत्यप् । सर्वत्र चानुबन्धाः स्मर्यमाणाएव कार्यं प्रति हेतुत्वं लभन्त इति घसंज्ञाप्राप्तिः । साहचर्यं चेह व्यवस्थाहेतुः सर्वत्र नाश्रीयते । तथा हि ‘द्विस्त्रिश्चतुरिति कृत्वोर्थे’ इति कृत्वोर्थग्रहणं चतुश्शब्दविशेषणार्थं कृतम् । अन्यथा द्विस्त्रिश्शब्दसाहचर्याच्चतुश्सब्दोऽपि कृत्वोर्थ एव ग्रहिष्यत इति किं कृत्वोर्थग्रहणेन ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-139.
“*अप्रतिषेध इति ।” न प्रतिषेधः-इति प्रतिषेधनक्रिया नञा निषिध्यते । भाष्यकारस्तु वस्त्वर्थं व्याचष्टे-‘अनर्थकः प्रतिषेधः’ इति ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-140.
“*औपदेशिकमिति ।” उपदेशः प्रयोजनमस्य, तत्र वा भवं-औपदेशिकम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-141.
“*यत्रास्येति ।” अनुबन्धयुक्तमित्यर्थः ॥ “*न चैष इति ।” काल्पनिकमस्य तरप्त्वं, न तु साक्षान्निर्दिष्टम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-142.
“*समानाधिकरणेष्विति ।” आतिशायनिकश्चस्वार्थिकत्वात् समानाधिकरणः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-143.
“*यदा तर्हीति । ननु ‘तीर्णिः’ इति भवितव्यम् । एवं तर्हि ‘तीर्यत इति-तरः’ इति सामान्येन पदं संस्क्रियते, पश्चान्नद्या विशेष्यते इति न दोषः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-144.
“*स्त्रीलिङ्गेष्विति ।” स्वार्थिकश्च प्रकृतिलिङ्गानुविधानात् स्त्रीलिङ्गः ॥ “*महिषी रूपमिवेति ।” इव शब्दो भिन्नक्रमः । तेनायमर्थः-महिषीवेयमाकृतिरिति । तत्र ‘सुप्सुपा’ इति समासे कृते ह्रस्वत्वं स्याथ् ॥ 22 ॥
“*बहुगणवतुडति ॥ 23 ॥ संख्यासंप्रत्ययार्थमिति ।” संख्याया एकादिकायाः संख्याप्रदेशेषु संप्रत्ययार्थमित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-146.
“*ननु चेति ।” यथा-पशुःअपत्यं-देवता-इति लौकिकोऽर्थो गृह्यते, तथैकादिकाऽपि संख्या ग्रहीष्यत इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-147.
“*कृत्रिमाकृत्रिमयोरिति ।” न्यायोऽयम् ।
तथाहि-सर्वार्थाभिधानशक्तियुक्तः शब्दो यदा विशिष्टेऽर्थे
व्यवहाराय नियम्यते तदा तत्रैव प्रतीतिं जनयति, नान्यत्र ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-148.
“*नदीपौर्णमासीति ।” ‘यू स्त्र्याख्यौ नदी’ इति संज्ञाविधानात् संज्ञिनो ग्रहणं प्राप्तं न तु स्वरूपस्य, अशब्दसंज्ञा’ इति निषेधात् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-149.
“*पौर्णमासीति ।” नियमार्थं पौर्णमास्याग्रहायणीग्रहणमीकारान्तानां स्यादिति चेत्, एवमपि ‘ऊपौर्णमास्याग्रहायणीभ्यः’ इति वक्तव्यं स्यात् । ऊकारग्रहणेन च नदीसंज्ञकमेवोकारान्तं पौर्णमास्याग्रहायणीशब्दसाहचर्यत् ग्रहीष्यते ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-150.
“*तद्विशेषेभ्य इति ।” गङ्गादिभ्यः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-151.
“*यदयमिति ।” नित्यार्थः पाठः स्यादिति चेत्, व्यवस्थितविभाषया विपाट्शब्दस्य नित्यष्टज् भविष्यतीत्यदोषः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-152.
“*बहुवचनेति ।” अन्यथा ‘आणन्द्याः’ इत्यादौ यथैकवचननिर्देशस्तथेहापि कर्तवयः स्यात् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-153.
“*न चेदमिति ।” अनाश्रितमित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-154.
“*उत्तरार्थं चेति ।” अयं हि सूत्रोपात्तः संख्याशब्दः स्वरूपपदार्थकः । उत्तरत्र संज्ञिनिर्देशेन प्रयोजनम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-155.
“*इहार्थेनेति । इहार्थो यस्य-इति सामान्यविशेषभावान्न पौनरुक्त्यम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-156.
“*आतश्चेति ।” इतश्चेत्यर्थः ॥ “*अर्थः”-सामर्थ्यम् । यथा-गोपालकमानय माणवकमध्यापयिष्यति-इति यष्टिहस्तस्याध्यापनासंभवात्संज्ञिनो ग्रहणम् । “*प्रकरणं”-प्रस्तावः । यथा-भोजनप्रकरन्णे सैन्धवमान्य-इति लवणे प्रतीतिः, गमनप्रकरणे त्वश्वे ॥ “*ग्राम्यमिति ।” ऊहितुमसमर्थम् ॥ “*पांशुरपादमिति ।” अचिरोषितम् । अत एवाप्रकरणज्ञम् ॥ “*उभयगतिरिति ।” किं संज्ङेयं यस्य कस्यचिन्निर्दिष्टा स्यात्, उत यष्टिहस्तोऽस्य विवक्षितः स्यात्-इति संदेहवान् भवतीत्यर्थः ॥ “*साधीयो वेति ।” यो मम प्रसिद्धः सोऽनेन चोदितो न च ममैवंसंज्ञकः प्रसिद्ध इत्येवं मन्यते । लोके गोपालकशब्दः संज्ञिनि नियम्यमानः संज्ञ्यन्तरंनिवर्तयति, क्रियानिमित्तं त्वर्थ न निरस्यति, तुल्यजातीयविषय एव हि नियमो भवति ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-157.
“*एवमिहापीति ।” बह्वादय एवात्र संख्यात्वेन प्रकृउता इति भावः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-158.
“*न यथा लोक इति” । संख्याशब्दो हि बह्वादिप्रतिपादनाय संज्ञात्वेन विनियुक्तः,न त्वेकादिसंख्यानिरासाय।अधिकार्थप्रतिपत्यर्थत्वादिह संज्ञाकरणस्य ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-159.
“*कर्मणि द्वितीयेति ।” ङ्याप्प्रतिपदिकादनभिहिते कर्मणि संख्यायं द्वितीयां विधीयते । न च क्रियायाः संख्या संभवतीति सामर्थ्यात्कारकग्रहणम् । ‘कर्तरि कर्मव्यतिहारे’ इत्यत्र धातोः साक्षात् क्रियायां वृत्त्या क्रियाया एव ग्रहणम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-160.
“*कण्वमेधेभ्यः करण इति ।” तव्यादिप्रत्ययोत्पत्यर्थं धातुसंज्ञा क्रियते, क्रियावाचिनश्च तव्यादयः साधने उत्पद्यन्त इति सामर्थ्यात् क्रियाग्रहणम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-161.
“*विप्रतिषिद्धमिति ।” द्वन्द्वावयवानां शक्त्यनभिधायित्वादधिकरणं द्रव्यं गृह्यते ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-162.
“*तद्वदतिदेशोऽयमिति ।” संख्याकायार्तिदेशोऽयमित्यर्थः । यदि हि संझ्ञा स्यात् टि-घु-भादिसंज्ञावदेकाक्षरा क्रियेत । तस्य्माल्लौकिकार्थाभिधायी । संख्याशब्द उपादीयमानोऽतिदेशार्थत्वमस्य बोधयति ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-163.
“*अथवेति ।” गुरुसंज्ञाकरणादेकादयः संख्याशब्देन प्रदेशेषु न त्यज्यन्त इति लिङ्गेनाप्यनुमीयत इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-164.
“*अर्थवत इति ।” ननूभयसंभवे-इयं परिभाषोपतिष्टते । डत्यन्ता च कृत्रिमाऽस्ति, डतेश्च तिशब्दोऽनर्थक एवेति तस्यैव निषेधः स्यादित्यज्ञापकस्त्यन्तायः प्रतिषेधः । नैष दोषः । “*‘अतिशदन्तायाः’ इत्युच्चारणकाल एवार्तवतस्तिशब्दस्य ग्रहणमिति प्रतीतिरिति ज्ञापकत्वमेव प्रतिषेधस्य ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-165.
“*अथवेति ।” ननु महत्याह् संज्ञायाः करणात्तदर्थानुगतानामुपात्तानामेव संज्ञिनां भवतु संज्ञा । यथा। सर्वादीनामेव संज्ञा, न त्वधिकानाम् । तेन बहुगणशब्दयोः सङ्घऐपुल्यवाच्ल्नोः सज्ञा मा भूत्, एकादीनां तु कथं स्यात् ? नैष दोषः । इहान्वर्थसंज्ञाकरणेन तावदनुरूपः संज्ञी सर्वं आक्षिप्यते । तेनैकादीनांतावत् ग्रहणं भवति, पश्चात् “*बहुगणवतुडइति” इति भूर्यादिनिवृत्त्यर्थं नियमार्थं व्याक्यायते । अत एव सङ्घोवैपुल्यवृत्त्योर्बहुगणशब्दयोः संज्ञा न भवति । तद्वदतिदेशपक्षेऽपि परस्परसाहचर्यात् संख्यावाचिनोरेव भूर्यादिनिवृत्तये नियमायातिदेशः क्रियत इत्यतिप्रसङ्गो न भवति ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-166.
“*संज्ञिविशेषणेनार्थ इति । ‘ष्णान्ता’” इत्यनेन विशिष्टं संज्ञिनं प्रतिपादयितुमुपयोग इत्यर्थः ॥ “*न चान्यार्थमिति” एकशब्दत्वदर्शन इति भावः ॥ भवतु तर्हि प्रतियोगं शब्दभेद इत्याह-”*न खल्वपीति ।” यथा गोधा देशान्तरगमनमात्रेण गोधात्वं न जहाति, एवं शब्दोऽपि रूपान्तरं न गृह्णातीत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-167.
“*अन्यार्थना” । `अन्यार्थनमिति’ । पदार्थामपीति शक्तिवैचित्र्यात् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-168.
“*शब्दस्त्विति ।” स्वरितत्वेन वाक्यान्तरे शब्दान्तरं वाक्यार्थानुग्राहिवस्तुप्रतिपादनयोअयमनुमीयते । सादृश्यात्तु तत्वाध्यवसाय इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-169.
“*सापेक्षोऽयमिति । स्त्रीलिङ्गेन निर्देशः कृतः । तत्र प्रकृतत्वादन्यपदार्थत्वेन संख्या स्वरितत्वेन विनाऽप्यपेक्ष्यत इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-170.
“*अध्यर्धग्रहणं चेति ।” वार्तिके संख्याग्रहणं कर्तव्यत्वेन स्थितम् । तदपेक्षया समुच्चयार्थश्चशब्दः । विध्यर्थं चेदं, अध्यर्धशब्दस्य त्रिभागचतुर्भागादिशब्दवदसंख्यावाचित्वात् । अर्धशब्दस्चैकदेशवाची न संख्यावाची, एकदेशादिशब्दवत् । तस्याधिशब्देन समासे कृते यौगिकोऽर्थः प्रतीयते, न संख्या ॥ “*अध्यर्धशुर्पमिति ।” अध्यर्धेन शूर्पेण क्रीतमिति ‘दिक्संख्ये’ इत्यनुवर्तमाने ‘तद्धितार्थ’ इति समासः । ततः ‘शूर्पादञन्यतरस्याम्’ इति अञष्ठञो वा ‘अध्यर्धपूर्व’ इति लुक् ॥ “*अध्यर्धकमिति ।” ‘संख्याया अतिशदन्तायाः कन्’ इति कन् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-171.
“*द्विगोरित्येव सिद्धमिति ।” ‘समासकन्विध्द्यर्थम्’ इति च संबन्धसामान्येषष्ठी । तेन समासे विधीयमाने समासनिमित्ते चान्यस्मिन् कार्ये विधीयमान इत्यर्थः । तेन द्विगुनिमित्तो लुगापि लभ्यते ॥
अन्ये त्वाहुः-अध्यर्धशब्दः संख्यावाच्येन । तथाहि गण्यते एकोऽध्यर्धः, द्वौ-अध्यर्धौ, अध्यर्धतृतीया इति । तन्मते नियमार्थं अध्यर्धशब्दस्यैव संख्यात्वेन ग्रहणं यथा स्यात्, सार्धादीनां मा भूदिति । वक्यभेदेन च द्वितीयो नियमः । तस्य च समासकन्विध्यर्थं संख्यात्वं, न कार्यान्तरार्थमिति ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-172.
“*अधिकषाष्टिक इति ।” अधिकया षष्ट्या क्रीत इति संख्याविशेषणमधिकसभ्दः, न संक्येति वचनम् । ‘तद्धितार्थ’ इति समासः । ‘प्राग्वतेष्टञ्’ । ‘अलुकि’ इति वचनाल्लुकि कर्तव्ये संख्यासंज्ञा नास्तीति ‘अध्यर्धपूर्व’ इति लुञ्न भवति । ततः ‘संख्यायाः संवत्सरसंख्यस्य च’ इत्युत्तरपदवृद्धिः॥ ननु ‘उत्तरपदव्रुध्धर्थ’ इति वचनाल्लुञ् न भविष्यति, किं ‘अलुकि’ इत्यनेन । नैतदस्ति, अर्हत्यर्थत् परेष्वर्थेषु युः प्रत्ययस्तस्य लुगभावात्तत्रैवोत्तरपदवृउद्धिः स्यात् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-173.
“*ज्ञापकात्सिद्धमिति ।” एकादिवन्नियतसंख्यावाचित्वं बह्वादीनां नास्तीति ज्ञापकाश्रयः ॥ “*योगापेक्षमिति ।” अस्य योगस्य प्रत्याख्यानादेतद्योगापेक्षमिति नबोद्धव्यम्, किंतु योगान् अपेक्षत इति-योगापेक्षम् । यदयं “*बहुपूगगणसञ्घस्यतियुक्” `वदोरियुक्’ ‘षट्कति’” इति डटि परत आगमं शास्ति, तज्ज्ञापयति-भवति
संख्याकार्यमिति ॥ 23 ॥
“*ष्णान्ता- ॥ 25 ॥ षट्संज्ञायामिति ।” प्रकृतिप्रत्यविभागेन प्रतिपादनंगुणैः प्रापणमुपदेशः । तेन प्रकृतिप्रत्ययाद्युपदेशो षकारनकारान्ता या संख्याएसे षट्संज्ञेत्यर्थः ॥ “*नुम्नुडर्थमिति” । अर्थशब्दः प्रयोजनवाची । तत्र नुमि ‘शतानि’ इत्यादौ षट्संज्ञानिवृत्तिः प्रयोजनम्, नुटि तु विधीयमाने षट्संजिञाप्रवृत्तिः प्रयोजनम् ॥
“*अष्टानामिति” । परत्वान्नित्याच्चात्वे कृते नुटोऽप्राप्तिः । कार्यकालत्वात्संज्ञायाः प्रवृत्तेर्नास्त्यन्तरङ्गत्वम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-175.
“*अष्टनो दीर्घेति ।” तत्र हि दीर्घग्रहणं ‘अष्टसु’ इति सुप उदात्तत्वनिवृत्त्यर्थं क्रियते । यदि च कृतात्वस्य षट्संज्ञा न स्यात् तदा ‘अष्टसु’ इति परत्वात् षट्स्वरः ‘झल्युपोत्तमम्’ इति भविष्यतीति किं दीर्घग्रहणेन ? कृतं च तत्कृतात्वस्याऽपि षट्संज्ञा ज्ञापयति । ततश्चापवादत्वात् षट्स्वरोऽनेन बाध्यत इति दीर्घपक्ष इवादीर्घपक्षेऽपि विभक्तेः स्वरः स्यादिति कर्तव्यं दीर्घग्रहणम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-176.
“*एकास्ता इति ।” संख्यावाचित्वाभ्युपगमवादी व्यत्ययेन बहुवचनं मन्यते । अन्यवाचित्वा श्रयं तूत्तरम् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-177.
“*इह तर्हीति ।” ‘द्वाभ्याम्’ इति षट्स्वरः स्यात् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-178.
“*सप्तम इति ।” ‘अष्टाभ्यः’ इति कृतात्वानुकरणम् ।
औश्त्वव्धानसामर्थ्य्
आLufna विधीयते ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-179.
“*हलीति । ततश्च ‘अष्ट नाम्’ इति नुटि कृतात्वनिर्देशात् ज्ञापकादात्वं भवति । कृतात्वस्य हि निर्देशस्य प्रयोजनम्-यत्रात्वं तत्रोश्त्वं यथा स्यादिति । यदी ह्येतत्कृतात्वस्वनिर्देशस्य प्रयोजनं न स्याल्लाघवार्थं `अष्टभ्य औश्’ इति ब्रूयात् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-180.
“*यद्येवमिति ।” हलादावुच्यमानमात्वमौजसोर्न प्राप्नोति । यत्राष्टार्थस्य प्राधान्यं तत्रौश्त्वेन भवितव्यम्, तत्रैव चौश्त्वेनात्वमनुमीयत इति जस्यप्यात्वमत्र ज्ञापकान्न प्राप्नोति । विभक्तिमात्रे त्वात्वं विधीयमानमौजसोः सिध्यति । ‘अष्टन आविभक्तौ’ इत्यत्र ‘पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च’ इति तदन्तविधिसद्भावाद्बहुवचननिर्देशाभावत् गुणभुतेऽप्यष्टार्थे आत्वेन भाव्यमिति अत्रापि सिध्यतीति प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-181.
“*यथालक्षणमिति ।” यस्य विशिष्टः प्रयोगो न स्मर्यते नापि प्रयोगनिषेधस्मृतिः, तद्यथालक्षणमनुगन्तव्यम् । तदत्र मा भूदात्वमित्यर्थः । नैव वा लक्षणमप्रयुक्ते प्रवर्तते, प्रयुक्तानामेव लक्षणेनान्वाख्यानात् ॥ 24 ॥
“*डति च ॥ 25 ॥ यदि तावदिति ।” तत्र वतुसाहचर्यात्तद्धित एव डतिर्गृह्यते, न तु पातेर्डतिः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-183.
“*अथेति ।” तत्र संख्यासंज्ञाया अनुवर्तनादन्वर्थत्वाच्च संज्ञायाः संख्याप्रश्नविषय एव डतिर्गृह्यते, न त्वौणादिको डतिः ॥ 25 ॥
“*क्तक्तवतू- ॥ 26 ॥” इहानुबन्धाः कार्यार्थमुपादीयन्ते । प्रयोगस्त्वेषां लुप्तत्वान्नास्ति । यत्र च सारूप्यं तत्र सन्देहः-कथमस्यानुबन्धकार्यं कृतमस्य तु न कृतमिति पूर्वपक्षाभिप्रायः ॥ सिद्धान्तवादी तु मन्यते-अध्रुवेणानुबन्धेन नियतसन्निधाना अर्थाः कारककालादयो लक्ष्यन्ते । तद्दर्शनादनुबन्धस्मृतौ च तल्लक्षितानां कार्याणां साधुत्वं विज्ञायते । तत्र यदा ‘देवदत्तेन लूनः शालिः’ इति कश्चित्प्रयुङ्क्ते, तदा लक्षणज्ञः कर्मभुतकालावगमात् क्तप्रत्ययं मन्यते । यदा तु ‘लोतमालभेत’ इति प्रयोगस्तदा मेषवाची लोतशब्दस्तन्प्रत्ययान्तः प्रयुक्त इति मन्यते ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-185.
“*सिद्धविपर्यास इति ।” सिद्धो विपर्यासः, संसय इत्यर्थः ॥ “*इदं तद्गृहमिति ।” बुद्धेरनवस्थितत्वमनेन प्रतिपाद्यते । न त्वेतद्द्विर्वचनं, वीप्साद्यर्थाभावात् ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-186.
“*प्राकीर्ष्टेति।” अत्र भूतकालोऽस्तीति भावः ॥
1.प्रथमाध्याये प्रथमपादे पञ्चमाह्निक-187.
“*दृश्यन्तेऽत्रेति । सिजादि इति आदिशब्दः प्रकारे । तत्र ‘प्राभित्त घटं देवदत्तः’ इति प्रयोगे कर्त्त्रेकत्वाद्यवगमाल्लुङन्तस्यायं प्रयोगः, न निष्टान्तस्येति प्रतिपद्यन्ते । ‘अञ्जिघृइभ्यः क्त्यः’ इत्यस्य निष्टासंज्ञा न भवति, उणादीनामव्युत्पन्नत्वाद्बाहुलकाद्वा । अन्यथा ‘निष्टा च द्व्यजनात्’ इत्याद्युदात्तत्वं स्यात् ॥ 26 ॥
इत्युपाध्याय”*जैयट"पत्र”*कैयट"कृते महाभाष्य”*प्रदीपे”
प्रथमस्याध्यायस्य प्रथमे पादे “*पञ्चम"माह्निकम् ॥
“*सर्वादीनि सर्व ॥ 27 ॥ कोऽयमिति ।” ननु नपुंसकबहुवचननिर्देशादेव बहुव्रीहिनिश्चयात्समासान्तराशङ्का नैवास्तीति प्रश्नानुपपत्तिः । एवं तर्हि किमयं बहुव्रीहिरेव-आहोस्विद्बहुव्रीहितत्पुरुषयोरेकशेषः । यथा-‘कतन्तेभ्यः कण्वादिभ्यश्च’ इति प्रश्नः । तत्र सारूप्यार्थं
सर्वश्चासावादिः सर्वादिरित्यत्रादिशब्द उपादीयते, न त्वस्य प्रयोजनान्तरमस्ति । तत्र ‘नपुंसकमनपुंसकेन-इति वा `स्वरभिन्नानं यस्योत्तरस्वरविधिः स शिष्यते’ इति वा बहुव्रीहेः शेषः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-2.
वक्ष्यमाणेन न्यायेन विनाऽप्येकशेषेण सर्वशब्दस्य संज्ञा सिध्यतीति मत्वाऽऽह-”*बहुव्रीहिरिति ॥”
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-3.
एवमपि संदेहः । किं प्राथमकल्पिको बहुव्रीहिः, अथ बहुव्रीहितत्पुरुषयोरेकशेषे बहुव्रीहिरिति पृच्छति-”*कोऽस्येति ॥”
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-4.
“*तानीमानीति । अन्यपदार्थस्य प्राधान्यं प्रदर्श्यते । अन्यथा यथा-चित्रा गावोऽस्येति गवां विशेष्यत्वं तद्वतश्च विशेषणत्रमवगम्यते, तथेहाप्यवगम्येत । अत्र चार्थे बहुव्रीहिर्नेष्यते । यधा तु स्वामिनः प्रादाय्यं गवाम् विशेषणभावस्तदा बहुव्रीहिः । अत एव चित्रा गावो यस्य स चित्रगुरिति स्वामिनः प्राधान्यं पदर्श्यते । ‘तनीमानि’ इति सर्वनामद्वयोपादानेन प्रत्यक्षविषयत्वादिदंशब्दस्य गणपठितेषु सर्वशब्दस्यान्तर्भावात्तद्गुणसंविज्ञानं सूचयति । तस्यान्यपदार्थस्य गुणा उपलक्षणानि तेषामपि कार्ये संविज्ञानं तद्गुणसंविज्ञानम् । तत्र चित्रगुरानीयतामिति स्वस्वामिभावसंबन्दः षष्ट्यर्थ इति स्वविशेषोपलक्षितस्य स्वामिन एवानयनं, न तु गवाम् । ‘दण्डी विषाणी चानीयताम्’ इत्यत्र संयोगसमवायलक्षणेन संबन्धेन संबन्धिनि कार्ये विज्ञायमान उपलक्षणस्याप्यन्तर्भावो भवति। इहाप्यादिशब्दस्यावयववाचित्वादुध्भूतावयवभेदः समुदायः समासार्थः । तस्य च समुदायस्य युगपल्लक्ष्ये प्रयोगाभावात्तदन्तर्भूतानामेव पृथक् प्रयोगसत्वात्कार्यार्थया संज्ञया प्रवर्तितव्यमिति सर्वशब्दस्यापि सा सिध्यति । ‘यथा-‘देवदत्तशालायां ब्रह्मणा आनीयन्ताम्’ इत्युक्ते देवदत्तोऽपि यदि ब्राह्मणो भवति स्वशालस्थाश्च तदा सोऽप्यानीयत एव ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-5.
“*णत्वं प्राप्नोतीति ।” राजपुरुषादिवत्संज्ञाशब्दा अपि शास्त्रप्रक्रियायां सन्तमसन्तं वाऽवयवार्थमाश्रित्य व्युत्पाद्यन्त इति णत्वप्रस्ङ्गः । प्रयोगे च सणत्वा अणत्वाश्च नित्या एव शब्दाः । तत्र संज्ञायं सणत्वा एव साधावः, असंज्ञायां त्वणत्वा एवेति शास्त्रव्यापाराण्णत्वं प्राप्नोत्येव । सर्वार्थाभिधानयोग्यस्य शब्दस्य शक्तिनियमनमात्रं संज्ञाकरणमिति शब्दार्थसंबन्धनित्यत्वस्यापि न विरोधः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-6.
“निपातनादिति ।” लोकेऽप्ययं णत्वरहिति एव प्रयुज्यते, तस्यात्र प्रस्ङ्गेन साधुत्वं प्रतिपाद्यते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-7.
“*किमेतदिति ।” भवतु अस्य साधुत्वं, णत्वप्रतिषेधे त्वस्य तात्पर्याभावाद्विकल्पः प्राप्नोतीति भावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-8.
“*इतरः” । प्रतिषेधेन साम्यं प्रतिपादयितुं पर्यनुयुङ्क्ते-”*अथ क इति” ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-9.
सर्वत्रैवाप्राप्त्यनुमानं बाधः । निपातनं चापि णत्वाप्राप्त्यनुमानमिति भावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-10.
“*ननु चेति ।” प्रतिषेधस्य हि निवृत्तावेव तात्पर्यम्, निपातनस्य तु तद्रूपसाधुत्वप्रतिपादने, न तु रूपान्तरनिवृत्ताविति भावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-11.
“इको यणचीति ।” यणो हि साधुत्वं प्रतिपाद्यते न त्विङ्निवृत्तिरित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-12.
“*षष्ट्याऽत्रेति ।” ततश्च संहिताविषये स्वाभाविकोऽप्रयोग इकः षष्ठीनिर्देशेन प्रतिपाद्यते । यथा-‘दर्भाणां स्थाने शरैः प्रस्तरितव्यम्’ इति, न तत्र दर्भाः प्रस्तीर्यन्ते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-13.
“*इह तरीह्ति ।” विकल्पः प्राप्नोतीति भावः । समुच्चयस्तु न भवति, एकेन परदेशस्यावष्टब्धत्वाद्दातुसार्वधातुकयोश्चार्थाभिधाने एकेनैव साहायकस्य संपादनात् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-14.
“शबादेशा इति । श्यनश्च शित्करणं ज्ञापकम्-स्थानिवद्भावाभावस्य । तेन ‘करोति’ इत्युप्रत्ययस्यापित्वादनुदात्तत्वं न भवति । ‘कुर्वती’ इत्यत्र ‘शप्श्यनोर्नित्यम्’ इति नुमागमो न भवति, ‘आत्’ इत्यधिकाराद्वा । ‘रुधादिभ्यः श्नम्’ इत्यत्र रुधादीनां श्रुतत्वात्तेषामेवान्त्यादचः परः श्नम् भवति, न तु शपः । यथा च -‘भ्रस्जो रोपधयो रमन्यतरस्याम्’ इति रमागमो रोपधयोर्निवर्तकः एवं शपः श्नम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-15.
“*इह तर्हीति ।” देशभेदाद्विरोधाभावेऽपि काकचोरेकार्थत्त्वाद्विकल्प एव चोधते, न समुच्चयः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-16.
“कर्तव्योऽत्र यत्न इति ।” `लुम्पेदवश्यमः’ इत्ययं स्लोकोऽन्यार्थमवश्यं पठितव्यः । तेनैव ‘सततं’ ‘सन्ततम्’ इति च सिध्यति, न तु निपातनेनेत्यर्थः । सांतस्तम्’ इति चानभिधानात् व्यञन्तस्य प्रयोगाभवः । पुराणशब्देन पुरातनशब्दस्य बादः प्राप्तः पृषोदरादित्वान्न भवति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-17.
“*संज्ञोपसर्जनीभुतानामिति ।” ये विषयान्तरेदृष्टास्त एवेमामवस्थां प्राप्ता इति विवक्षाय च्विप्रत्ययनिर्देशः ॥ “*सर्वाय देहीति ।” पदकार्येषु गौणमुख्यन्यायो न प्रातिपदिककार्येष्विति ‘शब्दाश्रये च वृद्ध्यात्वे’ इत्यत्रोक्तिमिति प्रसिद्ध्यप्रसिद्धिवशात्संभवन्नपीह स नोक्तः । `समासकृत्तद्धिताव्ययसर्वनामासर्वलिङ्गा जातिरेकद्रव्योपनिवेशिनी संज्ञा’ इत्येतदनपेक्ष्य संज्ञाप्रतिषेधः । तत्र ह्यपेक्षिते परया पूर्व संज्ञा बाध्यत इति संज्ञासंज्ञया सर्वनामसंज्ञाबाधनात्प्रसङ्गाभावः ॥ “*अतिसर्वायेति” । प्रादिसमासोऽयं, बहुव्रीहौ संज्ञाप्रतिषेधात् । `प्रयोजनं सर्वनामाव्ययसंज्ञायाम्’ इति तदन्तविद्यिः ‘परमसर्वस्मै’ इत्याधर्थ आश्रितः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-18.
“*पाठादिति ।” यथा-”*तिङोगोत्रादीनि’ इत्यत्र “*कुत्सनाभीक्ष्ण्य"ग्रहणं गोत्रादि पाठविशेषणम्, तथेहापि सर्वादिसन्निवेशो विशेष्यते-असंज्ञोपसर्जनानि सर्वादीनि गणसन्निविष्टानिनान्यानीत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-19.
“*किमविशेषेणेति ।” किं यत् सर्वेषां सर्वादीनां सर्वनामकार्यं तदर्थमेव-इति प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-20.
“*विशेषेण चेति । च शब्दादविशेषेण चेत्यर्थः । यत् गणपाठोपलक्षितं विशिष्टं कार्यं ‘त्यदादीनामः’ ‘अद्ड्डतरादिभ्यः’ इत्यादि, तदर्थमपि पाठविशेषणमित्यर्थः । यक्त्तु कार्यं `युष्मदस्मद्भ्यां ङ्सोऽश इत्यादि स्वरूपमात्राश्रयं न सन्निवेशापेक्षं, तदविशेषेण भवति । तत्र हि न गणपठितयोर्युष्मदस्मदोर्निर्देशः, अपि त्वौणादिकयोः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-21.
“अनुपसर्जनादिति ।” ननु प्रधानेन तदन्तविध्यर्थो योगः प्रारब्धव्यः, ‘कौम्भकारेयः’ इति यथा स्यादिति ॥ न च ‘अण्’ इति कृद्ग्रहणम्, तद्धितोऽप्यणस्तीति ॥ नैतदस्ति, ‘स्त्रीप्रत्यये चानुपसर्जनेन’ इति तदादिनियमाभावात् कारशब्दादपि ङीपि कुम्भकारीशब्दात् ‘स्त्रीभ्यो ढक्’ इति ढग्भविष्यति ॥ “*अनुपसर्जन अ अदिति ।” ‘सुपां सुलुक्’ इति षष्ट्या लुक् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-22.
“*अ-अ-अदिति अकारेणाकारात्कारो विशेष्येते । अकारात्परौ यावकारात्कारौ तावनुपसर्जनस्येत्यर्थः ।
`पञ्चम्या अत्’ इत्ययं तु युष्मदस्मद्भ्यामनकारान्ताभ्यां विधीयत इति परिभाषाऽनुपस्थानादुपसर्जनाभ्यामपि भवति । ‘त्यदादीनामः’ इत्ययमकारात्परस्य हलः स्थाने विधीयत इति अकारात्परोऽकारो भवतीति परिभाषोपस्थानात् ‘अतितत्’ इत्यत्र न भवति । एवं तु प्रियौ द्वावस्येति बहुव्रीहौ कृतेऽकारादविधानात्परिभाषाऽनुपस्तानादत्वं प्राप्नोति ‘तदोः सः सा-’ इति सत्वमविशेषितमित्युपसर्जनस्यापि प्राप्नोति ॥ तत्रायं समाधिः-‘त्यादादीनामः’ इत्यत्र त्यदादिषु परिभाषोपस्थानादनुपसर्जनानां तेषां ग्रहणम्, तत्साहचर्यात्, द्विशब्दोऽपि तथाविध एव गृह्यते । सत्वविधौ च तथाविधानामेवानुवृत्तिरित्यत्रापि न दोषः ॥ ‘अतिसर्वाय’ इत्यादौ त्वविशेषकार्यमपरिहृअतमेव ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-23.
“*गृह्यमाणविभक्तेरिति ।” गृह्यमाणानां त्यदादीनां डेतरादीनां च स्वार्थद्वारेण संबन्धिनी या विभक्तिस्तदर्थगतसंख्याकर्मादिवाचिनी तस्यां-इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-24.
“*यद्येवमिति ।” गृह्यमणाद्या विहिता विभक्तिरित्येवं संबन्धं मन्वानस्य प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-25.
आर्थः संबन्धोऽत्र गृहीतः-इत्युत्तरेऽभिप्रायः ॥ यद्येवं पञ्चकाः शकुनय इति कनः स्वार्थिकत्वाज्जसो लुक् प्राप्नोति । उच्यते, कनि कृते शब्दान्तरत्वान्नान्तत्वाभावान्नान्तत्वाभावान्नायं षट्संज्ञक इत्यदोषः ॥ ‘युष्मदस्मद्भ्यां ङसोऽश्’ इत्यत्र त्वङ्गेन विभक्तिर्विशेष्यत इत्युपसर्जनाभ्यामपि सिध्यति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-26.
“*प्रियसक्थ्नेति ।” सक्थिशब्दः शकटावयववचनोऽत्रेति ‘बहुव्रीहौ सक्थ्यक्ष्णोः-’ इति समासान्तो न कृतः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-27.
“*प्रकृतविभक्ताविति ।” अङ्गार्थस्Mबन्धिन्यां विभक्तावित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-28.
“*तच्चापीति ।” ‘गृह्यमाणविभक्तेः’ इति सप्तमीनिर्दिष्टे यदुच्यते’ इति च ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-29.
“*इतरादिभ्यो यो विहित इति ।” अर्थद्वारकं विधानमाश्रयितव्यम् । तेन परमकतरत्-इत्यत्रापि भवति । ‘युष्मदस्मद्भ्यां ङ्सोऽश्’ इत्यत्र तु प्रकरणेऽङ्गेन विभक्तिर्विशेष्यतेऽर्थद्वारेण, युष्मदसमद्भ्यां तु
परत्वमात्रेणेति-अतियुष्मदित्यादावपि कार्यं भवति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-30.
“*अतिस इति ।” शोभनः सः इति प्रादिसमासः । नञ्समासोऽपि असः-अषट्-अकतरत्-इति भवति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-31.
“*सर्वेषं यानीति ।” स्वविषयापेक्षया सर्वनामत्वं बोद्धव्यम् । यथा-गोत्वादेः स्वविषयापेक्षं सर्वगतत्वम्, न तु एतानि सर्वादीनि पर्यस्परं पर्ययतां यान्ति, भिन्नार्थत्वात् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-32.
“*एतेषां चापीति ।” ततश्च ‘सर्वस्मिन्नोदने’ इत्योदनशब्दस्यापि सर्वनामकार्यं प्राप्नोति, सामानाधिकरण्यादनयोः । ननु प्रतिनियतवस्तुभागाभिनिवेशित्वाच्छब्दानां सर्वत्वमोदनशब्देन नाभिहितम्, ओदनत्वमपि सर्वशब्देनेति कुतोऽयं प्रस्ङ्गः ॥ तत्रेदं दर्शनम्-सर्वशब्द ओदनार्थावग्रहेण प्रवृत्तः, ओदनशब्दोऽपि सर्वशब्दार्थावग्रहेण । प्रतिपत्ता तु केवलात्सर्वशब्दाद्विशेषं न प्रतिपद्यते, रूपसादृश्यात्; नाप्योदनशब्दात्-इति तत्प्रतिपत्त्यर्थमुभयोरुपादानम् । तत्रैकस्य सर्वनामकार्य भवति नापरस्य-इति प्रमाणाभावादतिप्रसङ्ग उद्भावितः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-33.
“*एकशेषनिर्देश इति ।” ननु सहविवक्षाया अभावात् कथमेकशेषः । एकशेषफलत्वात्तन्त्रन्यायः-आवृत्तिर्वेकशेषशब्देनोच्यते । अथवा-आकृत्यभिधानपक्षे एकस्यैव प्रयोगे सिद्धे प्रत्याख्यातमेकशेषशास्त्रं संज्ञापरिभाषावच्छास्त्रप्रक्रियासंपादनार्थं भवतीति सहविवक्षामन्तरेणापि भवत्येकशेषः ॥ “*संज्ञोपसर्जने चेति ।” यदा सर्वशब्दः संज्ञात्वेन विनियुज्यते, तदाप्रसिद्धप्रवृत्तिनिमित्तपरित्यागेन स्वरूपमात्रौपकारी प्रवर्तते इति विशेष एवावतिष्टते । उपसर्जनमपि जहत्स्वार्थमजहद्वाऽतिक्रान्तार्थविशेषणतामापन्नमतिक्रान्तार्थवृत्ति भवति ‘अतिसर्वाय’ इत्यत्र ॥ वाक्ये त्वसंसृष्ठार्थत्वात् स्वार्थमात्रं प्रतिपादयतो न विशेषेऽवस्थानम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-34.
“*यतो न लघीय इति ।” शब्दव्यवहारो लघुः, ततोऽपि लघीयो नाम । तत्र गुरुसंज्ञाकरणात्सर्वादीनां विशिष्टो धर्मोऽनुमीयते-नूनमेतानि संज्ञाप्रवृत्तिनिमित्तेन सर्वनामत्वेन युक्तानि । यतस्तदनुरूपा तेषां संज्ञा कृतेति सर्वनामकार्यमन्तर्गणकार्यं च सर्वनामत्वयुक्तानामेव भवति, न संज्ञोपसर्जनानाम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-35.
“*अन्याभाव इति ।” टाब्विषयत्वमपि न द्विवचनादन्यत्र बोद्धव्यं ।
तत्र ‘उभादुदात्तो नित्यम्’ इत्यत्र नित्यग्रहणस्येदं प्रयोजनम्-वृत्तिविषये उभशब्दस्य प्रयोगो मा भूत्, उभयशब्दस्यैव यथा स्यादिति-उभयपुत्र
इत्यादि भवति ॥ `द्विदण्ड्यादिभ्यश्चे’त्यत्र निपातनात् ‘उभाबाहु’ इत्यादयः साधवः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-36.
“*कश्चेदानीमिति ।” रूपे स्वरे च नास्ति विशेषः । अवग्रहे च नास्त्यादरः, न हि लक्षणेन पदकारा अनुवर्त्याः । उभकाभ्यां हेतुभ्यां उभकयोर्हेत्वोरिति षष्ठीतृतीये सिद्धे, निमित्तकारणहेतुषु सर्वासां प्रायदर्शनमिति वचनात् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-37.
“*उभशब्दोऽयमिति ।” द्विवचनेऽनन्तरे श्रूयमाणे उभशब्देन साधुना भाव्यं न लुप्ते, न व्यवहिते ॥ “*के पुनः सतीति ।” पूर्वस्य द्विवचनस्य लुप्तत्वादपरस्य केन व्यवधानात् । तत्र-कविषये व्यवहितद्विवचनविषय उभशब्दः साधुर्भवतीति वक्तव्यम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-38.
“*यथैव तर्हीति ।” ननु ‘द्विवचनटाब्विषयत्वात्’ इत्यत्र टाप उपात्तत्वाच्चोद्यानुपपत्तिः । एवं तर्हि टाब्विषयत्वमेकवचनबहुवचनयोर्मा भूदित्येवमर्थमाप्यपि द्विवचनपरता वक्तव्येत्युक्तम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-39.
“*अवचनादिति ।” स्वार्थिकत्वादाप उभार्थस्याहानादापि सिद्धा द्विवचनपरतेत्यर्थः ।
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-40.
“*केऽपि तुल्यमिति ।” ‘द्विवचनविषयत्वात्’ इत्यत्र द्विवचनशब्देन प्रत्ययो न गृह्यते । किं तर्हि ? ह्यर्थाभिधानसमर्थ इत्यर्थः ॥ ‘उभयतः’ ‘उभयत्र’ इति त्रतसोरव्ययत्वात् द्वित्वाभिधानसामर्थ्यं नास्तीत्यभेदविषय उभयशब्द एव प्रयुज्यते, न तूभशब्दः ॥ एवं प्रत्याख्यातोऽकजर्थ उभशब्दस्य पाठः ॥ ‘सर्वनाम्रस्तृतीया च’ इति षष्ठीतृतीयार्थः पाठ इति केचित् । ‘निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम्’ इति वचनात्तदर्थोऽपि पाठो न कर्तव्य इत्यन्ये॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-41.
“*अथ भवत इति ।” अनकारान्तत्वात् स्मायाद्यभावात् प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-42.
“*शेष इति ।” पाठे सति त्यदादित्वाच्छेषो भवति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-43.
“*तृतीयादयोऽपीति ।” ‘निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम्’ इत्यनपेक्षयैतदुक्तम् ॥ इदं तु प्रयोजनम्-भावतायनिः, भवद्यञ्, भवन्मयः । पूर्वनिपातश्च-भवन्मित्त्रः । ‘भवतष्टक्छसौ’ इति वृद्धत्वात् ठक्छसौ, गुणवचनसंज्ञाबादनं च, भवतो भावः-भवत्यमिति मा भूत् ॥ 27 ॥
“*विभाषा दिक्समासे ॥ 28 ॥ दिक्ग्रहणमिति । एकस्मिन्विषये विकल्पप्रतिषेधयोरसंभवात्सामर्थ्याद्विषयभेद आश्रयितव्य इति प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-45.
वचनमन्तरेणाभिमतो विषयभेदो न लभ्यत इत्युत्तरम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-46.
“*समास एवेति ।” मुख्य इत्यर्थः । अन्यस्तुतत्कार्यलाभात् तद्व्यपदेशं लभत इत्यमुख्यः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-47.
“*दक्षिणोत्तरपूर्वाणामिति ।” ‘द्वन्द्वे च’ इत्यनेन सर्वाद्यन्तस्य द्वन्द्वस्य सर्वनामसंज्ञाप्रतिषेधः, नावयवानाम्-इति ‘सर्वनाम्नो वृत्तिमात्रे’ इति पुंवद्भावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-48.
“*येन नाप्राप्त इति ।” अयमत्रार्थः-‘न बहुव्रीहौ’ इत्यनेन सर्वः स्वविषयो व्याप्तः । ‘द्वन्द्वेच’ इत्यनेन तु न व्याप्तः, ‘विभाषा जसि’ इति जसि विकल्पविधानात् ॥ यदि चानेन द्वन्द्वे विभाषा स्यात् जस्यनुवाददोषः प्रसज्येत । बहुव्रीहौ त्वनुवाददोषमलभमाना कृतार्था सती परत्वादियं विभाषा ‘द्वन्दे च’ इत्यनेन बाध्यते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-49.
“*लख्षणप्रतिपदोक्तयोरिति ।” दिक्समास इति व्यपदेशः ‘दिङ्नामानि’ इति विहितस्य न्याय्यः, तत्र हि दिक्शब्दोऽस्ति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-50.
“*वस्त्रान्तरेति ।” उपसर्जनप्रतिषेधो वार्तिककारस्य न सूत्रकारस्य, ‘नब्हुव्रीहौ’ इत्यारम्भात् । तन्मतेनेदं प्रयोजनमुक्तम् ॥ 28 ॥
“*न बहुव्रीहौ ॥ 29 ॥ प्रियविश्वायेति ।” प्रियशब्दस्य विश्वविशेषणत्वात्पूर्वनिपातं मन्यते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-52.
“*ह्यन्यायेति ।” संख्यायाः संख्येयपरतन्त्रत्वाद्विशेषणत्वम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-53.
“*सर्वनाम्न एवेति । नियमः कथमिति चेत्, उच्यते-विशेषणत्वात्संख्यायाः पूर्वनिपाते प्राप्ते, एवमर्थमुपसंख्यानं स्यात्-सर्वनामसंख्ययोः संनिपाते सर्वनाम्न एव पूर्वनिपातः स्यादिति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-54.
“*वक्ष्यत्येतदिति । नैष वाक्यार्थे यस्त्वयाकल्पित इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-55.
“*व्यञ्जनान्तेष्विति ।” उपलक्षणमेतत् । ‘द्विकपुत्रः’ ‘द्वकिपुत्रः’ इत्यत्रापि विशेषदर्शनात् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-56.
“*कथं पुनरिति ।” अन्तरङ्गत्वात्संज्ञानिमित्ते नाकचा तावद्भाव्यं, पश्चात्पदान्तरसंनिधाने वर्तिपदार्थविशेषणान्यपदार्थविवक्षायां बहिरङ्गेण बहुव्रीहिणेत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-57.
“*अन्तरङ्गानपीति ।” प्रत्ययोत्तरपदयोश्च’ इति सामान्येन ज्ञापकम्-बहिरङ्गेऽपि समासाश्रयो विधिरन्तरङ्गं बाधते’ इत्यस्यार्थस्येति भावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-58.
“*क्रियते तत्रेति । लुग्विषयमेव तत्ज्ञापकमित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-59.
“*अस्त्यन्यदिति ।” अत्र हि विधिप्रतिषेधौ समानकालौ, कार्यकालत्वात्संज्ञाया इति मन्यते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-60.
“*अयं खल्वपीति । सूत्रोपारूढ एवायमर्थ इति प्रतिपादयति । अप्रयोगसमवायि यत् प्रक्रियावाक्यं तत्रायं प्रतिषेधः । न लौकिके वाक्ये प्रयोगार्हे, तस्य पृथगेव प्रयोगात्तादर्थ्याभावात् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-61.
“*गोनर्दीयस्त्वाहेति ।” सूत्रप्रत्याख्यानमेतत् । यथोत्तरं हि मुनित्रयस्य प्रामाण्यम् ॥ स्वरः -‘स्वाङ्गशिटामदन्तानाम्’ इत्याद्यउदात्तत्वम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-62.
“*आढ्यपूर्वयेति ।” अबहुव्रीह्यर्थ वचनम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-63.
“*न चाक्रेति” । प्राधान्येनेति भावः । अत्र हि पूर्वत्वमाढ्यत्वस्य विशेषणम् । यथा -‘अतिपूर्वाय’ इति पूर्वार्थोऽतिक्रान्तस्यइत्युपसर्जनत्वात्पूर्वार्थस्य न भवति संज्ञा । मयूरव्यंसकादित्वाच्चात्र समासः ॥ 29 ॥
“*विभाषा जा- ॥ 32 ॥ जसःकार्यं प्रतीति ।” जसः -जसीति निर्देशादिकारेण ईकारस्य ग्रहणादित्याहुः । अन्ये तु कार्यकालत्वात्संज्ञाया जसः शीत्यत्रैवोपस्थानं मन्यन्ते ॥ 32 ॥
“*पूर्वपरा- ॥ 34 ॥ अवरादीनं चेति ।” किमर्थं प्रतिपदं पूर्वेदीनि जसि विभाषाष्थं पठितानि, यावता गण एवार्थविशेषेण विशिष्टानि नित्यं सर्वनामसज्ञार्तं पठ्यन्ते । तत्र `पूर्वादीनि नवे’त्येवं सूत्रं पठितव्यम् ।
प्राप्तविभाषाचेयं भविष्यति । तेषामेवात्र प्रत्यभिज्ञानात् । गण एवर्थनिर्देशः पाठविशेषणंभविष्यति । यथा `तिङो गोत्रादीनी’त्यत्र कुत्सनाभीक्षण्यग्रहणं गोत्रादिपाठविशेषणमिति वार्तिककाराभिप्रायः ॥
“*अवरादीना"मित्यत्र प्रकारार्थ आदिशब्दः, तेन पूर्वपरशब्दावपि गृह्यते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-68.
“*कथं पुनरिति ।” पूर्वं गणपाठो नियतसंनिवेशो व्यवस्थितः प्रश्चात्तु सूत्रपाठ इत्यत्र प्रमाणाभावात् । आदिशब्दः प्रकारवाची दृष्टः, व्यवस्थावाची च । तत्र `सर्वदीनी-‘त्यत्रादिशब्दस्य प्रकारार्थताऽपि संभवति । प्रकारार्थप्रदर्शनाय पश्चादभियुक्ता गणान् पठन्ति । यदुक्तम्-`श्रेण्यादयः पठ्यन्ते कृतादिराकृतिगण’ इति ॥ कृतादयश्च वृत्तिकारैर्निदर्शनार्थं पठिताः । तत्र वेदे `मध्यमस्यामवमस्या’ मिति प्रयोगदर्शनात्प्रकारार्थता आदिशब्दस्य `सर्वदीनी’त्यत्र संभाव्यत इति प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-69.
“*तानि हि पूर्वादीनीति ।” पूर्वकालपठितत्वात्पूर्वशब्देन सर्वशब्दोऽभिधीयते । तेनायमर्थः-`सर्वदीनी-‘त्यत्र व्यवस्थावाच्यादिशब्दः । प्रकारवाचित्वे हिकृत्स्नादीनामपि संज्ञा स्यात् । मध्यमस्यामवमस्यामिति तु व्यत्ययेन छान्दसः प्रयोगः ॥ “इमान्यवरादीनीति ।” अवरकालपाठात्पूर्वशब्दोऽवरशब्देनोच्यते । तेन पूर्वं गणपाठः, पश्चात्सूत्रपाठ इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-70.
हेत्वभिधानमन्तरेणाशक्योऽयमर्थः प्रतिपत्तुमित्याह-”*इमान्यपीति ॥”
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-71.
“*नवग्रहणमिति ।” तत्र हि नवग्रहणं त्यदादिनिरासार्थं क्रियते । यदि च नियतसंनिवेशो गणपाठः पूर्वस्ततोऽधिकव्यवच्छेदाय नवग्रहणं कर्तव्यम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-72.
“*इदं तर्हीति ।” प्रतिनियतविशेषणाभिधानाय प्रतिपदपाठ इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-73.
“*एवंविशिष्टान्येवेति ।” पाठविशेषणाय गणेऽर्थनिर्देश इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-74.
“*द्वयादिपर्युदासेनेति ।” त्यदादीनि पठित्वा गणे कैश्चित् पूर्वदीनि पठितानि, तत्राद्व्यादिभ्य इति तसिलादीनां प्रतिषेधः प्राप्नोति । तत्र पुनः सर्वनामसंज्ञया तसिलादिर्विधीयते । तेन द्व्यादिपर्युदासो बाध्यते ।
यथा ‘अनुर्लक्षणे’ इतिपुनर्विधानेन हेतुतृतीया बाध्यते । वाक्यभेदेन च विभाषा जसि विधीयते । यथा ‘अमि पूर्वः’ ‘संप्रसारणाच्च’ इत्यत्र वाक्यभेदेन ‘वा छन्दसि’ इति संबन्धाच्छन्दसि विकल्पः क्रियते इति भावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-75.
“*इदं तर्हीति “। यदि पूर्वादीनि नवेत्युच्येत तदा गणपाठेऽर्थनिर्देशस्य नित्यसंज्ञाविधान एवोपयुक्तत्वात् पाठविशेषणे प्रमाणाभावादप्राप्तिविभाषेयमर्थान्तेरे पूर्वादीनां जसि विज्ञायेत, प्राप्तविभाषायामुक्तानुवाददोषप्रसङ्गादप्राप्तविभाषायामपूर्वविधानात् ॥ “*विभाषामिति” । प्राप्तविभाषामित्यर्थः । प्रतिपदपाठं चान्तरेणासंकरेणार्थनिर्देशोऽशक्यः कर्तुमिति भाष्यकारेण प्रतिपदपाठः समर्थितः ॥ 34 ॥
“*स्वमज्ञा- ॥ 35॥ आत्मात्मीयज्ञातिधनवचनः स्वशब्दः । आमिनिज्विषयस्त्वैश्वर्यवाची ॥ “*आख्याग्रहणमिति ।” स्वे पुत्राः स्वे गाव इत्यत्र स्वशब्द आत्मीयत्वमेवाह । पुत्रादिशब्दास्तु ज्ञातिधनयोर्वर्तन्ते, न स्वशब्द इति प्रतिषेधो न भविष्यतीति प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-77.
“*तस्य यथा स्यादिति ।” प्रतिषेध इति शेषः ॥ “इह मा भूदिति” । असत्याख्याग्रहणे स्वे पुत्रा इत्यादौ स्यादेव प्रतिषेधः । अत्राप्यात्मीयत्वं प्रवृत्तिनिमित्तमुपादाय स्वशब्दो ज्ञातिधनयोर्वर्तते, पुत्रादिभिः सामानाधिकरण्यात् । आख्याग्रहणे तु सति न दोषः । स्वशब्दो ह्यत्रात्मीयस्याख्या, न तु ज्ञातिधनयोरिति विधिः सिद्धः ॥ 35 ॥
“*अन्तरम्- ॥ 36 ॥ बहिरित्यनावृतो देश उच्यते, तेन योगो बहिर्योगः । स च बाह्यस्य भवतीति अन्तरे गृहा इति नगरबाह्याश्चण्डालादिगृहा उच्यन्ते । यदातु बहिश्शब्देन बाह्य उच्यते, बाह्येन योगो बहिर्योग इति, तदा नगराभ्यन्तरे येगृहास्त उच्यन्ते । उभयथाऽपि स्मर्यते । उपसंय्यानशब्दोऽपि कर्मकरणार्थभेदाद्भिन्नार्थः । ततः सर्वथा बहिर्योगात् सिद्धिं मत्वाऽऽह-”*उपसंव्वानेति " ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-79.
“*न वेति ।” समानप्रमाणे शाटकयुगे अपरिहिते इदं न ज्ञायते-किमुत्तरीयं किमन्तरीयमिति, तदर्थमेतदित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-80.
“*अत्रापीति” । यथोपसंव्यानत्वं भाविबुध्द्या व्यवस्थाप्यते तथा बहिर्योगोऽपीत्यर्थः ॥ “*अन्ये त्वाहुः”- आदिशब्दो वार्तिके “*शाटकयुगाधर्थ"मित्यत्रोपात्तः । तत्र शाटकानां त्रये चतुष्टये वा तृतीयचतुर्थयोर्बहिर्योगाभावादुपसंव्यानग्रहणम् कर्तव्यम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-81.
“*अपुरीति”। गणसूत्र एतत् कर्तव्यम्, `लिङ्गविशिष्ट-‘परिभाषया ग्रहणप्रसङ्गात् । इह त्वनेन नार्थः, अत इति जसः शीविधानादाबन्तात्प्राप्त्यभावात् । पूः कस्मिंश्चिच्द्देशे प्राकाराभ्यन्तरे क्रियते क्वचित्प्राकाराद्बहिरित्यस्ति पुरो बहिर्योगः ॥ 36 ॥
“*स्वरादिनिपातम ॥ 37 ॥ किमर्थमिति ।” स्वरादिषु किंचित्क्रियाप्रधानं किंचित्साधनप्रधानमिति असत्ववचनत्वाच्चादिष्वेव स्वरादीनि पठितव्यानीति मत्वा प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-83.
“*स्वरादीनां पुनरिति ।” स्वस्ति वाचयति स्वः पश्येति स्वस्तिस्वःशब्दे क्रियासम्बन्धेऽनेकशक्तिदर्शनात्सत्त्ववाचित्वनिश्चयः । लोहितगङ्गमित्यादीनाञ्चाव्ययानं सत्वधर्मनपुंसकत्वदर्शनाह्यक्तमेव सत्त्ववाचित्वम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-84.
“*न निपातसंज्ञैवेति । ‘प्राग्रीश्वरान्निपाताः’ ‘स्वरादीनि’ `चादयोऽसत्त्वे’ इति सूत्रन्यासः कार्य इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-85.
“*स्वरादीनामिति ।” ‘किमोऽत्’ इत्यत्प्रत्ययो ‘दक्षिणादाच्’ इत्याच् । केन्प्रभृतयस्तु कृत एकाचः सन्तीति भावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-86.
“*तच्चाशक्यमिति ।” अव्ययसंज्ञायामेव सत्यां “*‘अव्ययमेकाजनाङ्’” इति सूत्रं कर्तव्यम् । ततश्चात्प्रभृतीनामपि प्रगृह्यसंज्ञाप्रसङ्गः प्राप्नोति । अथ ‘चादय एकाजनाङ्’ इति क्रियते, तदा चादीनामसत्त्ववचनत्वं विशेषणमलभ्यम् ॥ 37 ॥
“*तद्धितश्चासर्वविभक्तिः” ॥ 38 ॥ इह “संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधाद् यद्यपि केवलस्य प्रत्ययस्य ग्रहणं, तथापि प्रयोजनं सर्वनामाव्ययसंज्ञायामिति वाचनिकस्तदन्तविधिरस्तीति तदन्तस्याव्ययसंज्ञा विज्ञायते ॥ तत्र वृत्तिकारेण व्याख्यातम्-असर्वा विभक्तिर्यस्य सोऽसर्वविभक्तिरिति ॥ तत्र यदाऽयमर्थः-यस्य तद्धितस्याऽसर्व विभक्तिः कार्या=यस्मान्न सर्वा विभक्तेरुत्पद्यते इत्यर्थस्तदा न दोषः । यदा तु यस्य तद्धितस्योत्पत्तौ निमित्तत्वेनासर्व विभक्तिराश्रिता सोऽसर्वविभक्तिः, यथा ‘सर्वैकान्य-’ इति दाप्रत्ययस्य
सप्तम्येवोत्पत्तिनिमित्तमिति । एतस्मिन् सूत्रार्थे विनानानेत्यव्ययसंज्ञा न सिध्यति । न हि’विनञ्भ्याम्’ इत्यत्र प्रतिनियता काचिद्विभक्तिराश्रितेत्याह-”*असर्वविभक्ताविति” । अतिव्याप्तिश्चास्मिन् सूत्रार्थे, दाक्षिरितीञः षष्ट्येव निमित्तमिति संज्ञाप्रसङ्गात् ॥”*अविभक्तिनिमित्तस्येति” । अश्रूयमाणविभक्तिकमव्ययमविभक्तीत्युच्यते । तन्निमित्तस्य यस्येष्यते न च प्राप्नोति तस्योपसंख्यानं कर्तव्यं; न तु सामान्येनाविभक्तिनिमित्तस्य संज्ञा विधेया, विशालविशङ्कटादीनामपि प्रसङ्गात् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-88.
“*किं पुनरिति” । ‘एकवचनमुत्सर्गतः’ इति वचनात् क्रमव्यतिक्रमे कारणाभावात् विनानानेत्यत्राप्यसर्वाविभक्तिरुत्पत्तौ निमित्तमिति प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-89.
“*सर्वविभक्तिरिति " । अविशेषेणोत्पधन्ते, उत्पन्नानां नियमः क्रियते-इत्यव्ययात् सर्वा विभक्तय उत्पद्यन्त इत्यर्थः ॥ “*अविशेषादिति " । विशेषस्यानाश्रयणादिति भावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-90.
“*त्रलादीनां चेति ।” आदिशब्दस्य प्रकारवाचित्वात्तसिलपि गृह्यते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-91.
“*वक्ष्यत्येतदिति " । भवदादिप्रयोग एवाप्राप्तिश्चोद्यत इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-92.
“*यदि पुनरिति” । प्रयोगे योऽश्रूयमाणविभक्तिः सोऽव्ययमित्यर्थः । न च दधिमध्विन्यत्रातिप्रस्ङ्गः, दध्रीत्यादौ विभक्तिश्रवणात् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-93.
“*अविभक्ताविति । अव्ययत्वादविभक्तित्वम्, अविभक्तित्वादव्ययत्वमिति दोषः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-94.
“*अलिङ्गमसङ्ख्यमिति । अविभक्तिरव्ययमित्यस्य लक्षणस्य दूषितत्वात् अत्रापि तदेव दूषणमिति प्रदर्शनार्थ् वाशब्दः । अलिङ्गासङ्ख्यत्वस्य लौकिकत्वान्नेतरेतराश्रयत्वमिति पूर्वपक्षः ॥ “*एवमपीति” । अर्थमपि कश्चित् क्वचित् शास्त्रादेव प्रतिपद्यत इति भावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-95.
“*सिद्धं त्विति” । वार्तिककारस्येतरेतराश्रयदोषः स्थित एवेति तुशब्दो विशेषप्रदर्शनार्थः । भाष्यकारेण त्वितरेतराश्रयदोषः परिहृअत इति वाशब्दार्थः-”*तु"शब्दो व्याख्यातः ॥ य एव`प्रकारवचने थल्’ स एव `प्रत्नदिभ्यो’ विधीयते इति नाव्याप्तिः ॥ “*मान्त इति” । अम् आम् ॥ “*तसिः- ‘प्रतियोगे पञ्चम्यास्तसिः’ ‘तेनैकदिक् तसिश्च’ इति ॥ “*कृत्वोऽर्थः”-कृत्वसुच् सुच् धा ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-96.
“*अथवेति” । वृद्धव्यवहारादेव शब्दार्थसम्बन्धावगमादेकत्वादिव्यवहारवदलिङ्गासङ्ख्यत्वमप्यव्ययार्थस्य प्रसिद्धमित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-97.
अत्रोविपपत्तिमाह-”*तच्चापीति ॥ किंचिदिति " । अव्ययानां द्वैविध्यमेवेति प्रतिपाद्यते, अलिङ्गासङ्ख्यत्वप्रतिपादनाय ॥ “*अन्ये त्वाहुः”-किंचिदव्ययं क्रियाप्रधानम्, किंचित्साधनप्रसाधनप्रधानम् । अन्यत्तु नापि क्रियाप्रधानम्, नापि साधनप्रधानम् । यथा-‘स्वः पश्य, लोहितगङ्गम्-उन्मत्तगङ्गं देशः’ इति । तथा चात्रनपुंसकत्वमव्ययीभावश्चेत्यन्वाख्यायते । पूर्वंच भाष्यकारेणोक्तम्-”*स्वरादीनां पुनः सत्त्ववचनानामसत्त्ववचनानां चेति” । तस्माद्बाहुल्याभिप्रायेणाऽलिङ्गमसङ्ख्यमव्ययमित्युच्यते । उच्चैर्नीचैरिति सप्तम्यर्थे वर्तते ॥ “*हिरुक्पृथगिति ।” क्रियाविशेषणत्वादेषां क्रियाप्रधान्यम् । क्रियापदप्रयोगमन्तरेणापि ‘पृथक् देवदत्तः’ इत्यादिप्रयोगः क्रियाक्षेपादुपपद्यते ॥ शब्दशक्तिस्वाभाव्याच्चैकस्मिन्नर्थे विधीयमानयोः ‘तेनैकदिक्’ ‘तसिश्च’ इत्यण्तसोर्भिन्नधर्मत्वम् । तत्र ‘पैलुमूलम्’ इति द्रव्यं प्राधान्येनाभिधीयते । ‘पीलुमूलतः’ इति तु द्रव्योपसर्जनस्तृतीयार्थ इति तस्य साधनप्रधानता ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-98.
“*अद्यत्व इति” । सूत्रारम्भकाल इत्यर्थः । पूर्वं हि न्यासान्तराश्रयेण सूत्रं प्रत्याख्यातम् ॥ “*अतिबह्विति " । एकस्मिन्नित्यपनीय ‘एकवचनम्’ सूत्रं इति कर्तव्यम् । ततः ‘द्विबह्वोर्द्विवचनबहुवचनने’ इत्येवं कर्तव्यम् । तेन द्वित्वबहुत्वयोर्द्विवचनबहुवचने भविष्यतः । एकवचनं त्वेकस्मिन्नपि भविष्यति, अलिङ्गासङ्ख्येभ्योऽव्ययेभ्यश्च ॥ ननु ‘कर्मणि द्वितीया’ इत्यादिना कर्मादिषु द्वितीयादीनां नियतत्वात्कथमेकवचनमव्ययेभ्यः स्यात् ॥ नैष दोषः । एतदर्थमेव ‘एकवचनम्’ इत्येतत् क्रियतेऽप्राप्रातप्रापणार्थम् । तेन कर्माद्यभावेऽपि भवति । द्वित्वबहुत्वयोस्तु प्राप्तं द्विवचनबहुवचनाभ्यां बाध्यते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-99.
न सर्वा विभक्तय उत्पत्तौ निमित्तमस्य-इति येन वृत्तिकारेण व्याख्यातं तन्मतं दूषितम् ॥ इदानीं
वृत्तिकारान्तरमतं विशेषदर्शनेन संस्क्रियते-”*न चाप्येवमिति” । एवं विग्रहे सर्वशब्दस्य प्रकारकार्त्स्न्येऽपि वर्तनादेकवचनमात्रोत्पत्तावापि सर्वा विभक्यः सप्त-अव्ययेभ्य उत्पद्यन्ते इति न स्यादसर्वविभक्तित्वम् ॥ “*कथं तर्हीति " । द्रव्यकार्त्स्न्यवृत्तिः सर्वशब्दः ।
एकवचनमात्रोत्पत्तौ निरवशेषा विभक्तिर्नोत्पन्ना भवतीति भवत्येवाऽसर्वविभक्तित्वम् । यदा त्वयंन्यायः-प्रथमातिक्रमे कारणाभावात्प्रथमाया एवैकवचनमव्ययेभ्य उत्पद्यत इति, तदाऽसर्वा विभक्तयो यस्मादित्यपि विग्रहे आश्रिते न दोषः । यदा तु खले कपोतिकान्यायेन
सर्वैकवचनोत्पत्तिपक्षस्तदैतदुक्तम् । अव्ययीभावादप्येकवचनमेवोत्पद्यते, तावतैव ‘तृतीयासप्तम्योर्बहुलम्’ इत्यस्योपपादनात् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-100.
“*एवं गत इति” । यदा असर्वा विभक्तिरस्मादिति विग्रह आश्रीयते, तदैवं विज्ञाते सत्येतावल्लक्षणमस्तु-`असर्वविभक्त्यव्ययम्’ इति । पञ्चसूत्री न कर्तव्या । एतद्सर्वविभक्तित्वं “*कृत्यपि तुल्यम्”-यस्य `कृन्मेजन्त’ इत्यनेनाव्ययसंज्ञेष्यते ॥ “*मान्तस्येति” । सूत्रोपलक्षणम् ॥ “*ततः पर इति” । `कृन्मेजन्त’इत्यस्मात् सूत्रात्परे “*कृदर्थाः”-कृत्संज्ञाविषयाः `क्त्वातोसुन्कसुन’ इत्यर्थः ॥”*ग्रहणेन”-उच्चारणेन, प्रतिपदमित्यर्थः ॥ “*योगाश्च*” न कर्तव्याः “*स्वरादिनिपातम्व्ययः"मित्येवमादयं पञ्चेत्युपसंहारः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-101.
इदानीमतिव्याप्तिपरिहारार्थं तद्धितग्रहणं कर्तव्यम्, तस्मिन् कृते `कृन्मेजन्त’ इत्याद्यपि कर्तव्यमिति दर्शयति-”*कृत्तद्धितानामिति ॥ संख्याविशेषमिति ।” तन्निवृत्यर्थमित्यर्थः ॥ “*तेषामिति " । असति तद्धितग्रहणे एकादीनामप्यसर्वविभक्तित्वात् प्रतिषेधो वक्तव्यः स्यादिति तद्धितग्रहणं कर्तव्यम् । तस्मिन्कृतेस्वरादिग्रहणं कर्तव्यं, खरादीनामतद्धितान्तत्वात् ॥ ननूभयशब्दस्य द्विवचनानुत्पादादसर्वविभक्तित्वं, तथा गोदौ वरणा इति, तत एषामपि `तद्धितश्चासर्वविभक्तिरि’त्यव्ययसंज्ञाप्रसङ्ग इत्याह-“कृत्तद्धितानामिति” । प्रतिपदं तद्धिताः पठितव्याः, येषामव्ययसंज्ञेष्यत इत्यर्थः । तस्माद्गणपाठ एवाश्रयितव्यः । प्रपञ्चार्थस्तु सूत्रारम्भः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-102.
“*तदन्तविधिनेति” । `प्रयोजनं सर्वनामाव्ययसंज्ञायं’ इति वचनेनेति भावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-103.
“*इत्युच्चैसाविति” । शाक्तिप्रधानान्यप्यव्ययानि वृत्तिविषये शक्तिमत्प्रधानानि भवन्ति । यथा-दोषामन्यमहः दोषाभूतमहरिति । तत उच्चैः शब्दस्य प्रक्रियायां द्वितीयान्तस्य समासः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-104.
“*क्व पुनरिति " । श्लोके सप्तमीनिर्देशात् प्रश्नेऽपि सप्तमी निर्दिष्टा ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-105.
“*सदृशमिति” । लिङ्गविशेषप्रतिपादने सामर्थ्याभावात् ॥
“*विभक्तिष्विति” । कारकेषु । तत्र यानि साधनप्रधानान्यव्ययानि तेषां शक्त्यन्तरानावेषात् क्रियाप्रधानानां च शक्तिसंबन्धाभावात् -”*सर्वासु च विभक्तिषु”-इत्युक्तुम् ॥ “*वचनेष्विति” । एकत्वादिषु । अव्ययीभावस्य शक्तिलिङ्गविशेषयोगेऽपि वचनादव्ययत्वम् । यथास्वत्यादीनां कर्मप्रवचनीयसंज्ञा । तत्र यान्यसत्त्वभूतार्थाभिधायीन्ययव्ययानि तेषां लिङ्गादिभिरयोगः, तेषं द्रव्यधर्मत्वात् । सत्त्ववाचिनामपि शब्दशक्तिस्वाभाव्यात्तदयोगः । यथा-युष्मदस्मदोर्लिङ्गायोगः ॥
केचित्तु
लिङ्गादिविशेषेणायोगात् तत्सामान्येन तु योगमव्ययानामाहुः ॥ तदयुक्तम् । लिङ्गादिसामान्यसद्भावे प्रमाणाभावात् ॥ “*यन्नव्येतीति” ।
नानात्वं न गच्छति, सत्वधर्मान्न गृह्णातीत्यर्थः ॥38॥
“*कृन्मेजन्तः ॥ 39 ॥ कथमिति” । किं मेजन्तग्रहणेन पूर्वं कृद्विशेष्यते, पश्चात्तु कृता तदन्तविधिः । आहोस्वित्पूर्वं कृता तदन्तविधिः , पश्चात्तु कृदन्तं मेजन्तग्रहणेन विशेष्यत इति प्रश्नः ॥ प्रयोजनं सर्वनामाव्ययसंज्ञायामिति चात्र तदन्तविधिः । अथवाऽन्वर्थसंज्ञाश्रयणात्प्रत्ययग्रहणे संज्ञाविधावप्यत्र तदन्तविधिर्भवति । न हि केवलस्य प्रत्ययस्याप्रयोजार्हस्य नानागमनमगमनं वा संभवति ॥ “*कारयांचकारेति ।” लिडत्र कृत्, स च मान्तो न भवति ॥ “*प्रतामाविति” ॥ क्विपि लुप्ते प्रत्ययलक्षणेन कृदन्तमेतद्भवति । श्रुत्याच मान्तम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-107.
“*अव्ययादिति लुगिति ।” हल्ङ्यादिलोपेन सिद्धत्वात् किं लुका प्रयोजनम् । यदा तर्ह्यनुप्रयोगवशात् द्वित्वबहुत्वावगतिः तदाऽस्ति द्विवचनबहुवचनोत्पत्तिरिति लुगेषितव्यः । अकच् तु न भवति, अपरिसमाप्तार्थत्वादज्ञानादिभिर्योगाभावात् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-108.
“*इष्यते चेति " । पूर्वोक्ताद्धेतोस्तरबाद्यनुत्पादादनुप्रयोग एव तरबाद्युत्पत्तिः, समात्य्पार्थस्य प्रकर्षादियोगादित्यर्थः ॥ अत्रैवार्थे ज्ञापकमाह-”*आतश्चेति “। तत्र ह्युक्तं “*व्यवहितनिवृत्यर्थं चे"ति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-109.
“*प्रशान्शब्दमिति । तस्य ‘मो नो धातोः’ इति नत्वस्यासिद्धत्वात्सिद्धमव्ययत्वमिति भावः । तुल्यजातीयस्य धातोर्नियमेन व्यावृत्तिः क्रियते-इति कारयांचकारेति भवत्येव मान्तस्याव्ययसंज्ञा ॥ ‘शान तेजने’ इत्यस्य तु प्रशानिति रूपं नभवति, तस्य क्विबन्तस्य प्रयोगादर्शनात् । लाव्यतेलौरित्यस्यापि न भवति, अस्मादेव ज्ञापकाल्लाक्षणिकत्वाद्वौकारस्य ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-110.
“*अनिकारोकारेति ।” एच एतद्विशेषणं न मकारस्य, व्यवच्छेद्यासंभवात् । “*आधय इति “। गुणे कृतेऽ`न्तरङ्गबहिरङ्गयो’रिति न्यायादव्ययसंज्ञा स्यात्, न त्वयादयः ॥ अन्तरङ्गत्वादेव च सुब्लुक् स्यात् । परिभाषान्तरप्र योजनकथनार्थं `लक्षनप्रतिपदोक्त्यओ’रि त्येतदनास्रितम् लाक्षणिकं ह्यनुमेयं, प्रतिपदोक्तंतु प्रत्यक्षमिति तस्यैव ग्रहणं न्याय्यम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-111.
“*संनिपातलक्षण इति” । संणिपातः-संश्लेषः तन्निमित्तो यो विधिः स तघ्विधातस्यानिमित्तं तं संनिपातं यो
विहन्ति तस्येत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-112.
“*ग्रामणिकुलमिति । इको ह्रस्व” इति पूर्वोत्तरपदसन्निपातनिमित्तं ह्रस्वत्वं तुको न निमित्तम् । तुकि हि
सति पूर्वोत्तरपदयोरानन्तर्यविघातः । यदा तु ह्रस्वमात्रस्य तुगागमो न तदन्तस्य, अवयवावयवश्च समुदायावयवो न भवति तदैतत्प्रयोजनं न त्वन्यथा ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-113.
“*बहिरङ्गमिति “। द्विपदाश्रयत्वात् । यदपि “*ह्रस्वो नपुंसके प्रातिपदिकस्ये"ति ह्रस्वत्वम्, तदपि अर्थाश्रयत्वाद्बहिरङ्गम्, तुक् तु वर्णाश्रयत्वादन्तरङ्गः । यदि तु “*सन्निपतलक्षण” इत्याश्रीयते तदा ग्रामणिच्छत्रमित्यत्रापि तुग्नस्यात् । ह्रस्वत्वतुगागमयोस्त्वत्र साम्यादन्तरङ्गत्वं बहिरङ्गत्वं नास्तीति छलक्षणस्तुक् सिद्धो भवति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-114.
“*असिद्धो नलोप इति” । `नलोपः सुप्स्वरेति-असिद्धं बहिरङ्ग्’अमिति वा ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-115.
“*निकुचित इति ।” कुञ्चेर्भावे क्तप्रत्ययः । `अनिदिता’मिति नलोपः । तत्र कित्वनिमित्तमुदुपधत्वं ‘उदुपधात्-’ इत्यकित्वस्यानिमित्तमिति गुणो न भवति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-116.
“*अमुनेति । न मु न” इत्यस्यायमर्थः-ने कर्तव्ये मुभावः सिद्धो भवति-इति, न तु ने परतोऽपि यद्दीर्घत्वं प्राप्नोति तत्र । तथाच तत्र मुभावस्यासिद्द्यत्वादकारान्तत्वाहीर्घप्रसङ्गः । तस्मिन् कृते “*अदसोऽसे"रिति दीर्घस्य दीर्घ ऊकारः प्राप्नोति । ततश्च ‘अमूना’ इति स्याथ् । उकारसन्निपातनिमित्तस्तु नाभावो दीर्घत्वस्याऽनिमित्तमिति सिद्धममुनेति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-117.
“*न मु टाऽऽदेश इति”। अनेकविभक्त्यन्तस्तत्र समास आश्रितः - टाया आदेशः, टायामादेश इति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-118.
“*उपादास्तेति ।” एज्विषय आत्वविधानादकित्वसन्निपातनिमित्तमात्वं `स्थाघ्वोरिच्चेति’ कित्वस्यानिमित्तम् । कित्वसंनियुक्तुं चेत्त्वमिति कित्त्वाभावे न भवति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-119.
“*यदयमिति “। ननु समस्तार्थमेतत्स्यात्- प्रियतिसृणां ब्राह्मणानामिति । अत्र ह्यङ्गं पुंसि वर्तत इति नास्ति ङीपः प्राप्तिरिति केचित् ॥ तदयुक्तम् । न हि ङीब्विधानेऽङ्गाधिकारोऽस्ति । तत्राऽवयवस्य स्त्रीत्ववृत्तित्वात् ङीपः प्राप्तिः केन वार्यत इति ज्ञापकमेव ।
ज्ञापकादेव च सिद्धत्वात् स्वस्रादिष्वनयोः पाठो न
कर्तव्यो भवति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-120.
“*शतानीति ।” विभक्तिसन्निपातनिमित्तो नुमागमः षट्संज्ञाहेतुकस्य विभक्तिलुको न निमित्तम् । “*ष्णान्ताषडि"त्यन्तग्रहणमौपदेशिकप्रतिपत्यर्थमिति अत्र न भविष्यतीति चेत्, संख्यासंप्रत्ययार्थं बहुव्रीह्यर्थं तत् स्यादित्यदोषः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-121.
“*शकटाविति ।” विभक्तिसंनिपातकृतमत्त्वं यदि टापो निमित्तं स्यात् आनन्तर्यं विहन्येत । शास्त्रीये च कार्येऽन्तादिवद्भावः, नानतर्ये लौकिके । टापि च सति शकटायामिति स्यात् ॥ `अच्च घे’रिति तपरकरणेनाप्यत्र टाप् निवर्तयितुं शक्यते । इदुतोर्हि स्थाने मात्रिक एवाकारो भविष्यति, भाव्य्मानत्वाद्वा सवर्णस्याकारो ग्राहको न भविष्यतीति लक्षणान्तरेणापि प्राप्तस्य दीर्घत्वस्य निराकरणार्थं तपरकरणं संपद्यते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-122.
“*इयेषेति “। आमि सति लुक् स्यादिति प्रकृतिप्रत्ययसंनिपातस्य विघातः स्यात् । `उषविदे’ति विकल्प ओषंचक्र्तुः-ऊषतुरित्यादौ सावकाश इत्युवोषेति नित्यं आम् प्रसज्येत ॥ `प्रतिपदविधे’स्तु बलवत्त्वात्परत्वाच्चात्रापि विकल्पेनैव भाव्यमित्यनुदाहरणमेतत् ॥ ‘गुरुमतः’ इति नित्ययोगो मतुबाश्रयणादपि शक्योऽत्राम्भावः प्रतिपादयितुम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-123.
“*दाक्षिरिति ।” प्रयोगे व्यवस्थितस्यैवेकारस्यान्वाख्यानमनेन ऋइयत इति संनिपातलक्षणत्वं प्रत्ययस्य संभाव्यते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-124.
“*न प्रत्यय इति ।” कल्पितप्रकृतिप्रत्ययविभागेनान्वाख्यानात्प्रकृतेरविद्यमान एव प्रत्यय उत्पाद्यत इत्याशयः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-125.
“*अङ्गसंज्ञेति”। सत्यामङ्गसंज्ञायामकारलोप इति स्यादानन्तर्यविघातः ।तत्र `वर्णविचालस्यानिमित्तं
स्या’दिति अङ्गसंज्ञाद्वारेणेत्यर्थः । अत्र केचित्-`वर्णाश्रय’ इति व्याचक्षते । तेनात्रेयाद्यप्युदाहरणम् । अन्ये `त्ववर्णाश्रय’ इत्यकारप्रश्लेषमाहुः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-126.
“क्रापयतीति ।” णिचि वृद्धौ कृतायामात्वं पुको न निमित्तं स्यात् । अङ्गस्य य आकारस्तस्य पुगित्यवयवभक्तं पुकं मत्वा दोषोपन्यासः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-127.
“*अग्निमानिति ।” पूर्वमुदात्तमाश्रित्य मतुप उदात्तत्वं क्रियमाणं पूर्वस्य निघातं न कुर्यात् ॥ `परमवाचेति । अन्तोदात्तादुत्तरपदादि’ति विभक्त्युदात्तत्वं विधीयमानं पूर्वनिघातस्यानिमित्तं स्यात् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-128.
“*मा भूदिति” । `हल्ङ्या’दिसूत्रे दीर्घग्रहणम्दृष्ट्वेदमुच्यते । तत्र कृतेऽपि ह्रस्वत्वे स्थानिवद्भावाद्भविष्यतीति भावः ॥ ब्रह्मबन्धुशब्दापेक्षया च नैतदुच्यते, तस्याङ्याबन्तत्वात् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-129.
“*नित्य इति ।” कार्यं तावन्नित्यं, तद्येन केनचिल्लक्षणेन भवत्विति भावः ॥ संबुद्धिलोपस्यावकाशः-हे देवदत्तेति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-130.
“*भुयांसो वेति ।” दुष्टत्वप्रतिपादनाय प्रकर्षारोपः । सर्वादिषु समशब्दस्य सर्वपर्ययस्य सर्वनामसंज्ञाविधानात्तुल्यवाचिनोऽत्र समा इति प्रयोगः ।अस्ति समशब्दः सर्वपर्यायः । यथा-`समराज्यं वर्तते’, सर्वेषां राज्यं वर्तते इत्यर्थः । वेदेऽपि-`मा नः समस्य दूढ्य’ इति प्रयोगः, सर्वस्य दुर्धियो मा न इत्यर्थः । तत्र प्रयोजनानामल्पत्वात्तान्येवोपसंख्यातव्यानीत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-131.
“*प्रतिविधेयमिति ।” तत्र विधानसामर्थ्यादाङ्गो वर्णविचालो भविष्यति ॥ `कष्टाये’ति ज्ञापकाद्यअशब्दे दीर्घोभविष्यति ॥ `न यासयो’रिति लिङ्गादाप् भविष्यति ॥ `पपिवानिति’ । `वस्वेकाजादि’त्ययं नियमः, इटो न त्वपूर्वेऽयं विधिरिति आकारस्य लोपः ॥ “*क्रापयती"त्याकारान्तभक्तः पुग्न व्यवधायकः ॥ `अदीदप’दितिलिङ्गाद् ह्रस्वः । यदयं `मरणतोषणेति’ जानातेर्मित्त्वमुपधाह्रस्वार्थं शास्ति तज् ज्ञापयति-पुकिकृते उपधाह्रस्वत्वं भवतीति । न हि जानातेरकृते पुकि ह्रस्वभाविन्युपधा भवति ॥ `अग्रिमानि’ति `अनुदात्तं पदमेकवर्ज’मिति परिभाषा स्वरविषया संनिपातपरिभाषा बाधते ॥ `एङ्ह्रस्वाद्’इत्यत्रापि `गुणात्संबुद्धे’रिति वक्तव्ये ह्रस्वग्रहणसामर्थ्यात्संनिपातपरिभाषाऽभावः । `दर्वी’त्यत्र छन्दसि गुणाभावपक्षे छान्दसो लुग्भविष्यति ॥ 39 ॥
“*अव्ययीभावश्र्च ॥ 41 ॥ प्रयोजनमिति ।” मुखस्वरोपचारौ निवर्त्यमानौ प्रयोजनम्, यथा मशाकार्थो धूम इति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-133.
“*अपि खल्विति ।” एवं खल्वित्यर्थः । परिगणनमनेन दृढीक्रियते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-134.
“*उपाग्न्यधीयानेति ।” अग्निसमीपे अधीयानेत्यर्थः । तत्र `षष्ट्यामन्त्रितकारकवचनम्’ इति पराङ्गवद्भावो भवति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-135.
“*न चैकमिति ।” सामान्यलक्षणमेकप्रयोजनार्थं न कर्तव्यमित्यर्थः ॥ “*तत्रैवायमिति ।” न चोक्तम्, तस्मान्मुखस्वरेणात्र भवितव्यमित्याहुः ॥ अन्ये तु वर्णयन्ति-अनव्ययमव्ययं भवतीत्यन्वर्थसंज्ञानान्मुखस्वरनिवृत्तिर्भविष्यतीति नार्थः सूत्रेणेति ॥ केचित्तु- स्वरादिपाठात्सिद्धायामव्ययसंज्ञायां पुनर्वचनमनित्यत्वज्ञापनार्थम् । तेन कतिपयान्येवाव्ययकार्याणि भवन्तीति नार्थः परिगणनेनेत्याहुः ॥ तेषां वचनमन्तरेण विशेषे प्रमाणाभावः ॥ 41 ॥
“*शि सर्व” ॥ 42 ॥ सुडनपुंसकस्येति चेदिति " । अस्मिन् सूत्रन्यासे दोषः । `सुट् स्त्रीपुंसयोः’ इत्यस्मिन्न्यासे न दोष इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-137.
प्रसज्यप्रतिषेधाश्रयेण पूर्वपक्षः, पर्युदासाश्रयेण सिद्धान्तः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-138.
“*अप्राप्तेर्वेति” । प्रसज्यप्रतिषेधेऽप्यदोषः । तत्र `सुडि’त्यनेन या प्राप्तिः, सा प्रतिषिध्यते । न तु `शि सर्वनामस्थान’मिति प्राप्तिः । अन्यथा `शि सर्वनामस्थान’मिति निरवकाशं स्यात् । नपुंसकस्यैव हि शिः संभवति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-139.
“*ननु चेयमिति” । परत्वादित्यर्थः । प्रतिषेधयुक्तायुक्तत्वाच्च विरोधसद्भावः । तत्र परत्वात् सुडिति प्राप्तिः
पूर्वां प्राप्तिं बाधते, तामपि प्रतिषेध इति दोषः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-140.
“*नोत्सहत इति” । अपवादविषयपरिहारेणास्याः प्रवर्तनादित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-141.
“*अथवैतर्हीति ।” इदानीमित्यर्थः । तत्र `स्त्रीपुंसयो’रिति वक्तव्ये `अनपुंसकस्ये’ति वचनं ज्ञापकम्-प्रसज्यप्रतिषेधेऽपि नञ्समासोऽस्तीति ॥ 43 ॥
“*न वेति ॥ 44 ॥ नवेतिविभाषायामिति “। समुदायस्यानुकरणत्वादनुकरणस्य चानुकार्येणार्थवत्त्वात्प्रातिपदिकत्वे सति विभक्त्युत्पत्तिः । स्त्रीप्रत्यये च तदादिनियमाभावाच्याडामौ भवतः । अथवा नवेत्युच्चर्य या विभाषा कृता तस्य्श्M-इति व्याख्या । तत्र लोके क्रियापदसंनिधाने नवाशब्दयोर्योऽर्थो द्योत्यो विकल्पप्रतिषेधलक्षणः स संज्ञीत्यर्थः । अन्यथा विभाषाप्रदेशेषु नवाशब्दावेवादेशौ स्याताम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-143.
“*घुग्रहणेष्विति ।” शब्दस्य संज्ञाकरणात्प्रदेशेषु तस्यैव संप्रत्यय इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-144.
“*इतिकरण इति ।” क्रियत इति-करणः कर्मणि ल्युट्, इतिश्चासो करणस्चेति विशेषणस्मासः ॥ `क्रियते’ इति सामान्यविशेषभावेन निर्देशः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-145.
“*शब्दाधिक्यादिति ।” उपहासपरमेतच्चोदकस्य वचनम् । अशब्दार्थस्यालाभादिति भावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-146.
“*गौरित्ययमाहेति ।” यद्यपि नित्ये शब्दार्थसंबन्धे उपात्तस्यार्थस्य त्यागो नास्ति, तथापि प्रसिद्धिवशादेत दभिधीयते-`अर्थपदार्थकतायाः प्रच्युतः’-इति ।तत्वत्तस्त्वादावेव स्वरूपपदार्थको गोशब्दः प्रयुक्तः, सादृश्यात्तु तमर्थमनभिव्यक्तं ‘इति’ शब्दो द्योतयतीति पदार्थविपर्यासकृत्-इत्युच्यते ॥ “अर्थपदार्थकतेति “। संबन्धे भावप्रत्ययः । संबन्धात्प्रच्युतोऽतोऽर्तात् प्रच्युतो भवति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-147.
“*समानशब्दप्रतिषेध इति “। समानः शब्दो वाचको येषामर्थानां तेषामित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-148.
“*विभाषा दिक्समास इति “। विभाषाशब्देनाभिनवलक्षणोऽर्थः प्रत्याय्यते । तत्र प्रत्यग्रवाची यो दिक्समास इति संप्रत्ययः स्यात् । तत्र दिशो नित्यत्वान्नवपुराणत्वासंभवात्तन्निमित्तो यदा शालायां व्यपदेशः-दक्षिणपूर्वा शाला सा चाभिनवा, तदा संज्ञा स्यादित्यर्थः । संज्ञाकार्यव्यङ्ग्यं च प्रत्यग्रत्वं स्यात् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-149.
“*न वा विधिपूर्वकत्वादिति” । प्रदेशवाक्यार्थं पर्यालोच्येयं संज्ञा व्यवस्थाप्यते । प्रदेशेषु च कार्याणि विधाय विभाषाशब्द उच्चारितो नवासब्धार्थं गमयति । तत्र लोकवन्निपातार्थावगतिर्भवति, न तु प्रत्यग्रार्थावगतिरित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-150.
“*विलिङ्गमिति “। भिन्नलिङ्गं, व्यधिकरणमित्यर्थः । विलिङ्गत्वेन वैयाधिकरण्यं लक्ष्यते, न तु प्रतिषेधवाचिनो नवाशब्दस्य लिङ्गयोगोऽस्ति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-151.
“*एतच्चैवेति ।” नैव क्वचिद् व्याकरणे समानलिङ्गो निर्देश इत्यर्थः ॥ ‘विभाषा सेनासुरा-’ इति यद्यपि समानलिङ्गो निर्देशः, तथापि भिन्नविभक्तित्वात्सामानाधिकरण्याभावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-152.
“*अपि चेति ।” तत्र साम्र्थ्याद्विशेषावगतिः ॥ यदाऽप्राप्ते यवागूभोजने वाक्यमुदीर्यते, तदा प्रत्यग्रार्थावगतिः । यदा त्वातुरं प्रति गुरुभोजननिषेधार्थमुच्यते, तदा निषेधार्थावगतिः ॥ “*न चेहेति “। क्रियायाः प्राधान्यात्सैव विभाषाग्रहणेन संबध्यते, न तु तदङ्गमित्यर्थः । तदेवं स्थितमेतत् - `न वा विधिपूर्वकत्वा’दिति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-153.
“*विध्यनित्यत्वमिति ।” विकल्प इत्यर्थः । नवाशब्द एकनिपातः प्रतिषेधवाची, तस्येहोपादानादिति भावः ॥ परिहारान्तराभिधानाय तु `न बहुव्रीहा’वित्यसंबद्धं स्यात्-इति नोक्तम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-154.
“*सिद्धं त्विति ।” प्रतिषेधाद्विधिरनुमास्यते, ततो विकल्पः सेत्स्यतीत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-155.
“*विप्रतिषिद्धं त्विति” । एकविषययोर्विधिप्रतिषेधयोर्विरोधादित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-156.
“*न वा प्रसङ्गेति ।” सामर्थ्याद्विधिप्रतिषेधयोः पर्ययो भविष्यतीत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-157.
“*महती संज्ञेति ।” तेन द्वावत्र संज्ञिनौ विकल्पप्रतिषेधावित्यर्थः । यदि हि केवलः प्रतिषेधः संज्ञी स्यात्, संज्ञाकरणमनर्थकं स्यात् । विभाषाप्रदेशेषु नेत्येव ब्रूयात् । तत्र समुदायस्येयं संज्ञेति विभाषाप्रदेशेषु विकल्पप्रतिषेधावुपतिष्ठेते । अप्राप्तविभाषासु च प्राप्त्यभावात् प्रतिषेधस्याव्यापाराद्विकल्प एवोपतिष्ठते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-158.
“*एवमपीति” । यद्यपि विरुद्धयोरेका संज्ञा क्रियते, तथापि प्रदेशेषु युगपद्विरोधाद्भावाभावौ विधातुं न शक्येते इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-159.
“*सिद्धं त्विति " । उभयत्रविभाषासु प्रतिषेधेन समीकृते विषये पस्चाद्विकल्पः प्रवर्तत इत्यर्थः ॥ यदि तु पूर्व विकल्पः प्रवर्तते पस्चात्प्रतिषेधस्तदा विकल्पप्रवृत्तिरनर्थिकैव स्यात् । आनुपूर्वी च या संज्ञाविधावाश्रिता सैव प्रदेशवाक्येष्वाश्रीयते ॥ उभयत्रविभाषार्था चेयं संज्ञा, प्राप्तविभाषायामप्राप्तविभाषायां च संज्ञाकरणस्यानुपयोगात् ॥ तथाहि-प्राप्तविभाषासु पक्षे निवृइत्तिः क्रियते, पक्षे तु प्रवृत्तिः स्थितैव । अप्राप्तविभाषासु च पक्षे कार्यस्य प्रवृत्तिः क्रियते, पक्षान्तरे त्वप्रवृइत्तिः स्थितैवेति नास्ति तत्र संज्ञाफलम् ॥ ‘विभाषा श्वेः’ इत्यत्र तु यदि विधिमुखेन विभाषाश्रुतिः प्रवर्तते-पित्स्वेव संप्रसारणं विभाषा स्यात्, कित्सु यजादित्वान्नित्यमेव स्यात् ॥ अथ प्रतिषेधमुखेन प्रवृत्तिस्तदाऽपि कित्स्वेव विकल्प इति पित्सु न स्यात् । संज्ञाकरणे तु पूर्वं प्रतिषेधे कित्सु प्रवृत्ते पश्चाद्विधिमुखेन सर्वत्र पक्षे संप्रसारणप्रवर्तनादिष्टं सिध्यति । यदा तु प्रतिलक्ष्यं भेदेन `विभाषा श्वे’रित्यस्य व्यापारः क्व्चिद्विधिमुखेन क्व्चित्प्रतिषेधमुखेन तदा संज्ञाकरणमन्तरेणापि सिध्यतीति अशिष्योऽयं योग इति वक्ष्यते _`अशिष्यो वा विदितत्वात्’ इति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-160.
“*साध्वनुशासन इति “। साधुत्वप्रतिपादनाच्छास्त्रस्य साधुत्वस्यैव प्राधान्याद्विकल्पेन संबन्धः स्यात्, न तु तदङ्गभुतानां समाससंज्ञादीनामिति भावः ॥ ततश्च `विभाषास्वे’रित्यस्यायमर्थः स्यात्-विभाषा श्वयतेः साधु संप्रसारणं भवति, पक्षे त्वसाध्विति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-161.
“*अस्तु । यः साधुरिति “। यथा भक्ष्याभक्र्यसंनिधौ भक्ष्यमेवोपादीयते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-162.
“*न चैव हीति ।” सर्वदा त्वस्य साधुत्वं, नोभयरूपत्वमित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-163.
“*द्वेधाऽप्रतिपत्तिरिति ।” साधुत्वविकल्पेन विभाषाग्रहणस्योपयुक्तत्वात् शिश्वियतुरित्यादि रूपं न सिध्यतीत्यर्थः ॥ “*यस्य पुनरिति " । एवं मन्यते-व्याकरणेन शब्दा उत्पाद्यन्ते, तन्मतेन विभाषाग्रहणेनापूर्वत्वेन विधेयत्वात्संप्रसारणमेव विकल्पयत इति द्वैधं प्रतिपत्तिः शब्दानां सिध्यतीति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-164.
“*यस्यापीति ।” साधुत्वस्यापौरूषेयत्वादविकल्प्यत्वात्तदङ्गानामेव विकल्पः ॥ “*तद्यथेति “। पशुत्वानडुत्वयोरविकल्प्यत्वात्क्रिया विकल्प्यते ॥ नन्वन्यत्रोक्तम् -“न च संज्ञाया भावाभावाविष्येते”-इति। इह तूक्तम् सम्ज्ञाऽभिसंबध्यते- इति । ततस्च विरोधः ॥ नैष दोषः इह वृत्तिवाक्ययोर्मुख्यार्थभेदादभिन्नार्थत्वमाश्रित्योक्तम् । अन्यत्र तु व्यपेक्षैकार्थीभावभेदाद्भिन्नार्थत्वमाश्रित्यैकार्थीभावे एव संज्ञाया भावाभावौ नेष्येते इत्युक्तमित्यविरोधः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-165.
नित्यवादी कार्यपक्षे दूषणमाह-”*कार्येष्विति”। युगपदिभावे युगपच्छब्दो वर्तत इति द्वन्द्वः कृतः ॥ अन्वाचयः समुच्चयोऽभिमतः, यस्य चकारेण स्वरितत्वेन वा विधानम् । यस्य कार्याः शब्दाः स प्रयोगनिरपेक्षं शब्दानन्वाचष्ट इति तव्यादीनां युगपदुत्पत्तिः प्राप्नोति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-166.
“*न चैकस्या इति ।” ननु व्यवहितेऽपि परशब्दः प्रवर्तते । सत्यम् । अन्तरालस्थमनपेक्ष्यानन्तर्यमारोप्य तत्र परशब्दप्रयोगः । निर्दिष्टग्रहणम् त्वानन्तर्यार्थमिति कुतो व्यवहितस्य प्रयोगः ॥ कथं तर्ह्युक्तम्-”*एका प्रकृतिर्बहवश्च यञ” इति ? तत्र यञाकृतेरेकत्वात्तस्याश्च परत्वाच्चानन्तर्याच्चादोषः । तव्यदादयस्त्वेकाकृतियुक्ता न भवन्ति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-167.
“*नापि ब्रूम इति ।” एकस्याः प्रकृतेः सर्वे भवन्तीति न ब्रूमः । किं तर्हि ? प्रत्ययान्तरेण प्रकृत्यन्तरस्याक्षेपात् ‘कर्तव्यं’ इति प्रयुयुक्षिते करणीयादीनामपि प्रयोगः प्राप्नोति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-168.
“*अर्थगत्यर्थ इति ।” ‘तव्यत्तव्यानीयरः’ इत्यस्माद्वाक्यावाक्यान्तराण्युपप्लवन्ते प्रतिपादकानि-धातोस्तव्यद्भवति भावकर्मणोरित्यादीनि । तत्र कर्तव्यशब्देन तस्यार्थस्य प्रतिपादितत्वात्करणीयशब्दो न प्रयुज्यते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-169.
“*आचार्येति । " आचार्यस्य देशस्य च पुनः पुनः संकीर्तनमाचार्यदेशशीलनं । तत्र तस्य शब्दस्य तद्विषयत्वमेव स्यात्, सर्वप्रयोक्तृप्रसङ्गे गालवस्यैव तत्प्रयोक्तुत्वमिति नियमार्थं स्यात् ॥ “*यस्य पुनरिति ।” अनादित्वाच्छब्दव्यवहारस्य नित्यत्वपक्षे नास्ति प्रयोक्तृनियमः । केवलं गालवः स्मर्तृत्वेन निर्दिष्टोऽस्य शास्त्रस्य प्रामाण्यं प्रतिपादयितुमिति पूजार्थमाचार्यग्रहणम् । शास्त्रस्य ह्यनाद्यर्थप्रतिपादकत्वात्पूजा भवति ॥ “*कीर्त्यर्थमिति” । कीर्तौ सत्यां तेषांस्वर्गव्यवस्थानं स्थिरं भवति । यथा-इन्द्रद्युम्नादीनाम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-170.
“*ननु च यस्यापीति “। कार्यपक्षेऽपि पूजा शक्यते व्याख्यातुम्-यस्माद्गालवेन ह्रस्वत्वं प्रयुक्तं तस्मात्त्व्मपि प्रयुङ्क्ष्वेति स्तुत्यर्थोऽर्थवादः स्यादित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-171.
इदानीं कार्यपक्षे दूषणमाह-”*तत्कीर्तन इति” । कर्यपक्षेऽयमर्थः स्यात्-यस्माद्गालवेन ह्रस्वत्वं प्रयुक्तं तस्मात्प्रयोक्तव्यमिति । ततश्च ह्रस्वत्वस्य विकल्पो न स्यात् । नित्यत्वपक्षे तु गालवो ह्रस्वत्वस्मर्ता, अन्यो दीर्घस्येति स्मृत्यन्तरानुसन्धानद्वारेण विकल्पः सिध्यतीति नित्यपक्ष एव युक्तः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-172.
“*अशिष्यो वेति ।” वाशब्दो विकल्पे ॥ तेनाकृतिपक्षे उभयत्र विभाषार्थं सूत्रं कर्तव्यम् । व्यक्तिपक्षे तु लक्ष्यभेदेन लक्षणभेदात्क्वचित् किञ्चिल्लक्षणं विधिमुखेन प्रवर्तते, क्वचित्प्रतिषेधमुखेन प्रवर्तत इतीष्टसिद्ध्या सूत्रं न कर्तव्यमित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-173.
“*अप्राप्ते इति ।” अधिकारोऽयम् ॥ “*त्रिसंशया इति ।” त्रिष्वर्थेषु संशयो यासु ताः-त्रिसंशयाः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-174.
“*द्वन्द्वे चेति ।” प्रकरणोपलक्षणार्थमेतदुपात्तम् । `प्रथमचरमत’येत्यत्र तयग्रहणे संशयः । तत्र तयशब्देन `प्रयोजनं सर्वनामाव्ययसंज्ञाया’मिति वा-अन्वर्थसंज्ञाविज्ञानाद्वा-केवलस्य प्रयोगाभावात्तदन्तस्यैव सर्वनामत्वसंभवात् `प्रत्ययग्रहण-‘परिभाषया तदन्तविधिः ॥ तत्र यदि सर्वादिग्रहणेन तयान्तं विशेष्यते, नमशब्दोऽव्यभिचारात् प्रथमादयस्त्वसंभवात् न विशेष्यन्ते, तदोभयशब्दस्य जसि नित्या संज्ञा विभाष्यत इति प्राप्तविभाषा स्यात् ॥ अथ `सर्वादीनीति’ निवृत्तम्-पूर्वविप्रतिषेधश्च, तदाऽप्राप्तविभाषा । अथ परविप्रतिषेधः, तदोभयत्रविभाषा ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-175.
“*प्रत्ययान्तरमिति ।” आदेशपक्षे पूर्वविप्रतिषेधौ वक्तव्य इति प्रत्ययान्तरपक्ष आश्रितः ॥ ‘उभादुदात्तो नित्यम्’ इत्यत्र `तथस्ये’ति नानुवर्तते-इति प्रत्ययान्तरमयज् भवति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-176.
“तैलमात्रेति ।” प्रत्याहारे सति चकारेण मात्र शब्दो न विशेषित इति ‘हुयामाश्रुवसिभसिभ्यस्त्रन्’ इति त्रन्नन्तादपि मात्रशब्दान्ञीप्रसङ्गः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-177.
“*सहशस्यापीति” । प्रमाणे वर्तमानात्प्रमेये यो मात्रज् विहितः, स प्रत्याहारेण गृह्यते-इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-178.
“*ऊर्णोर्विभाषेति” । ‘विभाषोर्णेः’ इति सूत्रं यद्य”*संयोगाल्लिट् कि"दित्यत्रानुवर्तते, ऊर्णुश्चासंयोगान्त एवेत्यसंयोगग्रहणाद्वाक्यभेदेनोर्णेः परस्येडादेर्लिटो नित्यं कित्वं प्राप्तं विकल्प्यते, ततः - प्राप्तविभाषा । इडुपजीवनार्थं तु स्थानान्तरे सूत्रं पठितम् । अथ तत्र सूत्रं नानुवर्तते, परविप्रतिषेधश्च, ततः-अप्राप्तविभाषा । अथ पूर्वविप्रतिषेधः, तदा-उभयत्रेति संशयः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-179.
“*अन्यद्धीति”। व्यपदेशातिदेशोऽयमिति कित्त्वङित्त्वयोर्भेदः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-180.
“*एकं चेदिति " । कार्यातिदेशपक्षे गुणनिषेधस्य कार्यस्यैकत्वमनयोरित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-181.
“*प्रौर्णुवीति “। लङ उत्तमैकवचनम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-182.
“*सार्वधातुकमपिदि"त्यत्र यदि `विभाषोर्णेरि’त्येतद्वाक्यभेदेन संबध्यते, ततः प्राप्तविभाषा । अथासंबन्धः पूरविप्रतिषेधः, ततः उभयत्र विभाषा । परविप्रतिषेधेतु-अप्राप्ते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-183.
“*विभाषोपयमन इति “। यदा गन्धनाङ्गमुपयमनं तत्र गृह्यते, तदा-प्राप्ते । पूर्वविप्रतिषेधे तु-अप्राप्ते। परविप्रतिषेधे-उभयत्रेति संदेहः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-184.
“*जातिरिति” । चर्मदिमयास्तदा मृगादयो ग्राह्याः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-185.
“*निवृत्तमिति”। तन्निवृत्तौ च गौणत्वाच्चर्मादिमयानामग्रहणम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-186.
“*प्रत्ययान्तादिति वेति” । कथं पुनः प्रत्ययान्ताः `शब्दा’ रूपान्तरयुक्ता उषादिव्यपदेशं लभन्ते । उच्यते-सनाद्यन्ता धातव’ इत्यस्य यदाऽयमर्थो व्याख्यायते-धातवः सनाद्यवयवा भवन्ति धातूनामवयवाः सनादयो भवन्ति । यथा-समासान्ताष्टजादयः, थदा पूर्वोक्तचोद्याभावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-187.
“*प्रत्ययान्ता इति । “सनाद्यन्था धातव” इत्ययं योगः संज्ञासंज्ञिसंबन्धार्थ इति भावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-188.
“*भावकर्मणोरिति” । `चिण्भावकर्मणो’रित्यत्र सूत्रे यदि `दीपजने’त्येतत्सूत्रमनुवर्त्यवाक्यभेदेन संबन्धः क्रियते पृथक्पाठसामर्थ्यात्, तदा-प्राप्तविभाषा । अथ नानुवर्वते परविप्रतिषेधश्च, तदा-अप्राप्तविभाषा । पूर्वविप्रतिषेधे तूभयत्र-इति संशयः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-189.
“*अकर्मकाश्चेति ।” यद्यपि बुधिः सकर्मकः, तथापि एकपरिहारोपन्यासार्थमविशेषेणैतदुक्तम् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-190.
“*सोपसर्गा इति”। अर्थान्तरवृत्तित्वादनुभवतिवदिति भावः ।
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-191.
“*कर्तृस्थभावकाश्चेति । अचः `कर्तृयकी’त्यत्र जायते स्वयमेवेत्युदाहृअतं, तस्य ण्यर्थवृत्तित्वात्कर्मस्थभावकत्वमिति नास्ति तेनास्य विरोधः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-192.
“*आभीक्षण्य इति निवृत्तमिति ।” पूर्वविप्रतिषेधश्चेति भावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-193.
“*तृन्नादीनामिति । आक्रोश” इत्यत्र यद्यच्कौ नानुवर्तेते, ततोऽयं संशयः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-194.
“*एकहलादाविति ।” पूरयितव्यस्यास्ति संज्ञा उदपानमिति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-195.
“*चादिभिरिति” । प्रतिषेधस्याप्राप्तविभाषा स्थाप्यते, विधेस्तु प्राप्तविभाषैव ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-196.
“*यङीति वेति”। यङ्लुकि कृतेऽजादिः परः संभवति-जेगिल इति । अत्र च पचाद्यचि `यङोऽचि चे’ति यङ्लुक्॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-197.
“*प्राप्ते चेति”। प्रकृतानुवृत्त्या प्राप्तविभाषा व्यवतिष्ठते ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-198.
“*अन्यत्र वेति ।” विप्रवदन्ति शकुनय इत्यत्र पूर्वविप्रतिषेधश्च यदीति भावः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-199.
“*विभाषोपपदेनेति”। कर्त्रभिप्राये क्रियाफले विषये आत्मनेपदं भवति-इत्येवं प्राप्तविभाषा व्यवतिष्ठते ॥ अथ तु तदर्थद्योतनायात्मनेपदं क्रियते, तदोपपदेनैव द्योतितत्वादप्राप्तविभाषा स्यात् ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-200.
“*गतिबुद्ध्वीति” । तत्र विपूर्वो हरतिर्गत्यर्थः, अभ्यवपूर्वः प्रत्यवसानार्थः । करोतिः क्वचिदकर्मकः, यथा-विकुर्वते सैन्धवा इति ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-201.
“*यदीति वेति”। प्रतिषेधे प्राप्ते इत्यर्थः । लुट्तु यदि प्रतिषिद्धः ॥
1.प्रथमाध्याये प्रथमपादे षष्ठाह्निक-202.
“*दैवयज्ञीत्यादि” न विचारितम्, तस्माद्दिङ्मात्रप्रदर्शनार्थं कृतम् ॥ 44 ॥
इत्युपाध्याय "\*जैयट"पुत्र"कैयट"कृते म्हाभाष्य"प्रदीपे"
प्रथमस्याध्यायस्य प्रथमे पादे "\*षष्ट"माह्निकम् ॥
क
“*प्रत्ययस्यां ॥ 61 ॥ प्रत्ययग्रहणमिति ।” लुगादिविधौ क्वचित्प्रत्ययः साक्षान्निर्दिश्यते, क्वचिदनुवर्तते, क्वचित्सामर्थ्यात्प्रतीयत इति प्रश्नः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-14.
“*अप्रत्ययस्येति ।” अविद्यमानः प्रत्ययो यस्मिन्नदर्शने इति तदप्रत्ययम् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-15.
“*गोरपीति ।” पञ्चेन्द्र इत्यादौ तु `निर्दिश्यमानस्यादेशा भवन्ती’ति वचनात् स्त्रीप्रत्ययस्यैव लुक् भविष्यति, न तदन्तस्य । `गोरतद्धितलुकी’त्यत्र गोर्लुकि कृते पञ्चगुरित्यादौ गोशब्दान्तत्वाभावात्समासान्ताप्राप्ता `वतद्धितलुकी’ति प्रतिषेधोऽनर्थकः स्यादिति चेत् ॥ कृते समासान्ते लुक् स्यादित्यर्थवानेव प्रतिषेधः ॥ ननु स्वभावतोऽप्रवृत्तिः ॥ नैष दोषः । शास्त्रानुसारिभिरस्यार्थस्य दुर्ज्ञानत्वात् ॥ “*प्रकृतेरपीति ।” समुदायस्य षष्ठीनिर्देशात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-16.
“*योगविभागादिति ।” एकयोगनिर्दिष्ठानामप्येकदेशानुवृत्तिरित्येतत् प्रकारान्तरेण प्रतिपाद्यते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-17.
“*विशिष्टनिर्देशादिति ।” छयतावेवात्र निर्देष्ठव्यावित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-18.
“*उणादय इति” । `अतः कृकमिकंसकुम्भे’ति कंसशब्दस्य भेदेनोपादानात् क्वचिदुणादयो व्युत्पत्तिकार्यं न लभन्त इत्यर्थः । यञञोस्तु विधानसामर्थ्याल्लुगभावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-19.
“*स एषोऽनन्यार्थ इति ।” प्रकृतिनिवृत्यर्थ एव, न तु प्रत्ययान्तरनिवृत्यर्थोऽपीत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-20.
“*षष्ठीनिर्देशार्थं त्विति ।” विशिष्टस्य षष्ठ्यर्थस्य स्थानियोगत्वनिर्देशार्थमित्यर्थः ॥ असति प्रत्ययस्येत्येतस्मिन् यः कश्चिदानन्तर्यादिः सम्बन्धः स्यात् । ततश्च `जनपदे लुवि’ति पञ्चालः शोभना इत्यादौ जनपदवाचिनोऽनन्तरस्य शोभनादेरपि लुप् स्यात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-21.
“*सर्वादेशार्थ वेति ।” षष्ठीनिर्देशार्थत्वं स्थितमेवेति वार्तिककारेण विकल्पार्थो वाशब्दः प्रयुक्तः ॥ `आगस्त्यकौण्डिन्ययो’रित्यत्र हि यदि लुगनुवर्तते, तदैकैकस्य त्रय आदेशाः । `अथ नानुवर्तते’, द्वावेवादेशौ विधीयेते । तदाऽगस्त्यादेशेन सर्वत्र भाव्यमिति ‘अगस्तीयाश्छात्राः’ इति न सिध्यति, अवृद्धत्वात् प्रकृतेः । ‘प्रत्ययस्य’ इति तूच्यमाने `गोत्रेऽलुगची’ति लुकि प्रतिषिद्धे संनियोगशिष्टत्वात् लुगभावादगस्त्यादेशाभावादागस्तीया इति सिध्यतीति षष्ठीनिर्देशार्थ प्रत्ययग्रहणम् ॥ भाष्यकारस्तु तर्ह्यर्थ वाशब्दं व्याचक्षाणः षष्ठी निर्देशार्थत्वं नेच्छति । स ह्येवं मन्यते -`अगस्त्यकौण्डिन्ययो’रित्यत्र `यस्कादिभ्यो गोत्र’ इत्यतो गोत्रग्रहणमनुवर्तते, `लुगि’ति च । तेनागस्त्यकौण्डिन्ययोर्यो गोत्रे विहितस्तस्य लुक् । परिशिष्टस्य तु प्रकृतिभागस्य यथासंख्यमगस्तिकुण्डिनचावादेशाविति सूत्रार्थः ॥ “*अथ क्रियमाणेऽपीति” । `अलोऽन्त्यस्ये’ति वचनात् प्रत्ययस्य योऽन्त्यस्तस्यैव प्राप्नुवन्तीति भावः ॥ “*वचनप्रामाण्यादिति” । `प्रत्ययस्ये’ति वचनसामर्थ्याद् `अलोऽन्त्यस्ये"ति बाध्यते । “*वचनप्रामाण्या"दिति ब्रुवतो वार्तिककारस्यापि षष्ठीनिर्देशार्थत्वमनवस्थितम् । तदर्थत्वे हि प्रत्ययस्येत्यस्य चरितार्थत्वात्कथमलोऽन्त्यविधिर्बाध्यते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-22.
“*यदयमिति ।” विपर्ययस्तु न प्रकल्प्यते । अनुपसंजातविरोधत्वाल्लोपस्तावदन्त्यादेशः स्थितः, ततो लुगारभ्यमाणो यद्यन्त्यस्य स्याल्लोपानुवृत्यैव सिद्धत्वाल्लुकं न विदध्यात् ॥ विहितस्तु सर्वदेशत्वस्य ज्ञापकः संपद्यते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-23.
“*द्वितीयमिति ।” लोपविशेषणापेक्षया द्वितीयं, पाठापेक्षया तु तृतीयं भवति ॥ “*एकदेशलोप इति ।” अवयवक्रिया समुदायेऽपि व्यपदिश्यते -यथा पटो दग्ध इति । अवयवे हि पटाख्योऽवयवी समवेत इति तस्याप्यसौ दाहः । न त्वयं गौणो व्यपदेशः । गौणत्वे हि सति मुख्यस्यैव संप्रत्ययान्न कर्तव्यमेव प्रत्ययग्रहणं स्यात् ॥ “*आधीतेति ।” परत्वादुपधालोपे कृते पुनःप्रसङ्गविज्ञानादनुनासिकलोपः स्यात् ॥ 61 ॥
“*प्रत्ययं ॥ 62 ॥ प्रत्ययग्रहणमिति ।” प्रत्ययनिमित्तं कार्यं लोपे भवतीत्युक्ते प्रत्यासत्या प्रत्ययस्यैव लोप इति विज्ञास्यत इति भावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-25.
“*सौरथीति ।” प्रत्ययस्य लक्षणं=दर्शनं=प्रादुर्भाव इत्यर्थं परिकल्प्यैतदुच्यते । सुरथस्य विहतस्य चापत्यं गोत्रं स्त्रीति अत इञि कृते मकारनकारयोर्भावे यथा गुरूपोत्तमत्वात् ष्यङ् भवति, एवं लोपोऽपि स्यात् । प्रत्ययग्रहणे तु सति विरुद्धत्वान्नायमर्थो भवति- प्रत्ययलोपे तस्यैव पुनः प्रादुर्भाव इति । एवं हि लोपविधानमर्थकं स्यात् । तस्मात् -प्रत्ययनिमित्तं कार्यं प्रत्ययलोपे भवतीति वाक्यार्थ आश्रीयते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-26.
“*नैवमिति ।” सन्देहेऽपि व्याख्यानात्करणसाधनो लक्षणशब्द आश्रयिष्यते । अन्यथा क्रियमाणेऽपि प्रत्ययग्रहणे भावसाधनाशङ्का न निवर्तते-प्रत्ययलोपे प्रत्यान्तरस्य प्रादुर्भाव इति । यथा-ग्रामणीरिति क्विलोपे स्वाद्युत्पत्तिः । ततश्चाधोगित्यत्र पदस्Mज्ञा न स्यादिति करणसाधनत्वे व्याख्यानमेव शरणमिति भावः । लक्षणशब्दोपादानसामर्थ्याद्वा करणसाधनो लक्षणशब्दः । अन्यथा ‘लोपे प्रत्ययः’ इत्येवं वक्तव्यं स्यात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-27.
“*सति प्रत्यय इति ।” प्रत्ययशब्दोऽत्र लुप्तसप्तमीको निर्दिश्यते । तेन प्रत्यये सति यत्कार्यं दृष्टं तल्लोपेऽपि भवति । न च ग्रामणीरित्यत्र क्विपि सति तुक् दृष्टः, ह्रस्वाभावात् । कृते क्विलोपे ह्रस्वत्वे च तुक्प्राप्तिः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-28.
“*जगदिति । धुतिगमिजुहोत्यादीनां द्वेचे"ति गमोः क्विप् । अत्रान्तरङ्गत्वात्पूर्वं विलोपः । `गमः क्वा’वित्ययं हि लोपोऽङ्गविशेषापेख्षत्वाद्बहिरङ्गः । भिन्नविषयत्वाच्च `येन नाप्राप्त-’ इति न्यायो न भवति । सति त्वस्मिन्न्याये नैव विलोपः स्यात् । तस्मात्सति क्विपि नाऽत्र तुकः प्राप्तिः, अपि तु विलोपे कृते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-29.
“*अन्यतरदिति ।” एकमेव प्रत्ययग्रहणं सामर्थ्यात् कृत्स्नप्रत्ययलोपप्रतिपादने समर्थं ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-30.
“*वर्णलख्षणमिति ।” `प्रत्ययलोपे तल्लक्षणं’ इत्युच्यमाने प्रत्ययस्य यत्र कार्ये निमित्तभावः प्रत्ययस्वरूपाऽऽश्रयेण वर्णरूपताऽऽश्रयेण वा तत्सर्वं स्यात्, सर्वनाम्नो वस्तुमात्रपरामर्शित्वात् । प्रत्ययग्रहणे सति प्रत्ययनिमित्तमेव कार्यं प्रत्यलोपे भवति, न वर्णरूपतानिमित्तम् ॥ “*रैकुलमिति ।” अवयवद्वारेणात्र प्रत्ययस्याप्यायादेशं प्रति निमित्तत्वमस्त्येव ।
प्रत्ययाश्रयस्त्वायादेशो न भवति-इति न प्रवर्तते । अनेनैव न्यायेन `न धातुलोप आर्धधातुक’ इति `धिन्विकृण्व्योर्विचि’ `लोपो व्योर्वली’ति वलोपस्य
वल्निमित्तत्वादार्धधातुकनिमित्तत्वाभावाद्गुणनिषेधो न भवति । तेन-`सुधे’ `सुकर्’ इति, न तु सुधी सुधिनौ सुकीरिति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-31.
“*किमर्थमिति ।” स्थनिवद्भावेन सिद्धमिति भावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-32.
“*सदन्वाख्यानादिति ।” शास्त्रं कर्तृ करणं वा शेषत्वेन विवक्षितमिति षष्ठी कृता ॥ “*सत् शास्त्रेणेति ।” शास्त्रेण कर्णेनाचार्यः-स्मर्ता सत्-विद्य्मानं वस्तुनिमित्तत्वेनान्वाचष्टे ॥ “*सतो वेति ।” शस्त्रस्यैवाविच्छेदेन प्रवर्तमानस्य स्व्तन्त्रत्वमन्वाख्याने-इति पूर्वस्माद्व्याख्यानादस्य विशेषः ॥ न च स्थानिवद्भावेन सिध्यति । अतृणेडित्यादावल्विधित्वात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-33.
“*लुक्युपसंख्यानमिति । तक्रकौण्डिन्य-“न्यायेन लोपसंज्ञाया लुगादिसंज्ञाभिर्बाधनादिति भावः । लुग्रहणस्योपलक्षणार्थत्वात् श्लुलुपावपि गृह्येते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-34.
“*न वाऽदर्शनस्येति ।” अदर्शनमात्रस्य लोपसंज्ञा विधीयमाना लुगादिसंज्ञाविषयमत्यवगाहते । न च संज्ञानां बाध्यबाधकभावः, समावेशदर्शनात्तासामिति `आकडार-‘सूत्रे वक्ष्यते । लोपस्य संज्ञि-लोपसंज्ञि, तस्य भावो लोपसंज्ञित्वं, तस्मादित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-35.
“*प्रत्ययादर्शनं त्विति ।” लुक्श्लुलुप्संज्ञानां सङ्करः प्राप्नोतीत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-36.
“*तत्र लुकि श्लुविधिरिति ।” उपलक्षणं चैतत् । तेन श्लावपि लुग्विधिः प्राप्नोति-जुहोतीति, “*उतोवृद्धिर्लुकि हली"ति ॥ लुप्यपि लुग्विधिप्रसङ्गः-हरीतकीति तथा लुकि लुप्विधिः-लवणः सूप इति , युक्तवद्भावः स्यात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-37.
“*न वा पृथगिति ।” एकयैव संज्ञया प्रदेशवाक्येषु संज्ञिप्रत्यायने सिद्धेऽनेकसंज्ञाविधानसामर्थ्यात्तद्भावितिअग्रहणं विज्ञायते ।
तत्राश्रितस्वरूपव्यापारा वा लुगादय आश्रीयन्ते, आवृत्तिर्वा लुगादिशब्दानामाश्रीयत इति तद्भावितग्रहणं सिध्यति ॥ विधिप्रदेशेषु
चेतरेतराश्रयदोषानवतारः,नित्यशब्दाश्रयणाद्भाविसंज्ञाविज्ञानाद्वा ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-38.
“*यथैवेति ।” तिसृणां संज्ञानां विधानसामर्थ्यात्परस्परविषयावगाहनं तासां मा भूत्, लोपसंज्ञाविषये तु
ताः प्रवर्तेरन् ॥ “*गोमतीभूतेति ।” च्वेर्लोपे कृते लुक्संज्ञायां सत्यां “*लुक् तद्धितलुकी"ति लुक् प्राप्नोति । पुंवद्भावस्त्वत्र न भवति, वैयधिकरण्यात् । महद्भूता ब्राह्मणीत्यत्र तु भवति, सामानाधिअक्रण्यात् । नित्यत्वाद्धि शब्दानां क्वचिद्विकारस्य जनिकर्तृत्वं, क्वचित्प्रकृतेः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-39.
“*ननु चात्रापीति ।” लुगादिसंज्ञानां भेदेनोपादानात्तद्भावितग्रहणमित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-40.
“*अस्त्यन्यदिति ।” प्रत्ययाप्रत्ययादर्शनस्य लोपसंज्ञा यथा स्यादिति ॥ “*लोपमात्रे मा भूदिति ।” यथा गोमतीभूतेति च्वेर्लोपे कृते `लुक्तद्धितलुकी’ति न भवति । तस्माल्लोपसंज्ञायां नास्ति तद्भावितग्रहणम् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-41.
“*सतो निमित्तभावादिति ।” निमित्तशब्देन निमित्तत्वमुच्यते । तेन यस्य सतः कार्यं प्रति निमित्तत्वं नाभूत्, स लुप्तोऽत्यनिमित्तं स्यादित्यर्थः ॥ “*राज्ञ इति ।” सति ङसि भसंज्ञायां `स्वादिष्वि’ति पदसंज्ञा बाधितेति नलोपो नाभूत्, अल्लोपस्चाभूदिति लुप्तेऽपितस्मिन्नलोपो न स्यात्, अल्लोपश्च स्यात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-42.
“*अस्तु तस्या इति ।” द्वे चात्र पदसंज्ञे । एका `स्वादिष्वि’ति अवयवस्य, सा च भस्Mज्ञया बाधिता द्वितीया सुबन्तत्वेन समुदायस्य, सा च लुप्तेऽपि स्थितैव अल्लोपस्तु `न लुमताङ्गस्ये’ति प्रतिषेधान्न भवति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-43.
“*सत्येतदिति ।” कालविप्रकर्षप्रतिपादनायानद्य्तनप्रत्ययप्रयोगः । राज्ञ इत्यत्रावधिभेदाद्भसंज्ञायाऽव्यवस्यैव पदसंज्ञा बाध्यते, न समुदायस्य सुबन्तत्वनिमित्ता । लुप्ते तु प्रत्ययेऽवधिभेदाभावात्प्रत्यय्लक्षणेन प्राप्तया भस्Mज्ञया द्वे अपि पदसंज्ञे बाधितव्ये । एकाऽपवादत्वेन, द्वितीया परत्वेनेति भावः ॥ “*अनयेति ।” पदसंज्ञाद्वयमनेन दर्शितम् । भसंज्ञा प्रत्यय्लक्षणेन वर्णाश्रयाऽपि भवति । यथा-अतृणेडितीमागमः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-44.
“*तुग्दीर्घत्वयोस्चेति ।” अनेनैव प्रत्ययनिमित्तानि कार्याणि लुप्तेऽपि प्रत्यय् विधीयन्ते-इति
क्रिमाभावात्पौर्वापर्यं न प्रकल्प्यते । कार्यस्य प्रादान्यान्नानेन शास्त्रव्यपदेशौ विधीयते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-45.
“*सिद्धं त्विति ।” अन्यो भावः-अन्यद्वस्तु स्थान्यपेक्षयाऽऽदेशः, अन्यभाव एवान्यभाव्यमिति स्वार्थे ष्यञ् ।
तत्र परिवीरिति स्थानिनः क्विपो या संज्ञा=यो व्यपदेशः-पित् कृत्प्रत्यय इत्यादिः, स लोपस्यानेन विधीयते । ततस्तन्निबन्धनं शास्त्रं प्रवर्तत इति सिद्धो विप्रतिषेधः ॥ “*सत्तामात्रमिति ।” कृदादिव्यपदेशस्येत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-46.
“*यद्येवमिति ।” हन्तिं स्तरूपेणोपादायात्मनेपदं विधीयते । न तु कांचित्संज्ञामाश्रित्येति भावः ॥ “*न हीति “। यद्यपि धातुसंज्ञाऽस्ति, तथापि न तदुपादानेनात्मनेपदं विधीयते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-47.
“*हन्तेरपीति” । `आङो यमहन-’ इति सूत्रोपात्तोहन्तिः संज्ञा, प्रयोगस्थस्तु संज्ञीति विधेर्हन्तिसंज्ञाऽतिदेक्ष्यते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-48.
“*चित्रायां जातेति । `चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्यान’मित्यणो लुक् ॥ `टिड्ढाणञित्य’त्रात इत्यधिकारात् ङीपोऽल्विधित्वम् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-49.
“*वतण्डीति ।” यथा-आवट्यायनीति चापं बाधित्वा सर्वत्रग्रहणापकर्षात् ष्फो भवति, एवं शार्ङ्गरवादिपाठात् प्राप्तं ङीनं बाधित्वा प्राचां ष्पः स्यात् ॥ अत इत्यधिकारादल्विधिः ष्फः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-50.
“*गव्यतीति” । `औतोऽम्शसो’रित्यत्राचीत्यनुवर्तनादल्विधिरात्त्वम् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-51.
“*चर्मन्निति” । `सुपां सुलुगि’ति ङेर्लुक् । अत्र भसंज्ञाया अभावान्नलोपः प्राप्नोतीति `न ङिसंबुद्ध्योरि’ति वक्त्यव्यं जायते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-52.
“*परत्वाद्दीर्घत्वमिति” । सति प्रत्यये यत्कार्यं दृष्टं तुल्लुप्तेऽपि भवतीति सूत्रार्थः । परिवीयेत्यादौ च सति
प्रत्यये दीर्घो दृष्टः, न तुगिति परिवीरित्यत्रापि दीर्घ एव भवति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-53.
“*प्रयोजनमिति ।” यद्यप्यल्विध्यर्थमतृणेडित्यादौ, तथापि विशेषविहितत्वान्नुमादयोऽप्यस्यैवोदाहरणानीति
भावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-54.
“*अनड्वन्निति ।” पूर्वं संबुद्धिलोपमाश्रित्यैतदुक्तम् ॥ यदि तु विशेषविहितत्वात् `अम् संबुद्धौ’ इति पूर्वमम् प्रवर्तते, तदा संबुद्धिलोपो न स्यात् ॥
“*एय इति “। इयर्तेर्लङ्-तिप्-शपः श्लः द्विर्वचनम् । `अर्तिपिपर्त्योस्चे’तीत्वम्, `अभ्यासस्यासवर्ण’ इतीयङ् ॥
“*औन इति ।” अन्देर्लङ्-सिप्-श्नम्-`श्नान्नलोपः दस्चे’ति रुत्वम् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-55.
“*न च लोप इति ।” दिशिरुच्चारणक्रियः । न च लोप उच्चार्यते, अभावरूपत्वात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-56.
“*लोपोऽपीति ।” प्रतिपादनक्रियोऽत्र दिशिरिति भावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-57.
“*अण्योऽकार इति ।” अकारेणाणन्तं न विशेष्यते, किं तर्ह्यणेव, सर्वश्चाण् अकार एवेति विशेषणसामर्थ्यात् `श्रूयमाणाकाररूपादणः’ इति विज्ञायते ॥ अथवा-अण्योऽकार इति अणाऽकारो विशेष्यत इति वर्णनिमित्तो ङीप्, न तु प्रत्ययनिमित्त इति प्रत्ययलक्षणाभावः ॥ “*यञ् योऽकार इति ।” अकारावयव इत्यर्थः । अथवा-यञवयवे यञ्शब्दोऽत्र वर्तते, यञवयवो योऽकार इत्यर्थः ॥ पूर्ववदेतदपि व्याख्येयम् ॥ “*अच्यमीति ।” अच् प्रधानं तद्विशेषणममिति तदादिविध्यभावः । तत्र वर्णनिमित्तमात्वम्, न प्रत्ययनिमित्तमिति दोषाभावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-58.
“*क्रियत एतदिति । त्वया ज्ञापनार्थमवश्यं वक्तव्यमिति भावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-59.
“*शास इत्त्व इति ।” कृतेऽप्यस्मिन् सूत्रे नियमार्थमेतद्वक्तव्यं ‘अशास्त’ इत्यादौ मा भूत् । अकृते तु
विध्यर्थम् । `आशास्ते’ इत्यादौ तु न भवति, `शासु अनुशिष्टा’वित्यस्यैव तत्र ग्रहणात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-60.
“*प्रत्ययं गृहीत्वेति ।” स्थानिवद्भावेन सिद्धे सत्ययं योगो नियमार्थः । प्रत्यय एव यस्य लक्षणं
तत्प्रत्ययलोपे यथा स्यात् ॥ ‘सोर्मनसी’ इत्यत्र तु `अनिनस्मन्ग्रहणानि’ चेति वचनादस् प्रत्ययश्चाप्रत्यय्स्च गृह्यते इति सुदृषदित्यत्र स्थानिवद्भावाभावादुत्तरपदाद्युदात्तत्वाभावे `नञ्सुभ्या’मित्यन्तोदात्तवं भवति । तत्र `चोत्तरपदादि’ रित्यधिकारादसन्तमुत्तरपदं गृह्यते इति सुद्षदित्यत्र स्थानिवद्भावादसन्तत्वमुत्तरपदस्य स्यात् ॥ 62 ॥
“*न लुमताऽङ्गस्य ॥ 63 ॥ लुमतीति ।” लुमत्संज्ञया प्रतिपादितमदर्शनं -लुमत्। तत्र यः प्रतिषेधः, तस्मिन्नित्यर्थः ॥ “*एकपदस्वरस्येति ।” एकपदाश्रयो यः स्वरः, तस्येत्यर्थः ॥ यस्तु `पदस्य पदादि’ति पदद्वयाश्रयः स्वरः, तत्र प्रत्ययलक्षणं भवत्येव । दधि तिष्टति-इति `तिङ्ङतिङ’ इति निघाथः ॥ `अङ्गस्ये’त्यङ्गाधिकारनिर्देशात् ञ्निति कित्स्वरस्य चानाङ्गत्वात्प्रतिषेधस्याप्राप्तिरिति भावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-62.
“*सर्वस्तोम इति । `सर्वस्य सुपी’ति यदाद्युदात्तत्वं तदेव च बहुव्रीहौ प्रकृत्येति विधीयत इत्येकपदस्वरो भवत्येव ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-63.
“*सर्पिरिति ।” सर्पिःशब्दोऽन्तोदात्तः प्रत्ययस्वरेण, घृतादित्वाद्वा । सप्तशब्दोऽपि घृतादित्वादन्तोदात्तः । नित्स्वरेण त्वाद्युदात्तत्वे विशेषो न स्यात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-64.
“*मा हि दातामिति । `गातिस्थाघ्वि’ति सिचो लुक्, लेरेव लुकि विधातव्ये सिचो लुग्विधानं प्रत्ययलक्षणार्थम् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-65.
“*ञिनिकिलुकीति ।” इकार उच्चारणार्थः । ञ्नित्कितां प्रत्ययानां लुकि कृते स्वरा निवर्त्यमानतया प्रयोजनमिति पदानां संबन्धः ॥ भाष्यकारस्तु वस्त्वर्थं व्याचष्टे-”*ञ्निकित्स्वरा इति ।” प्रतिषेधमित्यध्याहारः ॥ “*उष्ट्रग्रीवावामरजुरिति ।” `देवपथादि’त्वात्कनो लुप् । असंज्ञायां चेदमुदाहरणम् । संज्ञायां तु `संज्ञायामुपमान’मिति भवितव्यमाहुदात्तत्वेन ॥ “*अत्रय इति ।” राशदिभ्यां त्रिप्, ‘अदेस्त्रिनिश्च’ इति त्रिबन्तोऽत्रिशब्द आद्युदात्तः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-66.
“*पथिप्रियः, मथिप्रिय इति ।” पूर्वपदप्रकृतिस्वरेणान्तोदात्तो पथमथिशब्दौ भवतः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-67.
“*अहर्ददातीति ।” `असुपी’ति प्रसज्यप्रतिषेधः । पर्युदासे तु दीर्घाहा निदाघ इत्यत्रापि सुप्सदृशे निदाघशब्दे परतो रत्वं स्यात् । रुत्वं चेष्यते । लोपशब्देन सोर्लुप्तत्वात्प्रत्ययलक्षणेन सुपि नेति रत्वप्रतिषेधादुत्वे यत्वे तस्य च लोपे दीर्घाहा निदाघ इति सिध्यति ॥ लुकि तु प्रत्ययलक्षणप्रतिषेधात् रत्वे सति उत्वाभावादहर्ददातीत्यादि सिध्यति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-68.
“*उत्तरपदत्वे चेति ।” उत्तरपदम् उत्तरशब्देनोच्यते, पदैकदेशलोपात् । तेनोत्तरपदस्य पदत्वे=पदव्यपदेशे कर्तव्ये प्रत्ययलक्षणं न भवतीत्यर्थः ॥ “*परमवाचेति ।” समासार्था या विभक्तिः कृता, तां प्रत्यलक्षणेनाश्रित्य पदत्वनिबन्धनानि कृत्वादीनि प्राप्नुवन्ति । भसंज्ञा तु “*यस्मात् यजादिविधि"रिति समुदायस्यैव, न त्ववयवस्य ॥ “*दधिसेचाविति ।” दध्नः सेचाविति षष्ठीसमासः । उपपदसमासे तु प्राक्सुबुत्पत्तेः समासविधानात्सेच्शब्दस्य पदसंज्ञाया अभावात्पदादित्वं सकारस्य न स्यात् । अनभिधानात् सोपपदाद्विजभावाददिषेचावित्यादिप्रयोगाभावात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-69.
“*कर्णो वर्णलक्षणादिति ।” नन्वपदादिविधावित्युच्यते, स्वरश्चाऽयं पदादिविधिः । ककारोऽत्रातिः, न त्वकार इत्यदोषः । स्वरविधौ व्यञ्जनमविद्यमानवत्, न त्वादिव्यपदेशो । सूत्रं चासमासार्थ स्यात् । कर्णशब्दादर्श आदित्वादचि कृते `शुक्लः कर्णः’ इत्याद्युदात्तत्वं यथा स्यात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-70.
“*यदि पुनरिति ।” तेन पूर्वस्मिन् परत्र च भवत्येव प्रत्ययलक्षणम् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-71.
“*राजकुमार्याविति ।” `इकोऽसवर्णे’त्यत्रैङः पदान्तादतीत्यतः पदान्तग्रहणमनुवर्तते । तत्र प्रत्ययलक्षणेन पदान्तत्वाच्छाकलप्रसङ्गः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-72. इइइइइइइइइइइइइइ
“*दधि अधुनेति ।” अधुनाप्रत्यय इदमोविधीयते । तत `इदम इश्’ । `1यस्येति चे’ति लोपः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-72.
“*यस्माद्य इति ।” प्रत्यासत्येति भावः ॥ राजकुमार्यावित्यत्र यद्यपि समुदायाद्विहितः, तथाप्यवयवादत्यसौ विहित इति बुद्धिर्भवत्येव । समुदायद्विर्वचनेऽवयवद्विर्वचनबुद्धिवत् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-73.
“*उत्त्वमिति ।” उत्त्वविधा ‘वेङः पदान्तादि’ति पदाधिकारः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-74.
“*वचनादिति ।” समासे सति उत्तरपदं भवति । न च कर्णशब्दोऽच्प्रत्ययान्तोऽस्ति, अर्शआदिषु हि `स्वाङ्गाद्धीना’दिति पठ्यते । तेन खञ्जादिभ्य एव हीनस्वाङ्गवाचिभ्यो भवति । न च कर्णशब्दो
हीनस्वाङ्गवाची ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-75.
“*तत्तर्हीति ।” उत्तरपदत्वे चापदादि विधावित्येतत् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-76.
“*यचि भमिति ।” ततश्च परमवाचेत्यत्र वाक्शब्दस्य भत्वात्पदत्वाभावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-77.
“*इह तर्हीति ।” ‘असर्वनामस्थाने’ इति प्रसज्यप्रतिषेधं मन्यते । ततश्च सर्वनामस्थाने परतो यस्मात् स्वादिविधिस्तदादि सुबन्तं च पदसंज्ञं न भवतीति प्रत्ययलक्षणेन सर्वनामस्थानपरत्वात् पदत्वप्रतिषेधात् कुत्वाप्राप्तिः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-78.
“*सत्येतदिति ।” अवधिभेदात्संज्ञिनां भेदात् ॥ “*बलीयांस इति “। विध्युन्मूलनरूपत्वात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-79.
“*एवं तर्हीति ।” योगविभागे सति सर्वाप्राप्तिः प्रातषिद्ध्यत इति दोषाभावः ॥ ‘असर्वनामस्थाने’ इति नञः क्रियापदेन सम्बन्धादुत्तर्पदेनासम्बन्धः, यचीत्येतच्च सर्वनामस्थानविशेषणम् । तेनायमर्थो भवति-यजादौ सर्वनामस्थाने परतः पदसंज्ञा न भवतीति । हलादौ तु सुशब्दे भवत्येव । भाष्ये तु वस्तुमात्रमुपन्यस्तम् -”*सर्वनामस्थाने अयचीति ।” यजादौ सर्वनामस्थाने पदसंज्ञया निषेधात्सामर्थ्यादयमर्थः संपद्यते-अयजादौ सर्वनामस्थाने पदसंज्ञा भवतीति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-80.
“*वाक्यपदयोरिति । गौरित्यौकारो वाक्यान्तो न भवतीत्यदुतौ न भवतः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-81.
“*पदादादिरिति । पञ्चमी"ति योगविभागात्समासः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-82.
“*कथं बहुसेचाविति ।” समासाभावान्नोत्तरस्य पदत्वम्, नापि पूर्वस्य पदत्वम् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-83.
“*द्वन्द्वेऽन्त्यस्येति ।” उत्तरपदत्वे चेत्यनेनैव सिद्धे नियमार्थमिदम्-अन्त्यस्यैव-इति मध्यमपदस्यापि पूर्वपदापेक्षयोत्तरपदत्वसंभवात्प्रत्ययलक्षणाप्रतिषेधप्रसङ्गात् । मुख्ये तूत्तरपदे संभवति कथं मध्यमस्य ग्रहणं स्यादिति चिन्त्यमेतत् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-84.
“*आकारप्रकरणादिति ।” आकारस्य नियमार्यत्वेन प्रस्तावादित्यर्थः । अथवाऽऽकारे प्रकरणात्-”*आत” इत्यत्र सिचः प्रकृतत्वादित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-85.
“*इति युष्मत्पुत्र इति ।” पदादुत्तरयोर्युष्मदस्मदोरादेशविधानादितिशब्दप्रयोगः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-86.
“*स्रूयमाणविभक्तिविशेषाणमिति । षष्ठीचतुर्थीद्वितीयास्वि"तेयेव सिद्धे स्थाग्रहणे सत्ययमार्थे भवति-तासु ये त्ववस्थिते युष्मदस्मति इति । स्रूयमाणासु चावस्थानं सम्भवति । न तु लुप्तासु, लुप्तस्याधारत्वासंभवात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-87.
“*अस्त्यन्यदिति ।” तिष्टतिरहानावपि वर्तते ॥ यथा-तपसि स्थितः तपो न जहातीत्यर्थः । तथाच समये निष्ट सुग्रीव समयं मा हासिरित्यर्थः । तेन सति स्थग्रहणे तत्सहितयोः कार्य विज्ञायते ॥ अथवा यथा रथस्थ आनीयतामिति सरथ आनीयते, तथा षष्ट्यादिसहितयोर्युष्मदस्मदोः कार्य भवतीति विज्ञायते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-88.
“*पदस्येति वर्तत इति ।” केवलयोः पदत्वाभावात्तदवयवं पदं गृह्यत इति भावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-89.
“*यत्र त्विति ।” अत्र हि ते एव पदे इति तयोरेवादेशप्रसङ्गः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-90.
“*सर्वग्रहणमपीति ।” अनेकालत्वात्सर्वदेशत्वे लब्धे सर्वग्रहणमनुवृत्तं षष्ट्यन्तं विपरिणम्यमानं सर्वस्य प्रयोगार्हस्य विभक्तयन्तस्य स्थानित्वमपगमयतीर्य्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-91.
“*याजयंचकारेति ।” परत्वात्तिनादोषु कृतेषु “*आम” इति लुकि प्रत्ययलक्षणेन याजयामित्यस्य तिङन्तत्वमिति पूर्वः पक्षः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-92.
“*आमि लिलोपादिति ।” नाप्राप्तेषु तिबादिषु लुगारभ्यमाणस्तेषं बाधकः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-93.
“*अङ्गाधिकार इति । अङ्गस्ये"ति स्वर्यते, तेनाङ्गाधिकारविहितं यत् कार्य तुल्लमता लुप्ते प्रत्यये न भवतीति सूत्रार्थे दोषोपन्यसः ॥ “*जिगमिषेति । अतो हे"रिति लुकि कृते “*गोमेरिट् परस्मैपदेष्वि"तीट् न प्राप्नोति ॥ “*संविवृत्सेति । न वृद्भवस्चतुर्भ्य” इतीट्प्रतिषेधः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-94.
“*क्रमेरि"ति कार्यसमीपे स्रूयमाणस्चकारः कार्यमेव समुच्चिनुयादित्यभिप्रायेणाह्-किं “*चेति” ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-95.
“*अदेश इति ।” कार्यस्य समुचेतव्यस्याभावात्साम्र्थ्यत्प्रकृतितमुच्चय इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-96.
“*किंचिच्चेति ।” ञिनिकित्स्वराः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-97.
“*न लुमता तस्मिन्निति ।” लुमता यो लुप्तः प्रत्ययस्तस्मिन्यत्कार्यमाङ्गमनाङ्गं वा तन्न भवतीत्यर्थः । अत्रय इत्यत्र स्वरो न भवति, तद्धितस्यैव कितोऽन्तोदात्तत्वविधानात् । लुकि कृते कार्यिणोऽसत्वात् । प्रत्ययलक्षणं हि यदन्यस्य कार्य तत्प्रत्ययलोपेऽपि भवति, न तु यत्प्रत्ययस्यैव कार्य तदपि । न हि वचनेनासतः कार्यित्वं शक्यते प्रतिपादयितुम् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-98.
“*तद्विषोषणमिति ।” विशेषण एवोपक्षीणत्वात्कार्य प्रति निमित्तभवो नास्तीत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-99.
“*हनिणिङादेशा इति ।” लुका लुङो विषयंत्पापहारात् विषयसत्पम्यास्रयणेऽत्यसिद्धिः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-100.
“*तद्विषोषणं लुङ्ग्रहणमिति ।” तेन लुङ्पर चिणि आदेशविधनम् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-101.
“*न लुमतेति । अङ्गस्ये"त्यस्य स्वरितत्वाप्रतिज्ञानात्तत्र लुमता लुप्ते प्रत्यये यदङ्गं तस्य यत्कार्य प्रत्ययास्रयमाङ्गमनाङ्गं वा तन्न भवतीत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-102.
“*कर्तव्योऽत्रेति ।” सर्वशब्दार्थ वचनं कर्तव्यम् ॥ ?? ॥
“*यनं ॥ ?? ॥ इह कस्मादिति ।” शबानुशासनप्रस्तावाच्छब्दस्वदरूपमिका विशेष्यत इत्यस्ति तदन्तस्य तदन्तस्य प्रसङ्गः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-213.
“*येऽनेकाल इति ।” ततस्च चयनजयनादिष्वयनमिति प्राप्नोति । प्रकरणादिवशाच्चाक्षदिष्विवार्थविशेषावगतिः स्थत् । “*निर्दिश्यमानस्यादेशा” इति अत्र नास्चितं परिहारान्तरविवक्षया ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-214.
“*यदि चैवेति ।” ‘आद्गुणः’ इत्यादौ । अत्र हि ‘आत्’ इत्यकारान्तो गृह्यते । ‘अचि’ इति चाजादिः । तेन स्वट्वेन्त्र इत्यादाववर्णन्तस्य समुदायस्याजादेस्च गुणप्रसङ्गाद्वैरूप्यप्रसङ्गः । षष्ट्यनिर्देशाच्च “*निर्दिश्यमानस्ये"त्यपि नास्ति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-215.
“*स्योन इति ।” सवोर्बहुलकादौणादिके नप्रत्यये गुणो वलोप ऊठ्-इति कार्यत्रयस्य प्रसङ्गः ।
तत्रापवादत्वादूठा वलोपो बाध्यते, गुणस्त्वन्तरङ्गत्वाद्धाध्यते । गुणो ह्यङ्गसंबन्धिनीमिग्लक्षणं ल्द्वीमुपधामार्धधातुकं चास्रयति, ऊठ् तु वकारान्तमङ्गमनुनासिकादिकं च प्रत्ययमित्यल्पापेक्षात्वादन्तरङ्गः । तत्र कृते गुणस्च प्राप्नोति यणादेशस्च । तत्र वर्णमात्रापेक्षत्वाधणदेशोऽन्तरङ्गः प्रवर्तते ।
नानास्रयत्वा”*द्वर्णादाङ्गं बलीय” इत्येतन्नास्ति । यत्रैकास्रये आङ्गवर्णे यथा कार इति घञास्रये यण्वृद्धी तत्रैवास्य प्रवृत्तिः । यदि च “*इको यणची"त्यत्र तदन्ततदादिविधी स्यातं तदा यणादेशास्यान्तरङ्गत्वाभावात् परत्वाद्गुणः स्यात् ॥
“*अन्तरङ्गलक्षणस्येति ।” असति तदन्ततदादिविधित्वे योऽन्तरङ्गस्तस्येत्यर्थः ॥ एवं बहिरङ्गलक्षणो गुण इति व्याख्येयम् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-216.
“*अल्विधिरिति । अलोऽन्त्यस्ये"त्यत्रापि तदन्तविधिसद्भावादत्यालन्तस्य समुदायस्य कारेण भव्यमिति धौः पन्था इत्यात्रा”*लोऽन्त्यस्या"देशो न प्राप्नोतीत्यर्थः । तत्र कदाचित्पथिन्नित्यस्याकारः स्यात्, कदाचित् थिन्नित्यस्य । “*अनेकाल् शित्सर्वस्ये"त्येतत्तु सर्वस्यैवेति निमार्थ स्यात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-217.
“*प्रकृत इति ।” प्रस्तुते । प्रसावस्च क्कचित्साक्षात् तदन्तविधिभाजो निर्देशात् यथा-”*ईदूदेद्द्विवचनं प्रगृह्य"मित्यत्र द्विवचनस्य । क्कचिदधिकारात् यथा-”*परजि"त्यत्र धातोः । क्कचिदाक्षेपात् यथा-”*इको ज्ञलि"त्यत्र सना धतोः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-218.
“*करण एषेति ।” विधिशब्दः कर्मसाधनः । येन करणेन कार्य विधीयते स शब्दस्तदन्तस्य संज्ञेत्यर्थः । तेन विशेषणेन विशेष्यस्य तदन्तविधिः नान्याथा । “*इको यणची"त्यादौ च विशेष्यस्यासन्निधानात्तदन्तविधेरभवः ॥ “*इस्त्यस्वरथपदातिभिरिति ।” बहुप्रकृतित्वाभावादेकवद्भावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-219.
“*ग्रहणोपाधीनामिति ।” गृह्यते=उच्चार्यत इति ग्रहणं, तस्य ये उपाधय इष्यन्ते ते तदन्तस्य संज्ञिनः प्राप्युवन्ति । संज्ञा हि संज्ञिप्रत्यायने विशेषाणाभावमापन्ना कथमात्मानो विशेषणसंबन्धामनुभवेत् ॥ “*सङ्कीर्णमिति ।” ओष्ट्यः पूर्वे यस्मादूकारान्ताद्धातोः, तस्योत्वमित्येव सूत्रार्थः स्यात् । अत्र च सुत्रार्थे धत्ववयवत्वमोष्ट्यस्यास्रयितुं न युज्यते, अवधित्वावयवित्वयोरेकस्य विरोधात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-220.
“*सिद्धं त्विति ।” वृद्धादिसंज्ञा गुणप्रधानभावानपेक्षा एव प्रदेशेषु संज्ञिनः प्रत्याययन्ति इयं तु संज्ञा गुणाप्रधानभवापेक्षात्वात्कार्यकाला । तत्रोतस्च प्रत्ययादित्यादौ विशेषणसंबन्धमनुभुय विशेष्येण संबन्धमुकारादिरनुभवतीति यथोक्तदोषाभवः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-221.
“*समासेति ।” स्रितादिभिः सुबन्तस्य विशेषणे सति प्राप्तस्तदन्तविधिः प्रतिरिध्यते । प्रतिषेधध्वारेण चैतत् प्रदर्श्यते-स्रितादयः प्राधन्येनास्रयितव्यः तद्विशेषणात्वेन च सुपा-इति ॥ “*कष्टं परमस्रित इति ।” स्रितान्तमेतत् सुबन्तं न भवतीति सुवुध्धन्तमुदाहर्तव्यम्-परमस्रितेति ।एतत् प्रत्ययलक्षणेन सुबन्तं भवति, स्रितान्तं च स्रूयते ॥ “*सौत्रनाडिरिति ।” अनुशतिकादित्वादुभयपदवृद्धिः । नडादीनि प्रातिपदिकेन विशेष्यन्त इति तदन्तविध्यबावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-222.
“*अतिमहतीति ।” महान्त्मतिक्रान्तेति प्रादिसमासः । तत्र यधपि गौरादिषु बृहत् महदिति पठ्यते, तथापि “*अनुपसर्जना"धिकारात् तत्र ङीष् न भवतीति उगिल्लक्षणो ङीप् प्रार्थते ॥ अन्ये तु गौरादिष्वन्योः प्रमादपाठ”*माहुः” । तथा चोक्तम् -”**नधजाधुदात्तत्वे बृहन्महसोरूपसंख्यान"मिति । ङीषि हि सति उदात्तस्य सिद्धत्वात् किं नधा उदात्तविधानेन ॥ “*अत इति ।” तदन्तविधावसति ञित्करणमुत्तरार्थ स्यात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-223.
“*सर्वक इति ।” अकचि कृते शीभावो न स्यात् ॥ “*उच्चकैरिति ।” तथैवाकचि कृते लुग्र स्यत् । उच्चकैरधीयानेति “*अव्ययानं प्रतिषेध” इति पराङ्गवद्भावनिषेधो न स्यत् ॥ उच्चकैर्मुखमिति “*नाव्ययदिक्शब्दे"ति मुखस्वरनिषेधो न स्यात् ॥ “*भिनत्तीति” धातोरन्त उदात्तो भवतीति उदात्तत्व्M न् स्यात् । प्रत्ययस्वरेण तु तत्सिध्यतीत्यभिनोत्रेऽति “*दस्चे"ति धातोर्विधीयमानं रूत्वं न स्यादिति वक्त्वयम् ॥
अन्ये त्वाहुः-भिनत्तीत्यत्रागमानुदात्तत्वेन प्रत्ययस्वरस्य वाधितत्वात् सतिशिष्टः स्वरो धातुस्वर एष्टव्यः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-224.
“*सिद्धं त्विति ।” सर्वशब्दस्य योऽन्तोऽकारः सोऽन्तः सर्वकशब्दस्य ॥ एवमन्यत्रापि योज्यम् ॥ तत्र “*सर्वनामानी"त्यन्वर्थसंज्ञाऽऽक्षिप्तः संज्ञी सर्वादिभिर्विशेष्यते, अव्ययसंज्ञाऽऽक्षितः स्वरादिभिः, धातुसंज्ञाभाजो वाप्रकारा भुवादिभिरिति भावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-225.
“*उत्तरपदलोप इति ।” वाचनिकोऽत्र लोपः, न तु सामर्थ्याद्गम्यमानार्थस्य निवृत्तिरित्यथ्हुः ॥ अन्ये तु वर्नयन्ति-यथाऽवयवदर्शनात् गौरित्यवयविविषया बुद्धिरूदेति तथेहापि सर्वशब्दस्य योऽवयोऽन्त्यस्तत्रैव सर्वशब्दविषयबुद्धत्यादात् तदवयवान्तः सर्वशब्दान्त इति व्यपदिश्यते ॥ अथवा-अवयवे समुदायरूपारोपात् तदन्तता भविष्यति । गौनेनापि स्य्र्थेन शस्रे व्यवहारो इश्यते- छत्रपास्व्र्यःशुल्दण्डाचिनशीतोष्णार्द्धह्लस्वादिषु ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-226.
“*तदेकदेशाविक्षानादिति ।” मध्यपातिनोऽक्कजादयस्तदेकदेशा इति तत्वबुद्धिं न विध्रान्ति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-227.
“*अक्तपरिमाणानामिति ।” परिच्छिन्नपरिमाणानामित्यर्थः ॥ “*यावदिति ।” अल्पमधिकं वेत्यर्थः ॥ “*इमास्चापीति ।” सर्वधुपादानेन संज्ञाः क्रियमाणाः कथं सर्वकादीनं भवन्ति । नित्या हि शब्दा विकारोपजनरहिता इति सर्वशब्दः सर्वकशब्द इति न वक्तुं शक्यत इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-228.
“*एवं तर्हिति ।” यधपि नित्याः शब्दास्तथापि प्रक्रियायामकजादयो विधीयमाना ज्ञापकादव्यतिरेककृत इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-229.
“*प्रयोजनमिति ।” अन्वर्थसंज्ञाऽऽक्षिप्तः संज्ञी सर्वादिभिर्विषेष्यते । अपूर्वे वा तदन्तविधिरूपसंख्यायते । एवमुत्तरत्र विज्ञेयम् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-230.
“*उपपदविधाविति ।” भयाठ्यादिभिः कर्मविशेष्यते । “*क्षेमप्रियमद्रेऽण् चे"त्यत्र तु कर्मणा क्षेमादय इति तदन्तविध्यभवः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-231.
“*प्रतिषेध इति । विधीयत इति-विधिः सामान्येन गृह्यत इति प्रतिषैधेऽपि तदन्तविधिर्भवति, स्वस्त्रादिभिः प्रातिपादकस्य विशेषणात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-232.
“*द्विपरमबिस्तेति ।” द्विगुना सन्निधापितमुत्तरपदं बिस्तादिभिर्विशेष्यत इति तदन्तविधिः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-234.
“*तस्य चेति । स्वं रूप"मित्यस्यानुवृत्तिं वार्तिककारो नेच्छति । तथा “*चाधन्तव"दित्यत्र “*तेन विधिस्तदन्तत्व” इति प्रयोजनमवोचत् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-233.
“*दितिग्रहणं चेति ।” परमदित्यादिभ्वस्त्वनभिधानात् ण्यो न भवति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-235.
“*व्यपदेशिवद्भावोऽप्रातिपदिकेनेति ।” मनु रोणीशब्दो न प्रातिपदिकं प्रत्ययान्तत्वात् ॥ “*नैष दोषः ।”
‘अप्रातिपदिपदिकेन’ इत्यत्र वाक्ये “*प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहण"मिति वचनात् स्त्रीप्रत्ययान्तैरपि व्यपदेशइवद्भावो न भवति । न च लिङ्गविशिष्टपरिभाषा स्वरूपविधिविषयैवेति “*प्रातिपदिक"सुत्रे वक्ष्यते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-236.
“*सपूर्वदिति ।” पूर्वग्रहणे त्यक्ते त्यक्ते “*सपूर्वादिनि"रित्युच्यमाने सर्वस्मात् सपूर्वत्प्राप्नोतीति कथं ज्ञापकमित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-237.
“*यच्चानुक्रान्तमिति ।” अप्रातिपदिकनेति तु निषेधो यत्रान्तग्रहणं सूत्र एवोपात्तं तत्र यथा -”*दशान्ताद्ड’ इति ‘दश अधिका अस्मिन् शते’ इत्यत्र न भवति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-238.
“*यद्विधविति ।” ठग्विधौ तु तदन्तविधेरभावात् ‘पारमहलिकः’ इति ठक् न भवति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-239.
“*ऋतोरिति ।” ऋतुवाचिः शब्दाधो वृद्धिमान्प्रत्ययस्तद्विधानेऽवयवानां तदन्तविधिः । शरदः पूर्वे भगः
पूर्वशरत्, तत्र भवमिति ऋतुलक्षणो।़ण् तत्र वृद्धिमदिति वचनात् प्रावृष एण्य इत्यत्र तदन्तविधिर्न भवति । तन ऋत्वणेव भवति-”*पूर्वप्रावृषमि"ति । प्रावृट्धब्दो वर्षापर्यायः ॥ अव्यवानामिति किम् ? पूर्वस्यां शरदि-पौर्वशरदिकमित्यण् न भवति, “*कालाट्ठ्ञि’त्येव भवति । तत्र हि यथाकथञ्चित्कालवाचिनो गृह्यन्ते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-240.
“*द्विषष्ठीकमिति ।” द्वे षष्टी परिमाणमस्येति समासे कृते “*आर्हादि"ति ठक् न भवति, संख्यायास्तदन्तविधौ सति संख्यान्तादपि ठक्प्रतिषेधात् । तेन “*प्राग्वते"रिति ठञ् भवति । “*अध्यर्धपूर्वे"ति लुग्र भवति “*सोऽस्यंआशवस्राभृतय” इत्यतः ‘सोऽस्य’ इत्यनुवर्तमाने “*तदस्य परिमाणा’मित्यत्र पुनः प्रत्ययः । तद्विधानसामर्थ्याच्च पुनर्लुगभवः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-241.
“*पदाङ्गाधिकार इति ।” पदशब्देनोत्तरपदं गृह्यते, पदैकदेशलोपात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-242.
उत्तरपदेन साम्र्थ्यादाक्षिप्तं पूर्वपदमिष्टकादिभिर्विशोष्यते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-243.
“*महदिति ।” महदादिभिरङ्गं विशोष्यते ॥ “*स्वाप इति । न पूजनादि"ति समासान्तनिषेधः । “*अपो भी"ति तत्वमपि स्वद्भिरिति भवति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-244.
“*द्विपद इति । पादः पदि"त्यत्र पाच्छब्देनाङ्गं विशेष्यते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-245.
“*पादस्य पदेति ।” ननु पद्भावे तदनविधिरुक्तः । अयं तु पदभावाविधिः । नैष दोषः । पादशब्देन पूर्वपदस्य विशेषाणात्पद्भावे तदन्तविधिः । अनेनैव न्यायेन पदभावेऽपि तदन्तविधिप्रसङ्गः यथाभुतः पूर्वसूत्रे पादशबो निर्दिश्यते तथाभुतस्योत्तरसूत्रेऽनुवर्तनात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-246.
“*एवं तर्हिति ।” एवं च परमपादेन कषातीति विवक्षायां परमपादकाषीति भवति । यदा तु परमः पत्काषीति विवक्षा तदा परमपत्काषीति भवति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-247.
“*पादयतेरिति ।?” पदेर्ण्यन्तादिदित्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-248.
‘परमपन्थाः’ इति क्कचित्पाठः स त्वयुक्तः, समासान्तविधानात् ॥ “*न पूजना"दित्यत्र “*पूजायं स्वतिग्रहण"मिति वचनान्नास्ति निषेधः । तस्मात्सूपन्था इति पाठः ॥ “*परमगौ"रित्ययमत्यपपाठः; “*गौरतद्वितलुकी"ति टज्विधानात् । तस्मात् सुगौरिति पाठः ।”*परमसखाया"विति बहुव्रीहिः । तत्पुरुषे तु टचा भव्यम् ॥ अनङ्लुच्छब्दस्येह प्रपञ्चार्थः पाठः । “*अनडुहो नुम्” इत्यत एव वचनादादित्यधिकाराद्माभोः कृतयोर्नुम्विधानात् नुम्विधौ तदन्तविधिना अमामोरपि तदन्तविधेराक्षेपात् ॥ अन्ये त्वाहुः-असतीह पुनर्ग्रहणे यत्रैव नुम् क्रियते तत्रैवामामौ तदन्तस्य स्याताम् । परमानड्वाह इत्यत्र त्वाम् न स्यादिति पुनः पाठः कर्तव्यः । पूर्वत्रापि पाठो नुमर्थः कर्तव्यः । अन्यथा-अमामोरेव तदन्तविधिः स्यात्, न नुम्विधौ ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-249.
“*अतिस इति ।” शोभनः स इत्यर्थः । उपसर्जने तु तच्छब्दर्थेऽतितदिति भवति ॥ “*बहुभस्त्रिकेति । नण्पूर्वाणामपी"ति न वक्तव्यं भवति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-250.
“*वर्णग्रहणं चेति ।” यध्येव”*मुगिद्वर्णग्रहणवर्ज"मित्यत्र किमर्थ वर्णग्रहणम् ? उच्यते-प्रत्ययविधौ तदन्तविधिप्रतिषेधाद्वर्णग्रहणे प्रत्ययविधौ प्रदिषेधाशञ्कानिवारणार्थम् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-251.
“*प्रत्ययग्रहणं चापञ्च्म्या इति । प्रत्ययग्रहणो यस्मात् स विहित” इति सिद्धे तदन्तविधावपञ्च्म्या इति प्रतिषेधार्था वचनम् । यत्र प”*ञ्च्म्य"न्तात् परः प्रत्ययः कार्यान्तरविधानाय परिगृह्यते तत्र त्दन्तविधिर्माभूत् । यथा-”*रदाभ्या"मित्यत्र । तत्र हि तदन्तविधौ रेफदकाराभ्यामुत्तरो यो निष्टान्तस्तस्य यस्तकारस्तस्य नत्वं स्यात् । न च “*संज्ञाविधौ प्रत्ययग्रहणो तदन्तविधिर्नास्तीति” निषेधावतषः । यत्र हि संज्ञाविधानं तत्रायं निषेधः । इह तु विष्टानुवादेन नत्वविधिः । संज्ञाविधौ तर्हि तदन्तविधिनिषेधस्य किं फलम् ? उच्यते - यदि संज्ञाविधौ प्रत्ययग्र्हणो तदन्तस्य संज्ञा स्यत् प्रदेशेषु पुनस्तदन्तविधिः स्यादिति प्रत्ययान्तान्तं गृह्येत तस्मात्संज्ञाविधावपि तदन्तविधेर्निषेधो “*रदाभ्या"मित्यत्र च ॥ “*उपञ्चम्या” इत्यस्य नायमर्थः- यत्र पञ्च्म्यआन्तात्प्रत्ययो विधीयते तत्र त्दन्तविधिर्न भवतीति । एवं हि व्याख्यायमाने “*ञितस्च तस्परत्यया"दित्यत्र तत्रत्ययादेवाञि विधीयमाने तस्यैवाङ्गसंज्ञायं वृद्धिस्वरौ स्यातं, न तु तदन्तस्य “*परमगाग्यार्यण इति " । गाग्यर्यण इत्येवोदाहरणम् । गार्ग्यशब्दाध्यञ्न्तात् फग्विधानात् । न त्वत्र परमगार्ग्यशब्दात्प्रत्ययः, तस्य यञ्न्तत्वाभावात् । तस्माच्च फकि विधीयमाने पारमगार्ग्यायण इत्यनिष्टरूपप्रसङ्गः । तस्मादेतन्न्यायव्युत्पादनार्थ परमगाग्र्ग्ययण इत्युपन्यस्तम् । उत्तरपदाधिकारे प्रत्ययग्रहणेन तदन्तविध्यभावो लेखग्रहणेन ज्ञापितः । तत्र “*रदाभ्या"मित्यत्र निष्टायाः प्राधान्येनास्रयणात्तदन्तविध्यभावः । “*स्यतासी लृलुटो"रित्यत्र ध्वातोरित्यधिकारादपञ्चम्या इति निषेधात्, लृलुटोर्वा प्राधन्येनास्रयणात्तदन्तविध्यभावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-252.
“*अलैवानर्थकेनेति । अर्थवह्ग्रहणे नानर्थकस्ये"ति विर्णनिर्देषेशु नास्रीयत इति स्थितम् । वर्णरूपतया यस्य शब्दस्यास्रयणं नार्थवत्तारूपमास्रीयते तत्र “*वर्णग्रहणं च सर्वेत्रे"त्यत्र वर्णग्रहणे जातिग्रहणाद्विर्णसमुदायग्रहणेऽनर्थक्स्य ग्रहणं प्राप्तमनेन नियमेन निवार्यते । अलैवेति चैकत्वसंख्या गुणत्वाद्विवक्ष्यते । नियमविधानसामर्थ्यर्द्वा ॥
“*हन्ग्रहण इति ।” तेन प्लीहानाविति दीर्धे भवति ॥ “*उड्ग्रहण इति । उदः स्थास्ताम्भो"रित्यनेन गर्मुत्-स्थास्यतीति पूर्वसवर्णभावः ॥ “*शास्त्रीग्रहणमिति ।” तेन शस्त्र्याविति “*स्त्रिया” इतीयङ् न भवति ॥” *पायसंग्रहणमिति " । पायसं करोतीति -”*संपर्युपेभ्य” इति सुण् न भवति ॥
तत्र हन्ग्रहणे स्त्रीग्रहणे चाङ्गस्य विशेष्यत्वात् स्यात्तदन्तविधिः । “*उदः स्ये"त्यत्र “*तोरि"त्यधिकारात् तवर्गान्तस्योच्छब्देन विशेषणात् स्यात्तदन्तविधिः । प्रतिषेधविज्ञाने तु न भवति, उदस्च तव्र्गेण विशोष्यत्वात् तोरित्यस्य वा निवृत्तत्वात् । संग्रहणो पदप्रकरणात्तदन्तविधिः स्यादिति निवार्यते । पदेन समादयो विशोष्यन्ते इति तदन्तविध्यभावः । पायसं करोतीति करोतेर्भूषणार्थवृत्तिता संभवतीति सुद्र स्यात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-253.
“*किमर्थमिति । अलैवानार्थकेने"त्येतदाक्षिप्यते । अस्य हि नियमस्य प्लीहानावित्यादिप्रयोजनम्,
तच्चान्याथा सिध्यति । अङ्गाधिकारे हन्ग्रहणं स्त्रीग्रहणं चास्ति ।”* एङः पदान्तादि"ति पदाधिकारे संग्रहणम् । वा पदान्तेस्येत्यतः पदग्रहणानुवर्तनात् -”* उदः स्थास्तम्भो"रिति पूर्वसवर्णः पदाधिकारे विधीयते । “*पदाङ्गाधिकार” इत्यत्र च केवलपदाधिकारोऽपि ग्रहीष्यते, उत्तरपदाधिकारोऽपि ततस्च प्लीहानावित्यादिषु दोषो न भविष्यति । न हि प्लीहानावित्यत्र हनित्यङ्गं नापि तदुत्तरपदमिति “*प्रस्नः " ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-254.
“*तन्न वक्तव्यमिति । पदाङ्गाधिकार” इत्येतदित्यर्थः । “*अलैवानर्थकेने"ति वचनादर्थवता तदन्तविधिसद्भावादिति भावः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-255.
“*तदन्तविधिरेवेति ।” प्राथमकल्पिकः सूत्रेणैव तदन्तविधीः । स एव त्वेलै”*वानर्थकेने"ति नियम्यते ॥ “*परमातिमहानिति” परमस्चासावतिमहानिति समासः । तत्र परमादिर्महच्छब्दो न भवति, नापि महच्छबोत्तरपदः, अतिमहच्छब्दोत्तरपदत्वादिति “सान्तमहत” इति दीर्धे न स्यथ् । अनेनैव न्यायेनोगिल्लक्षणो नुमागमोऽपि न स्यात् । तदन्तविधिना तु भवति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-256.
“*सूस्त्रोता इति । अनागमकानं सागमका आदेशा” इत्यास्रयणादस आनर्थक्यम् । “*अर्थवतो स्यागम्” इति न्यायास्त्रये त्वर्थवानेव अत् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-257.
“*यस्मिन्विधिरिति ।” तदन्तविध्यपवादस्तदादिविधिः । अत एव विशोषणेन भवति, नान्येन ॥ 72 ॥
“*वृद्धिर्यस्यां ॥ 73 ॥ वृद्धिग्रहणमिति ।” असति वृद्धिग्रहणे कथं सर्वस्य वृद्धिसंज्ञा न भवतीति चेत् । यस्याचामादिर्भिन्नजातीयो हल् तद्..द्धमित्यजाति व्यावर्तितं स्यात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-259.
“*दात्ता इति ।” असति वृद्धिग्रहणे निर्धारणहेतोर्धर्मस्यानुपादानादादिशब्दः समीपार्थे विज्ञायेत । दत्तशब्दस्चात्र क्रियाशब्दो द्रष्टव्यः । नामधेयस्य तु पक्षे भवत्येव वृद्धसंज्ञा । “*पस्थेऽवृद्ध"मित्यत्र यदा नामधेयत्वादवृद्धः पक्षे कक्यरादस्यस्तदर्थः प्रतिषेधः स्यात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-260.
“*यस्येति व्यपदेशायेति ।” संज्ञिने इति शेषः । अन्यथा तच्छब्देन किं प्रत्यवमृश्येत तदित्यस्यानुपादानेच
वृद्धेरेव वृद्धसंज्ञाप्रसङ्गः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-261.
“*गार्गिया इति ।” न हि गार्ग्यशब्दस्य वृद्धिरादिः । किं तर्हि हल् । “*मालादीनं चे"त्येतत्तु नामधेयार्थ स्यात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-262.
“*सभासंनयन इति ।” सति चेहादिग्रहणे “*आधन्तव"त्सूत्र एकग्रहणस्य सभासंनयनशब्दः प्रत्युदाहरणम् । असति त्विहादिशब्दे दरिद्रातेरिवर्णन्तलक्षणस्याचोऽभव एकग्रहणस्य प्रयोजनम् ॥ “*अचा"मिति तु बहुत्वसंख्याविवक्षर्थं स्यात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-263.
“*न ह्याचामिति ।” सर्वस्य प्रातिपदिकस्याज्ज्ञाल्समुदायरूपत्वात् । “*अचा"मित्यनेन केवलानामचं समुदायः संनिवेशरूपो निर्दिष्टः । पौर्वापर्येणावस्थानं -संनिवेशः । स च केवलानामचं नास्ति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-264.
“*ननु चैवमिति ।” अच्संनिवेशस्यासंभवादचं मध्येऽजपेक्षया यस्य वृद्धिरादिरिति विज्ञास्यत इत्यर्थः ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-265.
“*नैवं शक्यमिति ।” वृद्धिविशेषणार्था निर्धारणे षष्ठी स्यात् । अचां मध्ये अजूपा या वृद्धिरित्याकारस्य निवृत्तिप्रसङ्गः । आकारो ह्यनजेव सन् केवलेमच्कार्याणि ग्रहणकशास्त्रेण लभते । ततस्चास्वलायन इत्यत्र न स्यात् । गार्ग्य इत्यत्र चाकारस्यानच्त्वात् समुदायानादित्वाच्चा न स्यात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-266.
“*एकान्तादित्वे चेति ।” एकान्ता अवयवा अचः प्रातिपदिकस्य, तेषामचाम् आदिर्वृद्धिर्यस्य तद्द्धिमित्यर्थः ॥ “*सर्वप्रसङ्ग इति “। न ह्यत्र विशेष उपादीयते-सर्वेषामचामादिर्वृद्धिरिति । ततस्च मध्येऽपि वर्तमान आकारोऽन्याजपेक्षयाआदिरिति सभासन्नयने संज्ञाप्रसङ्गः । आदिग्रहणञ्चान्त्यनिवृत्यर्थस्यात् -ख्द्वेति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-267.
“*सिद्धमिति ।” उभयरूपत्वेऽपि प्रातिपदिकस्याजाकृतिः ‘अचाम्’ इति वचनादास्रीयते । विध्यमानाऽपि हलाकृतिर्न विवक्ष्यते । तेनायमर्थः-यस्य शब्दस्य सकलाजपेक्षया वृद्धिरादिस्तद्व्द्धमिति । यथा-पङ्क्तै ब्राह्मणानामादिमानयेक्तुत्वे सतोऽपि शुद्रादीन्नाह्यत्य ब्राह्मणजातीयापेक्षया यो ब्राह्मण आदिः स आनीयते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-268.
“*व्यञ्जनस्येति । अचा"मिति वचनाद्विध्यमानान्यपि व्यञ्जनानि न विवक्षितानीत्यर्थः ॥ “*यथाऽन्यत्रेति ।” यथा-स्वरविधावयोगयत्वाद्वयञ्जनमविध्यमानवत्, एवमिहात्यचामिति वचनादित्यर्थः ॥ “*ह्यस्वनुड्भ्या"मिति स्वरविधौ नुड्ग्रहणाल्लिङ्गाह्यञ्जनं व्यवधायकमेवेत्युदस्वित्वानिति मतुप उदात्तत्वं न प्रवरतते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-269.
“*वा नामधेयस्येति " । पौरुषेयं नाम् गृह्यते ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-270.
“*कम्बलचारायणीया इति ।” कम्बलप्रियस्य चारायणस्य शिष्य इत्यर्थः ॥ “*ओदनपाणिनीया इति ।” पणिनोऽपत्यमित्यण् । “*गायिविदथी"ति प्रकृतिभावाद्वेलोपाभावः । पाध्निनस्यापत्यं युवेतीञ्, तस्य छात्रा इति विवक्षिते यूनि लुगितीओ लुक्, तेनेञ्स्चेत्यण् न भवतीति छो भवति ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-271.
“*पैङ्गलकान्वा इति । कण्वादिभ्यो गोत्र " इत्यण् । वृद्धसंज्ञायं तु छः स्यात् ॥ 73 ॥
“*त्यदादीनि च ॥ 74 ॥ त्वात्पुत्रा इति ।” आदिग्रहणानुवृत्यन्यथानुपपत्योपसर्जनानामपि त्यदादित्वं स्यातिति भावः ॥ अचामित्यस्य तूत्तर्र्थेवानुवृत्तिः स्यथ्, तत्संबन्धस्येहायोग्यत्वात् । निर्धारणस्य समानजाचीयविषयत्वात् ॥ “*त्वदीय इति ।” व्यपदेशिवद्भावोऽत्र नास्ति, “*अप्रातिपदिकेने"ति निषेधात् ॥
1.प्रथमाध्याये प्रथमपादे नवमाह्निक-273.
“*संबन्धमिति ।” द्वितीयान्तमेतत् । संबन्धमनुरोत्स्यते-न हास्यतीत्यर्थः । “*अथवा”-संबन्ध्यत इति संबन्धम्, कर्मणणि धञ् नपुंसकेऽपि बाधकाभावाद्भवति । वृद्धिग्रहणसंबद्धमादिग्रहणमिहानुवर्तत इति नास्ति तस्य त्यदादिभिह् संबन्धः ॥ “*तध्यथेति” । एतह्यर्शयति - स्वरितत्वप्रतिज्ञानादुत्तरसूत्र एव योग्यत्वात् ‘यस्याचामादिः’ इति संबन्ध्यते ‘एड् यस्याचामादिस्तद् वृद्धम् इति वाक्यर्थसंपादनाय । इह त्वयोग्यत्वात् संबन्धानुपपत्तिः, तुलजातीयस्य निर्धारणात् । त्यदादीनं चाज्रूपत्वाभावाध्यस्याचामादयस्त्यदादय इति संबन्धाभावात् ॥ 74 ॥
“*एङ् प्राचां ॥ 75 ॥ " कुणिना ‘प्राग्ग्रहणमाचार्यनिर्देशार्थं व्यवस्तीतविभाष च’ इति व्याख्यातम् । तेनं क्रोडो नामोदग्ग्रामः, तत्र भावः-क्रौड इत्यणेव भवति ॥ अन्येन तु प्राग्ग्रहणं देशविशेषणं व्याखातम् । तेन देवदत्तो नाम् वाहिकेषु ग्रामः तत्र भवो दैवदत्त इत्यवृद्धत्वात् ठञ्ञिठौ न भवतः ॥ भाष्यकारस्तु
कुणिदराननमशिस्रियत् । सेपुरं स्कोनगरं च वाहीकग्रमौ । तत्र वृद्धत्वा”*द्वाहीकग्रमेभ्यस्चे"ति ठञ्ञिठौ भवतः । “*शौषिके"ष्विति वचनादपत्यविकारयोर्वृद्धलक्षणप्रत्ययाभवः ।
क्रोडदेवदत्तयोस्चाप्राग्देशवाचिनोर्यवस्थविभाषया न भवतीति ।
प्राग्देशवाचिनस्तु देवदत्तस्य वृद्धसंज्ञाकत्वात् काश्यादित्वात् वृद्धलक्षणौ ठञ्ञिठौ भवतः ॥ 75 ॥
इत्युपाध्याय”*जैयट"पुत्र”*कैयट"कृते भाष्यप्रदीपे
प्रथमाध्ययस्य प्रथमे पादे नवममाह्निकम् ॥
.
ओं नमः पाणिनिकात्यायनपतञ्जलिभ्यः
श्रिमद्भगवत्पतञ्जलिमुनिविरचितस्य
महाभाष्यस्य
कैयटप्रणीतप्रदीपव्याख्यायां
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-1.
“*गाङ्कुटादिभ्यः” ॥ 1 ॥ चत्वारोत्र पक्षा उपक्षिप्ता भाष्ये-ङित्वकित्त्वसंबन्धप्रतिपादनम्, भावनम्, संज्ञाकरणमतिदेशश्चेति । तत्राद्यपक्षनिराकरणाय वार्तिकमुपन्यस्यति -”*ङित्किद्वचन इति ॥ सता हीति*” । विद्यमानेन वस्तुना संबन्धोर्थस्य शक्यते वक्तुम् ॥ न च गाङ्कुटादिभ्यः परस्य प्रत्ययस्य ङकार इत्संज्ञकोस्ति, येन तस्य ङिदिति व्यपदेशः स्यात् । सत्वे वा भूतानुवादे प्रयोजनाभावादप्रामाण्यमापतति । न च गाञ्कुटादिभ्यश्चङादेः क्ङितोऽनेन विधानमुपपद्यते, अञ्णिद्ग्रहणानर्थक्यप्रसङ्गात् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-2.
“*भाव्येते इति” । गाङ्कुटादिभ्यः परो योञ्णित्प्रत्ययः स ङिद्भवति ङ्कार इत्संज्ञाकस्तस्य भवतीत्यर्थः । स तु ङकार आदौ मध्ये अन्ते वेति देशविशेषं नापेक्षते इद्धर्माक्रान्तस्यैव विधानात् । इतां च धर्मोऽश्रूयमाणानामपि कार्यं प्रति विशेषकत्वम् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-3. “*भवतीति चेदिति” । टित्वकित्वमित्वानामभावात् ङ इदनन्तरोस्येत्यनन्तरार्थे बहुव्रीह्यभावाच्चा”*देः परस्ये"त्यादेः स्थाने ङकार आदेशः प्राप्नोतीत्यर्थः । ङ इत् ङिदिति तत्पुरुष एव न्याय्यः स्वपदार्थप्राधान्येन तस्यान्तरङ्गत्वाद्बहुव्रीह्यार्थानुपपादाच्च । कुटितेत्यादौ प्रसिद्धङित्वाश्चङादयो यद्यादेशाः क्रियन्ते तदा नैते तदर्थाभिधाने समर्थाः तृङादयश्च नेह शास्त्रे प्रसिद्धाः । अथास्मादेव वचनादपूर्वः क्रियेरन् तदा “*ङिच्चे"त्यन्त्यस्य स्युः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-4. “*कथं पुनरिति” । इत्संज्ञो ह्यसन्नैव कार्यमात्रं प्रतिपादयति, आदेशस्तु भावरूपोन्यस्य प्रसङ्गे भवति ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-5. “*किं हीति " । लोपस्य यथादेशत्वं तथा ङकारस्यापीत्संज्ञकस्य भविष्यतीत्यर्थः । तत्र स्थानिनं निवर्त्य ङकारो निवर्तेत ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-6. “*संज्ञाकरण इति " ।
अक्तपरिमाणा संज्ञा कृतेति
न्यूनातिरिक्तशब्दोच्चारणे संज्ञास्वरूपानुपलम्भात्संज्ञिनामसम्प्रत्ययः ङित्संज्ञाकरणं तु “*व्यचेः कुटादित्वमनसी"ति वचनात्सम्प्रसारणार्थं स्यात् । लिटः कित्संज्ञा च “*वचिस्वपी"ति सम्प्रसारणार्था स्यत् ॥
गाङ्कुटादिभ्यस्तर्हि ङित्संज्ञा किमर्था स्याद्, अनर्थिका भवतु, न्यायानुगतेर्थे किं कुर्मः । “*क्क्ङिति चे"त्यादिषु यौगिकस्यैव ग्रहणं स्याद्यस्य ककारो ङकारश्चेत्संज्ञकः ॥ “*अनयोरेवेति ।
कृत्रिमाकृत्रिमयोः कृत्रिमेकार्यसम्प्रत्यय*” इति न्यायात् । चङादीनां ङित्करणं क्ङित्प्रदेशेषु ग्रहणार्थं स्याद्, यत्र संज्ञारूपानुपलब्धिः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-7. “*एष ब्रह्मदत्त इति” । निर्ज्ञाते भेदे तत्कार्यप्राप्तये तद्रूपारोपणं क्रियत इत्यतिदेशगतिः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-8. “*अकिद्विधिप्रसङ्ग इति " । कार्यातिदेशे तत्प्रतिबद्धानि कार्याणि व्यपदेशमन्तरेणापि भवन्तीति गुणनिषेधादिनामेवातिदेशः । अमागमस्तु स्वाश्रयः केन निवार्यते । यथा ब्राह्मणवदतिदेशः क्षत्रियस्य स्वाश्रयं युद्धादि न निवर्तयति । अकितीति च पर्युदासाश्रयणात्कित्प्रतिबद्धकार्याभावात्स्वाश्रयोऽमागमः स्यात् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-9. “*सिद्धं त्विति “। प्रसज्यप्रतिषेधे अमागमनिषेध एव कित्कार्यम् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-10. “*सिद्धं तु पूर्वस्येति " । विशिष्टमत्र ङित्कार्यमतिदिश्यते न सर्वमित्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-11. “*सप्तम्यर्थेपि वतिरिति” । सप्तम्यर्थे वर्तमानादिवार्थे वतिरित्यर्थः ॥ ननु नेह वतिरुपात्तः तत्कथमयं परिहारः । अयं भावः-यथा न सर्वकार्यप्राप्त्यर्थ एवाब्रह्मदत्ते ब्रह्मदत्तत्वारोपः । अपि तु कस्यचिदेव कार्यस्य लाभार्थः । एवमिहापि व्याख्यानाद्विशिष्टङित्कार्यातिदेशार्थ एवाञ्णितः प्रत्यय्स्य तद्रूपासङ्गः । उपदेशग्रहणानुवृत्त्या चोपदेशे यो ङित्तस्मादात्मनेपदमिति सामर्थ्यात्पूर्वस्य कार्यातिदेशोऽयम् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-12. “*अथ किमर्थमिति” । कार्यार्थत्वादनुबन्धासङ्गस्यैकेनैवानुबन्धेन गुणनिषेधादेः सिद्धत्वादनुबन्धभेदोनर्थक इति प्रश्नः । एकस्य चानुबन्धस्य करणेऽतिदेशोपि भेदेन न कर्तव्यः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-13. “*आवस्थ इति ॥ रुदिविदिभ्यां ङिदि"त्यतो ङिदिति वर्तमाने “*उपसर्गे वसे*“रित्यथप्रत्ययः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-14. “*जाग्र इति " । किति गुण इष्यते, न ङिति । एवं च
विषयविभागः पृथगनुबन्धोपादानादेव लभ्यते ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-15. “*नुवितेति " । नू स्तुतौ “*धुवितेति*” धू विधूनने । कितीति सप्तमीनिर्देशात् इट्प्रतिषेधस्याप्यतिदेशः स्यादित्युपन्यासः । नत्विट्प्रतिषेधः पूर्वस्य कार्यम् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-16. “*कुटित्वेति । न क्त्वा सेडि” ति निषेधो विशेषानुपादानादौपदेशिकवदातिदेशिकस्यापि कित्वस्य स्यात् । अथ वा यदप्राप्त कार्यं तदतिदिश्यते इति क्त्वाप्रत्यये कित्वातिदेश एव न स्यात् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-17. “*नुवित्वेति " । ङित्वेनात्र कित्वं “*येननाप्राप्ति"न्यायेन बाध्यत इति भावः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-18. “*सत्यपीति " । विरोधाभावादतिदेशेन स्वाश्रयस्य कित्वस्यानिवर्तनाद् “*येन नाप्राप्त*” इति न्यायाभावाच्च । नहि कुटिता कुटितुमित्यादौ कित्वे प्राप्ते ङित्वारम्भः ॥ 1 ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-19. “*सार्वधातुक ॥ 4 ॥ लिङ्गादव्याप्तिरतिव्याप्तिर्वेति प्रदर्शनाय सार्वधातुकग्रहणस्याक्षेपप्रतिसमाधाने भाष्यकारेणोपन्यस्ते ।
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-20. “*आर्धधातुकीयानिति " । अर्धधातुषु भवा इति ठञन्तत्वादन्तोदात्तत्वाभावात् “*बह्वचोन्तोदात्ताठ्ठञि*“ति ठञभावे वृद्धाच्छो भवति ॥ तातङस्तु ङित्त्वं तिपः पित्त्वादप्राप्तमित्यज्ञापकं सार्वधातुकाङित्त्वस्य, ङ्वनिपो ङित्त्वमज्ञापकमस्य हि पित्त्वात् ङित्त्वाप्राप्तिः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-21. “*च्यवन्ते प्लवन्त इति " । गुणात्पूर्वं नित्यत्त्वादन्तरङ्गत्वाच्चैकादेशः । तत्र कृते परस्येहापित आश्रितत्वात्परस्य कार्यं प्रत्यादिवद्भावाद् गुणनिषेधः स्यात् साधारणपरिहाराभिधानाय “*वार्णादाङ्ग*“मिति नाश्रितम् । प्रसज्यप्रतिषेधे तु ङित्त्वनिषेधः । पूर्वस्य कार्यमिति पूर्वं प्रत्यन्तवत्त्वात् ङित्त्वाभावः । यद्यपि सार्वधातुकावयवस्याकारस्यैकादेशः तथापि परं प्रत्यादिवत्त्वादन्तशब्दः सार्वधातुकमपिद् भवतीति स्यादेव ङित्त्वम् । च्यवे इति चोत्तमैकवचने सर्वस्यैव सार्वधातुकस्यैकादेश इति ङित्त्वप्रसङ्गः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-22. “*तुदानीति” । यद्यप्युत्तमस्य पित्त्वं तथापि तद्भक्त्तत्वादाटः पिदवयवस्यैकादेशः पित उत्तमस्यादिवदिति स्यान्ङित्त्वनिषेधः । नुदै इत्यत्र च सर्वस्यैव पित एकादेशः पित आदिवदिति ङित्त्वप्रतिषेधप्रसङ्गः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-23. “*स्थानिवद्भावादिति” । यथा स्थानिकाले यथायोगं गुणप्रवृत्तिनिवृत्ती तथाऽऽदेशेपि कृतेऽव्यवधानबुद्ध्या भवतः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-24. “*असंयोगात्” ॥ 5 ॥ ऋदुपधेभ्य इति । बिभिदतुः बिभिदुरित्यादौ कित्त्वं नित्यं गुणस्त्वनित्यः ववृतइत्यादौ तु द्वयोरप्यनित्यत्वं तत्र परत्वाद् गुणप्रसङ्गः पूर्वविप्रतिषेधाश्रयेण निवार्यते ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-25. “*न वा क्सस्येति " । यथा क्सस्य कित्करणसामर्थ्याद् गुणो बाध्यते तथेहातिदेशसामर्थ्यादित्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-26. “*युक्तं तत्रेति " । क्सस्य कित्करणे प्रयोजनान्तराभावः । इह तु सम्प्रसारणविधौ कृतार्थत्वाद् दुर्बलेनातिदेशेन प्राप्यमाणो गुणनिषेधो दुर्बलत्वान्न तद्विधिना सह स्पर्धते तातङ्न्यायेन ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-27. “*इष्टवाचीति " । सूत्रकारेणैवायमर्थः संगृहीतः स तु स्मर्तव्य इत्यर्थः ॥ 5 ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-28. “*इन्धि ॥ 6 ॥ किमर्थमिति” । विनापि सूत्रेणेष्टं सिध्यति सत्यपि चेष्टं न सिध्यति । बभूवेत्यज्लक्षणत्वाद् वृद्धेरिग्लक्षणत्वाभावात्प्रतिषेधाप्रसङ्गात् । गुणमात्रनिषेध एव तु बभूविथ अहं बभुवेति च णित्त्वाभावपक्षे स्यादिति प्रश्नः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-29. “*इन्धेरिति “। भाषायां लिट आमा व्यवधानाच्छन्दस्य”*मन्त्र*” इत्याम्प्रतिषेधादेतदुक्तम् । न त्वस्य भाषायां प्रयोगाभावः । तत्र “*छन्दस्युभयथे*“ति लिटः सार्वधातुकत्वात्समीध इति ङित्त्वान्नलोपः । आर्धधातुकत्वाच्च श्रमभावः । “*व्यत्ययो बहुल*“मिति वचनाद्वा ॥ “*नित्यो वुगिति । ओः सुपी*“त्यत ओरिति नानुवर्तत इति भावः । एकदेशविकृतस्यानन्यत्वाच्च शब्दान्तरप्राप्त्यभावः । सत्यामपि वा शब्दान्तरप्राप्तौ कृताकृतप्रसङ्गित्वाद्वुको नित्यत्वं वुकि कृते गुणस्य प्राप्तिरेव नास्तीति नैतयोस्तुल्यबलत्वम् ॥ 6 ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-30. “*मृड ॥ 7 ॥ मृडादिभ्य एवेति " । विपरीतनियमस्तु व्याख्यानान्न भविष्यति मृडादिभ्यः क्त्वैव किद्भवतीति । नह्यनिष्टार्थ शास्त्रप्रवृत्तिर्लक्ष्यमूलकत्वाद्याकरणस्मृतेः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-31. “*लूत्वेति " ।
कत्वाप्रत्ययमात्रस्य नियमः स्यात् ।
कित्त्वं तु “*क्त्वातोसुन्कसुन*” इत्यादौ विशेषणार्थं स्यथ् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-32. “*एवमपीति क्लिशः क्त्वानिष्टयो"रिति विकल्पेनेड्विधानात् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-33. “*अस्तु तावदिति " । मृडमृदवदवसां क्त्वः कित्त्वविधानं नियमार्थं गुधकुषक्लिशीनां तु “*रलो व्व्युपधा*“दिति विकल्पे प्राप्ते नित्यार्थम् । तत्र विधिसम्भवे क्लिशेरनिटः क्त्वः कित्त्वविधानं नियमार्थं न भवति ॥ “*सन्नर्थमिति*” । तत्र चरितार्थत्वादनिटः क्त्वः कित्त्वविधानं नियमार्थं न भवति ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-34. “*इको ॥ 9 ॥ किमर्थमिति । इको झल् हलन्ताच्चे"त्येक एव योगः कर्तव्यः किमर्थो योगविभाग इति प्रश्नार्थः । वक्ष्यमाणश्चात्राभिप्रायः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-35. “*दीर्घत्वमिति । अज्झनगमां सनी"ति दीर्घत्वं नाप्राप्ते गुण आरभ्यमाणं तस्य बाधकमिति भावः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-36. “*कृते भवेदिति । शास्त्रमावर्तमानं धर्मसाधनं जपादिवदिति भावः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-37. “*अनर्थकं त्विति " । शास्त्रपूर्वकात्प्रयोगाद्धर्मे न तु शास्त्रप्रवृत्तिमात्रादिति भावः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-38. “*ह्रस्वार्थमिति " । ह्रस्वानामेव दीर्घविधानसामर्थ्याद् गुणो न स्यात् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-39. दीर्घाणां तु प्रागेव ताद्रूप्याद्रूपविशेषसंपत्तिफलत्वाच्छास्त्रस्य दीर्घशास्त्राप्रवर्तनाद् गुणप्रसङ्गः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-40. “*दीर्घाणामपी"ति । गुणापाकरणार्थं दीर्घेष्वपिदीर्घशास्त्रं प्रवर्तत एवेत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-41. “*नहि भुक्तवानिति” । तृप्तिफलं भोजनं फले सम्पन्ने पुनर्न प्रवर्तते ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-42.
“*ननु चेति " । तृप्तोपि पुनर्भुङ्क्त इत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-43. “*भाव्यमिति " । कर्तव्यं भोजनं तृप्तिविशेषार्थिभिरित्यर्थः ॥ “*न किं चिदिति " । नहि दीर्घाणां दीर्घतरः सम्पद्यत इत्यर्थः ॥ “*अग्निवदिति” । दग्धस्यायोग्यत्वाददाह इति भावः । इहाप्ययोग्यत्वाद्दीर्घेषु दीर्घशास्त्रेण न प्रवर्तितव्यमिति भावः " ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-44. “*दीर्घाणामपीति” ।
ह्रस्वेष्वपूर्वदीर्घरूपसंपादनार्थं दीर्घशास्त्रं प्रवर्तते दीर्घेषु तु रूपप्रतिबन्धिगुणनिवर्तनेन स्वरूपप्रत्यापत्तये । यथा-”*मोराजि समः
क्वा*“विति मकारस्य मकार इति भावः । ततश्च ह्रस्वानामिव दीर्घाणामपि “*येन नाप्राप्ति*“न्यायेन दीर्घेण गुणो बाध्यत एव ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-45. “*यथैवेति” । दीर्घारम्भादविकृतेनैव दीर्घेण स्थातव्यमिति भावः ।
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-46. “*ऋदित्त्वमिति” । यद्यन्तरेण दीर्घविधानं प्राप्नुयाद्ऋदित्त्वं तदा तद्दीर्घेण बाध्येत यतस्तु दीर्घाश्रयमेव ऋऊदित्त्वं तदा तदेव फलं दीर्घस्य संजातमिति ऋऊदित्त्वं प्रवर्तिष्यते । तथा चोच्यते -”*यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते यस्य तु विधेर्निमित्तमेव नासौ बाध्यते*” इति ।
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-47. “*दीर्घाणामिति” । इत्त्वोत्त्वाभ्यां गुणवृद्धीभवतो विप्रतिषेधेने"ति गुणप्रसङ्गादिति भावः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-48. “*ज्ञीप्सतीति” । असति कित्त्वे गुणवण्णिलोपस्यापि विशेषाभावाद्दीर्घत्वं बाधकं स्यादित्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-49. “*क्वास्ता इति” । यथान्यत्र क्षिप्तानां शरादीनामन्यत्र निपातोऽसंभाव्यः । एवं कित्त्वणिलोपयोरपि संबन्धो न संभाव्यत इत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-50. “*एषोभिसंबन्धः इति” ।
ज्ञीप्सतीति णेर्गुणलोपदीर्घत्वानि प्राप्नुवन्ति । तत्रासति कित्त्वेऽनवकाशत्वाद्विशेषाभावाच्च गुणवण्णिलोपस्यापि दीर्घत्वं बाधकं स्यात् ॥ अथ वा “*पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान्*“इति णिलोपस्यैव बाधकं तत्स्यात्, गुणस्तु स्यादेव । सति तु कित्त्वे तेनैव गुणो बाधित इति चिचीषतीत्यादौ लब्धावकाशं दीर्घत्वं परत्वाण्णिलोपेन बाध्यते ॥ नन्वसत्यपि कित्त्वे “*येन
नाप्राप्त*” इति न्यायेन गुणस्यैव बाधकं दीर्घत्वं भविष्यति न णिलोपस्य, गुणबाधनेन च सावकाशं दीर्घत्वं परत्वाण्णिलोपेन बाधिष्यत इति नार्थः कित्त्वेन ॥ नैतदस्ति । यदा बाध्यं भेदेनापेक्ष्यते इदम् सर्वत्र प्राप्तमिदं तु क्वचिदेवेति, तदायं न्यायः । यदा तु बाध्यमात्रमपेक्ष्यते विध्यन्तरेणाव्याप्तो विषयो न कश्चिदस्तीति तदा सर्वस्यैव बाधया भवितव्यम् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-51. “*असत्यपीति” ।
मीनातिमिनोत्योः सन्यनवकाशत्वाद्गुणं बाधित्वा दीर्घः प्रवर्तते । ततो मीग्रहणेन ग्रहणादिस्भावेन प्रतिपदविहितेन गुणो बाध्यते । कृते चेस्भावे `हलन्ताच्चे’ति कित्वाल्लघूपधगुणाभावः । तत्र सामान्यग्रहणे चरितार्थत्वाद्दीर्घविधानस्य ज्ञीप्सतीतिपरत्वाण्णिलोपो भविष्यतीति नार्थः कित्त्वेन ॥ ननु लाक्षणिकत्वान्मिनोतेर्मिरूपस्य मीग्रहणेन ग्रहणं न प्राप्नोति ॥ नैष दोषः । ?Bयत्र लक्षणाभिनिर्वृत्तत्वेन
शब्दरूपमपेक्ष्यते तत्र `लक्षणप्रतिपदोक्तयो’रिति परिभाषोपस्थानं न तु यत्र प्रयोगरूपाश्रयणं तत्र ॥ नन्वेवमसत्यपि मिग्रहणेन ग्रहणे `मिनाति’इत्यादिनाऽऽत्वे कृते `गामादाग्रहणेष्वविशेष’ इति माग्रहणेन ग्रहणादिसू भविष्यतीति सामान्यग्रहणमपि दीर्घस्य प्रयोजनं नोपपद्यते ॥
एवं तर्हि दोषान्तराभिधानेनास्य पूर्वपक्षस्य निराकरणाद्भाष्यकारेण नैतत्सुष्ठु निरूपितम् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-52. तदेव दोषान्तरमाह -”*यथैवेति*” । सामान्यग्रहणे उपयुक्तत्वाद्दीर्घत्वस्य नास्त्यनवकाशत्वमिति द्वाभ्यामपि गुणणिलोपाभ्यां दीर्घत्वं बाध्यत इति धातुरवकाशः चुकूषत इति । यस्मात्कूङ् शब्द इति पाठस्तत्र कुटादित्वान्ङित्वे सति गुणाभावाद्दीर्घस्य श्रवणं सिद्धम् । वेदलोकयोश्चाकूतशब्दस्य प्रयोगो दृश्यते । गुधुवाववकाशाविति चेद् उहनिगमामिति ब्रूयात् किं प्रत्याहारेण ॥ 9 ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-53. “*हलन्ताच्च ॥ 10 ॥ अयुक्त इति”। अन्तशब्दमवयववचनं मत्वापर्यनुयुङ्क्ते ॥ “*अन्यस्यान्य इति*” अत्यन्तभेदमनेन दर्शयति । अवयवावयविनोस्तु भेदविवक्षापि भवति-तन्तूनां पट इति । अभेदविवक्षापि-पटिभवन्ति तन्तव इति ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-54. “*इग्वतो हल इति “। हलन्तादित्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-55. “*तद्यः सामीप्य इति” । एवं च हल् चासावन्तश्चेति कर्मधारयः । निपातनाच्च विशेषणस्य परनिपातः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-56. “*एवमपीति” । व्यक्तिनिर्देश इति भावः । असति च कित्त्वे नलोपो न स्यात् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-57. “*दम्भेरिति” ।
‘वर्णग्रहणे जातिग्रहणम्’ इति `निपात एकाजनाङ्’इत्यत्रैकग्रहणेन ज्ञापितत्वात् । न चात्र व्यक्तिगतमेकत्वम्, अपि तु जातेः स्वगतम् ।
तत्र यदा तावह्यत्तिव्यतिरिक्ता जातिस्तस्याश्च व्यक्तिद्वारकाः समीप्यादयो धर्मास्तदा तस्या एकत्वादिक्समीपत्वं सनश्च परत्वं तदपेक्षमस्तीति सिद्धं धिप्सतीति कित्त्वम् । हकारादिषु चाभिन्नप्रत्ययाभिधानाद्धल्त्वजातेः सद्भावः । यदापि ‘त्यक्तभेदा व्यक्तय एव जातिः’ इति पक्षास्तदा भेदव्युदासादभेदाश्रयणादिष्टसिद्धिः ॥ 10 ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-58. “*लिङूसि ॥ 11 ॥ कथमिति " । आत्मनेपदेष्विति सकृच्छ्रुतस्य अर्थद्वयं न लभ्यते । तत्र यदि निर्धारणसप्तमी तदा तुल्यजातीयस्य निर्धारणाल्लिङेव विशेषितः स्याद्, लिङ्शब्देन लिङादेशग्रहणात् । अथ परसप्तमी तदा सिजेव विशेष्यते, न लिङ् । सीयुडादिसमुदायो लिङ्शब्देन गृह्यते इति तस्यात्मनेपदपरत्वाभावः । नचानयोर्भिन्नयोरर्थयोः सहविवक्षा संभवितीत्येकशेषस्याप्रयोगः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकं-59. “*सिच्च विशेषित इति " । आत्मनेपदपरत्वादुपचारात्सिजेवात्मनेपदमुच्यते गौणमुख्यार्थयोरात्मनेपदशब्दयोः सारूप्यमात्रपतिबद्ध एकशेष करिष्यत इति भावः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-60. “*आत्मनेपदे लिङीति " । अवयवगतं पौर्वापर्यं समुदाय आश्रयिष्यत इति भावः । अथ वा तन्त्रेण शब्दद्वयोच्चारणादर्थद्वयं लभ्यते ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-61. “*नैव वेति " । संभवव्यभिचाराभ्यं सिजेव विशेष्यते न लिङित्यर्थः ॥ 11 ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-62. “*स्थाद्वोरिच्च ॥ 17 ॥ इच्च कस्येति " । कथं पुनरत्र षष्ठी । यावता हेतुशब्दः श्लोके न प्रयुक्त इति हेतुतृतीयया भाव्यम् ॥ नैष दोषः । हेतुरूपताया अविवक्षणात् । संबन्धिरूपेण विवक्षितत्वाद् । यथा ‘मदीया पुत्राः’ इति शैषिकः प्रत्ययः तदुत्पत्तिकाले अपत्यरूपत्वस्याविवक्षणात् ॥ तकार इत् तकारेत् तस्य भावस्तकारेत्त्वं किमर्थं क्रियते ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-63. “*दीर्घो मा भूदिति” । आन्तरतम्यात्प्राप्नोतीति भावः । `भाव्यमानोण्सवर्णान्न गृह्णाती’त्येषु तु परिहारोऽनित्यत्वान्नोक्तः । क्वचिद्भाव्यमानेनापि सवर्णग्रहणात् । यथाऽमूभ्यामित्यादावूकारो दीर्घस्य भवति । परिहारान्तराभिधानाद्वा ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-64. “*अन्तरेणापीति” । इकारविधानेन विनापीत्यर्थः । कित्त्वं तु कर्तव्यमेव । तेन विना ईत्वस्य प्राप्त्यभावात् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-65. “*अनन्तर इति” । असदृश आदेशे क्रियमाण
इत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-66. “*प्लुतश्च विषय इति " । अनेन तपरत्वं प्रत्याख्यायते । यद्यनेन प्लुतो विधियेत तदा यत्रापि विषयेऽ`न्त्यस्यापि प्रश्नाख्यानयोरि’त्यादिना प्लुतो विहितस्तत्राप्यनेन विधीयेत अस्मिन्कर्तव्ये `पूर्वत्रासिद्धम्’इत्याष्टमिकस्य प्लुतस्यासिद्धत्वात्ततश्च पक्षेनुवाददोषः प्राप्नोतीति ह्रस्व एव भविष्यति ॥ अन्ये तु तपरत्वमनेन समर्थितमिति व्याचक्षते । अनन्तरेप्यादेशे श्रूयमाणे दीर्घ एव स्यात् ॥ननु सिद्ध एव दीर्घ इत्युक्तं सिद्धस्यापि पुनर्विधानं प्लुतनिवृत्यर्थं स्यात् । माभूत् प्लुत इति चेत् । तत्र । “*प्लुतश्च विषये स्मृत इति *” । स चासति तपरत्वे न प्राप्नोतीति दीर्घनिवृत्यर्थं तपरत्वं स्थितम् ॥ प्लुतविधौ तु `वाक्यस्य टेर्’इत्यधिकारात्कथमिकारस्य प्लुतः स्यादिति चिन्त्यमेतत् ॥ 17 ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-67. “*न क्त्वा ॥ 18 ॥ कृतेऽकित्त्वे इति " । अकारप्रश्लेषः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-68. “*निष्ठायामिति " । शीङादिभ्य एव परा निष्ठा न किदिति नियमः । विपरीतस्तु निष्ठैवेति व्याख्यानान्नभवति ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-69. “*परोक्षायामिति " । पूर्वाचार्यप्रसिद्ध्या परोक्षा लिडुच्यते ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-70. “*असत्वत्रेति " । प्राप्नोतु कित्त्वमित्यर्थः । न तु निवृत्तस्य निषेधः कर्तुं शक्यः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-71. “*उपास्थायिषतामिति " । स्थास् आतामिति स्थिते इत्वं च प्राप्नोति चिण्वद्भावश्च । तत्र परत्वाच्चिण्वद्भावे युक् च प्राप्नोति वृद्धिश्च । तत्र वृद्ध्यपवादो युगागमः । तत्र कृते यकारस्येत्त्वप्रसङ्गः । न च पुनर्वृद्धिर्लभ्यते । पूर्वमेव युका बाधितत्वादिति भावः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-72. “*असति कित्त्व इति” । झल्ग्रहणस्य ज्ञापकत्वं न तावत्स्थितमिति आतिदेशिकस्यापि कित्त्वस्य `न सेडि’ति निषेधो भवतीत्यभिप्रायः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-73. “*सुधीवनीति । अनो बहुव्रीहे"रिति प्रकृतस्यैव ङीपो निषेधो न तु रेफस्यापि, स तु `सन्नियोगशिष्टानामन्यतरापाये उभयोरप्यपाय’ इति न्यायान्निवर्त्तते । अयं न्यायो `बिल्वकादिभ्यश्छस्य लुग्’इत्यत्र छग्रहणेन ज्ञापितः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-74. “*अस्त्वत्रेति " । यकारस्य कृते इत्त्वे वृद्धिर्भविष्यति युगागमेन ह्याकारस्य वृद्धिर्बाध्यते, नत्विकारस्यापि ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-75. “*आजिवानितीति " । इदं नोपपद्यते । अत्र हि नलोपे कृते द्विर्वचने एकादेशे च `वस्त्वेकाजाद्वसाम्’इतीडागमः । तत्र हि कित्वप्रतिषेधान्नलोपनिवृत्तौ द्विहल्त्वान्नुटिसत्येकाच्त्वाभावादिण्निवृत्तौ नलोपादीनं चककप्राप्तिः । चककेषु चेष्टतो व्यवस्था ॥ भाष्यकारेण तु परिहारान्तरसद्भावादेष परिहारो नाश्रितः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-76. “*निगृहीतिरिति । तितुत्रेष्वग्रहादीनाम्-“इतीडागमः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-77. “*क्त्वा च विग्रहादिति " । विग्रहो विभागो योगस्य करिष्यत इत्यर्थः ॥ 18।
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-78. “*उदु ॥ 21 ॥ उदुपधाच्छप इति " । शपः सम्बन्धी शब्विकरणो यस्तस्मादित्यर्थः ॥ 21 ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-79. “*पूङः ॥ 22 ॥ पूङ इति " । सेडित्यन्यतरस्यामिति चानुवर्तनात्सेटोरेव क्त्वानिष्ठयोः कित्त्वविकल्पः स्यात् । ततश्च पुवित्वा पुवित इति पक्ष स्याथ् । अस्ति चेडागमः `पूङश्चे’ति विकल्पेनेड्विधानात् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-80. “*न वेति " । इड्विधौ “*पूङश्चे*“ति सूत्रं वार्तिककारः प्रत्याचष्टे । तत्रानिटोरेव क्त्वानिष्ठयोरनेन कित्त्वं विकल्प्यते । तत्र यदा कित्त्वं तदा `श्र्युकः क्किती’ति इट्प्रतिषेधात्पूत्वा पूत इति भवति । यदा त्विकित्त्वं तदेड्गुणयोः पवित्वा पवित इति भवति ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-81. “*भारद्वाजीय इति " । लाघवमनादृत्य सूत्रकारेण `पूङश्चे’तीड्विधौ पठितम् । इह तु विकल्पो नानुवर्तते उत्तरत्र वाग्रहणादिति सिद्ध्यतीष्टमिति भावः ॥ “*उत्तरार्थमिति । न क्त्वा सेडि*“ति कित्वप्रतिषेधस्य सिद्धत्वात् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-82. “*तृषि । 25 ॥ पूजार्थमिति । शास्त्रस्य पूजापारम्पर्यप्रतिपादनेनानादित्वात्प्रामाण्यप्रतिपादनात् ॥ 25 ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-83. “*रलो ॥ 26 ॥
किमिदमिति”। किमियमप्राप्ते विभाषा, आहोस्वित् प्राप्त इति प्रश्नः ।
तत्राप्राप्तविभाषायां सन एवाप्राप्तं कित्त्वं पक्षे विधीयत इति
क्त्वानुवृत्तिरनर्थिका । नहि तस्य कित्त्वं विधेयं स्वत एव भावात् । अथ प्राप्तविभाषा तदा क्त्वः कित्वमस्तीति तस्यैव पक्षे निषेधः कर्तव्य इति सन्ग्रहणं न कार्यं नहि तस्य कित्त्वमस्ति यत्पक्षे निषिध्यते ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-84. “*रल इति " । अप्राप्तविभाषेयमेकेनैव रूपेण व्यवस्थितेत्यर्थः । एकरूपत्वप्रदर्शनाय च विचारः कृतः । नह्युभयत्रविभाषा न सन्ति, प्रतिलक्ष्यं व्यापाराश्रयणे तासां सिद्धत्वात् ॥ 26 ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-85. “*ऊकालः ॥ 27 ॥ अयुक्तोयमिति” `तपरस्तत्कालस्ये’त्यत्र व्याख्यातत्वादिह न व्याख्यायते ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-86. “*ह्रस्वादिष्विति " । ऊ इत्येकस्यैव शब्दस्योच्चारणाद्भेदानवगमात् संज्ञिविशेषणस्यैकत्वे सति संज्ञिनोप्येकत्वात् । संज्ञानां च त्रित्वात्संख्यातानुदेशाप्रसङ्गः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-87. “*सिद्धं त्विति” । त्रयाणां कृतैकादेशानां निर्देशाद्विशेषणत्रयावच्छिन्नत्वात्संज्ञिनामपि त्रित्वाद्यथासंख्यं संबन्दः सिद्धा इत्यर्थः । अर्थतश्च साम्यं `यथासंख्य’सूत्रे आश्रीयते न शब्दत एव ॥ अथ वा शब्दतः साम्याश्रयणेपि संहितावशादैक्यमिव प्राप्तास्त्रयः शब्दा उच्छारिता इत्यदोषः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-88. “*कथं पुनरिति " । प्रत्यक्षेणैकस्यैव शब्दस्य श्रवणाद्भेदावगमे प्रमाणाभाव इति भावः ॥ “*तिसृणामिति " । अनुमानाद्भेदावसाय इति भावः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-89. “*अयंतावदिति । लौकिकव्यवहाराश्रयणेन प्लुतत्वं ह्रस्वत्वं च सिद्धमाश्रित्यैतदुच्यते ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-90. “*यत्तावदिति” । शास्त्रात्स्थितायां ह्रस्वादिव्यवस्थायां लोके ह्रस्वादिव्यवहारो नान्यथेति भावः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-91. “*यदयमिति " । अनन्तरतमादेशविधानार्थमेतत्स्यादिति चेत् ॥ तन्न । नहि `स्थानेन्तरतम’ इत्यस्याः परिभाषायाः प्रत्यक्षायाः बाधा युक्तेति विशिष्टानुपूर्वीप्रतिपत्तौलिङ्गत्वमेव प्लुतविधानस्य ॥ “*मात्रिकेणेति*” । लिङ्गद्वयेनान्तमध्याभ्यां मात्रिकस्यापकृष्टत्वादित्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-92. “*दीर्घप्लुतयोस्त्विति " ।
उकारोण्त्वाद्द्विमात्रत्रिमात्रयोः स्वरूपस्य च ग्राहक इति ह्रस्वसंज्ञा त्रयाणामपि प्राप्नोति । न च दीर्घप्लुतसंज्ञाभ्यां द्विमात्रत्रिमात्रयोर्ह्रस्वसंज्ञा बाध्यते । संज्ञानां समावेशाभ्युपगमात् `आकडारादेका संज्ञा’ इति वचनात् । द्विमात्रत्रिमात्रौ त्वनण्त्वाद्भिन्नकालानां न ग्राहकाविति न तत्र दोषः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-93. “*यावच्चेति " ।
एककार्यत्वादेतदुक्तम् । ऊ अजित्येव कालार्थे लभ्यते उकारादयो ह्यच्त्वं न व्यभिचरन्तीति नाच्त्वेन ते विशेष्यन्ते अपि तु नैरच् ।
तत्रोकारादिकालत्वादुकारादिसदृशोज् ग्रहीष्यत इति नार्थः कालग्रहणेन ।
तत्कियते श्रूयमाणेनैवोकारेण कालं विशेषयितुमिति सवर्णग्रहणं न भविष्यति ।
तत्रैतत्स्यात् ॥ उकारात्परः
कालशब्दो न श्रूयत इत्याह -”*प्रत्येकं चेति " ।
षण्मात्रस्याचोऽसंभवात्संज्ञात्रयकरणाच्चेति भावः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-94. “*अशब्दसंज्ञायामिति " । ह्रस्वसंज्ञा च शब्दसंज्ञेति तद्विधाने उकारः सवर्णान्न ग्रहीष्यति । उदात्तादयस्तु गुणा न भेदका इति तद्भिन्नस्यापि ह्रस्वसंज्ञा भविष्यति । उदात्तादिसंज्ञास्वज्ग्रहणं निवृत्तमिति दीर्घप्लुतानामपि ता भविष्यन्ति । हलां त्वयोग्यत्वात्तदभावः । `इको यणची’ति तु न शब्दसंज्ञाविधानम् अपि तु `आदिरन्त्येनेति’विहितसंज्ञानुवाद इति सवर्णग्रहणं भविष्यति ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-95.
"\*अथवा ह्रस्वसंज्ञेति" । त्रयाणां चेद् ह्रस्वसंज्ञा, तदा ह्रस्वप्रदेशेषु त्रयः संज्ञिन उपतिष्ठन्ते । तत्रान्तरतमादेशविधाने ह्रस्वसंज्ञा विधानमनर्थकमेव स्यात् । अथ वचनादान्तरतमो भवेत् । एवमपि ह्रस्वप्रदेसेष्वज्ग्रहणमेव कुर्यादित्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-96. “*इदं तर्हीति " । असत्यां ह्रस्वसंज्ञायां ह्रस्वादेश इति कर्तुं न युज्यते । ततश्च ह्रस्वविधिप्रदेशेषु बहुकृत्व एच इगिति वक्तव्यं तद्गुरु भवति ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-97. “*ग्रहणानीति " । ग्रह्यतेनेनार्थ इति ग्रहणं पदमुच्यते । ह्रस्वादेश इत्याङः प्रश्लेषनिर्देशात्पृथक्प्रयोगाभावादाङ्न गणितः ॥ ननु `मितां ह्रस्व’ इत्यत्र हेडवेष्टन इत्यस्य ह्रिडयतीत्यर्थमेचइगितिवक्तव्यम् । तथा “स्वित्यनव्ययस्ये*“त्यत्रापि परमनुंमन्य इत्यर्थमिति गौरवप्रसङ्गः । एवं तर्ह्येच इगिति पञ्चकृत्वोत्युच्चार्यमाणे प्रतिपत्तिलाघवं भवतीति लाघवोपलक्षणपरं भाष्यं द्रष्टव्यम् ॥ ह्रस्वदीर्घप्लुत इति सौत्रत्वान्निर्देशस्य लिङ्गव्यत्ययेन पुंस्त्वम् ॥ 27 ॥

2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-104. “*उच्चैः ॥ 29 ॥ षष्ठीनिर्दिष्टमिति " । उच्चैर्नीचैरित्येते अव्यये अधिकरणशक्तिप्रधाने । तत्राच इत्यनुवृत्तौ सत्यामयमर्थो भवति -उच्चैः स्थान उपलभ्यमान उदात्तसंज्ञः स चाचः स्थान इति ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-105. “*हल्स्वरप्राप्ताविति “। सत्यामच इत्यस्यानुवृत्तौ `समासस्ये’त्यन्तोदात्तत्वं राजपुरुष इत्यादावेव स्याद् न तु राज्दृषदित्यादौ षकाराकारस्य । असत्यां त्वनुवृत्तौ समासस्य योन्तो दकारस्तस्य स्वरप्राप्तावविद्यमानत्वादकारस्य स्वरः सिध्यति । एषा च परिभाषा `यतोऽनाव’ इत्यत्रानाव इति प्रतिषेधेन ज्ञापिता । अन्यथा नाव्यमित्यत्र नकारस्यायोग्यत्वादाकारस्य चानादित्वादुदात्तत्वं न भविष्यतीति किमनाव इति प्रतिषेधेन ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-106. “*अथ प्रथमानिर्दिष्टमिति " । ननु को विशेषः यावता यत्र स्वरो विधीयते तत्र व्यञ्जनस्याविद्यमानत्वादच एव भविष्यति । `अनुदात्तादेरञ्’इत्यादावनुवादेपि न दोषः । स्वत एव हलोनुदात्तत्वं भवतु, अजुपरागवशाद्वा, तदनुवादेन कार्यविधाने न कश्चिद्विशेषः । एवं तर्हि न्यायव्युत्पादनार्थ एवायं विचारः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-107. “*ननु चेति” । बाधकाभावाच्च भ्रान्त्यसिद्धिः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-108. “*नैते इति " । अन्यथाऽप्युपलम्भोपपत्तेरिति भावः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-109. “*अन्तरेणापि व्यञ्जनमिति " । आप्यायध्वमिति यथा । अत्र ह्याकार उदात्तः, तिङन्तस्य निघातः । ततश्चान्वयव्यतिरेकाभ्यामच एवैते गुणाः । यदि तु हलामप्येते गुणा अभविष्यन् तदा हलामचां च भिन्नस्वरताप्युपालप्स्यत यस्मात्त्वचामेव स्वरमनुविदधति, न हलः । तस्मान्न हलां स्वयं स्वरोस्तीति निश्चयः ॥ “*अन्वग्भवतीति " । अनुगच्छतीत्यर्थः । शिष्टसमाचाराच्चेदं निर्वचनमभिहितं, न त्वत्र वर्णसादृश्यं किंचिदस्ति । अथ वा गतिरपि व्यञ्जेरर्थः विविधं गच्छत्युपरागवशादिति व्यञ्जनमित्ययमर्थः पर्यायान्तरेण भाष्यकारेणाभिहितः । उपरागश्च पूर्वपराच्सन्निधानेपि परेणाचा हलो भवति न पूर्वेण ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-110. “*उच्चनीचस्येति " । श्रुतिप्रकर्षापकर्षलक्षणोच्चनीचत्वाश्रयः पर्यनुयोगः । नचानवस्थितवस्त्वाश्रयेण साधुत्वं व्यवतिष्टते ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-111. “*एतदपीति " । श्रोता हि वक्तृगतानायामादीन्धर्मान्कार्यादवस्यति, कार्यं च संकीर्णम् । तथाहि-महाप्राणो निचैरप्युच्चारयन्स्वरेण महान्तं देशं व्याप्नोति । अल्पप्राणस्तूच्चैरपि वदन्नल्पं देशं व्याप्नोति ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-112. “*सिद्धं त्विति " । प्रक्रम्यन्तेऽस्मिन्वर्णा इति प्रक्रमः स्थानमुच्यते । तेनायमर्थः एकस्मिंस्ताल्वादिके स्थाने ऊर्ध्वाधरभागयुक्ते ऊर्ध्वभागेनोच्चार्यमाण उदाद्दः, अधरभागनिष्पन्नोऽनुदात्तः । एवं चोच्चैरित्यनेनोर्ध्वभागो गृह्यते नीचैरित्यधरभागः । अभ्याससमधिगम्यश्चायं स्वरविशेषः षड्जादिवद्विज्ञेयः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-113. “*समा ॥ 31 ॥ कस्येति " । समाहरणं समाहार इति भावसाधनं मत्वा कस्येति प्रश्नः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-114. “*अचोरिति " । तयोः समाहार उपश्लेषरूपः । अन्यत्र त्वौत्तराधर्यरूपोपि संभवति ।
गाङ्गेऽनूपइति स्थानिनोरेकाराकारयोरुदात्तानुदात्तयोः
समाहारात् स्थानिधर्मेणादेशस्यापि तथा व्यपदेशः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-115. “*समाहारोचोश्चेदिति " । कार्यं क्व कन्या इत्यादौ स्थानिद्वारकोपि समाहारव्यपदेशो नास्ति । यत्राप्यस्ति गाङ्गेनूप इति -तत्राप्यसौ गौणः । गाङ्गशब्दोऽणन्तत्वादन्तोदात्तः । सप्तम्येकवचनेन सुप्त्वादनुदात्तेन सहैकादेश उदात्तः । अनूपशब्दः `अनोरप्रधानकनीयसी’ इत्यन्तोदात्तत्वादनुदात्तादिः, तत एकादेशः `स्वरितो वाऽनुदात्ते पदादा’विति स्वरितः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-116. “*एवं तर्हीति " । गुणयोर्नैरन्तर्येणोपलम्भादस्ति समाहारः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-117. “*अच्प्रकरणादिति " । प्रकरणं प्रस्तावो न तु स्वरितत्वादनुवृत्तिः । तस्याः पूर्वं प्रत्याख्यानात् । तदयमर्थः । पूर्वसूत्रयोः सामर्थ्याक्षिप्तोऽजेव संज्ञी उदात्तानुदात्तशब्दयोरिति ताविहानुवृत्तावचं प्रत्याययतो न तु गुणम् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-118. “*सिद्धं त्विति " । गुणिनोरचोः समाहारसम्भवात्सामर्थ्याद् गुणयोः समाहाराश्रयणमित्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-119. “*कथं पुनरिति”। स्वरित इत्यनया संज्ञया योग्यत्वादच्संज्ञित्वेनाक्षिप्तः । न चाच्समाहारो भवति ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-120. “*मतुब्लोप इति " । गुणगुणिनोरभेदोपचाराद्गम्यमानार्थस्य मतुपोऽप्रयोग इत्यर्थः ॥ “*अकार इति* । अर्श आदेराकृतिगणत्वात् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-121. “*त्रैस्वर्यमिति " । उदात्तानुदात्तगुणव्यतिरेकेण स्वरितत्वस्याभावात्त्रैस्वर्यव्यवहारो न स्यात् । अस्ति चायं व्यवहारः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-122. “*अजपेक्षमिति” । स्वरशब्देनाच उच्यन्ते । त्रय एव स्वरास्त्रैस्वर्यमिति स्वार्थे ष्यञ् ॥ 31 ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-123. “*तस्यादित उदात्त” ॥ 32 ॥ अक्त्तपरिमाणस्य ह्रस्वसंज्ञा कृता `नाव्यपवृक्त्स्ये’ति न्यायाद्दीर्घप्लुतावयवो ह्रस्वग्रहणेन न गृह्यत इत्यालोच्याह -”*अर्थह्रस्वमिति ॥ कन्येति” । `कन्याराजन्यमनुष्याणामन्त’ इति स्वरितः ॥ “*शक्तिके 3 शक्तिके इति “। `स्वरितमाम्रेडितेसूये’ति स्वरितः प्लुतः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-124. “*मात्रच इति " । अर्धह्रस्वशब्दः प्रामाणवाचिरूढिशब्दः । व्युत्पत्यर्थः तु ह्रस्वस्योपादानम् । अर्धमात्रात्वेनाभिधीयते । ततः प्रमेये मात्रचं विधाय तस्य `प्रमाणे ल’ इति लोपः क्रियते । तत्र यथा ह्रस्वे बुद्ध्यार्धमात्रा विभज्यते एवं दीर्घप्लुतयोरपीति ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-125. “*किमर्थमिति " । नैवंभूतमिहान्वाख्यानं दृश्यते सन्ध्यक्षरादिविषयस्यापि विभागस्यान्वाख्यानप्रसङ्गादिति प्रश्नः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-126. “*आमिश्रीभूतमिवेति " । तत्वतोस्त्येव विभाग इति इवशब्द उपात्तः ॥ “*क्षीरोदके इति*” । नियतव्यक्तिविवक्षायां जातिपरत्वाभावादेकवद्भावो न कृतः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-127. “*उत्तरा विद्येति " । पुरा कल्पे पूर्वां, अद्यत्वे तूत्तरेति पस्पशायामाख्यातम् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-128. “*संज्ञाकरणमिति” । प्रदेशेषु चैकदेशप्रत्यायनात्समुदाय आक्षेप्स्यते इति भावः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-129. “*उभयमिति “। सत्यप्यक्षरगौरवे महतोर्थस्य व्याप्तिर्भवति सुखेन विभागस्यापि परिज्ञानात् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-130. “*उदात्तादेरिति " । उदात्तादेः प्रतिपादकं यच्छास्त्रम् `आद्युदात्तश्चे’ति तत् स्वरितादेरपि प्रतिपादकं प्राप्नोति ततश्च प्रत्ययः कदाचित् स्वरितादिरपि स्यादित्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-131. “*अन्वाख्यानमेवेति " । न केवलमिदं सूत्रम् । याव`दुच्चैरुदात्त’ इत्यादिसंज्ञाकरणमपि मन्दबुद्धिप्रतिपादनार्थं । सिद्धो हि वेदाध्यायिनां शिक्षायामेवोदात्तादिव्यवहारः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-132. “*स्वरितस्येति ।
`आ
अर्धह्रस्वोदात्ता’दित्याकारप्रश्लेषः । इयं नवसूत्री `उदात्तादनुदात्तस्य स्वरित’ इत्येतस्मात्परा कर्तव्या । तेन `स्वरितात् संहितायामनुदात्ताना’मित्येकश्रुतौ विधीयमानायामुदात्तादिति स्वरितस्य सिद्धत्वं भवति । तेन मेशब्दात् स्वरितात्परेषां गङ्गेप्रभृतीनामामन्त्रितत्वादनुदात्तानामेकश्रुतिर्भवति ॥ “*क्व तर्हीति*” आश्रयात्सिद्धत्वं स्वरितस्य भविष्यतीत्यभिप्रायः ॥
“*कार्यमिति*” । अत्र `तित्स्वरित’मिति
स्वरितत्वम्, तच्च सिद्धमित्यत्रैव स्यात् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-133. “*स्वरितोदात्तार्थमिति " । स्वरितस्य य उदात्तो विधीयते स आष्टमिकस्यासिद्धत्वान्न प्राप्नोति ॥ “*सुब्रह्मण्योमिति*” । सुब्रह्मणि साधुरिति यत्प्रत्ययस्तित्वात्स्वरितः । ततष्टावेकादेशः स्वरितानुदात्तयोरान्तरतम्यात्स्वरितः । तत `ओमाङोश्चे’त्युदात्तस्वरितयोरेकादेशः स्वरित एव तस्य सिद्धत्वादुद्दात्तत्वम् ॥ सुब्रह्मण्यायामिति च स्वरूपमेव गृह्येत न तु निगदो लक्ष्येत ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-134. “*स्वरितोदात्ताच्चेति " । आगच्छेत्यत्र गशब्दाकारस्य स्वरितस्योदात्तत्वे कृते `उदात्तानुदात्तस्य स्वरित’ इति छशब्दाकारस्य स्वरितत्वं प्राप्नोति ।
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-135. “*न्यङ्ङिति” । `न्यधी चेति’ पूर्वपदप्रकृतिस्वरस्तत “*उदात्तस्वरितयोर्यण*” इत्यकारः स्वरितस्तस्यासिद्धत्वात् पूर्वस्य सन्नतरो न स्यात् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-136. “*देवब्राह्मणोरिति " । लिङ्गात्पाठकमबाधेन क्रमान्तरमाश्रीयतेऽन्यथा स्वरितस्यासिद्धत्वादनुदात्तस्यानुदात्तविधानमनर्थकं स्यात् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-137. “*यद्येतदिति " । स्वरितस्यैव सिद्धत्वमनेन लिङ्गेन ज्ञाप्यत इत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-138. “*न ब्रूम इति” । सन्निवेशान्तरज्ञापनार्थं लिङ्गं व्याख्यायत इत्यर्थः ॥ 32 ॥

2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-146. “*न सु ॥ 37 ॥ ओकार इति” । नेदमपूर्वविधानं सूत्रव्यापार एव तु प्रदर्श्यते । यथा चोदात्त ओकारस्तथा `तस्यादित’ इत्यत्रोक्तम् । `ओमभ्यादान’ इति तु प्लुतोदात्तत्वं न भवति । तस्यायज्ञकर्मविषयत्वादित्याहुः । इन्द्र आगच्छेतीन्द्रशब्द आमन्त्रितत्वादाद्युदात्तः तस्य द्वितीयो वर्णो वर्ज्यमानस्वरेणानुदात्तः । `स उदात्तादनुदात्तस्य स्वरित’ इति स्वरितस्तस्यानेनोदात्तत्वम् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-147. “*आकार आख्यात इति " । तिङन्ते गच्छशब्दे परत आकार उपसर्गत्वादुदात्तः ॥ “*परादिश्चेति " । आकारात्परस्य गच्छेत्यस्यादिरुदात्तः । `तिङङ्तिङ’ इति निघाते पूर्ववत्स्वरिते च कृतेऽनेनोदात्तविधानात् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-148. “*वाक्यादौ चेति” । अनन्तरोक्तप्रक्रिययेति भावः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-149. “*मघवन्वर्जमिति” । मघवन्नित्य`स्यामन्त्रितस्येति’ निघातविधानात् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-150. “*सुत्यापराणामिति " । सुत्याशब्दः परोयेभ्यस्तेषामित्यर्थः ॥ “*द्यह इति " । टजन्तत्वादन्तोदात्तत्वम् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-151. “*असावित्यन्त इति “। इदं वाचनिकम् ॥ असाविति प्रथमान्तोपलक्षणम् ॥ “*गार्ग्य इति " । ञित्वादाद्युदात्तत्वे प्राप्ते अन्तोदात्तत्वविधिः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-152. “*अमुष्येति” । षष्ठ्यन्तोपलक्षणमेतत् ॥ “*दाक्षेरिति*” । पूर्ववदाद्युदात्तत्वं प्राप्तम् ॥ 36 ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-153. “*देव ॥ 38 ॥ अनुदात्तत्वमेक इति” । ये `देवा ब्रह्माणः’ इति पदयोर्वैयधिकरण्यमाहुस्तदा हि पूर्वस्यामन्त्रितस्याविद्यमानत्वाद् द्वयोरपि पदयोराम्न्त्रिताद्युदात्तत्वे शेषनिघाते च स्वरितत्वे च कृतेऽनेनानुदात्तः क्रियते । यदा तु देवाः ब्रह्माण इत्यनयोः सामानाधिकरण्यं तदा `विभाषितं विशेषवचने बहुवचन’मिति पक्षे विद्यमानत्वादा`मन्त्रितस्ये’ति निघातस्य सिद्धत्वान्नानेनार्थ इत्यन्येषां मतमिति मतभेदप्रदर्शनार्थमेक इत्युक्तम् ॥ 38 ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-154. “*स्वरि ॥ 39 ॥ ह्येकयोरिति । पशुनायजेते"तिवत्संख्याया विवक्षितत्वात् ॥ “*आग्रिवेश्य इति*” यञ्न्तत्वादादिरूदात्तः । शेषनिधातः, ततो द्वितीयो वर्ण “*उदात्ता*“दिति स्वरितः, तस्मास्परौ द्वावनुदात्तौ ॥ “*पचतीति*” । धातुरुदात्तः शप्तिपावनुदात्तौ । ततः शबकारः स्वरितः, ततः पर एकोनुदात्तः ॥ “*ह्येकयो*“रित्यत्र द्विशब्देन द्वितमुच्यते, एकशब्देन चैकत्वम् । तेन द्वित्वे एकत्वे च स्तीत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-155. “*नात्रेति” । तन्त्रशब्दोऽत्र प्रधानवाची यथा ग्रहं संमार्ष्टिति संख्या न विवक्ष्यते तथेहापीत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-156. “*तत्कारीति " । असत्यां बहुत्वसंख्यायां बहुवचनमेव न स्यादिति तद्विवक्षाणीयम् । नात्र निर्देशस्तन्तरमिति वचनात्तदेवाविवक्षितमिति विरोध इत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-157. “*नान्तरीयकत्वादिति” । शब्दसंस्कारार्थमेवात्र बहुत्वं विवक्ष्यते न तु कार्यसिद्ध्यर्थमित्यर्थः ॥ “*तुषपलालानीति*” । तुषसहितानि पलालानीति तत्पुरुषः । द्वन्दे तु जातिवाचित्वादेकवद्भावप्रसङ्गः । एवं “*शकलकण्टकानीति*” ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-158. “*व्यवहितानामिति ।
स्वरिता"दिति पञ्चमीनिर्देशादनन्तरस्यैव कार्येण भाव्यमिति -इमं मे गङ्गे इत्यत्र
मेशब्दात्स्वरितात्परस्यैकस्यैवानन्तरस्य स्याद्, न द्वितीयादीनां व्यवधानादित्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-159. “*एकशेषनिर्देशोयमिति” । योगारम्भपक्षे वर्गत्रयोपादानेनैकशेषः क्रियते । अनुदात्तयोरनुदात्तानामिति च कृते एक्शेषे पुनरेकशेषः कर्तव्यः ॥ आकृतिपक्षश्रयेण तु प्रत्याख्याते सूत्रे “*जात्याख्याया*“मिति बहुवचनं कृतम्, ततश्चैकद्विबहुषु स्वरितात्परस्या जातेरानन्तर्येणोपलम्भात्सर्वेषामैकश्रूत्यस्य सिद्धत्वाद्रोषाभावः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-160. “*एवमपीति” । सहविवक्षायामेकशेषविधानात्समुदितानां कार्यप्रसङ्गः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-161. “*प्रभृतिग्रहणेन चैकशेषवाक्येऽनुदात्तानामित्यनेनैव चतुरादयोप्यनुदात्ता गृह्यन्ते इति दर्शयति -”*प्रत्येकमिति” । निर्देश एव सहविवक्षा । कार्यप्रवृत्तिस्तु प्रत्येकं यथा देवदत्तयज्ञदत्तविष्णुमित्रा भोज्यन्तामित्युक्ते देवदत्तादयः पृथगोव भुञ्जते ॥ 39 ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-162. “*अपृक्त ॥ 41 ॥ स्वादिलोप इति । बिभेदेति णलोपृक्तग्रहणेनैव निवृत्तिः सिध्यतीत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-163. “*अणिञोरिति " । पदद्वयोच्चारणमेव गौरवमिति भवः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-164. “*णवचनेति " । लुगपवातो णो विज्षास्यते । अन्यथाऽण एव लुकि सिद्धे णविधानमनर्थकं स्यादित्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-165. “*फ्ङ्निवृत्यर्थमिति । यञिञोश्चे"ति प्राप्तस्य फको बाधनार्थं णवचनं स्यात् तस्य च लुकस्यादेवेत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-166. “*कस्मान्न भवतीति " । प्रत्ययस्य विशेषाणमल्ग्रहणमिति तदन्तविधिसद्भाव इति मत्वा प्रश्नः ॥ इदं तु नाश्रित”*मनुनासिकपरत्वा*“दिति ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-167. “*अल्ग्रहणसामर्थ्यादिति " । यद्यलन्तस्य स्यात्केवलस्य चाद्यन्तव्द्भावात्तदाल्ग्रहणेन न किं चिद्व्यावर्तितं स्यात् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-168. “*दर्विरिति” ॥ ननु हलन्तत्वाभावादत्र प्राप्तिरेव
नास्ति ॥ नैष दौषः । अथं साम्प्रतिको विशब्द इति क्विबादिषु भुतपूर्वगतिर्न लभ्यते तत्रापृक्तसंज्ञायं ह्ल्ग्रहणेन हल्वान् गृह्येत ।
यथा “*गुरोश्च हल*” इत्यत्र गुरुमान् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-169. “*हलेवेति " । हलः प्राधान्यात्प्रत्ययस्य च विशेषणत्वादित्यर्थः । क्विबादयोऽपि हल्त्वन्तोऽपि हल्वन्तो दर्विरित्यादौ विप्रत्ययोपीति किमनेन व्यवच्छिन्नं स्यादित्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-170. “*हलन्तस्य यथा स्यादिति " । ततश्चासत्येकग्रहणे इन्यादित्यादौ तिलोपः स्यादिति कर्तव्यं हल्ग्रहणे क्रियमाणे एकग्रहणम् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-171. “*अल्ग्रहणे तु क्रियमाणे न कर्तव्यं कृतं तु ज्ञापनार्थं तद्रुर्हितं भाष्ये ॥ यदाप्ययमर्थे “*निपात एकाजनाङि*” त्यत्रैकग्रहणेन ज्ञापितस्तथापि मन्दबुद्धीनामनुग्रहाय पुनरिह ज्ञापितः । अपृक्तप्रदेशेषु हल्ग्रहणेनैव सिद्धे संज्ञाविधानं विस्पष्टार्थम् ॥ “*वृद्धिरादै*“जित्यत्रास्य परिभाषात्वं व्यवस्थापितमिह कथं संज्ञात्वेन व्यवहारः । पारार्थ्यसामान्यात्परिभाषा संज्ञात्वेन व्यवह्रियते इत्यदोषः ॥ 41 ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-172. “*तत्पुरुषः ॥ 42 ॥ समासैकार्थत्वादिति” । भिन्नप्रवृत्तिनिमित्तप्रयुक्तस्थानेकस्य शब्दस्यैकस्मिन्नर्थे वृत्तिः “*समानाधिकरण्य*“मुच्यते । नीलोत्पलादिश्च तत्पुरुष एक एवेति सामानाधिकरण्यमनुपपन्नम् । वर्तिपदानां तु सामानाधिकरण्यम्युपपद्यते, तत्पुरुषत्वं तु तेषां नास्ति ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-173. “*एकपद्यमिति” । पदशब्देनार्थ उच्यते । एकार्थ्यमित्यार्थः । अथ वा समासाद्विभक्त्युत्पत्तौ सत्यामैकपद्यमुच्यते ॥ “*एकविभक्तित्वमिति*” । एककारकत्वमित्यर्थः ॥ तद्य इति ॥ ननु मुख्यस्य तत्पुरुषस्य पदान्तरेण सामानाधिकरण्यं संभवत्येव राजपुरुषः शोभन इत्यादौ, तत्कथं गौणस्य ग्रहणम् ॥ नैष दोषः । तत्पुरुषस्य पदान्तरेण सामानाधिकरण्यं बहिरङ्गम्, अन्तरङ्गं तु वर्तिपदानामिति तदेवाश्रीयते । ततश्च सामर्थ्यात्तत्पुरुषशब्दो गौणार्थवृत्तिः परिगृह्यते । तेन समासाव्यवानामेव पदानं कर्मधारयसंज्ञा विधीयते, समुदाये च वाक्यपरिसमाप्त्या पदसमुदायस्यैकैव कर्मधारयसंज्ञा, न तु प्रत्येकम् ॥ तत्पुरुषसंज्ञाप्रकरणे इयं संज्ञा न कृता, एकसंज्ञाधिकारात् तत्पुरुषासंज्ञाया बाधो मा भूदिति ॥ 42 ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-174. “*प्रथमा ॥ 43 ॥
अनिर्देशात्प्रथमाया इति " । समासे किं प्रथमानिर्दिष्टं भवितुमर्हति ? यस्मात्समासे प्रथमा विधीयते । न च तथाभूतस्य सम्भवः । समासे कृते तत एव प्रथामोत्पद्यते न तु तदवयवात् । अन्तर्वर्तिन्या च विभक्त्या प्रथमानिर्दिष्टत्वे आश्रियमाणे कष्टश्रित इत्यत्र श्रितशब्दस्यैवोपसर्जनसंज्ञा स्यान्न कष्टशब्दस्य, निर्दिष्टग्रहणं
चानर्थकं स्यात् । समासे प्रथमान्तमुपसर्जनमिति वक्तुव्यं स्यात् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-175. “*न वेति " । मुख्यार्थसम्भवाद्ग्नौणोर्थे गृह्यत इत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-176. “*यस्य विधाविति” । निर्देशापकेक्षया समासस्याधारस्वात्प्रथमानिर्दिष्टस्य सर्वत्रोपसर्जानसंज्ञा प्राप्नोतीति भवः ॥ “*रजकुमारीमिति*” सत्युपसर्जनत्वे ह्रस्वः स्यात् पूर्वनिपाताव्यवस्था च ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-177. “*सिद्धं त्विति । यस्य” श्रितादेः समास-”*विधौ तं*” श्रितादिकं प्रतीत्यर्थः ॥2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-178. “*महती संज्ञेति” । लोके चाप्रधानमुपसर्जनमुच्यते, इहापि तथैवाश्रीयत इत्यर्थः ॥ यद्येवं पूर्वकायोर्द्धपित्पली पुरुषव्याद्र इत्यादिषु उपसर्जनसंज्ञा प्रधानस्य न प्राप्नोति ॥ नैष दोषः । अन्वर्थसंज्ञा हि यत्र सोर्थः सम्भवति तत्र प्रवृत्तिनिमित्तापेक्षाः प्रवर्तन्ते अन्यत्र तु विधानसामर्थ्यान्निरपेक्षाः, यथा कर्मप्रचनीयस्Mज्ञा स्वत्यादीनामिति प्रथमानिर्देशसामर्थ्यादद्वर्दीनां संज्ञा प्रवर्तते ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-179. “*अथ यत्रेति " । परिहारान्तरसद्भावादेतदुच्यते । अन्वर्थाश्रयणेन ह्येतदपि सिध्यति ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-180. “*षष्टयन्तयोश्चेति “। पूर्वनिपातप्रकरण इदमुक्तम् । तत्र हि पूर्वनिपातः प्रत्याख्यायते -”*न वाऽनिष्टादर्शनात्*” इति । अथाप्यारभ्यते तथापि राजशब्दस्यैव पूर्वनिपातो न पुरुषशब्दस्य । एवं हि वाक्यापेक्ष्या समासस्यैकार्थता भवति अन्यथा वाक्यसमासयोर्भिन्नार्थता स्यादित्यर्थः । तथा हि । पुरुषार्थे राजापेक्ष्या प्रधानमेवान्नेति नासौ भिद्यते राजापेक्षया न व्यतिरिच्यते इत्यर्थः । ततोऽप्रधानस्यैवात्रराज्ञः पूर्वनिपातः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-181. “*शब्दशब्दार्थाविति” । नन्वेतत्तत्र प्रत्याख्यातं परमयुवतिरित्यादौ द्वौ तिशब्दौ स्यातामिति । एवं तर्हि अन्वर्थाश्रयेणास्य परिहारस्योक्तत्वादत्र सूक्र्मैक्षिका न कृता ॥ 43 ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-182. “*एक ॥ 44 ॥ समास इति” वर्तते । मुख्य एव चेह समासो गृह्यते समासे विधातव्ये य”*देकविभक्ती*“ति, समासआर्थं वा वाक्यं समासो गृह्यते सर्वस्य च शब्दस्यैकविभक्तित्वमिति विशेषणोपादानसामर्थ्यद्यस्य पर्यायेणापि न सर्वविभक्तित्वं तदुपसर्जनसंज्ञं यथा निष्कौशाम्बिरित्यत्र कौशाम्बीशब्दो निष्कमणक्रियापेक्ष्यापादानशक्तिसम्बन्धात्
पञ्चम्यन्त एव । न्ह्यस्य क्रियान्तरापेक्षः शक्त्यन्तराविर्भावः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-183. “*स्वितीयादीनामिति” । कष्टश्रितादिषु कष्टादयः श्रितादिविशेषणत्वादेकविभक्तिका इत्यनेनोपसर्जनसंज्ञातेषां प्राप्नोति । ततश्चापूर्वनिपात इति प्रतिषेधः प्राप्नोति । पूर्वसूत्रस्य तु नीलोत्पलादिः समानाधिकरणसमासोऽवकाशः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-184. “*ननु चेयमिति” । प्रतिषेधयुक्तत्वायुत्तत्वेन विरोधात्परत्वादिति भवः ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-185. “*नोत्सहन इति” । अपवादविषयं प्रकल्प्योत्सर्गस्य प्रवर्तनात् ॥
2.प्रथमाध्याये द्वितीयपादे प्रथमाह्निकम्-186. “*पञ्चगुरिति । *द्विगुप्रप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वक्तव्यः*” इति वचनात्परवल्लिङ्गं न भवति ॥ “*अलंकुमारिरिति । *पर्यादयोग्ला नाद्यर्थे चतुथ्र्येति समासः ॥ 44 ॥
द्वितीये पादे प्रथमाह्निकम् ॥
इत्युपाध्यायजैयटात्मजकैयटकृते महाभाष्यप्रदीपे प्रथमस्य
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-1. “*अर्थवदधातुरप्रत्ययः प्रातिपदिकम्” ॥ 45 ॥ अभिधेयवचनोत्रार्थशब्द आश्रीयते । तरा”*धातुरप्रत्यय*” इति पर्युदासाश्रयणादर्थवत एव संज्ञा भविष्यति तार्थोर्थवद्ग्रहणेनेत्याशङ्क्याह-”*अर्थवदिति व्यपदेशायेति*” । संज्ञिन इति वाक्यशेषः । पर्युदासाश्रयणे केन धर्मेण साद्रुश्यमाश्रीयत इत्यप्रतिपत्तिः समादिति भवः ॥ “*वर्णानं मा भूदिति*” ॥ विशिष्टसंज्ञिव्यपदेशफलं दर्शयति ॥ क्वचि”*द्वर्णनां चे*“ति पाठः । तत्र चशब्देन पदसमुदायोनर्थको “*दशा दाडिमानी*“त्यादिः समुच्चीयते ॥ “*किं च स्यादिति” । संख्याकर्मादिषु स्वादिनां विधानादर्थकेभ्यः स्वाद्युत्पत्तिर्न भविष्यतीति प्रश्नः ॥ “*वनमिति*” ॥ नन्व”*धातु*“रिति नान्तस्य प्रतिषेधो भविष्यति ॥ नैतदस्ति । प्रतिवर्णमत्र विभक्त्युत्पत्तिप्रसङ्गः । न च प्रतिवर्णंधातुसंज्ञासमावेशः । अयं भावः-अविशेषेण स्वादय उत्पद्यन्ते तेषूत्पन्नेष्वर्थनियमः प्रकृतार्थापेक्षया वा प्रत्ययनियम इति स्यादेव स्वाद्युत्पत्तिः । अव्ययादिव ॥ यदुत्तम्-”*संधातस्यैकार्थ्यात्सुबभावो वर्णात्*” इति, तद्वर्णानामर्थवत्तापक्षे । तत्र हि तन्त्रैणैकैव विभक्तिः समुदायावायवार्थगतमेकत्वं प्रत्याययिष्यति । एकमेव हि तदेकत्वम् । तच्चैकेनैव हि सुपा प्रत्यायितमित्यव्यवेभ्यो विभकित्र्न स्यात् ॥ अन्र्थकस्य तु प्रातिपदिकसंज्ञायं प्रकाशयितव्यस्यार्थस्याभावात्समुदायादिव प्रतिवर्णं विभक्त्युत्पत्तिप्रसङ्गः ॥ “*नलोप इति” । विभक्तेस्तु श्रवणं न भवति, समुदायस्य पृथक् प्रातिपदिकसंज्ञायं तदन्तर्भावाद् लोको भावाद् । नलोपस्योपलक्षाणर्थत्वाज्जश्त्वादीनामपि प्रसङ्गः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-2. “*अहन्निति” । विशेषविहितत्वाल्लङाद्युत्पत्तौ सत्यामडागमस्य धातुभक्तत्वात्प्रातिपदिकसंज्ञायं सत्यां नलोपप्रसङ्गः । न चाप्रत्यय इति प्रत्ययलक्षणेन प्रतिषेधः । “*न ङिसंबुद्ध्यो*“रिति ज्ञापनाद् नलोपे विधीयमाने प्रत्ययलक्षणेनाप्रत्यय इति निषेधाभावात् ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-3. “*धातुग्रहणं करोतीति” । पुत्रीयतीत्यादौप्रातिपदिकत्वादेव लुक् सिद्ध इति भावः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-4. “*श्येनायत इति” । अत्राप्रत्यय् इति निषिद्धा प्रातिपदिकसंज्ञा ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-5. “*कृत्तद्धितग्रहणमिति” । तद्धितग्रहणमत्र नियमार्थम्, कृद्ग्रहणं तु प्रतिषिद्धर्थं भिद् छिदिति । अत्र ह्यधातुरिति प्रतिषेधाप्रसङ्गः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-6. “*अनेकपदप्रसङ्ग इति ।
अनेकं पदमस्मिन्नित्यनेकपदः समुदायस्तस्य संज्ञाप्रसङ्ग इत्यर्थः ॥
“*अनेकस्यापि पदस्येति” । समुदितस्येति बोद्धव्यम् । प्रतिपदं सु नैव संज्ञा प्राप्नोत्य”*प्रत्यय*” इति निषेधात् । समुदायस्य तु निषेधो न प्रवर्तते “*प्रत्ययग्रहणे यस्मात्स विहित*” इति वचनात्समुदायाच्च प्रत्ययस्याविधानात्
प्रत्यान्तत्वाभावात् । न विद्यते प्रत्ययो यस्मिन्सोयमप्रत्यय् इत्यप्याश्रयितुं न युज्यते, बहुपटव इत्यस्यापि समुदायस्य निषेधप्रसङ्गात् । स्वरे दोषप्रसङ्गात् ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-7. “*समुदायोत्रानर्थक इति” । पदार्थानां समन्वयाभावात् ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-8. “*अवयवार्थवत्वादिति” । अवयवधर्माणां च समुदाये व्यपदेशात्, सति च प्रातिपदिकत्वे सुब्लुक्प्रसङ्गः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-9. “*एषैषेति” । एषा या वाचोयुक्तिः सैषा एतत्प्रमाणेत्यर्थः ॥ “*अकारो मत्वर्थिय इति*” । ततश्च नावयवधर्मेण समुदाये व्यपदेषः । किं तर्हि ? दण्ड्यादिवद्यौगिकइत्यर्थः ॥ “*मात्वन्तादिति*” मत्वन्तान्मतुब्न भवति, “*सरूपः प्रत्ययो नेष्ट*” इति वचनात् । तस्मादे”*कगोपूर्वदि*“ति ठञो भाष्यकारवचनप्रामाण्याल्लोपः । अत इति च तत्र निवृत्तं गौत्रिकादिसिध्द्यर्थं, गवां समूहो गोत्रा, सास्मिन्नस्तीति गौत्रिकम् ॥ अथ वा “*मत्वन्तान्मत्वथर्यिओलुप्यत*” इत्यनेनावयवधर्मस्य समुदाये उपचारमाह । इह तु मुख्येऽर्थवत्वे सम्भवत्युपचरितस्याश्रयो न युक्तः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-10. अर्थवद्वाक्यमिदानीं दर्शयति-”*एवमपीति । अर्थवद्धीति*” । पदार्थानां समन्वयावगमात् ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-11. “*न वै पदार्थादिति” । पदानि स्वंस्वमर्थं प्रतिपादयन्ति “*वाक्यम्” । पदार्था एव त्वाकाङ्क्षायोग्यतासन्निधिवशात् परस्परसंसृष्टा “*वाक्यार्थ*” इत्यर्थः । न तु वाक्यं वाक्यार्थे वा पृथगस्तीति भवः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-12. “*पदार्थाभिसंबन्धस्येति” । ध्वनिव्यङ्गयं नित्यं वाक्यं विशिष्टस्यार्थस्य पदार्थसंसर्गरुपस्य वाचकम् । अन्यथा ह्यशाब्दो वाक्यार्थः स्यथ् ॥ “*कर्ता निर्दिष्ट इति*” सम्बोधनविषयमनियतक्रियं करृमात्रमित्यर्थः ॥ “*यद्विशेषेवस्थानमिति*” । पदार्थसंसर्गरूपे वाक्यर्थ इत्यर्थः । अत एव वाक्यमेव मुख्यः शब्दो वाक्यार्थ इत्यर्थः । अत एव वाक्यमेव मुख्यः शब्दो वाक्यर्थ एव मुख्यः शब्दार्थः । साद्रुश्यात्वन्वयव्यतिरेकौ कल्पितौ लाधवार्थमाश्नित्य पदप्दार्थव्यवस्थापनं क्रियते । प्रतिवाक्यं व्यत्पत्यसम्भवाच्छाब्दव्यवहाराभावप्रसङ्घात् ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-13. “*बहुपटव इति” ।
द्योत्येनार्थेनार्थवान् प्रत्ययः । प्रकृतिस्तु वाच्येनेत्यर्थवत्समुदायोयं भवति ॥ “*उच्चकैरिति ।
तन्मध्यपतितस्तद्ग्रहणेन गृह्यत
इति*” यदा नाश्रीयते, नापि “*अकच्श्रम्वतः*” इति, तदायं दोषः । तदा हि सुबन्तस्याकचि कृते “*अव्यया*“दिति सुब्लुगभावा”*त्सुपो धातुप्रातिपदिकयो*“रिति लुगिष्यते, स च न प्राप्नोति ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-14. “*किं पुनरत्रेति” । उच्चकैरित्याद्यन्यथा सिद्यतीति प्रश्नः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-15. इतरो बहुपटव इति न सिध्यतीति मन्यमान आह-”*प्रातिपदिकादिति*” ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-16. “*स्वर इति” । बहुपटव इति वकाराकारस्योदात्तत्वं प्राप्नोति, टकाराकारस्य चेष्यते ॥ “*प्रकृत्यनेकदेशत्वादिति*” । नह्यसौ प्रकृतेरेकदेश इत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-17. “*अप्रत्यय इति प्रतिषेधं शास्ती"त्युक्ते कश्चन ब्रूउआद्बहुपटव इत्यत्राप्रत्यय इति निषेधः प्राप्नोतीत्यत आह-”*स च तदन्तप्रतिषेध इति ॥
प्रत्ययग्रहणेयस्मात्सविहित इति*” तदन्तविधिः । संज्ञाविधौ च प्रत्ययग्रहणे तदन्तविधिर्निवारितः ।
“*अप्रत्यय*” इत्ययं तु प्रतिषेधविधिः ॥ पटुशबाच्चात्र जसुत्पन्नो न बहुपट्शब्दादिति बहुपटव इत्येतदप्रत्ययान्तमेव ॥ अथ वा “*अप्रत्यय*” इति बहुव्रीह्याश्रयणात् प्रत्ययादेरपि बहुपटव इत्यस्य निषेधः प्राप्नोतीत्याह-”*स चेति*” । अप्रत्यय इति तत्पुरुष आश्रीयते तस्य स्वपदार्थप्रधानत्वेनान्तरङ्गत्वादिति भवः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-18. “*प्राप्त्यर्थ इति” । प्रतिषेधप्राप्त्यर्थ इत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-19. “*स एषोनन्यार्थ इति” । ज्ञापनार्थं एवेत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-20. “*सुबन्तानामिति” । एतच्चोपलक्षणं भेदसंसर्गद्वारकार्थवत्वयुक्तानाम् ॥ यस्मात्सुबन्तासुबन्तानामपि समासोद्रुश्यते अश्विकीतीत्यादौ, “*गतिकारकोपपदानं कृद्भिःसह समासवचनं प्राक् सुबुत्पत्तेरि*“ति वचनात् ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-21. देवदत्तो ग्रामं गत इत्यादोः सुबन्तसमुदायस्यैव वाक्यस्य नियमेन निवृत्तिः स्यादित्यभिप्रायेणाह-”*सुप्तिङ्समुदायस्येति*” ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-22. “*जहि कर्मणेति” । ननु समाससंज्ञेयं समासान्तोदात्तार्था । नैष दोषः समासत्वादेव प्रातिपदिकत्वमिति तत्तुल्यजातीयताप्रतिपादानार्थमेतदुपन्यस्तम् ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-23. “*तिङ्समुदायस्येति” । पश्य धावतीत्यादि । ततश्च प्रातिपदिकान्तोदात्तत्वप्रसङ्गः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-24. “*आख्यातमिति” । ततश्च समासेन तुल्यजातीयानां सर्वेषां वाक्यानां नियमान्निवृत्तिः सिद्धेत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-25. “*अर्थवत्तेति” । अर्थवत्ता संज्ञानिमित्तत्वेनेहोपात्ता सा च वाक्यस्यैव पदस्य वा केवलस्य लोके प्रयुजमानस्योपपद्यते, न तु प्रकृतिभागस्य केवलस्य प्रयोगाभावाद्वर्णवदव्यवहार्थत्वात् ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-26. “*नवेति” । अन्यथासिद्धः केवलस्याप्रयोगः “*न केवला प्रकृतिः प्रयोक्त्व्या न च केवलः प्रत्यय*” इति नियमात् । अर्थवत्ता त्वन्वयव्यतिरेकाभ्यामस्त्येवेति भवः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-27.
“*अन्वयव्यतिरेकाभ्यामिति । अन्वयो*"-नुगमः
सति शब्देर्थावगमः । “*व्यतिरेकः*” शब्दाभावे तदर्थानवगमः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-28. “*विषम इति” । यद्येकः शब्द एकस्मिन्नर्थे नियतः स्यात् तत एतद्युज्यते वक्तुम् यतस्वनियमः ततः प्रकृतेरेव सर्वे अर्थाः स्युः । यथा दधि मध्वग्रिचिदिति । प्रत्ययस्तु क्वचिद्रुयोतकः ॥ ?Bप्रत्ययस्यैव वा सर्वे अर्थाः स्युः इयानधुनेति यथा । प्रकृतिस्त्वर्थामिधाने साहायकमात्रं कुर्यात् ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-29. “*अतः किं न साधीय इति” । प्रकृतिः सर्वानर्थानभिदधाति । द्योतिकास्तु विभक्तय इति सद्धैवार्थवत्ता ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-30. “*प्रत्यय एवेति” । ततश्च प्रकृतेरर्थवत्ता न सिध्यतीति तदवस्थो दोष इत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-30. “*सामान्यशब्दा इति” । प्रकृतिश्चेत्सर्वानर्थानभिदध्यद् वृक्ष इत्युक्ते सर्वा शंख्या प्रतीयेत । प्रत्ययो वा सर्वस्य प्रातिपदिकस्यार्थं प्रत्याययेदित्यर्थः ॥ “*यतस्तुस्वल्विति*” । प्रकरणादिना विनैवेति भवः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-31. “*अतदर्थेनेति” ।
अतत्प्रयोजनेनेत्यर्थः ॥ “*गुणेनेति*” अवयवेन ॥ स ह्यव्यविन उपकारकत्वाद्गुणः ॥ अवयवी तु “*गुणी । अर्थभावः*”
प्रयोजनोत्पत्तिः ॥ “*बल्वज*“स्तृणविशेषः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-32. “*याचयावतीचेति” । अयं समुदायः का चिदित्यस्यार्थे वर्तते ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-33. “*बिह्?तानीति” । विक्षिप्तानीत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-34. “*अनर्थकस्येति” । निपातानं द्योतकत्वादभिधेयार्थामाभावेपि द्योत्यार्थसद्भावाद्येषामर्थवत्वं तेषां सिध्यत्येव संज्ञा । यस्य तु द्योत्योप्यर्थो नास्ति तदर्थं वचनम् ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-35. “*निधातो यथा स्यादिति” । अर्थवचनर्थकयोरसत्यपि सामर्थ्ये संज्ञाविधानसामर्थ्यान्निधातो भवतीत्येके ॥ समानवाक्यतानिमित्तो निधातो न सामर्थ्यनिमित्तः सा चेहास्ति “*आख्यातं साव्ययकारकविशेषणं वाक्य*“मिति परिभाषाणाद्वाक्यस्येत्यपरे ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-36. “*नहीति” । स्वादिविधिवाक्यस्य संख्याविधिवाक्येनैकवाक्यत्वात् ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-37. “*अविशेषेणेति” ।
नानावाक्यताश्रयणात् । नियमाश्चार्थानां न प्रत्ययानामित्यनर्थकेभ्योपि ते भवन्ति ॥
“*अथवेति” । प्रत्ययनियमेपि दोषाभाव इत्यर्थः ॥ “*अधिपरी इति*” ॥ क्रियायोगो गत्युपसर्गसंज्ञयोर्विधानादनर्थकयोः क्रियायोगाभावात्प्राप्तिरेव नास्तीति संज्ञाविधानं यथोक्तार्थस्यज्ञाकं संपद्यते । आनर्थक्यं च निपातस्य धातुनिपातयोः साधारणार्थतयाऽधिकद्योत्यार्थाभावादुच्यते, न तु सर्वात्मनार्थाभावात् ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-38. “*तिबेकादेश इति” । तिपस्तिशब्दादारम्भसुपः पकारेण प्रत्याहारः ॥ “*अन्तवत्वादिति*” पूर्वस्य प्रत्ययसद्रुशस्य प्रातिपदिकसंज्ञाकार्यमिति पूर्वं प्रत्यन्तवद्भावः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-39. “*आदिवत्वादिति” । परकार्ते प्रतिषेधे कर्तव्ये परं प्रत्येकादेशस्यादिवद्भावः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-40. “*यदयमिति” । अथ वा प्रातिपदिकग्रहणेलिङ्गविशिष्टस्यापि ग्रहण*“मिति स्वादय उत्पद्यन्ते ॥
2 “*द्वे इति*” । तत्रान्तरङ्गत्वात्प्रत्ययोत्पत्तेः प्रागेव ब्रह्मबन्धुशब्दस्य प्रवृत्ता प्रातिपदिकसंज्ञेत्युङेकादेशस्य पूर्वं प्रत्यन्तवद्भावादस्त्येव प्रातिपदिकत्वमिति न कश्चेद्दोषः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-41. “*राजेति” । तत्र नलोपो न स्यात् । अत्राप्यन्तरङ्गत्वात्पूर्वमेव प्रवृत्ता प्रातिपदिकसंज्ञा बहिरङ्गेण प्रतिषेधेन न शक्यते निवर्तयितुमिति परिहारोस्ति ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-42. “*न ङिसंबुद्ध्योरिति । ननु हे सुराजन्निति समासप्रतिपदिकसंज्ञार्थः प्रतिषेध स्यात् । न चोत्तरप्राप्तेरप्रत्यय इति प्रतिषेध “*मध्येपवादा*” इति न्यायात् । एवं तर्हि समासेप्यप्रत्यय इति वर्तते । अन्यथा सुराजाऽतिराजेत्यादौ विध्यर्थतायां संभवन्त्यां नियमार्थं समासग्रहणं न स्यात् ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-43. “*यत्तस्येति” ।
विभत्त्यन्तं च शक्ति(प्रधानं) संख्याप्रधानं च, न च तयोर्लिङ्गयोगः । न वान्तवद्भावेनार्थः शक्योतिदेष्टुमिति न भवति ह्रस्वः । अथ वा नपुंसकत्वं प्रातिपदिकार्थस्यैव संभवतीति प्रातिपदिकग्रहणं मुख्यप्रातिपदिकपरिग्रहार्थमित्यन्तवद्भावेन यत्प्रातिपदिकं तस्य ह्रस्वाभावः ॥ अत्र च सूत्रे
यदव्युत्पन्नमर्थवत्तदुदाहरणम् । व्यत्पत्तौ तु कृदन्तत्वादेव सिध्यतीति पृथगस्यारम्भोऽनर्थकः स्यथ् ॥ अव्युत्पत्तिपक्षस्य चेदमेव सूत्रं ज्ञापकमित्याहुः ॥ 45 ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-44. “*ह्रस्वो नपुंसको ॥ 46 ॥ प्रातिपदिकग्रहणमिति” । नपुंसकलिङ्गं द्रव्यस्यैव संभवति । द्रव्यवाचित्वं तु प्रातिपदिकस्यैव, न तु सुबन्तस्य शक्तिप्रधानत्वात्, नापि तिङ्न्तस्य क्रियाप्रधानत्वादिति प्रश्नः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-45. “*काण्डे इति” । द्वयोरपि शक्तिशक्तिमतेरमिधानादस्ति नपुंसकार्थवृत्तित्वं सुबन्तस्यापीति भावः ॥ “*रमते ब्राह्मणकुलमिति*” । यथैव साधनाश्रयां संख्यामाख्यातमुपादत्ते तथा तल्लिङ्गमपि ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-46. “*अव्ययप्रतिषेध इति” । यथोपवर्णितन्यायेनाव्ययस्यापि लिङ्गयोगात्प्राप्तिः ॥ “*दोषा ब्राह्मणकुलमिति*” । दोषसहचरितत्वाह्?आह्मणकुलमेव दोषशब्देनोच्यते इति ह्रस्वप्रसङ्गः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-47. “*नात्राव्ययमिति” । दोषाशब्दो रात्रावित्यत्रार्थे वर्तते दिवाशब्दोप्यहनीत्यत्रेति ग्राह्मणकुलसाधनानां क्रियाणामधिकरणं कालो भवन्ब्राह्मणकुलस्याधिकरणं भवति-दोष द्रुश्यते चरत्यधीते वेति । आधेयव्यवधानेनाधिकरणस्य क्रियाधारणात् ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-48. “*काण्डीभूतमिति” । प्रकृतिविकारयोरभेदविवक्षायां च्विप्रत्ययः । द्वयोरप्यत्र तयोर्नपुंसकत्वाद् ह्रस्वप्रसङ्गः ॥ कृते ह्रस्वत्वे “*च्वौ चे*“ति दीर्घे भविष्यतीति चेत् । ह्रस्वस्य बहिरङ्गत्वाद्रीघे कर्तव्येऽसिद्धत्वा?र्घप्रसङ्गः ॥ एवं रमते इत्यत्रापि ह्रस्वे सति टेरेत्वस्याप्रसङ्गः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-49. “*न वेति” । असत्ववाचित्वादव्ययस्य न तेन लिङ्गं प्रतिपाद्यत इत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-50. “*न चैतयोरिति” ।
आख्यातस्य शक्त्याश्रयद्रव्यसंख्याप्रतिपादने साम्र्थ्यं न तु तल्लिङ्गप्रतिपादने विचित्रत्वाद्भावशक्तिनाम् । काण्डे तिष्टत इत्यत्रापि संख्यायः प्राधान्यान्नपुंसकत्वायोगः ॥ “*अवश्यमिति*” ।
यद्यवयवधर्मेण समुदायो व्यपदिश्यते इत्यर्थः ॥ “*यत्तस्येति*"।
साक्षात् तस्यैव यदा नपुंसकत्वंतदा ह्रस्वः । यस्य त्ववयवद्वारकं तस्य माभूत् । अथ वा तस्यैवानुपजातव्यतिरेकस्येत्यर्थः । विभक्तयन्तं चोपजातव्यतिरेकमिति ह्रस्वाभावः । सूत्रकारेण तु प्रातिपदिकग्रहणं मुख्यप्रातिपदिकपरिग्रार्थे कृतं
प्रातिपदिकस्यैव नपुंसके वृत्तिसम्भवात् ।
तेनान्तवद्भावादतिदिष्टप्रातिपदिकत्वस्य ह्रस्वाभावः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-51. “*युगवरत्रायेति” ।
दीर्घे कृते पुनर्ह्रस्वः पुनर्दीर्घ
इति चक्रकप्रसङ्गः ॥ 47 ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-52. “*गोस्त्रियोरुपसर्जनस्य ॥ 48 ॥ कृन्निवृत्यर्थमिति” । धातुस्त्रिया अपि कृदन्तत्वाद्भेदनानिर्देशः । भाष्यकारस्तु तदेव विभज्य व्याचेष्टे-”*कृत्स्त्रिया धातुस्त्रियाश्चेति*”
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-53. “*स्वरितेनेति । स्वरितेनाधिकार” इति योगोनक्धा व्याख्यातः । ततश्च ‘यत्र स्वरितत्वं प्रतिज्ञायते तत्र तदधिकारो गृह्यते’ इत्ययमपि तस्यार्थः ॥ “*स्त्रीयां क्तिन्न*“त्येतत्प्रकरणविहितानां तु ह्रस्वभावित्वाभावादग्रहणम् ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-54. “*अस्त्रीप्रत्ययेनेत्येवं तदिति” । ननु “*ष्यङः सम्प्रसारण*“मित्यत्रातिकारीषगन्ध्यपुत्र इत्यत्र सम्प्रसारणाभावार्थमनुपसर्जनस्त्रीप्रत्ययविषयस्तदादिनियमप्रतिषेधः प्रदर्शित इत्युपसर्जनत्वादिह नियमेन भाव्यम् । नैष दोषः । क्वचितुपसर्जनेपि तदादिनियमो न भविष्यति । “*हल्ङ्याब्भ्य*” इत्यत्र दीर्घग्रहणात् । अन्यथा निष्कौशाम्बिरतिस्वट्व इत्यादावुपसर्जनात्वादङ्याबन्तत्वात्सुलोपो न भविष्यतीति किं दीर्घग्रहणेन ॥ कथं तर्ह्य”*नुपसर्जना*“दित्यत्र “*कौम्भकारेयो न सिद्ध्यती*“त्युक्तं उआवता कार्शब्दादपि ङीपि कृते तदादिनियमाभावात् कुम्भकारीशब्दात् ढक् भविष्यति ॥ नैष दोषः । तदादिनियमाभावे कारीशब्दादपि कदाचित् ढक् स्यात् ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-55. “*पुंवद्वचनमिति” । यथा पुंविषये ईकारः श्रूयते, न तु ह्रस्वत्वं प्रतिपद्यते तथेयसोपि परइत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-56. “*गोकुलमिति । प्रथमानिर्दिष्ट"मिति गोशब्दस्योपसर्जनत्वम् ॥ “*राजकुमारीपुत्र इति*” । राजकुमारीशब्दः समासप्रातिपदिकम् ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-57. इह तु कुमारीपुत्र इति कुमारीशब्दस्य प्रत्ययान्तत्वात् प्रातिपदिकत्वाभावः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-58. “*उभयत इति” । प्रातिपदिकं स्त्रीप्रत्ययश्चेहाश्रीयते । तत्र यदि प्रातिपदिकस्यान्तवत् तदा स्त्रीप्रत्ययः परो नास्ति । अथ स्त्रीप्रत्ययस्यादिवत् तदा प्रातिपदिकत्वाभावः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-59. “*गोन्तस्येति” । उपसर्जनग्रहणेन गोस्त्रियौविशेष्येते पश्चात् ताभ्यां प्रातिपदिकमिति तदन्तविधिः । “*ग्रहणवते*“त्येतच्च प्रत्ययविधिविषयत्वादिह नोपतिष्टते ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-60. “*व्यपदेशिवद्भाव इति” । ननु “*रोण्याअण्तस्यचे*“त्यत्र “*‘तस्य चेति सर्वस्य शेष’*” इति व्याख्यानात् “*स्वरूप*“मित्यस्यानुवृत्यनुज्ञानात् गोकुलमिति ह्रस्वः प्राप्नोत्येव नैष दोषः । “*स्वं रूप*“मिति तत्र नानुवर्तते । तथा चा”*द्यन्तव*“त्सूत्रे “*येन विधिस्तदन्तत्वे*” इति प्रयोजनमुत्तम् ॥ “*तस्य चे*“त्येतत् तु तत्रत्यवार्तिकस्य शेषो न तु सूत्रस्य । अगोपुत्र इत्यत्रापि न भवति । अत्र ह्यन्यत्प्रातिपदिकं गोन्तम् । अन्यत्प्रति गोशब्दस्योपसर्जनत्वम् ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-61. “*पञ्चकुमारीप्रिय इति” । त्रिपदे बहुव्रीहौ कृते द्वयोः पदयोर्द्विगुसमास इति पञ्चकुमारीशब्दः पूर्वपदं न भवति ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-62. “*कपि चेति” । अन्तरङ्गत्वाद् ह्रस्वः प्राप्नोति ततः कबिति भवः । कपीति च विषयसप्तमी ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-63. “*कुक्कुटमयूर्याविति” । समासार्थे अवयवार्थस्याप्राधन्या”*दनेक*“मित्यस्य्
आनुवृत्या प्रथमानिर्दिष्टत्वाच्च मयूरिशब्दस्योपसर्जनत्वम् ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-64. “*अनन्त्यत्वादिति । समासान्त” इति वचनात् कबेव समासस्यान्त इति स्त्रीप्रत्ययान्तं समासप्रातिपदिकं न भवति ॥ “*परत्वात्कबिति*” । सावकाशश्च कप् बहुयवागूक इत्यादौ ॥ “*अन्तरङ्गमिति*” । उपसर्जनस्त्रीप्रत्ययान्तप्रातिपदिकमात्रापेक्षत्वात् ॥ कप् तु समासविशेषं बहुव्रीहिं नद्युत्तरपदमपेक्षत इति बहिरङ्गः ॥ “*अन्तरङ्गतर इति*” । पराभ्युपगमापेक्षया प्रकर्षप्रत्ययः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-65. “*तादर्थ्यादिति” । ततश्चावयवापेक्षत्वात्कपः समुदायापेक्षो ह्रस्वो बहिरङ्गः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-66. “*द्वन्द्वेप्युक्तमिति” । परिहारान्तरमप्यत्रास्ति -अवयवार्थावेव परस्परसहितौ द्वन्द्वार्थ इति प्राधान्यादुपसर्जनत्वाभाव इति ॥ 48 ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-67. “*लुक्तद्वित ॥ 49 ॥ अवन्त्यादीनामिति” ।
अवन्तीत्यत्र भवत्यवन्तिशब्द उपसर्जनं स्त्रीप्रत्ययश्चास्ति, लुक् च तद्वितस्य कृत इत्यस्ति लुक्प्राप्तिः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-68. “*अलुक्परत्वादिति” । यत्र स्त्रीप्रत्ययान्तात्परस्य तद्वितस्य लुक् तत्र लुक् भाव्यम्, अत्र तु कृते लुकि स्त्रीप्रत्ययः कृतः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-69. “*नहीति” । लुको नीरूपत्वद् ॥ बुद्दिपरिकल्पितं तु लुकः परत्वमाश्रित्य वार्तिककृतोत्तम”*लुक्परत्वादिति*” ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-70. “*न च जातिरिति” । उपसर्जनग्रहणेन स्त्रीप्रत्ययो विशेष्यते । अप्रधानं चेहोपसर्जनं गृह्यते, न शास्त्रीयमसंभवात् । अवन्तीत्यत्र चापत्यलक्षणा जातिः स्त्रीत्वयुक्ता प्राधान्येनाभिधीयत इत्यर्थः । अप्रातिपदिकत्वाच्चात्र ह्रस्वाभावः । आमलकमित्यादौ तु तद्वितान्तत्वात्प्रातिपदिकसंज्ञा । लिङ्गविशिष्टस्यैवेहोपादानाल्लिङ्गविशिष्टपरिभाषाया उपस्थानाभावः । कुरूरित्यत्रापि “*उभयत आश्रयणे नान्तादिवदि*“त्यप्रातिपदिकत्वम् ॥ 49 ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-71. “*इद्गोण्यः ॥ 50 ॥ इति वा वचन इति” । इतीति सप्तमी इच्छब्देप्युच्यमाने गौरवाभाव इत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-72. “*गोणिरिति” । यदा मात्रचो लुक् क्रियते तदा लुकि प्रतिषिद्दे सिध्द्यत्येव ह्रस्वत्वम् । तस्मात्प्रथमाविधाने परिमाणग्रहणस्य प्रयोजनम्-तद्वितमन्तरणापि यदा परिमाणशब्दः परिमेये वर्तते तदापि प्रथमा यथा स्यातिदि एवं तर्ह्युपसर्जनस्येति वर्तते, न तु तद्वितलुकीति । तेन यत्र स्वार्थापसर्जनमर्थान्तरं प्रत्याट्यते तत्रेत्वविधिः । ह्रस्वत्वं तु न स्यादप्रातिपदिकत्वात् ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-73. “*अशिष्यमिति । गोस्त्रियो"रित्यस्यानन्तरं “*गोण्या*” इति लुगपवादह्रस्वार्थं वक्तव्यम् ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-74. “*न तु सूच्या इति” । इत्वं प्राप्नोतीति शेषः ॥ क्वचित्तु “*ननु सूच्या*” इति पाठः । तत्रेत्वमिष्यत इत्यद्याहारः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-75. इद्ग्रहणे सतियोगविभागो लभ्यते । गोणिरिति तु मात्रचो लोपेन सिध्द्यति ॥ 50 ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-76. “*लुपि” ॥ 51 ॥
प्रकृतय्र्थसंबन्धिन्यौ
लिङ्गसंख्ये प्रत्ययार्थे अतिदिश्येते ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-77. “*शिरीषा इति” । वरणादित्वादणो लुप् ग्रमवाचित्वद्वनस्पतिवाचित्वाभावाण्णत्वाभावः । “*फली वनस्पतिर्ज्ञेय*” इत्ययं भेदेन णत्वविधौ नाश्रित इति फलाभावेपि शिरीषस्यास्ति वनस्पतित्वम् ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-78. “*षष्टीति” । प्रकृत्यर्थगतस्य व्यतिरेकस्य प्रत्ययार्थेतिदेशात्षष्टीप्रसङ्गः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-79. “*षष्ट्यपीति” । वचनशब्देन ह्येकवचनादयः प्रत्यया उच्यन्ते । तत्र वाक्यावस्थायं षष्टीदर्शनात्तस्या एवात्रातिदेशः प्राप्नोति ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-80. “*नेदमिति” । एकवचनादिसंज्ञाविधानकाले अनुनिष्पादी वचनशब्दोपि संज्ञात्वेन नियुक्त इति प्रत्ययः पारिभाषिकं वचनमुच्यते ॥ “*अन्वर्थग्रहणमिति*” संख्यालक्षणोर्थेतिदिश्यत इत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-81. “*षष्टयपि ह्युच्यत इति” । संख्यातिदेशे तद्वचनेन शब्देन प्रवर्तितव्यम् । षष्ट्यपि संख्यायाः प्रतिपादिकेति भवः । षष्टीशब्देन च षष्ट्यर्थः संख्यालक्षणोऽभिधीयते । अथ वा षष्ट्यप्युच्यतेसंख्याप्रतिपादनार्थमित्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-82. “*लुपोत्तत्वादिति” । लुप्सहचरितेन शब्देनोत्वत्वादित्यर्थः । अभिहितः सोर्थेन्तर्भूतः प्रातिपदिकार्थः संपन्न इति व्यतिरेकाभाव इत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-83. “*आतिदेशिकीति” । संख्यायामतिदिष्टायं तद्वाची शब्दः प्रयोक्तव्यः । वाक्ये च षष्टी द्रुश्यते इति तस्या एव प्रसङ्गः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-84. “*प्रागपीति” ।
प्रत्ययर्थेन प्रकृतिवाच्यं वस्तु संबद्धं वाक्यावस्थायां वृत्यवस्थायां चेत्यर्थः ॥ “*वक्तुश्रेति*” चशब्दो भिन्नक्रमः “*प्राग्वृत्ते*“रित्यस्यानन्तरं द्रष्टव्यः ।
ततश्चायमर्थः-प्रग्वृत्तेर्थे लिङ्गसंख्ये चशब्दात् वृत्तस्य ये, ते अतिदेष्टुं कामचारः ॥ “*वृत्तस्येति*” । प्रत्यासत्येति भावः ॥
वृत्तावुपसर्जनस्यापि क्वचित्संख्याविशेषावगतिर्भवति । यथा तावकीनो मामकीन इत्यादेशात् संख्याभेदावगमः । तथेह प्रत्ययर्थे अतिदिष्टसंख्यावगमात् प्रकृत्यर्थे तदवसायः । यथा आदेशे प्रथमासामानाधिकरण्यदर्शनात् लिट तदवगतिः । तत्र च वृत्ता वुपसर्जनं प्रधानार्थमभिधत्त इति व्यतिरेकाभावात् संख्यामात्रप्रतिबद्धा प्रातिपदिकार्थमात्रे प्रथमैव भवति ॥
क्वचिदधिको ग्रन्थः पठ्यते -
“*अथ वा प्रग्वृत्तेर्थे लिङ्गसंह्खये ते अतिदेक्ष्येते । षष्टी कस्मान्न भवति । सामान्यादिदेशे विशेषानतिदेश*” इति ॥
तत्रायमर्थः -वाक्यावस्थायं प्रकृत्यर्थस्य ये लिङ्गसंख्ये ते अतिदिश्येते षष्टी तु व्यतिरेकनिबन्धना । न चेह प्रत्ययर्थस्य व्यतिरेकोस्ति । न च व्यतिरेकसहिता संख्या अतिदिश्यते ।
संख्यामात्रादिदेशे संबन्धसहितसंख्यातिदेशाभावात् ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-85. “*किमर्थमिति” । अन्तरेणाप्यतिदेशां लिङ्गसंख्ये सिद्धे । यथाऽऽपो दारा इत्यादाविति प्रश्नः ।
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-86. “*अन्यत्रेति” । अभेदं लिङ्गसंख्ययोराश्रित्यवार्तिककारेण पठितम् । भाष्यकारस्तु वाचकभेदनिबन्धनभेदावसायेन वतिना व्याचष्टे “*अभिधेयवदिति । अभिधानवदिति*” । अभिधानशब्देनोपसर्जनमभिधीयते । तेन हि प्रधानार्थोभिधीयते । तस्य चार्थद्वारको लिङ्गसंख्यायोगः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-87. “*न वाऽदर्शनस्येति” । अभावरूपत्वादिति भावः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-88. “*योगाभावादिति” । अदर्शनेन प्रकृत्यर्थो न युक्तु इत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-89. “*मधुरापञ्चाला इति” । वर्तिपदार्था एवापेक्षितपरस्परा द्वन्द्वार्थ इति सिद्धे नियमः क्रियते । अत एव मधुरागोदा इति भवति न तु मधुरागोदाविति । द्वन्द्वेपि गोदार्थस्य द्वित्वानतिक्रमात् ॥ 51 ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-90. “*विशेष ॥ 52 ॥ कथमिति” । किं सामानाधिकरण्येन सम्बन्धः,-विशेषणानां युक्तवह्यत्तिवचने जातिस्तु यदा विशेषणं तदा नेति । अथ वैयधिकरण्येन-जातेर्यानि विशेषणानि तेषां नेति । अजातेरिति चासमर्थसमासः, भवतिना नञः सम्बन्धात् । उभयथा चाव्याप्तिः प्रतिषेधस्येति प्रश्नः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-91. “*आजातिप्रयोगादिति” । सूत्रे आङः प्रश्लेषो न तु नञः । अत्रायमर्थः-तावद्युक्तवद्भावो भवति यावज्जातिर्न प्रकान्ता । यदा तु जातिः प्रकम्यते विशेषणत्वेन विशेष्यत्वेन वा तदा युक्तवद्भावो न भवतीति ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-92. “*बदरी सूक्ष्मकण्टकेति” । मधुरादीनां विशेषणानं बद्र्युपनिपाते तल्लिङ्गसंख्यायोगः ॥ वृक्षोपनिपाते तु वृक्षाश्रयलिङ्गसंख्यायोगः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-93. “*आविष्टलिङ्गेति” । आविष्टं लिङ्गं यया साऽऽविष्टलिङ्गा नियतलिङ्गेत्यर्थः । सर्वत्र सर्वेषां लिङ्गानां सद्भावेपि केनचिच्छब्देन किंचिल्लिङ्गं प्रत्याप्यत इति शब्दविशेषपक्षयाविष्टलिङ्गत्वमुच्यते ॥ “*उत्पत्तिप्रभृत्या विनाशादिति*” । जातेरुप्तत्तिविनाशायोगात् शब्दव्यवहारगतावुत्पत्तिविनाशौ गृह्येते । तेनासंसारं यावच्छब्दो व्यवहारस्तावजातेर्नियतलिङ्गत्वमित्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-94. “*गुणवचनानामिति” । पदसंसकारपक्षेवाचनिकमेतत् । पदे हि पदान्तरनिरपेक्षे संस्कियमाणे नपुंसकं लिङ्गसर्वनामप्राप्तमेकत्वं च वस्त्वन्तरनिरपेक्षत्वात्सन्निहितमिति शुक्लं पटा इति प्राप्ते भाविनो बहिरङ्गस्याश्रयस्य सम्बन्धिन्यौ लिङ्गसंख्ये अनेन प्रतिपाद्येते । “*‘विशेषणानं’*” गुणवचनानामित्यर्थः । “*यक्तुबह्मक्तिवचने*” । आश्रयवल्लिङ्गआश्रयविशेषस्य पूर्वमेव प्रक्रमे विशेषणानामपि तन्निष्टत्वात् । तद्गतयोर्लिङ्गसंख्ययोः सिद्धत्वात् । यदा तु जातिर्विशेषणं तदा न भवति युक्तवद्भावः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-95. “*हरितक्यादिष्विति” । नियमार्थमेतत् । तेन वचनमभिधेयाश्रयं भवति ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-96. “*स्वलतिकमिति” । स्वलतिको नाम पर्वतस्यस्यादूरभवानि वनानीति लिङ्गमभिधेयाश्रयमेव भवति ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-97. “*मनुष्यलुपीति” । विशेषणानामयं प्रतिषेधः । तेन चञ्चाभिरूप इत्यभिधेयाश्रये लिङ्गसंख्ये भवतः । तृनमयः पुरुष”*श्चञ्चा*” तत्सद्रुशो मनुष्यश्चञ्चा । “*संज्ञाया*“मिति विहितस्य कनो “*लुम्मनुष्य*” इति लुप् ॥ 49 ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-98. “*तदशिष्यम् ॥ 53 ॥ किं या एता इति।” प्रत्यासत्तिन्यायाश्रयेण प्रश्नः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-99. “*नेत्याहेति” ।
प्रत्यासत्तेः सामर्थ्यं बलवत् । नहि टिघुभादिसंज्ञानां प्रमाणथ्वं युत्तवद्भावशास्त्रस्याशिष्यत्वे हेतुरुपपद्यते सम्बन्धाभावात् ॥
“*संज्ञानमिति*” । अवगमः सम्प्रत्यय इत्यर्थः । तत्र यथापो दाराः सिकता वर्षा इत्युक्ते लिङ्गसंख्याविशेषावगतिरुत्पद्यमाना प्रमाणम् । एवं पञ्चाला वर्णा इत्यादावपि । न च पञ्चालादयो यौगिका, अपि तु जनपदादीनं संज्ञास्ततो योगानवगमात् तद्वितो नोत्पद्यते इति लुबपि न वक्त्व्यः । तत्र सर्वेषां लिङ्गानां सर्वत्र भावात् केनचिच्छब्देन प्रत्याप्यमानं वस्तु कस्यचिल्लिङ्गस्य व्यञ्जकमिति दारादिषु नियतलिङ्गता सिध्धा ।
बहुत्वमप्यवयवगतं शक्तिगतं चान्यत्र समारोप्यत
इति संख्यायोगोपि सिद्धः । “*एका सिकते*“त्याद्यपि शिष्टप्रयोगदर्शनात् सिध्यति ॥ 53 ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-100. “*जात्या ॥ 58 ॥ जातिरूपलक्षाणम् । द्रव्यं तु शब्दार्थ इति दर्शनाश्रयेणाह-”*इदमयुक्तमिति ॥ बहुष्वेकवचनमिति*” । अत्र पक्षे जातेरूपलक्षाणत्वेनाख्या जात्याख्येति व्याख्यानम् ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-101. जातिपदार्थपक्षाश्रयेणोत्तरमाह-”*जात्याख्यायामिति । गार्ग्ये गार्ग्येत्वमिति*” गोत्रस्यापि जातित्वाभ्युपगमादेतदुत्तम् । बहुषु गार्गेषु गार्ग्यत्वस्याभिन्नस्याभावात् ॥ एकस्मिंस्तु पिण्डे अवस्थाभेदानुगता इत्यत्वादिका जाति”*र्जात्याख्याया*“मिति वचनसामर्थ्यान्न गृह्यते । जातिपदार्थवादिमते हि सर्वे शब्दा जात्यार्थाभिधायिन इति सामर्थ्याद्भिन्नपिण्डविषया जातिराश्रीयते ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-102. “*बहूनामिति” । बहूनामर्थानां बहुत्वमेवोच्यते इत्येकस्मिन्नर्थे बहुत्वमनेनातिदिश्यत इति बहुत्वाद्वहुवचनं भवतीति नास्ति स्थान्यादेशभावः । एवं “*तिप्यपुनर्वस्वोरि*“त्यत्रापि द्विवचनबहुवचनशब्दाभ्यां द्वित्वबहुत्वयोरभिधानादर्थातिदेशात्स्थान्यादेशभावाभावः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-103. “*संख्याप्रयोग इति” । एकस्यैव बहुत्वातिदेशः क्रियमाण एकशब्दप्रयोगोपि पाप्नोतीति प्रतिषेध उच्यते ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-104. उभयपदार्थपक्षाश्रयेण प्रत्याख्यातुमाह-”*अशिष्यमिति*” ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-105. तत्र कदाचिज्जातेः प्राधान्यं कदाचिद् द्रव्यस्येति यथेष्टप्रयोग उपपद्यते ॥ 58 ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-106. “*अस्मदः ॥ 59 ॥ तद्यदेति” । एकेन्द्रियप्रवृत्तौचेतरेन्द्रियान्तरणामौदासीन्येन संविधातृत्वात् कर्तृत्वविवक्षेति वयं पष्याम इत्यादि सिद्धम् । शरीर इवेन्द्रियेष्वप्यहंकारोत्पादाद्वयमित्यनेनेन्द्रियाणामभिधानात् ॥ पारतन्त्र्यविवक्षायां त्विन्द्रियाणामहं ब्रवीमि इत्येकवचनं सिद्धम् । युष्मदस्मदोश्चैकशेषेस्मदोर्थद्वयाभिधानाद्विवचनमिति नार्थो योगेन । संप्रत्ययप्रामाण्याच्च युष्मदि गुरौ पक्षे बहुवचनं सिद्धम्म् ॥ 59 ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-107. “*फल्गुनी ॥ 60 ॥ बहवस्तेर्था इति” अमावास्यायामप्यादित्यमण्डलं प्रविष्टेन चन्द्रेण नक्षत्राणां योगोस्त्येवेति तदापि बहुवचनमर्धर्चाः
छत्रिण इत्यादिन्यायेन सिद्धम् । एकस्यां तु तारायां फल्गुनीशब्दो न वर्तत इति एकवच्नाभावः । सर्वत्र लौकिकः प्रयोगः प्रामाण्येनाश्रीयते इत्यनवस्था न भवति ॥ 60 ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-108. “*तिष्य ॥ 63 ॥ नक्षत्र इति किमर्थमिति” । तिष्यपुनर्वसवो माणवका इत्यत्र गौणार्थत्वान्न भविष्यतीति प्रश्नः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-109. उत्तरवादिनस्त्वयमभिप्रायः तिष्येण युक्तकालस्तिष्यस्तिष्ये जातो माणवक इति यौगिकत्वान्नास्ति गौणार्थत्वम् ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-110. “*ज्योतिषि वर्तत इति” । नन्वेकेनैव नक्षत्रग्रहणेन कालमाणवकयोर्निवृत्तिः सिद्धा तत्र किं द्वितीयेन नक्षात्रग्रहणेन । नैतदस्ति । अन्तरङ्गः कालः बहिरङ्गस्तु माणवक इत्यन्तरङ्गस्यैव कालस्यैकेन नक्षत्रग्रहणेन निवृत्तिः स्यात् । यथाऽकर्मकश्रुत्यान्तरङ्गं द्र्वयकर्म निषिध्यते न कालकर्मेति मासमास्यते देवदत्तेनेत्यत्रापि भावे लकारः सिद्धो भवति द्वितीयेन तु नक्षात्रग्रहणेन बहिरङ्गोपि माण्वको निवर्त्यते ।
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-111. ननु नक्षत्रद्वन्द्वे इत्युक्ते अर्थद्वयोरपि कालमाणवकयोर्निवृत्तिः सिद्धैवेत्याह -”*अथ वेति ॥ निष्यपुनर्वस्वो*“रिति योगविभागः क्रियते “*नक्षत्र*” इति चानुवर्तते । तेन यत्किचित्तष्यपुनर्वस्वोः कार्यं तन्नक्षत्रवृत्योरेव भवतीत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-112. यलोपे कृतमेव नक्षात्रग्रहणमित्यभिप्रायेण आह-”*अथ वेति*” । स्वरूपग्रहणे प्राप्तेर्थग्रहणार्थं द्वितीयं नक्षत्रग्रहणम् । पुनर्नक्षत्रग्रहणे सत्यर्थस्यैवायमनपेक्षितोपात्तशब्दस्यातिदेश इति प्र्यायाणामपि ग्रहणसिद्धिः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-113. “*तिष्यपुनर्वसव उन्मुग्धा इति” । केचिदाहुः-पुरुषा अन्यपदार्थः नक्षत्राणां तु बहुव्रीहिरिति द्विवचनप्रसङ्गः ॥ अन्ये त्वाहुः-नक्षात्रवृत्तेः समासस्य ग्रहणे पुरुषाणामन्यपदार्थत्वे प्रसङ्ग एव नास्तीति ॥ अवयवेन विग्रहः समुदायः समासार्थ इति तिष्यादय एव विपर्यासविषया बहुव्रीहिणोच्यन्त इत्यस्ति प्रसङ्गः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-114. “*जातिद्वन्द्व इति” । कथमनयोर्जातिशब्दत्वम् । यावता जातिप्रदेशेषु भिन्नाधारा जातिर्गृह्यते न त्ववस्थाभेदकल्पितभेदैकवस्तुविषया ॥ एवं तर्हि प्रतिमन्वन्तरे भिन्नानि नक्षत्राणीति दर्शने भिन्नाधारा जातिः संभवतीति न कश्चिद्रोषः ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-115. “*सर्वे द्वन्द्व इति” । अप्रणिजातिद्वन्द्वे नित्यमेकवद्भवति । प्रणिद्वन्द्वस्तु विकल्पेन । न्यायसिद्धश्चार्थे बहुवचनग्रहणेन लिङ्गेन सूच्यते ॥
एकवद्भावप्रकरणं हि विषयविभागार्थमारब्धम्-प्राण्यङ्गादीनां समाहार एव, न तु
प्राण्यङ्गादीनामेव समाहार इति । ततस्तत्प्रकरणानुपात्तानां समाहारेतरेतरयोगयोर्द्वन्द्वः सिद्धा एव ॥
2.प्रथमाध्याये द्वितीयपादे द्विदीयाह्निकम्-116. “*अथ वेति” । नह्येतेषु लोके प्राणिव्यवहारः प्रसिद्ध इति भावः ॥ “*प्राणा एवेति” । तदधीनस्थितित्वात्प्राणिनामेत एव प्राणा उच्यन्ते ॥ 63 ॥
इत्युपाध्यायजैयटपुत्रकैयटकृते महाभाष्यप्रदीपे प्रथमस्य
द्वितीये पादे द्वितीयमाह्निकम् ॥ 2॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-1. “*सरूपा ॥ 64 ॥ रूपग्रहणमिति” । रूपस्यान्तरङ्गत्वादहेयत्वादहेयत्वादुपदेशानपेक्षाणाच्च तत्कृतमेव समानत्वं ग्रहीष्यते । प्रतिपत्तिलाघवं च समानानामित्युच्यमाने भवति । रूढशब्दत्वात्समानशब्दस्य तुल्यार्थत्वावगमात् । “*सरूपाणा*“मिति पुनरुच्यमाने पदद्वयार्थावगमपूर्वकान्यपदार्थावगमात् प्रतिपत्तिगौरवं भवतीति प्रश्नः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-2. “*शाब्दोर्थश्चेति । स्वं रूप"मित्यत्र रूपग्रहणेन ज्ञापितम्-व्याकरणे रूपवदर्थेप्यङ्गीक्रियत इति । ततश्चार्थरूपाभ्यां समानत्वं गृह्येतेत्यर्थः ॥ शब्दानुशासनप्रस्तावाच्च शब्दसंबन्धिरूपं गृह्यते, न तु चक्षुर्ग्राह्यमित्याह-”*श्रुतौ चेति*” । श्रोत्रोपलब्धावित्यर्थः । अथ वा श्रोत्रेन्द्रियं श्रुतिरूच्यते ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-3. “*एकग्रहणमिति” । शेषणं शेष इति भावसाधनपक्षे प्राथम्यादेकस्यैव शेषो भविष्यति । शिष्यत इति शेष इति कर्मसाधनपक्षेप्येकत्वसंख्याया विवक्षितत्वादेक एवाविशिष्यत इति प्रश्नः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-4. “*द्विबह्मोरिति” । द्वित्वबहुत्वविषयस्यानेकस्यशब्दस्येत्यर्थः । तत्र भावसाधनपक्षे व्याप्तिन्यायाश्रयेणानेकस्यापि शेषः स्यात् । कर्मसाधनपक्षेपि संस्कार्यत्वात् प्राधान्यात्संख्याया अविवक्षा स्यात् । यथा “*ग्रहं संमार्ष्ठी*“ति भवः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-5. “*शेषग्रहणमिति” । स्वरुपणामेकः साधुर्भवतीति वाक्यशेषोध्याहरिष्यत इति भवः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-6. “*आदेषोयमिति षष्ठी स्थानेयोगे"ति नियमात् ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-7. “*तत्र को दोष इति” ।
अन्तरतम एक आदेशः
प्रवर्तिष्यत इति भावः ।
।
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-8. इतरस्तु स्वरे दोषमाह-”*अश्वश्चाश्वश्चेति ॥ द्वयुदात्तवत इति*” । द्वावुदात्तवन्तावश्वशब्दौ यस्य समुदायस्य स द्वयुदात्तवान् समुदायः । आदेशोपि द्वावुदात्तवन्तावुदात्तगुणयुक्तावकारौ यस्येति द्वयुदात्तवानुच्यते । एतच्चोपलक्षणं तेन ह्यनुदात्तस्य ह्यनुदात्त आदेशः प्राप्नोति ॥ “*लोप्यलोपितेति*” । लोपनीयस्य लोपित्वं लोपसंबन्धो न प्राप्नोतीत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-9. “*गार्गा इति” । प्रकृतिरर्थाभेदादेकैव । यञ्प्रत्ययास्तु बहवः । यञाकृतेश्च एकत्वाद् व्यवधानाभावादनेकस्यापि प्रत्ययस्य परत्वं न विरुध्यते । तत्र गर्ग य य य इति स्थिते तदा गर्गशब्दं मुक्त्वा प्रत्ययानामेवैको यशब्द आदेशः क्रिय्तते तदा तस्य बह्वर्थत्वाल्लुक् सिध्यति । यदा तु विरूपाणामपि समानार्थानामेकशेषवदेक आदेअशः सप्रकृतिकः क्रियते तत्र गर्ग य इत्यस्यान्यायोश्च यशब्दयोर्गर्गयशब्द आदेशः । तत्र यशब्दान्तस्य बहुषु वृत्तिः न तु प्रत्ययमात्रस्येति भावः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-10.
“*यञन्तं यद्वहुष्विति” । आदेशपक्षेपि वचनसामर्थ्यात् सारूप्यात् यञ्बुद्ध्युत्पादाद्यञन्तमेतदित्याश्रीयते ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-11.
“*काष्यपा इति” । काश्यप इवायं तत्प्रतिकृतिरि”*तीवे प्रतिकृता*“विति विहितस्य कनो “*जीविकार्थे चापण्य*” इति लुप् । ततः काश्यपश्च काश्यपश्च काश्यपश्चेति प्रतिकृतिपचयविवक्षायामेकः काश्यपशब्दः प्रयुज्यते । स च बह्वार्थोऽञन्तश्चेति लुक्प्रसङ्गः । लौकिकस्य गोत्रस्य तर ग्रहणमिति परिहार उत्तरत्र वक्ष्यते इतीह नोक्तः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-12.
“*पय इति” । उत्तर”*त्रार्थविप्रतिषेधा*“दिति प्रत्याख्यानां करिष्यते ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-13.
“*किमर्थं पुनरिति” । जातिः शब्दार्थः ।
तस्याश्चैकत्वादनेकशब्दोप्रयोगः ।
आश्रयगतसंख्याप्रतिपादनाय च द्विवचनबहुवचने भविष्यत इति प्रश्नः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-14.
द्रव्यं पदार्थ उपलक्षणं त्वाकृतिरिति दर्शने सूत्रमारब्धव्यमित्याह-”*प्रत्यर्थमिति*” । यावन्ति द्रव्याणि विशिष्टगुणकियाविषायतया विवक्षितानि तावतां शब्ध्नामेकैकार्थेपक्षयाणां प्रयोगे प्राप्ते एकशेषारम्भ इत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-15.
“*किमिदमिति” । यदि हेतुरहितं द्दअष्टान्तमाश्रित्य विरूपानेकशब्दप्रयोगदर्शनात्सरूपैकशेष आरभ्यते, तदा सरूपैकशब्दप्रयोगदर्शनाद्विरूपानेकशेषः किमिति नारभ्यत इति प्रश्नः । प्रयोगात्तु शब्द्शक्तावनुगम्यमानायां न किंचिदारब्धव्यम् । द्रव्यपदार्थपक्षेपि स्वभावादेकः शब्दोऽनेकमर्थं ह्यादिवत् प्रत्याययिष्यति । अन्यथा एकशेषारम्भेपि कथं प्रत्यायकः स्यात् । नहि स्वतोऽसती शक्तिराचार्येण कर्तुं शक्यते । मन्दबुद्धिव्युत्पादार्थं न पुनर्विरूपानेकशेषारम्भे ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-16.
लाघवायैकशेषारम्भश्चेत्तन्न । लधीयसी वरूपप्रतिपत्तिः । तत्र हि प्रवृत्तिविषया बुद्धिरेकरूपैव भवति एकशेषे तु प्रवृत्तिनिवृत्तिविषयेति प्रतिपत्तिगौरवप्रसङ्गः ॥ “*अवरतो द्वयोरिति*” । यदा त्रयाणामेकः शिष्यते तदा द्वयोर्निष्टत्तिर्वक्तव्या व्याख्येयेत्यर्थः । शेषशब्दस्य निवृत्तिविशिष्टावस्थानवाचित्वात् । यदा तु द्वयोरेकशेषस्तदैकस्य निवृत्तिः । चतुष्प्रभृतीनां त्वेकशेषे त्रिप्रभृतीनां निवृत्तिरिति प्रवृत्तिनिवृत्तिलक्षाणविषयभेदाद्षुद्धिगौरवापपत्तिरित्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-17.
“*सुकरतरकं चेति” । एवं हि प्रकरणमभिन्नरूपं भवति “*वृद्धो यूने*“त्यादिभिः सूत्रेरेकशेषस्य विधानात् । अनेकशेषारम्भे त्विह पृथक्प्रस्थानतया गौरवं स्यादित्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-18.
“*किं पुनरिति” । किमयमेकशब्दः संख्यावाची तुल्यतावाची वेति प्रश्नः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-19.
“*एवं भवितुमिति” । संख्यावाचित्वेनैकशब्दस्य प्रसिद्धतरत्वात् ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-20.
“नाभावादिति । ङ्यात्प्रातिपदिका"दित्यत्रैकवचनान्तानामेव द्वन्द्वः क्रियते । वर्तिपदार्थानां सर्वत्र संख्याभेदावगमे प्रमाणाभावात् । गुणे च संख्या विवक्ष्यते यथा “*पशुना येजे*“तेति । एवं चैकैकस्मात् प्रातिपदिकात् स्वादिभिरुत्पत्तव्यं न तु समुदायात् । यत्र क्विचिद्गुणेपि संख्या न विवक्ष्यते यथा “*कर्तुरीप्तिततम*“मिति द्वयोर्बहूनां वेप्तिततमस्य कर्मसंज्ञा प्रवर्तते, तत्र नान्तरीयकं
संख्याया उपादानमिति लक्ष्यसिद्ध्यर्थमास्रीयते ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-21.
“*ननु चेति” । अवयवार्थातिरेकेण परस्परापेक्षायां सत्यां समुदायायार्थोपजनात् सरूपसमुदायाभिनिवेशिन्येका प्रातिपदिकसंज्ञास्ति तया सरूपसमुदाय एकं प्रातिपदिकमिति स्वाद्युत्पत्तिरविरूद्धा ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-22.
“*अर्थवत्समुदायानामिति” । अविशेषेणनियमो न तु सुबन्तानामेवेति मन्यते ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-23.
इदानीं तुल्यपर्यायमेकशब्दमाश्रित्याह-”*यदि पुनरिति” ।
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-24.
“*पृथक् सर्वेषामिति” । वृक्षस् इति स्थिते विभक्तौ परतो यानि सरूपाणि तेषाभेकशेष उच्यमाने विभक्तिनिमित्तत्वात् प्रकृतिनिवृत्तेः केवलानां बिभक्तिनिमित्तत्वात् प्रकृतिनिवृत्तेः केवलानां विभक्तीनां प्रयोगप्रसङ्ग इत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-25.
“*संयोगान्तलोपेनेति” । वृक्षस् स् स् इति स्थिते संयोगान्तलोपो भविष्यति ॥ ननु संयोगान्तस्य पदस्य लोप उच्यते तर पूर्वपदं सकारान्तं द्वौ सकारौ पदे इति परत्रयं संपद्यत इति
कुतो लोपः । संयोगान्तलोपस्य चापवादः संयोगादिलोपस्तेन भाव्यम् ।
‘*पूर्वत्रासिद्ध*“मिति वचना’*द्धल्ङ्या*‘दिलोपेनैव भाव्यम् ॥ अत्र व्याचक्षते-संयोगस्य योन्तः सकारस्तस्य लोपः स च ‘*हल्ङ्याब्भ्य*’ इत्यनेनेति ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-26.
“*संयोगादिलोपेनेति” । अत्राप्येकस्य पदस्य संयोगस्यादिर्नास्तीति हल्ङ्यादिलोपमेव संयोगादिलोपं प्रतिपन्नाः । संयोगश्चासौ प्रत्येकं हलां संयोगसंज्ञेति पक्षाश्रये, आदिश्च वृक्षशब्दापेक्षया तस्य लोपो `*हल्ङ्याबि*‘त्यनेनेत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-27.
“*अवरत इति” । स् वृक्षस् इति प्राप्नोति । दुष्टत्वप्रतिपादनपरं चैतत्, न पुनः कदाचित्रायाणां श्रवणप्रतिपादनार्थम् ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-28.
“*द्विवचनबहुवचनयोरिति” । ये स्वभावादेवद्विवचनबहुवचनान्ताः प्रयुज्यन्ते गोदौ दाराः सिकता इत्यादयः तत्र दिवचनबहुवचनेषु परत एकशेषे सति दिवचनबहुवचनानां श्रवणप्रसङ्गः । कृतैकशेषाणां वा पुनरेकशेषे क्रियमाणे दिवचनबहुवचनश्रवणप्रसङ्गः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-29.
“*कश्चिद्वचनलोप इति” । यस्त्वया कश्चिद्वचनलोप उक्तः स परिह्?तः । अथ वा सुपां परिह्?तो न तिङामित्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-30.
“*स्वरसमासान्तेष्विति” । समासे कृते समासान्तोदात्तत्वे च यदि पूर्वशेषस्तदा सर्वानुदात्तत्वं प्राप्नोति । अथ परशेषस्तदाश्वशब्दस्यान्तोदात्तत्वप्रसङ्गः ॥ “*परत्वादिति*” । ननु नाप्रोप्ते समादान्तोदात्तत्वे आर्भ्यमाण एकशेषस्तस्य बाधकः । नैतदस्ति ।
निरवकाशो हि बाधको भवति । कृते च समासान्तोदात्तत्वे एकशेषस्य प्रवर्तनाद्विरोधाबावाच्च नास्त्युत्सर्गापवादभावः ॥ “*ऋक्चेति*” ।
ऋच् ऋच् अ इति स्थिते अन्तर्वर्तिन्या विभक्तेर्लुका लुप्तत्वात् प्रत्ययलख्रणप्रतिषेधान्नास्त्येकविभक्तिपरतेति एकशेषानिमित्तं समुदायाद्विभक्तिरुत्पाद्या । तस्यां च नास्ति सारूप्यम् । एको हि ऋक्शब्दः अपर ऋचशब्दः । समासान्तः समासस्यैवावयवो
नोत्तरपदस्येति चेतर्हितेनैव व्यवधानात् समासविभक्तेरेकशेषो नस्याते ।
समासार्थस्योत्तरपदस्यान्ताः समासान्ता इत्यपि भाष्यकारस्य मतमिति ऋगृचशब्दयोर्वेरूप्यमास्रित्य भाष्यकृता दोष उद्भ?इतः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-31.
“*अङ्गाश्रये चेति” । सशब्दादनङ्गाश्रयेपि । यथा नौश्च नावौ चेति ॥ “*स्वसा च स्वसारौ चेति*” । किमर्थमेकमेकवचनान्तम्, द्वितीयं तु द्विवचनान्तमिति चेत् सर्वथा वैरूप्यप्रतिपादनाय तथा हि । यद्यन्तर्विर्तिन्यां विभक्तौ लुप्तायामपि वचनसामर्थ्यात् प्रत्ययलक्षाणमाश्रीयते तदात्र वैरूप्यम् । अथापि समासविभक्तियैव विबक्तिपरत्वं तथापि वैरूप्यम् ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-32.
“*तिङ्समास इति” । समास एकशेषे विधीयमाने तिङ्समासेप्येकशेषो वक्त्व्यः ॥ स च तिङ्समासो वक्तव्य इत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-33.
“*एकमिति” । विनापि तेनार्थस्यावगमात् ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-34.
“*प्रकृत इति” । `*आख्यातमाख्यातेने*‘त्यत्र `*द्वन्द्वश्च सरूपाणा*‘मिति वक्तव्यम् ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-35.
“*यदि पुनरिति” । दोषान्तराभिधानाय पुनरूपन्यासः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-36.
“*तदर्थमिति” । पूर्वं दोषमात्रमुपन्यस्तं केवलाया विभक्तेः श्रवणं प्राप्नोतीति । इदानीं तु तत्प्रतिविधानाय वचने क्रियमाणे गौरवमापद्यत इत्येतत्प्रतिपाद्यते ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-37.
“*तिङन्तान्यावकाश इति” । कारकभेदात् क्रियाभेदादनेकतिङन्तप्रसङ्गे एकशेषो विधेयः ।
ततश्च परत्वात्सरूपाणामेकशेषं बाधित्वा द्वन्द्वः प्राप्नोति ।
`*सकृद्गतौविप्रतिषेध*’ इति पुनरेकशेषौ न प्राप्नोति । सत्यपि वा `*पुनः-प्रसङ्गविज्ञाने*’ स्वरसमासान्तेषु दोष एव ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-38.
“*यदि पुनरिति” । सप्तमीनिर्देशे प्रकृतिमात्रनिवृत्तौ प्रत्ययश्रवणप्रसङ्गः । षष्टीनिर्देशे तु विभक्तयन्तानां निवृत्त्या भाव्यमिति नास्ति केवलविभक्तिश्रवणप्रसङ्गः ॥ “*कश्चिदिएइ” । शिष्यमाणस्य त्वेकवचनश्रवणप्रसङ्ग एव ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-39.
“*एकविभक्त्यन्तानामिति” । सप्तमीनिर्देशमपास्य षष्ठीनिर्देषः कर्तव्य इत्यर्थः ॥ “*किं प्रयोजनमिति*” । एकग्रहणस्य प्रयोजनपश्नः । षष्टीनिर्देशस्य तु प्रयोजनमुक्तमेव कश्चिद्वचनलोपः परिह्?त इति ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-40.
“*न वेति” । एकविभक्त्यन्तानामिति न वक्तव्यमेव प्रयोजनाभावात् । ततश्चानुत्पन्नायामेव विभक्तौ प्रातिपदिकानामेकशेषे कृते शिष्यमाणस्य निवर्तमानार्थाभिधानाद् द्विवचनबहुवचनसिध्धिः ॥ “*विप्रतिषिद्धाविति*” । चतुर्थम्तसुअ शेषे ब्राह्मणेभ्य इत्युक्ते च कर्तृत्वं न प्रतीयते । तृतीयान्तस्य शेषे ब्राह्मणैरित्युक्ते संप्रदानत्वं न गम्यते । यश्चशब्दोऽनेकार्थप्रत्यायनाय प्रभवति स शिष्यते नान्यः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-41.
“*अयं तर्हिति” । एकविभक्त्यन्तानामिति क्रियमाणे प्रत्युत दोषः ॥ “*कश्चिदिति” । शिष्यमाणस्यैकवचनस्य लोपो वक्तव्यः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-42.
“*यदि पुनरिति” । एकविभक्ताविति न कियते `*ह्रस्वो नपुंसक*’ इत्यतः प्रातिपदिकग्रहणमनुवर्त्यानुत्पन्नायामेव विभक्तौ सरूपाणां प्रातिपदिकानामेकशेषः क्रियते ॥ तिङन्तेषु कथम् ? । उच्यते लावस्थायामेव पच् ल पच् ल इति स्थिते कृदन्तत्वात् प्रातिपदिकत्वे सत्येकशेषाः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-43.
“*मातृमात्रोरिति” । कथमयं निर्देशः यावतैकशेषेण भाव्यम् । एकशेषे सति विवक्षितार्थानवगमात् तदभावः । अयं ह्यत्रार्थे विवक्षितः जननीवाचिनः परिच्छेतृवाचिनश्च मातृशब्दस्यैकशेषप्रतिषेधो वक्तव्य इति । एष चार्थो मात्रोरित्युक्ते न गम्यते ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-44.
“*अथ मतमेतदिति” । अर्थविप्रतिषेधादत्रैकशेषे न भवति । कृते ह्येकशेषे ताभिरित्यनुप्रयोगे
पुमर्थे न प्रतीयते, तैरिति चोक्ते स्त्र्यर्थानवगतिः । अभ्युपगम्यवादेन त्वेतदुच्यते विभक्त्यन्तानां सारूप्य इति । प्रातिपदिकावस्थायां सर्वदा सारूप्यात् सर्वत्रैकशेषः स्यात् विभक्त्यन्तानां तु सरूपाणामेकशेषे यत्रैव तृतीयादौ विभक्तौ सारूप्यं तत्रैवैकशेषो न प्रथमाद्वितीययोरित्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-45.
“*हरितेति” । एषां प्रातिपदिकावस्थायां वैरूप्यमित्येकशेषो न प्राप्नोति विभक्तौ तु सारूप्यसद्भावात् सिद्ध्यत्येकशेषः ॥ “*हरितस्य स्त्रीति*” । नानेन पुंयोगः प्रतिपाद्यते तत्र हि ङीषा भाव्यं हरितीति । किं तर्हि ? अयमर्थः हरितशब्दस्य हरिणी सा च स्त्री ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-46.
“*न वेति” । प्रातिपदिकग्रहणं विच्छिन्नत्वादिह नानुवर्तते । सारूप्यं चेहाश्रीयते । न च प्रातिपदिकानि लोके प्रयुज्यन्ते । किं तर्हि ? पदान्येव शास्रोपि प्रकृत्याद्युपदेशेनानुमेयत्वात्प्रातिपदिकानां प्रयोगाभावः । तेन पदावस्थायां मातृमातार इति वैरूप्यादेकशेषाभावः । हरिण्यावित्यादौ तु भवतीति दोषप्रतिविधानं कृतम् ।
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-47.
“*अपर आहेति” । पक्षायम्भवप्रतिपादनार्थमिदमुक्तमित्यर्थः ।
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-48.
“*इदानीं भार्यकार एनं पक्षं समर्थयेतुमाह-”*अथानेनेति*” ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-49.
“*विभक्तिः सारूप्येणेति” । एकविभक्तिर्नैकशेषनिमित्तत्वेनेहोपात्ता, किं तर्हि ? सारूप्योपलक्षनार्था, एकविभक्तौ लौकिके प्रयोगे यानि सरूपाणि दृष्टानि तेषामेकशेषः । स चानैमित्तिकत्वाद्विभक्ति नापेक्षते ॥ भाष्ये प्रातिपदिकग्रहणस्योपलक्षाणार्थत्वाद् ङ्याबन्तादिनामपि हरिण्यादीनामेकशेषो भवति । `*स्वरभिन्नाना*‘मिति वचनान्ङीबन्तस्य हरिणीशब्दस्य सेषः ॥ ये त्वाहुर्हरितहरिणयोरेवैकशेषे कृते उभयवाचित्वेप्यन्यतरस्य वर्णवाचित्वं जातिवाचित्वं बाश्रित्य स्त्रीप्रत्ययः कियत इति । तेषां पक्षे स्वरभेदप्रसङ्गः । मातृमात्रोस्तु क्वचित्सारूप्येप्यर्थविप्रतिषेधादेकशेषाभावः ॥ “*यत्र वेति*” । अनेनानैमित्तिकत्वमेव प्रतिपाद्यते ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-50.
“*विभाग इति” । कर्मादिकारकमिह विभक्तिशब्देनोच्यते । तेन हि प्रातिपदिकार्थे विभागेनावस्थाप्यते । तत्रैकस्मिश्चित करके विवक्षिते तन्निमित्तया विभक्तया माव्यमित्येकविभक्त्यन्तानां सरूपाणामेकशेषः सिध्यति ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-51.
“*कश्चिदिति” । अवस्थितस वचनस्य लोपो वक्तव्यः । तस्मिन्नपि कृते प्रत्ययलक्षणेन प्रत्ययान्तत्वात् प्रातिपदिकसंज्ञाया अभावाद् द्विवचनबहुवचने न सिध्यत इति ते अपि वक्तव्ये । `*न ङिसंबुद्ध्यो*‘रिति तु ज्ञापकं नलोपविषयमेव । अथाप्यविशेषेण लुप्तप्रत्ययस्य प्रातिपदिकसंज्ञायां ज्ञापकम् । एवमप्येकार्थत्वाच्छिष्यमाणस्य द्विवचनबहुवचनासिद्धरेव ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-52.
“*सहविवक्षायामिति” । एवं चैकैकस्यानेकार्थाभिधानाद् द्विवचनबहुवचनान्तानामेवैकशेषाः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-53.
“*न तर्हिति” । नित्येनैकशेषेण भवितव्यमिति वाक्यं न प्राप्नोतीत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-54.
इतरो भिन्नार्थवाद् एकशेषवृत्त्या वाक्यं न बाध्यत इत्याह्-”*नैतदिति*” । प्रत्येकमत्र विवक्षेत्यर्थघ् । बालस्तु प्रक्रियावाक्येनैव व्युत्पाद्यन्त इत्याह-”*अथापीति*” ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-55.
“*यथाजातीयकानामिति” । द्रव्यवाचिनामित्यर्थः ॥ “*एकाहीति*” । आख्यातवाच्या क्रिया सर्वैव निवृत्तभेदा प्रतीयते । भविद्भारास्यत इत्यादौ वस्तुस्थित्या कर्तृभेदाद् भेदेपि तिङन्ताद् भेदस्यानवगमात् । प्रकर्षाभ्यावृत्त्यादयस्तु भेदनिबन्धना आश्रयप्रकर्षाभ्यावृत्त्यादिभेदनिमित्ता नैकत्वं क्रियाया विद्नन्ति ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-56.
“*नैतानीति” । कर्तृकर्मसमवेतसंख्याभिधायनी द्विवचनबहुवचने इत्यर्थः ॥ ननु कर्तृकर्मणओर्लविधानादनेकस्मिन् कारके अनेकेनैव लकारेणोत्प्रत्तव्यम् । भवत्वनेको लकारः लकारजाते र्व्यवधानात् ॥
`*लस्ये*‘त्यत्र लजात्याश्रयणादनेकस्यापि लस्य स्थाने अर्थत आन्तर्याद् द्विवचनबहुवचने भविष्यत इत्यदोषः
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-58.
“*तुल्यजातीयस्येति” । अवयवानां समुदायार्थतन्त्रत्वात्समुदायविभक्त्यैव्
आवयवार्थस्य संख्यावगमात् पृथगवयवेभ्यो विभक्तिर्नेत्पद्यते ॥
विरूपसमुदाये तु सुबन्तानां द्वन्द्ववचनेनायं न्यायो बाध्यते इत्यवयवेभ्य एव विभक्त्युत्पत्तिः ॥ “*सुबन्तानामिति*” । यद्यपि `*गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्ते-*`रित्युच्यते तथापि पूर्वपदं तत्र तत्र सुबन्तमेवेति सोपि तदपेक्षया सुबन्तानामेव समासः । अन्यथा नलोपादीनि पदकार्याणि पूर्वपदे न स्युः । उत्तरपदभेव तु तत्रासुबन्तम् ॥ इह राजन् राजन् औ इति स्थिते परत्वान्नित्यत्वाच्चोपधाया दीर्घे कृते वैरूप्यादेकशेषो न प्राप्नोति ॥
उच्यते-`*विरूपाणामपि समानार्थाना*‘मिति भविष्यति अन्तरङ्गत्वाद्वा ।
दीर्घत्वं हि नान्तरङ्गम् । उपधां विभक्तिविशेषमसंबुद्धिसर्वनामस्थानमपिक्षत इति बहिरङ्गम् ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-59.
“*सर्वत्रेति” । षट्पक्षा इहोपक्षिप्ताः पृथग्विभक्तौ परत एकशेषः, एकवचनान्तानां वा, समासाद्वैकस्यां विभक्तौ परतः, सरूपसमुदायाद्वा विहितायामेकविभक्तौ परतः, प्रातिपदिकानां वा, सहविवक्षायां वा प्रत्येकं द्विवचनबहुवचनान्तानामिति । तत्र पश्चिमं पक्षत्रयमङ्गीकृतम् । तत्र भिक्षा भिक्षा भिक्षा आम् अ इति स्थिते सर्वविधिभ्यो लुग्विधेर्बलवत्त्वाद् लुकि कृते विभक्त्यभावादेकविभक्तौ परतो विधीयमान् एकशेषो न प्राप्नोति, प्रत्ययलक्षणं च नास्ति `*न लुमताङ्गस्ये*‘ति प्रतिषेधात् ।
प्रतिपदिकैकशेषपक्षे समर्थं यद् ङ्यात्प्रातिपदिकं तस्मात्तद्धिता इत्याबन्तादणि कृते परत्वादादिवृद्धौ कृतायां वैरूप्यादेकशेषाप्रसङ्गः ।
यदा तु सहविवक्षायां विभक्त्यन्तानामेकशेषः सुबन्ताच्च तद्धित
इत्ययं पक्षस्तदा सुबन्तसमुदायात्तद्विताभावात्पूर्वमेकशेषः पश्चात्तद्धित इति न कश्चिदृओरः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-59.
“*प्रातिपदिकानां चेति” । अनैमित्तिकत्वादन्तरङ्गत्वात् पूर्वमेकशेषः पश्चाद्?द्धिः । अथ वा तद्धित एव पश्छादुत्पद्यत इति भवः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-60.
“*बहवश्च यञ इति” । प्रत्यर्थं शब्दनिवेशाद् बहुष्वपत्येषु बहवो यञ उत्पाद्याः । तत्र गर्ग य य य इति स्थिते समुदायस्य तद्धितान्तत्वात् प्रातिपदिकत्वात्तत एका विभक्तिस्तत्र प्रथमस्य यशब्दस्य प्रकृतिसन्निपातकृतं वैरूप्यमित्येकेशेषो न प्राप्नोति ॥ ननु प्रकृति विहाय यशब्दानां सारूप्या देकशेषो विधास्यते । नैतदस्ति । विभक्त्युत्पत्तावभ्यन्तरीकृताप्रकृतिर्विभक्तिलक्षितसारूप्याश्रये एकशेषे कथं हातुं शक्यते । न च यञां प्रकृत्यर्थानपेक्षः समुदायार्थः तत्कथं प्रकृतिर्वर्ज्येत । यदापि सहविवक्षायां विवक्षायां विभत्तयन्तानामेकशेष इति पक्षः तदा गर्ग य अस् य अस् य अस् इति स्थिते पूर्वस्य य अस्शब्दस्यप्रकृतिसन्निपाताद्वैरूप्यम्, प्रातिपदिकैकशेषपक्षेपि तथैव वैरूप्यमित्येकशेषो न प्राप्नोति ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-61.
“*एवं प्रकृतयोपीति” । एकैकस्यापत्यस्य प्रकृत्यर्थेन य्होगात् प्रधानभेदे च गुणाभ्यावृत्त्या गार्ग्यशब्दानामेवैकशेषः क्रियत इत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-62.
“*अञ् यो बहुष्विति” । य्दा यञामेवैकशेषाः क्रियते, तदा शिष्यमाणो यशब्दो बहुषु वर्तत इति लुक् सिध्यति । गार्ग्यशब्दानां त्वेकशेषे यशब्दो बहुषु न वर्तते किं तर्हि, यशब्दान्त इति लुङ् न सिध्यति ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-63.
“*अञन्तं यदिति” । तेनैव चेत् कृतं बहुत्वमित्यपि तदनेनेति व्याख्यायते ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-64.
“*काश्यपा इति” । एकस्मिन् कश्यपापत्येऽविकृते तत्प्रतिकृतिबहुत्वे काश्यपशब्दानामेकशेषे कृते अञन्तं बहुषु वर्तत इति लुक्प्रसङ्गः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-65.
“*लौकिकस्येति” । अपत्यस्येत्यर्थः ॥ “*न चैतदिति*” । प्रतिकृतिवृत्तित्वान्नैतदञन्तमपत्यवाचि ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-66.
“*एका प्रकृतिरिति” । प्रकृत्यर्थस्यैकत्वात् तेन च बहूनामप्यपत्यानां सम्बन्धसम्भवात् ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-67.
“*सिद्धं त्विति” । सत्यपि प्रकृतिसन्निपातकृते एकस्य वैरूप्ये सर्वेषां प्रकृत्यर्थविशिष्टापत्याभिधायित्वात् समानार्थत्वमस्ति ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-68.
“*वञ्दण्डश्च कुटिलदण्डश्चेति " । द्वन्द्वनिवृत्त्यर्थमेतद्वक्तव्यं तेनैवाञ्यो बहुष्वित्यपिपक्षे आश्रीयमाणे इष्टं सिध्यति । यदा त्वञन्तं यद्बहुष्वित्याश्रीयते तदाऽव्यविकन्यायाश्रयणात् वकदण्डश्च कुटिलदण्डश्चेति वाक्यमेव भवति, न तु द्वन्द्व इति न वक्त्यव्यो विरूपाणामेकार्थानामेकशेषः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-69.
“*स्वरभिन्नानामिति” । स्वरेण भिन्नानामित्यर्थः ॥ “*अक्षश्चेति*” । एकोक्षशब्दोऽ`*सेर्देवन*’ इति सप्रत्ययान्तत्वादन्तोदात्तः, द्वितीयस्तु घञन्तत्वादाद्युदात्तः, परस्तु मीमांसामधीते इति `*ऋमादिभ्यो वुन्नि*‘त्याद्युदात्तस्तस्य शेषः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-70.
“*एकश्चेति” । द्वन्द्वोप्यत्रानभिधानान्न भवति ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-71.
“*अर्थासंप्रत्ययादिति” । यत्रैकः शब्देनेकमर्थमभिधातुं शक्नोति तत्रैकशेषो नान्यत्र । प्रयुक्थानामन्वाख्यानाद् । एकाविति चोक्तेऽसहायादिरर्थो गम्यते न तु द्वावित्यर्थः ॥ “*अन्यपदार्थत्वाच्चेति*” । असंदिग्धेन पदान्तरेणायमर्थः प्रत्याप्यत इत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-72.
“*गार्ग्याविति” । गार्ग्यश्च गार्ग्यश्चेत्यस्याप्यर्थस्य संभवात् संदेहादर्थासंप्रत्ययः । उत्तरकालं तु प्रकरणादिवशात् संदेहादर्थासंप्रत्ययः । उत्तरकालं तु प्रकरणादिवशात् संदेहनिवृत्तिः ।
ननु
`*वृद्धो यूने*‘ति वचनात् संदेहेप्येकशेषाः स्यात् अस्य तु निः संदेहविषयसंभवात्कथं संदिग्धविषये प्रवृत्तिः ॥ नैतदस्ति अक्षादिष्वपि संदेहविषयेष्वस्य प्रवृत्तिदर्शनात् ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-73.
“*एवं तर्हिति” । अर्थासम्प्रत्यये सत्यन्यपदार्थत्वादित्ययं हेत्वर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-74.
“*यदितर्हिति” । प्रत्यर्थं शब्दनिवेशादेकशेषे सति एकस्यानेकार्थत्वं सम्भवति । यदा तु समुदायवाचित्वं ह्यादीनामभ्युपगम्यते तदा वनादिवदेकवचनप्रसङ्गः ॥ यत्तु वनानीति बहुवचनं तत्समुदायप्रचयविवक्षाया न त्ववयवभेदविवक्षायाम् ॥ “*समुदाया इति*” समुदायवाचिन इत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-75.
“*किं कृतमिति” । एकश्चैकस्छेति विग्रहे कथां द्विशब्दः प्रवर्तत इति प्रश्नः ॥ “*अन्योन्यकृतमिति*” परस्परापेक्षया द्वित्वोत्पत्तौ सत्यां प्रक्रियावाक्यमिदं भवति द्वौ च द्वौ चेति । तत्रैको द्विशब्दः शिष्यते ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-76.
“*मातेति” । यथा सुतजन्मनः प्रागलब्धमातृव्यपदेशं स्त्री पश्चाल्लभते, एवं संख्येयान्तरापेक्षायां सत्यां पूर्वमप्रवृत्तो द्विशब्दः पश्चात्प्रवर्तत इत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-77.
“*अपायेष्वपीति” । पुत्रविनाशेपि पितृव्यपदेशो न निवर्तते, पुतृविनाशे पुत्राव्यपदेशः । चतुर्णां त्वेकापायेनास्ति चतुःशब्दस्य प्रवृत्तिः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-78.
“*अन्यदिदानीमिति” । अवश्यं साधर्म्ये सदि वैधर्मेण भाव्यम् ।
अन्यथा तत्त्वमेव स्याद् न तु साधर्म्यम् । तत्र वैधर्म्याद्भावने न कश्चिदपि हेतुः स्यादित्यर्थः ॥ मात्रादयश्च शब्दाः सम्बन्ध्यन्तरापेक्षयैकस्मिन्नाश्रये वर्तन्त इति सम्बन्ध्यन्तरविनाशेपि आस्रयसद्भावाद्युक्तंयत्प्रवर्तन्ते । द्वयादयस्तु समुदायनिवेशिन एकापाये तत्समुदायाभावात्कथं प्रवर्तेरन् ॥ “*एतश्च वार्तमिति*” ।
एतद्युक्तम्-यदाश्रयसन्निधानादेकापायेपि मात्रादयस्तदपेक्षाः प्रवर्तन्त इत्यर्थः ॥ इदानीमेतद्वैधर्म्यरहितं द्वितीयं वक्ति “*एकैक इति*” ॥
यथोद्यान्तणां परस्परसन्निधिकृतं कतृत्वमेकैकापायेच निवर्तते तथा ह्यादिव्यपदेशोपीत्यर्थः ॥ “*कथं तत्रेति*” । न्याप्यमित्यध्याहारः ॥ “*एकैक इति*” परस्परनिरपेक्षमित्यर्थः ॥ “*कारनमुद्यमनं चेदिति*” । कर्तृत्वप्रतीतावित्यर्थः ॥
कार्यकल्पितत्वाच्छक्तीनामेवमुक्तम् ॥ “*तत्तुल्यमिति*” ।
तेनोद्यन्त्रा तुल्यं द्वितीयमुद्यन्तारमन्तरेणत्यर्थः ॥ अथवा “*तत्तुल्यमिति*” । ह्यादिशब्देष्वप्येतत्तुल्यमित्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-79.
“*प्रथमेति” । एकस्मिन् पुरुषे क्रियाया एकत्वान्नास्त्येकशेषः, पुरुषभेदेन तु प्रत्य?परा?दिभेदे विरोधात् क्रियाया अनेकत्वादेकशेषो वक्तव्यः । कृते चैकशेषे प्रकरणादिवशादर्थविशेषावसायः ॥ यदा तु युष्मदस्मदी एवानेकार्थाभिधानसमर्थे इति पक्षः । अत्रापि च निवृत्तभेदाया एव क्रियाया आख्यातेनाभिधानं तदैकशेषो न वक्तव्यः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-80.
“*द्विवचनेति” । प्रत्यर्थं शब्दनिवेशे एकैकः शब्दः एकैकार्थाभिधायीति सहविवक्षायां निवृत्तेषु शब्दान्तरेषु शिष्यमाणेन शब्देन स्वस्मिन्नेवैकत्रार्थे अवस्थेयमिति भावः । सर्वेषु पक्षेष्वयं दोषः प्रातिपदिकैकशेषे द्विवचनबहुवनानुत्प्रत्तिप्रसङ्गः विभक्त्यन्तानां विभक्तौ वा परत एकशेषेऽर्थाभावाद् द्विवचनबहुवचनयोर्निवृत्तिप्रसङ्गः । अथ स्वभावतः शिष्यमाणोऽनेकार्थः किमेकशेषेण ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-81.
“*वाचनिकी वेति” । यद्यपि सर्वेम स्वाभाविकं तथापि यत्र प्रयोगविप्रयोगौ दृश्येते तत्र विप्रयोगनिवारणाय यदुच्यते तद्वाचनिकमभिधीयते ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-82.
“*स च द्वयर्थइति” ‘सरूपाणामेकशेषोनेकार्थश्चैकविभक्तौ’ इति वक्तव्यमित्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-83.
“*सिद्धमिति” । एकशेषारम्भसामर्थादयमर्थो गम्यते शिष्यमाणः शब्दोनेकार्थाभिधायीति । एकेन ह्यनेकार्थाभिधानायैकशेषः क्रियते ।
एकार्थाभिधाने त्वनेकशब्दप्रसङ्गादनर्थक एकसेषः
स्यादित्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-84.
इतर एतत्सामर्थ्यमजानन्नाह-”*कथमिति” ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-85.
“*तच्चैकशेषकृतमिति” । एकशेषविधानेनैतत्प्रतिपादितमित्यर्थः ॥ “*लोपकृतमिति*” । लोपद्वारेणैतत्संगृहीतमित्यर्थः ॥ “*अनेनेति*” । एकशेषविधनेन ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-86.
“*उच्येतेति” । वचनादनेकार्थकार्याणि प्रवर्तन्तां यथा `*जात्याख्यायामेकस्मि*‘न्निति, न त्वेकार्थः शब्द एकसेषविधानेनानेकार्थः संपद्यत इत्यर्थः ॥ “*गामश्व इति*” । अश्वधर्मसमारोपः केवलं प्रतीयते, न तु तात्त्विकमश्वत्वमित्यर्थः ॥ “*यदि तर्हिति*” । यदि च लोकः प्रमाणमित्यर्थः ॥ `*उच्यते तर्हि*‘त्यतः प्रभृति सर्वो ग्रन्थ एकशेषप्रत्याख्यानवादिनः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-87.
“*तदपि प्रत्यर्थमेवेति” । अर्थो ह्यभिधेयमुच्यते यश्च ह्यर्थः शब्दो नासौ ह्यर्थतां जहाति बह्वर्थश्च बह्वर्थतां रोदसी दारा इति यथेत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-88.
“*यावतामिति” । वृक्षश्च वृक्षश्चेति दर्शनादनारब्ध एकसेषे अनेकार्थतैकस्य न स्यात् ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-89.
“*एकेनापीति” । सहविवक्षायामेक एव शब्द उद्भतावयवभेदं समुदायमभिधत्त इत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-90.
“*प्लक्षन्यग्रोधाविति” । अत्रापि सहविवक्षायां समुदायार्थप्रादुर्भावादेकेनैव समुदायस्य प्रतिपादनाद् द्वितीयस्य प्रयोगो न प्राप्नोतीत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-91.
“*अनुत्तत्वादिति” । प्लक्षावित्युक्ते प्लक्षस्य प्लक्षान्तरेण सहत्वं गम्यते न तु न्यग्रोधेनेत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-92.
“*उभयदर्शनाच्चेति” । सरूपस्य विरूपस्य चैकस्यानेकार्थाभिधायित्वदर्शनादित्यर्थः ॥ “*द्यावेति*” । द्योशब्देन ध्यावापृथिव्योरभिधानात् ततः परस्यौकारस्य `*सुपां सुलुगि*‘त्याकारः, `*गोतो णिदि*‘त्योकारान्तग्रहणाण्णित्वाद्?द्विरावादेशश्च ॥ “*पृथिवी इति*” द्विवचनान्तं । `*वा छन्दसी*‘ति पूर्वसवर्णदीर्घः ॥ पृथिवीशब्देनात्र दिवस्प्ठ्थिव्योरभिधानम् ॥ “*विरूपाणामिति*” । प्रकरणादिवशाद्यत्रार्थाविशेषावसायस्तत्र प्रवृत्तिनिमित्तभेदेपि विरूपोऽनेकार्थाभिधायी दृश्यते, तत्र सरूपः कथं न स्याद्यत्रैकं प्रवृत्तिनिमित्तमित्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-93.
तदेवं द्र्वव्याभिधानपक्षेपि प्रत्याख्यात एकशेषः । अनेकर्थप्रक्रमे अनेकार्थ एव एव वृक्षशब्दः प्रयुज्यते । न तु द्वन्द्वः अनभिधानात् ॥ इदानीमाकृतिपक्षाश्रयेण प्रत्याख्यानं करोति-”*आकृत्यभिधानादिति*” । जातिः शब्दार्थः तस्याः एकत्वादनेकशब्दप्रयोगप्रसङ्ग एव नास्ति किमिकशेषेणेत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-94.
“*कथं पुनरिति” । द्रव्यातिरेकेणाकृतेरनुपलम्भादभावं मन्यमानस्य प्रश्नः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-95.
“*प्रख्याविशेषादिति” । प्रख्या बुद्धिः तस्या अविशेषादेकरूपत्वात् तद्विषयस्याप्यैक्यं प्रतीयते । गुणप्रमाणादिभिन्नेष्वपि गोपिण्डेषु गौगौरित्येकाकारप्रत्ययोदयादवश्यमेकेनालम्बनेन सामान्येन भाव्यमिति जातिसद्भाव एकत्वं चावसीयते ॥ “*गौरित्युक्तइति*” । गौरित्येतेन शब्देनोक्ते प्रत्यायिते सामान्यलक्षणेर्थे विशेषानवधारणादैक्यं सामान्यस्यावसीयत इत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-96.
“*कुतसेवेतदिति” । भवतु सामान्यमेकं तस्य तु बाहदोहादिकायामर्थक्रियायामयोग्यत्वाद्,
द्रव्यस्यैव योग्यत्वाद् अभिधानं न्याप्यमिति मत्वा प्रश्नः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-97.
“*अव्यपवर्गगतेश्चेति” । अव्ययपवर्गोऽभेदः अविच्छेदः अविशेषस्तस्य गतिः प्रतीतिरित्यर्थः । जातौ चाभिधीयमानायां द्रव्यद्वारका वाहदोहादय उपपद्यन्ते, जातितद्वतोश्राभेदोपचाराद् गौः शुक्ल इति सामानाधिकरण्यादिव्यवहारोप्युपपद्यते ॥ अथ `*प्रख्याधिशेषाद्रव्यपवर्गगतेश्चे*‘ति किमर्थमुभयोरूपादानम् । एकेनापि हेतुनैकत्वाभिधानयोः सिद्धत्वात् ॥ नैष दोषः । अनभिधीयमानापि जातिः संनिधिमात्रेण प्रख्याऽविशेषे निमित्तं भवतीति प्रख्याऽविशेषण प्रत्यभिज्ञाप्रत्ययरूपेणौकत्वेमेव प्रतिपादितं नाभिधानम् । तथा वनमिति सर्वविशेषाभ्यन्तरीकरणेनाव्यपवर्गगतावपि प्रख्याया अविशेषो नास्ति भिन्नवृक्षालम्बनत्वाद्वनमिति प्रत्ययस्य ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-98.
“*एकोपदिष्टमिति” । एकस्मिन्नुपदिष्टं ‘गौरव्यं त्वया पदा न र्प्रष्टव्य’ इत्यादि वस्तु । अथ वैकमुपदिष्टं यस्य तदेकोपदिष्टं सकृदुपदिष्टं गोत्वादि सर्वत्र ज्ञायत इत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-99.
“*उपोद्वलकमिति” । उद्गतं बलं प्रत्यक्षं तत्पूर्वकत्वादनुमानस्य उद्बलस्य समीपमनुमानमित्यर्थः । `*प्रख्याविशेषा*‘दित्यनेन प्रत्यक्षं जात्यालम्बनं प्रमाणमुपन्यस्तम् । ततो विप्रतिपन्नप्रतिपादनायानुमानमिति जातिसद्भावे `*ज्ञायते चैकोपदिष्ट*‘मित्यनेनोक्तम्, देशकालावस्थापिण्डान्तरेष्वबाधितप्रत्यभिज्ञाप्रत्ययोदयान्यथानुपपत्त्या सामान्यसद्भावोनिमीयते इत्यर्थः । अथ वा बलमुदृईपयत्युपोद्बलकमुपबृहकमुच्यते ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-100.
“*धर्मशास्त्रं च तथेति” । अनेनैतदृर्शयति । न सादृश्यैकार्थक्रियाकारित्वादिनिमित्ता भ्रान्ता प्रत्ययभिज्ञा सर्वत्रेति ग्राह्यम्, किं तर्हि ? अभिन्नविषयनिमित्ता स्मृतिकारणामप्यविगीतप्रमाणभावस्मृतोपनइबद्धवचनानां जात्याश्रयेण सर्वव्यवहारप्रवर्तनादित्यर्थः ॥ “*एकं ब्राह्मणमिति*” । एकस्यैव द्रव्यस्य ब्राह्मणशब्दवाच्यत्वादिति भवः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-101.
“*तस्येति” । अव्यपवर्गगतिरभ्रान्ता स्मृतिकाराणामपि तथैव व्यवहारदर्शनादित्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-102.
नन्वेकमनेकस्थं कथं भवति नहि देवदत्तो युगपन्मथुरायां स्त्रुग्ध्ने च भवतीत्यत आह-”*अस्ति चेति*” ॥ अवयवी यद्यप्यनेकावयवस्थः तथापि तद्भावे विवादान्नासौदृष्टान्तत्वेनोपात्तः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-103.
“*इतीन्द्रवद्विषय इति” । एकस्याप्यनेक इति वाक्यशेषः । शब्दप्रादुर्भावेव्ययीभावे कृते वतिः प्रत्ययः ॥ “*सर्वत्रेति*” । सर्वेषु यागेषु द्रव्यवदङ्गतां प्रतिपद्यत इत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-104.
“*एकशेषेपीति” । यद्येकस्यानेकसंबन्धो नाभ्युपगम्यते तदैकः शब्दोऽनेकर्थं संबन्धाभावान्न प्रत्याययेदित्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-105.
उत्तमेवार्थं समर्थयितुमाह-”*द्रव्याभिधाने हीति*” । श्रुतिस्मृतिविहितानां सर्वव्यवहाराणामप्रवृत्तिः स्यादित्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-106.
“*ननु चेति” । सर्वविषया चेदाकृतिश्चोद्यते तदा सर्वव्यक्तिविषयमनुष्ठानं विना वैगुण्यमेव
स्यादित्यर्थः ॥ अथानुष्ठानसिद्ध्यर्थमेकद्रव्यविषयमेव कर्म क्रियते तत्राप्युच्यते-”*एकाकृतिरिति चेति*” । चशब्दस्तुशब्दस्यार्थे, वक्ष्यमाणार्थापेक्षया समुच्चये वा ॥ “*स चेदानीमिति*” । एकत्वे जातेरेकशब्दप्रवृत्तेः सिद्धत्वादेकशेषारम्भः प्रत्याख्यायते । अनेकत्वे त्वारब्धव्य एवैकशेष इत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-107.
“*एवं तर्हिति” । सर्विभिर्व्यक्तिभिः संबन्धस्य तुल्यत्वात् सर्वत्रैवाभिन्नवुद्ध्युपादानात् प्रत्येकं परिहमाप्तत्वादेकस्मिन्नपि द्रव्ये तत्कर्म क्रियमाणां चातौ कृतमेव भवतीत्यर्थः ॥ “*यथादित्य इति*” । प्रतिदेशं यथा सर्वात्मनादित्य उपलभ्यते तथा जातिरपीत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-108.
“*ननु चेति” । द्रव्येपि पदार्थे जातेरनभिधेयाया उपलक्षणत्वेनाश्रयुअणात्परित्यक्तभेदं द्रव्यमात्रं विशिष्टजातियुक्तं शब्देनोच्यते ॥ `*प्रत्येकं च परिसमाप्यत*’ इति । शास्त्रमित्यध्याहारः । अथ वा जातिरूपलक्षणभूता प्रत्येकं परिसमाप्यतइति व्यख्येयम् ॥ “*एकशेषास्त्वयेति*” । जात्युपलक्षितस्य द्रव्यस्य शब्देनाभिधाने सत्यभिधेयानेकत्वेनाऽनेकशब्दत्वप्रसङ्गादित्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-109.
“*त्वयापीति” । जातेरेकत्वाद् द्वित्वबहुत्वनिबन्धनानि द्विवचनबहुवचनानि न सिध्यन्तीति भवः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-110.
एवं भाष्यकारेण पक्षयोः साम्यं दर्शितम् । वाक्यकारस्तु जातिपक्षाश्रयणस्य प्रयोजनानि समुच्चयेनाचष्टे-”*चोदनायां चैकस्येति*” ।
सामान्यस्याग्रेयादेः ॥ “*उपाधिवृत्तेरिति*” ।
अष्टाकपालत्वादिरूपाधिः तस्य वृत्तिः प्रवृत्तिः । एतदुक्तं भवति-यदि आग्र्यादिशब्देन सामान्यम्भिधीयते तदा तेनाशेषाद्रव्याणामक्षेप्रात्प्रतिद्रव्यमष्टाकपालत्वमुपाधिर्युज्यते द्रव्ये तु पदार्थे एकेनैव यजमानेन सकृदेवाष्ठाकपालः पुरोडाशो निरूप्येत नान्येन नाप्यन्यदेत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-111.
“*कः पुनरिति” । `गौरनुबन्ध्यः’ इति `आग्रेयमष्टाकपाल’म् इति चानयोरित्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-112.
“*एका निवृत्तेनेति” । निष्पन्नो हि पशुर्यागसाधनायोपादीयते ॥ “*अपरा निर्वर्त्येनेति*” । आग्रेयोष्टाकपालश्चेदनयैवोत्पाद्यते न तु चोदनायः पूर्वं निष्पन्न इत्यर्थः । तत्र निर्वृत्ते भेदग्रहणात् द्रव्यान्तरेऽपि प्रवृत्तिः स्यान्न तु निर्वर्त्ये सादृश्याग्रहणादित्यवश्याश्रयणीया जातिः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-113.
“*द्रव्याभिधानमिति” । जातेर्वृत्तिविकल्पाक्षमत्वेनाभावं मन्यमानो व्याडिर्द्रव्यमेव शब्देनाभिधीयत इति मन्यते ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-114.
“*आकृतौ चोदितायामिति” । आकृतिवादिपक्षे शब्देनाकृतिश्चेद्यते द्रव्ये तु कार्यं प्रवर्तते । अयुक्तं चैतत् । नह्यान्यचोदनेन्यस्य कार्ये क्रियमाणे ययोक्तं कृतं भवति । तस्माद् द्रव्यमेव शब्देनोच्यत इति न्याप्यम् ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-115.
“*न चैकमिति” । न च हेतुरहितेनादित्यदृष्टान्तेन साध्यसिद्धर्भवति, देवत्तदृष्टान्तेन विपर्ययस्यापि साधनात् ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-116.
“*श्वा मृत इति” । अभिव्यञ्जकविनाशे जातेस्तिरोभावात् पिण्डान्तरे श्वेति प्रत्ययो न स्यात् । शात्प्रत्ययइवैकापाय इत्यर्थः । यद्ध आश्रयापाये आश्रितस्यात्यपायः अवयवापाये अवयविन इवेति जातेर्विनाशप्रसङ्ग इत्यर्थः ॥ “*गौर्जात इति*” । जातेन गोपिण्डेन गोत्वमभिव्यक्तं तच्च सर्वाश्रयवर्तिति एकगोपिण्डप्रत्यक्षत्वे सर्वगोपिण्डप्रत्यक्षत्वे सर्वगोपिण्डप्रत्यक्षत्वप्रसङ्गः ॥ “*अन्वकाषमिति*”
।पदार्थान्तरप्रत्ययस्यावकाशाभावात् । अथ वा सर्वस्तुव्यापि गोत्वमेष्टव्यम् । अन्यथा
“*नायाति न च तत्रासिदस्ति पश्चान्न चांशवत्
जहाति पूर्वं नाधारमहो व्यसनसन्ततिः " ॥ इति दोषापत्तिः ।
ततश्च-
“*व्यक्त्यैवैकत्र सा व्यक्ताऽभेदात्सर्वत्रगा यदि ।
जातिदृर्श्येति सर्वत्र…..”
इति सर्वेषु पदार्थेषु गोप्रत्ययप्रसङ्गः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-117.
“*अस्ति च वैरूप्यमिति” । तस्माद् द्रव्यमेवास्तु न तु सामान्यम् ।
नह्येकस्य भेदाभेदौ विरुद्धौ उपपद्येते इत्यर्थः ।
एकार्थक्रियाकारित्वादिनिमित्तस्तु प्रत्यभिज्ञाप्रत्ययः ॥
“*गौश्चेति*” । भेदाधिष्ठानः समुच्च्यः सामान्यस्यैकत्वाभिधेयत्वयोर्न स्यादिय्तर्थः ।
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-118.
“*आकृतावपीति” । यदर्थ आकृतिपक्षपरिग्रहः तदेव न सिध्यति न हि शकटाक्षदेवानाक्षादिष्वेकाकृतिसद्भावः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-119.
इदानीमाकृतिवादी दोषन् परिहर्तुमाह्-”*लिङ्गेति*” । आकृतिसद्भावः पूर्वमेव प्रत्यय्क्षानुमानागमप्रवृत्तिभिः प्रतिपादितः । सर्वगतत्वेपि पदार्थानां विचित्रशक्तियोगात् कश्चित्पदार्थः कांचिदेवाकृतिमभिव्यनक्ति न तु सर्वां सर्वः । गुणाश्चात्र द्वित्वस्त्रीत्वादयो विवक्षिताः । तश्चाकृतेरेकार्थसमवायलक्षणः संबन्ध इत्याकृतावपि पदार्थे लिङ्गसंख्यासिद्धरित्यर्थः ॥ “*अनित्या इति*” । अक्दाचित्स्त्रीत्वयुक्तेन पिण्डेनाकृतिर्व्यज्यते कदाचित्पुंस्त्वयुक्तेन कदाचिदेकाधारस्य प्रतिपाद्यते कदाचिदनेकाधारस्थेत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-120.
“*किं य एत इति” । ते हि गुणत्वेन प्रसिद्धाः । न च तदनित्यत्वं लिङ्गवचनसिद्धौ हेतुरूपपद्यत इति प्रश्नः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-121.
प्रकरणादर्थनिश्चय इत्याह-”*नेत्याहेति*” ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-122.
“*वचनपरिहारस्त्विति*” । लिङ्गपरिहारे न किंचिद् दुष्यति, वचनपरिहारे त्वभिधीयमाने एकाकृतिरितिप्रतिज्ञाहानिः द्वित्वबहुत्वसंबन्धस्याप्यभ्युपगमात् । द्विवचनबहुवचनवदनेकशब्दत्वमपि प्राप्नोतीत्येकशेषोपि वक्तव्य इत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-123.
“*गुणविवक्षानित्यत्वादिति” । स्वत आकृतेरेकत्वं द्रव्यगतद्वित्वबहुत्वविवक्षायां तु द्विवचनबहुवचने भवतः । आश्रयधर्मैराश्रितानां व्यपदेशः । यथा संपन्नो यवो विनष्टो यव इति संपत्तिविनाशाभ्यां द्रवयगताभ्यां जातिर्व्यपदिश्यते तथा लिङ्गसंख्याभ्यामपीत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-124.
“*भवेदिति” । अभ्युपगमविरोधाभावात् । वचनपरिहारस्त्वभ्युपगमं विरूणद्धि द्वित्वबहुत्वयोगोभ्युपगतैकत्वहानादनेकशब्दत्प्रसङ्गाच्चेत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-125.
“*लिङ्गपरिहारश्चापीति” । `विशेषणानां चाजाते’रित्यत्रोक्त`माविष्टलिङ्गा जाति’रिति । ततश्चैकमेवाश्रयगतं लिङ्गमुपादत्ते सर्वदा जातिः यथा ग्रम्यपशुजातयः संधे स्त्रीत्वमेवोपाददते गाव इमा इति, अन्यास्तु पुंस्त्वमेव ब्राह्मणा इमे इति यथेत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-126.
“*तस्नादिति” । सिद्धान्तवादी युक्तं पक्षामाश्रयति-”*लौकिकमिति” । स्तनकेशादिसंबन्ध इत्यर्थः । तस्मिन्नाश्रीयमाणे लिङ्गान्तरेण संबन्धो न स्यात् ॥ तस्मात्स्वसिद्धान्तव्यवस्थाश्रीयते ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-127.
गुणानां सत्त्वरजस्तमः परिणामरूपाणां शब्दादीनां वृद्धिह्रासमध्यस्थावस्थाः शब्दैकगोचराः लिङ्गत्वेन परिगृह्यन्ते । आत्मनस्त्वपरिणामिरूपत्वादप्रवृत्तिधर्मत्वेप्यन्यप्रवृत्त्यनुयायित्वालिङ्गयोगः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-128.
“*वाचनिकानीति” । संकीर्णप्रयोगोपलभ्यात् असंकारार्थे यथा द्रव्यपदार्थकस्य वाचनिको वचननियमः तथाकृतिवादिनोपि स ह्येवं व्याचष्टे एकाश्रयसंबन्धविवक्षायामाकृतेरेकवचनं यथा पशूना यजेतेति । अनेकाश्रयसंबन्धविवक्षायां दिवचनबहुवचने ॥ ननु द्रवस्यानभिधेयत्वात्कथं तत्कृत आकृतेर्वचनोपक्ष इत्याह-”*नहीति*” । तत्र यथा पचति पचतः पचन्तीति क्रियाप्राधान्येपि सधनसंख्याकृतो वचनभेदः एवमाकृतिप्राधान्येपि द्रव्यसंख्याकृत इत्यदोषः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-129.
“*यदसाविति” । जातितद्वतोरभेदाध्यवसायाद् द्रव्यात्मा जातिः प्रतीयमाना तद्नतलिङ्गसंख्याग्रहिणीत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-130.
“*चोदनासु च तस्यारम्भात्” । इति यदिक्तं तत्परिहारार्थमाह्-”*अधिकरणगतिरिति*” । यथाग्रिरानीयतामित्युक्ते केवलस्याग्रेरानयनासंभवान्नान्तरीयकत्वादचोदितमपि पात्रमानीयते
एतदेगाग्रेरानयनं यत् पात्रस्थस्य, तथा आकृतावारम्भणादीनि चोद्यमानानि सामर्थ्यात् साहचर्याद् द्रव्यमभिनिविशन्ते । सर्वे एकाकृतेः क्रियायोगोऽन्तर्भावितद्रव्याया एवेति द्रव्यद्वारकः संपद्यते ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-131.
“*अनास्रितत्वादिति” । यथा गुणानां द्रव्याधीनास्थितित्वादाश्रितत्वम्, नैवमाकृतेः ? अन्यत्रापि प्रत्ययाभिधानयोराकृतिनिमित्तयोर्भावान्नित्यत्वं तस्या इत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-132.
इतरः संबन्धमात्रमाश्रितत्व मत्वा पृच्छति-”*किमुच्यत इति” ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-133.
“*अनैकात्म्यादिति” । पूर्वोक्त एवार्थो विशिप्यानेन प्रतिपाद्यते नित्या आकृतिरेका सर्वत्रगा, तद्विपरीतं द्रव्यमिति भेदाद् द्रव्यविनाशेपि न जातेर्विनाशः । गुणानं तु द्रव्याधीनस्थित्युत्पत्तित्वादाश्रयनाशेऽवश्यं नाश इति न तैर्व्यभिचारः ॥ “*वृक्षस्योवतान इति*” । यथा वृक्षस्योपरि द्राक्षादिलतावतानः स्थितो न वृक्षविनाशमनु विनश्यति तथा जातिरपीत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-134.
“*वैरूप्यविग्रहाविति” । द्रव्याणां स्वगतभेदप्रतिबद्धौ वैरूप्यविग्रहावित्यर्थः । तत्र द्रव्यगतभेदोपचारादेकस्यामप्याकृतौ समुच्चयोपपत्त्या विग्रहो न विरूध्यते ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-135.
“*क्रियासामान्यादिति” । भिन्नासु क्रियासु अभिन्नप्रत्ययाभिधाननिमित्तं यत्सामान्यं तदेव द्रव्येष्वपि तन्निमित्तं भवति । यथा पाचक इत्याश्रयान्तरगतमपि हि सामान्यं समवेतसमवायाद् द्रव्ये उपकरोति । यथा गौरिकादिगतं लौहित्यं संयुक्तसमवायात् पटे लौहित्यप्रत्ययमादधाति ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-136.
“*पुरा कल्पइति” । पुरा कल्पे प्रसिद्धोर्थः संप्रति निमित्ताभावेपि तथैव व्यपदिश्यते ॥ “*माषशंवट्य इति*” । तत्र षोडशभागत्वेन माषः प्रसिद्धः तथैव कार्षापणे माषः [षोडशभाग इति] षोडश[भाग]त्वं नाम सामान्यमुपादत्ते माषशब्द इति सिद्धमेकशब्दत्वम् ॥
“*संख्यासामान्यादिति*” ।
संख्यैव सामान्यमभिन्नप्रत्ययहेतुत्वात्॥ ननु षोडशसंख्या षोडशसु पदार्थेषु व्यासज्य स्थिता न त्वेकस्मिन् षोडशे । एवं तर्हि षोडशसंख्यापूरणत्वं नाम यत्सामान्यं तत्संख्यामूलत्वात्संख्यासामान्यमुच्यत इत्यदोषः ॥ अथ डित्था इति भिनेषु संज्ञिष्वेकाकृत्ययोगात् कथमेकशब्दवाच्यत्वम् ॥ उच्यते । भिन्नाडित्थशब्दगतं डित्थशब्दत्वं नाम यथा शब्देष्वभिन्नप्रत्ययाभिधानहेतुः तथा सौयमिति शब्दार्थयोरभेदाध्यवसायादध्यस्तडित्थशब्देषु संज्ञिष्वपि सबन्धिसंबन्धादभिन्नप्रत्ययाभिधाननिमित्तमिति सिद्धमेकशब्दवाच्यत्वम् ॥
तथा तावित्येताविति च परोक्षत्वप्रत्यक्षत्वादिकं सामान्यमाश्रयणीयम् ।
गोत्वाश्वत्वे सामान्ये इति व्यावृत्तेष्वनुवृत्तप्रत्ययहेतुसामान्यानामपि सामान्यमाश्रयित्तव्यम् । अथ वा `निः सामान्यानि सामान्यानी’ति तार्किकदर्शनं न वैयाकरणौर्नियोगत आस्थेयम् । कार्येन्नीयमाना हि तेषां पदार्था इति सामान्येष्वपि सामान्यमस्ति । अभावाश्वत्वार इत्यत्रापि निरूपाख्यत्वं सामान्यं कल्पनीयम् । तदेवं सर्वत्राकृतिसद्भावात्सिद्धमेकशब्दत्वम् ॥ 64 ॥
“*वृद्धो ॥ 65 ॥ इह कस्मादिति” । उभयगतिरिह शास्त्रे सम्भवतीति मत्वा प्रश्नः ॥ अथ वा वृद्धशब्द इह शास्त्रे अपत्यविशेषे न परिभाषित इति स तावद्वयोवाचीगृह्यते । तत्साहचर्याच्च युवशबोपि तथैवेति प्रश्नः ॥ अजोष्ट्रृश्वशब्दानां जातिशब्दत्वेप्यत्र शब्दान्तरसन्निधानाद् वृद्धावस्थाभिधायित्वं द्रष्टव्यम् । अन्यथा सामान्यविशेषाशब्दानां द्वन्द्वे न स्यात् । सामान्यशब्देन सर्वविशेषाणामाक्षेपाद् विशेषौः सह समुच्चयाभावात् ।
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-138.
वक्ष्यमाणां मनसि कृत्वाह्-”*तल्लक्षणश्चेदिति” ।
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-139.
इतरोऽगृसीताभिप्राय आह-”*तल्लक्षण इति*” । परिहारस्तु उत्तरत्र वक्ष्यते ॥ 65 ॥
“*स्त्री पुंवच्च ॥ 66 ॥ इदमिति” । यदि स्त्रीशब्दस्य स्वरितत्वं प्रतिज्ञायते-तदा र्न्त्र्यधिकारविहितटाबादिप्रत्ययग्रहणम् । ततश्चयमर्थः । पुंवत् स्त्रीप्रत्ययो न भवतीत्यभावातिदेशः क्रियते । स्वरितत्वाभावे तु शब्दग्रहणमर्थग्रहणं वा । तत्र शब्दग्रहणपक्षे स्त्रीशब्दस्य पुंशब्दस्येव रूपं भवतीति स्त्रीत्वमनिवृत्तमेव ॥ अर्थग्रहणपक्षे तु पुमर्थातिदेशे तदर्थप्रतिबद्धानां कार्याणां सिद्धिः । तत्रार्थस्य प्राधान्याददुष्टत्वाच्चार्थपक्ष एवाश्रीयते ॥ “*अस्त्रियामितीति*” । यदायं प्रसज्यप्रतिषेधः तदा दोषः । पर्युदासे तु शिष्यमाणः शब्दो निवर्त्यमानार्थाभिधायीत्यस्ति स्त्रीसदृशोर्थ इति लुक् सिध्यति ॥ “*गर्गान्पश्येति*” । स्त्रीत्वस्यानिवृत्तत्वात् नायं पुंबहुत्वे शस् उत्पन्न इति नत्वं न सिद्ध्यति ॥ 66 ॥
“*तृ॥ 68 ॥ यत्समानायामिति” । एकापत्यत्वं नाम समानाकृतिरस्ति ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-142.
“*ऊर्ध्वमिति” । यत्रैका प्रत्ययप्रकृतिरन्यतुवैरूप्यं तत्रैकशेष इत्यर्थः ॥ `त्यदादिनि सर्वैर्नित्यमि’त्येतद्वर्जयित्वा सर्वत्र `सरूपाणा’मित्यस्यानुवृत्त्याश्रयणाद् यथोत्तर्थलाभः । अत्रैवार्थ एतत्सूत्रं लिङ्गम् । पदान्तरगम्येपि तल्लक्षणविशेषे `पुमानु स्त्रीये’त्येकशेषो भवति यथा गौश्चायं गौश्चेयमित्येतौ गावौ चरत इति ॥ “*वरटाचेति*” । वरटा हंसी ॥ “*पूर्वसूत्र इति*” । पूर्वाचार्यकृते व्याकरणे `अपत्यमन्तर्हितं वृद्ध’मिति पौत्रप्रभृतेरपत्यस्य वृद्धसंज्ञाकृता । `वृद्धो यूने’त्यत्र च कृत्रिमस्य `जीवति तु वंश्ये युवे’त्यस्य ग्रहणं तत्साहचर्याद्व?द्धस्याप्यपत्यस्य ग्रहणमित्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-143.
“*असुरूपाणामिति*” । गर्गापत्यत्वं सामान्यं वृद्धयूनोर्विवक्षितमिति सिद्धमेकशब्दत्वम् । आरभ्यमाणेप्येकशेषे गार्ग्याविति विशेषो नावधार्यते-‘किं वृद्धयुवानौ प्रकान्तौ, उत वृद्धा’विति । प्रकरणाद्यपेक्षे तु विशेषावसाये सामान्योपक्रमेपि तथैव विशेषोवसायिष्यत इति नार्थ एकशेषारम्भेण । द्वन्द्वोपि गार्ग्यगार्ग्याणावित्यनभिधानान्न भविष्यति । स्त्रीपुंसयोरपि मृगक्षीरवज्जातिमात्रविवक्षायां ब्राह्मणावित्यादिप्रयोगसिद्धिः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-144.
“*ब्राह्मणवत्सा चेति” । अस्त्यत्र प्रकृतेरूर्ध्वं तल्लक्षणो विशेषः; न चआत्र कश्चिद्वेशेषः स्त्रीपुंसयोरूपात्तः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-145.
“*विभक्तिपरस्येति” । एकविभक्तावित्युनुवर्तते । तेन एकशेषनिमित्ते विभक्तौ परतो यत्र स्त्रीपुंसकृतो विशेषस्तत्रैकशेषः । इह तु तस्यां चान्तर्वर्तिन्यां च विभक्थावित्येकशेषाभावः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-146.
“*कारिका चेति” । इत्त्वमप्यत्र विशेषास्य वाचकं तच्च नैकशेषनिमित्ते विभक्तौ परतोऽनन्तरमिति दोषः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-147.
एतत्समाधारार्थं विचारयति-”*कथमिति*” ॥ “*आर्थ इति*” । अर्थस्त्रियाः शाब्दद्वारकं विभक्तिपरत्वम् ॥ “*कारिका चेति*” । शब्दस्त्रीया टापात्र कृतमित्वमिति सिध्यति, नार्थपक्षे । यद्यपय्र्थेन टाप् कृतः तथाप्यधिकमित्वमस्ति न च तदर्थस्त्रीकृतमिति दोषः ॥ “*गोमती चेति*” । नात्र शब्दस्त्रिया कश्चिद्विशेषः कृतः । अर्थपक्षे त्वत्र सिध्यति । अर्थेनेकारस्य विशेषस्य कृतत्वात् ॥ “*पट्वी चेति*” । नात्र यणादेशस्य लक्षाणवाक्ये शब्दस्त्री निमित्तत्वेनोपात्ता । अज्रूपताश्रयणेन यणादेशविधानात् न च तद्भावे भवतस्तन्निमित्तत्वं नाप्यर्थस्त्री यणादेशस्य निमित्तमिति दोषः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-148.
“*शब्दार्थाविति” । नात्र यौगपद्येनोभयोर्ग्रहणम् । अनियमस्त्वनेन प्रदर्श्यते । तेन क्वचिच्छब्दस्त्रीकृतविशेषपरिग्रहः क्वचिदर्थस्त्रीकृतविशेषाश्रयणम् । पट्वीत्यत्र च भवतीकारो यणादेशस्य निमित्तमस्मिन्विषये तद्भावभावित्वादर्थोपि पारम्पर्येण भवत्येव निमित्तमित्वयणादेशयोः ।
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-149.
“*एवं तर्हिति” । विस्पष्टं न व्यपदिशतीत्यर्थः ॥ सूत्रोपात्त एवायमर्थो येनात्र न भवत्येकशेष इत्याह-”*तदित्यनेनेति*” । स्त्रीपुंसयोः सहविवक्षायामेकशेषः । स च प्रधानयोरेव भवतीति यत्र प्रधानस्त्रीपुंसकृतो विशेषास्तत्रैकशेषः । इहाप्रधानकृतोपीत्येकशेषाभावः ॥ 68 ॥
“*नपुंसकम् ॥ 69 ॥ शुक्ला च शुक्लं चेत्येकविभक्तौ विभत्यन्तानां च वैरूप्यादेकशेषो न प्राप्नोति, शुक्लश्च शुक्लं चेत्यत्रापि विभक्त्यन्तानामसारूप्यात् । एकविभक्तौ तु सरूपाणमेकशेषे पुन्नपुंसकयोः पर्यायेण प्राप्नोतीति वचनमिदमेकवद्भावार्थं च ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-151.
“*प्रधाने कार्यसम्प्रत्ययादिति” । शब्देनार्थस्याभिधानमिह कार्यम् । तच्च नपुंसकानपुंसकसन्निधौ नपुंसकस्यैव भविष्यतीति नार्थः सूत्रेणेत्यर्थः । “*कथमिति*” यथा लोके बहुषु गच्छत्सु राजा गच्छातीति प्रधानं राजा व्यपदिश्यते । राज्ञाश्च प्राधान्यं तदधीनप्रवृत्तिनिवृत्तित्वादन्येषाम् । इह तु नपुंसकस्य किंकृतं प्राधान्यमिति प्रश्नः ॥ “*एवं हि लोके दृश्यतइति*” । व्यापित्वान्नपुंसकस्य प्राधान्यमाह । स्थितिर्नपुंसकं सा च सर्वत्र विद्यत इति स्थितिरूपत्वेनैव स्त्रीपुंसयोरपि विवक्षायां सिद्धो नपुंसकशब्दप्रयोगः ॥ “*अनिर्ज्ञातेर्थ इति*” । सामान्यरूपेण ज्ञाते स्त्रीत्वादिना तु विशेषैणानिर्ज्ञात इत्यर्थः ॥ “*गुणसन्देह इति । गुणाः*” स्त्रीत्वादयः ॥ “*द्वयं चैवेति*” । यद्यपि नपुंसकस्य जन्म, तथापि यत्प्रजननासमर्थं तन्नपुंसकमिति नेह नपुंसकलक्षाणं, किं तर्हि? शब्दैकगोचरत्वमेव लिङ्गलक्षणम् । तथा च नपुंसको भवतीति प्रयोग उपपद्यते ॥ “*महिषीरूपमिवेति*” । रूपशब्दः संस्थानवचनः । यत्र दूरादृश्यमाने वस्तुनि निश्चयो नास्ति केवलं सम्भावनारूपः सन्देहस्तत्रैकस्यापि शब्दस्य प्रयोगो भवति स्थाणुरयं स्यादिति । एवमिहापि महिषीवैतत् संस्थानमित्यस्मिन्नर्थे महिषीरूपमिवेति प्रयुक्तम् । रूपशब्दोत्र नपुंसकलिङ्गो दृष्ठान्तत्वेनोपात्तः । यत्र तु विशेषस्य निर्ज्ञानं शुक्लाः शाट्यः शुक्लाः कम्बला इति तत्र नास्ति नपुंसकप्रयोगः ॥ सत्यरम्भे अरण्यारण्यान्यावित्यत्रैवकारानुवर्तनान्मस्हत्वस्योपाधेराधिक्यादेकशेषाभावः ॥ 69 ॥
“*पिता ॥ 70 ॥ किमर्थमिति” । वृत्तिविषये भ्रात्रादिशबानां स्वस्त्रादिष्वपि वृत्त्या सिद्ध एकशेष इति मत्वा प्रश्नः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-153.
“*कारणादिति” । भिन्नं च प्रवृत्तिनिमित्तं भ्रातृशब्दस्य स्वसृशब्दस्य चेति भ्रातृशब्देन न स्वसुरभिधानं प्राप्नोति ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-154.
“*एकशेषविषयमिति” । आरब्धे एकशेषेऽवश्यं भ्रातृशब्देन स्वसाभिधेया । अन्यथैकशेषारम्भोऽनर्थकः स्यात् । एवमनारब्धेप्येकशेषे नित्यत्वाच्छब्दार्थसम्बन्धस्य सहविवक्षायामेव भ्रातृशब्दः स्वसुरभिधायको भविष्यति । नह्यविद्यमानसम्बन्धस्य शक्तिः शास्त्रेण नियम्यते । अनभिधानाच्च भ्रातृपुत्रशब्दयोः स्वसृदुहितृभ्यां द्वन्द्वाभावः । मातापितरौ श्वश्रूश्वशुराविति द्वन्द्व इष्यत एव ॥ 70 ॥ 71 ॥
“*त्यदादी ॥ 72 ॥ त्यदादित इति” । `षष्ट्या व्याश्रय’ इति तसिः । आद्यादित्वाद्धा ॥ “*सा चेति*” । स्त्रीत्वे प्राप्ते पुंस्त्वं विधीयते । पुंनपुंसकयोस्त्वेकशेषे शब्दप्रविप्रतिषेधान्नपुंसकत्वं भवति ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-156.
“*अद्वन्द्वतत्पुरुषविशेषणानामिति” । न्यायसिद्धमिदम् । `परविल्लिङ्गं द्वन्द्वतत्पुरुषयो’रिति समासार्थस्य लिङ्गातिदेशात्तद्विशेषणस्यापि सर्वनाम्नस्तलिङ्गस्य सिद्धत्वात् ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-157.
“*सामान्यमर्थ इति” । वस्तुमात्रं त्यदादिभिः परामृश्यत इति तदेवैषामर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-158.
“*परस्येति” । सति सूत्रे शब्दपरविप्रतिषेधः शक्यते आश्रयितुम् ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-159.
“*पूर्वशेषदर्शनाच्चेति” । सति त्वारम्भे पूर्वशेषे न स्यादिति दोषप्रसङ्गः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-160.
“*द्वद्व इति” । तदृवदत्तावित्यादिप्रयोगो मा भूदित्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-161.
“*आभीरा इति” । ?????
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-162.
“*स्त्रिय एवेति” । ततश्चात्र गोशब्दः स्त्रीगवीणमेव वाचकः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-163.
“*सामान्येनेति” । सर्वविशेषाणां व्याप्त्यत्वान्नास्ति सामान्यविशेषयोः समुच्चय इत्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-164.
“*तं ब्राह्मणमिति” । तमित्यनेन गतत्वाद्ब्राह्मणशब्दस्य प्रयोगो न प्राप्नोति ब्राह्मणमित्यनेन गतत्वाच्च गार्ग्यशब्दस्येति भावः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-165.
“*भवतीति” । सामान्योपक्रमे विशेषाभिधानमित्यर्थः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-166.
“*येनैवेति” । यथा सामान्यविशेषयोर्विशेषणविशेष्यभावो दृश्यते तथा विशेषसंनिधौ तद्वर्जितेषु विशेषान्तरेषु सामान्यशब्दस्य वृत्तिर्दृश्यते -`ब्राह्मणा आयाता वसिष्टोप्यायात’ इति । तस्मात्तथाविधे विषयेऽयं वाचनिको द्वन्द्वनिषेधः । तस्मिश्च सत्ययमेकशेषो न वक्तव्य इत्यर्थः ॥ 72 ॥
“*ग्राम्य ॥ 73 ॥ स्त्री"पुंसात्मकस्य संघस्य स्त्रीशब्देनाभिधानं यथा स्यादिति सूत्रारम्भः ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-168.
“*उभयात्मकत्वमक्षाम्यन्नाह-”*अयमिति*” ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-169.
“*स्त्रिय एवेति” । यद्यापि तत्र वृषभस्यापि संभवः तथापि मल्लग्रमवद्भूयस्त्वात् स्त्रीभिर्व्यपदेशो भवति ॥
2.प्रथमाध्याये द्वितीयपादे तृतीयाह्निकम्-170.
“*अनेकशफेश्विति” । उष्ट्राणां त्वारण्यकत्वात् स्त्रीशेषाभावः । तत्रानेन प्रकरणेन प्रयोगस्य नियतत्वाद् जातिः क्वचिदाश्रयलिङ्गेन स्त्रीत्वेन व्यपदिश्यते क्वचित्पुंस्त्वेनेत्युक्तं भवति ॥ 73 ॥
इत्युपाध्यायजैयटात्मजकैयटकृते महाभाष्यप्रदीपे प्रथमस्यद्यायस्य
पादश्च द्वितीयः समाप्तः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-1.
“*भूवादयो धातवः ॥ 1 ॥ कुतोयमिति” । लक्षणाभावं मत्वा कस्मान्निमित्तद्वाकार इति पृच्छति ॥ “*यदि तावदिति*” । यणादेशेनेको निवर्तितत्वात् ॥ “*अथासंहितयेति*” । अभ्युपगम्यवादोयम् । न त्वेकस्मिन्पदेऽ`संहि’तआस्ति । `संहितैकपदे नित्ये’ति वचनात् । तस्मात्सर्वथा निर्देशो न संभवतीत्येवंपरमेतत् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-2.
“*भूवादीनामिति” । सूत्रोच्चारिते भूवादिशब्दे इत्यर्थो निवक्षितः । तत्र वाचकसंबन्धी भूवादीनां भूवादिशब्दवाच्यानां वकार इति व्यपदिश्यते ॥ “*मङ्गलार्थ इति*” । ननु निमित्ते षष्टे प्रयोजनकथनमप्रस्तुतम् । नैष दोषः । प्रयोजनकथनेन निमित्तस्यापि कथनात् । अत एव निपातनादगमरूपोत्र वकारः कृतः । न चायमसाधुः । वैयाकरणनिकाये प्रसिद्धत्वात् । तस्य च मङ्गलं प्रयोजनमित्यनेन प्रतिपादितं भवति । अपूर्वस्य हि लाभो दध्यादेर्लोके मङ्गलं सूचयति । तथेहाप्यागमो वकारो मङ्गलार्थः संपद्यते । अथ वा सति वकारोऽविकृते भूशब्दे उच्चार्यमाणे महाव्याहतिस्मरणं मङ्गलं भवतीति पारम्पर्येण वकारो मङ्गलार्थकः संपद्यते ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-3.
“*नार्थ इति” । `भूवादिन्’ पठित्वा ‘ते धातवः’ इति वक्तव्यम्, यथा `ते तद्राजा’ इति ॥ “*नतरामिति*” । सति पाठे गतार्थत्वान्न कर्तव्यम् । असति त्वसंबन्धादित्यर्थः ॥ अत एव प्रतिषेधप्रकर्षः । संबन्धाभावेत्यन्तमेवाकरणमित्यस्यार्थस्य प्रतिपत्तये निर्दिष्टः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-4.
“*एवं तर्हिति” । सूत्रेषु ये पठ्यन्ते मृडमृदादयः तान्समाप्य ‘ते धातव’ इति वचनेन सिद्धे सतीत्यर्थः ॥ “*अस्ति च पाठ इति*” । अनेनासंबद्धत्वं परिह्?तम् । `बाह्याश्चे`-त्यनेन गतार्थत्वं निराकृतम् ॥ “*पाठेनेति*” । ये धातुपाठे पठितास्तेषामेव धातुसंज्ञा । तेषां च पाठो नोपलक्षणार्थः । अपि तु इयत्ताप्रतिपादनार्थः । तत्र यदि `त्रियावाची धातु’रित्ये तल्लक्षणं क्रियेत, तर्हि आणव्यति वट्टयतीत्यादीनामपि धातुशंज्ञा स्यात् । अथ सूत्रपठितानामनन्तरं `ते धातव’ इत्युच्य्त, तदा तत्रापठितानां न स्यात् । तस्माद्भवादय इत्युक्तम् । तत्र सूत्रवार्तिकभाष्यगणेषु ये पठ्यन्ते तेपि सूत्रकारादिप्रामाण्याद्धतुत्वेनाश्रयणीयाः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-5.
“*समानशब्दानामिति” । समानश्रुतीनामिष्टविपरीतानामक्रियावाचिनामित्यर्थः ॥ “*तव्यदादीनामिति*” । यथैव दिवं पष्येति बाह्यक्रियापेक्षे कर्मणि द्वितीया भवति, एवं तव्यदादयोपि स्युरित्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-6.
“*साधन इति” । अन्तरङ्गधातुवाच्यक्रियापक्षे साधने तव्यदादयः सावकाशा बाह्यक्रियापेक्षे [साधने] नोत्पद्यन्ते इत्यर्थः । यो पि `शक्धृषेति’ स्वार्थिकस्तुमुन् सोप्यनभिधानान्न भविष्यति ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-7.
“*याः पश्येति” । यच्छब्दो न धातुरिति विभक्तिरूत्पद्यते तस्यामत्वे टापि च कृते धातुसंज्ञाया`मातो धातो’रिति लोपप्रसङ्गः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-8.
“*त्रस्त्रू इति” । ननु णुर्धातुषु पठितः । न चास्य तेन सारुप्यम् ॥ नैष दोषः । प्रयोगे नुशब्द एव धातुस्तेन चास्य सारूप्यमस्त्येव । यद्यपि चायं सानुबन्धाकस्तथापि धातुष्वननुबन्धकपरिभाषा कैश्चिन्नाश्रीयते । अथ वोपलक्षाणार्थमिदं, तेन स्थाण् वेण् इत्युदाहरणम् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-9.
“*अक्षद्यूरिति” । अत्र कृदन्तत्वात्प्रातिपदिकत्वम् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-10.
“*न वै अत्रेष्यत इति” । शिष्टप्रयोगाभावात् । तस्मा`द्?इव औदि’ति ज्ञापकमेव ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-11.
इतरो ज्ञापकत्वं विधटयति-”*अनिष्टं चेति” ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-12.
“*एवं तर्हीति” । धातुः सानुबन्धक इति भावः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-13.
“*एवमपीति” । अधातुरिति प्रातिपदिकसंज्ञानिषेधान्निरनुबन्धकात्सोरसंभवः ॥ उभयसंभवे चास्याः परिभाषाया उपस्थानं नान्यथा ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-14.
“*इयानवधिरिति” । अवधिमानविधिनोपलक्ष्यते । तेन विशिष्टावधिपरिच्छित्रस्य धातुसंज्ञा विधेयेत्यर्थः ॥ “* भ्वेधशब्द इति*” । ततश्च भ्वेधशब्दाल्लडादिप्रसङ्गः । न चार्थपाठः परिच्छेदकः । तस्यापाणीयत्वात् । अभियुक्तैरूपलक्षणतयोपात्तत्वादनेकार्थत्वदर्शनादर्थस्य नियामकत्वाभावात् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-15.
“*क्रियावचन इति” । एवं सति समानशब्दानां प्रतिषेधो न वक्तव्यः । नापि परिमाणग्रहणम् । नहिभ्वेधशब्दसमुदायः क्रियावाची ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-16.
“*का पुन्रिति” । द्रव्यव्यतिरेकेण तस्याः सत्तामसंभावायतः प्रश्नः ॥ “*ईहेति*” । ईहाचेष्टाशब्दयोरन्यत्र व्यापारविशेषवचनत्वेपि इह व्यापारमात्रवचनत्वं बोद्धव्यम् ॥ कस्यचित्केनचिच्छब्देन सोर्थः प्रसिद्ध इत्यनेकपर्यायोपादानम् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-17.
“*सर्वथेति” । यावद्रव्यव्यतिरेकेण क्रियासद्भावे प्रमाणं प्रोक्तं तावत्पर्यायोपादानमात्रेण तस्याः स्वरूपं न निश्चीयते इत्यर्थः ॥ “*अर्थजातमिति*” । अर्थस्वरूपमित्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-18.
“*अशक्येति” । आख्यातपदवाच्या पूर्वापरीभूताव्यवा साध्यमानावस्था भूतभविष्यद्वर्तमानसदसदनेकाव्यवसमूहरूपा सद्वस्तुविषयेन्द्रियग्रह्या न भवतीत्यर्थः ॥ “*पिण्डीभूतेति” । यथा परमाणवः पिण्डीभूता उपलभ्यन्ते न केवलः, एवं पिण्डीभावाभावात् क्रिया न प्रत्यक्षेत्यर्थः ॥ “*गर्भो निर्लुठित इति*” । यथा कुक्षिस्थो गर्भोऽप्रत्यक्षस्तथा क्रियेत्यर्थः ।
अथवा यया निर्लुठितो निर्गतः कुक्षेर्गर्भः प्रत्यक्षो नैवं क्रियेत वैध्म्र्येण दृष्टान्तः ॥ “*सासाविति*” । या
पूर्वमुक्ता सासावनुमानेन प्रतीयत इत्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-19.
“*कोसाविति” । यो भावे ल्युट् स नपुंसकः । अन्यत्र त्वभिधेयवशादनियतलिङ्गः । अथ वा मन्यतेर्घञ्यनुमान इति रूपम् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-20.
“*यस्मिन्संनिहिते इति” । यस्मिन्वस्तुनिसंनिहिते सति पचतीत्येतत्प्रयुज्यते नासति सा क्रिया । क्वचितु `यस्मिन् साधने संनिहिते’ इति पाठः ॥ तत्रायमर्थः-यस्मिन्संनिहिते सति पचतीत्येतत्साधनविषये भवतीति ॥ स्यादेतत् । मृगतृण्णिकाविषयजलज्ञानवत्पचतीत्येतदसत्यविषयमेव ज्ञानमित्याशङ्क्याह-”*अथ वेति*” । देशान्तरप्राप्तिलक्षणेन कार्येणाऽबाधितेन क्रियाख्यं कारणमनुमीयत इत्यर्थः ॥ ननु प्रत्यक्षाप्रवृत्तौ संबन्धग्रहणाभावात् कथं क्रियाविषयमनुमानं प्रवर्तते । नैषदोषः । धातुवाच्यस्य समूहस्य युगपदसंनिधानादप्रत्यक्षत्वेप्येकैकस्य तु क्षणस्य प्रत्यक्षत्वे बुद्ध्या तान्क्षणान्संकल्प्य पचतीति प्रयुज्यते । यदप्येकस्मिन्क्षाणे पचतीति प्रयोगस्तदा तत्र समूहरूपारोपणम् । शब्दशक्तिस्वभावाच्चैकः क्षणो नैव धातुवाच्यः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-21.
“*किं करोति पचतीति” । सामान्यविशेषभावेन सामानाधिकरण्यात् क्रियाविशेषवचनाः पचादयः प्रतीयन्त इत्यर्थः । यदा तु किं करोतीति पृष्ठे न करोत्यास्त एव केवलमिति प्रतिवचनं
तदा व्यापारमात्रस्यावश्यंभावित्वाह्यापारविशेषविषयः प्रश्नः प्रतिवचनं तु विशेषनिराकरणेनेति बोद्धव्यम् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-22.
“*संधातेनेति” । संधातस्यैव प्रयोगादर्थवत्त्वम् । केवलानां तु धातुनामप्रयोगादानर्थक्यम् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-23.
“*अतिशब्दश्चेति” । यद्यप्ययं प्रत्ययसमुदायः, तथापि प्रकृतिभागावबोधपरत्वात्प्रत्ययभागापर्यालोचनेऽनादरादेवमुक्तम् ॥ अथ वा पूर्वाचार्येः कैश्चिदतिः प्रत्ययत्वेन कल्पित इति तदपेक्षयैतदुक्तम् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-24.
“*किं न साधीय इति” । यदा प्रकृतिरेव क्रियां साधनं चाह तदा सिद्धमेव प्रकृतेः क्रियावाचित्वम् । “*प्रत्यय एवेति*” । ततश्च प्रकृतेर्न स्यात्क्रियावाचित्वम् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-25.
“*अधिरूपरिभाव इति” । ततश्चाधीत इत्यस्यविशिष्टार्थयुक्तानां शब्दानां पठनं विधिपूर्वकं वा करोतीत्यर्थः । अध्येतीत्यत्र विशिष्ठं स्मरणरूपं ज्ञानं धात्वर्थः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-26.
“*प्रोयमिति” । अन्यत्रापि प्रयोगात् । ततश्चान्यत्रास्य योर्थो द्योत्यः स एवेहापीत्यनुमीयते । अनेकार्थत्वाद्धातूनां तिष्टतिरेव गतिवाचीति निर्णयः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-27.
“*भाववचन इति” । भावशब्दः क्रियामात्रवाची । यथा `यस्य च भावेनेति’ `भावे घञ्’ इति च । तेन पचादीनामपि धातुसंज्ञा सिध्यति, अस्तिभवतिविद्यतीनामपि भावरूपार्थामित्वात् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-28.
“*भवति पचतीति” । आत्मभरणवचनो भवतिः । तच्चात्मभरणं विरूद्धैकार्थसमवायैः पाचकत्वादिभिरविरूद्धैकार्थसमवायम् । यथा शुक्लं रूपमिति शुक्ले गुणे शुक्लत्वरूपत्वं चास्तीति शुक्लादयो रूपवचआः एवं पचादयो भाववचना इत्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-29.
“*कः पुनरिति” । यदि क्रियैव भावस्तदापक्षान्तरोपादानमनर्थकमथान्यस्तदाऽव्याप्तिरिति प्रश्नः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-30.
“*स्वपदार्थ इति” । स्वग्रहणमुपचरितार्थनिवृत्त्यर्थं, गौणोपि पदार्थो भवति न तु स्वो
व्यभिचारात् । पदग्रहणं प्रकरणाद्यनपेक्षत्वत्प्रतिपादनार्थम् । भवनं भाव इति विग्रहः कर्तृसाधननिवृत्त्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-31.
“*भेद इति” । विनाशो भेदश्छेदश्च घटरज्वादेः स च भावविरोधीति भवः ॥ “*सर्वानु पुरुषानिति*” । किं करोषि ? पचामि, किं करोमि ? पचेत्यादौ विपरीतापि पुरूषानुवृत्तिः सर्वग्रहणेन विवक्षिता ॥ “*भवतिः पुनरिति*” । नहि भवति भविष्यति प्क्ष्यत्यभूदपाक्षीद्भवतः पचतो भवन्ति पचन्तीति ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-32.
“*का तर्हिति” । कथं सम्बन्ध इति प्रश्नः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-33.
“*एषैषेति” । या एषा त्वया पृष्टा सैषा वर्ण्यमानस्वरूपेत्यर्थः ॥ “*पचादय इति*” । साध्यसाधनभावः सम्बन्धो न तु सामान्यविशेषभाव इत्यर्थः ॥ नन्वन्यत्रोक्तं `तिङभिहितो भवः क्रियया समवायं न गच्छति` । `नहि भवति पठति पचति` इति । ततश्च तेनैतद्विरूध्येत तत्राहुः-कर्तृकर्मभावेन क्रिया आख्यातवाच्यक्रियया सम्बध्यत त्व-भवति पचति, पश्य मृगो धावतीति । करणादिभावेन तु न सम्बध्यते । तथा प्रयोगदर्शनात् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-34.
“*भवेदपि भवेदिति” । एकस्याः क्रियायाः आत्मापेक्षः साध्यसाधनभावो विरुद्ध इति भावः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-35.
“*कालभेदादिति” । स्वाभाविकमन्यत्वं कालसाधनभेदेन व्यज्यते ॥ “*एकस्येति*” । अपि भवेदित्यत्र यो भवतिस्तस्यारोग्यादिविशिष्टदेवदत्तादिकर्तृका सत्ता वर्तमानाऽर्थः तथाभूता हि सत्ता प्रार्थ्यत इति वर्तमानकालः प्रत्ययः । सातु सत्ता भवेदित्यस्याः सत्तायाः कर्तृत्वेन निर्दिष्टेति भेदोऽस्त्येव ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-36.
“*अस्त्वयमिति” । भेदादयोपि भवन्तीति तद्वचनानां सिध्यति धातुसंज्ञा ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-37.
“*एतान्यपीति” । एतत्प्रतिपाद्यानि वस्तूनीत्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-38.
“*भाष्यते यः स भाव इति” । तेन साध्यमानार्थवाचिनां धातुसंज्ञेत्यर्थः ॥ “*स्वभावसिद्धमिति*” । शब्दशत्तयनुसारेणैतदुच्यते । कृतताक्रियमाणताकर्तव्यता-युक्तान्यपि द्रव्याणि सिद्धरूपाण्येव प्रातिपदिकेनाभिधीयन्ते । शब्दान्तरेण तु तेषामवस्थान्तरं प्रतिपाद्यते ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-39.
“*मातेति” । मातृत्वं पुत्रजन्मना भाव्यते ॥ “*सर्वथेति*” । पाठाश्रये समानशब्दानां प्रसङ्गः कर्तृसाधने भावशब्दे वृक्षादीनां प्रसङ्गः कर्मसाधने मात्रादीनामित्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-40.
इदानीं समाधानमाह-”*पठिष्यतीति*” । पठितानामेव भाववचनानां धातुसंज्ञा नान्येषामित्यर्थः ॥ “*अस्त्वयमिति*” । भवतीति भूरिति कर्तरि क्विवस्ति न तु कर्मणि । अर्थस्त्वभिन्न एव । यो हि भवति स एव भाव्यते नान्यः ॥ “*नेदमिति*” । वृद्धिशब्दस्य मङ्गलार्थस्य प्रयुक्तत्वाद्वकारो मङ्गलार्थो नोपयुज्यते ॥ “*भुवमिति*” ।
जायमानमर्थं येऽभिदधति ते धातव इत्यर्थः । भवतिरत्र
जन्मवाची गृह्यते नं तु सत्तावाचीति सिद्धार्थाभिधायिनां संज्ञा न भवति ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-41.
“*शिश्ये इति” । भावार्थाभिधायित्वात्प्रत्ययस्य धातुसंज्ञाप्रसङ्गादात्वं प्राप्नोति । तद्ध्यनैमित्तिकं शिति तु प्रतिषिध्यते । एकारोच्चारणं तु यदा कर्तृकर्मणोर्लकारस्तदर्थम् । पाठस्तु न तावदस्य मनसि वर्तते ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-42.
“*इत?तराश्रयं चेति” । प्राक् शास्रव्यापारात्समुदाय एव नास्ति, कुतोन्वयव्यतिरेकाभ्यामर्थस्य प्रविभागः ॥ तस्मिश्चासति भाववचनापरिज्ञानाद्धातुत्वं न व्यवतिष्टत
इत्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-43.
“*सिद्धं त्विति” । व्यवस्थिता एव पचत्यादयः समुदायः संसृष्ठार्थाभिधायिनः केवलमुत्प्रेक्ष्योत्प्रेक्ष्य प्रक्रियायामर्थविभागः शब्दविभागश्चापोद्वियते इत्यर्थः ॥ “*अनाश्रित्येति*” । पारमार्थिक नाश्रीयते, परिकल्पितं त्वाश्रीयत एव । तत्त्वतो हि शब्दान्तरण्येवार्थान्तरेषु प्रयुज्यन्ते ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-44.
“*प्रथमभावग्रहणं चेति” । तदर्थप्रत्ययप्ररिह्रोयम् ॥
प्राथम्यस्यापेक्षिकत्वात्पृच्छति-”*कुत इति”* ॥ “*पुत्रीयतीति*” ।
नात्र प्रथममुच्चार्थमाणः पुत्रशब्दो भावमाह । `सनाद्यन्ता धातव’ इत्यस्य प्रत्याख्यानेऽयं दोषः ॥ “*सिद्धेति*” । प्रथम आद्यो भावोप्रथमेनापि क्यचाभिधीयते न तु द्वितीयः । “*शिश्य इत्यत्र तु प्राप्नोति ।
स्वार्थिकेन प्रत्ययेन प्रथम एव भावोभिधीयते न तु द्वितीयः ॥ “*अभिधानत इति*” । अन्येनानभिहितं भावं य आह स धातुः । शिश्ये इत्यत्र तु प्रकृत्यभिहितं भावं य आह स धातुः । शिश्ये इत्यत्र तु प्रकृत्यभिहितं भावं प्रत्यय आहेति न तस्य धातुसंज्ञाप्रवृत्तिः । यथा प्रथममयं राजानं पश्यतीत्यस्यायमर्थो यदन्येनादृष्टं पश्यतीति तथेहापि प्राथम्यमभिधानक्रियापेक्षमाश्रीयते अन्येभ्यो भावाभिधायिभ्यो यः प्रथमं भावभाहेति ॥ “*समुध्यम इति*” । अन्येनानभिहितं भावं य आह स दातुः ।
शिश्ये इत्यत्र तु प्रकृत्यभिहितं भावं प्रत्यय आहेति न तस्य धातुसंज्ञाप्रवृत्तिः । यथा प्रथममयं राजानां पश्यतीत्यस्यायमर्थो यदन्येनादृष्टं पश्यतीति तथेहापि प्राथम्यमभिधानक्रियापेक्षमाश्रीयते अन्येभ्यो भावाभिधायिभ्यो यः प्रथमं भावभाहेति ॥ “*समुध्यम इति*” ।
द्वौ शब्दार्थपक्षौ दुष्टत्वात्परित्यज्योपादीयमानमभिधानं मध्यममिति व्यपदिश्यते । तदेव निर्दोषत्वाच्छोभनत्वेन विशेष्यते । चिकीर्षतीत्यत्र करोत्यर्थोपसर्जनामिच्छामन्येनानभिहितां
सन्प्रत्यय आहेति प्रवर्तते धातुसंज्ञा । अत्र पक्षे यथा शिश्य इति प्रत्यय्स्य धातुसंज्ञा न भवति तथा स्वार्थिकानामायादीनामपि न प्राप्नोति गोपायति कामयते इति । तदर्थं `सना द्यन्ता धातव’ इति पठितव्यमेव ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-45.
“*इहेति” । तदर्थप्रत्ययप्रतिषेध इतरेतराश्रयं च । प्रथमभावग्रहणं च सिद्धं तु नित्यशब्दत्वादिति च । केवलं प्रथमभावग्रहणमपनीय प्रथमक्रियाग्रहणं चेति क्रियाग्रहणं कर्तव्यम् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-46.
“*तत्रेदमिति” । किं करोतीति प्रश्नेऽस्त्यादिभिः प्रतिवचनाभावादक्रियावचनत्वमेषामिति
मन्यते । यच्चाप्युक्तमिह सर्वेषु साधनेषु सन्निहितेषु कदावित्पचतीत्येतद्भवति कदाचिन्नेति तदस्त्यादिषु नास्ति । नह्यस्तीति कदाचिद्भवति, अपि तु सर्वदेति पाकादिभिर्वैधर्म्यम् । यथा च पचतितरमिति प्रकर्षो भवति नैवमस्तितरामिति ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-47.
“*किं यत्तदिति” । यत्तच्छब्दाभ्यां कारकवैचित्र्यं निदर्श्यते ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-48.
“*प्रवृत्तिविशेष इति” । सर्वा प्रवृत्तिः प्रवृत्त्यन्तराद्भिद्यते इत्यस्त्येव सर्वस्याः किर्यात्वम् ॥ “*अन्यथेति” । शुष्कौदने मन्दप्रयत्नः प्रवत्रते मांसौदने तु संवेगेन । यथा च भोजनक्रियाणां परस्परवैलक्षण्यात्प्रवृत्तिविशेषत्वं नैवमस्त्यादीनाम् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-49.
“*यद्येवमिति” । अत्रापि प्रवृत्त्यन्तरापेक्ष्यास्त्येव प्रवृत्तिविशेषरूपत्वमित्यर्थः ॥ “*अन्यथेति” । अस्तावात्मभरणरूपा प्रवृअत्तिर्भ्रियतौ तत्यागरूपा । उत्पत्तिप्रभृत्याविनाशाच्च सत्तानुषङ्गादस्तीति प्रत्ययस्य सन्निहितेषु साधनेषूत्पत्तिरवश्यं भाविनीति कादाचित्कत्वाभावः । प्रकर्षप्रत्ययोपि दृश्यते विद्यतेतरामिह धान्यमिति ।
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-50.
अत्रैवार्थे आगममाह-”*षाडू भावविकारा इति”* । भावस्य क्रियायाः षट्र प्रकारा इत्यर्थः । तेषु चास्तिः पठित इति तस्यापि क्रियात्वमित्यर्थः । अथ वा भावस्य सत्ताया एते प्रकाराः । सत्तैवानेकाक्रियात्मिका साधनसम्बन्धादवसीयमानसाध्यरूपा जन्मादिरूपतयावभासते । एते च भावविकारा निरूक्ते निपुणं व्याख्याताः । इह तु प्रकृतानुपयोगात्र व्याख्यायन्ते ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-51.
“*सर्वेथेति” । भावविकारपरिसङ्ग्यानस्याव्यापकत्वमित्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-52.
“*एवं तर्हिति” । अनुमानेन स्थनस्य क्रियात्वं प्रतिपादयति । अन्यथा स्थित इत्युक्ते
वृद्धिक्ष्यनिवृत्तिर्नप्रतीयेत ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-53.
“*अथवेति” । क्रियान्तरधर्मसमन्वयेनास्त्यादिनां क्रियात्वं प्रतिपाद्यते । घट इत्युक्ते कालविशेषावगतिर्नास्ति । अस्ति अभूद् भविष्यतीति कालविशेषावगमात् साध्यमानस्य चार्थस्य कालेन योगाअत् क्रियात्ववसायः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-54.
“*अथ वेति” । निर्झातायां सत्तायां किं करोतीति प्रश्रासम्भवादस्तीति प्रतिवचनाभावः । न तु क्रियात्वाभावादित्यर्थः । यदा तु प्रत्यासन्नविनाशशङ्कया देवदत्तः किं करोतीति प्रश्नः । तदास्ति तावदिति प्रतिवचनं भवत्येव ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-55.
“*अथ यद्येवेति” । परिस्पन्दापरिस्पन्दरूपतयाक्रियाभावयोर्भेदेनोपन्यासः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-56.
“*तदा वेत्यत्रेति” । अदादीनामादौ `वा गतिगन्धनयो’रिति पठितव्यम् । अदादिगणोऽपि गणनामादौ । तेन सर्वे धातुपाठसन्निविष्ठा गृहीता भवन्ति ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-57.
“*यदि तर्हीति” । `क्रियावचनो धातु’रिति वा `भाववचनो धातु’रिति वा लक्षणं क्रियते नार्थः पाठेनेत्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-58.
“*भूवादिपाठ इति” । यथ भोक्तं पाक इति क्रियाश्रयाणि तुमुनादिनि भवन्ति तथा धातुसंज्ञापि स्यादिति पाकादिनां शयितव्यादीनां च प्रातिपदिकानां पाठेनासौ निव्र्त्यते । तथा हिरूक् पृथग् इत्यादीनां च क्रियाप्रधानानामव्ययानाम् ।
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-59.
“*एतेषामपीति” । तेषामपाठे निवृत्तिरणवयत्यादिवत्स्यात्तस्मादाणवयत्यादिष्वेषां निवृत्तिर्थथा स्यात् तन्मध्ये मा प्रविक्षन्नित्येवमर्थस्तेषामपि पाठः करव्य इत्यर्थः ।
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-60.
“*शिष्टप्रयोगादिति” । प्रयुक्तानामिदमन्वाख्यानम्, न चाण्वयत्यादयः शिष्टैः प्रयुज्यन्ते इति नास्ति तेषां शास्त्रेणानुविधानमिति भावः । एतेनैव न्यायेन प्रातिपदिकमेवृत्त्यर्थोपि पाठो नोपयुच्यते । नहि पाकादयः शब्दाः धातुर्विहितप्रत्ययपरा लोके प्रयुज्यन्ते ॥ 1 ॥
“*उपदेशे” ॥ 2 ॥ उदृएशोपदेशशब्दयोरूपसर्गभेदेपि अभित्रार्थत्वं प्रकमत उपक्रमते इत्येतयोरिव मन्यमानः पृच्छति -`उपदेश इति किमर्थमिति’ ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-62.
“*अभ्रआँ अप इति” । अयं नोपदिष्टः किं तर्हि `अङोऽनुनासिकश्छन्द’सीति लक्षणेनान्तरतम आङः स्थाने विहितः । यदि तु `आङ आँ छन्दसि’ इत्यवक्ष्यत्तदाऽभविष्यदेषोप्युपदेशेऽनुनासिकः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-63.
“*प्रत्यक्षमाख्यानमिति” । इन्द्रियगोचरार्थस्य यदाख्यानं स उपदेश इत्यर्थः ।
प्रसिद्धधर्मापादानेन तु यत्प्रतिपादनं स उद्देशः ।
`प्रत्यक्षमाख्यात’मिति क्वचित्पाठः । तत्राख्यानमाख्यातमिति भावे त्तो विज्ञेयः ॥ “*ईदृश इति” । एतैः शब्दैः यादृशो बुद्धावर्थः प्रतिभासते तादृशो बाह्य इत्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-64.
“*इत्संज्ञायामिति” । उक्तविशेषस्य निष्ठाद्यसंग्रहेणात्राश्रयणमशक्यमिति भवः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-65.
“*लक्षणेनेति” । लक्ष्यतेऽनेनेति लक्षणं गुणस्तेनाप्युपदेशो भवतीत्यर्थः ॥ “*इषेत्वकमधीष्वेति*” । इषेत्वकमित्येतत् पूर्वेण संबध्यते स तस्मायाचष्टे इषेत्वकमिति । इषेत्वाशब्दो यस्मिन्ननुवाकेऽस्ति तमाचष्टे इत्यर्थः । `गोषदादिभ्यो वुन्नि’ति बुन्प्रत्ययः । किमर्थमाचष्ट इत्याह-”*अधीष्वेति” । अध्ययनार्थमाचष्टइत्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-66.
“*अकार्यं लोप इति” । यदि लोपोभिमतोऽभविष्यदाङो लोपश्छन्दसीत्येवावक्ष्यदित्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-67.
“*अनन्तरलक्षणायामिति” । यदा अनेकान्ता अनुबन्धास्तदा अनन्तर इत्संज्ञकः कर्यस्य विशेषकोभवतीति धातोरात्त्वादिट्रप्रतिषेधप्रसङ्गः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-68.
“*उपदेशन इति” । तेन शास्त्रे य उच्चारितोऽनुनासिकः स इत्संज्ञा इत्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-69.
“*परत्वादिति” । परत्वेन बाधकत्वं लक्ष्यते । तेनानवकाशत्वाल्ल्युट् प्राप्नोतीत्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-70.
“*हलश्चेति” । अयं तु ल्युटो बाधको घञ् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-71.
“*प्रायवचनादिति” । `हलश्चे’त्यत्र संज्ञायं प्रयेणेति चानुवर्तते । संज्ञया च प्रायग्रहणमभिसंबध्यते प्रायेण संज्ञायं घञ् भवति क्वचिदसंज्ञायामपीत्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-72.
“*संज्ञायामेवेति” । प्रत्ययस्य विधेयत्वात्प्राधान्यात्प्रायग्रहणं प्रत्ययेनैव संबध्यते, न तु गुणेन संज्ङयेत्यर्थः । उपाधिविशेषणयोश्च वाच्यत्वावाच्यत्वाभ्यां विशेषः । तथाहिदृतिहरिरिति प्रत्ययेन पशुः कर्ताभिधीयते इति पशुरूपाधिः । गार्गिकया श्लाघा वुञा नाभिधीयत इति विशेषाणमुच्यते ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-73.
“*इनङ् विभाषेति” । प्रत्ययस्य विधेयतया प्राधान्यात्तादर्थ्येन प्रकृतेर्गुणत्वात्तदादेशस्येनङोपि गुणत्वादुपाधित्वमित्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-74.
“*इनङोवात्रेति” ॥ अपूर्वोपदेशात्तस्यैव प्राधान्यमित्यर्थः । ढक्तु `स्त्रीभ्यो ढगि’त्येव सिद्धः । तदनुवादेनेनङ् विधीयते ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-75.
“*कुगोवेति” । `उदीचां वृद्धादगोत्रा’दित्टनेन फिञ् विहितस्तदनुवादेन कुको विधानात् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-76.
“*न चेदमकृतमिति” । आश्रितमेवेत्यर्थः । गुणप्रधानसन्निधौ यत्र प्रधानमर्थि विशेषणेन भवति तत्र तस्यैव विशेषणं न्याय्यं न तु गुणस्य ॥ “*एवं च कृत्वेति*” । एवं स्थित्वेत्यर्थः । तेन घञेव न्यायवशात्संज्ञायां प्रयेण तिष्टति स एवात्र न प्राप्न्तोतीति समानकर्तृकत्वात् काप्रत्यय उपपद्यते ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-77.
“*एवं तर्हीति” । बहुलग्रहणादसंज्ञायामपि घञ् भविष्यतीत्यर्थः ॥
2
॥
“*हलन्त्यम्” ॥ 3॥ अन्तेऽवसाने भवमन्त्यम् ॥ “*सर्वो हि हलिति*” । सर्वस्य हलोऽवसानेन सम्बन्धात् । अन्त्यग्रहणं त्वादिनिवृत्त्यर्थं स्यात् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-79.
“*सिद्धं त्विति” । व्यवसिताः परिच्छिन्ना ये समुदायाः धातुत्वप्रत्ययत्वादिना धर्मेण तेषां योन्त्य इत्यर्थः । अवयवास्तु समुदायतन्त्रत्वान्नान्तरीयकोपदेशत्वाद्धातुत्वादिना न परिच्छिन्नाः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-80.
“*तत्र प्रकषगतिरिति” । आदिनिवृत्त्यर्थत्वादन्त्यशब्दस्य कथं प्रकषगतिः । उच्यते-आदेरप्युच्चारणान्तरमवसानसम्बन्धादन्त्यत्वमनिवार्यमिति नास्ति तन्निवृत्तिरिति सामर्थ्यात्प्रकष आश्रीयते ॥ “*व्यवसितां योन्त्य इति” । आदिमध्यानां च काल्पनिकमन्त्यत्वं स??न्यस्य तु नित्यमेवेति तस्यैव युक्तं ग्रहणम् । “*अथ वेति” । पूर्वं समुदायावयवसन्निधौ समुदायापेक्षमन्त्यत्वमाश्रयितुं युक्तमिति परिह्रतम् । इदानीं तु समुदायार्थत्वादुपदेशस्यावयवानामसत्त्वात्तदपेक्षणं दूरोत्सारितमिति मत्वा परिह्?यते ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-81.
“*लकारस्येति” । इतरेतराश्रयं मन्यते । `शषसर् हल्’ इत्यत्र लकारस्य सत्यामित्संज्ञायां हलिति प्रत्याहारः । सति च प्रत्याहारे `लणि’त्यत्र लकारस्य हल्त्वात्तस्यैव`शषसर् हलि’त्यत्रान्ते निर्दिष्टत्वादित्संज्ङेति प्रत्याहारश्रयाइत्संज्ञा, तदाश्रयश्च प्रत्याहारः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-82.
“*लकारश्चेति” । पूर्वं लकारस्येत्संज्ञा विधेया तेन हलिति प्रत्याहार उपपद्यते । तत्र हल् च ल् चेति समाहारद्वन्द्वं कृत्वा `संयोगान्तस्य लोप’ इति लकारो लुप्यते ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-83.
“*हल् चेति” । हस्य ल् हल् । हल् इत्येकः षष्टीतत्पुरुषः ।
द्वितीयः प्रत्याहारः ।
`नपुंसकमनपुंसकेने’ति चैकशेषः । एकस्य पुल्लिङ्गत्वादितरस्य नपुंसकत्वात् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-84.
“*अथ वेति” । `शषसर् हलि’त्यत्र `हलन्त्य-’ मित्यत्र च लुकारस्यैकादेशो लपरत्वं च क्रियते ॥ नन्वेवमपीतरेतराश्रयमेव । लुकारस्य सत्यामित्संज्ञायां हलिति प्रत्याहारः, सति च प्रत्याहारे `एऔजि’ति चकारस्येत्संज्ञा, तस्यां सत्यामजिति परत्याहारः, अजिति प्रत्याहारे सति लुकारस्येत्संज्ञा ॥ एवं तर्हि `लुदित’ इति ज्ञापकात् लुकारस्येत्संज्ञाकार्यं ॥ एवं तर्हि `लुदित’ इति ज्ञापकात् लुकारस्येत्संज्ञाकार्थं भविष्यतीति नास्तीतरेतराश्रयमिति भगवतो भाष्यकारस्याभिप्रायः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-85.
“*अथ वेति” । णलो लकारः स्वरार्थः कृतः, असत्यां चेत्संज्ञायां कुतः स्वरः । श्रवणार्थस्तु णलो न लकारः, `हलङ्या’बिति सूत्रे हल्ग्रहणाण्णल्व्यावृत्त्यर्थात् । तत्र हि वेभेदेति णल्व्यावृत्तय्र्थं हल्ग्रहणं कृतम् । लकारस्य श्रवणेऽपृत्तत्वाभावाल्लोपस्याप्राप्तिरिति किं हल्ग्रहणेन ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-86.
“*प्रातिपदिकप्रतिषेध इति” । यदा मञ्जकादिनिवृत्त्यर्थः प्रातिपदिकानामुपदेशः कर्तव्य इति पक्षस्तदायं प्रतिषेधः । अन्यथा उपदेशाभावात्प्राप्त्यभावादनर्थकः प्रतिषेधः स्यात् ॥ “*कुम्भकार इति*” । अपवादविषयपरिहारेणेत्संज्ञायाः प्रवर्तनात्पूर्वं प्रातिपदिकसंज्ञेति प्रतिषेधे प्राप्तेऽ`कृत्तद्धित’ इति प्रतिषेधः क्रियते ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-87.
“*प्रत्ययग्रहणमिति” । उदश्वित्शकृदिति चैतावव्युत्पन्नौ । शकृदिति `शकेरृतिन्’ इति यद्यपि व्युत्पाद्यते तथाप्युपदेशे तक्षोन्त्यो न भवतीतीत्संज्ञा न प्रवर्तते ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-88.
“*राजा नक्षेति” । नन्वव्युत्पत्तिपक्षेऽप्यनयोरवश्यमाद्युदात्तत्वमेष्टव्यम् । तत्राद्युदात्तस्याद्युदात्तत्वे किं प्रयोजनं येनेत्संज्ञा स्यात् ॥ उच्यते-आमन्त्रितनिधातप्रतिषेधार्थमाद्युदात्तत्वं स्यात् । `न ङिसंबुद्ध्यो’रिति नलोपस्य प्रतिषेधोनेत्संज्ञाया इति तत्प्रतिबद्धः स्वरः स्यात् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-89.
“*व्यपवर्गाभावादिति” । नित्परो नास्तीति भावः । यदा तु सौवर्थः सप्तम्थस्तदन्तसप्तम्य इति पक्षास्तदापि निदेवायं न तु निदन्त इति नास्ति स्वरः । अत्र तु पक्षे श्रोत्रियन्निति यध् वाक्यार्थे
पदवचनं तदा स्वरो न सिद्ध्यति । यदातु छन्दसः श्रोत्रगावः घंश्च प्रत्ययस्तदा निदन्तत्वात्स्वरसिद्धिः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-90.
“*तद्यथागस्त्येति” । प्रत्ययस्य लुकि कृते परिशिष्टस्य कुण्डिनजादेशः । तत्र प्रत्ययलक्षणेन तद्धितान्तत्वात्प्रतिपदिकत्वादित्संज्ञानिषेधः स्यात् । न चायं चकारस्तद्धितसंबन्धी यतोऽ`कृत्तदिधित’ इति निषेधः स्यात् ॥ 3 ॥
“*न विभक्तौ तुस्माः” ॥ 4 ॥ “*इत्संज्ञापरित्राणार्थमिति” । इत्संज्ञायाः परित्राणमिति `साधनं कृते’ति पञ्चमीतत्पुरुषः । शेषविवक्षायां वा षाष्टीसमासः । अनेनोकारेणानुमीयते येषां `प्राग्दिशो विभक्ति’रिति विभक्तिसंज्ञा तेषां `न विभक्ता’वितीत्संज्ञा न निषिध्यते इति ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-92.
“*अत्रेति” । इदानीमित्यत्र ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-93.
“*अर्थेष्विति” । यथेष्टमवधिमत्कल्पनेत्यत्रार्थेविधिमत्त्वेनाश्रीयते । तत्रानुत्पन्न एव प्रत्यय इश्भावः । ततः प्रत्ययः । यदि तु पूर्वं प्रत्ययः स्यात्तदा मित्त्वादचोन्त्यात्परेदानीमि कृते तन्मध्यपतितस्य तद्ग्रहणेन ग्रहणात्सर्वादेश इशि सति दानीविधानमनर्थकमेव स्यात् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-94.
“*ततोप्ययमिति” । `तदो दा चे’ति चकारेणानुकर्षणात् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-95.
“*ननु चेति” । सप्तम्यां विभक्तावुत्पन्नायामत्वे कृते दानीमिति भावः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-96.
“*तद्धीति” । प्राग्दशोर्थेष्विति पूर्वमभिदानात्सप्तम्यर्थवृत्तेः कालवाचिनो मित्त्वान्मध्ये दानीमा भाव्यमिति तदानीमित्यस्यासिद्धिरेवेत्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-97.
“*यकारान्त इति” । यकारोन्त्यत्वमनुभवन्मकारस्यान्त्यत्वं प्रतिबध्नाति । यकारस्य् च `संयोगान्तस्य लोप’ इति लोपः क्रियते ॥ यद्येवं मकार एवोपदेशोऽन्त्यः श्रूयते इति प्राप्नोत्येव मक्रस्येत्संज्ञा । नैतदस्ति । `पूर्वत्रासिद्ध’मिति मक्रस्येत्संज्ञायां यलोपस्यासिद्धत्वादन्त्यत्वाभावात् ॥ 4 ॥
“*चुटू” ॥ 7 ॥ “*लुप्तनिर्दिष्ट इति*” । पूर्वं निर्दिष्टः पश्चाल्लुप्त इत्यर्थः । राजदान्तादेशकृतिगणत्वाद्भाष्यकारवचनाद्वा पूर्वकालस्य परनिपातः ॥ अथ वा लुप्तोयमिति प्रतिज्ञातो लुप्तनिर्दिष्टः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-99.
“*इर उपसंख्यानमिति” । `इरितो वे’त्यत्रेरिति समुदायानुकरणम् इर इत् यस्य सोयमिरित् । समुदायस्य चाज्ज्ञलात्मकत्वादप्राप्ता इत्संज्ञोपसंख्यायते । समुदायस्यैवेत्संज्ञासंबन्धेऽव्यवाः पारतन्त्र्यादित्संज्ञां न लभन्त इत्यादित्त्वाभावान्नुमभावः ॥ नन्वेवं इति स्वरितेत इत्यात्मनेपदं न प्राप्नोति । नैष दोषः । स्वरितत्वप्रतिज्ञानासामर्थ्यादवयवगतं स्वरितत्वं समुदाय आरोपयिष्यते ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-100.
“*अवयवग्रहणादिति” । इरावितौ यस्य स इरिदित्येवमित्संज्ञकत्वेनावयवावेवाश्रीयेते न तु समुदाय इत्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-101.
“*यदि पुनरिति” । यस्य च कुम्भीस्थादन्यन्निहितं धान्यं नास्ति स कुम्भीधान्यः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-102.
यद्यपि नुम्बिधावस्य न्यायस्य निमित्तं नास्ति तथापि दोषेणैव तन्न्यायानाश्रयणमाह-`नायमिति’ ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-103.
“*इकार एवोदिति” । इदिता धातुर्विशेष्यत इति तदन्तविधिः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-104.
“*ऋकारस्येति” । `ऋत इद्धातो’रितीत्त्वे रपरत्वे च भिदिरित्यादिनिर्देशः । अनङ्गस्यापि निपातनादित्त्वम् । तत्र च भिदृशब्दे पूर्वमूकारस्येत्संज्ञा । तत इत्वरपरत्वे । `इरितो वे’त्यत्रापि ऋ इदस्येति समासे कृते निपातनादित्त्वरपरत्वयोः कृतयोरिरित इति निर्देशः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-105.
“*नमुनुषक्तानिति” । नुमा नकारो लक्ष्यते नकारयुक्तानित्यर्थः । न च लोपाभावार्थो नकारोपदेश इति वक्तुं शक्यम् । अनकारोपदेशेपीदित्त्वान्नलोपस्याप्रसङ्गः । तस्मान्नकारोपदेशेनेरितामिदित्यकार्थाभावो ज्ञायते । अन्यथा दृशेरिदित्त्वान्नुमि सति इगुपधत्वाभावात्प्राप्तिरेव क्सस्य नास्तीति किं तन्निषेधेन ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-106.
“*अन्त इति” । `गोः पादान्त’ इत्यतः । तेनान्तेदितां धातूनां नुमागमो न तु मध्येदिताम् ॥
“*तस्य लोपः ॥ 9 ॥ “*तस्यग्रहणमिति*” । अभावो लोपः स च भावोपाधिरेव प्रतीयते नान्यथेति प्रकरणादित्संज्ञस्यैव लोपो भविष्यतीति प्रश्नः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-108.
“*विभक्तिविपरिणाम इति” ।
सादृश्यात्तत्त्वाध्यवसायाद्विपरिणामव्यवहारः । वाक्यान्तरे तु
योग्यविभत्तयन्तं परमार्थतः शब्दान्तरमेव संनिधीयते ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-109.
“*तस्यग्रहणसामर्थ्यादिति” । `अलोन्त्यस्ये’त्यन्त्यस्य लोपे प्रसक्ते तस्यग्रहणेन समुदायस्य लोपः प्रतिपाद्यते ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-110.
“*ग्रहणप्रतिषेधादिति” । नैषामित्य्संज्ञाप्रतिषिध्यतेऽपि तु तत्प्रतिबद्धं कार्यमित्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-111.
“*निर्दिष्ठलोपाद्वेति” । तस्येत्यनेनेत्संज्ञाप्रकरणे निर्दिष्टस्य परामर्शादसत्यामपीत्संज्ञायां लोपो भवतीत्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-112.
“*तुस्मानामिति” । यद्यसत्यामपीत्संज्ञायां लोपो भवति तदा तुस्मानामपि प्राप्नोति । ते हि `हलन्त्य’मित्यत्र निर्दिष्टाः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-113.
“*नवेति” । इत्संज्ञायाः प्रतिषेधादेषामित्कार्यं नास्ति । यदि चानेन लोपः स्यादुपदेशस्तेषामनर्थकः स्यात् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-114.
“*अनुबन्धलोप इति” । यथा कश्चिद्वक्तिघटोस्तीति पुनश्च वक्ति नास्तीति तथानुबन्धानासुच्चारणाद् भावानुज्ञानं लोपविधानाच्चाभावनुज्ञेति विरोधादप्रमाण्यप्रसङ्गः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-115.
“*सिद्धमिति” । यथाऽणं को बाद्यते तथा कार्ये चरितार्थमुच्चारणात्प्राप्तं भावं लोपोऽनन्यार्थो
बाधते ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-116.
“*एकान्त इति” । एकदेशः । अवयव इत्यर्थः । अनेकान्तस्तूपलक्षणमेव केवलम् । यथा गृहस्य काकः । तत्रोपलभ्यमानस्य रूपद्वयदर्शनाद्?क्षे शाखाबलाकयोरिवेति प्रश्नः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-117.
“*एकान्तस्तत्रोपलब्धेरिति” । ननु यदेव संशयनिमित्तं स [एव] कथं निश्चहेतु । उच्यते-सामर्थ्यादवधारणमास्रीयते ॥ तत्रैवोपलब्धेरिति । अवयवस्तत्रैवोपलभ्यते । अनवयवस्तु तत्र चान्यत्र च ॥ ननु वकारस्य वनव्रणवृक्षादिषु बहुषूपलब्दिः, न चासावनवयवः । नैष दोषः । भिन्नस्मुदायविषयं वर्णान्तरमेव तदिति शकुनिभाष्ये प्रतिपादितम् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-118.
“*तत्रासरूपेति” । अनाकारान्तत्वादित्येतद्दाप्प्रतिषेध इत्यनेनैव सामर्थ्यात्सम्बध्यते ॥ “*कविषय इति*” । एकान्तत्वे वैरूप्यात्समावेशप्रसङ्गः । अनेकान्तत्वे तूभावप्यकाराविति सारूप्यादसमावेशः ॥ “*अनेजन्तत्वादिति*” । यथा ढौकतेः ककारस्यैकान्तत्वादात्तवं न भवत्येवं दैपोपि न प्राप्नोति । उपदेशग्रहणाच्च लुप्तेपि पकारे न प्राप्नोति ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-119.
“*अस्तु तर्हिति” । कार्यलक्षणाय केवलमनुबन्ध उपात्तो न तु तस्यावयवः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-120.
“*वृत्तिविशेष इति” । बहुव्रीहिर्न सिद्धयति । अनेकान्तत्वे क इद्यस्येति संबन्धाभावात् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-121.
“*अन्तर इति” । यद्यप्यनन्तरादिषु बहुव्रीहिर्न भवति तथापीह वचनसामर्थ्याद्भवति ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-122.
“*व्यवसितपाठादिति” । व्यवसितानां विच्छिन्नानां पाठः कर्तव्यः । ततः पूर्वस्यैवासावनन्तरः न तु परस्य । कालव्यवधानात् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-123.
“*व्याख्यानन इति” । एकान्तपक्षे एकोवयवो द्वयोर्न भवतीति सन्देहे व्याख्यानान्निश्चयः । अनेकान्तत्वे त्वानन्तर्थस्योभयापेक्षस्य विरोधाभावह्यवसितपाठ एव कर्तव्यः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-124.
“*वृत्ताद्वेति” । `वृत्तं’ प्रयोगः ॥ नन्वाचार्यो भवतु वृत्तज्ञः शिष्यस्तु कथं प्रतिपद्यन्ते ॥ व्याख्यानाच्चेत् । पूर्वमेवैतदुक्तम् । `वृत्ताद्वे’त्यनेन किं तदेवोच्यते ॥ नैष दोषः । पूर्वं हेतुरहितं व्याख्यानमुक्तम् । `वृत्ताद्वे’त्यनेन तु हेतुरुच्यते । तस्मिन् प्रतिपन्ने साध्यं स्वयमेवावैति ॥ भाष्यकारेण वा तदुक्तम् इदं तु वार्तिककारेण ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-125.
“*मेङइति” । यद्यप्यनेकान्तपक्षस्यापि ज्ञापकमेतह्याख्यातुं युज्यते तथापि हेतुरहितत्वादिहानेकान्तपक्षो भाष्यकृता त्यक्तः ॥ प्रदेशान्तरे त्वनेकान्तपक्षेणापि व्यवह्र्यते -”*सिद्धमनुबन्धास्यानेकान्तत्वात्*” इति ॥ 9 ॥
“*यथासंख्यम् ॥ 10 ॥ संख्यानं गुणनमुच्यते । अनुदेशशब्दस्य सम्बन्धिशब्दत्वादुद्देश्याक्षिप्तः । तेनायमर्थः-समानां समसंख्यानं मध्ये यथागणनमुद्देशिभिः सहानुदेशिनः सम्बध्यन्ते ।
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-127.
“*इको यणचीति” । इक्शब्देन चत्वारः स्थानिनः प्रत्याप्यन्ते, यण्शब्देनापि तत्वार आदेशा इत्यर्थतोस्ति संख्यासाम्यम् । पश्चात्तु यद्यपीकारादिमिर्वहूनां ग्रहणाद्वैषम्यं तथापि प्रथमतोस्त्येव संख्यासाम्यम् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-128.
“*इदं तर्हिति” । नात्र स्थानकृतमान्त्यर्थ्मस्ति ।
नाप्यादेशप्रवृत्तिकालेर्थकृतान्तर्थसम्प्रत्ययः ।
प्रवृत्तानामादेशानां स्थान्यर्थाभिधानात् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-129.
“*ननु चेति” । नित्यानां शब्दानं प्रयोगदर्थकृतामान्तर्तमस्त्येवेति भावः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-130.
“*किमर्थमिति” । पाठकमेणैव संबन्धो भविष्यतीति भावः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-131.
“*संज्ञासमासनिर्देशादिति” । `परस्मै पदानां णलतु’सित्यत्र संज्ञया सर्वे युगपप्रत्याप्यन्ते इति नास्ति पाठकमाह्यवस्था । लोकेप्यजाविधनौ देवदत्तयज्ञदत्ताविति समासनिर्देशे नास्ति क्रियनियमः । द्वन्द्वेऽनेकावयवात्मकः समुदाय एकेनैव शब्देन प्रत्याप्यत इति कुतः क्रमनियमः स्यात् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-132.
“*किं पुनरिति” । तपो णल् तसोतुसित्यादि कस्मान्न क्रियत इति प्रश्नः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-133.
“*विदो लटो वेति” । पृथग्निर्देशे क्रियमाणे मसो स इत्येवानन्तर्थात्संबध्येतेत्यर्थः ।
व्यवहितानामपि स्वरितत्वादनुवृत्तावास्रीयमाणायां प्रतिपत्तिगौरवप्रसङ्गः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-134.
“*किं पुनरिति” । यद्यप्यर्थे शब्दस्य गुणभावादर्थत एव साम्यं न्याट्यं तथापि शब्दधर्मेणाप्यर्थस्य व्यपदेशो दृश्यते यथा भ्रमरशब्दस्य द्विरेफत्वाद्विरेफो भ्रमरः । तथा ह्यक्षरं ंआसं ह्यक्षरमस्थि । तरमाच्छब्दतोपि साम्यमत्राशङ्कितम् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-135.
“*णलादय इति” । परस्मैपदआसब्देन प्रकृतानामेव नवानां ग्रहणं न तु शतृकस्वोरित्यर्थतः साम्यमस्ति, न तु शब्दतः ॥ “*डारौरस इति” । यदा डारौरसश्च डारौरसश्च डारोरसश्वेत्येकशेषः
क्रियते तदार्थतः संख्यासाम्यमस्ति ॥ “*अगमक इति*” ।
संख्यासाम्यस्यानवबोधक इत्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-136.
“*लृलुटोरिति” । लृशब्दसय लृङ्लृटावर्थाविति साम्याभावः । यदा तु लृरूपं सामान्यमर्थो लृशब्दस्येति पक्षास्तदास्त्येव साम्यमिति दोषाभावः ॥ नन्द्यादिष्वप्यवयवेन विग्रः समुदायः समासार्थ इत्याश्रीयमाणे समुदायत्रयापेक्षया प्रत्ययत्रयस्य्त् साम्यसद्भावाददोषः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-137.
“*आत्मनेपदेति” । नन्वात्मनेपदसंज्ञा न तङ्शब्दस्य किं तु तत्प्रत्यायितानां नवानां तादीनामिति नास्त्यर्थतः साम्यम् नैष दोषः । तद्रूपापन्न्नास्तादय आत्मनेपदशब्देन प्रत्याट्यन्त इत्यस्ति साम्यम् ॥ “*सार्वधातुकद्विग्रहणेष्विति*” । द्वौ गृह्येते येषु तानि द्विग्रहणानि सार्वधातुकस्यद्विग्रहणानीति समासः । सार्वधातुकमपि तेषु गृह्यत इति तेन विशेष्यन्ते ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-138.
“*संवृतावर्ण इति” । यद्यपि शास्त्रेऽकारस्य विवृतोपदेशः कृतस्तथापि लौकिकप्रयोगापेक्षयैतदुक्तम् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-139.
“*क्ङितौ द्वाविति” । क्ङिच्छब्दस्यैकत्वेपि ककारङकारयोर्द्वित्वादस्ति शब्दतः साम्यम् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-140.
“*उदिकूल इति” । द्वन्द्वोयम् आगन्तुना चेकारेण निर्देश इति चोद्यम् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-141.
उदीति पञ्चम्याः स्थाने सप्तमी कृता । उदः पराभ्यां रूजिवहीत्येताभ्यामिति परिहारः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-142.
“*धातुत्रिग्रहणेष्विति” । त्रीणि ग्रहणानि येषां ते त्रिग्रहणा धातवस्त्रिग्रहणा येषु तच्छीलादिषु
इति पुनर्बहुव्रीहिः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-143.
“*कर्तृकर्मणोरिति” । भवतेरकर्मकत्वात्कर्तैवोपपदम् । करोतोस्तूपपदद्वये स्वलिष्यते ॥ अन्ये तु प्राप्त्यर्थस्य भवतेरूपपद्वये प्रत्ययमिच्छन्ति ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-144.
“*छन्दोग्रहणानिति” । गोबलीवर्दन्यायेन छन्दःशब्देन मन्त्राणां । यथा `जुष्टार्पिते च छन्दसी’ति ब्राह्मणानां ग्रहणं `नित्यं मन्त्र’ इति मन्त्रग्रहणात् । छन्दोग्रहणेनैव तु ब्राह्मणानां ग्रहणे सिद्धे ब्राह्मणविशेषप्रतिपत्त्यर्थं पुनर्ब्राहमणग्रहणम् कृतम् । तेन याज्ञावल्कानि ग्राह्मणानीति तद्विषयता न भवति ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-145.
“*न वेति” । अनुदेष उच्चारणम् । योगान्तरे तु शब्दान्तरस्यानुमानं न तूच्चारणमिति न्यायप्राप्त एवायमर्थः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-146.
“*विदो लटो वेति” । अत्र तु लब्धयथासंख्यानामनुमानाददोषः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-147.
“*मुष्मदस्मदोश्चेति” । `बहुवचनस्य वस्त्रसा’वित्यादिषु योगेष्वनुमीयमानत्वाद् युष्मदस्मदोर्यथासंख्यं न प्राप्नोति ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-148.
“*यस्मिन् पक्षइति” । शब्दतः साम्यमेकयोगे चेत्येष पक्ष आश्रयितव्य इत्याहुः । दोषप्रतिविधानं तु क्वचिदान्तर्याह्यवस्था क्वचिदनभिधानाभिदानाभ्यामिति कर्तव्यम् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-149.
“*अथवेति” । यत्र स्वरितत्वं प्रतिज्ञायते तत्रैव शब्दतोऽर्थतो वा साम्याश्रयणेन यथासङ्त्वयं, नान्यत्र सत्यपि संख्यासाम्ये ॥ 10 ॥
“*स्वरितेन ॥ 11 ॥ स्वरितेनेतीत्यंभुतलक्षणे तृतीया । स्वरितेनाधिकारो लक्ष्यते इत्यर्थः । स्वरितत्वं सूत्रस्थानां केवलमधिकारज्ञानार्थं प्रतिज्ञायते, न तु प्रयोगसमवायि । अधिकारशब्दो भावसाधनः कर्मसाधनो वा। विनियोगो लोकेधिकार उच्यते स एवेह गृह्यते ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-151.
“*किमर्थमिति” । आकाङ्क्षादिवशात्प्रकृतस्य सम्बन्धो लोक इव भविष्यतीति प्रश्नः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-152.
“*किं गतमिति” । किमर्यमर्थोधिकारशब्देन परिगृहितः अथ नेति प्रश्नः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-153.
“*शब्देनेति” । नहि परिस्पन्दरूपः शब्दस्य व्यापारोस्ति ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-154.
“*न वेति” । वचनहिताल्लोकव्यवहारादेतत्साध्योर्थः सिद्ध इत्यर्थः ॥ “*यज्ञादत्तायेति*” । सम्प्रदानविभत्तया सन्निहिता गोकर्मिका ददातिक्रियापेक्ष्यते । अश्रुतकल्पनायाः श्रुतापेक्षणस्य लाघवात् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-155.
“*घञो निवर्तकः स्यादिति” । ततश्चा`ऋओशेबन्योर्ग्रह’ इत्यादिष्वनन्तर इनुण स्यात् । सति सूत्रे घञः स्वरितत्वप्रतिज्ञानादनुवृत्तिर्भवति न त्विनुणो विपर्ययात् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-156.
“*अधिकारपरिमाणाज्ञानं त्विति” । यथा धातोरिति किं प्राग्लादेशेभ्योऽथाद्यायपरिसमाप्तेः ।
अङ्गाधिकारः प्रागभ्यासविकारेभ्योथासप्तमपरिसमाप्तेरिति ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-157.
“*स्वरितं दृष्ट्वेति” । प्रकृतस्याधिकारनिवृत्तयेशब्दान्तरस्य स्वरितत्व प्रतिज्ञायते । तेन
`विंशतिकात्स्व’ इत्यत्र स्वरितत्वदर्शना`द्वित्रिपूर्वादि’त्यस्य निवृत्तिगनुमीयते ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-158.
“*यावतिथ इति” । `द्वित्रिपूर्वान्निष्कादि’त्यत्र इकारोनुबन्धः कर्तव्यः । तेन द्वयोर्योगयोरनुवृत्तिर्भवति । एवमन्यत्रापि वेदितव्यम् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-159.
“*अल्पीयांस इति” । कथं पुनार्भिन्नजातीयापेक्षया प्रकषप्रत्ययः ॥ परमतापेक्षया ॥ अल्पे योगा इति चेन्मन्यसे तत्राल्पीयासोऽलः । अथ बहवोऽल इति चेद्भूयांसो योगाः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-160.
“*भूयसीति” । `अङ्गस्य प्राग्द्वे’रित्यादि वक्तव्यम् ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-161.
“*तत्तर्हिति” । `यावतीथोऽलिति भूयसिप्राग्वचनं’ चेत्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-162.
“*घञिति व्याख्यास्याम इति” । ननु चेनुण आनन्तर्यात्संदेहाभावः । उच्यते-घञोनुवृत्तिसामर्थ्यं दृष्टम्, इनुणश्चानन्तर्यमिति निमित्तसद्भावादस्ति संदेहः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-163.
“*सांकाश्यकेभ्य इति” । ब्य्द्धया समीहितैकत्वाः प्रकषाश्रयेण पाटलिपुत्रका विभज्यन्ते इति मुख्यापायाभावादपादानसंज्ञा न स्यात् ।
`घ्रुवमपाये’ इत्यत्र तु स्वरितत्वे प्रतिज्ञाते सति बुद्धिपरिकल्पितापायाश्रयणेनापि भवति ॥ “*कृत्स्त्र आधारात्मेति*” ।
सर्वे अवयवा यत्र व्याप्ता
इत्यर्थः ॥ “*गङ्गायां गाव इति*” । गङ्गाशब्देत्र नद्यामेव वर्तते न तु तत्समीपदेशे । तस्य हि मुख्यमेवाधारत्वमित्यप्रयोजनमेतत्स्यात् ।
नद्यास्तु तत्सामीप्याद्गौणमाधारत्वमिति यत्नात्संज्ञासिद्धिः ॥
2.प्रथमाध्याये तृतीयपादे प्रथमाह्निकम्-164.
“*पूर्वेति” । `विप्रतिषेधे परं कार्य’मिति वचनात्पूर्वो बाध्यः स्वरितत्वप्रतिज्ञानेन बाधकः सम्पद्यते । तुल्यजातीयस्य बाधकः, न तु नित्यत्वादियुक्तस्य ॥ 11 ॥
इत्युपाध्यायजैयटात्मजकैयटकृत महाभाष्यप्रदीपे प्रथमस्यद्यायस्य
तृतीये पादे प्रथमाह्निकम्
“*अनुदत्त ॥ 12 ॥ “*विकरणेभ्य इति*” । लादेशेषु कृतेषु नियमात्पूर्वं नित्यत्वाद्विकरणास्तेषा `सार्वधातु कम्पि’दिति ङित्वातिदेशादात्मनेपदनियमोनेन प्राप्नोतीति ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-2.
“*ङकार इत्दिति” । अन्यपदार्थापेक्षणाद्वहिरङ्गो बहुव्रीहिः । तत्पुरुषस्तु वर्तिपदार्थप्रधानत्वादन्तरङ्ग इति स एवास्रीयते । केवलाच्च ङकारादिति आत्मनेपदासम्भवात्सामर्थात्तदन्तविधेर्वाऽत्र ङिदन्त आश्रीयते । तेन ङिदन्तादात्मनेपदमित्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-3.
“*अथवेति” । तेनोपदेशे यो ङित्तस्मादात्मनेपदम्, न त्वातिदेशिकङित्वेभ्यः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-4.
“*एवं तर्हीति” । अत्रापि पक्षे उच्चुकुटिषतीत्यतिप्रसङ्गनिवारणार्थं `सिद्धं तु पूर्वस्य कार्योतिदेशा’दित्यप्याश्रयणीयम् ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-5.
“*किमर्थमिति” । किं विहितानां लादेशानामनेन नियमः क्रियते । अथ वाक्यैकवाक्यतया विधिरिति प्रश्नः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-6.
“*नियमार्थ इति” । एकवाक्यतायां भाविनी संज्ञाश्रयणीयेत वाक्यभेद एवाश्रीयते । तेन नियमोयं सम्पद्यते ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-7.
“*परत्वादिति” । विकरणानामवकाशः अलादेशाश्चानशादयः । नियमस्यावकाशः लिङ्लिटावार्धधातुकसंज्ङौ ।स्पर्द्धत इत्यादावुभयप्रसङ्गे परत्वाद्विकरणस्तेन व्यपधानान्नियमाप्रसङ्गः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-8.
“*अनवकाश इति” । सर्वत्र विकरणानां व्यवधायकत्वादिति भावः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-9.
“*यदि पुनरिति” । आत्मनेपदपरस्मैपदाभ्यां लिङ्गाभ्यामिदं प्रकरण लादेशविधावुपतिष्ठते । तत्र महावाक्येन विहितेषु लादेशेषु विकरणा इति दोषाभावः ॥ स्यादिषुकथम् । ते हि लावस्थायामेव विधीयन्ते इति तैर्व्यवधानान्नियमो न प्राप्नोति ॥ उच्यते-लमात्रापेक्षत्वादन्तरङ्गत्वाल्लादेशेषु कृतेषु लक्षविशेषापेक्षया बहिरङ्गः स्यादयो भविष्ययन्ति `येन नाप्राप्ति’न्यायेन शबादिविधावनुवर्तनाद्वा ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-10.
“*एवमपीति” । एकवाक्यतापक्षे विहिता लादेशा न सन्ति येन तेषां सतामान्त्मनेपदपरस्यैपदशंज्ञे स्याताम् । ततश्चैतत्परइभाषोपस्थाने सति संज्ञाश्रयंलादेशविधानम्, लादेश विधानाश्रया च संज्ञेति भावः ।
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-11.
“*परस्मैपदानुक्रमणमिति” । नन्वसति परस्मैपदानुक्रमणे परस्मैपदमनुदात्तङिभ्द्यः प्राप्नोति ।
नैष दोषः । आत्मनेपदसम्बन्धावगमेन तेषां परस्मैपदसम्बन्धस्य बाधानाच्छेषादेव परस्मैपदमवस्थास्यते ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-12.
“*अवश्यमिति” । आत्मनेपदबाधनार्थमित्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-13.
“*यदयमिति” । कृतनियमानामसङ्करेण श्थितानां हि निमित्तभावोपपत्तिः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-14.
“*अभिनिर्वृत्तानीति” । प्रागपि नियमात्तेषां सम्भवमात्रेण निमित्तत्वावि?धात् ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-15.
“*यत्तर्हिति” । लिङ्लिडर्थं स्यात् । चक्रमे चक्राम क्रम्यात् क्रसीष्टेति । तस्माज् ज्ञापकदिक् पदर्शिता भाष्यकृता । ज्ञापकं तु `वृद्भयः स्यसनो’रित्यत्र स्ये विकल्पविधानम् ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-16.
“*किं पुनरिति” । उभयनियमस्तावन्न संभवति । अनेकस्मिन्नर्थे वाक्यस्यैकस्य तात्पर्यायोगात् । तस्मादन्यतरनियमसंभवात्प्रश्नः ॥ ननु प्राधान्यात्प्रत्ययानां नियमो युक्तः ॥ एवं तर्हि प्राधानोपरोधो मा भूदिति प्रकृत्यर्थनियमोपि संभवति ॥ “*भावकर्मणोरेवेति*” । ननु पूर्वेण नियमाद्भा`वकर्मणो’रिति सूत्रं विध्यर्थं न्याट्यं न तु नियमार्थम् ॥ नैष दोषः । समस्तमात्मनेपदप्रकरणमेकं वाक्यमिति तदपेक्ष्यैतदुक्तम् ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-17.
“*क्यष इति” । `वा क्यष’ इति परस्मैपदेविकल्पिते आत्मनेपदस्यानुदात्तङिदादिषु नियतत्वादप्राप्तत्वाल्लकारस्य श्रवणप्रसङ्गः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-18.
“*उच्यते चेति” । लकारे तिवादिभिर्निवर्तिते नियमः प्रवर्तते तत्र परस्मैपदस्य सिद्धत्वाद्वावचनेन तस्मिन्विकल्प्यमाने वचनमनर्थकं स्यात् । केवलायाः प्रकृतेरप्रयोगार्हत्वाच्छब्दमन्तरेणार्तस्य प्रतिपादयितुमशक्यत्वात् प्रयोगविकल्पायोगात् । तस्मादात्मनेपदमेव विकल्पेन विधीयते ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-19.
“*तव्यदादयोपीति” । यद्यपि स्त्रानीयं चूर्णमित्यादौ करणादीन्यवकाशः, तथापि `तयोरेवे’ति चोदनया भावकर्मणोर्यद्विधानं तदनवकाशम् ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-20.
“*चिण् तर्हीति” । ननु भावकर्मणी सार्वधातुकस्यार्थौ न चिणस्तत्कथमप्राप्तिश्चोद्यते । सहाभिधानपक्षे चिणोपि भावकर्मणि अर्थवित्यदोषः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-21.
“*घञ् तर्हीति” । अकर्तरि विधीयमानोपादानादिषु घञ् सावकाशः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-22.
“*उपपदविशेषणमिति” । सप्तमीस्थस्य सामान्यस्य कर्मणीत्यनेन विशेषस्य प्रतिपादनादुपपदविशेषणमुच्यते । एवमभिधेयविशेषणेनेति व्याख्येयम् ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-23.
“*कर्तरि चेति” । यदा `कर्मवदि’त्ययं शास्त्रातिदेशः, तदा कर्मकर्तरि परत्वात्परस्मैपदं प्राप्नोति । शुद्धौ तु कर्मकर्तारौ उभयोरवकाशौ । कार्यातिदेशे तु परत्वादात्मनेपदं सिध्यति ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-24.
“*प्रकृत्यर्थौ नियताविति” । भावकर्मणोरात्मनेपदमेवेति नियमादन्तरेणापि कर्तृग्रहणं कर्तर्थेव परस्मैपदं लभ्यत इति नार्थः कर्तृग्रहणेन ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-25.
“*कर्तृग्रहणाच्चेति” । परस्तात्तु परिहरिष्यते ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-26.
“*परस्मैपदमिति” । सिद्धे परस्मैपदे पुनर्विधानमात्मनेपदनिवृत्त्यर्थं सम्पद्यत इत्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-27.
“*नास्य किंचिदिति” । पीडारूपं भावस्वभावं वस्त्वित्यर्थः । यदि तर्हि कर्मणि कर्तर्यात्मनेपदं भवति हन्यमानो हन्तीत्यत्र प्राप्नोति । नैष दोषः । प्रत्यासत्त्यैकधातुविषयं कर्मकर्तृत्वं विज्ञायते । यस्य स्वाश्रयं कर्तृत्वं कर्मशास्त्रातिदेशाच्चोपचारिकं कर्मत्वं तत्रैव भवति ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-28.
“*अनुपराभ्यां कृञ इत्येवमर्थमिति” । एष हि योगो व्यवहितः । कषान्तरप्राप्तत्वादत्मनेपदापवादत्वाच्च बलवानिति न शक्यते योगविभागेन बाधितुम् ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-29.
“*ननु चैतदपीति” । प्राप्तिमात्रं योगविभागेन बाध्यते ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-30.
“*ननु चेयमिति” । पूर्वविप्रतिषेधेनेति भावः । `शेषादि’त्यस्यावकाशः याति वातीति । `अनुपराभ्या’मित्यास्यावकाशः-अशेषः कर्त्रभिप्रायक्रियाफलविषयः-अनुकरोतीति । कर्मकर्तर्युभयप्रसङ्गे पूर्वविप्रतिषेधेन `शेषा’दिति प्राप्तिर्भवति। सापि योगविभागेन बाध्यते ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-31.
“*नोत्सहति इति” । `शेषा’दिति प्राप्तिर्योगविभागेनापवादेन कर्मकर्तृविषयाद्विषयान्तरं नीता नोत्सहते परांप्राप्ति बाधितुमित्यर्थः ॥ अथ वा-`इयं’ योगविभागप्राप्तिरविशेषा`दनुपराभ्या’मित्येतामपि प्राप्तिं बाधिष्यत इत्यर्थः ॥ “*नोत्सहत इति*” । अपवादापवादत्वा`दनुपराभ्या’मित्येतया प्राप्त्या प्रतिषिद्धा नोत्सहते नामेव बाधितुमित्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-32.
“*कर्तैव यः कर्तेति” । यस्य व्यपदेशान्तरं नास्तीत्यर्थः । यद्येवमसिश्छिनत्तीति करणकर्तरि न प्राप्नोति । नैष दोषः ॥ कर्त्रवस्थायां करणत्वाभावात् । भिध्यते कुसूलः स्वयमेवेत्यत्र तु स्वाश्रयं कर्तृत्वमातिदेशिकं तु कर्मत्वमिति न भवति परस्मैपदम् ॥ 12 ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-33.
“*कर्तरि ॥ 14 ॥ “*क्रियाव्यतिहार इति वक्तव्यमिति*” । प्रत्यासन्नत्वात्कृत्रिमस्यैव साधनकर्मणो ग्रहणं प्राप्नोति । साधनकर्मणि च धातोर्वृत्त्यसम्भवाद्धात्वर्थस्य तद्विषयत्वं विज्ञायेत ॥ “*देवदत्तस्य धान्यमिति*” । देवदत्तस्वामिकं धान्यं लवनेन स्वीकृर्वन्तीत्यर्थः । क्रियाणां साद्यैकस्वभावानं कथं व्यतिहार इति चेत् योग्यतावशादस्येयं क्रिया साध्या अस्या इदं साधन इति चेत् योग्यतावशादस्येयं क्रिया साध्या अस्मा इदं साधनमिति निर्ज्ञाते साध्यसाधनभावे यो व्यत्यासः स क्रियाव्यतिहारः । परस्परकरणमपि क्वचित् क्रियाव्यतिहारः-यथा सम्प्रहरन्ते राजान इति । अत्रैकैव क्रिया सञ्चारिणीव लक्ष्यते ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-34.
“*क्रियामिति” । लौकिकाश्चार्थ इहानुद्यन्ते ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-35.
“*कथं च क्रियेति” । द्वयोरपि साध्यत्वात्परस्परासम्बन्ध मत्वा प्रश्नः॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-36.
“*क्रियापीति” । भोक्तुमिच्छति भोक्तुं जानातीति दर्शनात् ॥ “*कया क्रिययेति*” । क्रियान्तरवाचिप्रयोगाभावात्प्रश्नः ॥ “*संपश्यति क्रिययेति*” । सन्दर्शनादीनामव्यभिचारात्प्रतीयमानत्वात्प्रतीयमानक्रियापेक्षया च प्रविश पिण्डीमित्यादौ कर्मादिभावदर्शनात् ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-37.
“*इह कर्तरीति” । क्रियायाः साध्यत्वात्प्राधान्यात्क्रिययात्पुमिष्ठतमत्वात्तद्र्थ्येन क्रियाप्रवर्तनात्कर्मणोपि प्राधान्यादुभयव्यतिहारे लब्धे कर्मग्रहणात् क्रियाव्यतिहारोयं गृह्यते क्रियायाः
धातुवाच्यत्वादन्तरङ्गत्वात् ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-38.
“*तत्र प्रतिषेध इति” । कर्मव्यतिहारे न `गतिहिंसार्थेभ्य’ इत्यनेन प्रतिषेध इत्यर्थः ॥ 14 ॥
“*न गति” ॥ 15 ॥ “*हसादीनामिति*” । हसिप्रकाराणां शब्दक्रियाणामित्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-40.
“*हरिवह्योरिति” । हरतेर्सिंहिसार्थत्वाद्वहतेर्गत्यर्थत्वात्प्राप्तिः ॥ `ततः संप्रहरिष्यन्तौ दृष्ट्वा कर्णधनं जयौ’ इत्यत्र व्यतिहारो न विवक्षितः । किं तर्हि योत्स्यमानावित्येतावद्विवक्षितम् ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-41.
“*देशान्तरप्रापणक्रिय इति” । भारं वहतीत्यादौ देशान्तरप्राप्स्युपसर्जनं प्रापणमस्य वाच्यम् । तत्र तु गतिर्नान्तरीयकत्वात्प्रतीयते न त्वसौ घात्वर्थः । अस्यैव न्यायदिद्धार्थस्यानुवादकर्थग्रहणम् । गर्गाणां तु प्रापणं कन्याद्वारकमिति वहेर्गत्यर्थत्वाभावः ॥ 15 ॥
“*इतरेतरा” ॥16 ॥ लौकिके शब्दव्यवहारे लाघवानादरादितरेतरादिशब्दा उपसर्गश्च कर्मव्यतिहारद्यो तनाय प्रयुज्यन्ते ॥ 16 ॥
“*विपराभ्यां” ॥ 19 ॥ “*विशब्द इति*” । पक्षिवाची तु यो विशब्दः तस्य नपुंसकत्वाभावात्पुंसि विभक्त्या व्यपधानाद्वेरनन्तरो जतिर्न सम्भवति । बहुविजयति वनमित्यत्र जहत्स्वार्थायां वृत्तौ वेरानर्थक्यादिह चार्थवतो ग्रहणादजहत्स्वार्थायामपि तदर्थस्योपसर्जनत्वादग्रहणम् ।
संबुद्ध्यन्तं तु वे इति रूपान्तरयुक्तत्वान्न गृह्यते ।
एकदेशविकृतस्यानन्यत्वाद्विशब्द एवायमिति चेत् । विरित्यस्य विभक्त्यन्तस्य वे इति विकारो न तु
विशब्दस्येत्यदोषः ॥ वी जयत इत्यत्र एकादेशस्य पूर्वं प्रत्यन्तरवद्भावाद्विशब्दात्परो जयतिः सम्भवत्येवेति चेत् । पूर्वस्य कार्ये कर्तव्येऽन्तवद्भावः । न चात्र पूर्वस्य किंचित्कार्यमित्यदोषः ॥ `अस्य गोरिति’ । द्वितीयशब्दो लोके प्रयुज्यमानो यदपेक्षं द्वितीयत्वं तत्तुल्यजातीय एव सम्प्रत्ययं करोति । एवमिहापि विशब्दसाहचर्यात्पराशब्दोप्युपसर्गो गृह्यते ॥ पक्षिवाचिनो विशब्दस्य सम्भवे तु द्वयोरपि दृष्टापचारत्वात्परस्परसाहचर्यादुपसर्गग्रहणं व्याख्येयम् ॥ 19 ॥
“*आङो दो” ॥ 20 ॥ “*अव्यसनक्रियस्येति*” । व्यसनं विभागः विकासनमित्यर्थः । केवलो विहरणशब्द उपादीयमानः पादविहरणम् गमयतीत्यास्यग्रहणं सूत्रे कृतम् । केवलो व्यसनशब्दो दुःस्वादिषु वर्तत इति वार्तिके क्रियाग्रहणं कृतम् ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-45.
“*आङो दोनास्य इति” । आस्यसमवायिन्यां क्रियायां ददातिर्वर्तमान आस्यवृत्तिर्भवति । यथा लोमविषयहर्षणवृत्तिर्ह्?षिर्लोमसु वर्तत इत्युच्यते ॥ ददातेरेवास्ये वृत्तिसम्भवो नान्येषां दारूपाणामिति तेषामिह ग्रहणाभावः ॥ यद्येवं स्वं मुखमादत्त इत्यत्रापि मुखविषयत्वादादानस्य प्रतिषेधः प्राप्नोति । नैरदोषः । आस्यसमवेतैव या क्रिया तस्यां वृत्तोइ ददातिरास्ये वृत्तो भवति । ग्रहणं तु ग्रह्यग्रहीतृविषयम् । अनास्य इति च पर्युदासः । आस्यानास्यसमुदायश्चास्यसदृश इति विधिरेव तत्र भवति ॥ “*सोयमिति*” । आस्यग्रहणं विहरणविशेषोपलक्षणार्थमित्यसत्यप्यास्ये विहरणसद्भावान्निषेधौ भवति ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-46.
“*स्वाङ्गकर्मकादिति” । स्वमङ्गं स्वाङ्गम्, न तु पारिभाषिकम्-`अद्रवं मूर्तिमत् स्वाङ्गम्’ इति । तेन परकीयास्यविहरणे विधिरे भवति ॥ 20 ॥
“*क्रीडोऽनु” ॥ 21 ॥ “*अनुक्रीडतीति*” । `तृतीयार्थ’ इत्यनुः कर्मप्रवचनीयसंज्ञः । माणवकेन सह क्रीडतीत्यर्थः ॥ एतच्च समा साहचर्याल्लभ्यते ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-48.
“*आगमयस्वेति” । सहस्व कंचित्कालम्, मा त्वरिष्ठा इत्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-49.
“*शिक्षेरिति” । केचिदाहुः-शकिः सन्नन्तो गृह्यते इति विध्यर्थमिदम् ॥ क्रियाविषयकश्च शकिः प्रयुज्यते-भोक्तुं शकोति शयितुं शकोति इति प्रयोगदर्शनात् ॥ इह तु जिज्ञासाविषयः शकिर्गृह्यते विद्यां जिज्ञासितुं घटत इत्यर्थः । आत्मनेपदेनैव जिज्ञासाया अवगमाज्जिज्ञासितुमिति न प्रयुज्यते ॥ अन्ये तु `शिक्ष विद्योपादेन’ इत्यस्य ग्रहणं नियमार्थं वर्णयन्ति ॥ विधिरेव तु ज्यायस्वात्सन्नन्तशकिग्रहणं न्याट्यम् ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-50.
“*किरतेरिति” । विक्षेपार्थः किरतिः । हर्षादयस्तु विषयत्वेनोपात्ताः ॥ हर्षादिष्वेव `अपाच्चतुष्पादि’ति सुड्विधीयते ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-51.
“*हरतेरिति” । गतं प्रकारः ॥ “*पैतृकमिति*” । पुतुरागतं प्रकारं सततं शील्यन्तीत्यर्थः ॥ मातुरनुहरतीत्यत्र सादृश्यमात्रं विवक्षितम्, न तु प्रकारताच्छील्यमित्यात्मनेपदं `तद्धितार्थे’त्यत्र भाष्यकारेण न कृतम् ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-52.
“*आशिषि नाथ इति” । आशिष्येव नाथ इति नियमार्थमिदम् ॥ “*सर्पिषो नाथतेइति*” । सर्पिर्मेभूयादित्याशास्त इत्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-53.
“*आनुत इति” । उत्कण्ठापूर्वकं शब्दं करोतीत्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-54.
“*शप उपलम्भन इति” । उपलम्भनं प्रकाशनम् ॥ “*देवदत्ताय शपत इति*” । `श्लाघह्नुङि’ति सम्प्रदानसंज्ञा ॥ ज्ञीप्स्यमाने विवदन्ते । केचिदाहुः-यस्मा आख्यायते स सम्प्रदानम् ॥ य आख्यायते स इत्यनेय् ॥ 21 ॥
“*उदोउणू” ॥ 24 ॥ “*उद ईहायामिति*” । ईहाविशिष्ठा चेष्ठा कायपरिस्पन्दात्मिका गृह्यते ॥ “*उत्तिष्ठति सेनेति*” । उत्पद्यते जायते सेनेत्यर्थः ॥ 24 ॥
“*उपान्मन्त्र” ॥ 25 ॥ “*उपाद्देवपूजेति*” । अमन्त्रकरणार्थमिदम् ॥ “*अर्कमुपतिष्टते इति*” । देवपूजां मत्वात्मनेपदं कृतम् ॥ चापलमेतन्न पूजनमिति न कृतमपरत्र ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-57.
“*अपर आहेति” । `सङ्गतकरण’मुपश्लेषमात्रं `मित्रकरणं’ त्वनुपश्लिष्टस्यापि मैत्रीसम्बन्धः ॥ “*अयं पन्थाः स्त्रुग्धसमुपतिष्ठत इति*” । स्त्रुग्ध्नं प्राप्नोतीत्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-58.
“*भिक्षुक इति” । लिप्सया हेतुभूतय ब्राह्मणकुलमुपगच्छतीत्यर्थः ॥ 25 ॥
“*उद्विभ्याम्” ॥ 27 ॥ भासने वर्तमानस्तपिरूद्विपूर्वोकर्मकः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-60.
स्वाङ्गमिहोत्तरत्र च पूर्वसूत्रवत्स्वमङ्गं गृह्यत इतीह न भवति-देवदत्तो यज्ञादत्तस्य पाणिमुत्तपतीति ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-61.
“*अथेति” । किमयं विधिः, अथ नियम इत्यभिप्रायेण प्रश्नः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-62.
उद्विभ्यां तप आत्मनेपदमेव न यगादीति नियमोनेन क्रियत इत्याह्-”*निष्टप्यत इति*"॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-63.
विधिनियमसंभवे विधिर्बलवानिति मत्वाह-”*किं पुनरिति*” ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-64.
“विधिर्न संभवतीति मत्वाह-*तपिरिति*” । भासते दीप्यत इत्यत्रार्थेऽकर्मक इत्यर्थः ॥ “*अकर्मकाश्चेति*” । अनेकार्थत्वाद्धातुनामन्तर्भावितण्यर्थत्वादितिभावः । ततश्च तापने वर्तमानस्तपिः सकर्मकः । पुनः प्रयोजकव्यापाराविवक्षायां कर्तुः कर्मवद्भामात्मनेपदमिति पुनर्विधानं नियमाष्थं संपद्यत इत्यन्यत्राप्यात्मनेपदं भवत्येव ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-65.
इदानीं विधिपक्षावाद्याह-”*अन्तरेणापीति*” । तदेवं ज्वलनवृत्तिस्तपिरकर्मकः । संतापने विलापने च सकर्मकः ॥ कर्मकर्तरि तु `यक्चिणोः प्रतिषेधेणिश्रन्थिग्रन्थी’ति वचनेन यक्चिणौ प्रतिषिद्धौ ॥ 27 ॥
“*समः” ॥ 29 ॥ `समोगम्यृच्छिभ्या’मित्येतावत्सूत्रमिति वार्तिकमारब्धम् ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-67.
“*उपसर्गादिति” । अत्राकर्मकादिति न संबद्यते ॥ 29 ॥
“*आङः” ॥ 40 ॥ “*ज्योतिषामिति*” । उद्गमने वर्तमानोऽकर्मकः क्रमिः । इह तु नभः समाक्रामतीति न भवत्यात्मनेपदम् । अत्र हि क्रमिर्व्याप्तौ वर्तते न तूद्गमने ॥ 40 ॥
“*व्यक्तवाचाम्” ॥ 48 ॥ “*सर्व एवेति*” । ये वदत्यर्थस्य कर्तारः । `वद व्यक्तायां वाची’ति पाठादिति भावः ।
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-70.
“*अथ वेति” । विनापि प्रकर्षगत्या व्यधिकरणपदबहुव्रीह्याश्रयणान्मनुष्या एव गृह्यन्ते ॥ “*व्यक्ता वाचीति*” । वाचि अकारादयो वर्णा येषां व्यक्तास्तेषामित्यर्थः । शुकसारिकादीनां न सर्ववर्णविषायं स्वाभाविकं व्यक्तवाक्त्वमपि तु पुरुषप्रयत्नवशेन कतिपयवर्णविषयमिति तत्रात्मनेपदाभावः ॥ 48 ॥
“*अवाद्ग्रः” ॥ 51 ॥ “*न चावपूर्वस्येति*” । नियतविषयत्वात्केषांचित्क्रियाविशेषाणानाम् ॥ यथोर्थादयं कृभ्वस्तिविषया एवेति भावः ॥ 51 ॥
“*समः” ॥ 54 ॥ धातोस्तृतीयायोगासंभवात्तदर्थेन योगे भाव्यमात्मनेपदेन । सच सर्वत्र चरत्यर्थे संभवतीत्यभिप्रायेणाह-`तृतीयायुक्तादिति किमर्थमिति’ ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-73.
“*सर्वत्रेति” । केचित्सर्वक्र्यापेक्षामेतदुक्तमिति मन्यन्ते । यथा असिना छिनत्ति असिस्तैक्ष्ण्येन च्छिनत्ति तैक्ष्ण्यमात्मना छिनत्तीति । यत्रापि करणाभिधायि पदं न श्रूयते तत्रापि केनचित्करणेन भाव्यमन्तत एकस्यैव पदार्थस्य भेदविवक्षायामात्मा करणम् ॥ अन्ये तु चरतिक्रियापेक्षमेवमुत्तुमित्याहुः । नहि ह्यन्तरङ्गा करणप्रतीतिः । अन्यत्र तु करणस्य परिकल्प्यत्वाद्वहिरङ्गा ॥ 54 ॥
“*दाणश्च” ॥ 55 ॥ “*अशिष्टव्यवहारइति*” । अशिष्ठानां संकीर्णाचाराणां यो व्यवहारस्तस्मिन्नित्यर्थः ॥ तत्र चेच्छब्दं चार्थे व्याचक्षाणा अनेनैवोभ्यं संगृहीतमित्याहुः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-75.
“*सहयुक्तइति” । दास्यै विश्राण्य तया सह उपभुङ्क्ते इत्ययं वाक्यार्थः ॥ 55 ॥
“*उपाद्यमः” । 56 ॥ स्वस्य स्वत्वेन स्थितस्य ग्रणादिकं करणम् स्वकरणं गृह्यते इति मत्वा प्रश्नः -”*इहेति*” ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-77.
“*अस्व मिति” । अन्तरङ्गत्वान्निष्पादनलक्षणोत्र करोत्यर्थो गृह्यते ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-78.
“*नात इति” । च्वेर्विकल्पेन विधानादिति के चिदाहुः । प्रकृतेरविवक्षितत्वात्कार्यमात्रविवक्षायां नास्ति च्विरित्यपरे ॥ 56 ॥
“*नानोर्ज्ञाः” ॥ 58 ॥ “*औषधस्येति*” । औषधेन प्रवर्तितुमिच्छतीत्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-80.
“*न वेति” । पूर्वेण सकर्मकाज्जानातेः सन्नन्तादात्मनेपदं विधीयते । अकर्मकात्तु परत्वा`त्पूर्ववत्सन’ इत्यनेन ॥ 58 ॥
“*शदेः शितः” ॥ 60 ॥ “*शदेरिति*” । शिद्विकरणोत्पत्तेः पूर्वमात्मनेपदनिमित्ताभावाच्छेषत्वात्परस्मैपदेन भाव्यम् । तत्र कृते शित्प्रत्यये नानेन विहितं परस्मैपदं निवर्तयितुं शक्यत इत्यप्रतिपादकत्वलक्षाणमप्रामाण्यमस्य सूत्रस्य प्राप्तम् ।
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-82.
“*किं च भो इति” । सार्वधातुकसंशब्दनेन शितो विधानं न परस्मैपदसंशब्दनेन ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-83.
“*नखल्विति*” । सामर्थ्यादिति भावः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-84.
“*कः पुनरिति” । समस्तमेवात्मनेपदप्रकरणं महावाक्यं नियमार्थम् । तत्रानियमेन लादेशेषु कृतेषु शिति विकरणे कृते नियमोयं प्रवर्तते -`शदेः’ शित एव, न तु शात्स्यतीत्यादाविति भावः ।
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-85.
“*एवमपीति” । यद्यपि तात्पर्यपर्यालोचनेन प्रकरणस्य नियमार्थत्वं तथाप्येकैकसूत्रार्थपर्यालोचनकाले त्ववान्तरव्यापारसंभवाद्विध्यर्थता संभवत्येव । अनारम्भे शेषपक्षे निक्षेपाद् आरम्भे तत उद्धारात् ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-86.
“*लडादीनामिति” । आदिशब्दः प्रकारे येषु शिता भाव्यं ते लडादयः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-87.
“*शिप्रकृतेरिति” । योग्यतया शित्प्रकृतित्वमाश्रित्य प्रागेव शिदुत्पत्तेरात्मनेपदं विधीयते ।
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-88.
“*शिद्विषयादिति” । शिद्विषयत्वाच्छदिरेव शिच्छब्देनाभिधीयते ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-89.
“*अथ वेति” । प्रकरणं नियमार्थम् । तत्र नियमात्पूर्वमात्मनेपदपरस्मैपदान्यनियमेन प्रवृत्तानि । तत्रैतत्सूत्रारम्भसामर्थ्यात्पूर्वं विकरणः प्रवर्तते, पश्चाच्छित एव शदेरात्मनेपदमिति नियमः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-90.
“*न्यविशतेति” । ननु `विकरणेभ्यो नियमो बलीयानि’ति प्रागेव विकरणोत्पत्तेर्नियमेन भाव्यं ततो नित्यत्वात्पूर्वं विकरणः ततोडागम इति किं वार्तिकेन । उच्यते-एतदनाश्रित्यैतदुक्तम् ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-91.
“*शब्दान्तरस्येति” । विकरणास्तु शब्दान्तरादपि प्राप्नुवन्तो नानित्याः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-92.
“*कृतेप्यटीति” । धातुभक्तत्वादटस्तद्वहणेन ग्रहणाह्यवधानाभावात् । अडागमस्त्वनित्यः । स हि लादेशेषु कृतेषु विकरणैर्नित्यत्वात्प्रतिबद्यते । विकरणेषु कृतेषु शब्दान्तरप्राप्त्या अनित्यः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-93.
“*नित्यनिमित्तत्वादिति” । कृतेपि लादेशे स्थानिवद्भावाल्लुङादिव्यपदेशोस्तीति प्रदर्शनार्थं निमित्तग्रहणमुपात्तम् । यद्यपि लादेशे कृते विकरणेन नित्यत्वादड् बाध्यते तथापि `यस्य च लक्षाणान्तरेण निमित्तं बिहन्यते न तदनित्यम्’ । तत्रोभयोर्नित्ययोः परत्वादट् प्राप्नोति ॥ ननु भवतु परत्वादडागमः, तस्य तु धातुभक्तत्वादव्यवधायकत्वात्सिध्ध्यत्यात्मनेपदम् ॥ नैष दोषः । तत्र ह्यन्तरङ्गत्वाल्लादेशेषु कृतेषु अडागमो विकरणान्तभक्तत्वाद्धातोर्यवधायक इति न्यादिभ्यः परे विश्यादयो निरन्तरा न संभवन्तीत्यात्मनेपदाप्रसङ्ग इत्येवं भाष्ये चोद्यं व्यवस्थाप्यते ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-94.
“*अन्तरङ्गस्तर्हिति” । लकारमात्रापेक्षत्वात् । अडागमस्तु लकारविशेषापेक्षत्वाद्वहिरङ्गः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-95.
“*नैतदिति” । न लादेशेन सह संप्रधारणा किं तु नियमेन सहेति भावः ।
“*तत्तु न
लभ्यमिति*” । ननु पूर्वमेव ज्ञापकाद्विकरणेभ्यो नियमस्य बलीयस्त्वं प्रतिपादितं तत्किमुच्यते `तत्तु न लभ्य’मिति ॥ उच्यते-अन्यथापि तज्ज्ञापकं समर्थयितुं शक्यते-कृतोपि विकरणो न व्यवधायक इति । यदेवं नित्य एव नियमः । नेतदस्ति । यत्र केवलो विकरणो व्यवधायकस्तत्र भवतु नित्यो नियमः यथा निवेक्ष्यते निविशत इति । यत्र तु विकरणे कृतेऽडागमस्तत्राटो व्यवधायकत्वान्नियमो न प्राप्नोति ॥ “*तरत इति”* । अत्र पूर्वमित्त्वे सति रूपं न सिध्यति ॥ “*आटि कृतइति” । `आटश्चे’ति वृद्धिरेकादेशः प्राप्नोति, ऋच्छिभावस्च । तत्र वर्णमात्राश्रयत्वादेकादेशोन्तरङ्गः । नानाश्रयत्वाच्च `वर्णादाङ्गं बलीय’ इति नास्ति । ततश्चैकादेशे कृते तस्यादिवद्भावादृच्छिभावः प्राप्नोति । तत ऋऊच्छदिति स्यात्, न त्वार्च्छदिति ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-96.
“*ननु चेति” । वत्सवत्प्रवृत्त्या कार्यमिह शास्त्रे संभवतीति भावः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-97.
“*यत्तावदिति” । तरत इत्यत्रानित्यमित्त्वं विकरणस्तु नित्य इति स एवप्रवर्तते ॥ “*यत्रत्विति*” । यथा तरतीति ॥ अस्त्वत्राडिति । परत्वादृच्छिना भाव्यम् ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-98.
“*अभ्युपगम्यवादेन त्वेतदुच्यते-”*चक्रकेष्विति*” । व्यवस्थाकारिणा शास्त्रेण भाव्यमित्यव्यवस्थाहेतुः पुनः प्रवृत्तिर्न भविष्यतीत्यर्थः ॥ तदेवं स्थितमेतदन्तरङ्गत्वाल्लादेशेषु कृतेषु परत्वादडागमः ॥ न चायं नियमः-`शब्दान्तरस्य प्राप्नुवन्विधिरनित्यो भवति’, न तु `शब्दान्तरा’दिति । यतोऽडागमस्यानित्यत्वं स्याद् विकरणस्य नित्यत्वम् । कृता कृतप्रसङ्गित्वात्तु द्वयोरपि नित्यत्वम् । अङ्गत्वाकृत्याश्रयणाद्वा नास्ति शब्दान्तरप्राप्तिरटः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-99.
“*नेर्यो विशिरिति” । व्यवहितश्चाप्यर्थद्वारेण विशेष्यत्वात्सम्बन्धी भवतीत्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-100.
“*अथ वेति” । `नेर्विश’ इत्यस्यायमर्थः-निशब्दात्परमात्मनेपदान्तं विश्यवयपदं साधु भवतीति सत्यप्यडागमे नः पदमनन्तरमेवेति दोषाभावः ॥
“*विशिरपीति*” । विशिशब्देन विश्यवयवः समुदाय उपचारादभिधीयते ॥
“*पदविधिश्चेति*” । न्यायप्राप्तार्थानुवादोऽयं न त्वेतत्प्रकृते उपयुज्यते इत्याहुः
॥ 60 ॥
“*पूर्ववत्सनः” ॥ 62 ॥ पूर्वशब्दः सम्बन्धिशब्दत्वादवधिमपेक्षते तत्र कोऽत्रावधिरभिप्रेत इति पृच्छति-`किमदमिति” ॥ “*येभ्य इति*” ।
योगसैभ्यो धातुभ्यो विधानाद् योगेभ्यो विहितमित्युच्यते ॥ पक्षाद्वयेपि `तेन तुल्य’मिति तृतीयान्ताद्वतिः न तु पञ्च्म्यन्तात् । लक्षणाभावात् ॥ `तुल्यार्थै’रिति विहिता तृतीया सर्वेविभक्त्यर्थानन्तर्भावयतीति पञ्चम्यर्थस्यात्र ग्रहणमुपपन्नमेव । यथा ब्रह्मणवद्व्शैयादधीत इति ब्राह्मणापादानकमध्ययनमुपमानम् । तत्र च ब्राह्मणशब्दोवर्तते । तेन ब्राह्मणेन तुल्यं वैश्यादधित इति तृतीयान्ताद्वतिः । एवमिहापि पूर्ववदिति द्रष्टव्यम् ॥
“*किमन्तादिति*” । ततश्चाप्रतिपत्तिः स्यात् ॥ यदि नामात्मनेपदनियमविधानसामर्थ्यादनेन सर्वधातुभ्य आत्मनेपदं भवतीत्येतल्लभ्येत विषयविभागस्तु न ज्ञायेतेति भावः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-102.
“*सनमेवेति” । प्रत्यासत्त्येति भावः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-103.
“*उत्तरत्रापीति” । उत्तरेषु योगेषु वाक्यभेदेन `पूर्ववत्सन’ इत्येतत्संबद्यते । प्रोपाभ्यां युजेरात्मनेपदं भवति । ततः `पूर्ववत्सन’ इति ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-104.
“*किमर्थमिति” । विधिनिषेधोभयपक्षसंभवात्प्रश्नः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-105.
“*यथापूर्वयोरिति” । `नानोर्ज्ञाः’ `प्रत्याङूभ्यांश्रुव’ इत्येतयोः । इह च शदिम्रियती अनुवर्तेते इति भावः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-106.
“*यथेच्छसीति*” । निषेधपक्षेपि निषेधादेव सन्नन्तात् पूर्ववद्विधिरनुमीयते । विधिपक्षे शदिम्रियत्योः सनो नेत्यनुवृत्त्या न भविष्यति ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-107.
“*एवं च कृत्वेति” । द्वितीयस्य सन्ग्रहणस्येहानुवृत्त्येति भावः ॥ “*न च शदिरेवेति*” ।
साम्?याः करणत्वं न केवलस्य शदेः, सा चेह सामग्री नास्ति सनः पूर्वस्य शदेः शितोऽभावात् ॥ “*अथापीति*” । शिता विशेष्यमाणत्वाच्छदेरेव प्राधान्यात् ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-108.
“*यत्र तर्हिति” । म्रियतेर्ङित्त्वात् ‘पूर्ववत्सन’ इति सन्नन्तात्प्रप्नोत्येवेति भावः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-109.
“*किं पुनरिति” । किमयं कार्यातिदेशः-यथापूर्वस्मादात्मनेपदं विधीयते तथा सन्नन्तादपीति । आहोस्विन्निमित्तातिदेशः पूर्वस्य यन्निमित्तं ङित्वादि तत्सन्नन्तस्यातिदिश्यते । निमित्ते चातिदिष्टे तत्प्रयुक्तत्वादेव कार्यं भवतीति प्रश्नः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-110.
“*नह्येतेभ्य इति” । नित्यसन्विषयत्वात् ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-111.
“*कृञादिष्विति” । `अनुपराभ्यां कृञ’ इत्यनेन परस्मैपदमेव विधीयते, न तु ङित्वं निवर्त्यते । पूर्वकार्ये त्वतिदिश्यमाने अत्र दोषाभावः । परस्मैपदेनात्मनेपदस्य बाधितत्वात् पूर्वस्यात्मनेपदकार्यादर्शनात्सन्नन्तस्याप्रसङ्गात् ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-112.
“*अनुबन्धेति” । तत्सामर्थ्यात्सन्न व्यवधायकः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-113.
“*अथ वेति” । समुदाये लिङ्गासङ्गस्य उपायोऽवयवे लिङ्गासङ्गः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-114.
“*प्रत्ययग्रहणमिति” । य्द्येवयमितिप्रसङ्गः पणायति पनायतीति । तत्र केचिदाहुः-`पूर्ववद् णियक्सन’ इति प्रत्ययविशेषा एव निर्देष्टव्याः ॥
अन्ये त्वाहुः-एवं पाठे भाष्यं वार्तिकं च न व्याख्यात
भवतीति `हेतुमण्णिचः प्रतिषेधः’ इत्यतिप्रसङ्गविषयोपलक्षणार्थं हेतुण्णिज्ग्रहणम् ॥ 62 ॥
“*आम्प्रत्यय” ॥ 63 ॥ “*कृञ्ग्रहणमिति*” । कृञएवानुप्रयोगो विहितो नान्यस्येति भावः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-116.
“*अथेह कस्मादिति” । `स्वरितञित’ इत्यनेनेति भावः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-117.
ननु सम्विधानेऽनेनात्मनेपदं विधीयते । यथा च यात्यादयः सम्विधाने न वर्तन्ते, तथोब्जादयोपि । तदर्थानुपाती च करोतिरप्यत्र विषये संविधाने न वर्तते इत्यात्मनेपदस्याप्रसङ्गः ॥ नैष दोषः । संविधान एवात्र विषय यदोब्जादयो वर्तन्ते शब्दशक्तिस्वाभाव्यात्तर्थाभिव्यक्तये तदा करोतिः प्रयुज्यमानः संविधानविषय इति मत्वा चोद्यमुपन्यस्तम् ॥ परिह्?तं च पूर्ववद्ग्रहणानुवृत्त्या वाक्यभेदेन । तत्रैकेन वाक्येन विधिः क्रियते, द्वितीयेन नियमः ॥ 63 ॥
“*प्रोपाभ्याम्” ॥ 64 ॥ “*स्वराद्यन्तोपसृष्टादिति*” । सम्निस्दुरित्येतान्निरस्य सर्वे उपसर्गाः संगृहीताः ॥ 64 ॥
“*भुजोनवने” ॥ 66 ॥ “*यस्य भुजेरिति*” । संसर्गवद्विप्रयोगोपि हि विशेषस्मृतिहेतुः । यथा दोग्ध्रीपर्यायो धेनुशब्द उपादीयमानः संसर्गिभिर्विशेषेवस्थाप्यते-सवत्सा धेनुधेनुरानीयतां सकिशोरा सकरभा सबर्करेति । एवमवत्सा अकिशोरा अकरभा अबर्करेति विशिष्टैव धेनुः प्रतीयते । यस्या येन दृष्टः संसर्गः सैव तद्रहिताऽऽनीयते ॥ 66 ॥
“*णेरणौ” ॥ 67 ॥ एकस्मिन्वाक्ये कर्मान्तरनिवृत्तिरलभ्येति `णेरि’ति वार्तिकारम्भः । एकवाक्यतायां ह्रयमर्थः -ण्यन्तादात्मनेपदं भवति अण्यन्तावस्थायां यत्कर्म ण्यन्तावस्थायां यदि स कर्ता भवत्याध्यानादन्यत्रेति । भवति च कर्मान्तरसद्भावेप्यणौ कर्म णौ कर्ता ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-121.
भाष्यकारस्तु वाक्यभेदाश्रयेणैतमर्थं साधयति-`णेरात्मनेपदं भवति’त्येकं वाक्यम् । ततोऽ`णौयत्कर्म णौ चे’दिति द्वितीयम् । अत्र वाक्ये यत्तादोर्नित्यसंबन्धाद्यच्छब्देन तच्छाब्द आक्षिप्यते ।
धर्मान्तरस्य चानिर्देशात्कर्मत्वमेव संनिधानात्प्रतिनिर्दिश्यते । “*अणौ यत्कर्म
णौचेत्तत्कर्मे*“ति प्रतिनिर्देशेन च कर्मान्तरव्यावृत्तिः क्रियते, न त्वणौ कर्मणो णौ कर्मत्वसद्भावः प्रतिपाद्यते `स कर्ते’ति वाक्यान्तरेण तस्य कर्तृत्वप्रतिपादनाद् युगपदेकक्रियापेक्षया कर्मत्वकर्तृत्वविवरोधादेकस्य । यथेष्ठं वाक्यशेषपरिकल्पनादणौ य्त्कर्म णौ चेत्तदेव कर्मेत्येवकाराध्याहारात्कर्मान्तरनिवृत्तिलाभः । ततः `स कर्ते’ति तृतीयं वाक्यमणौ कर्मणो णौ कर्तृत्वप्रतिपादनपरम् । एवमेषां वाक्यानामेकवाक्यत्वे महावाक्यं लक्ष्यसंस्कारकं संपद्यते ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-122.
“*यद्येवमिति” । यथ लुनाति केदारं देवदत्तः, लृयते केदारः स्वयमेवेति केदारः कर्मकर्ता, तथा ण्यन्तेपि भवति-लावयते केदारः स्वयमेवेति ॥ कथमिति चेत् । उच्यते-लृनातिस्तावदृविधाभवनोपसर्जने द्विधाभावने वर्तते । लृनाति केदारं देवदत्तः । द्विधाभवन्तं द्विधा भाव्यतीत्यर्थः । यदा तु केदारस्य सौकर्यातिशयविवक्षायां देवदत्तस्य व्यापारो न विवक्ष्यते तदा द्विधाभवनमात्रे लृनातिर्वर्तते अनेकार्थत्वाद्धातूनाम् । भिन्ना एव वा धातवो भिन्नार्थाः । सारूप्यात्तु तत्त्वाध्यवसायः । तत्र द्विधाभवने केदारस्य कर्तुः `कर्मवत्कर्म्णा तुल्यक्रिय’ इति कर्मकार्याण्यतिदिश्यन्ते । तेन लृयते केदारः स्वयमेवेत्यादय्H प्रयोगा उपपध्यन्ते । अत्रापि स्वयमित्यस्य यदा आत्मन्त्त्यर्थस्तदा आत्मापेक्षया कर्मत्वमस्त्येवेति लृयते केदार इत्येतावदुदाहार्थम् ॥ वृत्तिकाराणां तु स्वयमिति वचनं कर्त्रन्तरव्युदासपरं विज्ञैयम् । अथ वा स्वयमित्यनेन करणत्वमात्मन्H प्रतिपाद्यते, न तु कर्तृत्वम् । ततो यदा द्विधाभवनवृत्तेर्लुनातेर्देवदत्तादिप्रयोजकव्यापारे णिजुत्पद्यते तदा उअ एवार्थो लुनाति केदारं देवदत्त इति, स एवार्थो लावयति केदारंदेवदत्तस्य व्यापारे द्विधाभ्वनमात्रवृत्तिर्लावयतिः सम्पद्यते । ततश्च य एवार्थो लूयते केदारः स्वयमेवेति, स एवे लावयते केदारः स्वय्मेवेति । न च प्रयोज्यप्रयोजकभावनिवृत्तौ णिचो निवृत्तिः, उपायनिवृत्तावप्युपेयानिवर्तनात् । सिद्धशब्दव्युत्पत्तये हि प्रकृतिप्रत्ययविभागकल्पना आश्रीयते, अर्थस्योपादानं त्यागश्च क्रियते । लौकिके तु व्यवहारे सौकर्यमात्रविवक्षायां लावयते केदार इति प्रयुज्यते एवं तावत्
“*निवृत्तप्रेषणाद्धातोः प्राकृतेर्थे णिजुच्यते*”
इत्येतत्पक्षाश्रयेण कर्मकर्ता व्याख्यातः ॥ अपरः कल्पः-लुनाति केदारं देवदत्तः । लुनान्तं देवदत्तं सौकर्यातिशयात्केदारः प्रयुङ्क्ते इति केदारव्यापारे णिज्य्त्प्द्यते-लावयति केदारो देवेदत्तेनेति । पुनः प्रयोजपरयोजकभावाविवक्षायां लावयते केदारः स्वयमेवेति प्रयुज्यते । तत्र पूर्वप्रक्रियाश्रयणे `कर्मवत्कर्मणा तुल्यक्रिय’ इति सिद्धमात्मनेपदम् । तथा हि-लावयति केदारं देवदत्त इत्यत्र यस्मिल्लावयतौ धातौ याद्दशी कर्मावस्थायां केदारस्य द्विधाभवनलक्षणा क्रिया तस्मिन्नेव धातौ तादृशी कर्त्रवस्थायामिति सिद्धं लावयते केदारः स्वयमेवेति । द्वितीया तु प्रक्रिया सूत्रे एतस्मिन्नारब्धे सम्भवतीति प्रदर्शिता । न तु तस्यां कर्मवद्भावः प्राप्नोति । लावयतौ केदारस्य कर्मत्वाभावात् कर्मणा समानधातौ तुल्यक्रियत्वाभावात् ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-123.
“*यक्चिणोर्निवृत्त्यर्थमिति” । अणौ यत्कर्मणौ चेत्स कर्ता तदा णेरात्मनेपदमेव नान्यदिति नियमार्थमेत्दित्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-124.
“*उदपुपुच्छत पुच्छमिति” ॥ कथं पुनरत्राणौ कर्म विद्यते यावता पुच्छशब्दो द्रव्यवचनः ॥ अत्राहुः-अस्मिन्नेव विषये पुच्छशब्दः पुच्छकर्मिकायामुदसनक्रियायां वर्तते । तस्मात् स्वार्थे णिङ प्रत्ययः । ततो यदा भ्राम्यमाणं पुच्छं संस्कारवशाच्चकमिव भ्रमणक्रियायां भूतायां स्वातन्त्र्येण विवक्ष्यते तदा उदपुपुच्छतेत्यात्मनेपदमेव णिङन्ताद् यथा स्यादित्येवमर्थमिदं सूत्रं सम्पद्यते ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-125.
“*गणयति गणइति” । गणो णावेव कर्म णावेव कर्तेत्यस्य नियमस्याव्यापारा`ण्णिश्रन्थिग्रन्थीति’वक्तव्य एव प्रतिषेधः । तस्यैव च व्यापकत्वान्नार्थोनेन सूत्रेणेत्यर्थः ॥ कथं पुनरत्र कर्मद्भावप्राप्तिः । यावता कर्मस्थभावकानां कर्मस्थक्रियाणां च कर्मवद्भावो विधीयते । गणनं च संख्यानिमित्तकः परिच्छेदो ज्ञानविशेषः कर्तरि वर्तते ॥ नैष दोषः । भागशोऽस्थापनेपि गणिर्वर्तते । भागशोवतिष्टमानं गणं गोपालकोऽवस्थापयति । तत्रानुकूल्त्वाद्ग्र्णस्यैव कर्तृत्वविवक्षायामस्ति कर्मस्थाभावकत्वात्वात्कर्मवद्भावः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-126.
“*आत्मनेप्दप्रतिषेधार्थमिति” । अणौ कर्मणो णौ कर्तृत्वे आत्मनेप्दं यथा स्याद्, णौ तु कर्मणो णौ कर्तृत्वे मा भूदित्येवमर्थमिदमित्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-127.
“*न चैतस्मादिति” । नित्यत्वाण्णिचः केवलानां चुरादीनां प्रयोगाभावादणौ कर्मणोऽसंभवाण्णेरिति हेतुमण्णिचोग्रहणम् । प्रतिषेधोप्यणाविति तस्यैव प्रत्यासत्त्या न्याट्य इत्यहेतुमण्णौ गणस्य कर्मत्वं हेतुमण्णौ कर्तृत्वमिति सूत्रस्याय्M विषयो भवत्येवेति कथमत्रानेनात्मनेपदं निवर्येतेत्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-128.
“*इदं तर्हिति” । न चानिर्दिष्टविषयः प्रतिषेधः शक्यते विधातुमिति सर्वमेव सूत्रं क्रियते ॥ “*वनगुल्मस्येति*” । सर्मोपलक्षणमेतत् । अत्र हि वनगुल्मस्य शेषत्वेन विवक्षितत्वात्कर्मत्वाभावः । तस्मात् स्मरति वनगुल्ममिति प्रदर्शनीयम् ॥ “*स्मरयत्येनमिति*” । एतदप्युपलक्षणम् । अत्रह्येनमिति कर्मणद्सद्भावात् `कर्मवदकर्मकाणा’मिति वचनात्कर्मवद्भावस्य प्राप्तिर्न्स्ति । नाप्यनेनात्मनेपदस्य, कर्मान्तरसद्भावात् । तस्मात्स्मरयति वनगुल्मः स्वयमेवेति प्रदर्शनीयम् ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-129.
“*भवत्येवंजातीयकानामिति” । येषामण्यन्तानां यत्कर्म तेषां ण्यन्तानां यदा स कर्ता तदा कर्तृस्थभावक्रियत्वेप्यात्मनेपद भवतीत्यर्थः । एवं च ब्रुवता भाष्यकारेण सूत्रमेतद्विध्यर्थमित्यर्थादुक्तं भवति । तेनारोहयते हस्तीत्यादावनेनैवात्मनेपदं सिद्धं भवति । तथा हि `रुहिर्गतिविशेषवचनः’ इति `यद्धितुपरं छन्दसी’त्यत्र भाष्यकारो वक्ष्यति ॥ एवं च कर्तृस्थक्रियत्वान्नास्त्यत्र कर्मवद्भावः । एवं चारुह्यते हस्ती स्वयमेवेति ये कर्मवद्भावं प्रदर्शयन्ति नेन्यायं भाष्यं च बाधमाना अवधीरणीयाः । तथाहि-
“*विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता ।
क्रियाव्यवस्था त्वन्येषां शब्दैरेव प्रकल्पिता ॥
इति । विशेषदर्शनेन शबार्थानुसारेण वा तात्स्थ्यं कथ्यते क्रियायाः ।
एतच्च कारणद्वयमारोहणस्य कर्तृस्थतां प्रतिपादयति न कर्मश्थताम् । तथा हि-हस्तिनमारोहति वृक्षमारोहति पर्वतमारोहतीत्यादौ कर्मभेदेपि नारोहणस्य रूपभेदः प्रतीयते । न चैतेषु प्रयोगेषु क्रियाकृतः कर्मणि कश्चिद्विशेषो दृश्यते ॥ धातुना च कर्तृगतैव क्रिया प्रतिपाद्यते, न कर्मगता । केवलं कर्मणः कारकत्वादवश्यं क्र्यया भाव्यमिति क्रियानुमीयते । सर्वाणि हि कारकाणि स्वं स्वं व्यापारमनुतिष्टन्ति प्रधानक्रियां संपादयन्ति ।
बहुवक्तव्यश्चायमर्थः किंचितु प्रकृतोपयोगादुक्तमिति प्रकृतमनुसरामः ॥
“*दर्शयते भृत्यान् राजेति*” । ननु कर्मान्तरसद्भावादत्रात्मनेपदेन न भाव्यम् ।
उच्यतेअस्मादेवोदाहरणाद्भाष्यकारस्यायमभिप्राय ऊह्यते-अण्यन्तावस्थायां ये कर्तृकर्मणी तह्यतिरिक्तकर्मान्तरसद्भावे आत्मनेपदं न भवति यथ स्थलमारोहयति मनुष्यानिति । इह त्वण्यन्तावस्थायां कर्त्ऋणां भृत्यानां णौ कर्मत्वमिति भवत्येवात्मनेपदम् । एवं च स्मरयत्येनं वनगुल्मः स्वयमेवेति कोकिलस्य कर्मत्वेपि प्रत्युदाहरणं युज्यते ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-130.
“*आत्मनः कर्मत्वे इति” । यदैकमेव वस्तु बुद्ध्या विभज्य कर्मत्वेन कर्तृत्वेन च विवक्ष्यते तदा प्रतिषेध इत्यर्थः ।
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-131.
“*नवेति” । वस्तुत एवात्र आत्मभेदो न त्वेकस्यैव कर्मत्वं कर्तृत्वं चेत्यर्थः ॥ “*अन्तरात्मेति*” । सांख्यपक्षेऽन्तः करणमन्तरात्मा तस्यैव कर्तृत्वसंभवात्पुरुषस्याकर्तृत्वात् । नैयायिकादीनं तु मते पुरुषस्य कर्तृत्वात्स एवान्तरात्मा विवक्षितः ॥ “*शरीरात्मा सुखदुःखे इति*” । शरीरस्याचेतनत्वात्सुखदुःखहेतुभ्यां शरीरं संबध्य्त इति व्याख्येयम् ॥ 67 ॥
“*स्वरितञितः” ॥ 72 ॥ इदमात्मनेपदं संविधानवृत्तिभ्यो धातुभ्यो भवतीति केचिह्याचक्षते । पचते पाचयतीत्यर्थः । यजते याजयतीत्यर्थः । अनेकार्थत्वाद्धातूनां प्रकृतिरेव य्दा संविधाने वर्तते तदा तस्य द्योतकमात्मनेपदं भवति । यदा तु प्रकृत्यानभिहितं सम्विधानं तदा तदभिधानाय णिजुत्पद्यते पाचयतीति । यदा `णिचश्चे’ति ण्यन्तादात्मनेपदं भवति तदा द्वितीये संविधाने ण्यन्तस्य वृत्तिः परिकल्पनीया, यथा राजा पाचयते इति । `कर्त्रभिप्राये क्रियाफल’इत्यनेन संविधानलक्षण एव क्र्याविशेष उपलक्ष्यते । त्रीणीष्व वपतेधात्ते चिनुतइति च शिष्टप्रयोगेषु ण्यर्थोऽवगम्यते । स्वरितञित एव संविधने शब्दशक्तिस्वाभाव्यद्वर्तन्ते नान्ये धातव इति स्वरितञिद्ग्रहणं भाष्ये प्रत्याख्यातम् ॥ अन्ये त्वाहुः-स्वार्थं यः क्रियामारभते तत्रात्मनेप्दं परार्थारम्भे तु परस्मैपदम् । सा च स्वार्थपरार्थता विवक्षानिमित्ता लौकिके प्रयोगे स्वरितञिद्विषयैव, न् यात्यादिविषयेत्यत्रापि पक्षे स्वरिताञिद्वहणस्य प्रत्याख्यानम् ॥ एवं पञ्चभिर्हलौः कृषतीति `विभाषोपपदेन प्रतीयमान’इति पक्षे आत्मनेपदाभावः । स्वामिदासौ पचत इति क्रियामात्रविवक्षायां परस्मैपदम् । यदा तु स्वामिगतोधर्मो दास आरोप्यते तदा स्वामिदासौ पचेते इति आत्मनेपदं भवत्येव ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-133.
“*सर्वेषां चेति” । सर्वत्र संविधानस्य् संभवात्सर्वत्र च स्वार्थानुष्ठानसंभवादिति भावः ॥ “*येषामिति*” । संभवे व्यभिचारे च सति प्रकारान्तरव्यवच्छेदेन विशिष्टे कार्यविधानाय विषयनिर्देशः क्रियते इति भावः ॥ “*न चैषामिति*” । यात्यादयं सविधाने वर्तितुं न शकुवन्तीत्यर्थः । अथ वा स्वाभिधेयमात्रवृत्तयो यात्यादयः नैषां स्वार्थताविशिष्टक्रियावाचित्वसंभवः ॥ “*तथाजातीयका इति*"। प्रकारमात्रे थालं विधाय प्रकारवति जातीयर् विहितः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-134.
“*अथेति” । कर्तारमेति प्राप्नोतीति कर्त्रायमिति सिद्ध्यत्येव विवक्षितोर्थ इति प्रश्नः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-135.
“*यमेवेति” । के चिदाहुः वर्तमानकालविवक्षा स्यादिति । तदयुक्तम् । कालसामान्येऽण्विधानात् ॥ तस्मादयमर्थः-द्विविधं यगादिफलं दृष्टमदृष्टं च । दृष्टं अन्नपुत्रवृष्टिशत्रुवधादिकम् । अदृष्टं स्वर्गादि ॥ तत्र-पूर्वं प्रत्यासन्नमवश्यं भावीति प्रधानम् । इतरत्तु विधुरप्रत्ययोपनिपादसम्भवे व्यभिचारसंभवाद्विप्रकृष्टत्वाच्चाप्रधानमिति तस्येह ग्रहणं न स्यात् । अभिप्रग्रहणात् तस्यापि ग्रहणम् । आभिमुख्यं फलस्य यदा कर्ता बुद्ध्याध्यवस्यति क्रियारम्भे तदा आत्मनेपदमित्ययमर्थो भिप्रग्रहणे सति लभ्यते ॥ “*वपत इति*” । केशश्मुश्रु पवत इत्यत्रैवासन्ने फले स्यात् ॥ धान्यं वपत इत्यत्र तु विप्रकृष्टे फले न स्यादित्यर्थः ॥ “*यं चाभिप्रागादिति*” । अयष्टेत्यादौ । एतत्तु कालनिर्देशप्रसङ्गेनोक्तं न त्वत्राप्राप्तेर्निमित्तमस्ति ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-136.
“*पादिकमहरिति” । पादो भृतिरस्येत्यत्रार्थेऽ`समासे निष्कादिभ्य इति ठक्’ ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-137.
“*न चान्तरेणेति” । नहि स्वर्गादिफलं यागमन्तरेण भवति तदुद्देशेनैव यागप्रवर्तनात् ॥ “*याजका इति*” । प्रतिग्रहणापीति भावः ॥ तथा च हरिणोत्तम्-
“*यस्यार्थस्य प्रसिद्ध्यर्थमारभ्यन्ते पचादयः ।
तत्प्रधानं फलं तेषां न लाभादिप्रयोजनमिति ॥ 72 ॥
“*शेषात्कर्तरि” ॥ 78 ॥ “*भिद्यते कुसूल इति*” । कुसूलस्य कर्मशास्त्रातिदेशेपि स्वाश्रयं कर्तृत्वमनिवृत्तमिति परत्वात्परस्मैपदं प्राप्नोति । सप्तम्यन्तेन तु शेषशब्देन कर्तरि विशेष्यमाणे कर्मकर्तुः कर्मवद्भावेन कर्मशास्त्रातिदेशादात्मनेपदविधावुपयोगादशेषत्वात्परस्मैपदाभावः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-139.
“*सप्तम्या चेदिति” । प्रत्ययनियमे प्रकृतीनामनियमादनुदात्तङिद्भयः परस्मैपदमपि प्राप्नोति ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-140.
“*अनुक्रियतइति” । `अनुपराभ्यां कृञ’ इत्येतदशेषार्थमारब्धम् । गन्धनादिषु कर्त्रभिप्राये क्रियाफले च परस्मैपदार्थम् । तत्रासतीह कर्तृग्रहणे कर्मकर्तर्यपि परस्मैपदप्रसङ्गः । सति तु कर्तृग्रहणे उत्तरत्र शेषाग्रहणस्य कर्तृग्रहणस्य चानुवृत्तौ सत्यां सेषे कर्तरि परस्मैपदविधानात्कर्मकर्तरि न भवति ॥ 78 ॥
“*अनुपराभ्याम्” ॥ 79 ॥ “*तत्रात्मनेपदप्रतिषेधइति*” । अयमभिप्रायः । अशेषत्वात्कुञः पुर्वेण नियमादप्राप्तं परस्मैपदमनेन प्रतिप्रसूयते इति अनुपरापूर्वात् करोतेर्मोलेन विधिवाक्येन आत्मनेपदपरस्मैपदप्रसङ्गः ॥ “*विधियत इति*” ॥ नियमापाकरणद्वारेण प्रतिप्रसूयते इत्य्र्थः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-142.
“*नवेति” । `द्युदूभ्यो लुङी’त्यत्रान्तरेणापि वावचनानुवृत्तिं परस्मैपदप्रतिप्रसवादुभयस्मिन्सिद्धे स्वरितत्वेन वावचनानुवृत्तिर्लिङ्गं परस्मैपदप्रतिप्रसवे आत्मनेपदाभावस्य ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-143.
“*आत्मनेपदनियमे वेति” । साक्षादात्मनेपदनिषेधे क्रियमाणे मूलविधेः प्रतिप्रसवाशङ्का न भवति ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-144.
“*यथैव तर्हिति” । आत्मनेपदापवादः परस्मैपदं विधीयते, न तु प्रतिप्सव्द्वारेणानियमः प्रतिपाद्यते इति भावः ॥ 79 ॥
“*बुधयुधनशजनेङ” ॥ 86 ॥ “*समर्मकार्थमिति*” । अकर्मका अपि धातवः सोपसर्गा अनुपसर्गा वा अर्थान्तरवृत्तित्वे सति सकर्मका भवन्ति । अन्तर्भावितण्यर्था वा प्रयोज्यकर्मणा ॥ “*अचित्तवत्कर्तृकार्यं वेति*” । वाशब्दश्चार्थे ॥ तेनाकर्मकाणामचित्तवत्कर्तृकार्यं ग्रहणम् । चित्तवत्कर्तृकाणाम् तु सकर्मकार्थमित्यर्थः ॥ 86 ॥
“*अणावकर्मकात्” ॥ 88 ॥ `अणाविति’णिमात्रस्य पर्युदासात् चुरादिण्यन्तो योऽकर्मकश्चित्तवत्कर्तृकश्च तस्माद्धेतुमण्ण्यन्तादप्राप्तं परस्मैपदमित्यणौ इति वार्तिकमारब्धम् ॥ “*चुरादिणिचो ण्यन्तादिति*” । चुरादिण्यन्ताद्द्वितीयहेतुमण्ण्यन्तादित्यर्थः ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-147.
“*अकर्मकग्रहणमिति” । अणावित्यस्य यद्यपि प्रयोजनमस्ति `आरोहयमाणां प्रयुङ्क्ते आरोहयते’इत्यत्रानेन मा भूत्परस्मैपदम् । तथापि प्रयोजनान्तरमप्यस्तीति भाष्यकारो दर्शयति ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-148.
“*सिद्धं त्वतस्मिन्निति” । तच्छब्देन हेतुमण्णिज्निर्दिश्यते । तस्यैव पूर्वसूत्र उपादानाद्बुधादिभ्यस्तस्यैव संभवात् । तेनायमर्थः-अहेतुमण्ण्यन्तो योऽकर्मकश्चित्तवत्कर्तृकश्च तस्माद्धेतुमण्यन्तात्परस्मैपदं भवति । तेन चेतयतीत्यत्रापि सिद्ध्यति ॥
2.प्रथमाध्याये तृतीयपादे द्वितीयाह्निकम्-149.
“*यस्माण्णेरिति” । एतच्च `णेरणा’वित्यत्रोक्तं तदेव पुनः प्रकृतोपयोगाद्भाष्यकारेण स्मारितम् ॥ 88 ॥
“*न पादम्याङ्यमाङ्यसपरिमुहरूचिनृतिवदवसः” ॥ 89 ॥ “*समीची इति*” । प्रथमाद्विवचने `वा छन्दसी’ति पूर्वसवर्णदीर्घः ॥ 89 ॥
“*लुटि च कृपः” ॥ 93 ॥ स्वरितत्वादनुवृत्त्या चशब्दप्रतिपाद्यस्यार्थस्य सिद्धत्वाद्भाष्यकारः सर्वानेव चशब्दान्प्रत्याचष्टे ॥ 93 ॥
इत्युपाध्यायजैयटात्मजकैयटकृते महाभाष्यप्रदीपे प्रथमस्य
तृतीये पादे द्वितीयमाह्निकम् ।
.
“*आकडारादेका” ॥ 1 ॥ “*किमर्थमिति*” । आकडारात्परा निरवकाशा च संज्ञेप्यते । तत्रान्तरेणापि सूत्रं `विप्रतिषेधे पर’मिति वचनात्परा भविष्यति न पूर्वा । निरवाकाशापि हि सावकाशं विशेषविहितत्वादेव बाधित्वा भविष्यति कौण्डिन्येदधिदानमिव तकदानमिति प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-2.
“*अन्यत्रेति” । विप्रतिषेधे परं कार्यंमुच्यते । न च संज्ञानां विरोधः, युगपत्प्रवृत्तिसंभवात् ॥ न च बाध्यवाधकभावः । भिन्नफलत्वाद्विरोधाभावाच्च॥ दधितक्रयोरभिन्नं फलमोदनसेक इति तयोर्बाध्यवाधकभावः ॥ `अष्ठ्ऋश्रिर्यूपो भवति’ । `वाजपेयस्य चतुरश्र’ इत्यष्टाश्रित्वचतुरश्रत्व्योस्तु विरोधात् ॥ “*इन्द्रः शक्र इति*” । यद्यप्यत्र फलभेदो नास्ति तथापि समावेशोस्तीति प्रतिपादनायोदाहरणोपन्यासः ॥ “*कर्तव्यमिति*” । प्रत्ययसंज्ञायाः प्रयोजनं धातोरङ्गसंज्ङा, कृत्सम्ज्ञायाः प्रयोजनं प्रातिपदिकत्वं, कृत्यसंज्ञाया`स्तयोरेवे’ति कर्मणिविधानम् ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-3.
“*उभयथेति” । तत्र गुणदोषविचारः कर्तव्य इत्यर्थः । तत्रै`का कार्य’मित्यस्मिंस्तु पाठे समावेशः सिद्ध्यति । अत्र हि पाठे अयमर्थः प्राक्कडारात्संज्ञाख्यां कार्यं परं भावतीति । संज्ञाप्रकरणात्संज्ञैवात्र सूत्रे कार्यशब्देन विवक्षिता । तत्र यस्याः संज्ञायाः परस्याः पूर्वया बाधः प्राप्नोति, सा परानेन भाव्यते इति विध्यर्थं सूत्रं भवति न नियमार्थम् । एतदेव च परसंज्ञाविधानं ज्ञापकमत्र प्रकरणे संज्ञानां बाद्यबा?कभावस्य तेन परयानवकाशया सावकाशा पूर्वा बाध्यते द्वयोश्च सावकाशयोर्विप्रतिषेधे परया पूर्वा बाध्यत इत्येतदत्र बस्तुत्तत्वम् ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-4.
“*आकडारादेकेति” । संज्ञाप्रकरणादेकेति स्त्रीलिङ्गनिर्देशः संज्ञाशब्दानुच्चारणेपि न विरुद्धः । अस्माच्च सूत्रात्परं `सरूपाणामेकशेष एकविभक्त्या’विति प्रकरणं कर्तव्यम् । तत्रैकेत्यस्य शब्दस्य स्वरितत्वादनुवृत्तौ लिङ्गविपरिणामेन संबन्धे सत्येकग्रहणं पुनर्न कर्तव्यं भवतीत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-5.
“*साप्रिष्कइति” । असत्यामङ्गसंज्ञायामङ्गस्योच्यमाना वृद्धिर्न स्यात् ॥ अङ्गसंज्ञा च कर्तव्यमित्यादिषु सावकाशा यत्र पूर्वस्य भपदसंज्ञे न स्तः ॥ ननु `तद्धितेष्वचामादेः किति चे’त्यङ्गस्य वृद्धिविधानसामर्थ्यात्समावेशो भविष्यति । नैतदस्ति । वचनादनङ्गस्यापि वृद्धिः स्यात् ॥ ततश्च देवदत्तो गार्ग्य इत्यत्रापि यञि परतो देवदत्तादेः समुदायस्यापि वृद्धिः प्रसज्येत । यथा
डिस्यभस्याप्यनुबन्धाकरणसाम्र्थ्यात्कुमुद्वानित्यादौ लिटोपः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-6.
“*परंकार्यत्वमिति” । परंकार्यमित्येतदेकदेशस्यानुकरणं परंकार्यशब्दस्तस्यानुकार्येणार्येनार्थवत्त्वात्प्रातिपदिकत्वात्तद्धितोत्पत्तिः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-7.
“*अनुवृतिः क्रियते इति” । ततस्तत्पूर्वकत्वं लभ्यते । अङ्गं सद्भपदसंज्ञमित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-8.
अत्रोत्तरमाह्-”*पर्यायः प्रसज्येतेति*” । एका संज्ञेति वचनादङ्गसंज्ञाया नित्ये बाधे प्राप्ते पर्यायार्थानुवृत्तिः स्यात् । एवं नियमो न बाधितो भवति अनुवृत्तिश्च सफला भवति ॥ नन `न पदान्ते’त्यत्र सूत्रे भाष्यकारेणोक्तं वेतस्वानित्यस्य सिद्धये `यथैवान्यानि पदकार्याण्युपप्लवन्ते रूत्वं जशत्वं च एवमिदमप्युपल्लोष्यते भसंज्ञा नामे’ति । तत्र च पदं सद्भसंज्ञं भवतीति विज्ञायते । भसंज्ञायां पदसंज्ञानुवृत्तावपि भसंज्ञया पदसंज्ञाया बाधः पदकार्यनिवृत्तयेऽभ्युपगन्तव्यः, इह त्वङ्गसंज्ञानुवृत्तौ पर्याय उक्त इति विरोधः ॥ नैष दोषः । अङ्गसंज्ञानुवृत्तेः प्रयोजनान्तराभावत्पर्याय इहेक्तः । पदसंज्ञानुवृत्तेस्तु भसंज्ञायां सत्यं पदत्वप्रयुक्तरुत्वाभावे वेतस्वानिति सिद्ध्यति ॥ कथमिति चेत् । उच्यते-भसंज्ञाविधौ पदमिति वर्तते । तत्रानुवृत्तिसामर्ध्यात्पूर्वं पदसंज्ञा प्रवर्तते । तेन पदकार्यं भसंज्ञा भवति, नान्यथा । एतावदेव चानुवृत्तेः प्रयोजनम् । ततः प्रवत्तया भसंज्ञया पदसंज्ञा बाध्यते एका संज्ञेति नियमात् ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-9.
“*कर्मधारयत्वइति” । एकसंज्ञावादिनं प्रयुच्यते-त्वया कर्मधारयसंज्ञायामेकसंज्ञाधिकारे अन्यत्र वा क्रियमाणायां तत्पुषग्रहणं कर्तव्यम् । एकसंज्ञाधिकारे संज्ञासमावेशार्थम् । मया त्विस्मिन्नेव प्रकरणे कर्मधारयसंज्ञा क्रियते समावेशश्च सिद्ध्यतीति तत्पुरुषग्रहणम् न कर्तव्यं भवतीति लाघवं भवति ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-10.
“*तस्यान्ते इति” । यद्येवं समानाधिकरणस्य कथं तत्पुरुषसंज्ञा सिद्ध्यति । उच्य्ते-पाठक्रमादर्थक्रमो बलीयानिति पूर्वं तत्पुरुष इति कर्तव्यम् । ततो “*द्वितीयाश्रितेति*” ।
तत्पुरुष इत्यत्र च `पूर्वकाले’त्यादीनि सूत्राण्यनुवर्त्यतत्पुरुषसंज्ञा विधीयते ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-11.
“*ननु च यस्यापीति” । व्यधिकरणानां तत्पुरुषसंज्ञां विधाय समानाधिकरणस्य तत्पुरुषसंज्ञानुवृत्त्या तत्पूर्विका कर्मधारयसंज्ञा विधायिष्यते इत्यर्थः । समावेशस्य च कारकगवीति पुंवद्भावसमासान्तौ प्रयोजनम् ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-12.
“*द्विगुचग्रहणमिति” । द्विगोः सम्बन्धिनश्चशब्दस्य ग्रहणं कर्तव्यमित्यर्थः ॥ नन्वेकसंज्ञापक्षे `द्विगुश्चे’ति सर्वमेव सूत्रं कर्तव्यं तत्र किं चशब्द एव चोद्यते । तत्राहुः-`द्विगुश्च्’ति सूत्रं द्वयोरपि पक्षयोर्न कर्तव्यम् । एकसंज्ञापक्षे तु `संख्यापूर्वो द्विगुश्चे’ति चकारः समावेशार्थः कर्तव्यो न पक्षान्तर इत्येतद्वार्तिककारस्य विवक्षितम् । भाष्यमप्येवं व्याख्यायते `तत्पुरुषः द्विगुश्चे’ति चकारः कर्तव्य इति `तद्धितार्थे’त्यनेन यः सङ्ख्यापूर्वः समासः स तत्पुरुषो द्विगुश्च भवतीति संज्ञाद्वयं लभत इति यावत् । एतदर्थश्चकारः कर्तव्य इत्यर्थः । अयमेवार्थः परस्तात्प्रकटीभविष्यति ॥ `तस्यान्त’ इत्यादि भाष्यं पूर्ववत् क्रमविपर्ययेण व्याख्येयम् ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-13.
“*गतिसम्ज्ञामिति” । ऊर्यादिषु सावकाशामिति भावः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-14.
“*प्रादीनां या गतिसंज्ञेति” । `गतिश्चे’त्यत्रासत्यपि चकारे समावेशः सिद्ध्यति । `गति’रित्यत्र योगे प्रादीनामनुवृत्त्या गतिसंज्ञा विधीयते । तत्र वचनसामर्थ्यात्पर्याये लब्धे सति उपसर्गसंज्ञानुवृत्तिः समावेशार्था भविष्यतीत्यर्थः । समावेशस्य च प्रणीतमभिषिक्तमित्यत्र गतिस्वरो णत्वषत्वे च प्रयोजनम् ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-15.
“*देवः कर्म चेति” । समावेशस्य च प्रयोजनमक्षैर्देव्यते देवदत्तो यज्ञादत्तेनेति । प्रयोज्यकर्तु`र्गतिबुद्धी’ति नियमात्कर्मसंज्ञानिवृत्तिः `अणावकर्मकादि’ति परस्मैपदाभावश्च ।
यद्येवमक्षान्दीव्यतीति द्वितीया न प्राप्नोति, तृतीयया परत्वाद्बाधितत्वात् । विभक्तिद्वयं चेष्यते । कर्मसंज्ञा च सावकाशा अकर्मकव्यपदेशाव्यावृत्त्यर्थत्वात् । करणसंज्ञापि देवना अक्षा इति ल्युडर्था ।
अत्राहुः-कार्यकालं संज्ञापरिभाषमिति पक्षैत्राश्रीयते । तेन `कर्मणि द्विती’येत्यत्र कार्येयत्कर्मसंज्ञाया
उपस्थानं तदनवकाशमिति द्वितीया भविष्यति । अक्षाणां देवितेत्यादौ तु कृत्प्रयोगे षष्ठ्या द्वितीयाऽपवादत्बाद्बाध्यते तृतीया तु परत्वात् ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-16.
“*हेतुमदिति” । हेतुसंज्ञा यस्मिन्सूत्रे विद्यते तद्धेतुमत् तत्र चग्रहणं कर्तव्यम् । समावेशस्य च प्रयोजनं कारयतीति हेतुमण्णिच्कर्तरि लकारः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-17.
“*गुरुलघुसंज्ञे इति” । यदा धिनदिसंज्ञे वर्णमात्रस्य क्रियेते तदायं दोषः । यदा तु तदन्तस्य तदा भिन्नविषायत्वात्सिद्धः समावेशः । तस्य तु प्रयोजनं वात्सीबन्धुरित्यत्र `नदीबन्धुनी’ति पूर्वपदान्तोदात्तत्वं नदीसंज्ञानिबन्धनं भवति । (वात्सीबन्धो इति) `गुरोरनृत’ इति प्लुतश्च गुरुसंज्ञानिबन्धनः । घिलघुसंज्ञासमावेशस्य च प्रयोजनं विश्चना च विनराविति घिलक्षणः पूर्वनिपाठः । विन्त्रोर्भावो वैन्तमिति `इगन्ताच्च लघुपूर्व’दित्याण् । `द्वन्द्वमनो’ज्ञादित्वाद्वुञि प्राप्ते तदभावश्चिन्त्यः । विनरावाचष्टे इति णिचि टिलोपे च कृते विविन्ट्येति `ल्यपि लघुपूर्वा’दित्ययादेशः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-18.
“*नदीघिसंज्ञापूर्विके इति” । ननु विशेषविषये नदीधिसंज्ञे गुरुलघुसंज्ञे तु सामान्यविषये ते कथं नदीघिसंज्ञापूर्विके युज्येते । एवं मन्यते-वाक्यभेदेन सम्बन्धः करिष्यते । ह्रस्वमक्षरं लघुसंज्ञां भवति ॥ ततो [घि ।] घिसंज्ञ च लघुसंज्ञमिति । एवं `दीर्घ गुरुसंज्ञम्’ । ततो [नदी ।] नदीसंज्ञां च गुरुसंज्ञमिति ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-19.
“*पर्याय इति” । नदीघिसंज्ञाभ्यांगुरुलघुसंज्ञयोर्नित्ये बाधे प्राप्ते तयोरनुवृत्तिः पर्यायार्थैव स्यादित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-20.
“*परस्मैपदसंज्ञामिति” । ततश्च क्रामतीत्यादौ दीर्घत्वं न स्यात् शतर्थेव तु स्यात् ॥ ननु च `सिचिवृद्धि’रिति ज्ञापकात्समावेशो भविष्यति । नैतदस्ति । अस्माद्वचनादस्मिन्कार्ये पर्यायः स्यान्न
समावेशः ।ततश्च पाक्षिकी वृद्धिः स्यात् ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-21.
“*परस्मैपदसंज्ञापीति” । ततश्च पर्याये लब्धे अनुवृत्तिः समावेशार्था भविष्यतीति भावः ।
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-22.
“*ऋत्विय इति” । भसंज्ञायां सत्या`मोर्गुणः’ स्यात् ॥ पदसंज्ञा त्ववग्रहार्था स्यात् ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-23.
“*गतिबुद्धयादीनामिति” । एकसंज्ञाधिकारे गत्यादिसूत्रं कर्मसंज्ञायां सिद्धायां नियमार्थं । तथा हि-प्रयोज्यः खव्यापारे स्वतन्त्रः प्रयोजकव्यापारेण चाप्यते इति संज्ञाद्वयप्रसङ्गे एकसंज्ञाधिकारादन्यतरया भाव्यम् । तत्र प्रत्ययार्थस्य प्राधान्यात्तत्प्रयुक्तया कर्मसंज्ञया प्रवर्त्यम् । गुणप्रधानसंनिधौ प्रधानस्य प्रयोजकत्वे संभवति पृअथग्गुणास्तद्विरुद्धं स्वकार्यं न प्रयुञ्जते । ततश्च सिद्धायां प्रयोज्यस्य कर्मसंज्ञायां गत्यर्थादीनामेवाण्यन्तानां कर्ता ण्यन्तानां कर्मसंज्ञो भवति नान्येषामिति नियमः क्रियते । तेन पाचयत्योदनं देवदत्तो यज्ञादत्तेनेति कर्मसंज्ञा न भवति । प्रधानप्रयुककर्मसंज्ञाऽभावे च गुणक्रियानिमित्ता कर्तृसंज्ञा प्रवर्तते । यदा तु `परं कार्य’मिति पाठस्तदाऽविरोधात्सर्वत्र संज्ञाद्वयप्रसङ्गे गत्यर्थादीनामेवेति नियमेन ण्यन्तधात्वन्तरप्रयोज्यात्कर्मसंज्ञा व्यावर्त्यते । गत्यर्थादिप्रयोज्यस्य तु संज्ञाद्वयप्रसङ्ग इत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-24.
“*यदय मिति” । यदि तु गत्यर्थादिप्रयोज्यस्य संज्ञाद्वयं प्रावत्स्र्यत्तत्रैव सूत्रे ह्?कावकरिष्येतां नाकरिष्यतान्यतरस्यांग्रहणमित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-25.
“*शकट्यै इति” । शकटिशब्दान्ङेप्रत्यये कृते परत्वान्नदिसंज्ञानिमित्ते आटि कृते तस्य ङिद्भक्तत्वा`द्धेर्ङिती’ति गुणः प्राप्नोति ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-26.
“*न वा संभवादिति” । अयं भवः-यद्यत्र घिसंज्ञा प्रवर्तेत तदान्तरङ्गत्वात् पूर्वमेव तस्याः
प्रवृत्तिः स्यात् । नदीसंज्ञा तु ङित्प्रत्ययापेक्षा बहिरङ्गा । तत्र घिटलक्षणे गुणे कृते
ह्रस्वाभावादल्विधित्वाच्च स्थानिवत्त्वाभावान्नदीसंज्ञा नैव प्रवर्तेतेति नदीसंज्ञाविधानं ह्रस्वस्यानर्थकमेव स्यात् ।
तस्मान्नदीसंज्ञाविधानसामर्ध्यादत्र घिसंज्ञा न भवतीति ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-27.
“*नद्याश्रयत्वादिति” । यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते यस्य तु विधेर्निमित्तमेव नासौ बाध्यते इति भावः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-28.
“*अन्मत्तगङ्गमिति” । अत्र बहुव्रीहिसंज्ञायां सत्यां पूर्वपदप्रकृतिस्वरः पाक्षिकश्च कप्समासान्तः प्राप्नोति ॥ “*शस्त्रीश्यामेति*” । यदा श्यामशब्दः शस्त्र्यामेव उपमाने वर्तते, उपमेयं तु समासवाच्यं तदाऽन्यपदार्थवृत्तित्वाद्बह्व्रीहिसंज्ञाप्रसङ्गात्तन्निबन्धनः पाक्षिककप्प्रसङ्गः । स्वरस्तु `तत्पुरुषे तुल्यार्थे’ति विधीयते इति तत्र नास्ति विशेषः ॥ “*पञ्चगवमिति*” । यदा समाहारे भावरूपो वाच्यः तदान्यपदार्थसद्भावः । समाह्?यमाणार्थत्वे तु तदभावः । बहुव्रीहिसंज्ञायां सत्यां तन्निबन्धनस्वरप्रसङ्गः । कपस्त्वशेषत्वात्प्रसङ्गाभावः ॥नन्वत्र टचश्चित्करणाद्बहुव्रीहिस्वरो न भविष्यति । एवं त्र्हुदाहरणदिगियम् ।इदं त्वत्रोदाहरणं पञ्चपात्रमिति ॥ “*निष्कौशाम्बिरिति*” । त्रान्तस्यान्यपदार्थस्य समासवाच्यत्वे बहुव्रीहिसंज्ञायं तन्निबन्धनो नदीलक्षणः कत्प्रसङ्गः । यदा तु पूर्वपदमेव कान्ताद्यर्थवृत्ति तदान्यपदार्थाभावः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-29.
क्रियमाणेपि शेषग्रहणे दोरान्तरप्रसङ्गमाह-`तत्रेति’ । एकसंज्ञावादी तु शेषग्रहणं न करोति । अनवकाशाभिरव्ययीभावादिसंज्ञाभिर्बहुव्रीहिसंज्ञाबाधस्य सिद्धत्वात् । द्वीरावतीकादिषु तु परत्वाद्बहुव्रीहिर्भविष्यति ॥ “*द्वीरावतीकइति*” । `नदीभिश्चे’त्यव्ययीभावः प्राप्नोति । तस्य त्ववकाशः पञ्चनदमिति यदा समाह्रियमाणोर्थो वाच्यः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-30.
“*प्रपतितपर्णः प्रपर्णक इति” । प्रपर्णक इत्युदाहरणम् । कुल्लोपप्रदर्शनार्थं तु प्रपतितपर्ण इत्युक्तम् । यथा निष्कौशाम्बिरिति तत्पुरुषसंज्ञा भवति । एवं प्रपर्णक इत्यत्रापि स्यादित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-31.
“*तत्पुरुषोऽत्रेति” । परिगणनं मनसि कृत्वाह ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-32.
इतरो विशेषमप्रतिपद्याह-”*तत्पुरुष इतीति*” ।
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-33.
“*सिद्धं त्विति” । त्तार्थे यत्र समासार्थस्तत्र तत्पुरुषसंज्ञा । प्रपार्णक इत्यत्र तु त्तार्थः पर्णविशेषणं समासार्थस्त्वन्य एवेति बहुव्रीहिर्भवति ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-34.
“*कानि पुनरिति” । अस्मिन्प्रकरणे पठितानां संज्ञानं यासां समावेशो नेष्यते ताः प्रयोजनम् । प्रकरणान्तरविहिता अप्यनिष्यमाणसमावेशा उपसंख्यातव्यत्वेन प्रयोजनानि भवन्तीति प्रश्नपूर्वकं दर्शायितुमाह ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-35.
“*ह्रस्वसंज्ञामिति” । उकालोज् ह्रस्वसंज्ञ इत्युक्तम् । उकारश्चाण्त्वाद्विमात्रत्रिमात्रयोर्ग्रहक इति तयोरपि ह्रस्वसंज्ञा प्राप्ता दीर्घप्लुतसंज्ञाभ्यां बाध्यते । स च बाधस्तत्रैव सूत्रे विस्तरेण प्रतिपादितः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-36.
“*तिङ्सार्वेधातुकमिति” । लिङ्लिटोश्च सार्वधातुकसंज्ञायां सत्यां तन्निबन्धानाः शबादयः प्राप्नुवन्ति आर्द्धधातुकसंज्ञा तु तन्निबन्धनेडाद्यर्था । `छन्दस्तुभयथे’ति तु तिङामार्द्धधातुकसंज्ञार्थं शेषास्यापि सार्वधातुकसंज्ञार्थं स्यादित्यज्ञापकमसमावेशस्य ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-37.
“*अपत्यं वृद्धमिति” । अत्र समावेशे सति शालङ्केः पैलस्य च यूनश्छात्र इति विवक्षिते `गोत्रेऽलुगची’ति फक्फिञोरलुक् प्रसज्येत । ‘फक्फिञोरन्यतरस्या’मित्ययं तु लुग्विकल्प आनन्तर्या`ध्यूनि लुगि’त्येतमेव लुकं वाधते न तु `पैलादिभ्यश्चे’त्येतमपि ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-38.
“*घिन्नदिति” । शक्ट्यै इत्यत्र घिलक्षणगुणाभावः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-39.
“*लध्विति” । अततक्षदित्यादौ सन्वद्भावाभावः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-40.
“*धनुषा विध्यतीति” । अपायविवक्षया विना धनुषो व्यधेः साधकतमत्वाभावात् संज्ञाद्वयप्रसङ्गे परत्वात्करणसंज्ञा भवति ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-41.
“*गत्युपसर्गसंज्ञै इति” । तेन सुसिक्तमित्यादौ षत्वं न भवति, `सूपमानात् क्त’ इति गतिसंज्ञाकसुशब्दाश्रयमन्तोदात्तत्वं च । पूर्वपदप्रकृतिस्वर एव तु भवति ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-42.
“*परस्मैपदसंज्ञामिति” । तेनाव्योष्टाकमत इत्यादौ वृद्धिदीर्घाद्यभावः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-43.
“*समाससंज्ञाश्चेति” । तेन लोहितगङ्गमित्यव्ययीभाव एव । द्वीरावतीक इति बहुव्रीहिरेव भवति ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-44.
“*गुणवचनं चेति” । एकविषयत्वाच्चकारकरणाच्च गुणवचनप्रातिपदिकसंज्ञयोः समावेशो भवति । उत्तरासु च संज्ञासु प्रातिपदिकमित्युनुवर्तनात्ताभिः प्रातिपदिकसंज्ञा समाविशति गुणवचनसंज्ञा तु ताभिर्बध्यते । तस्याश्च ष्यञ्विधिः प्रयोजनम् । ब्राह्मणादिग्रहणम् तु समासादिसंज्ञाविषयार्थं प्राणभृज्जात्यादिलक्षणप्रत्ययबाधनार्थं युवाद्यण्समावेशार्थं च ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-45.
“*असर्वलिङ्गा जातिरिति” । `लिङ्गानां च न सर्वभागि’ति लक्षणलक्षितां जातिमाश्रयति । चित्रगुत्वं कारकत्वमौपगवत्वमुच्चैस्त्वं सर्वत्वं गोत्वं बहुत्वं पञ्चत्वं डित्थत्वमिति गुणवचनसंज्ञायाः समासादिसंज्ञाभिर्बाधनात्ष्यञ्न भवति । एकय राजपौरुष्यमित्यादौ तु ब्राह्मणादित्वात्ष्यञ् ॥ 1 ॥
“*विप्रतिषेधे” ॥ 2 ॥ आचार्यवचनानां सर्वेषां प्रामाण्याभ्युपगमाल्लोकिकार्थस्य विरोधवाचिनो विप्रतिषेधशब्दस्येह ग्रहणं न संभवतीति मत्वा पृच्छति-”*विप्रतिषेध इति कोयं शब्द इति” ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-47.
इतरस्तु लौकिकार्थवृत्तिरेवोपात्तो न ह्यस्यात्रान्योर्थः परिभाषित इति मत्वाह-”*विप्रतिपूर्वादिति*” । “*कर्मव्यतिहार इति*” सिधेर्विशेषणां । व्यतिहारविशिष्ट क्रियावचनात्सेधतेर्भावे घञित्यर्थः ॥ “*इतरेतरप्रतिषेधोन्योन्यप्रतिषेधइति*” । स एवार्थः पर्यायाभ्यां प्रदर्श्यते । यद्वा पर्यायाप्रतिपत्ती शब्दद्वयेन प्रदर्शेते ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-48.
विरोधं पूर्वोक्तेन न्यायेनासंभावायन्पुनः पृच्छति-”*कः पुनरिति*” ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-49.
“*द्वौ प्रसङ्गात्विति” । सर्वस्याचार्यवचनस्य प्रामाण्येपि लब्धावकाशयोर्वचनयोरेकस्मिन्विषये विरूद्धकार्यद्वयसम्र्पणादस्त्येव विरोधः । प्रसज्येते इतिप्रसङ्गौ विधी ॥ “*अन्यार्थाविति*” । अन्यत्र सावकाशौ ॥ “*सविप्रतिषेध इति*” । युगपद्यासौ प्राप्तिः सा विर्धनिमित्तत्वादभेदोपचाराद्विप्रतिषेधसभ्देनोक्ता ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-50.
“*किं च स्यादिति” । यदीदं नारभ्येतेति भावः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-51.
इतरो व्यक्तिपदाऽर्थाश्रयेण पयायप्रसङ्गमाह-”*एकस्मिन्निति*” ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-52.
“*अनवयवप्रसङ्गादिति” । सर्वव्यक्त्युद्देधेन शास्त्रस्य प्रवर्तनादित्यर्थः ॥ “*प्रतिपदं विधेश्चेति*” । अनेनोत्सर्गापवादवैधर्म्यं दर्शयति । नह्युत्सर्गः प्रतिपदं विधीयते । तत्र पर्यायप्रसङ्गे नियमार्थमिदं परमेव भवति न पूर्वमिति । एतत्सूत्रार्म्भाच्च पूर्वस्य लक्षणस्य तत्रानारम्भोऽनुमीयते । `तदु’च्यते `सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेवे’ति ।
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-53.
इदानीं जातिपक्षास्रयेणाह्-”*अप्रतिपत्तिर्वेति*” । अत्र पक्षे विध्यर्थमिदम्-`परं’ भवतीति । तस्मिन् कृते यदि पूर्वस्य प्राप्तिनिमित्तमस्ति ततस्तदपि प्रवर्तते । तदुच्यते-`पुनः प्रसङ्गविज्ञानात्सिद्ध’मिति ।
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-54.
“*तव्यदादीनां तु कार्यस्येति” । परत्वादेः साधुत्वस्य वेत्यर्थः । एकवाक्योपात्तत्वादनवकाशत्वाच्च नास्त्येषां परत्वेन व्यवस्था ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-55.
“*तृजादिभिरिति” । आदिशब्दस्य प्रकारार्थत्वात्तृजादिभ्यस्तव्यदादयो न भिन्ना इत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-56.
“*सकृद्गताविति” । यथा कुरूतात् त्वमिति हेर्लुक् च प्राप्नोति तातङ चेति परत्वात्तातङ तस्य स्थानिवद्भावाल्लुङ न प्रवर्तते ॥ “*द्वारमिति*” । अप्रतिपत्त्यपनयनेन परशास्त्रप्रवृत्तेर्द्वारमुपायः क्रियत इति यावत् ॥ “*पुनः प्रसङ्गविज्ञानादिति*” । ईजतुरिति परत्वात्सम्प्रसान्रणे कृते द्विर्वचनं भवति । लक्ष्यानुरोधेन च व्यक्त्याकृतिपदार्थाश्रयणादनयोः परिभाषयोर्विषयविभागोऽवसेयः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-57.
“*तद्य इष्टवाचीति” । इष्टानिष्टविभागश्च व्याख्यानाद्बोध्यः ।
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-58.
“*अन्तरङ्गं चेति । अन्तर्मध्येऽङ्गानि निमित्तानि पारार्थ्याद्यस्य तदन्तरङ्गमित्युच्यते । एवं बहिरङ्गानियस्य तद्बहिरङ्गम् । एतच्च न्यायसिद्धमेवानूदितम् । कार्यमित्यत्रार्हे कृत्यः । करणार्हं कार्यं । तुल्यबलं च करणार्हमिति नित्यानित्योत्सर्गापवाचान्तरङ्गबहिरङ्गेष्वस्य सूत्रस्याव्यापारः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-59.
“*स्योन इति” । सिवेर्बाहुलकान्नप्रत्यये कृतेऽपवादत्वाद्बलोपः बाधित्वा गुणात्पूर्वमन्तरङ्गत्वादूड भवति । तत्र कृतेऽन्तरङ्गत्वाद्यणा गुणो बाध्यते । बहिरङ्गस्याप्यूठो यणादेशे कर्तव्येऽसिद्धत्वं न भवति, `नाजानन्तर्य’ वचनात् ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-60.
“*द्यौकामिरिति” । ननु कृतयणादेशात्तद्धितोत्पत्तौ वृद्ध्या भाव्यमिति नास्ति युगपद्यण्वृद्ध्योः प्राप्तिः । एवं त`र्हकृतव्यूहाः’ `पाणिनीया’ इति दिउकाम इ इति स्थिते अत्र यण्वृद्ध्योर्युगपत्प्रसङ्गः ॥ अथवा द्यौकामिरिति पदं यदा विभज्यान्वाख्यायते -दिव्काम इ इति, तदा `दिव अदि’त्युत्त्वे कृते यण्वृद्धी प्रानुतः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-61.
“*दुद्यूषतीति” । देवेः सन् । `सनीवन्तर्द्धे’ति पक्षे इडभावः । `हलन्ताच्चे’ति कित्त्वम् । ऊडादेशः । तत्र यण् च प्राप्नोति द्विर्वचनं च । नित्यत्वाद्विर्वचनं स्यात् ॥ एतद्भाष्यं दूषयन्ति-`द्विप्रयोगो द्विर्वचनं षाष्ठिकं व्यवस्थापितम् । तत्र शाब्दान्तरप्राप्तआ द्विर्वचनमनित्यं यण् तु नित्यः’ इति वदन्तः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-62.
“*अल्लोपस्येति” । ननु गाण्डीवधान्वनेस्यत्रास्ति सम्प्रधारणा । गाण्डीवधनु अन् आ इति स्थिते यदि पूर्वं यणादेशः ततो `न संयोगाद्वमन्ता’दित्यल्लोपनिषेधाद्रूपं सिध्यति । अथ तु परत्वादल्लोपः स्यात्ततो यण् न स्यात् ॥ एवं तर्हि नित्यत्वात्पूर्वमत्र यण् भवतीति मन्यते । कृतेप्यल्लोपे तस्य स्थानिवत्त्वाद्यणः प्राप्त्या नित्यत्वम् । यणि कृते नास्त्यल्लोपः प्रतिषेधादिति तस्यानित्यत्वम् ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-63.
“*द्यौकामिरिति” । दि उ काम इ इति स्थिते यण् च प्राप्नोति `ञ्नित्यादिर्नित्य’मिति स्वरश्च । तत्र यदि पूर्वं स्वरः स्यात्तदेदा`त्तस्वरितयोर्ण’ इत्यौकारः स्वरितः स्याद्, उदात्तश्चेष्यते ॥ `द्युकाम’ इति पूर्वपदप्रकृतिस्वरीपि यणा अन्तरङ्गत्वाद्बाद्यते तथैव `दिव उदि’त्युत्वेन च ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-64.
“*काद्रवेय इति” । कद्रुशब्दात् `संज्ञाया’मित्यूङि कृते `स्त्रीभ्यो ढक् ज्ङच
’ इति ढकि एयादेशे `ढे लोपोकद्ग्र्वा इति लोपप्रतिषेधा`दोर्गुण’ इति गुणश्च प्राप्नोत्त्येकादेशश्च ॥ नान्वकृत एकादेशेऽ`प्रत्यय’ इति निषेधात् प्रातिपदिकत्वाभावात्तद्धित् एव न स्यात् । कृते त्वेकादेशे तस्यान्तवद्भावात्प्रातिपतिकत्वात्तद्वितोत्पत्तिरित्यानुपूर्व्या सिद्धत्वादप्रयोजनमेतदित्याहुः । अत्रोच्यते-अकृतेप्येकादेशे `नोङ्धात्वो’रिति `ढेलोपोऽकद्र्वा’ इति निषेधाच्च ज्ञापकाद्भविष्यति तद्धित इत्यदोराः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-65.
“*शुनेति” । ननु `श्वयुवे’ति सम्प्रसारणे कृते तस्या`सिद्धवदत्रे’त्यसिद्धत्वा`न्न संयोगाद्वमन्ता’दिति निषेधादल्लोपस्य नास्ति प्राप्तिः ॥ एवं तर्हि `प्रग्भादि’त्यसिद्धत्वमाश्रित्यैतदुक्तम् ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-66.
प्रयोजनप्रत्याख्यानवाद्याह-”*नैतदस्तीति” ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-67.
प्रयोजनवाद्याह-”*अयमस्तीति” ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-68.
प्रत्याख्यानवाद्याह-”*नात्रेति” ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-69.
प्रयोजनवाद्याह-”*नैष इति” ॥ स एवाह-”*यत्र तर्हीति*” । यत्र पुनरित्यर्थः ॥ “*शुनः पश्येति*” । अत्र हि `न गोश्वन्’ इति प्रतिषेधाभावादल्लोपे सत्युदात्तनिवृत्तिस्वरप्रसङ्गः । तस्मात्
पूर्वमेकादेश एष्टव्यः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-70.
प्रत्याख्यानवाद्याह-”*एवं तर्हीति” ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-71.
प्रयोजनवाद्याह-”*यत्र तर्हीति” । “*बहुशुनीति*” । `बहोर्नञ्वदुत्तरपदभूम्नी’त्यन्तोदात्तस्तस्मान्ङीपि कृतेऽल्लोपे क्रियमाण उदात्तनिवृत्तिस्वरः स्यात् ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-72.
प्रत्याख्यानवाद्याह-”*यदि पुनरिति” ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-73.
प्रयोजनवाद्याह-”*नैवं शक्यमिति” । कुमारशब्दः साववर्णान्त इति ङीप उदत्तस्वरो न स्यात् ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-74.
प्रत्याख्यानवाद्याह-”*एवं तर्हीति” । शुनीत्यत्र ङीप उदात्तनिवृत्तिस्वरस्य सिद्धत्वात्मिक ङीष्विधानेनेत्यर्थः । तदेवमल्लोपादेकादेशस्य स्वरार्थ्वं दूषितम् प्रयोजनान्तरं त्वस्त्येव । यद्यत्राल्लोपो भवति तदाऽ`न उपधालोपिन’ इति ङीपि सति बहुशुनीति भवति । यदा त्वेकादेशेनाल्लोपो बाध्यते तदोपधालोपित्वाभावान्ङीबभावाद्बहुश्वेति । गौरादिलक्षणो ङीष् नास्ति । `अनुपसर्जना’दित्यधिकारात् । भाष्ये तु बहुशुनीति प्रत्यस्व्यानवादिमतेनोपन्यस्तम् । तत्पक्षे किलङीपा भाव्यमिति । न्यायमूलं चेद`मन्तरङ्गं बलीय’ इति । न च न्यायस्यात्र केनचिद्बाधोस्तीति बहुश्वेत्येव भाव्यमिति न्यायविद आहुः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-75.
“*सौत्थितिरिति” । मु उत्थित इ इति स्थिते यद्यत्र पूर्वमुकारस्योदात्तत्वं स्यात् तदा `स्वरितो वानुदात्ते पदादा’विति पक्षे स्वरितत्वं प्रसज्येत । पूर्वं त्वेकादेशे कृते नित्यमाद्युदात्तमेतद्भवति ।
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-76.
“*गुणस्येति” । परत्वाद्धि गुणेन भाव्यम् ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-77.
“*स्तौर्णिरिति” । विभज्यान्वाख्याने स्त्ऋत इ इति स्थितेऽन्तरङ्गत्वादित्त्वं ततो वृद्धिः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-78.
“*स्वर इति”। स्तैर्णिरिति यदि पूर्वं स्वरः ततइत्त्वं तथाप्यान्तरतम्यादुदात्तत्वं सिद्ध्यति ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-79.
“*न वेति”। दण्डाग्रमित्या`द्गुणः’ प्राप्नोति । कुमारी ईहत इत्यादौ यणादेश इत्यवश्यं सवर्णदीर्घत्वेन विध्यन्तरं बाध्यम् ।
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-80.
“*नैतदिति” । एकनिमित्तप्राप्तविध्यन्तरबाधनेन सावकाशः सवर्णदीर्घोऽन्तरङ्गं बाधितुं न शक्नोतीति भवः । निरवकाशेन तु विभ्यन्तरेण सावकाशोऽन्तरङ्गोपि विधिर्बाध्यते यथा `गोत्रेऽलुगची’त्युलुका लुक् ॥ “*न वा परत्वादिति*” । यथा त्वत्र प्रत्वेन न व्यवस्था अपि त्वन्तरङ्गत्वेन तथा आद्गुणोपि समानवक्ष्यो दीर्घेण बाध्यते न त्वन्तरङ्ग इति भावः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-81.
“*खट्वीयतीति” । खट्व आ य इति स्थिते यदि पूर्वमीत्त्वं स्यात् तत `आद्गुणः’ प्रयोज्येत ॥ नन्वाकारस्य कृते ईत्त्वे `यस्येति’ लोपो भविष्यति । नैतदस्ति । `पूर्वविधा’वितीत्त्वस्य स्थानिवद्भावात् ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-82.
“*न लोपेत्त्वाभ्यामिति” । ऊङ ईत्त्वासम्भवादयं क्रमोऽयुक्त आश्रयितुमिति भावः ॥ यद्यप्य`जाद्यदन्त’मिति ईत्त्वशब्दस्य पूर्वनिपातो न्याप्यः । तथापि लक्षणे प्रायेणासौ नाद्रियते ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-83.
“*चौडिरिति” । पूर्वमाकारलोपे सति तस्य स्थानिवत्त्वादसिद्धत्वाद्वाकारलोपाभावा`दाद्गुण’ इति गुणस्य प्रसङ्गः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-84.
“*ग्लानीयमिति” । विभाज्यान्वाख्याने ज्लै अनीय इति स्थितेऽनैमित्तिकत्वादात्त्वमन्तरङ्गं भवति । `ग्लाछत्रमिति’ ग्ला म्ला इति क्विबन्तम् । अत्रापि तथा विभज्यान्वाख्याने ज्लै छत्रमिति स्थिते यदि पूर्वं तुक् स्यात्तदैजन्तत्वाभावादात्त्वं न स्याद् यथा ढौकितेति ॥ उपदेशग्रहणानपेक्षया चैतदुदाहरणम् ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-85.
“*अतिर्यत्रेति” । अतिरै अत्र इति स्थिते आयादेशे सत्यनजन्तत्वाद्ध्रस्वो न स्यात् ॥ “*आराशस्त्रीदमिति*” । आराशस्त्री इदमिति स्थिते यद्यत्र पूर्वमेकादेशः स्यात्तदा तस्यान्तवद्भावाद् ह्रस्वे कृते रूपं न सिद्ध्येत् ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-86.
“*अग्निचिदत्रेति” । पदसमुदायस्य विभज्यान्वाख्याने अग्निचि अत्र इति स्थितेयदि पूर्वं यण् स्यात् तदा तुङ् न स्यात् । नपुंसकं चात्राग्निचि ति द्रष्ठव्यम् । पुंसि विभक्त्या व्यवधानात् ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-87.
“*सकृद्दुष्कृताविति” । कथं पुनरत्रानङ् प्राप्नोति । यावता विद्यायोनिसम्बन्धवाचिनामृदन्तानां द्वन्द्वे स विहित इति चिन्त्यमेतत् ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-88.
“*धीयतीति । धि धारणे तिपि शे कृते तिबाश्रयो गुणः प्राप्नोति । विकरणाश्रय इयङ् भवत्यन्तरङ्गत्वात् ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-90.
“*यणादेशश्चेति” । `एरनेकाच’ इति यण् ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-91.
“*जुहुवतुरिति” । ह्वा अतुस् । `ह्वः सम्प्रसारणमभ्यस्तस्य चे’ति सम्प्रसारणे कृते यद्याकारस्य लोपः स्यात्तदा स्थानिवत्त्वा`दसिद्धवदत्राभा’दित्यसिद्धत्वाच्चोवङ् न स्यात् ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-92.
“*औपगवीति” । उपगोरियमित्यणि ङीपि च कृते यदि प्रत्यआद्युदात्तत्वात्पिदनुदात्तत्वाद्वा पूर्वं लोपः स्यात्तदोदात्तनिवृत्तिस्वर ईकारस्य न स्यात् ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-93.
“*अग्निरिन्द्र इति” । यद्यपि प्रत्ययरहितायाः प्रकृतेः प्रयोगो नास्ति तथापि वाक्यस्य विभज्यान्वाख्याने क्रियमाणेऽयं विचारः क्रियते । यद्यपि प्रत्ययस्यनित्यत्वं तथाप्यन्तरङ्गत्वेनैव सिद्धत्वान्न तदाश्रितम् ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-94.
“*पचत्वत्रेति” । यद्यत्र पूर्वं यण् स्याद् `अनल्विधा’विति स्थानिवत्त्वनिषेधादुत्वं न स्यात् ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-95.
“*पूर्वशालाप्रिय इति” । पूर्वा शाला प्रिया अस्येति त्रिपदे बहुव्रीहौ कृते `तद्धितार्थे’ति द्वयोः पदयोस्तत्पुरुषः । तत्र त्रिपदाश्रयबहुव्रीहिनिमित्तः पूर्वपदप्रकृतिस्वरो बहिरङ्गत्वान्न प्रवर्तते । तेन तत्पुरुषसमासाश्रयं शालाशब्दस्यान्तोदात्तत्वं भवति । पूर्वशब्दः `स्वाङ्गशिटामदन्ताना’मित्याद्युदात्तः ।
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-96.
“*पचावेदमिति” । अन्तरङ्गबलीयस्त्वेनैतन्न सिद्ध्यति । बहिरङ्गे कृते `आद्वुणे एत ए` इति प्राप्नोति ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-97.
“*अनयैवेति” । इयं हि व्यापिका पूर्वाक्तप्रयोजननिष्पादनात् । शास्त्रासिद्धत्वाश्रयणाद्बहिरङ्गलक्षणं न तावत्प्रवर्तते । अन्तरङ्गलक्षणे तु प्रवृत्ते यत्र निमित्तसद्भावास्तत्र बहिरङ्गलक्षणप्रवृत्तिः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-98.
“*नाजानन्तर्य इति” । अचोरानन्तर्यमाश्रित्य यत्र कार्यं विधीयते तत्रैषा परिभाष नोपतिष्ठते ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-99.
“*यदयमिति” । कोसिचदधीत्येति बहिरङ्गस्यैकादेशस्यः सिद्धत्वात्षत्वं न भविष्यति तुत्तु प्रवर्तिष्यते इति किमसिद्धवचनेन ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-100.
“*यदयमिति” । दित्यवाह अस् इति स्थिते वाहः सम्प्रसारणमेव कर्तव्यम् । तत्र कृते पूर्वैकादेशे च ण्व्याश्रये गुणे `वृद्धिरेचीति’ वृद्धौ सिद्धं दित्यौह इति ॥ अनकारन्तो चोपपदे बहेश्छन्दसि ण्विर्ण दृश्यते । प्रयोगदर्शने वा सत्यूहतेः क्विपे प्रयोगो भविष्यति किमूडादेशविधानेनेति परिभाषाया ज्ञापक ऊड्विधिः । तस्यां हि सत्यां बहिरङ्गस्य सम्प्रसारणसा सिद्धत्वादन्तरङ्गो गुणो न स्यादित्यूड् विधीयते ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-101.
“*पूर्वैषुकामशम इति” । पूर्व इषुकामशमी अ इति स्थिते यद्यन्तरङ्गत्वादाद्गुणः स्यात्तदा पूर्वोत्तरपदयोर्व्यपवर्गाभावादुभयत आश्र्यणेन्तादिवद्भावनिषेधाच्च `दिशोमद्ग्राणां’ `प्राचां ग्रामनगराणा’मित्युत्तरपदवृद्धिर्न स्यात् । `उत्तरपदवृद्धौ सर्वं चेति’ चशब्दाद्दीक्शब्दश्चेति तथैव पूर्वपदान्तोदात्तत्वं न स्यात् । सावकाशं चैतदुभयं पूर्वपदान्तोदात्तवं न स्यात् । उदश्विदुदकमित्यादावेव तु स्यात् ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-102.
प्रसङ्गेन व्याकरणान्तरे लक्षणं विचारयितुमाह-”*यणादेशादिति*” ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-103.
“*लोपो भविष्यतीति” । ननु बहिरङ्गत्वादियुवोरसिद्धत्वाल्लोपो न प्राप्नोति । अत्राहुः-समुदायस्यासिद्धत्वं नावयवस्येति ॥ समुदायस्यासिद्धत्वे सामर्थ्यात्तदवयवस्याप्यसिद्धत्वमिति चिन्त्यमेतत् ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-104.
“*पचेयुरिति” । पच् अ या उस् इति स्थिते यद्यत्रान्तरङ्गत्वात्पररूपं क्रियेत तदा व्यपवर्गाभावादियादेशो न स्यात् ॥ एकादेशस्यान्तवत्त्वाद्भविष्यतीति चेद्, एवमपि रूपं न सिद्ध्येत् ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-105.
“*यास्मित्यस्येति” । सलोपापवाद इयादेशः । अकृते सलोपे नास्ति पररूपप्रसङ्गः ॥
2.प्रथमाध्याये चतुर्थपादे प्रथमाह्निकम्-106.
“*गोमत्प्रिय इति” । यद्यत्र लोपः स्यात्तदा प्रत्ययलक्षणेन नुमादि स्यात् ॥ “*ग्रामणिकुलमिति*” । यणादिषु कृतेषु लुकि सति रूपं न सिद्ध्येत ॥ “*वृकादिति*” । पूर्वभेकादेशे कृते तस्यादिवद्भावाल्लुकि सति रूपं न सिद्ध्येत् ॥ `अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते’ इत्यस्य `प्रत्ययोत्तरपदयोश्चे’त्यत्र ज्ञापितत्वात्सिद्धम् ॥ 2 ॥
इत्युपाध्यायजैयटात्मजकैयटकृते महाभाष्यप्रदीपे प्रथमस्य
चतुर्थ पादे प्रथमाह्निकम्
“*यूस्त्र्याख्यौ नदी ॥ 3 ॥ “* यू इति किमर्थमिति*” । स्त्र्याख्यं नदीत्येतावदेवास्तु ज्ञापकादापो न भविष्यतीति फ्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-2.
“*एष स्वर इति” । पूर्वपदप्रकृतिस्वरं बाधित्वा पूर्वपदान्तोदात्तत्वमित्यर्थः । इष्यते च पूर्वपदप्रकृतिस्वरेणा द्युदात्तत्वम् । स्वट्वाशब्दस्य नित्स्वरेणाध्युदात्तत्वा ।
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-3.
“*मातुरिति” । मातृशब्दः सम्बन्धिवचनः स्त्रीविषय एवेति नाख्याग्रहणेन निवर्त्यते । परिच्छेत्तृवाची त्वन्य एव मातृशब्दः । `नद्युऋत श्चे’ति ऋग्रहणमस्त्र्य्र्थं स्याद् बहुपितृक इत्यज्ञापकमृकारान्तानां नदीसंज्ञाभावस्य ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-4.
“*किं पुनरिति” । ननु समानधर्मानुपपत्त्या सन्देहाभावात्प्रश्नानुपपत्तिः । नहि दीर्घनिर्देशे यू इति निर्देशोपपत्तिः । एवं तर्हि युक्तायुक्तत्वनिरूपणाय प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-5.
“*उत्तरत्र चेति” । ह्रस्वनिर्देशे तु ह्रस्व इत्येकत्वस्याविवक्षितत्वाद्यु ह्रस्वाविति विशेषणविशेष्यभावोपपत्तिः । असति तु विशेषणे मात्रे मातुरित्यत्रापि प्रसङ्गः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-6.
“*अथ ह्रस्वयोरिति” । दीर्घयोरप्यण्सवर्णान् गृह्?आतीति सिद्ध्यति ॥ ननु चो`काल’ इत्यत्रोक्तम्-`अणुदित्सवर्णस्येत्य’त्राशब्दसंज्ञाग्रहणमनुवर्तते । ततश्च सवर्णग्रहणेन न भाव्यम् ॥ नैष दोषः । `नेयङुवङस्थानावस्त्री’ति प्रतिषेधात्सवर्णग्रहणं भविष्यतीति । नहि ह्रस्व इयङुवङ्स्थानः स्त्रायाख्योऽस्ति । अस्त्रीत्ययमपि निषेधपर्युदासः सवर्णग्रह्णस्य ज्ञापकः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-7.
“*अवश्यमत्रेति” । तत्र दीर्घग्रहणपक्षे शकटिशब्दस्याप्राप्ता पक्षे नदीसंज्ञा विधेया । ह्रस्वपक्षे तु नित्यप्राप्ता पक्षे बाध्येति नास्ति विशेषः । अथ तु बह्वादिषु शकटिशब्दो विभाषा ङीषर्थः पठ्यते
तदा दीर्घनिर्देशपक्षे पाक्षिकेङीषि हे शकटि इति भवति, शकटिशब्दस्य हे शकटे इति । ह्रस्वनिर्देशे तु ङीषि सत्यसत्यपि हे शकटीति प्राप्नोतीत्यस्ति भेदः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-8.
“*एष स्वर इति” । पूर्वपदान्तोदात्तत्वम् । पूर्वपदप्रकृतिस्वरेण तु शकटिशब्दे त्रोप्यचः पर्यायेण उदात्ता भवन्ति `शकटिशकट्योरक्षरमक्षरं पर्यायेणे’ति वचनात् ॥ “*इह चेति*” । `शेषाद्विभाषेति’ विभाषा कविप्यते, नित्यश्च प्राप्नोति ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-9.
“*किमर्थक्यादिति” । कोर्थोस्येति किमर्थकम् । तस्य भावः कैमर्थक्यम् । प्रश्नविषयविषयिणोः सम्बन्धो भावप्रत्ययेनोच्यते । यत्र तत्साध्यस्यार्थस्य सिद्धत्वात्किमर्थमिति प्रश्नस्तस्यैव नियमार्थत्वं न तु प्रयोजने सतीत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-10.
“*यद्येवं शकटय इति” । नित्यया नदीसंज्ञया घिसंज्ञाया बाधितत्वात् ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-11.
“*ततो धीति” । एकविषयत्वाच्च घिनदीसंज्ञयोरेकसंज्ञाधिकाराच्च पर्ययेण प्रवृत्तौ शक्ठ्यै शाकटये इति च सिद्ध्यति ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-12.
“*अविशेषेणेति” । ह्रस्वयोर्दीर्घयोश्चेत्यर्थः । बाद्यत्वादुत्सर्गसामान्यादुत्सर्ग इत्युक्तम् । परत्वात्तु पुन्नपुंसकयोः कृतार्था घिसंज्ञा नदीसंज्ञाया बाधिका ॥ “*तस्यामिति*” । अङिति तु शकटिबन्धुर्बहुशकटिरित्यादौ घिसंज्ञया नदीसंज्ञाया बाधितत्वाद्दोषाभावः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-13.
“*छन्दोवदिति” । तादर्थ्यात्सूत्रेष्वपि छन्दःशब्दो वर्तते इति च्छान्दोविषयं कार्यं सूत्रेष्वपि प्रवर्तते । गौणंउख्यन्यायश्छन्दः प्रदेशेषु निर्देशान्यथानुपपत्त्या नाश्रीयते ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-14.
“*अथेति” । यथाऽर्थोभिप्रेतस्त्था न शब्दसंस्कारोस्तीति प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-15.
“*अनुपसर्गे हीति” । य`स्त्वातश्चोपसर्ग’इति कः स परत्वा`त्कर्मण्यणि’त्यणा बाध्यते ।
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-16.
“*न तर्हीति” । शिष्टप्रयोगादस्मिन्विषये कप्रत्ययस्य साधुत्वमेष्टव्यमिति भावः ॥ “*छन्दोवत्कवय इति*” । तेनच्छान्दसत्वाद्भविष्यति ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-17.
“*नह्येषेथि” । असाधव एवैवमादयः । न तु तत्प्रामाण्यात्साधुत्वव्यवस्था ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-18.
“*आख्यायेते इति” । `घञर्थे कविधान’मिति कप्रत्ययः । `साधनं कृते’ति सप्तमीसमासः ।
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-19.
“*कृत्स्त्रिया इति” । नहि तयोरीकारोकारौ स्त्रियां विहितौ यथा ङ्यूङाविति भावः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-20.
“*एवं तर्हीति” । आख्यानमाख्या । `आतश्चोपसर्ग’ इत्यङ् । स्त्रियामाख्यानमनयोरिति बहुव्रीहिः । अत्र पक्षे सूत्रेणैव प्रत्ययः समासश्च सिध्द्यतीति भावः ॥ `स्त्रीयां’ स्त्रीविषये आख्या प्रतिपादनमित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-21.
“*एवमपीति” । नहि तयोः स्त्रियां विधानमित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-22.
“*एवं तर्हीति” । असरूपत्वादणा पक्षे विज् न बाध्यते । समुदायधर्मस्यावयव आरोपात् कृत्स्त्रिया अप्यत्र पक्षे संज्ञा सिध्द्यति ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-23.
“*आख्याग्रहणमिति” । विच्पक्षे आख्याशब्द एवायम् । कप्रत्ययपक्षे तु प्रवृत्तिनिमित्तनिर्देशः ॥ यू स्त्रियामित्येव स्र्यर्थवृत्तित्वं लभ्यत इति प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-24.
“*स्त्रीविषायार्थमिति” । आख्याग्रहणसामर्थ्यान्नियम आश्रीयते ॥ स्त्रियमेव यावाचक्षाते न तु लिङ्गान्तर्युक्तमपीत्यर्थः ॥ “*ग्रामण्ये इति*” । ग्रामणीशब्दः क्रियाशब्दत्वात् त्रिलिङ्गत्वात् स्त्रीविषयो न भवतीति स्त्रियामपि वर्तमाने नदीसंज्ञो न भवति ॥ यद्येवमिष्वशनिप्रभृतीनामुभयलिङ्गानां पट्वादीनां च गुणवचनत्वात्सर्वलिङ्गानां स्त्रीविषयत्वाभावात् स्त्रियां वृत्तौ `ङिति ह्रस्वश्चे’ति नदीसम्ज्ञा न प्राप्नोति ॥ एवं तर्हि `ङिति ह्रस्वश्चे’त्यत्रैवंविधो नियमो नाश्रीयते । केवलस्य स्त्रीशब्दस्यानुवर्तनादित्यदोषः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-25.
“*प्रथमलिङ्गग्रहणमिति” । यः शब्दः प्रथमं स्त्रीत्वविशिष्टार्थमाह पश्चात्तु प्रकारान्तरेणार्थान्तरं लिङ्गान्तरयुक्तं तस्य तदानीमस्त्र्याख्यत्वादप्राप्ता नदीसंज्ञानेन विधीयते ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-26.
“*क्विविति” । कुमारीमिच्छत्यात्मनः कुमारीयति । ततः कर्तरि क्विप् । अथ वा कुमारीवाचरतीत्याचारे क्विपं विधाय कर्तरि क्विब्विधेयः ॥ “*स्वरकुट्यै इति*” । स्वरकुटीवेतीवार्थे `संज्ञाया’मिति कनो `लुम्यनुष्य’ इति लुप् । यद्यप्यत्र युकवद्भावात् स्त्रीत्वमस्ति तथापि स्वाश्रयस्य पुंस्त्वस्यानिवर्तनात्रायं स्त्रियामेव वर्तते । किं तर्हि? पुंस्यपीत्याख्याग्रहणान्नियमार्थादप्राप्ता नदीसंज्ञा विधीयते ॥ “*अतितन्त्र्यै इति” । तन्त्रीमतिकान्त इति तत्पुरुषः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-27.
“*अवयवस्त्रीविषयत्वादिति” । अन्तरङ्गत्वात् पूर्वमेव स्त्र्याख्यात्वात्प्रवृत्ता नदीसंज्ञा
पक्षापजायमाने लिङ्गान्तरयोगे बहिरङ्गे न निवर्तत इति भावः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-28.
“*आध्यै इति” । आध्यायतीति `ध्यायतेः सम्प्रसारणं चे’ति क्विप् सम्प्रसारणं च । अत्रावयवो
धीशब्द इयङ्स्थानः । समुदायस्य त्वि`रनेकाच’ इति यणा बाधितत्वादियङ्स्थानत्वाभावः ॥ नन्वाधीप्रधीशब्दौ क्रियाशब्दत्वान्त्रिलिङ्गत्वात् स्त्री विषयौ न भवतः । यथैव ग्रामणीसेनानीशब्दाविति नदीसंज्ञया न भाव्यमिति पूर्वापरव्याघातदर्शनाच्चिन्त्यमेतत् ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-29.
“*सिद्धं त्विति” । `अचे श्रुधात्वि’त्यनेन अङ्गस्येयङुवङ्विधानात् सामर्थ्याक्षिप्तमत्राङ्गम् । तेन यस्याङ्गस्येयङुवङौ निवर्त्येते तस्य नदीसंज्ञानिषेधः । आध्यै इत्यत्राव यवस्याङ्गत्वं नास्ति । अङ्गस्य तु `एरनेकाच’इति यण्विधानादियङुवङ्स्थानता नास्तीति निषेधाभावः । एतदर्थमेव स्थानग्रहणं कृतम् । इयङुवङोर्यदा स्थितिस्तदा प्रतिषेधो यथा स्याद् यदा त्वपवादेन बाधस्तदा मा भूत् ।
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-30.
“*ह्रस्वेति” ॥ `अवयवस्त्रीविषयत्वात् सिद्ध’मित्यस्यायमपवादः । ह्रस्वेयङुवङ्स्थानानां प्रवृत्तिरर्थान्तरसंकान्तिस्तस्यां सत्यां स्त्रीवचने एव संज्ञा भवति न लिङ्गान्तरवचने । चशब्दादप्रवृत्तौ चेति ज्ञेयम् । एतदेव `प्राक्प्रवृत्ते’रिति भाष्ये स्पष्टीकृतम् ।
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-31.
“*अपर आहेति” । चशब्दोऽत्र न पठ्यत इति पूर्वस्माद्विशेषः । नहि प्राक् प्रवृत्तेः किंचिदनिष्टमापद्यते यदर्थः समुच्च्यः क्रियते । पट्यमानोपि चशब्दः स्त्रीवचनशब्देन सम्बध्यते स च नियमार्थः ॥ क्वचिद्भाष्ये पठ्यते-“अस्त्रीवचनावेव नदीसंज्ञौ भवत इति वक्तव्यम् । शकट्यै अतिशकट्यै ब्राह्मणाय । क्व मा भूत्? शकट्ये अतिशकटये ब्राह्मण्यै” इत्यादि । एष त्वपपाठः उपसंहारस्यान्यथाभिधानात् ॥
“*षष्टीयुक्तः ॥ 9 ॥ “*योगविभाग इति*” । तेन परिभाषा सम्पद्यते । यावदिह शास्त्रे कार्यं तच्छन्दसि वा भवति । तत्रान्यैव सिद्धत्वा`द्बहुलं छन्दसी’त्यादि न वक्तव्यम् । एतदर्थश्च `व्यत्ययो बहुल’मित्यत्र योगविभागो न व्याख्येयः । उभयत्रविभाषा चेयं विज्ञेया ॥ “*सुपामिति*” । `कर्मणि द्वितीये’त्यादेर्नियमस्य विकल्पनादनियमोपि च्छन्दसि भवतीति सुपां व्यत्ययसिद्धिः ॥ “*कालव्यत्यय इति*” । कालविहितप्रत्ययव्यत्यय इत्यर्थः ॥ 9 ॥
“*यस्यात्प्रत्ययविधिः” ॥ 13 ॥ “*यस्मादिति व्यपदेशायेति*” । संज्ञिन इति शेषः । सति हि यस्मादित्यस्मिस्तदादीत्यनेन संज्ञी निर्देष्टउं शक्यते नान्यथा। पराम्रष्टव्यसंज्ञ्यनिर्देशे तदिति परामर्शाभावात्तदादीत्यसम्बद्धमेव स्यात् ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-34.
“*स्त्रीयतीति” । स्त्रीशब्दात्सुशब्दस्य तल्लोपस्य च विधिरस्तीत्यङ्गसंज्ञा स्याद्भसंज्ञा चेति संज्ञाद्वयनिमित्तो `यस्येति चे’तिलोपः प्रसज्येति । ईश इदमादेशस्य `यस्येति’लोपस्या`सिद्धवदत्राभा’दित्यसिद्धत्वं नास्ति । `प्राग्भा’दसिद्धत्वमिति केषांचिदभूपगमात् । पदान्तरनिरपेक्षपदसंस्कारपक्षे स्थानिवद्भावो नास्ति नानादिष्टादचः पूर्वः स्त्रीशब्द इति ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-35.
“*अथेति” । यस्मात्प्रत्यय इत्यत्र विधीयत इत्यध्याहरिष्यत इति प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-36.
“*दधि अधुनेति” । असति विधिग्रहणे परशब्दस्याप्यध्याहारः स्यात् । इदमो यदा अधुनाप्रत्ययो निपाप्यते इदमादेशस्य चेशो `यस्येति’ लोपस्तदेदं प्रत्युदाहरणम् ॥ यदा त्विदमोऽश्भावः धुना च प्रत्ययः । तदा स्त्रीयतीत्येतदेव प्रत्युदाहरणम् ॥ ननु क्रियमाणेपि विधिग्रहणेऽत्राङ्गसंज्ञा प्रआप्नोति । अस्ति हि दधिशब्दात्सुप्रत्ययविधिरधुनाप्रत्ययश्च परः । ततश्चाङ्गसंज्ञायां भसंज्ञायां च सत्यां यस्येति लोपः प्राप्नोतित्यह-`तदेतदिति’ । प्रत्यासत्तिन्यायश्रयणाद्यस्माद्यः प्रत्ययो विहितस्तस्मिन्नेव प्रत्यये परतस्तादाद्यङ्गमित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-37.
“*परिष्याव इति” । विकरणान्तस्याङ्गसंज्ञायां सत्यां तन्निबन्धान`मतो दीर्घो यञी’ति दीर्घत्वं भवति । अन्यथा पापाव इत्यादावेव स्यात् । पय्धातोर्थङ्लुगन्तस्य वलि `लोपो व्योर्वली’ति यलोपे दीर्घत्वे च रूपम् ॥ “*कुण्डानीति*” । यदा तम्परादिस्तदात्र `सुपि चे’ति दीर्घत्वं सिद्ध्यति । दधीनीत्यादौ तु अनकारान्तत्वान्न सिध्यति । पूर्वान्तपक्षे सामानीत्यादिवत्सिध्यति । यदा त्वभक्त्वपक्षस्तदेदं प्रयोजनमादिग्रहणस्य । पूर्वान्तपक्षस्तु स्थापित इत्यप्रयोजनमेतत् ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-38.
“*मित्सुटोरिति” । मित्सुटोः कृतयोरित्यर्थः । भाष्यकारस्तु वस्तुतोर्थं व्याचष्टे-”*मित्वत
इति*” ॥ भिनत्तीति*” । रूपोदाहरणमेतत् । कार्योदाहरणम् च “*अभिनदिति*” । नित्यत्वाद् श्रमि कृते अङ्गसंज्ञायामसत्यामडागमो न स्यादित्यसङ्गसंज्ङोपसंख्यायते ॥ “*संचस्करतुरिति*” ।
द्विर्वचनेकृतेऽ`डभ्यास्व्यवायेपी’ति सुटि चानङ्गत्वादृतश्च `संयोगादे’
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-39.
“*तस्य वेति” । व्यपदेशिवद्भावादिति भावः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-40.
“*तस्यादिरिति” । भिद आदिर्भकारः स आदिर्भिनदित्यस्येति भवत्सङ्गसंज्ञा । एवं करोतोर्द्विर्वचने कृते चस्कृशब्दे स्थिते यस्मात्कृशब्दात्प्रत्ययविधिस्तस्यादिश्वकारः न एवादिश्वस्कृशब्दस्य ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-41.
“*उष्ट्रमुख इति” । यथा गतर्थत्वान्मुइखशब्दनिवृत्तिस्तथा पूर्वं प्रतिपादितम् । इहापि प्रतिलक्ष्यं लक्षणभेदात्तदवयवे तच्छब्दो वर्तत इति तदवयवादित्वान्मित्सुटोः कृतयोरङ्गसंज्ञा सिध्द्यति ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-42.
“*एकेनाष्यपाये इति” । `अपाये’ तस्य् रूपस्यापगमे । `एकेन’ करणेन । एकाभावेनेत्यर्थः । यथा वर्षकृतं दुर्भिक्षमिति वर्षमभवत् करणं सम्पद्यते । “*अङ्गसंज्ञा चापीति*” । यस्मात्प्रत्ययविधिस्तदादिति विशिष्टरूपरिग्रहात् ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-43.
“*तदेकदेशभुतमिति” । तन्मध्यपतितत्वात्तदेकदेशत्वावसायः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-44.
“*स्त्र्यर्थमिति” । असति द्वितीये प्रत्ययग्रहणे प्रत्ययविधानमात्रप्रतिबद्धाङ्गसंज्ञा स्त्रीशब्दस्य
प्राप्नोति । ततश्चतुर्थिविधानात् । ततश्चाङ्गश्रय इयङ् स्यात् । पुनः प्रत्ययग्रहणे तु यस्माद्यः प्रत्ययो विहितः स एव यदि परो भवति तदा तस्याङ्गसंज्ञा भवति । यश्चात्र प्रत्ययो विहितो नासौ
परः लोपतत्वात् । न च प्रत्ययलक्षणं भवति, `न लुमताङ्गस्ये’ति निषेधात् । इयङादेशकार्यस्याङ्गत्वात्तस्मिन्कर्तव्ये निषेधप्रवर्तनात् ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-45.
“*परिमाणार्तं चेति” । अन्यथा देवदत्त ओदनमपाक्रीदिति देवदत्तशब्दात्सुप्रत्ययविधिरिति तदादेः संदातस्याङ्गसंज्ञायं सत्यां देवदत्तशब्दात्पूर्वोडागमः स्यात् । प्रत्ययग्रहणे तु सति यस्माद्यः प्रत्ययो विहितस्तस्मिन्नेव परतस्तदाद्यङ्गमिति विज्ञायमाने न भवत्यतिप्रसङ्गदोषः ॥ “*दाशतयस्येति*” । दशावयवा येषां ते दशतये । तेषु भवो दाशतयः । एतच्चानियमप्रतिपादनार्थं न त्वत्र दशसंख्या विवक्षिता ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-46.
अवयवान्विचार्य सूत्रमाक्षेप्तुं प्रश्नं करोति -”*तत्तर्हीति*” । सूत्रमित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-47.
“*प्रत्यय इति प्रकृतेय्ति” । तेन ब्राह्मणभिस्सा क्रिमिणां पश्येत्यादावैस्दीर्घाद्यभावः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-48.
“*प्रकारोदिति” । लङि परतः पूर्वस्यानियतावधेरडागमो विधीयामन उपसर्गादेः स्यात् ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-49.
“*सिद्धं त्विति” । यत्र पूर्वः कार्यित्वेनाश्रीयते तत्र तदादेः कार्यं भवति । यत्र तु प्रत्ययान्तः संधात आश्रीयते तत्र तदादेः प्रत्ययान्तस्य ग्रहणम् भवतीत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-50.
“*प्रत्यय ग्रहणं वेति” । प्रत्ययो गृह्यते यस्मिन्सूत्रे तत्, अङ्गसंज्ञासूत्रमित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-51.
“*अवश्यमिति” । क्रियमाणेप्यस्मिन्सूत्रे परिभाषावश्यं कर्तव्येति व्यापित्वात्परिभाषैवाश्रयणीया
न तु सूत्रमित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-52.
“*संधातस्येति” । ततश्च सब्लुक् प्राप्नोति ॥ “*महान्तं पुत्रमिति*” । समुदायस्यान्ते सुप्श्रवणात्सुबन्तत्वात् । सत्यां तु परिभाषायां समुदायस्यासुबन्तत्वादव्यवस्य सापेक्षत्वादसामर्थ्यान्न भवति प्रत्ययः ॥ “*द्धस्येति*” । मुप्सुपेति विवक्षितायामपि संख्यायां समुदायस्य सुबन्तत्वात्समासप्रसङ्गः । परिभाषायां तु सत्यां समुदायस्यासुबन्तत्वात्सुबन्तसमुदायस्य च संख्याविवक्षायां समुदायस्य सुबन्ततात्समासप्रसमुदायस्य च संख्याविवक्षायां समासाप्रसङ्गात् । अवयवस्य च सापेक्षत्वात्समासाभावः ॥ “*संधातात्तद्धितोत्पत्तिरिति*” ततश्च वृद्धिस्वरौ संधातस्य स्यातां पूर्वस्य च सुपोलुक् ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-53.
“*एवं वक्ष्यामीति” । योगविभागोऽत्र क्रियते । `यस्मात्प्रत्ययविधिसदादि प्रत्यय’ इत्येकं सूत्रम् । अत्र सोपस्कारत्वात्सूत्राणां गृह्यमाणे गृह्यते इति वाक्यशेषः सम्र्थ्यते । प्रत्यये गृह्यमाणे यस्मात्प्रत्ययविधिस्तदादि गृह्यत इत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-54.
“*सांकूटिनमिति” । `अणिनुण’ इति यदिकूटिन्नित्येतस्यात्क्रियेत तदा तस्यैवादिवृद्धिः स्यात् ॥ “*दूरादागत इति*” । आगम्यते स्मेति कर्मणि क्तः । तत्र गतिस्वरेणाद्युदात्त आगतशब्दः । ततो दूरशब्दस्य `स्तोकान्तिके’ति समासः । `पञ्च्म्याः स्तोकादिभ्य’ इत्यलुक् । अत्र समासान्तोदात्तत्वे प्राप्ते तदपवादकृत्स्वरेणाद्युदात्ते आगतशब्दे प्राप्ते सगतेरपि क्तान्तत्वात् स्थानान्तरप्राप्तत्वाद्गतिस्वरस्य बाधकस्यापि बाधकत्वात् `थाथघञ्क्ते’ति सिद्धमन्तोदात्तत्वम् ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-55.
“*यदयमिति” । अनन्तरग्रहणस्य प्रयोजनमभ्युद्?तमित्यत्राभिशब्दस्य व्यवहितस्य प्रकृतिस्वरो मा भूदिति । यदि चैषा परिभाषा न स्यात् तत उद्?तशब्दस्य अक्तान्तत्वात् क्तान्त उत्तरपदेऽनन्तरे परतो गतिस्वरो विधीयमानो नैव प्राप्नोति किमनन्तरग्रहणेन । तत् क्रियमाणमस्याः परिभाषायाः सद्भावं ज्ञापयतीत्यर्थः ॥ 13 ॥
“*सुप्तिङन्तं पदम्” ॥ 14 ॥ “*अन्तरग्रहणमिति*” । असत्यन्तग्रहणे सुप्तिङामेव पदसंज्ञा स्यात् ततश्चाग्निष्वित्यादौ `सात्पदाद्यो’रिति षत्वनिषेधप्रसङ्ग इत्येतदर्थं य्द्यन्तग्रहणं क्रियते तन्न कर्तव्यम् । `प्रत्ययग्रहणे यस्मात्सविहित’ इत्यनन्तरोक्तया परिभारया तदन्तविर्धेर्लब्धत्वादिति प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-57.
“*कुमारीगौरितरेति” । तरबन्तस्य घसंज्ञायां सत्यां तत्रोत्तरपदे परतो ह्रस्वत्वं कुमारीशब्दस्य पुंवद्भावं परत्वाद्बाधित्वा स्यात् । तरपि तु परतो गौरिशब्दस्य न स्यात् । ततः कुमारिगौरतरेति प्राप्नोति । कुमर्गौरितरेति चेष्यते । भाष्ये तु समासप्रदर्शनपरं वाक्यमुपात्तम् ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-58.
“*सनाद्यन्ता धातव इति” । अन्यथा सनादिनामेव केवलानां धातुसंज्ञा स्यात् । ततश्चाचिकीर्षिदित्यादौ सन एव धातुत्वात्प्रत्ययोत्पत्तौ तदादेरेवाङ्गत्वात्ततः पूर्वेट् स्यात् । `कृत्तद्धिते’त्यत्रासत्यन्तग्रहणे केवलयोः कृत्तद्धितयोः प्रातिपदिकसंज्ञा स्यात् । ततश्च भिद् छिद् इति क्विबन्तस्य न स्यात् । अर्थवत्सूत्रेण तु न भवति, अधातुरिति निषेधात् । नापिप्रत्ययलक्षणेन प्राप्नोति, प्रत्ययनिमित्तमन्यस्य यत्कार्यं विधीयते तत्प्रत्ययलोपे भवति, न तु प्रत्ययस्यैव यत्कार्यं विधीयते तत्प्रत्ययलोपे भवति, न तु प्रत्ययस्यैव यत्कारं तदपि । नह्यसत्कार्यित्वेन वचनशतेनापि शक्यमाश्रयितुम् । केवलस्य च तद्धितस्य प्रातिपदिकसंज्ञायां सत्यामौपगव इत्यत्रापि षष्ट्याः प्रातिपदिकेऽनन्तर्गतत्वाल्लुग्र स्यात् । तदन्तविधौ तु दोषानवतारः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-59.
“*न केवल इति” । ननु यद्यर्थवत्ता लौकिक्याश्रीयते सा पदस्यैव न तु कृत्तद्धितान्तस्यापि पदस्यैव लोके प्रयोगार्हत्वात् । अन्वयव्यतिरेकगम्या त्यर्थवत्ता केवलानामपि कृत्तद्धितानामस्तीति किमुच्यते- न केवला इति। एवं तर्ह्यर्थवद्ग्रहणानुवृत्तिसामर्थ्याल्लौकिकार्थप्रत्यासन्नोऽभिव्यक्ततरो योर्थः प्रत्ययान्तेषु लक्ष्यते स आस्रीयते इत्यदोषः ॥ 14 ॥
“*नः क्ये” ॥ 15 ॥ “*किमर्थमिति*” । लुप्तेपि सुपि प्रत्ययलक्षणेन सिद्धा पदसंज्ञेति प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-61.
“*नान्तमेवेति” । क्य एव नान्तमिति विपरीतनियमो न भवति । `न ङिसंबुध्यो’रिति नलोपनिषेधाज्ज्ञापकात् ॥ “*वाच्यतीति*” । नन्वत्र क्यचा न भाव्यम् ‘गोसमानाक्षरनान्ता’दिति वचनात् ॥ एकीयमतं तदित्यदोषः । तन्मते तु क्यङ्क्यषोरनान्तं व्यावत्र्यं तपसतित्यादौ ॥ 15 ॥
“*स्वादिष्वसर्वनामस्थाने” ॥ 17 ॥ “*राजेति*” । प्रत्ययलक्षणेन सर्वनामस्थानपरत्वात् ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-63.
“*नाप्रतिषेधादिति” । प्रसज्यप्रतिषेधः प्रतिषेधशब्देनोक्तः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-64.
“*अप्राप्तेर्वेति” । प्रसज्यप्रतिषेधाश्रयणेपि न दोष इत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-65.
“*ननु चेयमिति” । परत्वादिति भावः । `स्वादिष्वि’ति प्राप्ति प्रतिषेधो बाधते । तत्र यथा देवदत्तस्य हन्तरि हतोपि न पुनः प्रादिर्भाव एवं पदसंज्ञा न स्यादित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-66.
“*नोत्सहत इति” । `स्वादिष्वि’ति प्राप्तिः किं पूर्वस्याः प्राप्तोर्बाधिकास्त्वथ निषेधस्य बाध्येति । तत्र प्राप्तबाधो न युज्यते इत्यप्राप्त्यनुमानं बाध इत्यपवादविषयपरिहारेणोत्सर्गस्य प्रवर्तना`त्स्वादिष्वि’तिप्राप्तिस्तत्रासती कथं बाधकत्वमासादयेत् । यथा वृक्षावित्यत्र `नादिची’ति प्रतिषेधारम्भात्तद्विषये पूर्वसवर्णदीर्घस्याभावाद् वृद्धि प्रति बाधकत्वाभावाद् वृद्धिः प्रवर्तते तथेह सुबन्तं पदमिति पदसंज्ञेत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-67.
“*सर्वनामशानेऽयचीति” । सर्वनामस्थानेइत्यत्र नञ् श्रुतो यचीत्यनेन संबन्धं नीयते । यकारादि सर्वनामस्थानं नास्तीति यग्रहणमुत्तरार्थम् ।
तेनाजादौ सर्व नामस्थाने पदसंज्ञा निषिध्यते,
न तु हलादाविति राजेत्यत्रापि भवति ॥ “*भसंज्ञं चेति*” । भसंज्ञाविधौ असर्वनामस्थानेनैव नञ्संबध्यते ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-68.
“*गौरिति” । अत्र `स्वादिष्वि’तिपदसंज्ञायां सत्यां `पूर्वस्यार्धस्यादुत्तरस्येदुता’विति प्रसज्येत ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-69.
“*वाक्यपदयोरिति” । वाक्यस्य चात्र विसर्जनीयोन्त्यो नत्वौकारः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-70.
“*भुवद्वद्भ्य इति” । `तसौ मत्वर्थ’ इति भसंज्ञा प्राप्तौ पदसंज्ञाविधिः ॥ 17 ॥
“*यचि भम् " ॥ 18 ॥ “*षडिक इति*” । षडङ्ग्लुलिशब्दादनुकम्पायां `बह्वचो मनुष्यनाम्न’ इति ठचि कृते `ठाजादावूर्ध्व’मिति ङ्ग्लुलिशब्दस्य लोपे `यस्येइत् चे’त्यकार लोपे च कृते तुल्यावधिकया भसंज्ञया प्रत्ययलक्षणेन `सुबन्तं पद’मिति प्राप्तायाः पदसंज्ञाया बाधनाज्जशत्वं न स्यादिति वचनम् ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-72.
“*सिद्धमच इति” । अचो लोपस्येत्यर्थः । तत्र भसंज्ञायां विधीयमानायामकारलोपस्य स्थानिवत्त्वादकारान्तमेतद्भसंज्ञां प्रातीति भिन्नवधिविषयत्वाद्भपदसंज्ञयोर्बाध्यबाधकभावाभावः । `न पदन्ते’ति स्थानिवत्त्वनिषेधोत्र न भवति । यत्र पदान्तो विधीयते तत्रासौ निषेधः यथा कौ स्तः कानि सन्तीति । अत्र हि वकारो यकारश्च पदान्तो विधेयः । इह तु पूर्वमेव जश्त्वं प्रवृत्तम्, न त्विदानीं विधेयम् ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-73.
“*सिद्धमिति” । उत्तरपदलोपस्य हलजादेशत्वान्नास्ति स्थानिवत्त्वमिति तुल्यावधिकया भसंज्ञया पदसंज्ञा बाध्यते ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-74.
“*मनुष्वदिति” । सत्यां पदसंज्ञायां रुत्वं स्याद् न तु षत्व`मपदान्तस्ये’ति वचनात् ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-75.
“*वृषण्वसुरिति” । पदत्वे सति `पदान्तस्ये’ति निषेधाण्णत्वं न स्याद् नलोपश्च प्रसज्येत । भत्वे तु सत्य`ल्लोपोऽन’ इत्यकारलोपोत्र न भवति । अङ्गसंज्ञाया अभावात् । `अङ्गस्ये’ति च तत्राधिकारात् । उपसंख्यानान्येतानि च्छान्दोविषयाणीत्याहुः ॥ 18 ॥
“*तसौ मत्वर्थे” ॥ 19 ॥ “*अर्थग्रहणमिति*” । `स्वादिष्वि’ति वर्तते तत्रैवं संबन्धः क्रियते-मतौयः स्वादिर्वर्तत इति । शब्दे च वृत्त्यसंभवात्तदर्थवृत्तिर्विज्ञास्यते इति प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-77.
“*इहैव स्यादिति” । मतौ स्वादाविति सामानाधिकरण्येन मुख्यकल्पनया संबन्धे संभवत्यर्थग्रहणं न लभ्यत इति भावः ॥ “*पयस्वानिति*” । मत्वर्थायप्रकरणेऽन्यतरस्यांग्रहणानुवर्तनाद् विनिना मतुब् न बाध्यते ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-78.
“*नहि मतुविति” । उपलक्षणस्यान्योपलक्षने चरितार्थत्वात् स्वतः कार्यंप्रति निमित्तत्वावगमाभावात् ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-79.
“*मतुबपीति” । अस्यास्मिन्निति मतुपोर्थः । स च विन्नादिनामिव मतुपोपीति भवः ॥ “*तद्यथेति*” । अयमत्रार्थः-यत्र रूपान्तरेणोपलक्षणत्वं रूपान्तरेण च कार्ययोगः प्रतिपाद्यते तत्रोपलक्षणस्याप्युपलक्ष्यरूपसद्भावे सतिकार्ययोगो भवति । तद्यथा-देवदत्तशालायां ब्राह्मणा आनीयन्तामित्युक्ते सति ब्राह्मण्ये देवदत्तस्याप्यानयनं भवति । कार्यनिमित्तरूपान्तराभावे तु न भवत्युपलक्षणस्य कार्ययोगः । यथा देवदत्तशाला भिद्यतामिति ॥ 19 ॥
“*अयस्मयादिति” ॥ 20 ॥ आन्न्तर्याद्भसंज्ञाविधानद्वारेणैव निपातनं प्राप्तिमित्याह-”*उभयसंज्ञान्यपीति*” । “*ऋक्वतेति*” । पदत्वात्कुत्वंभत्वाज्जशत्वं न भवति । जश्त्वविधानार्थपदसंज्ञाबाधनाय भसंज्ञाप्रवर्तनात् तन्निबन्धानक्ष्याभावः ॥ 20 ॥
“*बहुषु वहुवचनम्” ॥ 21 ॥ “*केषु बहुष्विति*” । जातिवादी प्रत्ययवतिष्टते । जातेः प्रातिपदिकार्थत्वेतस्या एकत्वाद्बहुत्वासम्भवात्तत्सहचरितद्रवयगतं बहुत्वमाश्रयणीयम् । ततश्च वृक्ष इत्यत्रावयवगतबहुत्वसद्भावात्स्याद्बहुवचनमिति भावः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-82.
अत्रोत्तरम्-”*अर्थेष्विति*” । अस्याप्ययं भावः-द्रव्यं पदार्थः । तत्राभिधेयगतमेव बहुत्वमाश्रीयते । वृक्षशब्दस्य चावयवी वाच्यो न त्ववयवाः । आकृतिपक्षेपि प्रत्यासत्त्या तदाधारद्रव्यगतं बहुत्वमाश्रीयते, न त्ववयवगतम् । दारा इत्यादौ त्ववयवावयव्यभेदविवक्षायां बहुत्वमाकृत्याधारगतमेव बहुवचनवाच्यमित्यदोषः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-83.
इतरोऽगृहीताभिप्राय आह-”*यद्येवमिति*” । अर्थशब्दो भवता पस्तुपर्यार्यः प्रयुक्तः । मूलादीनि च बहूनि वस्तूनि मन्यते ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-84.
“*एवं तर्हीति” । अयमर्थः -नेदं स्वतान्त्र्येण विधायकं किं तर्हि ? विहितानामनेन नियमः क्रियते । बहुवचनादिभिर्निष्पनाशब्दसंज्ञाभिः मुप्तिङोत्र प्रत्याट्यन्ते । तेषां च शास्त्रान्तरेण स्थिते विधाने इदमारभ्यमाणं नियमाय भवति । न त्विदमेव विशिष्टार्थनुवादेन सुप्तिङोर्विधायकमित्येत`च्छाब्दसंज्ञा एता’ इत्यनेन प्रदष्श्यते ॥ “*येष्वर्थेष्विति*” ॥ क्विचित्तु पाठः `एवं तर्हि येष्वर्थेष्विति’ ॥ एकवचनमित्यादि तु भाष्यं नास्त्येव ॥ अयमर्थः-पञ्चकः प्रातिपदिकार्थः । तथाहि -दधिपश्येत्यादौ विभक्तिश्रवणमन्तरेणापि पञ्चाप्यर्थाः प्रतीयन्ते स्वार्थादयः । विभक्तयस्तु क्वचिद्दयोतकत्वेनोपक्ष्यन्ते । तत्रा`निर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ती’ति संख्यायां कर्मादिषु च सिद्धा एव स्वादयः । अनेन तु नियम्यन्ते । तत्र कर्मादिशक्त्यैकार्थसमवेत एव बहुत्वे बहुवचनं भवति, न त्ववयवगते ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-85.
“*नैव कर्मादय इति” । `अनभिहित’ इति सूत्रारम्भसाम्र्थ्यात्कर्मादीनां नैव विभक्तिवाच्यत्वमिति मन्यते । तेषां हि विबख्स्यर्थत्वे तिङ्कृत्तद्धितसमासैस्तेषुक्तेषु गतार्थत्वाद्वितीयादीनां प्रसङ्ग एव नास्ति किमनभिहिताधिकारेण ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-86.
“*एकत्वादिष्वपीति” । वाक्यैकवाक्य्त्वे सति महावाक्यं संपद्यते-कर्मण्यनभिहिते यदेकत्वं तत्रैकवचनमित्यादि ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-87.
“*स तर्हीति” । बहुत्वे इत्येवमित्यर्थः ॥ “*एकेमन्यन्त इति*” । प्रातिपदिकार्थ एकत्वमप्यस्ति बहुत्वं च । ज्ङेकयोरित्यत्र च विशेषानुपादानाद्यावान् कश्चिदेकशब्दार्थः तस्य ग्रहणेन भाव्यम् । तत्र परत्वादेकवचनप्रसङ्गः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-88.
“*इह चेति” । इह यदि `ज्ङेकयो’रिति योगात्परोयं योगः क्रियते तदा विशेषाभावाद्वैपुल्यरूपस्यापि बहुत्वस्य ग्रहणे सति परत्वाद्बहुवचनप्रसङ्गः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-89.
“*गुणविशेषक इति” । अत एव वचनादनित्ययः षष्ठीसमासप्रतिषेधाः । शेषषष्ठ्या वा समासः ॥ “*सामानाधिकरण्यमिति*” । मतुब्लोपादभेदोपचाराद्वा ॥ “*तदानान्तरेणेति*” । गुणिवाचिनः शुक्लशब्दाद्भावप्रत्यये कृते गुणः प्रतीयते नान्यथेत्यर्थः ॥ “*द्रव्ये षष्ठीति*” । षष्ठीग्रहणं व्यतिरेकविभक्तेरूपलक्षणार्थम् । गुणिनो ह्याधारत्वविवक्षायां सप्तम्यपि भवति । यथैवेह कर्मणि या संख्येति॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-90.
“*कथमिति” । बहुत्वस्यैकत्वाद्बहाविति भाव्यमिति प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-91.
“*एतदेवेति” । आश्रयगतं बहुत्वं बहुत्वे गुणे आरोप्य निर्देशः कृतः । तस्यैतत्प्रयोजनं भिन्नवस्त्वाधारस्यबहुत्वस्य संख्यारूपस्य ग्रहणं यथा स्यात् । एकाश्रयवर्तिनो वैपुल्यरूपस्य मा भूदिति ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-92.
“*एकशब्दोयमिति” । `ह्येकयो’रित्यत्र संख्यापदेन । द्विशब्देन साहचर्यादेकशब्दस्यास्ति संख्यावाचिनो ग्रहणम् । द्वित्वैकत्वयोश्च ह्येकशब्दौ वर्तेते इति ‘ह्येकयो’रिति द्विवचनेन निर्देशः । अन्यथा बहुवचनं स्यथ् । प्रसिद्ध्या च संख्येयार्थत्वमेकादीनामष्टादशान्तानामुच्यते ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-93.
“*किमर्थमिति” । लौकिकादेव प्रयोगाद्बहुत्वादिषु बहुवचनादीनां व्यवस्थाभविष्यतीति प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-94.
“*सुप्तिङामिति” । सुप्तिङ्विधानवाक्ये संख्याविशेषनिर्देशाद् विशेषानुपादानेनतेषां विधानमित्यर्थः ॥ “*य्द्यपीति*” । शास्त्रेऽनुपात्तोप्यर्थः प्रयोगादेव व्यव्स्थाप्यते इत्यर्थः । सुपस्तावत् स्वार्थे विधीयमानाः `स्वार्थद्रव्यलिङ्गसंख्याकर्मणोर्विधीयमानाः संख्यायुक्तयोरेव तयोर्वाचका भविप्यन्ति स्वभावतः । संख्याविशेषः प्रयोगदर्शनादवगम्यते इति भावः ॥ “*अक्षीणीति*” । द्वित्वेपि लोके वहुवचनं दृश्यत इत्यर्थः ॥ विरूद्धः प्रयोगो `विप्रयोगः’ ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-95.
“*तत्र प्रत्ययनियम इति” । प्रत्यया विशिष्टायां संख्यायां नियता इति निःसंख्येभ्योऽव्ययेभ्यस्तेषामनुत्पादात्पदत्वाभावात्तन्निबन्धनरूत्वाद्यभावप्रसङ्गः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-96.
“*अर्थनियमे इति” । अर्था नियता इति तेषु वचनान्तराभावः । प्रत्ययास्त्वनियतत्वादव्ययेभ्योपि सिध्द्यन्तीत्यत्र्थः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-97.
“*सुपामिति” । `कर्मणी द्वितीये’त्यादेः प्रकरणस्य `बहुषु बहुवचन’मित्यादेश्च स्वादिसूत्रेण सहैकवाक्यता । तिङर्थे त्विह तस्माद्भेदेन सूत्रद्वयमुपात्तम् । तत्रैकस्मिन्कर्मणीत्व्येवं गुणवुणिनोः समानाधिकरण्येन सम्बन्धे सति संख्याकमार्दयश्च सुपामर्था भवन्ति ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-98.
“*प्रसिद्धो नियम इति” । अर्थनियम इत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-99.
“*नियमः प्रकृतेषु वेति” । तुल्यजातीयस्य नियमेन व्यावृत्तिः क्रियत इत्यव्ययेभ्यः स्वादिनामव्यावृत्तिः ॥
2.प्रथमाध्याये चतुर्थपादे द्वितीयमाह्निकम्-100.
“*अथ वेति” । भवतु प्रत्ययानां सामान्येन नियमस्तथापि ज्ञापकादव्ययेभ्यः स्वादिसिद्धिरित्यर्थः ॥ 21 ॥
“*कारके” ॥ 23 ॥ “*किमदमिति*” । सप्तमीनिर्देशान्न तावत्संज्ञात्वेनाधिकारः । संज्ञाया भाव्यमानत्वात् प्रथमानिर्देशस्य न्याप्यत्वात् । अथ विशेषणत्वेनाधिकारस्तदा `कारकाद्दत्तश्रुतयो’रित्यादावपादानादिसंज्ञाविकलस्यापि कारकस्य ग्रहणम् प्राप्नोति । षाड्विधस्यैव चेष्यते । तह्यतिरिक्तं च कारकमस्ति । यथा-नाट्यस्य ?तीति प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-2.
“*किं वक्तव्यमिति” । सप्तमीनिर्देशादयुक्तः संज्ञापक्ष इति भावः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-3.
“*नहीति” । सुब्व्यत्यय उक्तः । “*न चायमिति*” । शास्त्रे लोके च प्रसिध्द्यभावाद्भूतविभक्त्यनुपपत्त्या भाव्यमानविभक्तेः प्रथमायाः स्थाने सप्तमी कृतेति भावः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-4.
“*संज्ञिनो निर्देश इति” । यद्यपि वक्ष्यमाणाध्रवादयः संज्ञिनो लभ्यते तथापि विधिष्टसंज्ञी निर्देष्टव्यः । यत् क्रियायाः साधकं ध्रुवादि तत्कारकसंज्ञमपादानसंज्ञां च भवतीति ॥ ननु संज्ञापक्षे कारकसंज्ञाया अपादानादिसंज्ञाभिः समावेशो न प्राप्नोति । एकसंज्ञाधिकारात् ॥ नैष दोषः । ध्रुवमपाय इति योगविभागेन कारकसंज्ञा क्रियते । ततोऽ`पादान’मित्यत्र कारकग्रहणमनुवर्तते `ध्रुवमपाय’ इति च, तेन कारकं सदपादानसंज्ञमित्येवं समावेषः सिध्द्यतीति । अन्तरेणाप्य्नुवृत्तिं वचनसामर्थ्यात्पर्याये सिद्धे समावेशार्थानुवृत्तिर्विज्ञायते । एवं संप्रदानादिसंज्ञास्वपि समावेशो व्याख्येयः । समावेशस्य च प्रयोजनं स्तम्बेरम इत्यादावधिकरणत्व्त्सप्तमी कारकत्वातृक्दन्तसोत्तरपदस्य प्रकृतिस्वरः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-5.
“*ग्रामस्य समीपादिति” । यथा यो वृक्षशाखायाः पतति वृक्षादप्यसौ पतति । एवं यो ग्राम्समीपादागच्छति ग्रामादप्यसावागच्छति । ततश्चापाये ग्रामस्य ध्रुवता भवति । आगमने तु निर्वर्तकत्वाभावः । समीपविशेषणत्वेनोपात्तत्वात् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-6.
“*नात्र ग्राम इति” । समीपविशेषणत्वेनोपादानादेव ग्रामस्यापाययोगो नास्ति । स हि संश्लेषपूर्वकः । संश्लेषश्च सन्नसन्वा वुध्द्या कल्प्यते । स च समीपस्यैव विवक्षितो न ग्रामस्येत्यर्थः ।
ग्रामात्समीपादिति चोक्ते बस्त्वन्तरापेक्षं ग्रामस्यैव समीप्यं प्रतीयते न तु ग्रामापेक्षमन्यस्य समीप्यम् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-7.
“*सञ्चक्ष्येति” । वर्जयित्वेत्यर्थः । ‘वर्जने प्रतिषेध’ इति ख्याञादेशाभावः । वर्जनं च प्रसक्तस्य सजातीयस्यैव कर्मसंज्ञा भवति न तु ब्राह्मणस्यपुत्रं प्रति विशेषणत्वेनोपात्तस्य ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-8.
“*तद्यदेति” । अप्रादान्यस्य प्रसङ्गनिरपेक्षत्वाद् ब्राह्मणेऽपि पुत्रवद्भावात् । पन्था
हीप्सिततमत्वात्प्रधानं, न पुत्रो, नापि ब्राह्मणः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-9.
“*वृक्षस्य पर्णमिति” । ग्रामस्य समीपादित्यत्रापाययुक्तार्थान्तरसद्भावान्नास्ति ग्रामस्यापाययोगः । इह त्वर्थान्तरस्यानिर्देशाद् वृक्षस्यैवापाययुक्तत्वमिति भावः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-10.
“*न वाऽपायस्येति” । पर्णविशेषणत्वेनैव वृक्षस्य विवक्षितत्वात् । तथा हि- वृक्षमजहत्यपि पर्णे शाखास्थे भूमिं स्प्ऋशति वृक्षस्य पर्णं पततीति प्रयोगो भवति । सति हवधौ गतिरपायो भवति नान्यथा, गतिविशेषत्वादपयस्य । “*न ज्ञायत इति*” । शब्देनासमर्पणात्सम्बन्धिविशेषस्येति भावः ॥ प्रत्यासत्त्या तु वृक्ष एव सम्बन्धित्वेन प्रतीयते ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-11.
“*कर्मसंज्ञाप्रसङ्ग इति” । अप्रधानवाच्यकथितशब्दाश्रयण इति भावः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-12.
“*अन्वर्थसंज्ञेति” । महत्याः संज्ञायाः करणादनुमीयते नूनं विशिष्टा ध्रुवादयः संज्ञित्वेन निर्दिष्टाः । यद्विशेषदर्शनात्तदनुरूपा तेषां संज्ञा क्रियते ॥ “*करोतीति कारकमिति*” । साध्यत्वेन क्रियैव शब्दात्प्रतीयते इति क्रियाया निर्वर्तकस्य कारकसंज्ञाऽपादानादिसंज्ञा च प्रवर्तते ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-13.
“*अन्वर्थमिति चेदिति*” । करोतीति कारकमिति यद्याश्रीयते तदा स्वतन्त्रस्यैव कर्तृसंज्ञावत्कारकसंज्ञापि प्राप्नोति न तु करणादीनां कर्तृपरतन्त्राणाम् ॥ “*कर्तृशब्द इति*” । कर्तृवाची कारकशब्द इत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-14.
“*सिद्धं त्विति” । स्वव्यापरे सर्वेषां स्वातन्त्र्यात्तदनुष्ठानद्वारेण प्रधानक्रियायामुपयोगात्कर्तृसन्निधावपि स्वव्यापारस्यानिवर्तनात्परतन्त्र्यावस्थायामप्यनिवृत्तं कारकत्वमित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-15.
“*संभवनक्रियामिति” । ग्रहणक्रियामित्यर्थः ॥ “*धारणक्रियामिति*” । स्थिरत्वादा क्रियासमाप्तेस्तण्डुलानां धारणमित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-16.
“*यधा पक्ष्यन्तीति” । भविष्यन्निर्देशः कर्तृगतसम्भावनापेक्षः । कर्त्राहि सम्भावितक्रियाः नियुज्यन्ते । नियुज्यन्ते । नियुक्ताश्च व्याप्रियन्ते न तु प्रागोव । न त्वत्र भविष्यन्निर्देशस्तन्त्रम् । अनेकार्थत्वाद्धतूनां तादर्थ्याद्वा तद्रूपासङ्गात्करणादिव्यापारे पचेर्वृत्तिर्द्रष्ठव्या ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-17.
“*यत्तत्र तृणेनेति” । अन्वयव्यतिरेकाभ्यां करणस्य विशिष्टव्यापारावेशनिदर्शनाय दर्शयति ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-18.
“*न तथेति” । नह्यपादाने ग्रामे ग्राम आगच्छतीति प्रयोगोस्ति ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-19.
“*बलाहकादिति” । निःसरणाङ्गे विद्ध्योतने द्युतिर्वर्तते प्ऋथ्ग्भावश्च निवश्रित इत्यपादानत्वम् ॥ “*ब्लाहक इति*” ।
स्थित्यङ्गे द्योतनेऽत्र द्युतिर्वर्तते । बलाहके स्थित्वा
ज्योतीरूपा विद्युद् विद्योतत इत्यर्थः ॥ “*बलाहक इति*” । विद्युदो बलाहकस्य चाभेदविवक्षायामयं प्रयोगः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-20.
“*पर्यात्पमिति*” । खव्यापारानुष्ठानमन्तरेण प्रधानक्रियायामुपयोगाभावात् ॥ ग्राम आगच्छतीत्यर्थान्तरावगमादपादन्व्यापारानवसायात्प्रयोगाभावः ॥ एवं ब्राह्मणस्य ददातीत्यर्थे ब्राह्मणो ददातीति प्रयोगाभावः । शाब्दशक्तिस्वाभाव्याच्चापादानसम्प्रदान्वयापारे धातुर्न वर्तते । वस्तुतस्त्वपादानस्यावधिभावेनावस्थानं व्यापारोस्ति सम्प्रदानस्यात्यनुमननादिलक्षणः प्रतीयमानोपि व्यापारः कारक्व्यपदेशनिबन्धनम् । यथा प्रविश पिण्डीमिति ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-22.
“*परत्वादिति” । अपादानादीनामवकाशा यदा स्वातन्त्र्यं नास्ति । कर्तृसंज्ञाया अवकाशो देवदत्तः पचतीति ॥ ननु सर्वत्र स्वातन्त्र्यस्य सद्भावान्नास्ति कर्तृसंज्ञाविक्तोऽपादानादिसंज्ञानामन्यत्रावकाशः ॥ सत्यमेतत् । पूर्वपक्षास्त्वयं तत्र च न्यायाभासेनैव भाव्यं । अन्यथा पूर्वपक्ष एव न स्यात् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-23.
“*अत्रापीति” । उद्भूतस्वातन्त्र्यविवक्षायां कर्तृसंज्ञा-यथा स्थाली पचतीति । उद्भुतपारतन्त्र्यविवक्षायां तु न्यग्भावात्सदपि स्वात्नत्र्यां स्वकार्यं न प्रयुङ्गेक्ते । यथा राजसन्निधौ तदनुपयोगि स्वकार्यममात्या नारभन्ते ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-24.
“*न वा एवमर्थमिति” । प्रक्षालनाद्यभावेपि पाकनिष्पादात्तेषां तत्रानङ्गत्वात् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-25.
“*किं पुनः प्रधानमिति” । सामग्रीतः क्रियोत्पादात्सर्वेषां तत्र सामान्यान्न कस्यचित्प्राधान्यमिति भावः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-26.
“*कर्ता प्रवर्तयितेति " । तदधीनप्रवृत्तिनिवृत्तित्वात्करणादीनां तस्य च प्रागन्यतः शक्तिआभात्प्रतिनिध्यदर्शनात्करणाद्यभावेप्यास्ते शेते इत्यादौ केवलस्य कर्तृदर्शनात्कर्तृरहितानां करणादीनामदर्शनात्प्राधान्यं कर्तृरित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-27.
“*उभौ चान्योन्यविशेषकाविति” । ततश्च स्वातन्त्र्यपारतन्त्र्ययोर्युगपद्विरोधाद्विशेषणाविशेष्यत्वे न प्रकल्पेते इत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-28.
“*एवं तर्हीति” । सर्वेषां कारकाणां साध्यत्वेन साधारणी क्रिया ततश्च सर्वेषां तस्यां कर्तृत्वम् । अवान्तरव्यापारविवक्षायां तु करणादिरूपत्वम् । यथा मातापित्रोरपत्योत्पादने कर्तृत्वं भेदविवक्षायां त्वयमस्यामियमस्माज्जन्यतीत्यधिकरणत्वमपादानत्वं च व्यवतिष्ठते । कर्तृसंज्ञा तु करणत्वाद्यवस्थायां न भवति । `स्वतन्त्रः कत्रे`त्यत्र कारकत्वादेव स्वातन्त्र्ये लब्धे पुनः स्वतन्त्रास्रुतिर्नियमार्था तेन स्वतः स्वातन्त्र्य्मेव यस्य कर्तृसंज्ञा तस्य, न तु पारतन्त्र्यसहितस्वातन्त्र्ययुत्तस्य । कारकसंज्ञा तु वस्तुस्थित्या विद्यमानमुद्भूतत्वेनाविवक्षितमपि स्वातन्त्र्यमाश्रित्य करणादीनां विधानसामर्थ्यात्प्रवर्तते । यत्र च शक्तीनं निमित्तनिमित्तभावेन युगपद्विवक्षा तत्र संज्ञानं विप्रतिषेध उच्यते । यथा धनुषा विध्यतीति विनापायविवक्षया धनुषः साधकतमत्वाभावात् संज्ञाद्वयप्रसङ्गे परत्वात्करणसंज्ञा असिश्छनत्तीति सत्येव साधकतमते स्वातन्त्र्यस्य विवक्षितत्वात्परत्वात्कर्तृसंज्ञा । तदा तु तैक्ष्य्ण्यादीनां करणत्वम् । तैक्ष्ण्यादीनां तु कर्तृत्वविवक्षायामात्मनः करणत्वम् । तैक्ष्ण्यमेव हि विवक्षावशाद्द्वेधावतिष्टते कर्तृत्वेन करणत्वेन च । वस्तुस्थित्या त्वेक एवार्थात्मेति कर्तृत्वं करणत्वस्य बाधकमुच्यते ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-29.
“*अथ वेति” । क्रियात्र सुत्रे कारकशब्देनोच्यते । सा हि कर्त्रादीनि विशिष्टव्यपदेशायुत्तानि करोति । विषयत्वेन चायमधिकारः क्रियायां विषये यद् ध्रुवमित्यादि वस्तु संपद्यते ॥ “*एवं च कृत्वेति*” । निर्धारणसप्तम्यां हि कारकेष्विति वाच्यम् । निर्धारणस्यानेकाश्रयत्वात् । `कारकादृत्तश्रुतयो’रित्यादौ तु कारकशब्दस्य स्वरितत्वात्तदधिकारोपात्तानामपादानादीनां ग्रहणम् ॥ 23 ॥
“*ध्रुवमपाये” ॥ 24 ॥ “*ध्रुवग्रहणमिति*” । अध्रुवस्य परत्वात्संज्ञान्तरं प्रवर्तिष्यते इति प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-31.
“*शकटेनेति” । अपाये शकटस्यापि साधनत्वादपादानसंज्ञा प्राप्नोति ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-32.
“*करणसंज्ञेति” । यथ धनुषा विध्यतीति क्रियमाणेपि ध्रुवग्रहणे परत्वात्करणसम्ज्ञा भवति एकमक्रियमाणेपि शकटस्य भविष्यतीत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-33.
“*इदं तर्हीति” । ननु कंसपात्री साधनमेवागमने न भवति, भुजिक्रियायां तु साधनं ध्रुवा च । तत्र परत्वादधिकरणसंज्ञैति `आकडार’सुथ्र उक्तम् । एवं तर्हि वस्तुस्थित्यात्रागमनं प्रधानं तदङ्गं तु भोजनम् । शब्दात्तु विपरीतो गुणप्रधानभावः प्रतीयते । तदुक्तं हरिणा-
“*चङ्क्रम्यमाणोधीष्वात्र जपंश्चङ्क्रमणं कुरु ।
तदर्थ्यस्याविशेषेपि शब्दाद्भेदः प्रतीयते ॥
इति । तत्र कंसपात्री भुजेः साधनत्वात्तद्द्वारेणागमनस्यापि भवत्येव साधनम् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-34.
“*अत्रापीति” । शब्देन भोजनस्यैव प्राधान्यं प्रतीयते इति तत्प्रयुक्तयैव संज्ञाया भाव्यम् । यथा भोक्तुं ग्राममभिनिविशत इति प्रधानक्रियापेक्षया ग्रामस्य कर्मसंज्ञा भवति । न तु भुज्यपेक्षयाऽधिकरणसंज्ञा ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-35.
“*वृक्षस्येति” । अस्त्यत्रापाय इति भावः ॥ नन्वत्र कारकत्वाभावात्संज्ञा न भविष्यति अपायाभावाच्च । सत्येव ह्यवधावपायो भवतीति पूर्वसूत्रे उक्तत्वात् ॥ तत्र केचिदाहुः-सुज्ञानत्वात्पूर्वसूत्रे उक्तत्वाच्च भाष्यकारेणायमष्थो नोक्तः ॥ अन्येत्वाहुः-सतीह ध्रुवग्रहणे विशिष्टोऽपायो लभ्यते, असति तु नस्मिन् पातमात्रस्य लोकेऽपायत्वेन
प्रसिद्धत्वात्कारकाधिकारानपेक्षया च प्रत्युदाहरणमुपन्यस्तम् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-36.
“*जुगुस्येति” । संश्लेषपूर्वको विश्लेष्पोऽपायः सचात्र नास्ति । बुद्धिकल्पितस्तु गौन इति भावः ॥ कारकशेषत्वाच्चात्र षष्ठी प्राप्नोति यथा नटस्य श्रृणोतीति ॥ “*सांकाश्यकेभ्य इति*” । `पञ्चमी विभक्ते’ इत्यनपेक्ष्य वचनम् । अत्र `यतश्च निर्धारण’मिति षष्ठीसप्तम्यौ प्राप्नुतः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-37.
“*न वक्तव्यमिति” । `साधकतमं करण’मिति नमग्रहणेन`स्वरितेनाधिकार’इत्य`धिकः कारोधिकार’इत्यस्यार्थस्याश्रयणेन च बुद्धिव्यवस्थितापायाश्रयाऽपादानसंज्ञा प्रवर्तते ॥
“*अधर्माज्जुगुप्त्सत इति” । जुगुप्सादयो निवृत्त्यङ्गे जुगुप्सादौ वर्तन्ते ॥ “*संभिन्नबुद्धिरिति*” ।
धर्माधर्मयोरेकाकारबुद्धिर्नास्तिक इत्यर्थः ॥ “*यस्तैरिति*” । तैः संकाश्यकैः पाटलिपुत्रकाणां समगुणत्वाद्यः साम्यमवगतबन्स प्रकर्थाश्षयेण पुनः पृथक् कृत्वा वाक्यं प्रयुङ्क्ते इत्यर्थः ॥
त्रिविधं चेदमपादानम्-निर्दिष्टविषयमुपात्तविषायमपेक्षितक्रियं चेति । तत्र `निर्दिष्टविषयम्’-यत्र धातुनाऽपायलक्षणोविषयो निर्दिष्टः यथा-ग्रामादागच्छतीति ॥ `उपात्तविषयम्’-यत्र धारुर्धात्वन्तरार्थङ्गं स्वार्थमाह । यथा बलाहकाद्विद्योतत इति। निः सरणाङ्गे द्योतनेत्र द्युतिर्वर्तते । यथा वा कुसूलात्पचतीत्यादौ आदानाङ्गे पाके पचिर्वर्तते ॥ `अपेक्षितक्रियम्’-यत्र क्रियावाचि पदं न श्रूयते केवलं क्रिया प्रतीयते । यथा-सांकाश्यकेभ्यः पाटलिपुत्रका अभिरूपतरा इति ।
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-38.
“*गतियुक्तेष्विति” । अचलं ध्रुवमेकरूपं चेति परिस्पन्दे ध्रुवता नास्तीति मन्यते ॥ “*अश्वात्त्रस्तादिति*” । त्रासपूर्वके परिस्पन्देऽनेकार्थत्वाधातूनां त्रसिर्वर्तते । त्रस्तश्चाश्वः पातस्य निमित्तमिति पूर्वमश्वस्य त्रस्तत्वेन संबन्धः पश्चात्पतिति इत्यनेनेति ध्रुवताश्रस्य नास्ति ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-39.
“*न वेति” । अयमर्थः-ध्रुवमेकरूपमुच्यते ।
तच्चध्रौव्यमपायविषायमाश्रीयते । न त्वनवच्छिन्नम् । ततोऽपायेयनाविष्टं तदपाये ध्रुवमुच्यते । देवदत्तकर्तृके च पाते त्रस्तस्याप्यश्वस्यापायानावेशाद् ध्रुवत्वम् ।
देवदत्तस्यैवापायावेशादध्रुवत्वम् । अथ वाश्वस्य त्रस्तत्वाद्यद्ध्रौव्यं तत्प्रथममविवक्षितमित्यर्थः । तथा हि-कारकस्य पूर्वं क्रियया समन्वयः । स च श्रुतिप्रापित उच्यते ।
पश्चाद्विषेषणेन वाक्यीयः सम्भन्धः । ततश्चाश्वात्पतित इति संबन्धे नास्त्यश्वस्याध्रुवत्वम् । पश्चान्त्रस्तत्वेन संबन्धे सत्यप्यध्रौव्येन्तरङ्गा संज्ञा न निवर्तते । विशेषणस्यासत्यप्यपादानत्वे सामयिकी विभक्तिः । सा च विशेष्यानुरोधेन प्रवर्तते न त्वनियमेन ॥ अथवा त्रस्तस्याप्यपादानत्वं सत्यपि त्रासापेक्षेऽध्रुवत्वे पातं प्रति ध्रुवत्वात् । ययोक्तं प्राक् ॥ “*आशुगामित्वमिति*” । अयमर्थः ।
व्यत्पत्तिमात्रमाशुगामित्वमिति तदपेक्षयाऽध्रौव्यं नशञ्कनियम् । जातिरेव शब्दप्रवृत्तिनिमित्तमिति नास्त्यत्राध्रौव्यम् ।
आशुगमित्वशब्देनैकार्थसमवायात्साहचर्यादश्वत्वमेवोच्यते ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-40.
“*यद्यपीति” । यत्र क्रिया न प्रवृत्तिनिमित्तं किं तु व्युत्पत्तिमात्रनिमित्तं तत्रैतद्वक्तुं युज्यते । यत्र तु शब्दप्रवृत्तिनिमित्त क्रिया तत्र कथं नाध्रौव्यमिति प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-41.
“*अत्रापीति” । सरणकियोपलक्षितं द्रव्यमात्रमपादानत्वेन विवक्षितम् । तच्च देवदत्तकर्तृके पाते पूर्वोक्तन्यायाद् ध्रुवमेवेत्यर्थः ॥ “*कथं पुनरिति*” । शब्दोपात्तमपिसरणं द्रव्योपलक्षणार्थत्वादध्षौव्यनिमित्तं न भवतिति कुत एतदिति प्रश्नः ॥ “*अलोमिकेति*” । अल्पत्वाल्लोम्ना तत्कार्याकरणादेवमुच्यते ॥ “*असतश्चेति*” । निदर्शनार्थमिदमुच्यते । यथाऽसतो विवक्षा भवति एवं सतोप्यविवक्षेत्यर्थः ॥ “*समुद्रः कुण्डिकेति*” । कुण्डिकायां पानीयबाहुल्यात्समुद्रत्वं विवक्षितं समुद्रस्य वा सुतरत्वात्कुणिडिकात्वम् ॥ “*विन्ध्यो बर्द्धितकमिति*” । पूर्ववदन्यतररूपारोपेण व्याख्येयम् । मेषो मेषादपसर्पतीत्यत्रैकस्य कर्तृत्वविवक्षापरस्यापादानत्वविवक्षा ॥ यदा तु मेषावपसरत इति प्रयोगस्तदाऽवध्यन्तरमपेक्षणीयम् ॥ 24 ॥
“*भित्रार्थानाम्” ॥ 25 ॥ “*कथमिति*” । `भय’माकुलीभावः, `त्राण’मनर्थप्रतिधात इति । तत्र च नास्ति मुख्योऽपाय इति प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-43.
“*प्रेक्षापूर्वकारीति” । बुद्धिव्यवस्थापितोत्रापायोऽस्तीति भावः । तत्र निवृत्त्यङ्गे भये विभेत्यादयो वर्तन्त इत्युपात्तविषयमेतदपादानम् । `चोरेभ्यस्त्रायत’इत्यनर्थपरिहाराय निवर्तयतीत्यर्थः । चोरमध्यगतस्यापि त्राणे चोरसंपर्कफलस्य वधबन्धनापहरणादेर्निवर्ततात्तेभ्यो निवर्तयतीत्युच्यते । `वारणार्थानामीप्सत’ इत्यनेनात्रापादानसंज्ञा न प्राप्नोति चोराणामनीप्सितत्वात् । सूत्रारम्भपक्षे तु कारकशेषत्वात् षष्ट्यां प्राप्तायामिदं वचनम् ॥ 25 ॥
“*पराजे” ॥ 26 ॥ पराजिः क्वचिदभिभवे वर्तते । यथा शत्रून्पराजयते इति । इह त्वसोढ्ग्रहणान्न्यूनीभाववृत्तिर्गृह्यते । `अध्ययनात्पराजयते’ ह्रसति। अध्येतुं ग्लायतीत्यर्थः । अत्रचार्थेऽकर्मकत्वात्षष्ठ्यां प्राप्तायां वचनम् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-45.
पूर्वपदस्यापि प्रत्याख्यानं निवृत्त्यङ्गे पराजये पराजेर्वर्तनात् ॥ 26 ॥
“*वारणार्थानां” ॥ 27 ॥ “*किमुदाहरणमिति*” । अव्याप्ति मन्यमानस्य प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-47.
“*भवेद्यस्येति” । यस्मात्मीया माषास्तस्य त ईप्सिता इत्यर्थः । अभिप्रेतपर्यायमीप्सितशब्दं मन्यते ॥ “*यस्य त्विति*” । यस्यात्मीया गावः परकीयास्तु माषास्तस्य न त ईप्सिताः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-48.
“*तस्यापीति” । ईप्सितशब्दः क्रियाशब्द आस्रीयते न तु रूढिशब्दः । तत्र वारणाक्रियया परकीया अपि माषा वारयितुराप्तुमिष्ठा भवन्ति मा नशन्नेतेइत्येतेभ्योसौ गा वारयति ॥ “*माषा एवेति*” । एवकारो भिन्नक्रमः । ईप्सिता एवत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-49.
“*कृपादिति” । अन्धसंबन्धे कूपस्य न विनाशो नापि राजभयमिति प्रश्नः ॥ “*कस्तर्ह्यन्ध इति*” । तं प्रत्यनुकम्पायाः सद्भावात्तस्येप्सितत्वं मन्यते ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-50.
“*तस्यापीति” । वारणाक्रियमाप्तुभिष्ट इत्यर्थः ॥ “*अथ वेति” । ईप्सित इत्यनेन कर्मणा कर्तृमात्रस्यापेक्षेपान्निवार्यमाणस्यान्धस्य गमनादिक्रियया कूप आप्तुमिषो भवतीति प्रवर्ततेऽपादानसंज्ञा । अन्धस्य च प्रवृत्त्यनुमेयेत्सा तदाह-”*अन्यत्रापश्यत इति*” । अन्धेस्येत्यर्थः । स ह्यपश्यत्रापि गन्तव्यं जिगमिषति । अन्यथा न क्वचित्तस्य प्रवृत्तिः स्यात् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-51.
इदानीमतिप्रसङ्गमुद्भाव्यति-”*इहाग्रोरिति*” ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-52.
“*कर्मसंज्ञात्रेति” । परत्वादिति भवः । कर्मसंज्ञाया अवकाशो वारणार्थेभ्योऽन्ये धातवः । अपादानसंज्ञायास्तु प्रकर्षरहितमीप्सितम् । ईप्सिततमस्य तूभयप्रसङ्गे परत्वात्कर्मसंज्ञा ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-53.
“*अग्रावपीति” । कारकाधिकारे प्रकर्षो न विवक्ष्यते इत्यतन्त्रं तमनिर्देशं मन्यते ॥ “*कर्मणो यदीप्सितमिति*” । तत्र कर्मसंज्ञा निमित्तमेवापादानसंज्ञाया इति माणवके प्रवर्तते । ततस्तस्येप्सितस्याग्रेरपादानसंज्ञेत्यर्थः ॥ “*ईप्सितेप्सितमिति*” । वारयितुर्यदीप्सितं कर्म तस्य यदीप्सितमित्यर्थः । शेषाषष्ठ्या चात्र समासः । अन्यथा `क्तेन च पूजाया’मिति निषेधः स्यात् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-54.
“*कर्तुरिति” । प्रकर्षप्रत्ययोपादानसामर्थ्यात्कर्मसंज्ञायां प्रकर्षो विवक्ष्यत एव । तत्र द्वयोः संज्ञयोः सावकाशयोः परत्वादीप्सिततमस्य कर्मसंज्ञा ॥ 27 ॥
“*अन्तर्द्धौ येनादर्शनमिच्छति” ॥ 28 ॥ “*अन्तर्धत्ते इति*” । तिरोभवतीत्यर्थः ॥
“*आख्यातोपयोगो” ॥ 29 ॥ उपयोगोव्यापारः स चार्विशिष्ठो नटोपाध्याययोरितिमत्वा पृच्छाति - “*उपयोग इति किमर्थमिति*” ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-57.
“*आरम्भका रङ्गं गच्छन्तीति” । `रङ्गं’ सामाजिकस्थानम् । `आरम्भका’ यत्नेन प्रवत्तिमन्तो गच्छन्तीत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-58.
“*प्रकषगतिरिति” । व्यापारमात्रे लब्धे उपयोगग्रहणं विशिष्टव्यापारपरिग्रहार्थम् । तेन ग्रन्थर्थधारणार्थं यद्ग्रहणं स `उपयोगः’ ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-59.
“*अथ वेति” । उपयोगशब्दस्यैवायमर्थो नियमपूर्वकं विद्याग्रहणम् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-60.
“*किं पुनरिति” । उभयथा संभवोद्दोषदर्शनाच्च प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-61.
“*यद्यपक्रामतीति” । यथा फलं वृक्षादपक्रान्तं न पुनर्वृक्षे तद्भवति एवं शब्देपि प्रसङ्ग इत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-62.
“*संततत्वादिति” । शब्दस्य व्यञ्जका ध्वनय उपाध्यायेनोत्पाद्यमाना भिन्ना अपि सादृश्यात्तत्वेनाध्यवसीयमानाः श्रोतुः पुनः पुनः श्रोत्रप्रदेशं गच्छान्ते व्यक्तिस्फोटरूपं जातिस्फोटरूपं वा शब्दमभिव्यञ्जयन्तीत्यर्थः ॥ “*अथवेति*” । यथा ज्वालारूपं ज्योतिरविच्छेदेनोत्पद्यमानं सादृश्यात्तत्त्वेनाध्यवसीयमानं संततं तथैवोपाध्यायज्ञानानि भिन्नानि भिन्नशब्दरूपतामापद्यमानानि संततान्युच्यन्ते । ज्ञानस्य शब्दरूपापत्तिरिति दर्शनमत्र भाष्यकारस्य ।
तथा चोक्तम् -
“*वायोरणूनां ज्ञानस्य शब्दत्वापत्तिरिष्यते ।
कैश्चिद्दर्शनभेदो हि प्रवादेष्वनविस्थितः ॥ *”
इति ॥ 29 ॥
“*जनिकर्तुः” ॥ 30 ॥ “*उपक्रामन्ति ता इति*” । लोकप्रसिद्ध्याश्रयेणैतदुच्यते । लोके हि यद्यस्माज्जायते तत्तस्मान्निर्गच्छतीत्युच्यते । तर्काश्रयास्तु प्रक्रिया भिद्यन्ते । वैशेषिकदर्शने परमाण्वादिसमवेतं कारणेभ्योऽपृथग्देशं कार्यमुत्पद्यत इति नास्ति कार्यस्यापक्रमः । सांस्ख्यदर्शनेप्याविर्भावतिरोभावलक्षणजन्मनाशरूपपरिणामाभ्युपगमान्नास्त्यपक्रमः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-64.
“*यदीति” । यद्यतोपक्रामति तत्पुनस्तत्र न दृश्यते इति प्रसिद्धम् । इह तु तरास्ति दर्शनमिति प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-65.
“*संततत्वादिति” । अविच्छेदादित्यर्थः । यथा बिलाद्दीर्घभोगो भोगी निष्कामन्नप्यविच्छेदात्तत्रोपलभ्यते तथा दूर्वा अपीत्यर्थः ॥ “*अथ वेति*” । क्षणिकपक्षं द्रव्यान्तरारम्भपक्षं वा परिणामपक्षं वाश्रित्यैतदुक्तमित्याहुः ॥ ननु सत् जन्मायोगादसतश्च कर्तृत्वासंभवात्पक्षान्तराभावाच्च कथामङ्कुरो जायत इति प्रयोगः । नैष धोषः । बुद्धिव्यवस्थापितस्यार्थस्य क्रियायां कारकरूपोपगमात् ॥ 30॥
“*भ्रुवः प्र” ॥ 31 ॥ “*सन्ततत्वादिति*” । सादृश्यनिबन्धानतात्त्वाध्यवसायादविच्छेदेन तासामुपलभ्यादित्यर्थः ॥ “*अथवेति*” । वस्तुतोत्र भेद एवापामिति भावः ॥ 31 ॥
“*कर्मणायम्” ॥ 32 ॥ “*कर्मग्रहणमिति*” । उपाध्यायाय गां ददातीत्यत्र गोरूपाध्यायस्याप्यभिप्रेयमाणत्वम् । यतो गौर्दानक्रियया करणबूतयाऽभिप्रेयते गवा तूपाध्यायः । तत्र परत्वाद्गोः कर्मसंज्ञेति पारिशेष्यादुपाध्यायस्यैव संप्रदानसंज्ञा भविष्यतीति प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-68.
“*कर्मण एवेति” । सत्यप्युभयसंभवेन्तरङ्गत्वात्कर्मण एव गवादेः स्यादित्यर्थः । नन्वेवं कर्मसंज्ञानवकाशास्यात् । वचनसामर्थ्यात्तर्हि पर्यायः स्यात् । कारकप्रकरने च प्रकर्षयोगो नास्रीयते न त्वन्तरङ्गबहिरङ्गव्यवहारः । ननु पर्यये सति `गत्यर्थकर्मणी’त्यारम्भोऽनर्थकः स्यात् । ततश्य प्रत्याख्यातत्वादित्यदोषः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-69.
“*अथेति” । अध्याहारेणापि सर्वनामद्व्यार्थो लभ्यत इति प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-70.
“*अभिप्रयत एवेति” । श्रुतप्दार्थसंबन्धेनैव निराकाङ्क्षात्वेऽध्याहारानुपपत्तिरिति भवः । कर्तृसंज्ञायास्त्वकर्मको धातुरवकाशः स्यात् । ततश्चोपाध्यायाय शिष्येण गौर्दियते इत्यत्रार्थे शिष्यायोपाध्यायस्य गौर्दियत इति स्यात् ॥ ननु शिष्यस्य कर्तृत्वाभावे कथं गोः कर्मसंज्ञा । नैष दोषः । कर्मसंज्ञायां स्वातन्त्र्यस्य कर्तृग्रहणेनोपकक्षणात् । तथा च सामर्थ्याद्वियत इत्यत्र कर्मणि लकारोत्पत्तिः ॥ “*निर्भज्यत इति*” । आकृष्यत इत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-71.
“*अथेति” । कर्मणा यमेति गच्छति प्राप्नोति संबन्ध्नादीत्यर्थः । अभिप्रैतीत्युक्ते स एवार्थ इति प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-72.
“*आभिमुख्य इति” । उपसर्गद्वयोपादानसामर्थ्यात्कालानवच्छिन्न क्रियास्रीयत इत्यर्थः । ननु यथा `तेन दीव्यती’त्यआदौ संख्याकालयोर्न विवक्षा तथेहापि संख्यावत्कालस्याविवक्षा भविष्यतीति किमुपसर्गद्वयोपादानेन । एवं तर्हिन्यायसिद्धएवार्था उपसर्गद्वयोपादानेन प्रदर्श्यत इति भाष्यकारस्याभिप्रायः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-73.
“*श्राद्धायेति” । श्राद्धां निन्दति नास्तिकत्वादित्यर्थः ॥ “*युद्धायेति*” । युद्धविषयं संनहनपूर्वकं निश्चयं करोतीत्यर्थः ॥ “*पत्ये शेत इति*” । पतिमुपसृत्य शेते इत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-74.
“*न सिध्यतीति” । क्रियान्तरानुपादानादिति भावः ॥ “*कथं च नामेति*” । क्रियान्तरानुपादाने एकस्या एव क्र्यायाः कर्मकरणभाव एकदा एकात्मन्येव नोपपद्यत इति भावः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-75.
“*क्रियापीति” । प्रतीयमानक्रियापेक्षः कारकभावः प्रविश पिण्डीमित्यादाविवात्रेत्यर्थः । यदा तु संदर्शनादयो घात्वर्थाद्भेदेन विवक्ष्यन्ते तदा सम्प्रदानसंज्ञा अन्यदा तु कर्मसंज्ञैव यथा कटं करोतीति । स च भेदाभेदविवक्षा प्रयोगदर्शनवशेन नियतविषयैवाश्रियत इत् प्रयोगस्यासंकरः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-76.
“*कर्मणः करणसंज्ञेति” । एतच्छन्दोविषयम् । `सर्वे विधयश्छन्दसि विकल्प्यन्त’ इति यथाप्राप्तमपि प्रयोगो भवति ॥ “*पशुना रुद्रं यजत इति*” । रुत्रं देवतामुद्दिश्य पशुं त्यजतीत्यर्थः ॥
कैश्चिदन्वर्थसंज्ञाविज्ञानादृदातिविषय एव संप्रदानसंज्ञेत्यभ्युपगतम् ।
`दानं’ च स्वत्वनिवृत्तिः परस्वत्वापत्तिपर्यन्तेति प्रत्यज्ञायि ॥
तदुभयमप्ययुक्तम् । अन्यत्रापि भाष्यकारेण संज्ञाया अभ्युपगमात्
। तथा च क्रियाग्रहणस्य `गत्यर्थकर्मणी’ति सूत्रस्य च प्रत्याख्यानं कृतम् । तथा स्वत्वनिवृत्त्यभावेपि ददातेः प्रयोगो दृश्यते `न शूद्राय मति दद्यादि’ति `खण्डिकोपाध्यायस्तस्यै चपेटां ददाती’ति च ॥ 32 ॥
“*क्रुधद्गुह” ॥ 37 ॥ “*किमेत इति*” । ननु लोकव्यवहारादेवार्थावगमात्संदेहानुपपत्तिः । एवं तर्हि चेतदोषरूपता सर्वेषामस्तीति सामान्यापेक्षायामेकार्थत्वम्, अवान्तरभेदविवक्ष्यायाम् तु भिन्नार्थत्वमित्यदोषः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-78.
“*किमर्थमिति” । एकेनैव धातुनार्थस्योपलक्षितत्वादन्येषां वैयर्थ्यप्रसङ्गः ॥ “*नानार्था इति*” । `क्रोधो’ रोषः । `द्रोहो’ऽभिचारः । `ईर्ष्या’ परगुणासहनम् । `असूया’ परगुणविध्वंसनम् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-79.
“*कुपाविति” । कुपौ धातौ वाच्यत्वेन यदवस्थितं तदेषां साधारणमित्यर्थः । कोपपूर्वाणां सर्वेषां ग्रहणार्थं `यं प्रति कोप’ इति विशेषणमित्यर्थः । तेन्त्ह न भवति-भार्या भीर्ष्यतीति । परैर्दृश्यमानां न सहत इत्ययमत्रार्थ इति नास्ति कोपप्रभवत्वमत्रेर्ष्यायाः ॥ “*न्ह्यकुपितः क्रुध्यतीति*” ॥ ननु कोपः क्रोध एवेति भेदाभावात्कथं पौर्वापर्यम् । एवं तर्हि प्रथामामनुद्भूतां कोपावस्थां द्वितीयां चोद्भूतां विकृतवाक्कायव्यापारानुमीयमानामाश्रित्यैतदुक्तमित्यदोषः ॥ “*न वाऽकुपितो द्गुह्यतीति*” । यत्र विषये संप्रदानसंज्ञेष्यते तदुद्देशेनैतदुच्यते, न तु सर्वविषयापेक्षया । अन्यथा व्यभिचाराभावध्यं `प्रति कोप’ इति विशेषणमनुपादेयं स्यात् । भार्याभिर्ष्यतीति विनापि कोपात्प्रयोगदर्शनाच्च । `अस्मान्द्वेष्टी’त्यत्र संप्रदानसंज्ञा न भवति द्विषेरक्रोधार्थत्वात् । अनभिनन्दने द्विषिर्वर्तते यथौषधं द्वेष्टीति ॥ 37 ॥
“*साधक” ॥ 42 ॥ “*तमग्रहणमिति*” । कारकाधिकारात्साधकत्वे लब्धे पुनः साधकश्रुतिः प्रकर्षमवगमयतीति प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-81.
“*सर्वेषामेवेति” । प्रकर्षगतिरुत्तरत्र प्रतिपादयिष्यते । तत्र वचनसामर्थ्यादेकसंज्ञाधिकारच्च
करणसंज्ञायाः संज्ञान्तराणां च विकल्पः स्यात् ॥ नन्वसति विशेषाश्रयणे करणकारकसंज्ञाद्वयोपादानमनर्थकं स्यात् ॥ तर्हि संज्ञाद्वयविधानसामर्थ्यात्करणसंज्ञा कंचिदेव विषयं परिहरतीति लभ्यते । न त्वनिष्टविषयपरिहारेणेष्टविषये तस्याः प्रवृत्तिर्लभ्या ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-82.
“*परत्वादनवकाशत्वाच्चेति” । विषयभेधापेक्षो हेतुद्वयोपन्य्सः । सावकाशत्वे सति परत्वं हेतुः, अन्यत्र निरवकाशत्वम् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-83.
“*इह तर्हीति” । अत्र संज्ञाद्वयप्रसङ्गे निरवकाशत्वादपादानसंज्ञेव स्यात् । करणसम्ज्ञा ह्यपादानादन्यत्र सावकाशा । तमग्रहणे तु सति विविक्तविषयलाभादुभयोर्धनुषा विध्यतीत्यत्र परत्वात्करणसंज्ञा सिध्यतीति ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-84.
“*उदकमानेयमिति” । कन्यादानार्थम् । “*न चानभिरूप इति*” । दृष्टादृष्टप्रयोजनत्वात्कन्यादानस्येति भावः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-85.
“*तरतमयोगो नास्तीति” । कथं पुनः केवलयोः प्रत्यययोः प्रयोगः । नैष दोषः । प्रत्ययानुकरणत्वात् । तत्रानुकरणाभ्यामनुकार्यौ प्रत्ययौ प्रतीयेते ताभ्यामपि साहचर्यात्तदर्थौ लक्ष्यते ॥ तत्र तमश्रुतिरेतज्ज्ञापयति प्रकर्षाप्रत्ययग्रहणमन्तरेणेह प्रकरणे सामर्थ्यगम्यः प्रकर्षो नास्रीयते ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-86.
“*सांकाश्यकेभ्य इति” । बुद्धिकल्पितोत्रापायो न तु मुख्यः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-87.
“*यत्र कृत्स्त्र इति” । सर्वैरवयवेः सह यत्रावयवी व्याप्त इत्यर्थः ॥ “*गङ्घायामिति*” । गोभिर्गङ्गाया व्याप्त्यभावान्न स्यादधिकरणसंज्ञा । अस्माज्ज्ञापकात्सामीप्यमात्राश्रयेण प्रकल्पिताधारनिबन्धना सा भवति ॥ अथ सामग्रीसाध्यायां क्रियायां कोतिशयः करणस्येति चेत् ।
यहापारानन्तरं क्रियाप्रसिद्धिः । यस्य च यदातिशयविवक्षा तदा तस्य करणत्वं यथा स्थाल्या पच्यत इति । कारकान्तरापेक्षश्च करणस्युआतिशयो न तु स्वकक्षायामित्यश्वेन दीपिकया पथा व्रजतीति सर्वेषां क्रियानिष्पत्तौ संनिपत्योपकारकत्वात्करणत्वं सिद्धम् ॥ 42 ॥
“*अपान्व”॥ 48 ॥ “*वसेरश्यर्थस्येति*” । अर्थशब्दो निवृत्तिवाची । व्यधिकरणे षष्ट्यौ । अश्यर्थस्य वाचको यो वसिस्तस्येत्यर्थः । अथवा शीङोर्थः श्यर्थः न श्यर्थोऽश्यर्थः । तस्य अस्थानार्थस्येत्यर्थः । स्थाने हि शीङ् वर्तते यथा जलाशय इति । तेन ग्रामे तिष्ठतीत्यत्रार्थे ग्राममुपचसतीति प्रयोगः । अस्थानार्थत्वे तुग्राममुपसतीति प्रयोगः । अस्थानार्थत्वे तु ग्राम उपवसतीति ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-89.
“*नात्रेति” । विशिष्टाधारावस्थितत्वेन निश्चिते देवदत्ते भोजननिवृत्ति विशिष्टकालां प्रत्याययितुमिदं प्रयुज्यते ग्राम उपवसतीति । तत्रान्तरङ्गत्वात्प्रतीयमानवसिक्रियापेक्षो ग्रामस्याधिकरणभावः । उपवसनं तु स्वरूपेणैव कालमपेक्षत इति कालेनैवास्यान्तरङ्गः संबन्धः । ग्रामादिना तु बहिरङ्ग इत्यर्थः ॥ 48॥
“*कर्तुरीप्सित” ॥ 49 ॥ “*नमग्रहणमिति*” । असत्यपि तमग्रहणे ग्रामं जच्छतीत्यादौ कर्मसंज्ञा सिध्द्यतीप्सिततमस्यापीसितत्वसद्भावादिति प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-91.
“*माणवक इति” । विशेषाविहितत्वादपादानसंज्ञायाः ।
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-92.
“*कर्मसंज्ञेति” । परत्वात् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-93.
“*अग्रावपीति” । अग्रिमणवकयोरीप्सितत्वसद्भावात् ।
कर्मापादानसंज्ञाविषयविभागज्ञानपरमेतत्, न तु निरवकाशाप्यपादानसंज्ञा सावकाशया कर्मसंज्ञयाबाधितुं शक्यते । तमग्रहणे तु सति संज्ञयोर्विषयविभागलाभः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-94.
“*इहेति” । लोकः शास्त्रं न सामान्येन निर्दिश्यते । लोके प्रयुज्यमानत्वात्, शास्त्रे चोदाह्रियमाणत्वात् । “*द्रव्यान्तरमिति*” । ओदनशब्दस्य तण्डुलविकारे प्रयुज्यमानत्वात्पचेश्च विक्लिक्त्युपसर्जनविक्लेदनवचनत्वान्निर्वृत्तस्यौदनस्य विक्लेदनान्तरकरणात् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-95.
“*ओदनार्था इति” । गौणार्थाश्रयणेनैव सर्वलोकस्य प्रयोगदर्शनादिदमत्र न चोदनीयम्-मुख्यस्यैव त्वोदनस्य पुनर्विक्लित्तिकरणे कस्मादयं प्रयोगो न भवतीति । विकारविशेषप्रतिपादनाय गौणार्थपरिग्रहः । तण्डुलान्पचतीत्युक्ते विकारान्तरमपि प्रतीयते ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-96.
“*अथेहेति” । उभयथा प्रयोगदर्शनात्प्रकृतिविकृत्योः साक्षादुपादानात्तादर्थ्यात्ताच्छब्द्यानुपपत्तया विक्लेदनवचने तु पचौ तण्डुलानामोदनं पचतीति प्रयोगायोगाद् द्रव्यान्तरनिवृत्तिप्रत्ययप्रसङ्गआच्च । निर्वर्तनवचने तु पचौ तण्डुलानां कर्मभावाघटनात्तण्डुलानोदनं पचतीति प्रयोगाभावप्रसङ्गाच्च प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-97.
“*ह्यर्थः पचिरिति” । विक्लेदनोपसर्जने निर्वर्तने पचिर्वर्तते । तण्डुलान्विक्लेदयन्नोदनं निर्वर्तयतीत्यर्थः । तत्रोपसर्जनविक्लेदनक्रियापेक्षं तण्डुलानां कर्मत्वम् । प्रधानभुतक्रियापेक्षं त्वोदनस्य ॥ “*ह्यर्थश्चैवेति*” । तण्डुलानां संबन्धिनं विकारविशेषामोदनं विक्लित्त्या निर्वर्तयतीत्यर्थः । सा च विक्लित्तिः सामर्थ्यात्तण्डुलानामेवेति विज्ञायते ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-98.
“*इह कश्चिदिति” । अन्व्यव्यतिरेकाभ्यां दधिपयसोरीप्सिततमत्वं न त्वोदनस्यति दर्शयति ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-99.
“*तस्याप्योदन इति” । दधिपयसोस्तु संस्कार कत्वात्करणभावः ॥ “*न तु गुणेष्विति*” । गुणेषूपकारकेषु केवलेषु नास्यादरः, किं तर्हि तत्संस्कृत ओदन इत्यर्थः ॥ “*मृदुविशद इति*” । मृदुश्चासौ विशदश्चेति कर्मधारयः । यदिमार्धमात्रे आदरः स्यात्पङ्कमपि भक्ष्येतु । विशदमात्रादरे सिकता अपि ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-100.
“*ईप्सितस्येति” । ईप्सिततममेवेप्सितपदेन सामान्यशब्देन निर्दिष्टम् । विशेषेषु सामान्यस्य भावात् । तत्र यन्निर्वृत्तं निर्दिष्टं । विशेषेषु सामान्यस्य भावात् । तत्र यन्निर्वृत्तं क्रिययाऽनाधेयविकारं क्रियाया निष्पत्त्यर्थं केवलमुपादीयते तत्क्रियासंबन्धात् प्राप्यमपि नोप्सितमिति तस्य कर्मसंज्ञा न प्राप्नोति । यत्र हि कर्मार्था क्रिया निष्पत्तिसंस्कारप्रतिपत्तिभिस्तत्र अर्मेप्सितम् । अन्यत्र तुक्रियैव प्रतियमानसंदर्शनादिक्रियापेक्षयेप्सितेति भावः ॥ “*गुडं भक्षयतीति*” । भक्षणाय गुडस्योपादानं न तु गुडाय भक्षणानुष्ठानम् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-101.
“*न वेति” । गुडभक्षणं यस्येप्सितं तस्य गुडो भक्षणक्रिययेप्सितः । यस्मान्नासौ गुडस्य दर्शनस्पर्शनादिना कृती भवति नापि लोष्टादिभक्षणेनेति न भक्षणमात्रमीप्सितं नापि गुडमात्रमित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-102.
“*ये त्वेत इति” । ते हि यां कां चित् क्रियामनुष्ठाय कालमतिवाहयन्ति न तेषां द्रव्यविशेषे तात्पर्यम् । ततश्च `नाहं कटं करिष्यामी’त्यत्र कटस्य कर्मत्वानुपपत्त्या द्वितीया न प्राप्नोतीति कटकर्मिका क्रिया न निषिद्धा भवेत् । तथा `घटो मयाऽऽह्?त इत्यत्र घटस्य कर्मत्वाभावादाह्?त इत्यत्र कर्मणि निष्ठा न प्राप्नोति ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-103.
“*यस्त्वसौ प्रेषयतीति” । प्रयोजकचित्तानुवर्तनं तस्य स्वार्थसिद्धये कर्तव्यम् । यदा च विशिष्टाकर्मिकाक्रिया तेन सम्पाद्यते तदाज्ञानुष्ठिता भवतीति प्रयोजकवत्प्रयोज्यस्याप्युभयमीप्सितमिति भाष्यकारस्याभिप्रायः ॥ अन्ये तु प्रयोजककर्त्रपेक्षया प्रयोज्यस्य कर्तृरनीप्सितमपि कर्मेत्याचक्षते । तत्तु प्रयोजकव्यापारस्यशब्दार्थत्वात्पूर्वोक्तोदाहरणेऽयुक्तमिति न्यायविदो मन्यन्ते ॥ 49 ॥
“*तथायुक्तम्” ॥ 50 ॥ “*कस्य च नामेति*” । विषमिति वक्तव्ये विषभक्षणमिति किमर्थमुच्यते । यदि भक्षणमीप्सितं तदा विषय्मपीप्सितं विषायभक्षणस्य त्वनिप्सितत्वे विषमपि प्राणहरत्वादनीप्सितं भवति । भक्षणक्रियया च विषं नोप्सितं परिहारादिक्रियापेक्षया तदीप्सितं भवत्येवेति भक्षणग्रहणेन प्रदर्श्यते ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-105.
“*विषभक्षणमपीति” । यथा लोकस्य सुखप्राप्त्यर्था क्रियायां प्रवृत्तिस्तथा भयादिभ्यो दुःखनिवृत्त्यर्थापि विषादिष्वित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-106.
“*चोरान्पश्यतीति” । विषयन्द्रियसंबन्धसामर्थ्याद्दर्शनेनाप्तुमनिष्टतमाअपि चोरास्तथायुक्ताः पूर्वेणासिद्धकर्मभावा अनेन कर्मसंज्ञया संबध्यन्ते ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-107.
“*ईप्सितस्यापीति*” । ईप्सिततमस्यापीत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-108.
“*नायं प्रसज्यप्रतिषेध इति” । यथाऽधर्मानृतादिभिरुत्तरपदार्थप्रतिपक्षभुतं वस्तु तत्प्रतिषेधद्वारेणप्रतिपाद्यते तथानीप्सितशब्देनापि द्वेष्यं वस्तु यदभिधीयते तदेव न गृह्यते, किं तु सर्वमीप्सितादन्यदित्यर्थः ॥ 50 ॥
“*अकथितं च” ॥ 51 ॥ “*केनेति*” । किं साधारण्या कारकसंज्ञाया, अथ विशेषासंज्ञाभिरपादानादिभिरिति प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-110.
“*अपादानादिभिरिति” । कर्तरि करणे वाऽत्र तृतीया । भूतकालश्चात्र न विवक्ष्यते । यथा
‘पराजेरसोढ’ इत्यत्रासहिष्यमाणस्याप्यपादानसंज्ञा भवति अध्ययनात्पराजेष्यत इति । तेन हेतुकर्तृसंज्ञाभ्यां कथयिष्यमाणस्यापि कर्मशम्ज्ञा नभवति अध्ययनात्पराजेष्यत इति । तेन हेतुकर्तृसंज्ञाभ्यां कथयिष्यमाणस्यापि कर्मसंज्ञा न भवति । इह `कारक’ इत्यनुवर्तनात्सत्येव कारकत्वेऽकथितस्य कर्मशम्ज्ञया । भाव्यमिति साम्र्थ्याद्विशेषकथाभिरकथितत्वमाश्रीयते ।
प्रश्नप्रतिवचनाभ्यां चासंकीर्तितवचनोऽकथितशब्दो, न त्वप्रधानवाची रूढिशब्दोत्राश्रित इति दर्शितम् । रूढिषु हि व्युत्पत्यर्थमेव क्रियोपादीयते । न तु प्रवृत्तिनिमित्तत्वेन। तथा च गच्छतीतिगौरिति व्युत्पत्तावपि यथा गच्छतीयुक्ते केनेति प्रश्ने रथेनेति प्रतिवचनं भवति तथा गौरित्युक्ते प्रश्नप्रतिवचने न भवतः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-111.
“*किमुदाहरणमिति” । नटस्य शृणोतीत्यादावपि कर्मसंज्ञाप्रसङ्ग इति प्रश्नः । अथवाऽपादानादिभिः सर्वस्य विषयस्य व्यापनादुदाहरणासंभवः मत्वा पृच्छति ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-112.
“*उपयोगनिमित्तमिति” । उपयुज्यत इत्युपयोगः पयःफलादि तस्य निमित्तं गवादि । अनेन गां दोग्धिपय इत्यत्र पयस उपयुज्यमानत्वादीप्सिततमत्वम्, गोस्तु पयोर्थत्वादपादानस्यानीप्सिततमत्वं दर्शयति । तथायुक्तत्वाभावाच्च गो`स्तथायुक्त’मित्यनेनापि कर्मसंज्ञा न सिध्यति ॥ “*अपूर्वविधाविति*” । पूर्वत्वमन्यत्वोपलक्षणमिति परविधावपीयं संज्ञा न भवति ॥ “*ब्रुविशासिगुणेनेति*” । ब्रुविशस्योर्गुणः साधनं प्रधानकर्म धर्मादिकं तेन च यत्सचते संबध्यत इत्यर्थः । क्रियायाः साध्यत्वात्प्राधान्यं तदर्थत्वात्प्रवृत्तेः, कारकाणां गुणत्वम् ॥ “*कविनेति*” । कविशब्दो मेधाविवचनः कान्तदर्शनात् ॥ दुह्यादीनां चार्थोपलक्षणायोपादानात्पर्यायप्रयोगोपि कर्मसंज्ञा भवति ॥ ननु गां देग्धि पय इत्यस्यायमर्थः-गौः पयस्त्यजति, देवदत्तो गवा पयस्त्याजयति । तत्र प्रयोजकव्यापारेणाप्यमानत्वाद्गोः कर्मत्वं सिद्धम् । नैतदस्ति । यथा ण्यतेषु धातुषु क्रियाविष्टः प्रयुज्यत इति प्रतीतिः । नैवमिह । निष्कयस्यापि गवादेर्दाहनादिषु विनियोगात् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-113.
“*गां दोग्धीति” । दोहेनाप्यमानत्वेपि गोरीत्साप्रकर्षाभावात्तमप उपादानात्प्रकषस्य विवक्षितत्वादप्राप्ता कर्मसंज्ञाऽनेन विधीयते । दुह्यादिपरिगणनान्नटस्य श्रृणोतीत्यादौ न भवति ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-114.
“*कथितात्रेति” । गोः पय आदत्त इत्यर्थावगमात् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-115.
“*पौरवं गामिति” । पौरवेण गां दिदापयिषत इत्यर्थः प्रतीयते गोश्चेप्सिततमत्वं न पौरवस्य ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-116.
“*कथितात्रेति” । पौरवाद्गां जिघृक्षत इत्यर्थसंप्रत्ययात् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-117.
“*न याचनादेवेति” । याचितापि याचनकाले नाध्यवस्यति नूनमस्मादिदं वस्तु निर्गत्य मां प्राप्नोतीति भावः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-118.
“*अन्ववरूणद्धीति” । गौर्व्रजं प्रविशति गवा व्रजं प्रवेशयतीत्यर्थः ।
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-119.
“*कथितेति” । गां व्रजे स्थापयतीति सम्प्रत्ययाद् व्रजस्य स्थानक्रियापेक्षमाधारत्वम् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-120.
“*माणवकमिति” । आचिख्यापयिषति पन्थानं माणवकेनेत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-121.
“*कथेतेति” । माणवकान्मार्गोपदेशं जिर्घुक्षत इति सम्प्रत्ययात् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-122.
“*न प्रश्नादेवेति” । प्रश्नमात्रमनङ्गीकृतापायं धात्वर्थ इत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-123.
“*भिक्षिर्याचिवह्याख्येयः । अथ याचिभिक्ष्योरेकार्थत्वात् किमर्थमुभयोरूपादानम् । उच्यते-अनुनयार्थस्यापि योचेर्ग्रहणार्थम् । तेनाविनीतं विनयं याचत इत्यत्रापि कर्मसंज्ञा भवति ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-124.
“*वृक्षमिति” । वृक्षेण त्याजयति फलानीत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-125.
“*कथितेति” । वृक्षात् फलान्यादत्त इत्यर्थावसायात् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-126.
“*पुत्रमिति” । पुत्रो धर्मं प्रतिपद्यते पुत्रं धर्मप्रतिपादयतीत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-127.
“*कथितेति” । धर्मेण वचनानुशासनकर्मणा पुत्रस्याभिप्रेयमाणत्वात् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-128.
“*अथेति” । सर्वोदाहरणवाद्याचार्य उदाहरणत्रयवादिनं स्वमतात्प्रच्यावयितुमाह । इहासङ्कीर्तितपर्यायस्याकथितशब्दस्य ग्रहणे विवक्षाभेदाद्रां दोग्धि पय इत्याद्यपि भवति योर्दोग्धि पय इत्याद्यपि ।
पूर्वोक्ते तूदाहरणत्रये कर्मसंज्ञैवेत्येषा व्यवस्था ।
अप्रधानवचनाकथितशबोपादाने त्वपादानसम्प्रदानसंज्ञे बाधित्वा दुह्यादिषु कर्मसंज्ञैव स्यादित्यसङ्कीर्तितमकथितमिहाश्रितम् । तत्र कर्मणि लादय उत्पद्यमार्निः प्राधान्याप्राधान्याभ्यां भिन्नकक्ष्यमनेकं कर्म युगापदभिधातुमसमर्थाः किं
प्रधानकर्मण्युत्पद्यन्ते अथ गुणकर्मणीति प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-129.
“*कथित इति” । प्रधाने ईप्सिततमे इत्यर्थः । प्रधानाप्रधानसन्निधौ प्रधानस्यैवाभिधानस्य न्याट्यत्वात् । अथ वाऽपरः कथितस्यैवाभिधनं मन्यते, अकथितस्य तु कारकत्वाभावादभिधानासम्भवमवैति । यद्वक्ष्यति “*षष्टीं कुर्यात्तदा गुणो इति” ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-130.
“*अकारकमिति” । अपादानादिष्वेव विशेषेषु कारकत्वं सामान्यं स्थितं न तु विशेषरहितस्य सामान्यस्य श्थितिरस्तीति भावः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-131.
“*अथ कारक इति” । यदा विशेषाश्रयणादस्ति सामान्यमित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-132.
“*यंयामिति” । उद्देश एव वीप्सा प्रतिपन्नेति सा भवेदिति प्रतिनिर्देशे न विवक्षिता ॥ “*दुह्यते गोरिति*” । आपादानं गौः ॥ “*याच्यते पौरवादिति*” । ननुदाहरणत्रयवादी पौरवस्य कर्मत्वमिच्छत्येवेति कथं पौरवादित्युक्तम् । अत्रोच्यते-न्यायस्य समानात्वादत्राप्यपादनत्वं मन्यते । तथाहि-याच्यते पौरवात्कम्बल इत्यस्य पौरवात्कम्बल आदित्स्यत इत्यर्थः । ततो बुद्धिकृतस्यापायस्यात्र सम्भवः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-133.
“*कथित इति” । प्रधानकर्मणि लादिभिरभिहिते तवेयं मतिर्यदुक्तं गुणे षष्ठी भवति चतुर्थीपञ्चम्यौ चेति ॥ “*तव विधिस्तव मतिरिति*” ।
अस्वपदेन विग्रहः । त्वशब्दस्त्वन्यवाची । ययो`त त्वः पश्यन्नि’ति पस्पशायामुक्तम् । युष्मदर्थस्यापि त्वपेक्षावशादन्यत्वमस्तीत्येवमुक्तम् ॥ इदानीं न्याव्यं पक्षं दर्शयति-”*गुणकर्मणीति*” ॥ `लादयो’ लकृत्यक्तस्वलर्थाः । गौर्दुह्यते पयः । गौर्दोर्गधव्या पयः ।
गौर्दुग्धा पयः । गौः सुदेहा पयः । अनेन दुह्यादयः सर्व एवोदाहरणानीति दर्शितम् । तत्र सन्नप्यपायो यदा न विवक्ष्यते निमित्तभावमात्रविवक्षैव तु गोस्तदानेन कर्मता । अपादानादिविशेषाविनिर्मुक्तं च विद्यते कारकं यथा नटस्य श्रुणोतीति । यतश्च पयोर्थि प्रथमं गवि प्रवर्तते ततोन्तरङ्गत्वाद् दुह्यादिषु गुणकर्मणि लादयो भवन्ति । सत्यपि चान्तरङ्गत्वे
गवादीनामीप्सितमत्वाभावोऽन्यार्थत्वात् तत्र किर्याप्रवृत्तेः ।
पयसस्त्वविवक्षायां गोरेवेप्सिततमत्वम् । यथोक्त`मपादानमुत्तराणि गां दोग्धी’ति पयोविवक्षायां च प्राधान्येप्यन्तरङ्गत्वाद्गुणो लादयः । उक्तं च -
“*गुणकर्मणि लादिविधिः पूर्वं गुणकर्मणा भवति योगः ।
मुख्यं कर्म प्रेप्सुर्यस्माद्रव्येव यतते प्राक् ।
तस्माच्छुद्धस्य देहेर्भवति गवा पूर्वमेव संबन्धाः ।
गोदुहिना पयसस्तु प्राक् तस्माल्लादयस्तस्मिन्*”
इति । अपादानविवक्षायां तु पञ्चमी भवति-गोर्दुह्यते पय इति । यदा तु पयोगिशेषणत्वेन गोर्विवक्षा तदा षष्ठी गोः पयो दोग्धीति । माणवकाय धर्मं ब्रूत इत्यपि भवति यदा धर्मेण कर्मणा माणवकस्याभिप्रेयमाणत्वं लक्ष्यते ।
तदविवक्षायां त्वनेन कर्मत्वम् ॥ “*सपर इति*” । उत्तरसूत्रेप्ययमेव विधिरित्यर्थः । बोध्यते माणवकं धर्मः, श्राव्यते माणवकं श्लोकः, भोज्यते माणवकमोदन इति । प्रयोजकव्यापारेणाप्यमानत्वान्माणवकस्य प्राधान्यं धर्मादेस्तु गुणभावः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-134.
“*ध्रुवेति” । `अगुणे’ प्रधानकर्मणि । `ध्रुवयुक्ति’ष्वकर्मकेषु `चेष्टितयुक्तिषु च’ गत्यर्थेषु च लादयो भवन्ति । पूर्वाचार्यप्रसिद्ध्या ध्रुवयुक्तयोऽकर्मका उच्यन्ते । तेषां हि क्रिया स्वात्मन्येवावस्थिता न तु कर्मार्था । तत्र ध्रुव इव ध्रुव इति स्वात्मनिष्टोऽकर्मको धात्वर्थ उच्यते । तेन मासमास्यते देवदत्तः शाट्यते क्रोशं देवदत्त इति प्रयोज्ये देवदत्ते प्रयोजकव्यापारस्य तत्रैव पूर्वं संनिपाताल्लादयो भवन्ति । तथा गम्यते ग्रामं देवदत्त इत्यत्रापि ॥ “*अनल्पमतेरिति*” । मेधाविन आचार्यस्येत्यर्थः ॥ “*स्मरतेति*” । आगमस्याविच्छेदमनेन दर्शयति ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-135.
आगम एवायं न स्वमतिपरिकल्पनेति दर्शयितुमाह-`अपर इति’ । “*अजा नीयत इति*” । अजायाः प्राधान्यान्नेतुश्च तस्यामेव पूर्वं क्रियापवर्तनादन्तरङ्गत्वाच्च तस्यामेव लादयः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-136.
“*ण्यन्ते कर्तुश्च कर्मण इति” । कर्तः सतो ण्यन्ते धातौ कर्मणो वाचका लादयो भवन्ति । `गतिबुद्धी’त्यनेन यस्य प्रयोज्यस्य कर्मसंज्ञा विधीयते तस्मिन्वाच्ये सर्व्र्षु गत्यर्थादिषु धातुषु लादयो भवन्तीत्यर्थः । पूर्वश्लोके तु भेदेनोक्तं गत्यर्थाकर्मकेषु प्रधाने कर्मणि ।
बुद्धिप्रत्यवसानार्थशब्दकर्मकेषु तु `सपर’ इत्यनेन वचनेन लादयो गुणकर्मणि ॥ प्रयोज्यकर्मण्येव लादयो दृश्यन्तइत्येकेषां मतम् ॥ माणवकं धर्मं बोधयतीत्यादावनियतो गुणप्रधानभाव इत्याहुः । धर्मप्रतिपादनपरत्वे वाक्यस्य धर्मस्य
प्राधान्यं, मणवकस्य गुणभावः । माणवकसंस्कारपरायां तु प्रवृत्तौ माणवकस्य प्राधान्यं धर्मस्य गुणभावः । तथाऽभिधानव्यापारेण प्रयोजकव्यापारस्य प्राधान्यात्प्रयोज्यस्यैव कर्मणः प्राधान्यम् । गुणभूतप्रयोज्य व्यापारकर्मणस्तु गुणभावः । आर्थेन तु न्यायेन प्रयोज्यव्यापारस्य प्राधान्यम् । तदर्थत्वात्प्रयोजक्व्यापारस्य तत्प्रआधान्यात्तत्कर्मणोपि प्राधान्यम्निति वदन्त आचार्याः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-137.
दुह्यादिपरिगणनादन्यत्र द्विकर्मकत्वं न प्राप्नोति दृश्यते चेति मत्वा पृच्छति-”*के पुनरिति*” ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-138.
“*गत्यार्थानामिति*” । उत्तरसूत्रोपात्तधातूपलक्षणं गत्यर्थग्रहणम् । “*तथैव चेति*” । चकारेण उअयत्यादयः समुच्चीयन्ते इत्याहुः ॥ शतं जयति देवदत्तम् । शतं मुष्णाति देवदत्तम् । शतं दण्डयति देवदत्तम् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-139.
“*सिद्धम् वेति” । अन्यस्याश्रूयमाणस्य क्रियाविशेषस्य कर्मणः संभवादित्यर्थः । अथ वा कर्मशब्देन कर्मत्वमुच्यते । अन्यकर्मत्वादित्यर्थः । `विभाषा गुण’ इति पञ्चमी । यथा प्रविश पिण्डीमिति भक्षणापेक्षं पिण्ड्याः कर्मत्वम्, तथाऽजां ग्रामं नयतीत्यत्र ग्रहणापेक्षमजायाः कर्मत्वम् नयतुस्तु प्राप्तिमात्रवाची । तेनाजां गृहीत्वा ग्रामं प्राप्नोतीति वाक्यार्थः संपद्यते ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-140.
“*परसाधन इति” । नीयते इति नयतेः परेण लकारेण नयतिकर्मैवाभिधानीयम् । ग्रहणस्य त्वजाकर्म, न नयतेरिति कथं सा लेनाभिधीयते तस्मादन्यकर्मत्वमजाया नैष्टव्यम् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-141.
“*कालेति” । मासादय एव कालवाचित्वेन लोके प्रसिद्धाः न तु गोदोहनपानादय इति सत्यपि भावस्य कालत्वे पृथगुपादानं कृतम् ॥
निर्ज्ञातपरिमाणा हि क्रिया ज्ञानिर्ज्ञातपरिमाणायाः क्रियायाः परिच्छेदायोपादीयमाना मासयोगोदोहादिशब्दवाच्याकाल इति दर्शनम् ॥ अध्वा चासौ गन्तव्योऽध्वगन्तव्यः । अत एवे निपातनाद् विशेषणस्यापि परनिपातः ।
गन्तव्यतया लोके यः प्रसिद्धः क्रोशयोजनादि-र्नियतरिमाणः तस्यैव कमर्थं नान्यस्येत्यध्वानं स्वपितीति न भवति ॥
केचि`दध्वगत्यन्ता’ इति पठन्ति । तत्रायमर्थः-गतेरन्तो निष्टा निश्चयो वा येषु ते गत्यन्ताः क्रोशयोजनादयः । अध्वनो गत्यन्ता इति षष्ठीसमासः ॥
“*कर्मशम्ज्ञा इति*” । ननु `कलाध्वनो’रिति द्वितीया सिद्धेति किं कर्मसंज्ञया । गोदोहादीनं कालत्वेनाप्रसिद्धत्वाद्द्वितीया न प्राप्नोतीति भवस्य तावत्कर्मसंज्ञा विधेया । कालाध्वनोरपि लादिविधानार्थं कर्मत्वमेषितव्यम् । आस्यते मासः । आसितव्यो मासः । आसितो मासः ।
स्वासो मासः । एवं शय्यते क्रोश इत्यादि द्रष्टव्यम् ॥ यदा त्वङ्गीकृतसकर्मकधात्वन्तरार्थे आसनादावास्यादयो वर्तन्ते तदा पूर्वेणैव कर्मत्वं सिद्धम् ॥ तथाहि-मासमास्त इत्यस्यायमर्थः । मासमासनेन व्याप्नोतीति । तथा च वक्ष्यति-`प्राकृतमेवेदं कर्म
यथा कटं करोती’ति अत्र दर्शने न केवलमकर्मकाणां कालादयः कर्मत्वंप्रतिपद्यन्ते अपि तु सकर्मकाणामपि । न्यायस्य तुल्यत्वात् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-142.
“*देशाश्चेति” । संस्त्यायविशेषः कुरुपञ्चालादिर्देश इह गृह्यत इति भाष्य उदाहरणाद्विज्ञायते ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-143.
“*इदानीमकथितस्य पूर्वाचार्यकृतं सम्ज्ञान्तरं दूषयितुमुपन्यस्यति-`विपरीतमिति’ । कर्मधर्माणां विपर्यस्तत्वाद्विपरीतमुच्यते । ईप्सिततमं द्वेष्यमितरच्चेति फुर्वं त्रिविधं कर्म निर्दिष्टमिदं तद्विपरीतम् । कपिलकादित्वाच्च लत्वे कल्मेति भवति ॥”*अपरिसमाप्तमिति*” । ईप्साप्रकर्षाभावादित्यर्थः ॥ “*नवेति*” । लकृत्यक्तस्वलर्थानामविधानात् `प्रधानकर्मण्यभिधेय’ इति पूर्वमुक्तत्वात् ।दुहादीनां त्वप्रधानकर्मणि लादिविधानात्तुच्छ एवायं पक्षः । तथा च परस्तादृऊषयिष्यते ।
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-144.
तस्यैव विपरीतकर्मणो लक्षणं दर्शयति-यस्मिंस्त्विति । यस्मिन् गवादौ कर्मणि सत्यन्यत्पयः प्रभृत्युपजायते तत्कर्म कल्म ॥ “*धात्वर्थयोगेति*” । धातुशब्देन धत्वर्थ उच्यते । तस्यार्थः प्रयोजनं पयः प्रभृति तेन योगो यस्याःसा षष्टी यत्र भवति गोर्दुह्यते पयः पौरवस्य कम्बलो याच्यत इति । प्रधाने तु न भवति षष्टी दुह्यते पयसो गौरिति ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-145.
इदानीं संज्ञान्तरमनारभमाण आह-‘कल्मनोक्तमिति’ यस्मात्तत्कर्मैव तस्मात् पृथक्कल्मेति नोक्तम्स्मिन् शस्त्रे दुहादीनामप्रधाने कर्मणि लाविदर्शनात् सर्वकर्मकार्योपपत्त्याऽपरिसमाप्तत्वाभावाद्
भेदेन च कल्मसंज्ञाविधाने कर्मकार्याप्रसङ्गादिति भवः । “*धातोर्हि वृत्तिरिति*” । रेफस्य लत्वमात्रेण धातोर्र्थान्तरे वृत्तिर्नास्तीत्यर्थः ॥ क्वचित्तु पाठः `धातोर्निवृत्तिरिति’ ।
तत्रायमर्थः-धातोः करोते रेफस्य लत्वमात्रेण स्वारान्निवृत्तिर्नास्तीति ।
एतदुक्तं भवति-वर्णविकारेपि कृते कर्मकल्मशब्दयोः पर्यायतैव । यथा पांसुरपांसुलशब्दयोः तत्र किं संज्ञाभेदेनेत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-146.
“*एतेनेति” । `अकथितं क’र्मेत्येवास्तु माभूत्पूर्वसूत्रद्वयम् । तद्विषयेऽनेनैव कर्मसंज्ञायाः सिद्धत्वात् । परिगणनं च न करिष्यत इति प्रश्नार्थः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-147.
“*यत्त्विति” । यवेभ्यो गा वारयतीति गवां कथितत्वात्कर्मसंज्ञा न स्याद् `वारणार्थाना’मित्यपादनसंज्ञैव तु स्यादिति `कर्तुरीप्सिततम’मित्यारब्धम् । तस्मिन्नारब्धे अनीप्सितस्य कर्मसंज्ञा न प्राप्नोतीति `तथायुक्त’मित्यारब्धव्यम् ॥ ननु तथायुक्तस्यानेन भविष्यति । नैतदस्ति । दुह्यादिपरिगणनं नटस्य शृणोतीत्यादावतिप्रसङ्गनिवृत्तर्थमवश्यं वक्तव्यम् ॥ “*ईप्सितयुक्तं चेति*” । ईप्सितेन यवादिना युक्तं यद्गवादि वार्यमाणं तस्य कर्मसंज्ञासिद्ध्यर्थं पूर्वसूत्रं कर्तव्यमित्यर्थः । चशब्दात्कर्मापादानसंज्ञयोर्विषयविभागसिद्ध्यर्थं चेत्युक्तं भवति । “*ईप्सितमेवेति*” । अवधारणेनेप्साप्रकर्षाभावं दर्शयति ॥ “*अकथितेनेति*” । सूत्रैकदेशानुकरणमेतत् । अनेन सूत्रेणेत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-148.
“*अथेहेति” । `प्रधाने कर्मण्यभिधेये लादीनाहुरि’त्युक्तम् । तत्र लादिग्रहणेन किं षष्ट्यपि गृह्यते उतन । यद्यादिशब्दो व्यवस्थायां तदा ‘लः कर्मणि चभावे चाकर्मकेभ्यस्तयोरेव कृत्यक्तस्वलर्था’ इत्येतेषां ग्रहणं न्याय्यम् । अथ प्रकारे तदा षष्ट्यपि लादिग्रहणेन गृह्यते इति प्रधानकर्मण्येव सा भवतीति मत्वा प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-149.
“*उभयथेति” । गुणकर्मणि षष्ठीद्वितीयादर्शनादुभयमपि स्मर्यते । वाचनिकं चेदं न तु न्याय्यम् । यत्र ह्येकेनैव शब्देन भिन्नकष्ययोर्गुणप्रधानयोः कर्मणोरभिधानं न संभवति तत्र प्रधानकर्मण एवाभिदानं न्याय्यम् । षष्टी तु पृथग्गुणप्रधानाभ्यां द्वितीयावद्विधीयते विरोधाभावादुभाभ्यां प्राप्ता शिष्टस्मरणद्गुणकर्मणि विकल्प्यते ॥ 51 ॥
“*गतिबुद्धि” ॥ 52 ॥ `कथमिति’ । कर्मशब्देन क्विचित् क्रिया गृह्यते यथा-कर्तरि `कर्मव्यतिहार’ इति । क्वचित्तु साधनं कर्म यथा -`वेः शब्दकर्मण’ इति । ततश्चोभयथा व्यवहारदर्शनात् संशयानः पृच्छति ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-151.
“*ह्वयत्यादीनामिति” । ह्वयत्यादयो धातवः साध्यमानावस्थं क्रियारूपं शब्दमभिदधतीति शब्दकर्मत्वादतिप्रसङ्गे सति प्रतिषेधो विधेयः ॥ “*ह्रयति देवदत्त इति*” । पुत्रादेः कर्मणो भावादकर्मकत्वं ह्वयतेनार्शङ्क्नीयम् ॥ “*शब्दायते इति*” । शब्दं करोतीति `शब्दवैरे’ति क्यङ् । शब्दलक्षणस्यात्र कर्मणओन्तर्भावात् कर्मान्तरायोगाच्चाकर्मकत्वादपि कर्मसंज्ञाप्रसङ्गः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-152.
“*श्रृणोत्यादीनामिति” । शब्दोपलब्धिरूपेर्थेवर्तमानाः शृणोत्यादयः शब्दक्रिया न भवन्ति, शब्दसाधनकर्माणस्तु तद्विषयत्वेन प्रयोगात् । न चैषां बुद्ध्यर्थत्वम् । शृणोत्यादयो हि न ज्ञानमात्रवचनाः । बुद्ध्योर्थौ तु जानात्युपलभत इत्येतौ यध्याप्युपलब्धिमात्रवचनौ तथापि प्रयोजकव्यापारविवक्षायां प्रकरणादिवशाद्यदा शब्दविषयामेवोपलब्धि प्रय्ताययतस्तदा साधनकर्मग्रहणे सिद्ध्यति, न तुक्रियाग्रहण इत्युपसंख्यानं कर्तव्यम् । एवं तु बुद्ध्यर्थत्वादनयोः सिद्ध्यतीति चिन्त्यमेतत् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-153.
“*जल्पतिप्रभृतीनामिति” । जल्पत्यादयः शब्दनक्रियायां वर्तन्त इति क्रियाग्रहणे सिद्ध्यति न तु साधनकर्मग्रहणे । पुत्रं जल्पतीत्यादौ शब्दकर्मत्वाभावात् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-154.
“*दृशोः सर्वत्रेति” । यदि क्रियाग्रहणमथ साधनग्रहणमथोभयगत्याश्रयणम् सर्वत्र दृशेर्न प्राप्नोतीति भावः ॥ “*पश्यति रूपतर्क इति*” । चक्षुःप्रणिधानद्वारक उपलम्भे यदा दृशिर्वर्तते तदैतद्वक्तव्यम् । अन्यत्र तु बुद्ध्यर्थत्वात् सिद्ध्यति ॥ तत्र साधनकर्मग्रहणमित्येष पक्ष आस्रीयते । क्रियाग्रहणे कर्मग्रहणानर्थक्यप्रसङ्गात् । गतिबुद्धिशब्दप्रत्यवसानार्थाकर्मकाणामित्येव सिद्ध्यत्वात् । पुत्रादिकर्मत्वे जल्पतिप्रभृतीनामुपसंख्यानं कर्तव्यमेव । श्लोकादिशब्दविशेषकर्मकत्वे तु शब्दकर्मत्वात्सिद्धिः । दृशेर्बुद्ध्यर्थर्थत्वादेव ग्रहणंसिद्ध्यति ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-155.
“*अदिखादिति” । अदिखाद्योः प्रत्यवसानार्थत्वात्प्राप्तिः । निवह्योर्गत्यर्थत्वात् ॥ यद्यपि `न गतिर्हिसार्थेभ्य’ इत्यत्र `न बहिर्गत्यर्थ’इत्युक्तं भाष्ये । तथापि `वहेरनियन्तृकर्तृकस्ये’त्यभिधानाय बहेरूपक्षेपः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-156.
“*परस्मैपदमिति” । `निगरणचलनार्थेभ्यश्चे’ति प्राप्तम् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-157.
“*वहेरिति” । नियन्ता सारथिः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-158.
“*भक्षेरिति” । अणिकर्तेति हेतुमण्णिचो निषेधाच्चुरादिण्यन्तोऽप्यण्यन्त एवेति प्राप्तिः ॥ “*भक्षयन्ति यवानिति*” । क्षेत्रस्थानां प्ररिगाद्यवस्थायां यवानां भक्षणाद्धिंसा भवति । तदवस्थायां कैश्चिच्चैतन्यस्याभ्युपगमात् । परकीययवभक्षणे वा परो हिंसितो भवति । हिंसाङ्गे भक्षणेऽत्र भक्षिर्वर्तत्त् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-159.
“*कालकर्मणामिति*” । कालग्रहणेन साहचर्यात् पूर्वं सहनिर्दिष्टत्वाद्भावाध्वदेशानामपि ग्रहणम् । वक्ष्यमाणान्यायस्य तुल्यत्वाद् वा ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-160.
“*सिद्धं त्विति” । तेन मासमास्यते देवत्तेनेत्यादावकर्मकेभ्यो भवे विधीयमाना लादयः सिद्धा भवन्ति । स्वाश्रयं चाव्यावृत्तं । तेन मास आस्यते देवदत्तेनेत्यादौ कर्मण्यपि भवन्ति ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-161.
“*न चे केचिदिति” । ननु क्रियामात्रविवक्षायां कालादीनामविवक्षितत्वात् तैरप्यकर्मकत्वं भवत्येव । यथा शेते देवदत्तो न भुङ्क्ते इति ॥ अत्राहुः-अत्यन्ताविद्यमानकर्मणो धातवोऽकर्मकग्रहणेन गृह्यन्ते न त्वविवक्षितकर्मणः । अन्यथा पचादीनामपि
कर्माविवक्षायामकर्मकनिबन्धनानि कार्याणि भवेयुः । अकर्मकशब्दस्य च धातवोऽन्यपदार्थत्वेनाश्रीयन्ते न त्वर्थाः । अष्ताश्रयणे हि कर्माविवक्षायामर्थस्याकर्मक्व्यपदेशः स्यात् । धातुष्वाश्रीयमाणेषु क्वचिदपि कर्मसंबन्धदर्शनेन सारूप्यात्त एवैत इति तत्त्वप्रत्ययविषया नाकर्मकत्वेन व्यपदिश्यन्ते । अर्थास्तु कारकादिभेदाद्भिन्ना एवेत्यन्ये सकर्मका अन्य एवाकर्मका इति स्याद् व्यपदेशः । यदा त्वर्थस्यापि स्वतो नास्ति भेद इति दर्शनं तदार्थेष्वप्यन्यपदार्थेष्वदोषः ॥
“*क्वचिदिति*” । द्रव्य एव कर्मणि
सत्यकर्मका इत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-162.
“*अथवा येनेति” । संभव्यभिचाराभ्यां विशेषणविशेष्यभावे सर्वत्र वस्तुस्थित्याऽविवक्षिता अपि कालादयः सन्तीति न तैः केचिदकर्मका इत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-163.
“*अथ वेति” । अकर्मकश्रुत्यान्तरङ्गं द्रव्यकर्मनिषिध्द्यते न बहिरङ्गं कालादिकर्म । तथाहि-पूर्वं क्रियाया द्रव्यकर्मणा सह संबन्धो भवति पश्चात् कालादिभिः परिमाणनिर्धारणाय । तथा चोक्तम् -
“*शक्तिप्रमाणसंख्यादेर्द्रव्यधर्मात्प्रवर्तते*” ।
क्रियासु कालयोगोतः प्राग्योगो द्रव्यकर्मणा ॥ इति
सूत्रं चेदं नियमार्थमिति `आकडार’सूत्र उक्तं तत एवावधार्यम् ॥ 52 ॥
“*ह्यत्रोर” ॥ 53 ॥ उभयत्र विभाषेयमिति `नवेति विभाषे’त्यत्रोक्तम् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-165.
“*अभिवादिदृशोरिति” । अभिवादयतावप्राप्ता कर्मसंज्ञा पक्षे विधीयते दृशेर्बुद्ध्यर्थत्वान्नित्यप्राप्ता पक्षे निवर्त्यते ॥
“*स्वतन्त्रः कर्ता” ॥ 54 ॥ “*किं यस्येति*” । तन्तुवायस्य स्वतन्त्रशब्दवाच्यत्वाद्विशेषानुपादानच्च प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-167.
“*तन्तुवाय इति” । यद्यपि तन्तुवायो व्यतिभुङ्क्त इत्यादौ तन्तुवायस्य करृसंज्ञेष्यते तथापि विशेषविहितत्वात् परत्वाच्चापादानादिसंज्ञाविषयेपि सा प्राप्नोति । ब्राह्मणोधित इत्यादौ च ब्राह्मणादेर्न प्राप्नोतीति दोषः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-168.
“*वितान इति” । वितान्यत इति वितानम् ॥ “*स्वतन्त्रोऽसौ ब्राह्मण इति*” । स्वशब्द आत्मवाची । स्व आत्मातन्त्रं प्राधानं यस्य स स्वतन्त्र उच्यते । तत्र कारकाधिकारात् क्रियासिद्धौ प्राधान्यस्योपयोगात्तन्तुवायस्यापि तन्तुवायरूपतया तत्रानुपयोगात् प्रधानावाचिनः स्वतन्त्रशब्दस्येह ग्रहणम् । अनेककारकसाध्यायामपि क्रियायां यथा कस्य चित् स्वातन्त्र्यं तथा `कारक’सूत्रे प्रतिपादितम् । यस्य यातुनाव्यापारोऽगुणभावेनोच्यते स एवासौ स्वतन्त्र इत्येतदपि तत्रैव भाष्यकृता प्रतिपादितम् ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-169.
“*हेतुमतीति” । प्रयोज्य इत्यर्थः । यथा कर्तृसन्निधौ करणादीनां नास्ति स्वातन्त्र्यं तथा ओरटिहजसब्बुधौ प्रयोज्यस्य पारतन्त्र्यात् स्वातन्त्र्याभावात् कर्तृसंज्ञाया अप्रसङ्गात् पाचयत्योदनं देवदत्तेनेति कर्तृतृतीया न प्राप्नोति । तत्प्रयोजक इत्यत्र च तच्छब्देन परामर्शो नोपपद्यते ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-170.
“*न वेति” । प्रयोजकसन्निधानेपि प्रयोज्यस्य करणादिसाधनविनियोगादिना स्व्थन्त्र्यस्य क्रियासोद्धौ सद्भावादित्यर्थः ॥ “*अकुर्वत्यपीति*” । यदि प्रयोज्यस्य स्वातन्त्र्यं न स्यान्नैवासौ साधनान्तरविनियोगादिना क्रियां कुर्यात् तथा चाकुर्वत्यपि प्रयोज्ये प्रयोजकः कारयतीति व्यपदिश्येत ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-171.
“*शक्यं तावदिति” । उपसंख्यानवाद्यपि प्रयोज्यस्य स्वातन्त्र्यमस्तीत्युभ्युपगच्छतीति
प्रतिपाद्यते । प्रयोज्यस्य स्वातन्त्र्येण स्वव्यापारं प्रत्यप्रवर्तनात् किलोपसंख्यानामारम्भ्यते । तेन चेदमवश्याभ्युपगन्तव्यम्-यः करोति स स्वतन्त्रः न त्वकुर्वन्निति । एवं चेत् प्रयोजकसन्निधानेपि स्वार्थदर्शनात् प्रयोज्यः करोति नान्यथेति तस्य स्वातन्त्र्यमस्त्येव ।
तथा चोक्तं भाष्यकृता-`न हि कश्चित्परोनुग्रहीतव्य इति प्रवर्तते, सर्व इमे स्वभूत्यर्थं यतन्त’ इति ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-172.
“*एषिते चेति” । कर्तरधिकरणत्वेन विवक्षितत्वात्सप्तमी ॥
“*क्रियामिति*” । स्वार्थदर्शनादिच्छायां सत्यां क्रियां, तददर्शने त्वक्रियाम् ॥ “*यदि चेति*"।
स्वार्थादर्शनादिच्छायामसत्यामित्यर्थः ॥ 54 ॥
“*तत्प्रयोजकः” ॥ 55 ॥ “*प्रैष इति*” । ननु पूर्वसूत्र एव प्रयोज्यस्य स्वातन्त्र्यमुपपदितं तत्किमर्थं चोद्यते ॥ एवं मन्यतेप्रैषादूर्ध्वं प्रयोज्यस्य स्वाव्यापारे प्रवर्तनात् स्वातन्त्र्यम् । प्रैषकाले तु स्वाव्यापाराप्रवर्तनात् प्रवृत्तौ प्रैषवैयर्थ्यात्स्वातन्त्र्यं नास्ति । तस्य च प्रयोजको न हेतुः स्यात् । ततश्चात्र न णिज्भवेत् ॥ प्रैषग्रहणमध्येषणनिवृअत्त्यर्थमिति केचित् । अध्येषणे किल व्यापार्यमाणस्य गुर्वादेः स्वव्यापारे स्वतन्त्र्यमस्तीति । तत्त्वयुक्तम् । न्यायस्य तुल्यत्वात् । तस्मादत्र प्रैषग्रहणहणेन नियोगमात्रमुच्यते न तु निकृष्टविषयएव नियोगः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-174.
“*स्वतन्त्रत्वादिति” । दृष्टसामर्थ्यो वा संभावितसामर्थ्यो वा क्रियायां स्वातन्त्र्येण समाश्रित एव नियुज्यत इत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-175.
“*स्वतन्त्रपरतन्त्रत्वमिति” । प्रयोजकसन्निधौ पारतन्त्र्येण स्वातन्त्र्यस्य तिरस्कृतत्वाद्यौगपद्यानुपपत्तिरिति भावः ॥
2.प्रथमाध्याये चतुर्थपादे तृतीयमाह्निकम्-176.
“*उक्तं वेति” । वक्ष्यमाणस्यापि बुद्ध्या विषयीकृतत्वाद्भूतत्वसमारोपादुक्तं वक्ष्यमाणं चाभेदेनोक्तं वेति निर्दिष्टम् ॥ “*न वा सामान्यकृतत्वादिति*” । `हेतुमति चे’त्यत्र वार्तिककारेणैतदुक्तम् ॥ “*मुक्तसंशयेनेति*” । अप्रयोक्तो यः स्वयं करोति तेन तुल्यः प्रयोज्योपीत्यर्थः ॥ 55 ॥
इत्युपाध्यायजैयटात्मजकैयटकृते महाभाष्यप्रदीपे प्रथमस्य
चतुर्थ पादे तृतीयमाह्निकम्
“*प्राग्रीश्वरात्” ॥ 56 ॥ “*किमर्थमिति*” । प्राग्रीश्वरादित्येव क्रियतां प्रत्यासत्त्याऽ`धिरीश्वर’ इतीश्वरशब्दो ग्रहीष्यत इति प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-2.
“*वीश्वरादिति” । व्याप्तिन्यायाद्वीश्वरात्प्राक् स्यात् । यदा संहितया सूत्रपाठस्तदा वक्षसहित ईश्वरशब्दोस्तीत्येतदभिप्रोत्यैवमुक्तम् ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-3.
“*यदयमिति” । सेकसेन्प्रभृतीनां णमुल्कमुलोश्च निपातत्वादेवाव्ययसंज्ञायां सिद्धायां `कृन्मेजन्त’ इत्यव्ययसंज्ञाविधानाज्ज्ञापकाह्याप्तिर्बाध्यत इत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-4.
“*परोपीति” । `कृत्यार्थे तवैके’त्यादिरेजन्तः स्वमुञादिश्च मान्तोऽस्ति तदर्थमेतत्स्यादित्यज्ञापकं व्याप्तेबार्धस्य ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-5.
“*यत्तर्हीति” । व्याप्तावाश्रीयमाणायां निपातत्वादव्ययीभावस्याव्ययसंज्ञा सिद्धैव किं तद्विधानेनेति ज्ञापकं संपद्यते ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-6.
“*समासेष्विति” । तुल्यजातीयव्यावृत्तये नियमार्थमेतत्स्याद् न तु व्याप्तग्रहणज्ञापनार्थमेतदित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-7.
“*एवं तर्हीति” । लोके प्रत्यासत्तिराश्रीयते यथा `कपिञ्जलानालभेते’ति त्रय एवालभ्यन्ते न चतुरादयः । शास्त्रे च लोकव्यवहारोऽङ्गीक्रियते इति भावः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-8.
“*लौकिकमिति” । लौकिकं प्रत्यासत्तिलक्षणं न्यायं लोक एव परित्यजति । स्नेहादिवशाद् द्वितीयमप्युदकान्तं प्राप्त्य निवर्तते ॥
`कपिञ्जल्’आनित्यत्र तु प्रथमातिकमेकारणाभावा`न्न
हिंस्यात्सर्वा भूतानी’ति चतुर्थादिषु निषेधावतारान्त्रय एवालभ्यन्ते । इह तु विरोधकाभावाह्ह्याप्तिन्यायाश्रयः स्यात् । `न लोकाव्यये’त्यव्ययत्वाल्लोकादीनां सिद्धेषष्टीनिषेधे पुनस्तेषामुपादानमव्ययसंज्ञाया एवाभावां ज्ञापयेत् । निपातसंज्ञा तु स्यादेव । ततश्चिकीर्ष्वर्थमित्यादौ `निपात एकाजि’ति प्रगृह्यसंज्ञा स्यात् ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-9.
“*अथेति” । प्रग्ग्रणद्वारेणावधिनिर्देशश्चोद्यते । निपाता इत्येवास्तु यथा प्रत्यय इत्यादिरधिकारो विनाप्यवधिनिर्देशेनाभिमतविषये प्रवर्तते तथायमपि प्रवर्तिष्यते इति भावः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-10.
“*निपातसंज्ञामिति” । चादिषु प्रादिष्वप्यक्रियायोगे विकल्पितगतिसंज्ञाविषयेषु साक्षात्प्रभृतिषु च गतिसंज्ञाभावपक्षे सावकाशा निपातसंज्ञा गत्यादिसंज्ञाभिर्वाध्येतेत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-11.
“*क्रियमाण इति” । रीश्वरादिति पञ्चम्या प्राक्शब्दाध्याहारे लब्धे पुनःश्रुति प्राग्ग्रहणं सम्पद्यते ॥ परशब्दाध्याहारेण तु पञ्चमी न भविष्यति । `चादयोऽसत्त्वे’ इत्यादीनामसंबद्धत्वप्रसङ्गात् । तन्त्रैणैव वा द्वौ प्रक्शब्दावुच्चार्थेते। तेनायमर्थः-प्रग्रीश्वरोद्यो व्यवस्थितास्ते प्राङ्मिपातसंज्ञा भवन्तीति निपाताः सन्तो गत्यादिसंज्ञा इति सम्थावेशः सिद्धः । केवले तु `निपाता’ इत्याधिकारे क्रियमाणे सत्यामपि प्रतियोगमनुवृत्तावेक्संज्ञाधिकारात्पर्यायः स्यान्न तु समावेशः ॥ “*अवयवसंज्ञा इति*” । विशिष्टावधिपरिच्छिन्नस्य समुदायस्यान्तरालपतिता गत्यादिसंज्ञाभाजोऽवयवा भवन्ति तेषां संज्ञा इत्यर्थः ॥ 56 ॥
“*चादयोऽसत्त्वे” ॥ 57 ॥ “*अयमिति*” । अर्थद्वयेपि सत्त्वशब्दस्य प्रयोगदर्शनाद्विशेषावगतौ प्रमाणानुपलभ्यात्प्रश्नः । तत्र सदिन्त्यस्मिञ्जातिगुणक्रिया इति सत्त्वं द्रव्यमुच्यते । यदा तु सतो भावः सत्त्वमिति तदा साध्यमानतया क्रियारूपापन्ना सत्ता सत्त्वशब्देनोच्यते ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-14.
“*एवं च कृत्वेति” । यदि सत्वशब्देन सत्तोच्येत तदा प्रतिषेधोऽनर्थकः स्यात् । नहि चादिषु सत्तावाची कश्चिच्छब्दोस्ति यदर्थो निषेधः स्यात् । `पशुर्वै पुरुषा’ इत्यत्र च निपातसंज्ञा स्यात् । चाद्यनुकरणानां चः पठितो हिर्यस्मादर्थ इत्यादावपि विधिनिषेधौ यथाभिमतविषयं न व्यवतिष्टेयाताम् । द्रव्यग्रहणे तु व्यवतिष्ठेते । द्रव्यशब्देन चात्र सिद्धरूपं वस्त्वभिधीयते । तदुक्तम्-
“*वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते ।
द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः ॥*”
इति ।
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-15.
“*किं पुनरिति” । उभयथा शास्त्रे दर्शनात्प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-16.
“*विप्र इति” । विप्रतीति विप्रः `आतश्चोपसर्गे’ इति कप्रत्ययान्तः । क्रियोपसर्जनद्रव्यवाचित्वात् केवलाद् द्रव्यात् क्रियाद्रव्यसमुदायस्यान्यत्वाद्रव्यादन्यस्मिन्नर्थे वर्तते ॥ “*प्रादिभिरिति*” । निपातत्वेनाभिमतैः ॥ “*सामान्यमिति*” । सारूप्यम् ॥ “*तदन्तविधिनेति*” ॥ ननु विशेष्यासन्निधानात्कथं तदन्तविधिः । एवं तर्ह्यायमर्थः-निपातस्य संज्ञा निपातसंज्ञा सा चाव्ययसंज्ञा । तस्यां चास्ति तदन्तविधिः “*प्रयोजनं सर्वनामाव्ययसंज्ञायाम्*” इति । तत्र विप्रशब्दे प्रशब्दस्य निपातसंज्ञायं सत्यां यथा परमोच्चैरिति स्वराद्यान्तस्याव्ययसंज्ञा भवति, एवं निपातान्तस्यापि स्यात् । ततो लुक् प्रसज्येत । विप्रकम्बल इत्यत्र च निपातान्तस्य पूर्वपदप्रकृतिस्वरः स्यात् ॥ 57 ॥
“*प्रादयः” ॥ 58 ॥ यदा प्रागेव “*पादयः*” इति योगो विभज्यते तदा प्रयोजनकथनाय वार्तिकम् । यदा तु `प्रादय उपसर्गाः क्रियायोगो’ इत्येको योगः पठ्यते तदा योगविभागः
कर्तव्यत्वेन चोद्यते । “*एकयोगेहीति*” । अक्रियायोगे निपातसंज्ञा न स्यात् । क्रियायोग एव तु पत्युपसर्गसंज्ञावत्स्यात् । ततश्च प्रगतआचार्यः प्राचार्य इत्यत्र पूर्वपदप्रकृतिस्वरो न स्यात् ॥
“*यस्मिन्नेवेति” । `कर्मवचनीय’संज्ञा `सुः पूजाया’मित्यादिभिर्योगौः प्रादीनां विहिता ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-18.
“*मरूद्दत इति” । प्रक्रियायां रूपमलौकिकमिदमुपात्तम् । तत्वेन हि नित्यं भाव्यम् । उपसर्गसंज्ञैव चास्येप्यते न निपातसंज्ञा । तस्यां हि सत्यां `निपाता आद्युदात्ता’ इत्याद्युदात्तत्वं `तृतीया कर्मणी’ति पूर्वपदप्रकृतिस्वरेण स्यात् । अन्तोदात्तश्च मरूच्छब्द इष्यते । अव्ययसंज्ञा च स्यात् । तत्व एवोपसर्गसंज्ञेष्यते । अव्ययसंज्ञा च स्यात् । तत्व एवोपसर्गसंज्ञेष्यते । अनभिधानाद्धि किरङ्च न भवति । संज्ञावचनसामर्थ्याच्चानजन्तत्वेपि तत्वं प्राप्नोति । तस्मात्तत्व एवोपसर्गसंज्ञा वक्तव्या ॥ प्रकारान्तरेणापि मरुत्तशब्दो व्युत्पादयिष्यते `तत्पर्वमरूद्भ्या’मिति ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-19.
“*श्रच्छब्दस्येति” । तेन भिदादिषु श्रद्धाशब्दो न पठितव्यो भवति ॥ 58 ॥
“*गतिश्च” ॥ 59 ॥ “*कारिकाशब्दस्येति*” । कारिका क्रिया मर्यादा स्थितिरित्यर्थः । यत्न इत्यपरे यस्तु श्लोकवाची कारिकाशब्दस्तस्य ग्रहणं न भवति । क्रियायोगग्रहणेन कारिकाशब्दस्य विशेषणात्क्रियावृत्तेर्ग्रहणात् ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-21.
“*पुनश्चनसाविति” । ततश्च पुनराधेयमित्यत्र कृदन्तोत्तरपदप्रकृतिस्वरेण `यतो नाव’ इति धेशब्द उदात्तः ॥ “*पुनरुत्स्यूतमिति*” । गतित्वात्समासः । स्वरस्तु प्रवृद्धादेराकृतिगणत्वादन्तोदात्तत्वम् ॥ “*चनोहित इति*” । निपातत्वादाद्युदात्तस्य चनः शब्दस्य `गतिरनन्तर’ इति प्रकृतिस्वरः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-22.
“*गत्युपसर्गसंज्ञा इति” । क्रियायोग इति सामान्येनोपादानाद्विशेषावधारणार्थं वचनम् । अथ वा प्रत्यासन्नैव क्रिया गृह्यते इति न्यायव्युत्पादनार्थम् ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-23.
“*वृद्धिविधौ चेति” । उपसर्गेणैव धातोराक्षेपात् ॥ “*प्रर्छक इति*” । प्रगता ऋच्छका अस्मादिति बहुव्रीहिः । तत्र धातुग्रहणस्य शाकलनिवृत्तिः प्रयोजनं वक्ष्यते ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-24.
“*उद्वत इति” । क्रियाशब्दस्याप्रयोगादुपसर्गत्वाभावः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-25.
“*अनवकाशा इति” । येषां हि क्रियाशब्दप्रयोगे तं प्रत्युपसर्गसंज्ञा तेसंप्रत्यनुपसर्गसंज्ञा अपि गृह्यन्त इत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-26.
“*क्रियत इति” । केवलाभ्यामिति विशेषणाभिधानार्थमवश्यं कर्तव्यम् । तेनातिसुलम्भमित्यनेरुपसर्गंत्वेनुम् भवत्येव ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-27.
“*क्रियत इति” । पूजायामिति विशेषणोपादानार्थम् । तेन सुषिक्तं किं तवात्रेत्यादौ षत्वं भवत्येव ॥ 59 ॥
“*ऊर्यादि” ॥ 60 ॥ “*ऊरीपक्त्वेति*” । प्रयोगापर्यालोचनेन संभवमात्राश्रयेणैतदुदाहृतम् ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-29.
“*न चान्ययेति” । च्विडाचौ तावत् कृभ्वस्तियोग एव बिहितौ । ऊर्यादयोपि कृभ्वस्तिविषया एव प्रयुज्यन्ते नान्यत्र ॥ 60 ॥
“*अनुक” ॥ 61 ॥ “*कथमिति*” । द्वयोरपि समासयोः संभवाद्दोषदर्शनाच्च प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-31.
“*स्वाडिति कृत्वेति” । गतिसंज्ञायां समासः स्यात् । धातोश्चानन्तरं प्रयोग इति रूपमेतन्न सिध्द्येत् । इति स्वाट्कृत्येत्यत्र च निषेधप्रसङ्गः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-32.
“*श्रौषडिति” । श्रौषट्शब्द इतिपरो न भवति वौषटा व्यवपधानादिति गतिसंज्ञाप्रसङ्गः ॥ ननु व्यवहितेपि परशब्दस्य दर्शनाद्भवत्येवेतिपरत्वम् । नैष दोषः । अव्यवधान एवास्य मुख्यवृत्तिः । अन्यत्र त्वन्तरालस्थामसमीक्ष्याव्यवधानमेवाश्रित्य प्रयुज्यते । इह तु वौषटो व्यवधायकसोच्चारणादयुक्तमनपेक्षणम् । स्वाट्कृत्येति निरष्ठीवदित्यत्र धातुव्यवधानेपि प्रतिषेधप्रसङ्गात् ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-33.
“*इदं नावदिति” । यो व्यकत्याश्रयेण व्यवधानं मन्यते ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-34.
“*गत्याकृतिरिति” । तस्याश्च भिन्नास्वपि व्यक्तिषु अभिन्नाया नास्त्यत्र व्यवधानम् ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-35.
“*किमर्थमिति” । अनितिपरमित्येतदित्यर्थः । संज्ञानियमपक्षे सिद्धिं मत्वा प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-36.
“*अनिष्टशब्दनिवृत्त्यर्थ इति” । स्वाडितिकृत्वेति प्रयोक्तव्ये इति स्वाट्कृत्येतिप्रयोगः स्यात् । प्रयोगनियमे चायं दोषः । तत्र ह्ययमर्थः-गत्युपसर्गसंज्ञा धातोः प्रगोव प्रयोक्तव्या इति । ततो व्यवहितस्य प्रयोगाप्रसङ्गः ॥ संज्ञानियमे तु न दोषः । तेनैव नियमेन स्वाडितिकृत्वेत्यत्र व्यवहितस्य संज्ञानिवारणादस्य प्रयोगस्य सिद्धत्वात् ॥ 61 ॥
“*आदर” ॥ 62 ॥ “*कथमसत्कृत्येति*” । यदि-न सत्कृत्यासत्कृत्येति नञ्समासः क्रियते, तदा सतिशिष्टत्वात्कृदुत्तरपदकृतिस्वरं बाधित्वाऽव्ययपूर्वपदप्रकृतिस्वरेणाद्युदात्तत्वं स्यात् । अथ-न सदसदिति समासः क्रियते, तदा सच्छब्दस्य गतिसंज्ञाविधीयमानाऽसच्छब्दस्य न स्यादिति भावः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-38.
“*तदन्तविधिनेति” । यद्यपीह प्रकृतं विशेष्यं नास्ति तथापि कार्यार्थत्त्वात्संज्ञायाः कार्यप्रदेशेषु प्रकृतस्य गतिना विशेषणात्तदन्तविधिर्भवति । तत्र समासविधौ सुबिति प्रकृतं `गतिरनन्तर’ इत्यत्र पूर्वपदं `गतिर्गता’वित्यत्र पदस्येति । अव्ययसंज्ञायामस्त्येव तदन्तविधिः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-39.
“*न आदर इति” । अनेनासाच्छब्दस्यानादरार्थवृत्तितां दर्शयति । ततश्चानादरग्रहणेन यत्स्याध्यं तदन्यथापि सिध्द्यतीत्येवंपरमेतत् ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-40.
“*आदर प्रसङ्ग इति” । गुरुमसत्कृत्येत्यादौ तु स्यात्, पाखण्डिनमासत्कृत्येत्यादौ तु न स्यात् । तथाहि-अब्राह्मण इति क्षत्रियादिरेवोच्यते न तु गोलोष्टादिः ॥ “*बहुव्रीहिरिति*” । स चात्यन्ताभावेपि प्रसकत्यभावे च भवतीति सर्वत्र संज्ञा सिध्द्यति ॥ “*असतस्त्विति*” । `आदरानादरयोः सदि’त्येव वक्तव्यम् । तत्रानादरे सच्छाब्दस्य वृत्त्यसंभवात्सामर्थ्यात्तदन्तविधिनाऽसच्छब्दस्य गतिसंज्ञा भविष्यति । यथा `गोष्पदं सेविति’त्यत्रासेविते गोष्पदशब्दस्य वृत्त्यसंभवादगोष्पदार्थमसेवितग्रहणम् ॥ 62 ॥
“*अन्तरप” ॥ 64 ॥ “*अन्तःशब्दस्येति*” । अङ्किविधिणत्वानि उपसर्गसंज्ञाश्रयाणि । समासस्तु गतिसंज्ञाश्रय इत्यपूर्ववचनं सूत्रोपादानं च सामान्येनोपसंख्यानमुच्यते । गतिसंज्ञाया अनेनैव सिद्धत्वादपूर्ववचनाभावात् ॥ “*अन्तर्हण्यादिति*” । `हन्तेरत्पूर्वस्ये’तिणत्वस्य सिद्धत्वाद् `अन्तरदेशे’ इति न वक्तव्यं भवति । देशे तु क्षुभ्ग्नादित्वाण्णात्वाभावः । तथै`वायनं चे’ति न वक्तव्यम्, `कृत्यच’ इति सिद्धत्वात् । अन्तर्णयतीत्यत्राप्यु`पसर्गा’दिति णत्वं सिद्ध्यति ॥ 64 ॥
“*साक्षात्” ॥ 73 ॥ “*साक्षात्प्रभृतिष्विति*” ।
अभुततद्भावाविषयाणामेव यथा स्याद् यदा तु
साक्षाद्भूता रूपान्तरेण क्रियन्ते तदा मा भूदित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-43.
“*लवणीकृत्येति” । अत्र हि परत्वादनेन विभाषा प्राप्नोति । नित्या च गतिसंज्ञेष्यते ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-44.
“*पूर्वेणेति” । पुनःप्रसङ्गविज्ञानादिति भावः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-45.
“*च्व्यन्तस्य मा भूदिति” । एकदेशविकृतस्यानन्यात्वात् प्राप्नोति ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-46.
“*त्रैशब्द्यमिति” । त्रय एव शब्दास्त्रैशब्द्यम् । लवणं कृत्वा लवणंकृत्य लवणीकृत्येति ॥ 73 ॥
“*ते प्राग्धातोः” ॥ 79 ॥ “*किमिदमिति*” । नियमद्वयसंभवात्प्रश्नः । तत्र यदा प्रयोगनियमस्तदा त इत्यनेन लब्धगत्युपसर्गसंज्ञाः परामृश्यन्ते । यदा तु संज्ञानियमस्तदा प्रादय उपनिषत्पर्यन्ताः स्वरूपेणैव प्रत्यवमृश्यन्ते संज्ञाया अनिष्पादात् । अनेनैकवाक्यतामापन्नेः पूर्वसूत्रेस्तस्याविधानात् ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-48.
“*अनुकरणस्येति” । `अनुकरणं चानितिपर’मित्यत्रैतह्याख्यातम् ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-49.
“*संज्ञानियमे सिद्धमिति” । अनितिपरमिति न वक्तव्यम् । अनेनैव नियमेन स्वाडिति कृत्वेत्यत्र संज्ञानिरासस्य सिद्धत्वात् । उत्तरं च सूत्रद्वयं न कर्तव्यं भवति । परव्यवहितानां गत्युपसर्गसंज्ञयेर्निवारणान्न तु प्रयोगस्येत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-50.
“*अस्त्विति” । लाघवादस्यैव पक्ष्यस्य युक्तत्वात् ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-51.
“*उभयोरिति” । भाषायां परव्यवहितप्रयोगो न दृश्यते, तत्र किं प्रयोगनियमेन वा संज्ञानियमेन वा । यत्र हि लोके संकीर्णः प्रयोगो यथा गौर्गावीति तत्रासाधुपरिहाराय साध्वनुज्ञानं कर्तव्यम् । न त्वसंकीर्ण एव प्रयोगे स्थिते शास्त्रस्य किंचिदस्ति प्रयोजनम् । छन्दसि तु परव्यवहितप्रयोगो दृश्यत एव ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-52.
“*उपसर्जनसन्निपात इति” । यद्यपि लोके विपरीतः प्रयोगो न दृश्यते, तथापि कूलमुद्गुजमित्यादौ द्वयोरप्युपपदत्वात्समासे कृते `उपसर्जनं पूर्व’मिति शास्त्रदर्शनात्पर्यायेण पूर्वनिपातेन भाव्यं कूलमुद्गुज उल्कूलंरूज इत्येवं यो भ्राम्येत्तं प्रतीदं सूत्रं कर्तव्यमित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-53.
“*सुकटंकराणिति” । सुखेन कटाः क्रियन्त इति `कर्तृकर्मणोश्च भूकृञो’रिति खल् ।
तत्रास्यान्नियमात्कटंसुकराणीति प्राप्नोति ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-54.
“*अस्त्वत्रेति” । शास्त्रेभ प्राप्नोतु प्रतिषेधात्तु नैव प्रयुज्यत इत्यर्थः ॥ स्वित्करणादव्ययस्यापि भवत्विति चेत् । नैतदस्ति । `अन्वययस्ये’ति निषेधस्य प्रत्यक्षत्वाद्बाधितुमशक्यत्वात् । प्रयोगनियमस्यान्यत्र सावकाशत्वाद्बाधेपि न काचित्क्षतिः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-55.
“*स्यादेवेति” । कटंसुकराणीत्येवमपि प्रयोगे स्यधेव मुमित्यर्थः ॥ 79 ॥
“*कर्मप्रवचनीयाः” ॥ 82 ॥ “*किमर्थमिति*” । लाघवार्थत्वात्संज्ञाकरणस्य लाघवप्रकर्षाय एकाक्षराह्यक्षरा वा संज्ञा कार्येति भावः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-57.
“*अन्वर्थसंज्ञेति” । अर्थमनुगता अर्थेन वा अनुगता अङ्गीकृतप्रवृत्तिनिमित्ता या संज्ञा साऽन्वर्थसंज्ञा ॥ “*कर्म प्रोक्तवन्त इति*” । प्रयुज्यमाने क्रियापदे क्रियाविशेषं द्योतितवन्त इत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-58.
“*क्रियां नाहुरिति” । क्रियागतं विशेषं न द्योतयन्तीत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-59.
“*ये अप्रयुज्यमानस्य क्रियामाहुरिति” । शाकल्यस्य संहितामनु प्रावर्षदिति वाक्येऽप्रयुज्यमानस्य निशमेर्या क्रिया तत्कृतो वर्षसंहितयोर्हेतुमद्भावलक्षणः संबन्ध इत्ययमर्थोऽनुशब्दसन्निधौ प्रतीयते । तदयमनुः संहितामिति द्वितीययाभिहितं संबन्धमवच्छिनत्ति ।
विशिष्टक्रियाभिजनितत्वेन हेतुहेतुम्द्भावलक्षणविशेषरूपतया वा तत्सन्निधौ संबन्धस्य संप्रत्ययात् । तथा हि-क्रियायास्तावदयं न वाचकः, कारकविभक्तिप्रसङ्गात् । शेषविभक्तिसंबन्धस्याप्रतीतिप्रसङ्गाच्च । अत एव क्रियापदाक्षेपकः । यथा प्रादेशं विपरिलिखतीतिविशब्दो विमान क्रियाया आक्षेपक इति प्रादेशमिति कर्मणि द्वितीया । क्रियाविशेषद्योतकत्वमपि क्रियापदसन्निधाने दृष्टमिति अत्र न संभवतीति पारिशेष्यात्संबन्धावच्छेदहेतुरनुः संपद्यते । तथा चोक्तं हरिणा-
“*क्रियाया द्योतको नायं संबन्धस्य न वाचकः ।
नापि क्रियापदाक्षेपि संबन्धस्य तु भेदकः ॥*”
इति । तत्र `क्रियामाहु’रिति क्रियाशब्देन तदुपजनित संबन्धविशेष उपचारादुच्यते ॥ “*आहु’रित्यस्यापि द्योतयन्तीत्ययम्र्थः ॥
क्वचित्तु प्रवृत्तिनिमित्ताभावेपि वचनसामर्थ्यादियं संज्ञा प्रवर्तते ।
यथा `सुः पूजाया’मिति षत्वादिनिवृत्तये गत्युपसर्गसंज्ञाबाधनार्था ॥ 82 ॥
“*अनुर्ल” ॥ 83 ॥ “*किमर्थमिति*” । `लक्षणेत्थंभूताख्याने’त्यनेनैव सिद्धत्वादिति प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-61.
इतरः शिष्यबुद्धिपरिक्षार्थं जात्युत्तरं ददाति-`कर्मप्रवचनीयसंज्ञेति ॥ “*निधात इति” । निपातत्वादाद्युदात्तोत्रानुरिष्यते ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-62.
“*नात्र वेरिति” । नहि प्रादेशो लिख्यते । “*किं तर्हीति*” । धातुं प्रतीति वाक्यशेषः । प्रादेशे च योग्या क्रिया वेराक्षेप्येति सामर्थ्याद्विमानक्रियाया आक्षेपः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-63.
“*शाकल्येन सुकृतामिति” । अत्र वाक्ये या निशमनक्रिया तत्कृतो वर्षसंहितयोः संबन्धावाच्छेदोऽनुना प्रतिपाद्यत इति नास्ति वर्षक्रियायोगोनोरित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-64.
“*अनुर्लक्षण इति*” । सूत्रानुकरणमेतत् ॥ “*सामान्यकृतत्वादिति*” । सामान्यं साधारणं यत्सूत्रमर्थान्तरसंज्ञ्यन्तरनिर्देशात् । तेनैव कृतत्वात्सिद्धत्वादित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-65.
“*हेत्वर्थमिति” । हेतुरर्थः प्रयोजनम्-प्रयोजक एतस्य वचनस्येत्यर्थः ॥ “*हेतुरिति*” । अन्वयव्यतिरेकाभ्यां वर्ष प्रति संहितायाः कारणत्वावागमादित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-66.
“*किं वक्तव्यमिति” । हेतोर्लक्षणत्वं नास्तीति किं परिभाषितव्यमिति पृच्छति ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-67.
“*येन पुनः पुनरिति” । पौनःपुन्येन साहचर्यावगमे लक्ष्यलक्ष्यणभावोभवतीति भावः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-68.
“*अथेदानीमिति” । येनोक्तं `स तर्हि तथे’ति, स एव सन्दिहानः पृच्छति ॥ “*व्याप्त इति*” । हेतुविषयत्वाल्लक्षणस्य तेन हेतुर्व्याप्तो भवति ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-69.
“*लक्षणेनेति” । सिद्धन्तवादी ॥ “*तदपिलक्षणमिति*” । कार्योत्पत्तिनिमित्तमपि तद्विशेषावगमहेतुत्वाल्लक्षणं भवतीत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-70.
“*परत्वादिति” । `येन नाप्रा’प्तिन्यायेन “*कर्मप्रवचनीययुक्ते द्वितीया*” षष्ठ्या एव बाधिका । तां तु परत्वात्तृतीया बाधेत । पुनःसंज्ञाविधाने तु स्थानान्तरप्राप्त्या द्वितीया हेतुतृतीयां बाधते ॥ 83 ॥
“*आङ् मर्या” ॥ 88 ॥ “*आङ् मर्यादाभीति*” । अन्यत्र मर्यादाभिविध्योर्भेदेन निर्देशदर्शनाद् विनातेनेति `मर्यादा’, सह तेन्त्त्यभिविधिरित्यर्थभेदं मत्वा वार्तिकं पठति ॥”*आकुमारमिति*” । कुमारानपि यशः प्राप्तमित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-72.
“*मर्यादावचन इत्येवेति” । वचनग्रहणस्येदं प्रयोजनमवान्तरभेदपरिहारेण परिच्छेदहेतुमात्रं मर्यादा यथा गृह्यते ॥ 88 ॥
“*लक्षणेत्थम्” ॥ 89 ॥ “*कस्येति*” । किं यथा विभक्तिसमीपादयोऽव्ययार्थास्ताथा लक्षणादयः प्रत्यादीनाम् ॥ अथ पदान्तरवाच्याः सन्तो विषयभावेन संज्ञायाः प्रत्यादीनां वा निर्दिष्टा इति प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-74.
“*वृक्षादीनामिति” । वृक्षं प्रति विद्योतते विद्युदिति वृक्षो विद्योतनस्य लक्षणम् । प्रत्यादयस्तु प्राप्तिक्रियाजनितसंबन्धविशेषावच्छेदहेतवः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-75.
“*किमर्थमिति” । वृक्षं वृक्षं प्रति सिच्चतीत्यत्र कर्मत्वाद् द्वितीया सिद्धेति तद्विधानार्थं तावदिदं न भवति । प्रत्यादीनां च क्रियाविशेषानवद्योतनात् क्रियायोगाभावाद्ग्रत्युपसर्गसंज्ञाबाधनार्थमपि नोपयुज्यत इति प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-76.
“*वृक्षं प्रतीति” । अकर्मकत्वाद् द्युतोः कर्मणि द्वितीया नास्ति ॥ 89 ॥
“*अधिपरी” ॥ 92 ॥ “*किमर्थमिति*” । अनवर्थकयोः क्रियायोगाभावात्संज्ञान्तरबाधानार्थं संज्ञाविधानं नोपयुज्यते । नापि परीयोगे पञ्चमीविधानार्थम् । अपेन साहचर्याद्वर्जनविषयपरियोगे तस्या विधानात् अप्धानसद्भावे चाधिशब्दस्य प्रयोग इव परियोगे तन्निमित्तायाः पञ्चम्याः सिद्धत्वादिति प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-78.
“*अथ वेति” । पूर्वापरितोषेणेदमुच्यते । यस्य शब्दस्य वाच्यं द्योत्यं वा वस्तु न संभवति तस्य वाक्यार्थेऽनुपयोगात् प्रयोगानुपपत्तिः । तस्मादर्थशब्द इह प्रयोजनवाची तेन योर्थोऽनयोर्द्योत्यस्तस्य प्रकरणादिवशात्संप्रत्ययान्निष्प्रयोजनावेतावुच्येते ॥ “*धातुनोक्तामिति*” । प्रकरणादिसामर्थ्यावगतविशेषां धातुनोक्तां क्रियामित्यर्थः ॥ “*आहतुरिति*” । द्योतयत इत्यर्थः ॥ “*तदविशिष्टमिति*” । `तत्’क्रियालक्षणं वस्त्वविशिष्टम् । अधिपरिसन्निधानेप्यनाहितविशेषमित्यर्थः ॥ “*यथेति*” । शङ्खे न्यस्तं क्षीरं शौक्ल्येनाभिन्नं शङ्ख्दित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-79.
“*यद्येवमिति” । दातोर्वाचकत्वात्तस्य प्रयोगं नाक्षिपति तेन विना तयोः प्रयोगासंभवाद् । उपसर्गग्रहणं चादिपर्योरूपलक्षणार्थम् ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-80.
“*उक्तार्थानामपीति” । प्रकरणादिवशादवगतार्थानामपि स्फुटतरावगत्यर्थः प्रयोगो लोके भवति । न चानियमप्रसङ्गः । एषामेव हि गतार्थानां प्रयोगो दृश्यते त एव प्रयोज्यन्ते, न तु वृक्षास्तरूः पादय इति तथा प्रयोगादर्शनात् ॥”*अपूपौ द्वाविति*” । अफुपावित्यत एवावगते द्वित्वे
द्विशब्दस्यापि प्रयोगो लोके दृश्यते । एतदुक्तं भवति-यथा यावशब्दो वाक्यान्तरविषयोऽन्य एव । अन्तश्च यावकशब्दः । यथा च ऋषभशब्दो वृषभशब्द इति च । तथैवागच्छत्यध्यागच्छति पर्यागच्छतीति च । तदत्र विषये धातोरधिपर्योश्च सहाभिधायित्वमङ्गीकर्तव्यम् ॥ 92 ॥
“*अपिः पदार्थ” ॥ 95 ॥ “*इहेति*” । यथाऽपिशब्दस्य कर्मप्रवचनीयसंज्ञायं सत्यां स्यादित्यत्रोपसर्गाश्रयं षत्वं न भवत्येवं सर्पिःशब्दादृवितीया कस्मान्न भवतीति प्रश्नः ॥ इतरो भवत्येवात्रापेः संहेत्याह-`किं च स्यादिति’ ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-82.
“*नेमे इति” । यद्यपिशब्दार्था इमे निर्दिश्येरन्, पदार्थग्रहणमनर्थकं स्यात् । स्वपदर्थाव्यभिचारात् । संभावनादीनां चोपादानमनर्थकं स्यात् तेषामपि पदार्थत्वात् ॥ “*परपदार्था इति*” । `स्या’दित्यादेः परस्य पदस्यामी अर्था इत्यर्थः । तदयमर्थः-`स्या’दित्यादिपदं कतृसामान्यवाच्यपि यदा सामर्थ्यात्कर्तृविशेषे बिन्दौ वर्तते तदा तत्प्रत्यपिः कर्मप्रवचनीयः । सर्पिःशब्दस्तु समुदाय एव वर्तते नावयवे । अत एवावयवोपजनितव्यतिरेके षष्ठी भवति ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-83.
“*अथ वेति” । बिन्दुकर्तृकत्वं क्रियायाः द्योतयितुमपिः प्रयुज्यते इति बिन्दुं प्रति कर्मप्रवचनीयोऽपिः न तु सर्पिः प्रतीति भावः ॥ “*बिन्दोस्तर्हीति*” । तनु यदा बिन्दुशब्दो न प्रयुज्यते तदापिः कर्मप्रवचनीयः । तदुच्यते वृत्तिकारोः-पदान्तरस्याप्रयुज्यमानस्यार्थः पदार्थ इति । न चाप्रयेक्ते द्वितीया विधातुं शक्या । अत्राहुः-पदार्थग्रहणमिहेपलक्षाणार्थमुपात्तं तेन यस्मिन् पदार्थे पदान्तरस्याभिधानशक्तिर्नास्ति तत्रापिः कर्मप्रवचनीयः । ततश्च गतार्थो बिन्दुशब्दो यदा विस्पष्टप्रतिपत्तये प्रयुज्यते तदाप्यपिः कर्मप्रवचनीयसंज्ञो भवति ॥ “*उपपदविभक्तेरिति*” । कारकविभाक्तिरत्र प्रथमा । सर्वत्रैव वाक्येऽवश्यभाव्यं क्रिययाऽन्ततः सत्तया । तत्र बिन्दोः प्रथमं स्यादित्यनेन संबन्धोन्तरङ्गः, पश्चात्तु तदृधाहरकोऽपिशब्देन ॥ 95 ॥
“*अधि” ॥ 96 ॥ “*उक्तमिति*” । वक्ष्यमाणमपि बुध्द्यनिरूपितत्वादुक्तमित्युक्तम् ॥ “*कर्तृनिर्देशश्चेदिति*” ।
यदिश्वरवचनमित्यनेन पदेनश्वरः स्वामी भृत्यनियोगादौ यः कर्ता स निर्दिश्यते तदानेन स्वामिनः सप्तमी विधीयते-अधि ब्रह्मदत्ते पञ्चाला इति ।
तत्राधिकरणत्वादेव सप्तमी सिद्धा । ब्रह्मदत्ते स्थिताः पञ्चाला इत्यर्थावगमात् ॥ पञ्चाला इति च प्रथमा न प्राप्नोति
`कर्मप्रवचनीययुक्ते द्वितीये’ति द्वितीयया बाधितत्वात् ॥
“*स्ववचनादिति*” । अधिब्रह्मदत्ते पञ्चाला इत्यस्याऽन्यथासिद्धत्वाद`धिः स्वे इति वक्तव्यम्’ अधि पञ्चालेषुब्रह्मदत्त इत्यर्थम् । ईश्वरवचनमिति च कर्तृषष्ट्या समासः ।
ईश्वरेण यदुच्यते स्वं तत्र कर्मप्रवचनीययुक्ते सप्तमीति । यदि वा यस्य संबन्धित ईश्वरस्य वचनं सप्तमी । तत्र पञ्चालेष्वासनादिक्रियोपजनिते संबन्धे षष्ठ्यां प्राप्तायां सप्तमी विधीयते । स्वं च प्रत्ययेः कर्मप्रवचनीय संज्ञा न तु स्वामिनमिति स्वामिनः प्रथमैव भवति ॥ 96 ॥’
“*लः परस्मैपदम्” ॥ 98 ॥ `लः’ इत्यादेशापेक्षा षष्टी । लादेशाः परस्मैपदसंज्ञा इत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-86.
“*लादेश इति” । `लस्ये’त्यत्र `परस्मैपदमिति’ वक्तव्यम् । इह तु वचने एकसंज्ञाधिकारात्परस्मैपदसंज्ञा शतृक्वस्वोः सावकाशां पुरुषसंज्ञास्तिङ्क्षु बाधेरन्नित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-87.
“*सिचि वृद्धौ त्विति” । अस्मादेव लिङ्गादेकसंज्ञाधिकारोत्र बाध्यत इति भावः । आत्मनेपदसंज्ञया परस्मैपदसंज्ञाया बाधनं यथा स्यादित्येवमर्थं त्विह प्रकरणेऽनयोः संज्ञयोर्विधानम् । सामान्यापेक्षं च ज्ञापकमित्यात्मनेपदसंज्ञयापि पुरुषसंज्ञानां समावेशो भवति । अन्यथा पुरुष संज्ञाः सावकाशास्तङ्क्षु अनवकाशया आत्मनेपदसंज्ञया बाध्येरन् ॥ 98 ॥
“*तिङ्स्त्रीणि” ॥ 100 ॥ तिङा षट् त्रिकाः संज्ञास्तिस्त्र इति वैषम्याद्यथासंख्यं न प्राप्नोतीति मत्वाह-‘प्रथमेति’ । आत्मनेपदग्रहणे च पृथक् क्रियमाणे सूत्रं परस्मैपदविषयमेव भवतीति वाक्यभेदादेकेन वाक्येव परस्मैपदानां त्रयाणां तिस्त्रः संज्ञा द्वितीयेनात्मनेपदानामिति सिद्धामिष्टम् ॥ “*वैषम्यादिति” । यद्यप्येकैकस्य त्रिकस्यानेकसंज्ञाकरणे प्रयोजनाभावः तथापि कस्यचिन्त्रिकस्य काचित्संज्ञेत्येतावल्लभ्येत न तु यथाभिमतविषयविभागलाभः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-89.
“*आनुपूर्व्यवचनं चेति” । अत्र सूत्रे त्रिकाणामुच्चारणं नास्ति, केवलं त्रीणित्रीणीति वीप्सया प्रतिपत्तिस्तेषाम् । तत्रानियमप्रसङ्गे नियमार्थमानुपूर्यग्रहणं च कर्तव्यमित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-90.
“*एकशेषनिर्देशादिति” । आकृत्यभिधानाश्रयेण प्रत्याख्यातं सूत्रं शास्त्रप्रक्रियासंपत्त्यर्थमेव सम्पद्यते ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-91.
“*अथेतस्मिन्निति” । उभयथा संभवात्प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-92.
“*प्रथममध्यमयोरिति” । प्रसिद्धिमाश्रित्यैतदुच्यते ॥ व्याख्यानान्निर्णय इति मत्वाह-`कृतद्वन्द्वानामिति’ ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-93.
“*बहुशक्तिकिटकमिति” । एकशेषे कृते द्वन्द्वः । `जातिरप्रणिना’मित्येकवद्भावः । बहुशब्दश्चात्र वैपुल्यवचन इत्येकवचनम् । समुदायस्य वैपुल्यमवयवानां प्रचयाद्भवति । यदा तु समाहारद्वन्द्वे कृते एकशेषः क्रियते तदा बहूनि शक्तिकिटकानीति भवति ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-94.
“*लोकत इति” । यथा पङ्क्तस्येषु ब्राह्मणेषु द्वौद्वौ ब्राह्मणावानयेत्युक्ते आनुपूर्व्येणानयनं भवति न तु व्युत्क्रमेण तथेहापि भवतीत्यर्थः ॥ “*विहव्यस्येति*” विहव्याख्यस्य सूक्तस्य द्वाभ्यां
द्वाभ्यामग्निरूपस्थेय इत्युक्ते आनुपूर्येणऋग्द्वयं गृह्यते न तु व्युत्क्रमेण ॥ 100 ॥
“*विभक्तिश्च” ॥ 103 ॥ सति प्रयोजने स्वरितत्वप्रतिबद्धे शब्दानामनुवत्त्यनवुवृत्ती भवतः । लिङ्गदर्शनं च पक्षद्वयेप्यास्ति इति संदेहात्प्रश्नः-`त्रीनित्रीनीति’ ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-96.
“*आत्वं न प्राप्नोतीति” । नह्यष्टन्शब्दआत्परं युगपत्रिकमस्ति ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-97.
“*प्रथमयोरिति” । प्रत्येकं संज्ञित्वे विभक्तिसमुदायस्य विभक्तिग्रहणेनाग्रहणात्प्रथमयोरिति समुदायद्वयापेक्षानुपपत्तौ प्रत्यययोरेव द्वयोर्ग्रहणं प्राप्नोतीत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-98.
“*वचनादिति” । त्रिकस्य युगप्रत्ययोगाभावात्सामर्थ्यात्समुदायवृत्तिर्विभक्तिशब्दोऽवयवे वर्तिष्यत इति भावः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-99.
“*न चाजाती इति” । सुशब्दौशब्दौ प्रथमौ सुश्चाजादिर्न भवतीति प्रत्यययोरजादित्वासंभवादवयवशब्दस्त्रिके समुदाये उपचाराद्वर्तत इति भावः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-100.
“*अजादी याविति” । अजादी विशेष्यौ प्रथमयोरिति विशेषणं तेनौजसोरेव ग्रहणमस्त्वित्यर्थः ॥ “*अजादीनां वेति*” । अचीत्यनुवर्तते । तत्र व्याख्यानात्तदादिविधिः । निर्धारणं चाश्रयिष्यते-अजादिषु यौ प्रथमाविति । एवमप्यौजसोरेव ग्रहणं स्यादिति चोद्यम् ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-101.
“*यत्तर्हीति” । एतान् गाः पश्येत्यत्र नत्वनिवृत्त्यर्थं तस्मादित्युच्यते । औजसोरेव ग्रहणेऽनन्तरात् पूर्वसवर्णदीर्घदुत्तरः शसः सकारो न भवतीति किं तस्मादित्यनेन । तत्क्रियमाणं त्रिकद्वयग्रहणस्य ज्ञापकं सम्पद्यते ॥ 103 ॥
“*युष्म” ॥ 104 ॥ “*किमर्थमिति*” । किं लादेशविधानवक्येनैकवाक्यत्वाद्विध्यर्थमिदम् । अथ विहितेषु लादेशेषुनियमार्थमिदमिति प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-103.
तत्रैकवाक्यतापक्षे इतरेतराश्रयपरिहाराय भाविनी संज्ञाश्रयितव्येति प्रतिपत्तिलाघवार्थं वाक्यभेदेन नियमपक्षं दर्शायितुमाह-”*युष्मदस्यदिति*” ।
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-102.
“*किमयमिति” । ननु प्रत्ययस्य प्राधान्यात्तन्नियम एव युक्तः । नैष दोषः । समुदायस्य संचिस्कीर्षितत्वात् प्राधान्यं तदङ्गत्वात्तु प्रत्ययोपपदयोर्द्वयोरप्यप्राधान्यमित्युभयोरपि नियम आशङ्क्यते ॥ “*युष्मदि मध्यम एवेति*” । तुल्यजातीयव्यावृत्तेर्नियमफलत्वादुत्तमप्रथमौ निवार्येते न तृजादयः । तृजादिविधिसामर्थ्याद्वा नास्ति तेषां निवारणम् ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-105.
“*यत्र प्रथमश्चेति” । युष्मदि मध्यम एव, अस्मद्युत्तम् एवेति युष्मदस्मदोर्नियतत्वात् तयोः पुरुषान्तरं न भवति । मध्यमोत्तमयोस्त्वनियतत्वात् शेषेपि तत्प्रसङ्गे `प्रथम’इति सूत्रमारभ्यमाणं सिद्धे प्रथमे मध्यमोत्तमयोर्निवारणाय नियमार्थं संपद्यते प्रथम एव भवति न मध्यमोत्तमाविति । यथा `समे देशे यजेते’ति पाक्षिक्यां प्राप्तौ नियमः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-106.
“*तत्रेति” । उभयथा नियमे इत्यर्थः ॥ “*शेषत्वादिति*” । यत्र केवले युष्मदस्मदी स एवाशेषस्तत्र मा भूत् प्रथमः । यत्र त्वन्यसहिते ते स्तः तत्र समुदायस्य युष्मदस्मद्वहनेनाग्रहणाच्छेषत्वमेवेति प्रथमप्रतिषेधो वक्तव्यः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-107.
स एवाह-”*सिद्धम् त्विति” । यत्र शेषे युष्मदस्मदी स्तस्तत्र शेषे प्रथमो नेति वक्तव्यमित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-108.
चोदक आह-”*स तर्हीति*” ।
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-109.
आचार्यदेशीय आह-”*न वक्तव्य इति*” ॥ “*अस्मदः शेष इति*” । आवां पचाव इति ॥
“*तत्रास्मद्युत्तम इति*” । ननु शिष्यमाणस्यास्मदो ह्यर्थत्वादप्रयुज्यमानेपि युष्मदि तदर्थगतौ मध्यमविधानात् तस्याप्यत्र प्रसङ्ग इति विप्रतिषेध एवाश्रयितव्यः । अत्राहुः-युष्मदर्थे साहचर्याद्यदास्मद्रपत्वमारोप्यते तदा भेधाभावात् पृथग्युष्मदर्थाभावाद् अस्मदुपपदनिमित्तः सिद्ध उत्तम एवेत्यदोषः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-110.
चोदकस्त्वाह-”*अनेकशेषभावार्थे त्विति*” त्वं चाहं च पचाव इत्यत्र प्रयोगे ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-111.
आचार्यदिशीय आह- “*नवेति*” । सहविवक्षाया अभावे यथा युप्मदस्मदोरेकशेषाभावः । एवं तदधिकरणयोरपि क्रिययोर्भेदस्य विवक्षितत्वादाख्यातयोरप्येकशेषाभावे पचसि पचमि चेति पृथगेव प्रयोगान्नार्थे विप्रतिषेधेनेत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-112.
एतदेव समर्थयितुमाह-”*क्रियापृथक्त्वइति*” । यथा क्रियापृथक्त्वे सति द्रव्यपृथकत्वं न तु सहविवक्षा एवं द्रव्यपृथक्तेवेपि क्रियापृथकत्वेन भाव्यंपरस्परसाहचर्याव्यभिचारात् ॥ “*एवं च कृत्वेति*” । द्रव्यपृथक्त्वे सति क्रियापृतक्त्वादित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-113.
इदानीमाचार्य आह-”*यत्तावदिति*” । एकशेषफलत्वादेकशेष इत्युच्यते । न तु `प्रथममध्यमोत्तमानामेकशेषोऽसरूपत्वा’दिति वाचनिक एकशेषः । एवं ह्येकशेषे आश्रीयमाणे नार्थो विप्रतिषेधेन । तस्मात्कारकभेदेपि क्रियाया अभेदादेक एव धातुः प्रयुज्यते । तस्माच्च परो लकार एवानेकार्थाभिधायी विरोधाभावात् । तत्र अद्वयप्रसङ्गे योक्तो विप्रतिषेधः ॥ “*अक्षा इति*” । शकटाक्षविभीतकाक्षदेवनाक्षाणांसहविवक्षायामेकशेषः । तत्रावयवक्रियायाः समुदाये आरोपाद्भज्यन्तामित्यादि बहुवचनं सामानाधिकरण्यं चोपपद्यते । यथा द्रव्यौकशेषेपि क्रियापृथक्त्वमेवं द्रव्यपृथकत्वेपि क्रियैकशेष इत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-114.
“*नहि शेषश्चान्यश्चेति” । उपयुक्तादन्यः शेषः । युष्मदस्मदोश्चोपयुक्तयोः सद्भावान्नास्ति शेषत्वम् ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-115.
इतर एतत्सामर्थ्यमविदित्वाह-”*भवेदिति*” ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-116.
इतर आह-”*यदन्नेति*” । तत्सन्निधौ सेषत्वाभावात्तन्निबन्धनमेव कार्यंभवतीत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-117.
इतर शेषपदार्थमविद्वानाह-”*यथैवेति*” ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-118.
एतद्विचारणीयमप्युपेक्ष्योपपदार्थं वर्णयितुमाह-”*एवं तर्हीति*” ॥ “*यच्चात्रेति*” । युश्मदस्मदोः श्रवणात्तदभावे च शेषसद्भावात् ॥ “*यश्च शेष इति*” । देवदत्तश्चेति ॥ “*न तदिति*” । नहि तस्यैव साधनत्वं किं तर्हि युष्मदस्मदर्थयोरपि ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-119.
“*न चात्र शेषेणैवेति*” । किं तर्हि युष्मदस्मदर्थेनापि, तद्भावाच्च शेषत्वाभाव इत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-120.
“*एवं तर्हीति” । यद्यप्यनेकशेषे दोष उपक्रान्तस्तथाप्येकशेषेपि दूषणार्थोयमुपक्रमः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-121.
“*स्थानिन्यपीति” । अप्रयुज्यमाने प्रयुज्यमाने च शेषे प्रथमविधानात् ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-122.
दोषान्तरमप्याह-”*त्यदादीनामिति*” ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-123.
एतदपरिहार्यं मन्यमानो लब्धेच्छोन्यदप्याह-”*युष्मदीति*” ॥ “*परमत्वमिति*” ॥ युष्मद्यद्मदीति विशिष्टरूपपरिग्रहादस्य च शब्दान्तरत्वात् ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-124.
अचार्यदेशीय आह-”*तदन्तविधिनेति*” । युष्मदस्मदोरूपपदस्य विशेषणत्वात्तदन्तविधिः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-125.
चोदको दोषमाह-`इहापीति’ । “*अतित्वमिति*” । त्वामतिक्रान्त इति समासः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-126.
एवं तदन्तविधावतिव्याप्तिमुक्त्वाऽव्याप्तिमाह-`ये चाप्येते इति’ । “*त्वत्कल्प इति*” । ईषदसमाप्तस्त्वं त्वत्कल्प इति कालान्तरप्रसिद्धगुणरहितो युष्मदर्थ एव त्वत्कल्पशबेनोच्यते । न तु तत्सदृशं पदार्थान्तरम् । तदभिधाने युष्मदर्थस्य साधनत्वाभावाद् मध्यमाभावात् । एवं मत्कल्प इति बोद्धव्यम् ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-127.
अचार्यदेशीय आह-”*एवं तर्हीति*” । सौत्रत्वानिर्देशस्य मतुब्लोपोऽभिधास्यते इति भावः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-128.
आचार्य आह-”*एवं तर्हीति*” । समानाधिकरणे इति वचनाद्युष्मदस्मदर्थेन यत्र लान्तस्य सामानाधिकरण्यं तत्र मध्यमोत्तमाभ्यां भवतिव्यमिति नास्ति कश्विद्दोषः ॥ “*एवं च कृत्वेति*” । युष्मदस्मदर्थस्य साधनत्वाच्छेषत्वाभावः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-129.
“*अथ वेति*” ॥ `प्रथम’ इत्येतावत्सूत्रं क्रियते । अनाश्रितविषयविशेषः प्रथमो विधीयमान उत्सर्गो भवति । तस्य विषयविशेषे विधीयमानौ मध्यमोत्तमावपवादौ भवतः । तत्रापवादनिमित्तस्द्भावाह्यामिस्रेपि विषये मध्यमोत्तमावेव भविष्यतः, न तु प्रथम इत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-130.
“*अत्वं त्वमिति*” । प्रकृतिविकृत्योरभेदविवक्षायां च्विप्रत्ययः तत्र किं प्रकृत्याश्रयेण प्रथमेन भाव्यमथविकृत्याश्रयेण मध्यमेनेति प्रश्नः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-131.
उत्तोत्तरम्-`त्वद्भवतीति’ । प्रकृतेरेव विकाररूपेण संपत्तौ कर्तृत्वमिति भावः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-132.
“*मध्यमोत्तमौ कस्मादिति” । यथा प्रकृतिस्तद्धर्मसमाचाराद्युष्मदस्मह्यपदेशं लभते तथा मध्यमोत्तमावपि प्राप्नुतः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-133.
“*गौणमुख्ययोरिति*” । तद्धर्मसमाचारादारोपितमत्र युष्मदर्थरूपत्वमिति भावः ॥ शिष्टं भाष्यम् “*ओत्*” इत्यत्र व्याख्यातम् । तत एवावधार्यताम् ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-134.
यदुक्तं `भवतः शेष’इति तत्रोत्तरमाहुः-युष्मदस्मद्भवतु इत्येवं न संनिवेश आश्रणीयः । [किं तु भवतु युष्मदस्मदिति । ] ततश्चास्मद एव शेषो न तु भवतः । `पूर्वशेषदर्शनाच्चे’ति वचनाद्वा ॥ 104 ॥ 106 ॥ 107 ॥
“*परः सं” ॥ 108 । पूर्ववर्णोच्चारणानतरमेव यद्वर्णान्तरमुच्चार्यते न तु तच्छून्यान्तरालसद्भावः स पर उत्कृष्टः सन्निकर्षः प्रत्यासत्तिलक्षणः संहितासंज्ञा इति सूत्रार्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-136.
एवं स्थिते चोद्यते -`पर इति’ । द्रुतायामेव वृत्तावनन्तरोक्तः परः सन्निकर्षः संभवति न तु मध्यमायां विलम्बितायां चेत्यर्थः ॥
“*असंहितमिति*” । संहितासंज्ञाया अभाव इत्यर्थाभावेऽव्ययीभावः
। अविद्यमाना वा संहिता अस्मिन्नितिबहुव्रीहिः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-137.
“*द्रुतमध्यमविलम्बितास्विति” । द्रुता च मध्यमा च विलम्बिता चेति द्वन्द्वे कृते भाष्यकारवचनप्रामाण्याद्ग्रस्वः । सर्वासु वृत्तिषु तुल्यः सन्निकर्षः नैरन्तर्योच्चारणात् ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-138.
“*विशेष इति” । वृत्तीनामिति शेषः । क्वचिदृत्तिविशेष इत्येव पाठः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-139.
“*वर्णानां त्विति” । वर्णोपलब्धिकालभेदाद्वर्णकालभूयस्त्वमुच्यते । द्गुतायां स्वल्प उपलब्धिकालः । मध्यमायामधिकः । विलम्बितायामधिकतरः । प्राकृतवैकृतभेदाद्भिन्ना द्वनयः । तत्र वैकृतध्वनिवशात्तस्यैव वर्णस्य पुनः पुनरूपलब्धिर्भवतीति ध्वनिभेदादृत्तिभेदः ॥ “*किंकृत*” । इति कारणे ष्टष्टे `वर्णकालभूयस्त्वं त्वि’ति सामर्थ्यात्कारणमेवोक्तं भवतीति ॥ “*हस्तिमशकयोरिति*” । हस्तिनो हस्तिना यः सन्निकर्षः, मशकस्य मशकेन, स तुल्यः परस्परापेक्षयेत्यर्थः ॥ “*प्रणिभूयस्त्वमिति*” । हस्तिनौ महान्तं देशं व्याप्नुतो मशकौ तु स्वल्पम्। नैरन्तर्य त्वविशिष्टमित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-140.
वर्णानां व्यञ्ज्कध्वनिकृतं यथेक्तं भेदमप्रतिपद्यमानः स्वगतमेव भेदं मत्वा चोदयति-`यद्येवमिति’ ॥ शिष्टं भाष्यं `तपरस्तत्कालस्ये’त्यत्र व्याख्यातं तत एवावधार्यताम् ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-141.
“*शब्दाविराम इति” । यदा प्रयोक्ता शब्दोच्चारणात्र विरमति तदा शब्दाविरामः । स च मध्यमविलम्बितयोरपि परसन्निकर्षाभावेप्यस्तीति सिद्धा संहितासंज्ञा ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-142.
“*शब्दाव्रामे प्रतिवर्णमिति” ।
भिन्नप्रयत्नजनितध्वनिव्यङ्ग्यत्वाद्वर्णानां प्रतिवर्ण प्रयत्नभेदादेकप्रयत्नाविच्छेदाभावात् प्रथमप्रयत्नोच्चारितवर्णानन्तरं
प्रयत्नान्तरेणवर्णान्तरोच्चारणादेकैकस्य वर्णस्य विरामसद्भावादवसानसंज्ञा प्राप्नोति ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-143.
“*अवसानसंज्ञामिति*” । वर्णान्तरानुच्चारणे वृक्ष इत्यादौ सावकाशामिति भावः । तेन सर्वथा वर्णाणं यो विरमः सोऽवसानसंज्ञो न तु जान्तरीयक इत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-144.
“*अथ वेति” । सर्वत्र विरामसद्भावात्पुनःश्रुत्या विशेष आश्रीयते ॥ “*शब्दार्थयोरिति*” । अन्यत्र तु सत्यपि शब्दविरामे पदार्थस्य वाक्यार्थस्य वाऽविरामान्न भवत्यवसानसंज्ञा ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-145.
“*हादाविराम इति” । प्रयत्नविशेषजनितो वर्णाविरामेऽप्यनुणनरूपो वर्णान्तरोच्चारणेप्यनुवर्तमानो घोषोन्हाद उच्यते ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-146.
“*स्पर्शाघोपसंयोग इति” । वर्ग्याणां प्रथमद्वितीयानां शषसानां च संयोगे घोषविविच्छैदादसन्निधानात्संहितासंज्ञाया अप्राप्तिरित्यर्थः ॥ “*उघोषसंयोग*” इत्येव सिद्धत्वात् स्पर्शग्रहणमनर्थकम् अस्पर्शानामप्यघोषाणां शस्सानाआं संयोगे तुल्यन्यायत्वात् संज्ञाया अप्रसङ्गात् । न च स्पर्शानाम् अघोषाणां चेति समुच्चयः। घोषवतां स्पर्षानां संयोगे दोषप्रसङ्गात् ॥ “*किक्कुट इति*” । कुक्कुट इवायमिति कनो `लुम्यनुष्ये’ इति लुपि कृते `संज्ञायामुपमान’मिद्याद्युदात्तत्वं शिष्टमनुदात्तं ततः संहितायां विधीयमानमुदात्तादनुदात्तस्य स्वरितत्वं न स्यात् ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-147.
“*पचतीति” । अत्रापि चकारस्याघोषत्वादकारोच्चारणे घोषविच्छेदात् स्वरितत्वाप्रसङ्गः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-148.
“*हादेनेति” । द्वयोरकारयोर्घोषवतोर्मध्ये चकारो घोषवानिव लक्ष्यत इत्यर्थः । आश्रयान्तरगतोपि गुण आश्रयान्तर उपलभ्यत इति दृष्ठान्तेन दर्शयति-`द्वयोरिति’ ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-149.
“*एकेनेति” । अनेकस्य यः सन्निकर्षः स एकेन तुल्यः । यथैकोऽतगुणोपि तद्गुणवस्त्वन्तरसन्निधौ तद्गुण उपलभ्यते तथाऽनेकोपि स्फटिकादिरर्थ इत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-150.
“*अथ वेति” । वर्णान्तरोच्चारणकालादन्येन वर्णशून्येन कालेनाव्यवहितं पौर्वापर्यं संहितेति लक्षणं क्रियते । तेन मध्यमविलम्बितयोः परमसन्निकर्षाभावेपि संहितासंज्ञा सिध्द्यति ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-151.
“*पूर्वापराभावादिति” । युगपत्स्थितानां देशकृतं पौर्वापर्यं दृश्टम् ॥ वर्णास्त्वेकेकश उपलभ्यमाना यौगपद्येनासन्निधानात्कथं पौर्वापर्यमश्गुवीरन् ॥ “*एकवर्णवर्तित्वादिति” । सामान्येनोपक्रमात् स्त्रीप्रत्ययाभावः ॥ “*उच्चरितेति*” ।क्रमोत्पन्ना अपि वर्णा यद्यवतिष्ठेरंस्तदा स्यात् पूर्वापरव्यपदेशो ज्येष्ठमध्यमकनिष्ठव्यपदेशवत् । अनवस्थानात्तु नास्तितात्त्विकः पूर्वापरभाव इत्यर्थः । व्यङ्जकध्वन्यपेक्षया चैतदुक्तम् । ध्वनिस्फोटभेदस्त्वन्यत्र निर्णातत्वान्नेहोपन्यस्यते॥ “*नद्वौयुगपदिति*” युगपद् द्वयोरुच्चारणे स्यादेवाव्यवधानम् कालेन पौर्वापर्यं तु मा भूदित्यर्थः ॥ “*वागिति*” । वागिन्द्रियमित्यर्थः । एतेन युगपदनवस्थानात् सन्निकर्षोप्याक्षिप्त इति विज्ञेयम् ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-152.
“*एवं तर्हीति” । बुद्धिप्रकल्पितः सर्वः पौर्वापर्यसन्निकर्षादिव्यवहार इत्यर्थः ॥ धीरः पण्डितः ॥ “*तत्वन्नीतिरिति*” । तननं तत् सास्ति यस्याः सातत्वती सकलविषयव्यापिनी नीत्र्बुद्धिर्यस्य स तत्त्वन्नीतिरिति । अन्ये तु `तन्वन्नीति’रिति पठन्ति । तन्वती विषयान् व्याप्नुवती बुद्धिर्यस्येति स एवार्थः ॥ 108 ॥
“*विरामः” ॥ 109 ॥”*इदं विचार्यत इति*” । विचरति नाना गच्छति यद्वस्तु तद्विचार्यते परीक्ष्यत इत्यर्थः ॥ “*उभवो वेति*” । केचिद्-`उभावोऽवसान’मिति पठन्ति, अन्ये तु `विरामोऽवसान’मिति । तत्र युक्तायुक्तविचारः किर्यते ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-154.
“*उपरिति” । वर्णाच्चारणादूर्ध्वं योऽभावः तदुपलक्षितो वर्णोऽवसानमिति वक्तव्यं प्रागभावस्योपलक्षणत्वनिवृत्तर्थम् ॥ “*रस इति*” । परवत् पूर्वस्यापि रेफस्याभावविषयत्वाद्विसर्जनीयप्रसङ्गः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-155.
“*विरामे विरामवचनमिति” । अधिकं कर्तव्यमित्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-156.
“*ततोऽवसानं चेति” । अदर्शानमभाव इत्येक एवार्थः । तेन पुनरभावग्रहणं न कर्तव्यमित्यर्थः । तत्र लोपसंज्ञायामभावः संज्ङित्वेनाश्रीयते, अवसानसंज्ञायां तूपलक्षणत्वेन । तेन वर्णान्तराभावोपलक्षितो वर्णोऽवसानसंज्ञा इत्यर्थः । उत्तरत्र त्वभावस्यैव लोपावसानसंज्ञे व्याख्यास्येते । अस्मिन् पक्षे `स्वरवसानयो’रिति षष्टी । स्वरः समीपस्य रेफस्यावसानस्य च रेफस्येत्यर्थः । अथवैकापि सप्तमी विषयभेदाद्विद्यते-स्वरि परतो रेफस्य विसर्जनीयोऽवसाने च रेफे स्थानिनि विसर्जनीय इत्यादेशस्य विषयत्वेन स्थानी विवक्ष्यते ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-157.
“*ममापीति” । अभावो विराम इति पर्यायत्वं मन्यते ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-158.
“*आरम्भपूर्वक इति” । निवृत्तिर्विरामः, स च प्रवृत्तस्य भवतीति भावः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-159.
“*अवसानलक्षणमिति” । अभावोपलक्षितोवर्णोऽवसानं विरामोपलक्षितो वेति पूर्वं विचारितम् । इदानीं तु तावेव संज्ञित्वेन विचार्येते । अभावो लोप इत्येकस्य संज्ञाद्वयविधानसामर्थ्याद्विषयविभाग
आश्रीयते । प्रसक्ताभावो लोपसंज्ञाः, अभावमात्रमवसानसंज्ञमिति ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-160.
“*नावश्यमिति” । प्रवत्तौ सत्यां या निवृत्तिस्तस्यामित्यर्थः ॥
“*उपरतान्यस्मिन्निति*” । न प्रवृत्त्य निवृत्तानि । किं तर्ही ? ।
पूर्वमेवाप्रवृत्तानीत्यर्थः । नियतविषयत्वाच्चशब्दप्रयोगस्य
शशविषाणमुपरतमिति प्रयोगाभावः ॥ `क्वचिद्वनानी’ति पाठः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-161.
“*भावाविरामभावित्वादिति” । इह शब्दस्य स्वसंबन्धी ह्यभावोऽवसानलक्षणं स्यात्, शब्दान्तरस्य संबन्धी वा । न तावत् स्वसंबन्धी, विरोधात् । नहि यस्य सत्ता तस्य तदानीमेवासत्ता युज्यते । नापि शब्दान्तरसंबन्धी । नहि घटाभावः पटस्याभावो भवति । भावस्य सत्ताया अविच्छेदेन भवत्यवश्यमिति भावाविरामभावी शब्दः । नहि शब्दस्य भवनकाले सत्ता विच्छिद्यते इत्यर्थः ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-162.
“*अपर आहेति” । भावाविरामशब्दयोर्द्वन्द्व इत्यर्थः ॥ इदानीं लक्षणद्वयस्याप्यनुपपत्तिः प्रतिपाद्यते । भावेन सत्तयाऽविरामेण अविच्छेदेन भवतीत्यर्थः । उपाधिरहितस्या भावस्य प्रतीतिर्नास्ति ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-163.
“*तत्पर इति वेति” । इदानीं शब्दान्तराभावपरो वर्णोऽवसानसंज्ञो भवतीति प्रतिपाद्यते अभावेनापि बुद्धिपरिकल्पितं पौर्वापर्यमाश्रीयते ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-164.
“*अथ वेति” । यद्यपि विरामशब्दे करणसाधने आश्रीयमाणेऽयमर्थो लभ्यते, तथापि भावसाधनस्यापि संभवात् करणसाधनत्वं संदिग्धमिति व्यक्तमेव पठितव्यमित्युक्तम् ॥
2.प्रथमाध्याये चतुर्थपादे चतुर्थमाह्निकम्-165.
“*संहितयाधीष्वेति” । यथा पदनैरन्तर्ये संहिताव्यवहारस्तथैकपद्येद्येऽपि वर्णनैरन्तर्ये । अवसानशब्दोपि विधिप्रदेशेषु भावसाधनः करणसाधनो वा आश्रयिष्यते इति नार्थः संज्ञाद्वयविधानेन
तेन विनापीष्टस्य सिद्धत्वात् ॥ 109 ॥
इत्युपाध्यायजैयटात्मजकैयटकृते महाभाष्यप्रदीपे प्रथमस्य
चतुर्थपादे चतुर्थमाह्निकम्
पादोध्यायश्च समाप्तः
]