०३

मतुवसो रु संबुद्धौ छन्दसि ॥ ८.३.१॥

संहितायामिति वर्तते। मत्वन्तस्य वस्वन्तस्य च पदस्य रुरित्ययमादेशो भवति संबुद्धौ परतश्छन्दसि विषये। मत्वन्तस्य तावत्- इन्द्॑र मरुत्व इ॒ह पा॑हि॒ सोम॒म् (तै०सं० १.४.१८.१)। हरिवो मे॒दिनं॑ त्वा (तै०सं० ४.७.१४.४)। मरुतोऽस्य सन्ति, हरयोऽस्य सन्तीति मतुप्। सुतकारयोः हल्ङ्यादिलोपे (६.१.६८) संयोगान्तस्य लोपे (८.२.२३) च कृते नकारस्य रुर्भवति। वस्वन्तस्य खल्वपि-मीढ्व॑स्तो॒काय॒ तन॑याय मृळ (ऋ० २.३३.१४)। इन्द्र साह्वः। क्वसोर्निपातनं ‘दाश्वान्साह्वान्मीढ्वांश्च (६.१.१२) इति। मतुवसोरिति किम्? ब्रह्मन् स्तोष्यामः। संबुद्धाविति किम्? य॑ ए॒वं॑ वि॒द्वा॑न॒ग्नि॑मुप॒ति॑ष्ठ॒ते (मै०सं०१.५.७)। छन्दसीति किम्? हे गोमन्। हे पपिवन्॥ वन उपसंख्यानं कर्तव्यम्॥ यस्त्वा॒यन्तं॒ वसु॑ना प्रातरित्वः(ऋ० १.१२५.२)। इणः प्रातःपूर्वस्य छन्दसि क्वनिप्॥ विभाषा भवद्भगवदघवतामोच्चावस्य॥ छन्दसि भाषायां च भवद् भगवद् अघवद् इत्येतेषां विभाषा रुर्वक्तव्यः, अवशब्दस्य च ओकारादेशः। सामान्येन छन्दसि भाषायां चेदं वचनम्। भवत्-हे भोः, हे भवन्। भगवत्-हे भगोः, हे भगवन्। अघवत्-हे अघोः, हे अघवन्। निपातविज्ञानाद् वा सिद्धम्। अथवा भो इत्येवमादयो निपाता द्रष्टव्याः। असंबुद्धावपि द्विवचनबहुवचनयोरपि दृश्यन्ते। भो देवदत्तयज्ञदत्तौ। भो देवदत्तयज्ञदत्तविष्णुमित्राः। तथा स्त्रियामपि च दृश्यन्ते-भो ब्राह्मणि इत्यादि। संहिताधिकार उत्तरत्रोपयुज्यते, यत्र भिन्नपदस्थौ निमित्तनिमित्तिनौ-‘नश्छव्यप्रशान्’(८.३.७) इति॥

** अत्रानुनासिकः पूर्वस्य तु वा ॥ ८.३.२॥**

अधिकारोऽयम्। इत उत्तरं यस्य स्थाने रुर्विधीयते, ततः पूर्वस्य तु वर्णस्य वानुनासिको भवतीत्येतदधिकृतं वेदितव्यम्, यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र। वक्ष्यति-‘समःसुटि’ (८.३.५)-सँस्स्कर्ता। सँस्स्कर्तुम्। सँस्स्कर्तव्यम्। अत्रग्रहणं रुणा सह संनियोगप्रतिपत्त्यर्थम्। अधिकारपरिमाणापरिग्रहे हि सति ‘ढो ढे लोपः’ (८.३.१३) इत्यत्रापि पूर्वस्यानुनासिक आशङ्क्येत॥

आतोऽटि नित्यम्॥ ८.३.३॥

अटि परतो रोः पूर्वस्याकारस्य स्थाने नित्यमनुनासिकादेशो भवति। ‘दीर्घादटि समानपादे’(८.३.९) इति रुत्वं वक्ष्यति, ततः पूर्वस्यातोऽनुनासिकविकल्पे प्राप्ते नित्यार्थं वचनम्। म॒हाँ अ॑सि (ऋ०३.४६.२)। म॒हाँ इन्द्रो॒ य ओज॑सा (ऋ० ८.६.१)। दे॒वाँ अच्छा॒ दीद्य॑त् (ऋ० ३.१.१)। केचिदनुस्वारमधीयते, सच्छान्दसो व्यत्ययो द्रष्टव्यः। आत इति किम्? ये वा॒ वन॒स्पती॒ँ१रनु॑ (मा०सं० १३.७)। अटीति किम् ? भवांश्चरति। भवांश्छादयति। नित्यग्रहणं विस्पष्टार्थम्॥

अनुनासिकात् परोऽनुस्वारः॥ ८.३.४॥

अन्यशब्दोऽत्राध्याहर्तव्यः। तदपेक्षया चेयमनुनासिकादिति पञ्चमी। अनुनासिकादन्यो यो वर्णो रोः पूर्वः, यस्यानुनासिको न कृतः, ततः परोऽनुस्वार आगमो भवति। वक्ष्यति-‘समःसुटि’ (८.३.५)-संस्स्कर्ता। संस्स्कर्तुम्। संस्स्कर्तव्यम्। ‘पुमः खय्यम्परे’(८.३.६)-पुंस्कामा। ‘नश्छव्यप्रशान्’(८.३.७)-भवांश्चरति। केचित् तु परशब्दमेवान्यार्थं वर्णयन्ति। अनुनासिकात् परोऽनुनासिकादन्योऽनुस्वारो भवति। यस्मिन् पक्षेऽनुनासिको नास्ति, तत्रानुस्वारागमो भवति। स तु कस्यागमो भवति? रोः पूर्वस्यैवेति वर्तते, व्याख्यानादादेशो न भवति॥

समःसुटि ॥ ८.३.५॥

रुर्वर्तते। सम् इत्येतस्य रुर्भवति सुटि परतः संहितायां विषये सँस्स्कर्ता। सँस्स्कर्तुम्। सँस्स्कर्तव्यम्। संस्स्कर्ता। संस्स्कर्तुम्। संस्स्कर्तव्यम्। अत्र रोर्विसर्जनीये कृते ‘वा शरि’ (८.३.३६) इति पक्षे विसर्जनीय एव प्राप्नोति। व्यवस्थितविभाषा द्रष्टव्या। तेनात्र नित्यं सकार एव भवति। अस्मिन्नेव सूत्रे सकारादेशो वा निर्दिश्यते। समः स्सुटीति द्विसकारको निर्देशः। सम इति किम्? उपस्कर्ता। सुटीति किम्? संकृतिः। कश्चिदाह-॥ संपुंकानां सो वक्तव्यः॥ रुविधौ ह्यनिष्टप्रसङ्गः-संस्स्कर्ता, पुंस्कामा, कांस्कानिति॥

पुमः खय्यम्परे ॥ ८.३.६॥

पुमित्येतस्य रुर्भवत्यम्परे खयि परतः। पुँस्कामा, पुंस्कामा। पुँस्पुत्रः, पुंस्पुत्रः। पुँस्फलम्, पुंस्फलम्। पुँश्चली,पुंश्चली। पुंस्कामेत्यत्र विसर्जनीयस्य ‘कुप्वोः** ** क पौ च’ (८.३.३७) इति प्राप्नोति। तस्मादत्र सकार एवादेशो वक्तव्यः। द्विसकारकनिर्देशपक्षे तु पूर्वस्मादेव सूत्रात् स इत्यनुवर्तते। रुत्वं त्वनुवर्तमानमपि नात्राभिसंबध्यते, संबन्धानुवृत्तिस्तस्येति। खयीति किम्? पुंदासः। पुंगवः। अम्पर इति किम्? पुंक्षीरम्। पुंक्षुरम्। परग्रहणं किम्? पुमाख्यः। पुमाचारः॥

नश्छव्यप्रशान् ॥ ८.३.७॥

अम्पर इति वर्तते। नकारान्तस्य पदस्य प्रशान्वर्जितस्य रुर्भवत्यम्परे छवि परतः। भवाँश्छादयति, भवांश्छादयति। भवाँश्चिनोति, भवांश्चिनोति। भवाँष्टीकते, भवांष्टीकते। भवाँस्तरति, भवांस्तरति। छवीति किम्? भवान् करोति। अप्रशानिति किम्? प्रशान् छादयति। प्रशान् चिनोति। अम्पर इत्येव-भवान् त्सरुकः॥

उभयथर्क्षु ॥ ८.३.८॥

पूर्वण नित्ये प्राप्ते विकल्पः क्रियते। नकारान्तस्य पदस्य छवि परतोऽम्पर उभयथा ऋक्षु भवति, रुर्वा नकारो वा । तस्मिंस्त्वा दधाति, तस्मिन्त्वा दधाति। ऋक्ष्विति किम्? ताँस्त्वं खा॑द॒ सुखा॑दितान् (मा०सं० ११.७८)॥

दीर्घादटि समानपादे॥ ८.३.९॥

न इत्यनुवर्तते। दीर्घादुत्तरस्य पदान्तस्य नकारस्य रुर्भवत्यटि परतः तौ चेद् निमित्तनिमित्तिनौ समानपादे भवतः। ऋक्ष्विति प्रकृतत्वाद् ऋक्पाद इह गृह्यते। परि॒धीँरति॒ (ऋ०९.१०७.१९)। दे॒वाँ अच्छा॒ दीद्य॑त् (ऋ० ३.१.१)। म॒हाँ इन्द्रो॒ य ओज॑सा (ऋ० ८.६.१)। दीर्घादिति किम्? अह॒न्नहि॒म् (ऋ०१.३२.१)। अटीति किम्? इभ्यान् क्षत्रियान्। समानपाद इति किम्? यातु॒धाना॒नुप॑स्पृश (ऋ० १०.८७.२)। उभयथेत्येव-आदित्यान् हवामहे॥

ृन् पे ॥ ८.३.१०॥

नृृनित्येतस्य नकारस्य रुर्भवति पशब्दे परतः। अकार उच्चारणार्थः। नृृँः पा॑हि (ऋ० ८.८४.३), नंृृः पाहि। नृृँः प्रीणीहि, नृृंः प्रीणीहि। प इति किम् ? नृृन् भोजयति। उभयथेत्यपि केचिदनुवर्तयन्ति। नृृन् पा॒हि॒ (ऋ० १.१७४.१) इत्यपि यथा स्यात्॥

स्वतवान् पायौ ॥ ८.३.११॥

स्वतवानित्येतस्य नकारस्य रुर्भवति पायुशब्दे परतः। स्वत॑वाँः पा॒युर॑ग्ने (ऋ०४.२.६)॥

कानाम्रेडिते ॥ ८.३.१२॥

कानित्येतस्य नकारस्य रुर्भवति आम्रेडिते परतः। कांस्कानामन्त्रयते। कांस्कान् भोजयति। अस्य कस्कादिषु (८.३.४८) पाठो द्रष्टव्यः। तेन ‘कुप्वोः क पौ च’ (८.३.३७) इति न भवति। ‘समःसुटि’ (८.३.५) इत्यतो वा सकारोऽनुवर्तते, स एवात्र विधीयते। पूर्वेषु योगेषु संबन्धानुवृत्त्यागतस्य रोरत्रानभिसंबन्धः। आम्रेडित इति किम्? कान् कान् पश्यति। एकोऽत्र कुत्सायाम्॥

ढो ढे लोपः ॥ ८.३.१३॥

ढकारस्य ढकारे लोपो भवति। सत्यपि पदाधिकारे तस्यासंभवादपदान्तस्य ढकारस्यायं लोपो विज्ञायते। लीढम्। मीढम्। उपगूढम्। ष्टुत्वस्यात्र सिद्धत्वमाश्रयाद् द्रष्टव्यम्। श्वलिड् ढौकत इत्यत्र तु जश्त्वे कृते कार्यी नास्तीति लोपाभावः। न च ढलोपो जश्त्वापवादो विज्ञातुं शक्यते, तस्य हि लीढादिर्विषयः संभवति। तत्र हि श्रुतिकृतमानन्तर्यमस्ति। शास्त्रकृतं तु यदनानन्तर्यं ष्टुत्वस्यासिद्धत्वेन प्राप्तम्, तत् तु सूत्रकरणसामर्थ्याद् बाध्यते। श्वलिड् ढौकत इत्यत्र तु न श्रुतिकृतमानन्तर्यम्, न शास्त्रकृतमिति अविषयोऽयं ढलोपस्य॥

रो रि ॥ ८.३.१४॥

रेफस्य रेफे परतो लोपो भवति। नीरक्तम्। दूरक्तम्। अग्नी रथः। इन्दू रथः। पुना रक्तं वासः। प्राता राजक्रयः। पदस्येत्यत्र विशेषणे षष्ठी, तेनापदान्तस्यापि रेफस्य लोपो भवति। जर्गृधेरजर्घाः,पास्पर्धेरपास्पा इति॥

खरवसानयोर्विसर्जनीयः॥ ८.३.१५॥

र इति वर्तते। रेफान्तस्य पदस्य खरि परतोऽवसाने च विसर्जनीयादेशो भवति। वृक्षश्छादयति। प्लक्षश्छादयति। वृक्षस्तरति। प्लक्षस्तरति। अवसाने-वृक्षः। प्लक्षः। खरवसानयोरिति किम्? अग्निर्नयति। वायुर्नयति। इह नृकुट्यां भवो नार्कुटः, नृपतेरपत्यं नार्पत्य इति वृद्धेर्बहिरङ्गलक्षणत्वात् तदाश्रयस्य रेफस्य ‘असिद्धं बहिरङ्गम्०’ इत्यसिद्धत्वाद् विसर्जनीयो भवति॥

रोः सुपि ॥ ८.३.१६॥

रु इत्येतस्य रेफस्य सुपि परतो विसर्जनीयादेशो भवति। पयःसु। सर्पिःषु। यशःसु। सुपीति सप्तमीबहुवचनं गृह्यते। सिद्धे सत्यारम्भो नियमार्थः। रोरेव सुपि विसर्जनीयादेशः, नान्यस्य। गीर्षु। धूर्षु॥

भोभगोअघोअपूर्वस्य योऽशि ॥ ८.३.१७॥

भोर् भगोर् अघोर् इत्येवंपूर्वस्यावर्णपूर्वस्य च रो रेफस्य यकारादेशो भवत्यशि परतः। भो अत्र। भगो अत्र। अघो अत्र। भो ददाति। भगो ददाति। अघो ददाति। अवर्णपूर्वस्यक आस्ते, कय् आस्ते। ब्राह्मणा ददति। पुरुषा ददति। भोभगोअघोअपूर्वस्येति किम् ? अग्निरत्र। वायुरत्र। अश्ग्रहणं किम्? वृक्षः। प्लक्षः। नैतदस्ति, ‘संहितायाम्’ (८.२.१०८) इत्यनुवर्तते। तर्ह्यश्ग्रहणमुत्तरार्थम्। ‘ हलि सर्वेषाम्’ (८.३.२२) इत्ययं लोपोऽशि हलि यथा स्यात्। इह मा भूत्-वृक्षं वृश्चतीति वृक्षवृट्, तमाचष्टे यः स वृक्षवयति, वृक्षवयतेरप्रत्ययो वृक्षव् करोति। अथ तत्रैवाश्ग्रहणं कस्माद् न कृतम्? उत्तरार्थम्, ‘मोऽनुस्वारः’ (८.३.२३) इति हल्मात्रे यथा स्यात्। ‘व्योर्लघुप्रयत्नतरः शाकटायनस्य’ (८.३.१८),‘लोपः शाकल्यस्य’ (८.३.१९) इत्येतत् च वृक्षव् करोतीत्यत्र मा भूदित्यश्ग्रहणम्। रोरित्येव-प्रातरत्र। पुनरत्र॥

व्योर्लघुप्रयत्नतरः शाकटायनस्य ॥ ८.३.१८॥

वकारयकारयोर्भोभगोअघोअवर्णपूर्वयोः पदान्तयोर्लघुप्रयत्नतर आदेशो भवत्यशि परतः शाकटायनस्याचार्यस्य मतेन। भोयत्र, भो अत्र। भगोयत्र, भगो अत्र। अघोयत्र, अघो अत्र। कयास्ते, क आस्ते। अस्मायुद्धर, अस्मा उद्धर। असावादित्यः, असा आदित्यः। द्वावत्र, द्वा अत्र। द्वावानय, द्वा आनय। लघुप्रयत्नतरत्वमुच्चारणे स्थानकरणशैथिल्यम्। स्थानं ताल्वादि। करणं जिह्वामूलादि। तयोरुच्चारणे शैथिल्यं मन्दप्रयत्नता॥

लोपः शाकल्यस्य ॥ ८.३.१९॥

वकारयकारयोः पदान्तयोरवर्णपूर्वयोर्लोपो भवति शाकल्यस्याचार्यस्य मतेनाशि परतः। क आस्ते, कयास्ते। काक आस्ते, काकयास्ते। अस्मा उद्धर, अस्मायुद्धर। द्वा अत्र द्वावत्र। असा आदित्यः, असावादित्यः। शाकल्यग्रहणं विभाषार्थम्। तेन यदापि लघुप्रयत्नतरो न भवत्यादेशः, तदापि व्योः पक्षे श्रवणं भवति॥

ओतो गार्ग्यस्य ॥ ८.३.२०॥

ओकारादुत्तरस्य यकारस्य लोपो भवति गार्ग्यस्यांचार्यस्य मतेनाशि परतः। भो अत्र। भगो अत्र। भो इदम्। भगो इदम्। नित्यार्थोऽयमारम्भः। गार्ग्यग्रहणं पूजार्थम्। योऽयमलघुप्रयत्नस्य विकल्पेन लोपः क्रियते सोऽनेन निवर्त्यते। लघुप्रयत्नतरस्तु भवत्येव यकारः। भो अत्र, भोयत्र। भगो अत्र, भगोयत्र। अघो अत्र, अघोयत्र। केचित् तु सर्वमेव यकारमत्र नेच्छन्ति॥

उञि च पदे ॥ ८.३.२१॥

अवर्णपूर्वयोर्व्योः पदान्तयोर्लोपो भवत्युञि च पदे परतः। स॑ उ॒ एकविं॒श॑व॒र्तनिः (मै०सं० २.७.२०)। स उ एकाग्निः। पद इति किम्? तन्त्र उतम्, तन्त्रयुतम्। वेञः संप्रसारणे कृत उञिति भूतपूर्वण ञकारेण शक्यते प्रतिपत्तुमिति। अथोञित्येवंरूपो निपातः प्रतिपदोक्तोऽस्ति, तदा लाक्षणिकत्वाद् वेञादेशस्य ग्रहणमिह नास्ति, उत्तरार्थं पदग्रहणं क्रियते॥

हलि सर्वेषाम् ॥ ८.३.२२॥

हलि परतो भोभगोअघोअपूर्वस्य यकारस्य पदान्तस्य लोपो भवति सर्वेषामाचार्याणां मतेन। भो हसति। भगो हसति। अघो हसति। भो याति। भगो याति। अघो याति। वृक्षा हसन्ति। सर्वेषांग्रहणं शाकटायनस्यापि लोपो यथा स्यात्, लघुप्रयत्नतरो मा भूदिति॥

मोऽनुस्वारः ॥ ८.३.२३॥

मकारान्तस्य पदस्य अनुस्वार आदेशो भवति हलि परतः। कुण्डं हसति। वनं हसति। कुण्डं याति। वनं याति। हलीत्येव-त्वमत्र। किमत्र। पदान्तस्येत्येव-गम्यते। रम्यते॥

नश्चापदान्तस्य झलि ॥ ८.३.२४॥

नकारस्य मकारस्य चापदान्तस्यानुस्वारादेशो भवति झलि परतः। पयांसि। यशांसि। सर्पींषि। धनूंषि। मकारस्य-आकं्रस्यते। आचिक्रंसते। अधिजिगांसते। अपदान्तस्येति किम्? राजन् भुङ्क्ष्व। झलीति किम् ? रम्यते। गम्यते॥

मो राजि समः क्वौ ॥ ८.३.२५॥

समो मकारस्य मकार आदेशो भवति राजतौ क्विप्प्रत्ययान्ते परतः। सम्राट्। साम्राज्यम्। मकारस्य मकारवचनमनुस्वारनिवृत्त्यर्थम्। राजीति किम्? संयत्। सम इति किम्? किंराट्। क्वाविति किम्? संराजिता। संराजितुम्। संराजितव्यम्॥

हे मपरे वा ॥ ८.३.२६॥

हकारे मकारपरे परतो मकारस्य वा मकार आदेशो भवति। किम् ह्मलयति किं ह्मलयति। कथम् ह्मलयति, कथं ह्मलयति॥ यवलपरे यवला वा॥ यवलपरे हकारे मकारस्य यवला यथासंख्यं वा भवन्तीति वक्तव्यम्। किय् ह्यः, किं ह्यः। किवँ् ह्वलयति, किं ह्वलयति। किल् ह्लादयति, किं ह्लादयति॥

नपरे नः ॥ ८.३.२७॥

नकारपरे हे परतो मकारस्य वा नकारादेशो भवति। किन् ह्नुते, किं ह्नुते। कथन् ह्नुते, कथं ह्नुते॥

ङ्णोः कुक्टुक् शरि ॥ ८.३.२८॥

ङकारणकारयोः पदान्तयोः कुक् टुग् इत्येतावागमौ वा भवतः शरि परतः। प्राङ्क् शेते, प्राङ् शेते। प्राङ्क् षष्ठः, प्राङ् षष्ठः। प्राङ्क्साये, प्राङ् साये। णकारस्य-वण्ट् शेते, वण् शेते। पूर्वान्तकरणं प्राङ्क् छेते इत्यत्र छत्वार्थम्। ‘शश्छोऽटि’ (८.४.६३) इति हि पदान्ताद् झय इति तद् विज्ञायते। इह मा भूत्-पु॒रा क्॒रूरस्य॑ वि॒सृपो॑ विरप्शिन् (मा०सं० १.२८), प्राङ्क् साय इत्यत्रापि ‘ सात्पदाद्योः’ (८.३.१०९) इति षत्वप्रतिषेधार्थं च, वण्ट् साय इत्यत्र च ‘न पदान्ताट्टोरनाम्’ (८.४.४२) इति ष्टुत्वप्रतिषेधार्थम्॥

डः सि धुट् ॥ ८.३.२९॥

डकारान्तात् पदादुत्तरस्य सकारादेः पदस्य वा धुडागमो भवति। श्वलिट्त्साये, श्वलिट् साये। मधुलिट्त्साये, मधुलिट् साये। परादिकरणं ‘न पदान्ताट्टोरनाम्’ (८.४.४२) इति ष्टुत्वप्रतिषेधार्थम्॥

नश्च ॥ ८.३.३०॥

नकारान्तात् पदादुत्तरस्य सकारस्य वा धुडागमो भवति। भवान्त्साये, भवान् साये। महान्त्साये, महान् साये। धुटश्चर्त्वस्य चासिद्धत्वाद् ‘नश्छव्यप्रशान्’ (८.३.७) इति रुत्वं न भवति॥

शि तुक् ॥ ८.३.३१॥

नकारस्य पदान्तस्य शकारे परतो वा तुगागमो भवति। भवाञ्च्छेते। पूर्वान्तकरणं छत्वार्थम्। यद्येवं कुर्वञ्च्छेते इत्यत्र नकारस्यापदान्तत्वाद् णत्वं प्राप्नोति। तत्र समाधिमाहुः-‘स्तोः श्चुना श्चुः’ (८.४.४०) इत्यत्र योगविभागः क्रियते णत्वप्रतिषेधार्थम्, स्तोः श्चुना णकारो न भवतीति, ततः श्चुरिति॥

ङमो ह्रस्वादचि ङमुण् नित्यम् ॥ ८.३.३२॥

ह्रस्वात् परो यो ङम् तदन्तात् पदादुत्तरस्याचो ङमुडागमो भवति नित्यम्। ङणनेभ्यो यथासंख्यं ङणना भवन्ति-ङकारान्ताद् ङुट्-प्रत्यङ्ङास्ते। णकारान्ताद् णुट्-वण्णास्ते। वण्णवोचत्। नकारान्ताद् नुट्-कुर्वन्नास्ते। कुर्वन्नवोचत्। कृषन्नास्ते। कृषन्नवोचत्। ङम इति किम्? त्वमास्से। ह्रस्वादिति किम्? प्राङास्ते। भवानास्ते। अचीति किम्? प्रत्यङ् करोति। इह परमदण्डिनौ, परमदण्डिनेति ‘उत्तरपदत्वे चापदादिविधौ’ (महाभाष्य १.१६६) इति प्रत्ययलक्षणप्रतिषेधादुत्तरपदस्य पदत्वं नास्तीति ङमुड् न भवति। अथवा ‘उञि च पदे’ (८.३.२१) इत्यतः सप्तम्यन्तं पद इत्यनुवर्तते। तेनाजादौ पदे ङमुड् भवति॥

मय उञो वो वा ॥ ८.३.३३॥

मय उत्तरस्य उञो वा वकारादेशो भवत्यचि परतः। शम्व॑स्तु (मा०सं० २३.४४) वेदिः, शमु अस्तु वेदिः। तद्वस्य परेतः, तदु अस्य परेतः। किम्वा॒वप॑नम् (मा०सं० २३.९), किमु आवपनम्। प्रगृह्यत्वादुञः प्रकृतिभावे प्राप्ते वकारो विधीयते। तस्यासिद्धत्वाद् हलीति ‘मोऽनुस्वारः’ (८.३.२३) न भवति॥

विसर्जनीयस्य सः॥ ८.३.३४॥

खरीत्यनुवर्तते। विसर्जनीयस्य सकार आदेशो भवति खरि परतः। वृक्षश्छादयति। प्लक्षश्छादयति। वृक्षष्ठकारः। प्लक्षष्ठकारः। वृक्षस्थकारः। प्लक्षस्थकारः। वृक्षश्चिनोति। प्लक्षश्चिनोति। वृक्षष्टीकते। प्लक्षष्टीकते। वृक्षस्तरति। प्लक्षस्तरति॥

शर्परे विसर्जनीयः॥ ८.३.३५॥

शर्परे खरि परतो विसर्जनीयस्य विसर्जनीयादेशो भवति। शशः क्षुरम्। पुरुषः क्षुरम्। अद्भिः प्सातम्। वासः क्षौमम्। पुरुषःत्सरुः। घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् (ऋ० १०.१०३.१)। नेति वक्तव्ये विसर्जनीयस्य विसर्जनीयादेशविधानं विकारनिवृत्त्यर्थम्। तेन जिह्वामूलीयोपध्मानीयौ न भवतः॥

वा शरि॥ ८.३.३६॥

विसर्जनीयस्य विसर्जनीयादेशो वा भवति शरि परे। वृक्षः शेते, वृक्षश्शेते। प्लक्षः शेते, प्लक्षश्शेते। वृक्षः षण्डे, वृक्षष्षण्डे। वृक्षः साये, वृक्षस्साये॥ खर्परे शरि वा लोपो वक्तव्यः॥ वृक्षा स्थातारः, वृक्षाः स्थातारः, वृक्षास्स्थातारः॥

कुप्वोः क पौ च॥ ८.३.३७॥

कवर्गपवर्गयोः परतो विसर्जनीयस्य यथासंख्यं क प इत्येतावादेशौ भवतः, चकाराद् विसर्जनीयश्च। वृक्ष करोति, वृक्षः करोति। वृक्ष खनति, वृक्षः खनति। वृक्ष पचति, वृक्षः पचति। वृक्ष फलति, वृक्षः फलति। कपावुच्चारणार्थौ। जिह्वामूलीयो-पध्मानीयावेतावादेशौ। ‘विसर्जनीयस्य सः’ (८.३.३४) इत्येतस्मिन् नाप्राप्त इदमारभ्यत इत्येतस्य बाधकम्,‘शर्परे विसर्जनीयः’ (८.३.३५) इत्येतत् तु न बाध्यते-वासः क्षौमम्, अद्भिः प्सातम्। पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्येति ‘शर्परे विसर्जनीयः’ (८.३.३५) इत्येतदेव भवति। केचित् तु एतदर्थं योगविभागं कुर्वन्ति। कुप्वोः शर्परयोः विसर्जनीयस्य विसर्जनीय आदेशो भवति। किमर्थमिदम्? क पौ चेति वक्ष्यति, तद्बाधनार्थमिति॥

सोऽपदादौ॥ ८.३.३८॥

सकार आदेशो भवति विसर्जनीयस्य कुप्वोरपदाद्योः परतः। पाशकल्पककाम्येषु। ‘याप्ये पाशप्’ (५.३.४७)- पयस्पाशम्। ‘ईषदसमाप्तौ कल्पप्०’ (५.३.६७)- पयस्कल्पम्। यशस्कल्पम्। ‘प्रागिवात् कः’ (५.३.७०)-पयस्कम्। यशस्कम्। ‘काम्यच्०’ (३.१.९)-पयस्काम्यति। यशस्काम्यति। अपदादाविति किम्? पय कामयते। पय पिबति॥ सोऽपदादावित्यनव्ययस्येति वक्तव्यम्॥ इह मा भूत्-प्रातःकल्पम्, पुनःकल्पमिति॥ रोःकाम्ये नियमार्थम्॥ रोरेव काम्ये नान्यस्येति नियमार्थं वक्तव्यम्। पयस्काम्यति। यशस्काम्यति। इह मा भूत्-गीःकाम्यति। धूःकाम्यति॥ उपध्मानीयस्य च॥ कवर्गे परतः सकार आदेशो भवतीति वक्तव्यम्। किं प्रयोजनम् ? उब्जिरुपध्मानीयोपधः पठ्यत इति दर्शनेऽभ्युद्गः, समुद्ग इति यथा स्यात्॥

इणः षः॥ ८.३.३९॥

अपदादाविति वर्तते। इण उत्तरस्य विसर्जनीयस्य षकारादेशो भवति कुप्वोरपदाद्योः परतः। पाशकल्पककाम्येषु। पाश-सर्पिष्पाशम्। यजुष्पाशम्। कल्प-सर्पिष्कल्पम्। यजुष्कल्पम्। क-सर्पिष्कम्। यजुष्कम्। काम्य-सर्पिष्काम्यति। यजुष्काम्यति। अपदादावित्येव-अग्निःकरोति। वायुः करोति । अग्निः पचति। वायुः पचति। कुप्वोरित्येवसर्पिस्ते। यजुस्ते। इत उत्तरं स इति, इणः ष इति च वर्तते। तत्रेणः परो यो विसर्जनीयस्तस्य षकारो भवति, अन्यस्य सकारो भवति॥

नमस्पुरसोर्गत्योः ॥ ८.३.४०॥

नमस् पुरस् इत्येतयोर्गतिसंज्ञकयोर्विसर्जनीयस्य सकारादेशो भवति कुप्वोः परतः। नमस्कर्ता। नमस्कर्तुम्। नमस्कर्तव्यम्। पुरस्कर्ता। पुरस्कर्तुम्। पुरस्कर्तव्यम्। गत्योरिति किम्? पूः, पुरौ, पुरः करोति॥

इदुदुपधस्य चाप्रत्ययस्य ॥ ८.३.४१॥

इकारोपधस्य उकारोपधस्य चाप्रत्ययस्य विसर्जनीयस्य षकार आदेशो भवति कुप्वोः परतः। निर्दुर्बहिराविश्चतुर्प्रादुस्। निस्-निष्कृतम्। निष्पीतम्। दुस्-दुष्कृतम्। दुष्पीतम्। बहिस्-बहिष्कृतम् । बहिष्पीतम्। आविस्-आविष्कृतम्। आविष्पीतम्। चतुर्-चतुष्कृतम्। चतुष्कपालम्। चतुष्कलम्। चतुष्कण्टकम्। चतुष्पीतम्। प्रादुस्-प्रादुष्कृतम्। प्रादुष्पीतम्। अप्रत्ययस्येति किम्? अग्निःकरोति। वायुः करोति। मातुः करोति। पितुः करोति। अत्र ‘रात् सस्य’(८.२.२४) इति सकारलोपे कृते रेफस्य यो विसर्जनीयः, तस्याप्रत्ययविसर्जनीयत्वात् षत्वं प्राप्नोति। कस्कादिषु (८.३.४८) तु भ्रातुष्पुत्रग्रहणं ज्ञापकमेकादेशनिमित्तत्वात् षत्वप्रतिषेधस्य॥ पुम्मुहुसोः प्रतिषेधो वक्तव्यः॥ पुँस्कामा। मुहु कामा। नैष्कुल्यम्। दौष्कुल्यम्। दौष्पुरुष्यम्। नि३ष्कुलम्। दु३ष्कुलम्। दु३ष्पुरुषः। बहिरङ्गलक्षणयोर्वृद्धिप्लुतयोरसिद्धत्वात् षत्वं प्रवर्तते॥

तिरसोऽन्यतरस्याम्॥ ८.३.४२॥

तिरसो विसर्जनीयस्यान्यतरस्यां सकारादेशो भवति कुप्वोः परतः। तिरस्कर्ता। तिरस्कर्तुम्। तिरस्कर्तव्यम्। तिरः कर्ता। तिरः कर्तुम्। तिरः कर्तव्यम्। गतेरित्येवतिरः कृत्वा काण्डं गतः॥

द्विस्त्रिश्चतुरिति कृत्वोऽर्थे॥ ८.३.४३॥

ष इति संबध्यते। द्विस् त्रिस् चतुर् इत्येतेषां कृत्वोऽर्थे वर्तमानानां विसर्जनीयस्य षकार आदेशो भवत्यन्यतरस्यां कुप्वोः परतः। द्विष्करोति, द्विःकरोति। त्रिष्करोति, त्रिःकरोति। चतुष्करोति, चतुःकरोति। द्विष्पचति, द्विःपचति। त्रिष्पचति, त्रिःपचति। चतुष्पचति, चतुःपचति। कृत्वोऽर्थ इति किम्? चतुष्कपालम्। चतुष्कण्टकम्। पूर्वेण नित्यं षत्वं भवति। ‘इदुदुपधस्य०’ (८.३.४१) इत्यस्यानुवृत्तौ सत्यां कृत्वोऽर्थविषयेण च पदेन विसर्जनीये विशेष्यमाणे द्विस्त्रिश्चतुरिति शक्यमकर्तुम्।

	कृत्वसुजर्थे षत्वं ब्रवीति कस्माच्चतुष्कपाले मा।

	षत्वं विभाषया भून्ननु सिद्धं तत्र पूर्वेण ॥ १॥

	सिद्धे ह्ययं विधत्ते चतुरः षत्वं यदापि कृत्वोऽर्थे ।

	लुप्ते कृत्वोऽर्थीये रेफस्य विसर्जनीयो हि॥ २॥

	एवं सति त्विदानीं द्विस्त्रिश्चतुरित्यनेन किं कार्यम्।

	अन्यो हि नेदुदुपधः कृत्वोऽर्थः कश्चिदप्यस्ति ॥ ३॥

	अक्रियमाणे ग्रहणे विसर्जनीयस्तदा विशेष्येत। 	

	चतुरो न सिध्यति तथा रेफस्य विसर्जनीयो हि ॥ ४॥

	तस्मिंस्तु क्रियमाणे युक्तं चतुरो विशेषणं भवति।

	प्रकृतं पदं तदन्तं तस्यापि विशेषणं न्याय्यम् ॥ ५॥

एवं त्वक्रियमाणे द्विस्त्रिश्चतुर्ग्रहणे चतुःशब्दस्य कृत्वोऽर्थेऽपि वर्तमानस्य पूर्वेणैव नित्यं षत्वं स्यात्। पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य॥

इसुसोः सामर्थ्ये॥ ८.३.४४॥

ष इति संबध्यते। इस् उस् इत्येतयोर्विसर्जनीयस्यान्यतरस्यां षकारादेशो भवति सामर्थ्ये कुप्वोः परतः। सर्पिष्करोति, सर्पिः करोति। यजुष्करोति, यजुः करोति। सामर्थ्य इति किम्? तिष्ठतु सर्पिः, पिब त्वमुदकम्। सामर्थ्यमिह व्यपेक्षा, न पुनरेकार्थीभावः, उभयं वा॥

नित्यं समासेऽनुत्तरपदस्थस्य॥ ८.३.४५॥

इसुसोरिति वर्तते। समासविषय इसुसोर्विसर्जनीयस्यानुत्तरपदस्थस्य नित्यं षत्वं भवति कुप्वोः परतः। सर्पिष्कुण्डिका। धनुष्कपालम्। सर्पिष्पानम्। धनुष्फलम्। अनुत्तरपदस्थस्येति किम्? परमसर्पिःकुण्डिका। परमधनुःकपालम्। पूर्वसूत्रेण विकल्पोऽप्यत्र न भवति। एतदेवानुत्तरपदस्थस्येति वचनं ज्ञापकम्-इसुसोः प्रत्ययग्रहणे ‘यस्मात् स विहितस्तदादेः०’ इत्ययं नियमो न भवति। तेन वाक्येऽपि- परमसर्पिष्करोति, परमसर्पिः करोति, ‘इसुसोः सामर्थ्ये’(८.३.४४) इत्येतद् भवति। व्यपेक्षा च तत्र सामर्थ्यमाश्रितमिति समासे न भवति॥

अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य॥ ८.३.४६॥

अकारादुत्तरस्यानव्ययविसर्जनीयस्य समासेऽनुत्तरपदस्थस्य नित्यं सकारादेशो भवति कृ कमि कंस कुम्भ पात्र कुशा कर्णी इत्येतेषु परतः। कृ-अयस्कारः। पयस्कारः। कमि-अयस्कामः। पयस्कामः। कंस-अयस्कंसः। पयस्कंसः। कुम्भ-अयस्कुम्भः। पयस्कुम्भः। अयस्कुम्भी, पयस्कुम्भीत्यत्रापि भवति, ‘प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति’ इति। पात्र-अयस्पात्रम्। पयस्पात्रम्। अयस्पात्री। पयस्पात्री। कुशा-अयस्कुशा। पयस्कुशा। कर्णी-अयस्कर्णी। पयस्कर्णी। शुनस्कर्ण इत्ययं तु कस्कादिषु (८.३.४८) द्रष्टव्यः। अत इति किम् ? गीःकारः। धूःकारः। तपरकरणं किम्? भाःकरणम्। भास्कर इत्ययं तु कस्कादिषु (८.३.४८) द्रष्टव्यः। अनव्ययस्येति किम्? श्वःकारः। पुनःकारः। समास इत्येव-यशः करोति। पयः करोति। यशः कामयते। अनुत्तरपदस्थस्येत्येव-परमपयःकारः। परमपयःकामः॥

अधःशिरसी पदे॥ ८.३.४७॥

अधस् शिरस् इत्येतयोर्विसर्जनीयस्य समासेऽनुत्तरपदस्थस्य सकार आदेशो भवति पदशब्दे परतः। अधस्पदम्। शिरस्पदम्। अधस्पदी। शिरस्पदी। समास इत्येव-अधः पदम्। अनुत्तरपदस्थस्येत्येव-परमशिरःपदम्। अधस्पदमिति मयूरव्यंसकादित्वात् (२.१.७२) समासः॥

कस्कादिषु च॥ ८.३.४८॥

कस्क इत्येवमादिषु च विसर्जनीयस्य सकारः षकारो वा यथायोगमादेशो भवति कुप्वोः परतः। कस्कः। कौतस्कुतः। तत आगत इत्यण्। भ्रातुष्पुत्रः। शुनस्कर्णः। सद्यस्कालः। सद्यस्क्रीः। क्रीणातेरयं संपदादित्वात् (३.३.९४ वा०) क्विप् प्रत्ययः। तत्र भवः क्रतुः साद्यस्क्रः। कांस्कान्। ‘कानाम्रेडिते’ (८.३.१२) इति रुत्वमत्र। सर्पिष्कुण्डिका, धनुष्कपालम्, बर्हिष्पूलम्, यजुष्पात्रमित्येषां पाठ उत्तरपदस्थस्यापि षत्वं यथा स्यादिति। परमसर्पिः फलमित्येवमादिप्रत्युदाहरणादिति पारायणिका आहुः। भाष्ये वृत्तौ च ‘नित्यं समासेऽनुत्तरपदस्थस्य’(८.३.४५) इत्यत्र परमसर्पिः कुण्डिकेत्येतदेव प्रत्युदाहरणम्। अयस्काण्डः। मेदस्पिण्डः। अविहितलक्षण उपचारः कस्कादिषु द्रष्टव्यः॥

छन्दसि वाप्राम्रेडितयोः॥ ८.३.४९॥

छन्दसि विषये विसर्जनीयस्य वा सकारादेशो भवति कुप्वोः परतः प्रशब्दमाम्रेडितं च वर्जयित्वा। अयःपात्रम्, अयस्पा॒त्रम् (शौ०सं० ८.१३.२)। विश्वतः पात्रम्, विश्वतस्पात्रम्। उरु णः कारः, उरु णस्कारः। अप्रामे्रडितयोरिति किम्? अ॒ग्निः प्॑रवि॒द्वान् (शौ०सं० ५.२६.१)। परु॑षः परुषः॒ परि॑ (मा०सं० १३.२०)। सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता॑त् (ऋ० १०.१३९.१), स नः॑ पावकः (ऋ० १.१२.१०) इत्येवमादिषु ‘सर्वे विधयश्छन्दसि विकल्प्यन्ते’ इति सत्वं न भवति॥

कः करत्करतिकृधिकृतेष्वनदितेः॥ ८.३.५०॥

कः करत् करति कृधि कृत इत्येतेषु परतोऽनदितेर्विसर्जनीयस्य सकारादेशो भवति छन्दसि विषये। कः-विश्वतस्कः। करत्-विश्वतस्करत्। करति-पयस्करति। कृधि-उ॒रु ण॑स्कृधि (ऋ० ८.७५.११)। कृत-सदस्कृतम्। अनदितेरिति किम्? यथा॑ नो॒ अदि॑तिः॒ कर॒त् (ऋ० १.४३.२)॥

पञ्चम्याः परावध्यर्थे॥ ८.३.५१॥

छन्दसीत्येव। पञ्चमीविसर्जनीयस्य सकारादेशो भवति परौ परतोऽध्यर्थे। दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे (ऋ० १०.४५.१)। अग्निः हि॒मव॑त॒स्परि॑ (शौ०सं० ४.९.९)। दि॒वस्परि॑ (ऋ० १.१२१.१०)। महस्परि। पञ्चम्या इति किम्? अहि॑रिव भो॒गैः पये᐀्॑ति बा॒हुम् (ऋ० ६.७५.१४)। पराविति किम् ? एभ्यो वा एतल्लोकेभ्यः प्रजापतिः समैरयत्। अध्यर्थ इति किम् ? दि॒वस्पृ॑थि॒व्याः पर्योज॒ उद्भृ॑तम् (ऋ० ६.४७.२७)। अत्र परिः सर्वतोभावे, अध्यर्थ उपरिभावः॥

पातौ च बहुलम्॥ ८.३.५२॥

पातौ च धातौ परतः पञ्चमीविसर्जनीयस्य बहुलं सकार आदेशो भवति छन्दसि विषये। दि॒वस्पा॑तु (ऋ० १०.१५८.१)। राज्ञस्पातु। न च भवति-परिषदः पातु॥

षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु ॥ ८.३.५३॥

षष्ठीविसर्जनीयस्य सकारादेशो भवति पति पुत्र पृष्ठ पार पद पयस् पोष इत्येतेषु परतः छन्दसि विषये। वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ (ऋ० १०.८१.७)। पुत्र-दि॒वस्पु॒त्राय॒ सूर्या॑य (ऋ० १०.३७.१)। पृष्ठ-दि॒वस्पृ॒ष्ठे धाव॑मानं सुप॒र्णम् (शौ०सं० १३.२.३७)। पार-अग॑न्म॒ तम॑सस्पा॒रम् (मा०सं० १२.७३)। पद- इडस्प॒दे समि॑ध्यसे॒ (ऋ० १०.१९१.१)। पयस्-सूर्यं चक्षुर्दिवस्पयः। पोष-रा॒यस्पोषं॒ यज॑मानेषु धारय्र (ऋ०१०.१२२.८)। षष्ठ्या इति किम् ? मनुः॑ पु॒त्रेभ्यो॑ दा॒यं व्य॑भज॒त् (तै०सं० ३.१.९.४)॥

इडाया वा ॥ ८.३.५४॥

इडायाः षष्ठीविसर्जनीयस्य वा सकार आदेशो भवति पत्यादिषु परतश्छन्दसि विषये। इडायास्पतिः, इडायाः पतिः। इडा॑यास्पु॒त्रः (ऋ० ३.२९.३), इडायाः पुत्रः। इडायास्पृष्ठम्, इडायाः पृष्ठम्। इडायास्पारम्, इडायाः पारम्। इडा॑यास्प॒दम् (मा०सं० ४.२२), इडा॑याः प॒दम्(तै०सं० १.२.५.१)। इडायास्पयः, इडायाः पयः। इडायास्पोषम्, इडायाः पोषम्॥

अपदान्तस्य मूर्धन्यः ॥ ८.३.५५॥

पदाधिकारो निवृत्तः। अपदान्तस्येति मूर्धन्य इति चैतदधिकृतं वेदितव्यमा पादपरिसमाप्तेः। वक्ष्यति-‘आदेशप्रत्यययोः’ (८.३.५९)- सिषेव। सुष्वाप। अग्निषु। वायुषु। अपदान्तस्येति किम्? अग्निस्तत्र। वायुस्तत्र। ष इत्येव सिद्धे मूर्धन्यग्रहणं ढकारार्थम्। अकृढ्वम्। चकृढ्वे॥

सहेः साडः सः॥ ८.३.५६॥

सहेर्धातोः साड्रूपस्य यः सकारस्तस्य मूर्धन्य आदेशो भवति। जलाषाट्। तुराषाट्। पृतनाषाट्। सहेरिति किम्? सह डेन वर्तते सडः, तस्यापत्यं साडिः। साड्ग्रहणं किम्? यत्रास्यैतद् रूपं तत्र यथा स्यात्। इह मा भूत्- तुरासाहम्। स इति किम्? आकारस्य मा भूत्॥

इण्कोः ॥ ८.३.५७॥

इण्कोरित्येतदधिकृतं वेदितव्यम्। इत उत्तरं यद् वक्ष्यामः, इणः कवर्गात् चेत्येवं तद् वेदितव्यम्। वक्ष्यति-‘आदेशप्रत्यययोः‘(८.३.५९)- सिषेव। सुष्वाप। अग्निषु। वायुषु। कर्तृषु। हर्तृषु। गीर्षु। धूर्षु। वाक्षु। त्वक्षु। इण्कोरिति किम्? दास्यति। असौ॥

नुम्विसर्जनीयशर्व्यवायेऽपि ॥ ८.३.५८॥

नुम्व्यवायेऽपि विसर्जनीयव्यवायेऽपि शर्व्यवायेऽपि इण्कोरुत्तरस्य सकारस्य मूर्धन्यादेशो भवति। व्यवायशब्दः प्रत्येकमभिसंबध्यते। नुम्व्यवाये तावत्- सर्पींषि। यजूंषि। हवींषि। विसर्जनीयव्यवाये-सर्पिःषु। यजुःषु। हविःषु। शर्व्यवाये-सर्पिष्षु। यजुष्षु। हविष्षु। नुमादिभिः प्रत्येकं व्यवाये षत्वमिष्यते, न समस्तैः। तेनेह न भवति-निंस्से, निंस्स्व इति। णिसि चुम्बन इत्येतस्यैतद् रूपम्। अत्र हि नुमा सकारेण च शरा व्यवधानम्॥

आदेशप्रत्यययोः ॥ ८.३.५९॥

मूर्धन्य इति वर्तते, स इति च। आदेशप्रत्यययोरिति षष्ठी भेदेन संबध्यते। आदेशो यः सकारः, प्रत्ययस्य च यः सकारः इण्कोरुत्तरस्तस्य मूर्धन्यो भवत्यादेशः। आदेशस्य तावत्-सिषेव। सुष्वाप। प्रत्ययस्य-अग्निषु। वायुषु। कर्तृषु। हर्तृषु। इन्द्रो मा वक्षत्, स दे॒वान् य॑क्षत् (ऋ०३.४.३) इति व्यपदेशिवद्भावात् प्रत्ययस्येति षत्वं भवति। यजतेर्वहतेश्च पञ्चमलकारे परस्मैपदप्रथमैकवचन इकारलोपः,‘लेटोऽडाटौ’(३.४.९४) इत्यट्, ‘सिब्बहुलं लेटि’(३.१.३४) इति सिप्, ततः सिद्धं यक्षत्, वक्षद् इति॥

शासिवसिघसीनां च॥ ८.३.६०॥

शासि वसि घसि इत्येतेषां चेण्कोरुत्तरस्य सकारस्य मूर्धन्यो भवति। अन्वशिषत्, अन्वशिषताम्, अन्वशिषन्। शिष्टः। शिष्टवान्। वसि-उषितः। उषितवान्। उषित्वा। घसि-जक्षतुः, जक्षुः। ‘घसिभसोः०’(६.४.१००) इत्युपधालोपः। अक्ष॑न् पि॒तरोऽमी॑मदन्त पि॒तरः(मा०सं० १९.३६)। अनादेशार्थं वचनम्। घसिर्यद्यप्यादेशः सकारस्त्वादेशो न भवति। इण्कोरित्येव-शास्ति। वसति। जघास॥

स्तौतिण्योरेव षण्यभ्यासात्॥ ८.३.६१॥

स्तौतेर्ण्यन्तानां च षभूते सनि परतोऽभ्यासादिण उत्तरस्य आदेशसकारस्य मूर्धन्यादेशो भवति। तुष्टूषति। ण्यन्तानाम्- सिषेचयिषति। सिषञ्जयिषति। सुष्वापयिषति। सिद्धे सत्यारम्भो नियमार्थः, स्तौतिण्योरेव षण्यभ्यासाद् यथा स्याद्, अन्यस्य मा भूत्-सिसिक्षति। सुसूषते। एवकारकरणमिष्टतोऽवधारणार्थम्। स्तौतिण्योः षण्येवेति हि विज्ञायमाने तुष्टावेत्यत्र न स्यात्, इह च स्यादेव-सिसिक्षतीति। षणीति किम्? अन्यत्र नियमो मा भूत्-सिषेच। को विनतेऽनुरोधः? अविनते नियमो मा भूत्-सुषुप्सति। तिष्ठासति। कः सानुबन्धेऽनुरोधः? षशब्दमात्रे नियमो मा भूत्-सुषुपिष इन्द्रम्। अभ्यासादिति किम्? अभ्यासाद् या प्राप्तिस्तस्या नियमो यथा स्यात्, धातोर्या प्राप्तिस्तस्या नियमो मा भूत्-प्रतीषिषति। अधीषिषति॥

सः स्विदिस्वदिसहीनां च॥ ८.३.६२॥

स्विदि स्वदि सहि इत्येतेषां ण्यन्तानां सनि षभूते परतोऽभ्यासादुत्तरस्य सकारस्य सकारादेशो भवति। स्विदि-सिस्वेदयिषति। स्वदि-सिस्वादयिषति। सहि-सिसाहयिषति। सकारस्य सकारवचनं मूर्धन्यनिवृत्त्यर्थम्॥

प्राक् सितादड्व्यवायेऽपि ॥ ८.३.६३॥

सेवसित० (८.३.७०) इति वक्ष्यति। प्राक् सितसंशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामस्तत्राड्व्यवायेऽपि मूर्धन्यो भवतीत्येवं वेदितव्यम्, अपिशब्दादनड्व्यवायेऽपि। वक्ष्यति-‘उपसर्गात् सुनोतिसुवति०’ (८.३.६५) इति षत्वम्। अभिषुणोति। परिषुणोति। विषुणोति। निषुणोति। अभ्यषुणोत्। पर्यषुणोत्। व्यषुणोत्। न्यषुणोत्॥

स्थादिष्वभ्यासेन चाभ्यासस्य ॥ ८.३.६४॥

प्राक् सितादिति वर्तते। ‘उपसर्गात् सुनोति०’(८.३.६५) इत्यत्र स्थासेनयसेधेति स्थादयः, तेषु स्थादिषु प्राक् सितसंशब्दनाद् अभ्यासेन व्यवाये मूर्धन्यो भवति, अभ्याससकारस्य च भवतीत्येवं वेदितव्यम्। अभ्यासेन व्यवाये अषोपदेशार्थं च-अभिषिषेणयिषति, परिषिषेणयिषति। अवर्णान्ताभ्यासार्थं च-अभितष्ठौ, परितष्ठौ। षणि प्रतिषेधार्थं च-अभिषिषिक्षति, परिषिषिक्षति। अभ्यासस्येति वचनं नियमार्थम्-स्थादिष्वेवाभ्याससकारस्य मूर्धन्यो भवति, नान्यत्र। अभिसुसूषति। अभिसिषासति॥

उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिच-सञ्जस्वञ्जाम् ॥ ८.३.६५॥

मूर्धन्य इति वर्तते, स इति च। उपसर्गस्थाद् निमित्तादुत्तरस्य सुनोति सुवति स्यति स्तौति स्तोभति स्था सेनय सेध सिच सञ्ज स्वञ्ज इत्येतेषां सकारस्य मूर्धन्यादेशो भवति। सुनोति-अभिषुणोति। परिषुणोति। अभ्यषुणोत्। पर्यषुणोत्। सुवति-अभिषुवति। परिषुवति। अभ्यषुवत्। पर्यषुवत्। स्यति-अभिष्यति। परिष्यति। अभ्यष्यत्। पर्यष्यत्। स्तौति-अभिष्टौति। परिष्टौति। अभ्यष्टौत्। पर्यष्टौत्। स्तोभति-अभिष्टोभते। परिष्टोभते। अभ्यष्टोभत। पर्यष्टोभत। स्था-अभिष्ठास्यति। परिष्ठास्यति। अभ्यष्ठात्। पर्यष्ठात्। अभितष्ठौ। परितष्ठौ। सेनय-अभिषेणयति। परिषेणयति। अभ्यषेणयत्। पर्यषेणयत्। अभिषिषेणयिषति। परिषिषेणयिषति। सेध-अभिषेधति। परिषेधति। अभ्यषेधत्। पर्यषेधत्। सिच-अभिषिञ्चति। परिषिञ्चति। अभ्यषिञ्चत्। पर्यषिञ्चत्। अभिषिषिक्षति। परिषिषिक्षति। सञ्ज-अभिषजति। परिषजति। अभ्यषजत्। पर्यषजत्। अभिषिषङ्क्षति। परिषिषङ्क्षति। स्वञ्ज-अभिष्वजते। परिष्वजते। अभ्यष्वजत। पर्यष्वजत। अभिषिष्वङ्क्षते। परिषिष्वङ्क्षते। सेध इति शब्विकरणनिर्देशः सिध्यतिनिवृत्त्यर्थः। उपसर्गादिति किम्? दधि सिञ्चति। मधु सिञ्चति। निर्गताः सेचका अस्माद् देशाद् निःसेचको देश इति नायं सिचेरुपसर्गः। अभिसावकीयतीत्यत्रापि न सुनोतिं प्रति क्रियायोगः। किं तर्हि? सावकीयं प्रति। अभिषावयतीत्यत्र तु सुनोतिमेव प्रति क्रियायोगो न सावयतिं प्रतीति षत्वं भवति॥

सदिरप्रतेः॥ ८.३.६६॥

सदेः सकारस्य उपसर्गस्थाद् निमित्तादप्रतेरुत्तरस्य मूर्धन्य आदेशो भवति। निषीदति। विषीदति। न्यषीदत्। व्यषीदत्। निषसाद। विषसाद। अप्रतेरिति किम्? प्रतिसीदति॥

स्तन्भेः॥ ८.३.६७॥

उपसर्गादिति वर्तते। स्तन्भेः सकारस्य उपसर्गस्थाद् निमित्तादुत्तरस्य मूर्धन्य आदेशो भवति। अभिष्टभ्नाति। परिष्टभ्नाति। अभ्यष्टभ्नात्। पर्यष्टभ्नात्। अभितष्टम्भ। परितष्टम्भ। अप्रतेरित्येतदिह नानुवर्तते, तेनैतदपि भवति-प्रतिष्टभ्नाति। प्रत्यष्टभ्नात्। प्रतितष्टम्भ॥

अवाच्चालम्बनाविदूर्ययोः॥ ८.३.६८॥

अवशब्दादुपसर्गादुत्तरस्य स्तन्भेः सकारस्य मूर्धन्य आदेशो भवत्यालम्बनेऽर्थ आविदूर्ये च। आलम्बनमाश्रयणम्। अविदूरस्य भाव आविदूर्यम्। आलम्बने तावत्- अवष्टभ्यास्ते। अवष्टभ्य तिष्ठति। आविदूर्ये-अवष्टब्धा सेना। अवष्टब्धा शरत्। आलम्बनाविदूर्ययोरिति किम्? अवस्तब्धो वृषलः शीतेन। अनिणर्थ आरम्भः॥

वेश्च स्वनो भोजने ॥ ८.३.६९॥

वेरुपसर्गादवाच्चोत्तरस्य भोजनार्थ स्वनतेः सकारस्य मूर्धन्यादेशो भवति। विष्वणति। व्यष्वणत्। विषष्वाण। अवष्वणति। अवाष्वणत्। अवषष्वाण। अभ्यवहारक्रियाविशेषोऽभिधीयते, यत्र स्वननमस्ति। भोजन इति किम्? विस्वनति मृदङ्गः॥

परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् ॥ ८.३.७०॥

परि नि वि इत्येतेभ्य उपसर्गेभ्य उत्तरेषां सेव सित सय सिवु सह सुट् स्तु स्वञ्ज इत्येतेषां सकारस्य मूर्धन्य आदेशो भवति। परिषेवते। निषेवते। विषेवते। पर्यषेवत। न्यषेवत। व्यषेवत। परिषिषेविषते। निषिषेविषते। विषिषेविषते। सित-परिषितः। निषितः। विषितः। सय-परिषयः। निषयः। विषयः। सिव्- परिषीव्यति। निषीव्यति। विषीव्यति। पर्यषीव्यत्। न्यषीव्यत्। व्यषीव्यत्। पर्यसीव्यत्। न्यसीव्यत्। व्यसीव्यत्। सह-परिषहते। निषहते। विषहते। पर्यषहत। न्यषहत। व्यषहत। पर्यसहत। न्यसहत। व्यसहत। सुट्-परिष्करोति। पर्यष्करोत्। पर्यस्करोत्। स्तु-परिष्टौति। निष्टौति। विष्टौति। पर्यष्टौत्। न्यष्टौत्। व्यष्टौत्। पर्यस्तौत्। न्यस्तौत्। व्यस्तौत्। स्वञ्ज-‘दंशसञ्जस्वञ्जाम्०’ (६.४.२५) इति नलोपः। परिष्वजते। निष्वजते। विष्वजते। पर्यष्वजत, पर्यस्वजत। पूर्वेणैव सिद्धे स्तुस्वञ्जिग्रहणमुत्तरार्थम्, अड्व्यवाये विभाषा यथा स्यात्॥

सिवादीनां वाड्व्यवायेऽपि ॥ ८.३.७१॥

अनन्तरसूत्रे सिवुसहसुट्स्तुस्वञ्जाम् (८.३.७०) इति सिवादयः। सिवादीनामड्व्यवायेऽपि परिनिविभ्य उत्तरस्य सकारस्य वा मूर्धन्यो भवति। तथा चैवोदाहृतम्॥

अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु॥ ८.३.७२॥

अनु वि परि अभि नि इत्येतेभ्य उत्तरस्य स्यन्दतेरप्राणिषु सकारस्य वा मूर्धन्यादेशो भवति। अनुष्यन्दते। विष्यन्दते। परिष्यन्दते। अभिष्यन्दते तैलम्। निष्यन्दते। अनुस्यन्दते। विस्यन्दते। परिस्यन्दते। अभिस्यन्दते। निस्यन्दते। अप्राणिष्विति किम्? अनुस्यन्दते मत्स्य उदके। प्राण्यप्राणिविषयस्यापि स्यन्दतेरयं विकल्पो भवति। अनुष्यन्देते मत्स्योदके, अनुस्यन्देते। अप्राणिष्विति पर्युदासोऽयम्, न प्रसज्यप्रतिषेधः॥

वेः स्कन्देरनिष्ठायाम्॥ ८.३.७३॥

वेरुपसर्गादुत्तरस्य स्कन्देः सकारस्य मूर्धन्यो वा भवत्यनिष्ठायाम्। विष्कन्ता, विस्कन्ता। विष्कन्तुम्, विस्कन्तुम्। विष्कन्तव्यम्, विस्कन्तव्यम्। अनिष्ठायामिति किम्? विस्कन्नः॥

परेश्च॥ ८.३.७४॥

परिशब्दात् चोत्तरस्य स्कन्देः सकारस्य वा मूर्धन्यो भवति। परिष्कन्ता। परिष्कन्तुम्। परिष्कन्तव्यम्। परिस्कन्ता। परिस्कन्तुम्। परिस्कन्तव्यम्। पृथग्योगकरणसामर्थ्यादनिष्ठायामित्येतद् नानुवर्तते। परिष्कण्णः, परिस्कन्नः॥

परिस्कन्दः प्राच्यभरतेषु॥ ८.३.७५॥

परिस्कन्द इति मूर्धन्याभावो निपात्यते प्राच्यभरतेषु प्रयोगविषयेषु। पूर्वेण मूर्धन्ये प्राप्ते तदभावो निपात्यते। परिस्कन्दः। अन्यत्र परिष्कन्दः। अचि निपातनम्। अथवा निष्ठातकारस्य लोपः। भरतग्रहणं प्राच्यविशेषणम्॥

स्फुरतिस्फुलत्योर्निर्निविभ्यः॥ ८.३.७६॥

स्फुरतिस्फुलत्योः सकारस्य निस् नि वि इत्येतेभ्य उत्तरस्य वा मूर्धन्यादेशो भवति। स्फुरति-निष्ष्फुरति, निस्स्फुरति। निष्फुरति, निस्फुरति। विष्फुरति, विस्फुरति। स्फुलति-निष्ष्फुलति, निस्स्फुलति। निष्फुलति, निस्फुलति। विष्फुलति, विस्फुलति॥

वेः स्कभ्नातेर्नित्यम्॥ ८.३.७७॥

वेरुत्तरस्य स्कभ्नातेः सकारस्य नित्यं मूर्धन्यादेशो भवति। विष्कभ्नाति। विष्कम्भिता। विष्कम्भितुम्। विष्कम्भितव्यम्॥

इणः षीध्वंलुङ्लिटां धोऽङ्गात्॥ ८.३.७८॥

मूर्धन्य इति वर्तते। इणन्तादङ्गादुत्तरेषां षीध्वंलुङ्लिटां यो धकारस्तस्य मूर्धन्यादेशो भवति। च्योषीढ्वम्। प्लोषीढ्वम्। लुङ्-अच्योढ्वम्। अप्लोढ्वम्। लिट्-चकृढ्वे। ववृढ्वे। ‘इण्कोः’ (८.३.५७) इति वर्तमाने पुनरिण्ग्रहणं कवर्गनिवृत्त्यर्थम्। पक्षीध्वम्। यक्षीध्वम्। षीध्वंलुङ्लिटामिति किम्? स्तुध्वे। अस्तुध्वम्। अङ्गादिति किम्? परिवेविषीध्वम्। अर्थवद्ग्रहणाद् (परि० १४) अप्येतत् सिद्धम्? तत् तु नाश्रितम्॥

विभाषेटः॥ ८.३.७९॥

इणः परस्मादिट उत्तरेषां षीध्वंलुङ्लिटां यो धकारस्तस्य मूर्धन्यादेशो भवति विभाषा। लविषीढ्वम्, लविषीध्वम्। पविषीढ्वम्, पविषीध्वम्। लुङ्-अलविढ्वम्, अलविध्वम्। लिट्-लुलुविढ्वे, लुलुविध्वे। इण इत्येव-आसिषीध्वम्। अथेह कथं भवितव्यम्-उपदिदीयिध्वे? केचिदाहुः- इणन्तादङ्गादुत्तरस्येट आनन्तर्यं युटा व्यवहितमिति न भवितव्यं ढत्वेनेति। अपरेषां दर्शनम्-अङ्गादिति निवृत्तम्, इण इत्यनुवर्तते, ततश्च यकारादेव इणः परोऽनन्तर इडिति पक्षे भवितव्यं मूर्धन्येनेति॥

समासेऽङ्गुलेः सङ्गः॥ ८.३.८०॥

सङ्गसकारस्याङ्गुलेरुत्तरस्य मूर्धन्य आदेशो भवति समासे। अङ्गुलेः सङ्गः अङ्गुलिषङ्गः। अङ्गुलिषङ्गा यवागूः। अङ्गुलिषङ्गो गाः सादयति। समास इति किम् ? अङ्गुलेः सङ्गं पश्य॥

भीरोः स्थानम्॥ ८.३.८१॥

स्थानसकारस्य भीरोरुत्तरस्य मूर्धन्यादेशो भवति। भीरुष्ठानम्। समास इत्येव-भीरोः स्थानं पश्य॥

अग्नेः स्तुत्स्तोमसोमाः॥ ८.३.८२॥

अग्नेरुत्तरस्य स्तुत् स्तोम सोम इत्येतेषां सकारस्य मूर्धन्यादेशो भवति समासे। अग्निष्टुत्। अग्निष्टोमः। अग्नीषोमौ। अग्नेर्दीर्घात् सोमस्येष्यते। तेनेह न भवति- अग्निसोमौ माणवकौ। तथा च ज्योतिरग्निः, सोमो लताविशेषः। अग्निसोमौ तिष्ठतः। समास इत्येव -अग्नेः स्तोमः॥

ज्योतिरायुषः स्तोमः॥ ८.३.८३॥

ज्योतिस् आयुस् इत्येताभ्यामुत्तरस्य स्तोमसकारस्य मूर्धन्यादेशो भवति समासे। ज्योतिष्टोमः। आयुष्टोमः। समास इत्येव-ज्योतिः स्तोमं दर्शयति॥

मातृपितृभ्यां स्वसा॥ ८.३.८४॥

मातृ पितृ इत्येताभ्यामुत्तरस्य स्वसृसकारस्य समासे मूर्धन्यादेशो भवति। मातृष्वसा। पितृष्वसा॥

मातुः पितुर्भ्यामन्यतरस्याम्॥ ८.३.८५॥

मातुर् पितुर् इत्येताभ्यामुत्तरस्य स्वसृशब्दस्यान्यतरस्यां मूर्धन्यादेशो भवति समासे। मातुःष्वसा, मातुःस्वसा। पितुःष्वसा, पितुःस्वसा। मातुःपितुरिति रेफान्तयोरेतद्ग्रहणम्। एकदेशविकृतस्यानन्यत्वात् विसर्जनीयान्तात् सकारान्तात् च षत्वं भवति। समास इत्येव-वाक्ये मा भूत्-मातुः स्वसेत्येव नित्यं भवति॥

अभिनिसः स्तनः शब्दसंज्ञायाम्॥ ८.३.८६॥

अभिनिस् इत्येतस्मादुत्तरस्य स्तनतिसकारस्य मूर्धन्यादेशो भवत्यन्यतरस्यां शब्दसंज्ञायां गम्यमानायाम्। अभिनिष्टानो वर्णः, अभिनिस्तानो वर्णः। अभिनिष्टानो विसर्जनीयः, अभिनिस्तानो विसर्जनीयः। शब्दसंज्ञायामिति किम् ? अभिनिस्स्तनति मृदङ्गः। समास इत्यतः प्रभृति निवृत्तम्॥

उपसर्गप्रादुर्भ्यामस्तिर्यच्परः॥ ८.३.८७॥

उपसर्गस्थाद् निमित्तात् प्रादुस्शब्दात् चोत्तरस्य यकारपरस्याच्परस्य चास्तिसकारस्य मूर्धन्यो भवति। अभिषन्ति। निषन्ति। विषन्ति। प्रादुःषन्ति। अभिष्यात्। निष्यात्। विष्यात्। प्रादुःष्यात्। उपसर्गादिति किम् ? दधि स्यात् । मधु स्यात्। अस्तीति किम ? अनुसृतम्। विसृतम्। अथासत्यपि अस्तिग्रहणे सकारमेव प्रत्युपसर्ग आश्रीयते, प्रादुःशब्दस्य च कृभ्वस्तिष्वेव प्रयोग इत्यन्यत्राप्रसङ्गः? तथाप्येतत् प्रत्युदाहर्तव्यम्-अनुसूते अनुसूः, अनुस्वोऽपत्यम् आनुसेयः। शुभ्रादित्वाद् ढक् (४.१.१२३)। ‘ढे लोपोऽकद्र्वाः’ (६.४.१४७) इत्युवर्णलोपः। यच्पर इति किम् ? निस्तः। विस्तः। प्रादुःस्तः ॥

सुविनिर्दुर्भ्यः सुपिसूतिसमाः॥ ८.३.८८॥

सु वि निर् दुर् इत्येतेभ्य उत्तरस्य सुपि सूति सम इत्येतेषां सकारस्य मूर्धन्यादेशो भवति। सुपीति स्वपिः कृतसंप्रसारणो गृह्यते। सुषुप्तः। विषुप्तः। निःषुप्तः। दुःषुप्तः। सूतीति स्वरूपग्रहणम्। सुषूतिः। विषूतिः। निःषूतिः। दुःषूतिः। सम-सुषमम्। विषमम्। निःषमम्। दुःषमम्।

	सुषेः षत्वं स्वपेर्मा भूद्विसुष्वापेति केन न ।

	हलादिशेषान्न सुपिरिष्टं पूर्वं प्रसारणम्॥ १॥

	स्थादीनां नियमो नात्र प्राक्सितादुत्तरः सुपिः।

	अनर्थके विषुषुपुः षुपिभूतो द्विरुच्यते ॥ २॥

‘पूर्वत्रासिद्धीयमद्विर्वचने’ इति कृते षत्वे ततो द्विर्वचनम्॥

निनदीभ्यां स्नातेः कौशले॥ ८.३.८९॥

नि नदी इत्येताभ्यामुत्तरस्य स्नातिसकारस्य मूर्धन्यादेशो भवति कौशले गम्यमाने। निष्णातः कटकरणे। निष्णातो रज्जुवर्तने। नद्यां स्नातीति नदीष्णः। ‘सुपि स्थः’ (३.२.४) इत्यत्र सुपीति योगविभागात् कप्रत्ययः। कौशल इति किम्? निस्नातः। नद्यां स्नातो नदीस्नात इति॥

सूत्रं प्रतिष्णातम्॥ ८.३.९०॥

प्रतिष्णातमिति निपात्यते, सूत्रं चेद् भवति। प्रतिष्णातं सूत्रम्। शुद्धमित्यर्थः। प्रतिस्नातमित्येवान्यत्र॥

कपिष्ठलो गोत्रे॥ ८.३.९१॥

कपिष्ठल इति निपात्यते गोत्रविषये। कपिष्ठलो नाम स यस्य कापिष्ठलिः पुत्रः। गोत्र इति किम्? कपेः स्थलं कपिस्थलम्॥

प्रष्ठोऽग्रगामिनि॥ ८.३.९२॥

प्रष्ठ इति निपात्यतेऽग्रगामिन्यभिधेये। प्रतिष्ठत इति प्रष्ठोऽश्वः। अग्रतो गच्छतीत्यर्थः। अग्रगामिनीति किम् ? प्रस्थे हिमवतः पुण्ये। प्रस्थो व्रीहीणाम्॥

वृक्षासनयोर्विष्टरः॥ ८.३.९३॥

विष्टर इति निपात्यते वृक्ष आसने च वाच्ये। विपूर्वस्य स्तृणातेः षत्वं निपात्यते। विष्टरो वृक्षः। विष्टरमासनम्। वृक्षासनयोरिति किम् ? औलपिवाक्यस्य विस्तरः॥

छन्दोनाम्नि च॥ ८.३.९४॥

विष्टार इति निपात्यते। विपूर्वात् स्तृृ इत्येतस्माद् धातोः ‘छन्दोनाम्नि च’ (३.३.३४) इत्येवं विहितो घञ् इति विष्टर इत्यपि प्रकृते विष्टार इत्यत्र विज्ञायते। विष्टारपङ्क्तिः छन्दः। विष्टारबृहती छन्दः। छन्दोनाम्नीति किम्? पटस्य विस्तारः॥

गवियुधिभ्यां स्थिरः॥ ८.३.९५॥

गवियुधिभ्यामुत्तरस्य स्थिरसकारस्य मूर्धन्यादेशो भवति। गविष्ठिरः। युधिष्ठिरः। गोशब्दादहलन्तादपि एतस्मादेव निपातनात् सप्तम्या अलुग् भवति॥

विकुशमिपरिभ्यः स्थलम्॥ ८.३.९६॥

वि कु शमि परि इत्येतेभ्य उत्तरस्य स्थलसकारस्य मूर्धन्यादेशो भवति। विष्ठलम्। कुष्ठलम्। शमिष्ठलम्। परिष्ठलम्॥

अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमे-बर्हिर्दिव्यग्निभ्यः स्थः॥ ८.३.९७॥

अम्ब आम्ब गो भूमि सव्य अप द्वि त्रि कु शेकु शङ्कु अङ् गु मञ्जि पुञ्जि परमे बर्हिस् दिवि अग्नि इत्येतेभ्य उत्तरस्य स्थशब्दसकारस्य मूर्धन्यादेशो भवति। अम्बष्ठः। आम्बष्ठः। गोष्ठः। भूमिष्ठः। सव्येष्ठः। अपष्ठः। द्विष्ठः। त्रिष्ठः। कुष्ठः। शेकुष्ठः। शङ्कुष्ठः। अङ्गुष्ठः। मञ्जिष्ठः। पुञ्जिष्ठः। परमेष्ठः। बर्हिष्ठः। दिविष्ठः। अग्निष्ठः॥ स्थास्थिन्स्थृृणामिति वक्तव्यम्॥ स्व्येष्ठाः। परमेष्ठी। सव्येष्ठृसारथिः॥

सुषामादिषु च॥ ८.३.९८॥

सुषामादिषु शब्देषु सकारस्य मूर्धन्यादेशो भवति। शोभनं साम यस्यासौ सुषामा ब्राह्मणः। दुष्षामा। निष्षामा। निष्षेधः। दुष्षेधः। सुशब्दस्य कर्मप्रवचनीयसंज्ञकत्वाद् निर्दुर्शब्दयोश्च क्रियान्तरविषयत्वादनुपसर्गत्वे सति पाठोऽयम्। ‘सेधतेर्गतौ’ (८.३.१११) इति वा प्रतिषेधबाधनार्थः। सुषन्धिः। दुष्षन्धिः। निष्षन्धिः। सुष्ठु। दुष्ठु। तिष्ठतेरुणादिषु (प०उ० १.२५) एतौ व्युत्पाद्येते। गौरिषक्थः संज्ञायाम् (ग०सू० १८२)। ङ्यापोः संज्ञाछन्दसोर्बहुलम् (६.३.६३) इति पूर्वपदस्य ह्रस्वत्वम्। प्रतिष्णिका। प्रतिष्णाशब्दादयं कन् प्रत्ययः। जलाषाहम्। नौषेचनम्। दुन्दुभिषेवणम्। एति संज्ञायामगात् (ग०सू० १८३)। एकारपरस्य सकारस्य मूर्धन्यादेशो भवतीण्कोरुत्तरस्यागकारात् परस्य संज्ञायां विषये। हरिषेणः। वारिषेणः। जानुषेणी। एतीति किम्? हरिसक्थम्। संज्ञायामिति किम्? पृथ्वी सेना यस्य स पृथुसेनो राजा। अगादिति किम्? विष्वक्सेनः। इण्कोरित्येव-सर्वसेनः। नक्षत्राद् वा (ग० सू० १८४)। नक्षत्रवाचिनः शब्दादुत्तरस्य सकारस्य वा एति संज्ञायामगकाराद् मूर्धन्यो भवति। रोहिणीषेणः, रोहिणीसेनः। भरणीषेणः, भरणीसेनः। अगकारादित्येव-शतभिषक्सेनः। अविहितलक्षणो मूर्धन्यः सुषामादिषु द्रष्टव्यः॥

ह्रस्वात् तादौ तद्धिते॥ ८.३.९९॥

ह्रस्वादुत्तरस्य सकारस्य मूर्धन्यादेशो भवति तादौ तद्धिते परतः। तरप् तमप् तय त्व तल् तस् त्यप् एतानि प्रयोजयन्ति। तरप्-सर्पिष्टरम्। यजुष्टरम्। तमप्-सर्पिष्टमम्। यजुष्टमम्। तय-चतुष्टये ब्राह्मणानां निकेताः। त्व-सर्पिष्ट्वम्। यजुष्ट्वम्। तल्-सर्पिष्टा। यजुष्टा। तस्-सर्पिष्टः। यजुष्टः। त्यप्-आ॒विष्ट्यो॑ वर्धते॒ (ऋ० १.९५.५)। ह्रस्वादिति किम्? गीस्तरा। धूस्तरा। तादाविति किम्? सर्पिस्साद् भवति। प्रत्ययसकारस्य ‘सात्पदाद्योः’ (८.३.१०९) इति सत्यपि प्रतिषेधे प्रकृतिसकारस्य स्यात्। तद्धित इति किम्? सर्पिस्तरति॥ तिङन्तस्य प्रतिषेधो वक्तव्यः॥ भिन्द्युस्तराम्। छिन्द्युस्तराम्॥

निसस्तपतावनासेवने॥ ८.३.१००॥

निसः सकारस्य मूर्धन्यादेशो भवति तपतौ परतोऽनासेवनेऽर्थे। आसेवनं पुनःपुनः करणम्। निष्टपति सुवर्णम्। सकृदग्निं स्पर्शयतीत्यर्थः। अनासेवन इति किम्? निस्तपति सुवर्णं सुवर्णकारः। पुनःपुनरग्निं स्पर्शयतीत्यर्थः। निष्॑टप्तं॒ रक्षो॒ निष्ट॑प्ता॒ अरा॑तयः (मा०सं० १.७) इत्यत्र सदप्यासेवनं न विवक्ष्यते, छान्दसो वा वर्णविकारः॥

युष्मत्तत्ततक्षुःष्वन्तःपादाम्** ॥ ८.३.१०१॥**

युष्मत् तत् ततक्षुस् इत्येतेषु तकारादिषु परतः सकारस्य मूर्धन्यादेशो भवति, स चेत् सकारोऽन्तःपादं भवति। युष्मदादेशास्त्वम्, त्वाम्, ते, तव। अग्निष्ट्वं नामासीत्। त्वा-अग्निष्ट्वा वर्धयामसि। ते-अग्निष्टे विश्वमानय। तव-अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॒ (ऋ० ८.४३.९)। तत्-अ॒ग्निष्टद्विश्व॒मापृ॑णाति (ऋ० १०.२.४)। ततक्षुस् - द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः (ऋ० १०.३१.७)। अन्तःपादमिति किम् ? यन्म॑ आ॒त्मनो॑ मि॒न्दाभू॑द॒ग्निस्तत्पुन॒राहा॑र्जा॒तवे॑दा॒ विच॑र्षणिः (तै०सं० ३.२.५.४)॥

यजुष्येकेषाम्॥ ८.३.१०२॥

यजुषि विषये युष्मत्तत्ततक्षुःषु परत एकेषामाचार्याणां मतेन सकारस्य मूर्धन्यादेशो भवति। अ॒र्चिर्भि॒ष्ट्वम् (मा०सं० १२.३२), अर्चिर्भिस्त्वम्। अग्निष्टेऽग्रम्, अ॒ग्निस्तेऽग्॑रम् (तै०सं० ३.५.६.२)। अ॒ग्निष्टत् (तै०सं० १.१.१४.५), अ॒ग्निस्तत् (तै०सं० ३.२.५.४)। अर्चिर्भिष्टतक्षुः, अर्चिर्भिस्ततक्षुः॥

स्तुतस्तोमयोश्छन्दसि॥ ८.३.१०३॥

एकेषामिति वर्तते। स्तुत स्तोम इत्येतयोः सकारस्य छन्दसि विषये मूर्धन्यादेशो भवत्येकेषामाचार्याणां मतेन। त्रिभिष्टुतस्य, त्रिभिस्तुतस्य। गोष्टो॑मं (तै० सं० ७.४.११.१) षोडशिनम्, गोस्तोमं षोडशिनम् (तु०-आ० श्रौ० ९.५.२)। पूर्वपदादित्येव सिद्धे प्रपञ्चार्थमिदम्॥

पूर्वपदात्॥ ८.३.१०४॥

छन्दसीति वर्तते, एकेषामिति च। पूर्वपदस्थाद् निमित्तादुत्तरस्य सकारस्य मूर्धन्यादेशो भवति छन्दसि विषय एकेषामाचार्याणां मतेन। द्वि॑ष॒न्धिः॒ (मै०सं० ३.८.२), द्विसन्धिः। त्रि॑ष॒न्धिः॒ (मै०सं० ३.८.२), त्रिसन्धिः। मधुष्ठानम् , मधुस्थानम्। द्विषा॑हस्रं चिन्वीत (तै०सं० ५.६.८.२), द्विसाहस्रं चिन्वीत। असमासेऽपि यत् पूर्वपदं तदपीह गृह्यते। त्रिःषमृद्धत्वाय, त्रिःसमृद्धत्वाय॥

सुञः॥ ८.३.१०५॥

सुञिति निपात इह गृह्यते, तस्य पूर्वपदस्थाद् निमित्तादुत्तरस्य मूर्धन्यादेशो भवति छन्दसि विषये। अ॒भी षु णः॒ सखी॑नाम् (ऋ० ४.३१.३)। ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ (ऋ० १.३६.१३)॥

सनोतेरनः॥ ८.३.१०६॥

सनोतेरनकारान्तस्य सकारस्य मूर्धन्यादेशो भवति। गो॒षाः (ऋ० ९.२.१०)। नृ॒षाः (ऋ० ९.२.१०)। अन इति किम्? गो॒सनिं॒ वाच॑मुदेय॒म् (शौ०सं० ३.२०.१०)। पूर्वपदादित्येव सिद्धे नियमार्थमिदम्। अत्र केचित् सवनादिपाठाद् गोसनिर्नियमस्य फलं न भवतीति सिसानयिषतीति प्रत्युदाहरन्ति। सिसनिषतेरप्रत्ययः, सिसनीरित्यपरे॥

सहेःपृतनर्ताभ्यां च॥ ८.३.१०७॥

पृतना ऋत इत्येताभ्यामुत्तरस्य सहिसकारस्य मूर्धन्यादेशो भवति। पृतना॒षाह॑म् (ऋ० ६.७२.५)। ऋताषाहम्। केचित् सहेः इति योगविभागं कुर्वन्ति। ऋ॑ती॒षह॑म् (ऋ० ६.१४.४) इत्यत्रापि यथा स्यात्। ऋतिशब्दस्य पूर्वपदस्य ‘संहितायाम्’ (६.३.११६) एतद् दीर्घत्वम्, षत्वं च। अवग्रहे तु ऋति सहम् इत्येव भवति। चकारोऽनुक्तसमुच्चयार्थः। तेन ऋ॑ती॒षह॑म् (ऋ० ६.१४.४) इति सिद्धम्॥

न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम्॥ ८.३.१०८॥

रेफपरस्य सकारस्य सृपि सृजि स्पृशि स्पृहि सवनादीनां च मूर्धन्यो न भवति। रपर- वि॒स्रं॑सि॒कायाः॒ का॑ण्डा॒भ्यां जुहोति (मै०सं० २.६.१) । विस्रब्धः कथयति। सृपि-पु॒रा क्रू॒रस्य॑ वि॒सृपः॑ (मा०सं० १.२८)। सृजि-वाचो विसर्जनात्। स्पृशि-दि॑वि॒स्पृश॑म् (ऋ० १.१४२.८)। स्पृहि-निस्पृहं कथयति। सवनादीनाम्-सवनेसवने। सूतेसूते। सामेसामे। सवनमुखेसवनमुखे। किं स्यतीति किंसंकिंसम्। अनुसवनमनुसवनम्। गो॒सनिं॒ (शौ०सं० ३.२०.१०) गोसनिम्। अश्वसनिमश्वसनिम्। ‘पूर्वपदात्’ (८.३.१०४) इति प्राप्तेः प्रतिषेधः। अश्वसनिग्रहणमनिणोऽपि षत्वमस्तीति ज्ञापनार्थम्। तेन जलाषाहमश्वषाहमित्येतत् सिद्धं भवति। क्वचिदेवं गणपाठः-सवनेसवने। अनुसवनेऽनुसवने। संज्ञायां बृहस्पतिसवः। शकुनिसवनम्। सोमेसोमे। सूतेसूते। संवत्सरेसंवत्सरे। किंसंकिंसम्। बिसंबिसम्। मसुलंमुसलम्। गोसनिमश्वसनिम्। सवनादिः॥

सात्पदाद्योः॥ ८.३.१०९॥

सादित्येतस्य पदादेश्च मूर्धन्यादेशो न भवति। ‘विभाषा साति कार्त्स्न्ये’ (५.४.५२)। प्रत्ययसकारत्वात् प्राप्तिः, पदादेश्चादेशसकारत्वात्। सात्-अग्निसात्। दधिसात्। मधुसात्। पदादेः- दधि सिञ्चति। मधु सिञ्चति॥

सिचो यङि॥ ८.३.११०॥

सिचः सकारस्य यङि परतो मूर्धन्यादेशो न भवति। सेसिच्यते। अभिसेसिच्यते। ‘उपसर्गात्०’ (८.३.६५) इति या प्राप्तिः सा पदादिलक्षणमेव प्रतिषेधं बाधते, न सिचो यङीति। तस्मादयं प्रतिषेधः सर्वत्र भवति। यङीति किम् ? अभिषिषिक्षति॥

सेधतेर्गतौ॥ ८.३.१११॥

गतौ वर्तमानस्य सेधतेः सकारस्य मूर्धन्यादेशो न भवति। अभिसेधयति गाः। परिसेधयति गाः। गताविति किम्? शिष्यमकार्यात् प्रतिषेधयति॥

प्रतिस्तब्धनिस्तब्धौ च॥ ८.३.११२॥

प्रतिस्तब्ध निस्तब्ध इत्यतौ मूर्धन्यप्रतिषेधाय निपात्येते। ‘स्तन्भेः’ (८.३.६७) इति प्राप्तं षत्वं प्रतिषिध्यते। प्रतिस्तब्धः। निस्तब्धः॥

सोढः॥ ८.३.११३॥

सहिरयं सोड्भूतो गृह्यते, तस्य सकारस्य मूर्धन्यादेशो न भवति। परिसोढा। परिसोढुम्। परिसोढव्यम्। सोड्भूतग्रहणं किम्? परिषहते॥

स्तम्भुसिवुसहां चङि॥ ८.३.११४॥

स्तम्भु सिवु सह इत्येतेषां चङि परतः सकारस्य मूर्धन्यादेशो न भवति। ‘स्तन्भेः’ (८.३.६७) इति ‘परिनिविभ्यः०’ (८.३.७०) इति च प्राप्तो मूर्धन्यः प्रतिषिध्यते। स्तम्भु-पर्यतस्तम्भत्। अभ्यतस्तम्भत्। सिवु-पर्यसीषिवत्। न्यसीषिवत्। सह-पर्यसीषहत्। व्यसीषहत्॥ स्तम्भुसिवुसहां चङि उपसर्गादिति वक्तव्यम्॥ उपसर्गाद् या प्राप्तिस्तस्या एव प्रतिषेधो यथा स्यात्, अभ्यासाद् या प्राप्तिस्तस्या मा भूदिति। तथा चैवोदाहृतम्॥

सुनोतेः स्यसनोः॥ ८.३.११५॥

सुनोतेः सकारस्य मूर्धन्योदेशो न भवति स्ये सनि च परतः। अभिसोष्यति। परिसोष्यति। अभ्यसोष्यत्। पर्यसोष्यत्। सनि किमुदाहरणम्? सुसूषति। नैतदस्ति प्रयोजनम्, अत्र ‘स्तौतिण्योरेव षण्यभ्यासात्’ (८.३.६१) इति नियमाद् न भविष्यति। इदं तर्हि, अभिसुसूषति। एतदपि नास्ति, ‘स्थादिष्वभ्यासेन चाभ्यासस्य’ (८.३.६४) इति नियमात् । इदं तर्हि, अभिसुसूषतेरप्रत्ययोऽभिसुसूरित्युदाहरणमिति। अत्र हि सन् षभूतो न भवतीत्यभ्यासात् प्राप्तिरस्ति। स्यसनोरिति किम् ? सुषाव॥

सदिष्वञ्जोः परस्य लिटि॥ ८.३.११६॥

सदि ष्वञ्जि इत्येतयोर्धात्वोर्लिटि परतः सकारस्य परस्य मूर्धन्यो न भवति। अभिषसाद। परिषसाद। निषसाद। विषसाद। परिषस्वजे, परिषस्वजाते, परिषस्वजिरे। अभिषस्वजे। स्वञ्जेः संयोगान्तादपि विभाषा लिटः कित्त्वमिच्छन्ति (१.२.६ वा०) इति पक्षेऽनुषङ्गलोपः॥

निव्यभिभ्योऽड्व्यवाये वा छन्दसि॥ ८.३.११७॥

नि वि अभि इत्येतेभ्य उपसर्गेभ्य उत्तरस्य सकारस्याड्व्यवाये छन्दसि विषये मूर्धन्यादेशो न भवति वा। न्यषीदत् पिता नः, न्यसीदत्। व्यषीदत् पिता नः, व्यसीदत्। अभ्यषीदत्, अभ्यसीदत्। सदिष्वञ्जोरिति तदिह नानुवर्तते। सामान्येनैव एतद्वचनम्। न्यष्टौत्, न्यस्तौत्, अभ्यष्टौत्, अभ्यस्तौत् इत्येतदपि सिद्धं भवति॥

॥ इति श्रीवामनविरचितायां काशिकायां वृत्तावष्टमाध्यायस्य तृतीयः पादः॥