०२

पूर्वत्रासिद्धम्॥ ८.२.१॥

पूर्वत्रासिद्धमित्यधिकारोऽयम् आध्यायपरिसमाप्तेः। यदित ऊर्ध्वमनुक्रमिष्यामः पूर्वत्रासिद्धमित्येवं तद् वेदितव्यम्। तत्र येयं सपादसप्ताध्याय्यनुक्रान्ता, एतस्यामयं पादोनोऽध्यायोऽसिद्धो भवति। इत उत्तरं चोत्तर उत्तरो योगः पूर्वत्रपूर्वत्रासिद्धो भवति, असिद्धवद् भवति। सिद्धकार्यं न करोतीत्यर्थः। तदेतदसिद्धत्ववचनमादेशलक्षणप्रतिषेधार्थम्, उत्सर्गलक्षणभावार्थं च। अस्मा उद्धर, द्वा अत्र, द्वा आनय, असा आदित्य इत्यत्र व्यलोपस्यासिद्धत्वाद् ‘आद् गुणः’ (६.१.८७) इति,‘अकः सवर्णे दीर्घः’ (६.१.१०१) इति च न भवति। अमुष्मै, अमुष्मात्, अमुष्मिन् इत्युत्वस्यासिद्धत्वाद् स्मायादयो भवन्ति।

शुष्किका शुष्कजङ्घा च क्षामिमानौजढत्तथा ।

मतोर्वत्वे झलां जश्त्वं गुडलिण्मान्निदर्शनम्॥

शुष्किकेत्यत्र ‘शुषः कः’ (८.२.५१) इत्यस्यासिद्धत्वाद् ‘उदीचामातः स्थाने यकपूर्वायाः’ (७.३.४६) इत्येतद् न भवति। शुष्कजङ्घा इति ‘न कोपधायाः’ (६.३.३७) इति पुंवद्भावप्रतिषेधो न भवति। क्षामिमानिति क्षामस्यापत्यं क्षामिः, क्षामो वा अस्यास्तीति क्षामी। क्षामिः क्षामी वा यस्यास्तीति क्षामिमान्। ‘क्षायो मः’ (८.२.५३) इत्यस्यासद्धित्वाद् ‘मादुपधायाश्च०’ (८.२.९) इति वत्वं न भवति। औजढदिति वहेर्निष्ठायामूढः, तमाख्यदिति णिच्, तदन्ताद् लुङ्, ‘चङि’ (६.१.११) इति द्विर्वचने कर्तव्ये ढत्वधत्वष्टुत्वढलोपानामसिद्धत्वाद् णौ च यष्टिलोपस्तस्य स्थानिवद्भावाद् ह्त इत्येतद् द्विरुच्यते। अनग्लोपे (७.४.९३) इति प्रतिषेधात् सन्वदित्वं नास्ति। तेनौजढदिति भवति। औजिढदित्येतत् तु क्तिन्नन्तस्य ऊढिशब्दस्य भवति। गुडलिण्मानिति गुडलिहोऽस्य सन्तीति मतुप्, तत्र ढत्वजश्त्वयोरसिद्धत्वाद् ‘झयः’ (८.२.१०) इति वत्वं न भवति। येऽत्र षष्ठीनिर्देशाः, सप्तमीनिर्देशाः, पञ्चमीनिर्देशाश्च, तेषां ‘षष्ठी स्थानेयोगा’ (१.१.४९), ‘तस्मिन्निति निर्दिष्टे पूर्वस्य’ (१.१.६६), ‘तस्मादित्युत्तरस्य’ (१.१.६७) इति च कर्तव्ये नासिद्धत्वं भवति। ‘कार्यकालं हि संज्ञापरिभाषम्’ (परि० ३) इति पूर्वत्वमासां परिभाषाणां नास्तीति। ‘विप्रतिषेधे परम्०’ (१.४.२) इत्येषा तु परिभाषा येन पूर्वेण लक्षणेन सह स्पर्धते परं लक्षणम्, तत् प्रति तस्यासिद्धत्वाद् न प्रवर्तते। तथा च विस्फोर्यम्, अवगोर्यम् इति गुणः परेण ‘हलि च’ (८.२.७७) इति दीर्घत्वेन न बाध्यते। अपवादस्य तु परस्यापि उत्सर्गे कर्तव्ये वचनप्रामाण्यादसिद्धत्वं न भवति। तेन दोग्धा, दोग्धुमित्यत्र घत्वस्यासिद्धत्वाद् ‘हो ढः’ (८.२.३१) इति न भवति॥

नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति ॥ ८.२.२॥

नलोपः पूर्वत्रासिद्धो भवति सुब्विधौ, स्वरविधौ, संज्ञाविधौ, तुग्विधौ च कृति। विधिशब्दोऽयं प्रत्येकमभिसंबध्यमानः स्वरसंज्ञातुकां विधेयत्वात् तैः कर्मषष्ठीयुक्तैर्भावसाधनोऽभिसंबध्यते। सुपा तु सम्बन्धसामान्यवचनषष्ठ्यन्तेन कर्मसाधनः। तेन सुपः स्थाने यो विधिः, सुपि च परभूते, सर्वोऽसौ सुब्विधिरिति सर्वत्रासिद्धत्वं भवति।

सुब्विधौ तावत्-राजभिः, तक्षभिः इत्यत्र नलोपस्यासिद्धत्वाद् ‘अतो भिस ऐस्’ (७.१.९) इति न भवति। राजभ्याम्, तक्षभ्याम्, राजसु, तक्षस्विति ‘सुपि च’ (७.३.१०२) इति, ‘बहुवचने झल्येत्’ (७.३.१०३) इति दीर्घत्वमेत्वं च न भवति।**स्वरविधौ-**राजवतीत्यत्र नलोपस्यासिद्धत्वाद् ‘अन्तोऽवत्याः’ (६.१.२२०) इति न भवति। पञ्चार्मम्, दशार्ममित्यत्र नलोपस्यासिद्धत्वाद् ‘अर्मे चावर्णं द्व्यच् त्र्यच्’ (६.२.९०) इति पूर्वपदस्याद्युदात्तत्वं न भवति। पञ्चदण्डी इत्यत्र नलोपस्यासिद्धत्वादिगन्ते द्विगौ (६.२.२९) इति पूर्वपदप्रकृतिस्वरो न भवति। **संज्ञाविधौ-**पञ्च ब्राह्मण्यः, दश ब्राह्मण्य इति नलोपस्यासिद्धत्वाद् ‘ष्णान्ता षट्’ (१.१.२४) इति षट्संज्ञा भवति। ततश्च ‘न षट्स्वस्रादिभ्यः’ (४.१.१०) इति टापः प्रतिषेधो भवति। तदेतत् प्रयोजनं कथं भवति ? यदि प्रतिकार्यं संज्ञाप्रवृत्तिरित्येतद् दर्शनम्। या हि जश्शसोर्लुगर्था षट्संज्ञा प्रवृत्ता तया स्त्रीप्रत्ययप्रतिषेधो न क्रियत इति सा पुनः प्रवर्तयितव्येति। **तुग्विधौ-**वृत्रहभ्याम्, वृत्रहभिरिति नलोपस्यासिद्धत्वाद् ‘ह्रस्वस्य पिति कृति तुक्’ (६.१.७१) इति तुग् न भवति। अत्र केचित् ‘संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य’ इति तुकं प्रति नलोपस्यानिमित्तत्वाद् बहिरङ्गलक्षणेन वासिद्धत्वात् तुग्विधिग्रहणमनर्थकमिति प्रतिपन्नाः। तत् तु क्रियते परिभाषाद्वयस्यानित्यत्वं ज्ञापयितुम्। कृतीति किम्? वृत्रहच्छत्रम्, वृत्रहच्छाया ‘छे च’ (६.१.७३) इति तुग् भवति।

**अत्र सिद्धे सत्यारम्भो नियमार्थः- **एतेष्वेव नलोपोऽसिद्धो भवति, नान्यत्र। तेन राजीयति, राजायते, राजाश्व इतीत्वम्, दीर्घत्वम्, एकादेशश्च सिद्धो भवति॥

न मु ने ॥ ८.२.३॥

मुभावो नाभावे कर्तव्ये नासिद्धो भवति। किं तर्हि? सिद्ध एव। अमुना। मुभावस्यासिद्धत्वाद् घिलक्षणो नाभावो (७.३.१२०) न स्यात्। कृते तु नाभावे मुभावस्यासिद्धत्वात् ‘सुपि च’ (७.३.१०२) इति दीर्घत्वं यत् प्राप्नोति, तत् ‘सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य’ इति न भवति। अथ वा योगद्वयमिदमुभयार्थं तन्त्रेणोच्चारितम्। अथ वा ने परतो यत् प्राप्नोति, तस्मिन् कर्तव्ये मुभावो नासिद्ध इत्येष एवात्र सूत्रार्थः। ने तु कर्तव्ये मुभावस्य यत् सिद्धत्वं तदर्थात् संगृहीतम्। तेनात्र मुभावस्य सिद्धत्वाद् नाभावश्च भवति, दीर्घत्वं च न भवति ॥ एकादेशस्वरोऽन्तरङ्गः सिद्धो वक्तव्यः॥ किं प्रयोजनम्? अयायावेकादेशशतृस्वरैकाननुदात्तसर्वानुदात्तार्थम्। वृ॒क्ष इदम्, प्ल॒क्ष इदम्। अत्र प्रातिपदिकान्तसप्तम्येकवचनयोरुदात्तानुदात्तयोरेकादेशः। स ‘एकादेश उदात्तेनोदात्तः’ (८.२.५) इत्युदात्तः। तस्य सिद्धत्वं वक्तव्यम्। आन्तर्यतोऽयादेश उदात्तो यथा स्यात्। आय्-कु॒मा॒र्या इदम्। कथमिदमुदाहरणम् ? यदि ‘उदात्तयणो हल्पूर्वात्’ (६.१.१७४)इत्युदात्तत्वे कृते विभक्तेः ‘आटश्च’(६.१.९०)एकादेशः तदा भवतीदमुदाहरणम्। अथ तु कृत एकादेश ‘उदात्तयणो हल्पूर्वात्’ (६.१.१७४) इति स्वरः, तदा नैतदस्य प्रयोजनं भवति। आव्-वृ॒क्षावि॑दम्। प्ल॒क्षावि॑दम्। एकादेशस्वरः-गा॒ङ्गेऽनूप इति गाङ्गेशब्द एकार ‘एकादेश उदात्तेनोदात्तः’ (८.२.५) इत्युदात्तः। तस्य सिद्धत्वाद् यः पुनः ‘एङः पदान्तादति’ (६.१.१०९) इत्येकादेशः स ‘एकादेश उदात्तेनोदात्तः’ (८.२.५) इति, अतः ‘स्वरितो वानुदात्ते पदादौ’ (८.२.६) इत्येतद् भवति। शतृस्वरः- तु॒द॒ती। नु॒द॒ती। अदुपदेशात् (६.१.१८३) इति लसार्वधातुकानुदात्तत्वे कृत एकादेशः, तदुदात्तस्य सिद्धत्वात् ‘शतुरनुमो नद्यजादी’ (६.१.१७३)अन्तोदात्तादित्येष स्वरो भवति। अनुमः(६.१.१७३) इति प्रतिषेधो ज्ञापकः- एकादेशस्वरः शतृस्वरे सिद्ध इति। न हि सनुंकं शत्रन्तं किंचिदेकादेशस्वरमन्तरेणान्तोदात्तमस्ति। एकाननुदात्तः- तु॒दन्ति॑। लि॒खिन्ति॑। एकादेशस्वरस्य सिद्धत्वात् तेन ‘अनुदात्तं पदमेकवर्जम्’ (६.१.१५८) इति वर्ज्यमानता भवति। सर्वानुदात्तः- ब्राह्मणास्तु॒द॒न्ति॒। ब्राह्मणा लि॒खि॒न्ति॒। एकादेशस्वरस्य सिद्धत्वात् कृते तस्मिन् ‘तिङ्ङतिङः’(८.१.२८) इति निघातो भवति। अन्तरङ्ग इति वचनाद् बहिरङ्गस्यासिद्धत्वम् एव-पच॒तीति॑। प्रप॑च॒तीति॑॥ संयोगान्तलोपो रोरुत्वे सिद्धो वक्तव्यः॥ किं प्रयोजनम्? हरिवो मे॒दिंन॑ त्वा (तै० सं० ४.७.१४.४)। हरिव इति मतुबन्तमेतत्। तत्र ‘छन्दसीरः’ (८.२.१५) इति वत्वे, संयोगान्तस्य लोपे च कृते,‘मतुवसो रु संबुद्धौ छन्दसि’(८.३.१) इति रुत्वम्। तस्य संयोगान्तस्य लोपस्यासिद्धत्वाद् ‘हशि च’ (६.१.११४) इत्युत्वं न प्राप्नोति॥ सिज्लोप एकादेशे सिद्धो वक्तव्यः॥ अलावीत्। अपावीत्। ‘इट ईटि’ (८.२.२८) इति सिज्लोपस्य सिद्धत्वात् सवर्णदीर्घत्वं भवति॥ निष्ठादेशः षत्वस्वरप्रत्ययविधीड्विधिषु सिद्धो वक्तव्यः॥ वृक्णः। वृक्णवान्। निष्ठादेशस्य सिद्धत्वाद् झलि(८.२.३६) इति षत्वं न भवति। कुत्वं तु प्रत्यसिद्ध एवेति तद् भवति। स्वरप्रत्ययविधीड्विधिषु क्षीबशब्द उदाह्रियते। तत्र च निपातनमनेकधा समाश्रीयते। यदा क्षीबेर्निष्ठायामिटि कृत इत्शब्दलोपो निपात्यते, तदा क्षीब॑ इति संज्ञायामित्शब्दलोपस्यासिद्धत्वाद् ‘निष्ठा च द्व्यजनात्’ (६.१.२०५) इत्येष स्वरो न प्राप्नोति, क्षीबेन तरति क्षीबि॑क इति द्व्यज्लक्षणष्ठन् (४.४.७) न प्राप्नोति। यदा तु तकारलोपो निपात्यते, तदा तस्यासिद्धत्वादिडागमः प्राप्नोति॥ प्लुतविकारस्तुग्विधौ छे सिद्धो वक्तव्यः॥ अग्ना३इच्छत्रम्। पटा३उच्छत्रम्। प्लुत-विकारस्यासिद्धत्वात् ‘छे च’ (६.१.७३) इति ह्रस्वलक्षणो नित्यस्तुग् न प्राप्नोति॥ श्चुत्वं धुटि सिद्धं वक्तव्यम्॥ ‘श्च्युतिर् क्षरणे’ इत्ययं धातुः सकारादिः पठ्यते, तस्य श्चुत्वस्यासिद्धत्वाद् अट्श्च्योतति, रट्श्च्योतति इति ‘डः सि धुट्’ (८.३.२९) इति प्राप्नोति। अटतीत्यड्, रटतीति रड्, क्विबन्तोऽयम्। किमर्थं पुनः सकारादिः पठ्यते ? इह मधु श्च्योततीति मधुश्च्युत्, क्विबन्तः। मधुश्च्युतमाचष्ट इति णिच्, मधुश्च्ययति। मधुश्च्ययतेः पुनः क्विपि कृते संयोगादित्वात् (८.२.२९) सलोपः, संयोगान्तत्वाद् यलोपः, चकारस्य कुत्वम्, मधुगिति सिद्धम्। शकारादौ पुनरेतस्मिन् संयोगान्तलोपेन यकारचकारयोर्लुप्तयोः शकारस्य षत्वे सति मधुडिति स्यात्॥ अभ्यासजश्त्वचर्त्वे एत्वतुकोः सिद्धे वक्तव्ये॥ बभणतुः। बभणुः। अभ्यासजश्त्वस्यासिद्धत्वादनादेशादेरित्येत्वं प्राप्नोति। छिदेः विचिच्छित्सति, उच्छेः उचिच्छिषति इति अभ्यासादेशस्यासिद्धत्वात् ‘छे च’ (६.१.७३) इति तुक् प्राप्नोति॥ द्विर्वचने परसवर्णत्वं सिद्धं वक्तव्ययम्॥ सय्ँय्यन्ता, सव्व्वत्सरः, यल्ल्लोकम्, तल्ल्लोकमिति परसवर्णस्यासिद्धत्वाद् यरः (८.४.४७) इति द्विर्वचनं न स्यात्॥ पदाधिकारश्चेल् लत्वघत्वढत्वनत्वरुत्वषत्वणत्वानुनासिकछत्वानि सिद्धानि वक्तव्यानि॥ लत्वम्-गलोगलः, गरोगरः। घत्वम्-द्रोग्धाद्रोग्धा, ढत्वम्-द्रोढाद्रोढा। नत्वम्-नुन्नोनुन्नः, नुत्तोनुत्तः। रुत्वम्-अभिनोऽभिनः, अभिनदभिनत्। षत्वम्-मातुःष्वसामातुःष्वसा, मातुःस्वसामातुःस्वसा। पितुःष्वसापितुःष्वसा, पितुःस्वसापितुःस्वसा। णत्वम्-माषवापाणिमाषवापाणि, माषवापानिमाषवापानि। अनुनासिकम्-वाङ्नयनंवाङ्नयनम्, वाग्नयनंवाग्नयनम्। छत्वम्-वाक् च्छयनंवाक्च्छयनम्, वाक् शयनंवाक्शयनम्। लत्वादीनां विकल्पितानामसिद्धत्वात् कृते द्विर्वचने सत्युपरिष्टाद् विकल्पे सति गरोगलः, गलोगरः इत्येवं रूपमपि द्विरुक्तं स्यात्। तदेतत् सर्वं न मु ने इति योगविभागेन साध्यते। न इत्येतावदनिष्टे विषये पूर्व््त्रासिद्धस्य प्रतिषेधार्थम्। ततो मु ने इति। नेत्येतदनुवर्तते॥

उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य॥ ८.२.४॥

उदात्तयणः स्वरितयणश्च परस्यानुदात्तस्य स्वरित आदेशो भवति। उदात्तयणः- कु॒मा॒यौ᐀्॑,कु॒मा॒र्यः॑। उदात्तनिवृत्तिस्वरेण (६.१.१६१) अयमीकार उदात्तः, तस्य स्थाने यणादेशः, स उदात्तयण्, तस्मात् परस्यानुदात्तस्य स्वरित आदेशो भवति। स्वरितयणः- स॒कृ॒ल्ल्व्या॑शा। ख॒ल॒प्व्या॑शा। स॒कृ॒ल्लूः, ख॒ल॒पूरिति कृत्स्वरेण (६.२.१३९) अन्तोदात्तौ, तयोः ‘ओः सुपि’(६.४.८३) इति यणादेशः, स उदात्तयण्, ततः परस्य सप्तम्येकवचनस्य स्वरितत्वम्, तस्य यणादेशः स्वरितयण्, तस्मात् स्वरितयणः परस्याशाशब्दाकारस्यानुदात्तस्य स्वरितो भवति। ननु च सप्तम्येकवचनस्य यदुदात्तयण इति स्वरितत्वम्, तदसिद्धं यणादेशे, तत् कथमयं स्वरितयण् भवति ? आश्रयात् सिद्धत्वं भविष्यति। यद्येवम् ‘उदात्तादनुदात्तस्य स्वरितः’ (८.४.६६) इत्येतस्याप्याश्रयात् सिद्धत्वं प्राप्नोति। ततश्च दध्याशेत्यत्रापि स्वरितः स्यात् ? तस्मादयमेव यण्स्वरो यणादेशे सिद्धो वक्तव्यः। केचित् तु ब्रुवते-उदात्तात् स्वरितयणोऽपि परस्यानुदात्तस्य स्वरितत्वं दृश्यते। तथा च तैत्तिरीयके शाखान्तरे पठ्यते-यास्ते॒ विश्वाः॑ स॒मिधः॒ सन्त्य॑ग्ने॒ (तै०सं० ३.५.५.३) इति। अग्न इत्ययमकारः स्वरितः पठ्यते। तथा ब्राह्मणेऽपि दध्या॑शयति (तै०ब्रा० १.७.६.५) इत्याकारः स्वरितः पठ्यत इति। यथा तु वार्त्तिकं भाष्यं च तथा उदात्तात् स्वरितयण्ाः परस्यानुदात्तस्यानेन स्वरितत्वं न भवतीति स्थितम्। तथा च भाष्ये स्वरितयण्ग्रहणमिदं प्रत्याख्यायते, स॒कृ॒ल्ल्व्या॑शा इत्येवमादावुदात्तयण इत्येव स्वरितस्य सिद्धत्वात्। स्वरितयण्व्यवधानमव्यवधानमेव-‘स्वरविधौ व्यञ्जनमविद्यमानवत्’ इति। तत् तु क्रियते, पूर्वस्मादपि विधौ स्थानिवद्भावाद् व्यवधानमस्ति, स्वरदीर्घयलोपेषु च लोपाजादेशस्य स्थानिवद्भावः प्रतिषिध्यत इति। उदात्तस्वरितयोरिति किम् ? बैदी॒ आ॒शा बैद्या॒शा। शार्ङ्ग॑रव्या॒शा। अनुदात्तयणादेशोऽयम्। अनुदात्तस्येति किम् ? कु॒मा॒र्यत्र॑। कि॒श॒ोर्यत्र॑। अत्रेत्ययमाद्युदात्तो लित्स्वरेण (६.१.१९३)॥

एकादेश उदात्तेनोदात्तः ॥ ८.२.५॥

उदात्तेन सहानुदात्तस्य य एकादेशः स उदात्तो भवति। अनुदात्तस्येति वर्तते। अ॒ग्नी। वा॒यू। वृ॒क्षैः। प्ल॒क्षैः। उदात्तेनेति किम् ? पच॑न्ति। यज॑न्ति। लसार्वधातुकानुदात्तत्वे (६.१.१८६) कृते द्वयोरनुदात्तयोरयमेकादेशः, पररूपे कर्तव्ये स्वरितस्य (८.४.६६) असिद्धत्वात्॥

स्वरितो वानुदात्ते पदादौ ॥ ८.२.६॥

अनुदात्ते पदादावुदात्तेन सह य एकादेशः स स्वरितो वा भवत्युदात्तो वा। सु उत्त्थितः- सू॑त्त्थितः, सूत्त्थि॑तः। र्र्वि ई््क्षते-वी॑क्षते, वीक्ष॑ते। वसुकः असि-व॒सु॒को॑ऽसि, व॒सु॒कोऽसि॑। सूत्त्थित इति सुशब्दः‘सुः पूजायाम्’(१.४.९४) इति कर्मप्रवचनीयः, तस्य प्रादित्वात् समासे सत्यव्ययपूर्वपदप्रकृतिस्वरत्वेन (६.२.२) आद्युदात्तत्वम्, शेषमनुदात्तम् (६.१.१५८) इति चानुदात्ते पदादावेकादेशो भवति। वीक्षते, वसुकोऽसीत्यत्रापि ‘तिङ्ङतिङः’ (८.१.२८) इति निघाते कृतेऽनुदात्ते पदादावेकादेशः। स्वरितग्रहणं विस्पष्टार्थम्। उदात्ते हि विकल्पिते तस्मिन्नसत्यान्तर्यत एव स्वरितो भविष्यतीति। अनुदात्त इति किम् ? दे॒व॒द॒त्तोऽत्र॑। पदादाविति किम् ? वृ॒क्षौ। वृ॒क्षाः॥

नलोपः प्रातिपदिकान्तस्य ॥ ८.२.७॥

पदस्येति वर्तते। प्रातिपदिकस्य पदस्य योऽन्त्यो नकारस्तस्य लोपो भवति। राजा। राजभ्याम्। राजभिः। राजता। राजतरः। राजतमः। प्रातिपदिकग्रहणं किम् ? अह॒न्नहि॑म् (ऋ० १.३२.२)। अन्तग्रहणं किम्? राजानौ। राजानः। प्रातिपदिकग्रहणमसमस्तमेव ‘सुपां सुलुक्०’(७.१.३९) इति षष्ठ्या लुका निर्दिष्टम्॥ अह्नो नलोपप्रतिषेधो वक्तव्यः॥ अहः। अहोभ्याम्, अहोभिः। ‘अहन्’,‘रोऽसुपि’ (८.२.६८, ६९) इति रेफरुत्वयोरसिद्धत्वाद् नलोपः प्राप्नोति, सावकाशं तदुभयं संबुद्धौ-हेऽहः,हे दीर्घाहो निदाघेति? तत्र समाधिमाहुः। ‘अहन्’(८.२.६८) इति रुविधौ यदुपादीयते प्रथमैकवचनान्तमकृतनलोपं तदावर्त्यते, तत्रैकयावृत्त्या तदेवंरूपं नलोपाभावार्थमन्वाख्यायते, द्वितीययापि तस्य रुर्विधीयते॥

न ङिसंबुद्ध्योः ॥ ८.२.८॥

ङौ परतः संबुद्धौ च नकारलोपो न भवति। आ॒र्द्रे चर्म॒न् (तै०सं० ७.५.९.३)। लोहिते चर्मन् (काठ०सं० २४.२)। ‘सुपां सुलुक्०’ (७.१.३९) इति ङेर्लुक्। संबुद्धौ-ेहेराजन्। हे तक्षन्। एतस्मादेव नलोपप्रतिषेधवचनाद् अप्रत्ययः(१.२.४५) इति प्रत्ययलक्षणेन प्रातिपदिकसंज्ञा न प्रतिषिध्यत इति ज्ञाप्यते, भसंज्ञा च न भवतीति। तथा च राज्ञः पुरुषो राजपुरुष इत्यत्र नलोपः(८.२.७) च भवति, अल्लोपः (६.४.१३४) च न भवति॥ ङावुत्तरपदे प्रतिषेधस्य प्रतिषेधो वक्तव्यः॥ चर्मणि तिला अस्य चर्मतिलः। हे राजवृन्दारक इत्यत्र तु समुदायार्थसंबोधनं न पूर्वपदार्थसंबोधनं प्रतीयत इति संबुद्ध्यन्तं पूर्वपदं नैव समस्यते॥ वा नपुंसकानामिति वक्तव्यम्॥ हे चर्मन्। हे चर्म॥

मादुपधायाश्च मतोर्वोऽयवादिभ्यः ॥ ८.२.९॥

मतोरिह कार्यित्वेनोपादानात् सामर्थ्यलब्धं प्रातिपदिकम्, तद् मादिति मकारावर्णाभ्यां विशिष्यते, मकारावर्णविशिष्टया चोपधया इत्ययमर्थो भवति- मकारान्ताद् मकारोपधादवर्णान्तादवर्णोपधात् चोत्तरस्य मतोर्व इत्ययमादेशो भवति, यवादिभ्यस्तु परतो न भवति। मकारान्तात् तावत्-किंवान्। शंवान्। मकारोपधात्-शमीवान्। दाडिमीवान्। अवर्णान्तात्-वृक्षवान्। प्लक्षवान्। खट्वावान्। मालावान्। अवर्णोपधात्-पयस्वान्। यशस्वान्। भास्वान्। मादुपधायाश्चेति किम्? अग्निमान्। वायुमान्। अयवादिभ्य इति किम्? यवमान्। दल्मिमान्। ऊर्मिमान्॥ यव। दल्मि। ऊर्मि। भूमि। कृमि। क्रु ञ्चा। वशा। द्राक्षा। एतेषां ‘मादुपधायाश्च०’ (८.२.९) इति प्राप्नोति। ध्रजि, ध्वजि, सञ्जि इत्येतेषां ‘छन्दसीरः’ (८.२.१५) इति। हरित्, ककुत्, गरुत् इत्येतेषां ‘झयः’ (८.२.१०) इति। इक्षु, मधु, द्रुम, मण्ड, धूम इत्येतेषां ‘संज्ञायाम्’(८.२.११) इति। आकृतिगणश्च यवादिः। अकृतवत्वो मतुब् यवादिषु द्रष्टव्यः। यस्य सति निमित्ते मतुपो वत्वं न दृश्यते, स यवादिषु द्रष्टव्यः। इह नृमत इदं नार्मतमिति बहिरङ्गलक्षणत्वात् अवर्णोपधस्य मतुपो वत्वं न भवति॥

झयः ॥ ८.२.१०॥

झयन्तादुत्तरस्य मतोर्व इत्ययमादेशो भवति। अग्निचित्वान् ग्रामः। उदश्वित्वान् घोषः। विद्युत्वान् बलाहकः। इन्द्रो मरुत्वान् (आ०श्रौ० २.११.१०)। दृषद्वान् देशः॥

संज्ञायाम् ॥ ८.२.११॥

संज्ञायां विषये मतोर्व इत्ययमादेशो भवति। अहीवती। कपीवती। ऋषीवती। मुनीवती॥

आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती॥ ८.२.१२॥

आसन्दीवद् अष्ठीवत् चक्रीवत् कक्षीवद् रुमण्वत् चर्मण्वती इत्येतानि संज्ञायां निपात्यन्ते। वत्वं पूर्वेणैव सिद्धम्, आदेशार्थानि निपातनानि। आसन्दीवदिति आसनशब्दस्यासन्दीभावो निपात्यते। आसन्दीवान् ग्रामः। आसन्दीवदहिस्थलम्। आसनवानित्येवान्यत्र। अपरे त्वाहुः-आसन्दीशब्दोऽपि प्रकृत्यन्तरमेवास्ति, तथा चोक्तम्-औदुम्बरी राजासन्दी भवति (श०ब्रा० ३.३.४.२६,२७) इति। तस्य ‘संज्ञायाम्’ (८.२.११) इति वत्वेन सिद्धम्, आसन्दीवदित्येतत् प्रपञ्चार्थमिह पठ्यते। अष्ठीवदिति अस्थ्नोऽष्ठीभावः। अष्ठीवानिति शरीरैकदेशसंज्ञा। अस्थिमानित्येवान्यत्र। चक्रीवदिति चक्रशब्दस्य चक्रीभावो निपात्यते। चक्रीवान् राजा। चक्रवानित्येवान्यत्र। चक्रीवन्ति सदो हविर्धानानि (का०श्रौ० २४.३.२६) भवन्तीत्येतत् तु छान्दसत्वाद् अनुगन्तव्यम्। कक्षीवदिति कक्ष्यायाः संप्रसारणं निपात्यते। कक्षीवान् नाम ऋषिः। कक्ष्यावानित्येवान्यत्र। रुमण्वदिति लवणशब्दस्य रुमण्भावो निपात्यते। लवणवानित्येवान्यत्र। अपरे त्वाहुः- रुमन्निति प्रकृत्यन्तरमस्ति, तस्यैतद् निपातनं नकारलोपाभावार्थम्, णत्वार्थं च, मतोर्वा नुडर्थमिति। चर्मण्वतीति चर्मणो नलोपाभावो णत्वं च निपात्यते, मतोर्वा नुडागमः। चर्मण्वती नाम नदी। चर्मवतीत्येवान्यत्र॥

उदन्वानुदधौ च॥ ८.२.१३॥

उदन्वानित्युदकशब्दस्य मतावुदन्भावो निपात्यत उदधावर्थे संज्ञायां च विषये। उदन्वान् नाम ऋषिर्यस्यौदन्वतः पुत्रः। उदधौ-उदन्वान्। यस्मिन्नुदकं धीयते, स एवमुच्यते। उदधाविति किम्? उदकवान् घट इत्यत्र तु दधात्यर्थो न विवक्ष्यते। किं तर्हि? उदकसत्तासंबन्धसामान्यम्॥

राजन्वान् सौराज्ये॥ ८.२.१४॥

राजन्वानिति निपात्यते सौराज्ये गम्यमाने। शोभनो राजा यस्मिन्निति स राजन्वान् देशः। राजन्वती पृथ्वी। राजवानित्येवान्यत्र॥

छन्दसीरः॥ ८.२.१५॥

छन्दसि विषय इवर्णान्ताद् रेफान्तात् चोत्तरस्य मतोर्वत्वं भवति। इवर्णान्तात् तावत्-त्रिवती याज्यानुवाक्या भवति। हरिवो मे॒दिनं॑ त्वा (तै०सं० ४.७.१४.४)। अधिपतिवतीर्जुहोति। च॒रुर॑ग्नि॒वाँ इ॑व (ऋ० ७.१०४.२)। आरेवानेतु मा विशत्। ‘रयेर्मतौ०’ (६.१.३७ वा०) इति संप्रसारणम्। स॑र॒स्वती॒वान् भा॑र॒तीवान् (मै०सं० ३.१०.६)। दधि॑वांश्च॒रुः (शौ०सं० १८.४.१७)। ‘छन्दसि सर्वे विधयो विकल्प्यन्ते’ इतीह न भवति-सप्तर्षिमन्तम्, ऋषिमान्, ऋतीमान्, सूर्यं ते द्यावापृथिवीमन्तमिति। रेफान्तात्-गीर्वान्। धूर्वान्। आशीर्वान्॥

अनो नुट्॥ ८.२.१६॥

छन्दसीति वर्तते। अनन्तादुत्तरस्य मतोर्नुडागमो भवति छन्दसि विषये। अ॒क्ष॒ण्वन्तः॒ कर्ण॑वन्तः॒ सखा॑यः (ऋ० १०.७१.७)। अस्थ॒न्वन्तं॒ यद॑न॒स्था बिभ॑र्ति (ऋ० १.१६४.४)। अक्षण्वता लाङ्गलेन (पै०सं० ९.८.१)। शी॒र्ष॒ण्वती॑ (शौ०सं०१०.१.२)। मूर्ध॒न्वती॑ (तै०सं० २.६.२.२)। नुटोऽसिद्धत्वात् तस्य च वत्वं न भवति, ततः परस्य च भवति॥

नाद् घस्य॥ ८.२.१७॥

नकारान्तादुत्तरस्य घसंज्ञकस्य नुडागमो भवति छन्दसि विषये। सुपथिन्तरः। दस्युहन्तमः॥ भूरिदाव्नस्तुड् वक्तव्यः॥ भूरि॒दाव॑त्तरः॒ (ऋ० ८.५.३९)॥ ईद्रथिनः॥ रथिन ईकारान्तादेशो घे परतः। र॒थीत॑रः॒ (ऋ० १.८४.६)। रथशब्दादेव वा मत्वर्थीयोऽयमीकारः ‘छन्दसीवनिपौ॰’ (५.२.१०९ वा०) इति॥

कृपो रो लः॥ ८.२.१८॥

कृपेर्धातो रेफस्य लकारादेशो भवति। र इति श्रुतिसामान्यमुपादीयते। तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोर्द्वयोरपि ग्रहणम्। ल इत्यपि सामान्यमेव। ततोऽयं केवलस्य रेफस्य स्थाने लकारादेशो विधीयते। ऋकारस्याप्येकदेशविकारद्वारेण ऌकारः, एवं च ‘लुटि च क्ऌपः’ (१.३.९३) इत्येवमादयो निर्देशा उपपद्यन्ते। कल्प्ता, कल्प्तारौ, कल्प्तारः। चिक्ऌप्सति। क्ऌप्तः। क्ऌप्तवान्। कृपा इत्येतत् ‘क्रपेः संप्रसारणं च’ (ग०सू० ३०) इति भिदादिषु पाठाद् भवति। तस्य हि कृतसंप्रसारणस्य लाक्षणिकत्वाद् इह कृप इति ग्रहणं नास्ति। कृपणकृपीटकर्पूरादयोऽपि क्रपेरेव द्रष्टव्याः। ‘उणादयो बहुलम्’ (३.३.१) इति वा कृपेरेव लत्वाभावः॥ वालमूललघ्वसुरालमङ्गुलीनां वा रो लमापद्यत इति वक्तव्यम्॥ वालः, वारः। मूलम्, मूरम्। लघु, रघु। असुरः, असुलः। अलम्, अरम्। अङ्गुलिः, अङ्गुरिः॥ कपिलकादीनां संज्ञाछन्दसोर्वा रो लमापद्यत इति वक्तव्यम्॥ कपिरकः, कपिलकः। तिल्पिलीकम्, तिर्पिरीकम्। लोमानि, रोमाणि। पांशुरम्, पांशुलम्। कर्म, कल्म। शुक्रः, शुक्लः। रलयोरेकत्वस्मरणमिति केचित्। किमिदमेकत्वस्मरणमिति? समानविषयत्वमेव तयोः स्मर्यत इत्यर्थः॥

उपसर्गस्यायतौ॥ ८.२.१९॥

अयतौ परत उपसर्गस्य यो रेफस्तस्य लकार आदेशो भवति। प्लायते। पलायते। अत्र च योऽयमेकादेशः, तस्य स्थानिवद्भावादयतेरुपसर्गस्य च विभागे सति, यद्ययतिग्रहणं रेफस्य विशेषणम्, तदा ‘येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्’ (व्या०प० ४६) इत्येकेन वर्णेन व्यवधानेऽपि सति लत्वं भवति। तथा च पल्ययत इत्यत्रापि भवति। उपसर्गविशेषणे त्वयतिग्रहणे सिद्धमेवैतत् सर्वम्, प्रतेरपि तु व्यवहितेऽपि प्राप्नोति। तत्र केषांचिद् दर्शनम्-भवितव्यमेव प्लत्ययत इति। प्रथमपक्षदर्शनाभिनिविष्टास्तु प्रत्ययत इत्येव भवतीति मन्यन्ते। अपरे तु प्रतिशब्दोपसृष्टस्यायतेः प्रयोगमेव नेच्छन्ति। निस् दुस् इत्येतयोस्तु रुत्वस्यासिद्धत्वाद् लत्वेन नैव भवितव्यम्। निरयणम्। दुरयणम्॥

ग्रो यङि॥ ८.२.२०॥

गृृ इत्येतस्य धातो रेफस्य लकार आदेशो भवति यङिपरतः। निजेगिल्यते,निजेगिल्येते, निजेगिल्यन्ते। भावगर्हायां ग्रो यङ् विहितः (३.१.२४)। केचिद् ग्र इति गिरतेर्गृणातेश्च सामान्येन ग्रहणमिच्छन्ति। अपरे तु गिरतेरेव, न गृणातेः। गृणातेर्हि यङेव नास्ति, अनभिधानादिति। यङीति किम् ? निगीर्यते॥

अचि विभाषा॥ ८.२.२१॥

अजादौ प्रत्यये परतो रेफस्य विभाषा लकारादेशो भवति। निगिरति, निगिलति। निगरणम्, निगलनम्। निगारकः, निगालकः। इयं तु व्यवस्थितविभाषा। तेन गल इति प्राण्यङ्गे नित्यं लत्वं भवति, गर इति विषे नित्यं न भवति। निगार्यते, निगाल्यत इति णिलोपस्य स्थानिवद्भावादचि विभाषेति लत्वविकल्पः। ‘पूर्वत्रासिद्धे न स्थानिवत्’ (महाभाष्य १.१५४) इत्येतदपि सापवादमेव, तस्य दोषः संयोगादिलोपलत्वणत्वेषु (महाभाष्य १.१५५) इति। अन्तरङ्गत्वाद् वा कृते लत्वविकल्पे णिलोपो भविष्यति। गिरौ, गिर इत्यत्र ‘धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम्’ (पु०वृ० ५५) इति लत्वं न भवति। गिरतिर्वा लत्वविधावधिकृतो गृणातेरेतद् रूपम॥

परेश्च घाङ्कयोः॥ ८.२.२२॥

परि इत्येतस्य यो रेफस्तस्य घशब्देऽङ्कशब्दे च परतो विभाषा लकार आदेशो भवति। परिघः, पलिघः। पर्यङ्कः, पल्यङ्कः। घ इति स्वरूपग्रहणमत्रेष्यते, न ‘तरप्तमपौ’ (१.१.२२) इति ॥ योगे चेति वक्तव्यम्॥ परियोगः, पलियोगः॥

संयोगान्तस्य लोपः॥ ८.२.२३॥

संयोगान्तस्य पदस्य लोपो भवति। गोमान्। यवमान्। कृतवान्। हतवान्। इह श्रेयान्, भूयानिति रुत्वं परमप्यसिद्धत्वात् संयोगान्तस्य लोपं न बाधते। जश्त्वे तु नाप्राप्ते तदारभ्यत इति तस्य बाधकं भवति-यशः, पय इति। दध्यत्र, मध्वत्रेत्यत्र तु यणादेशस्य बहिरङ्गलक्षणस्यासिद्धत्वात् संयोगान्तलोपो न भवति॥

रात् सस्य॥ ८.२.२४॥

संयोगान्तस्य पदस्य यो रेफस्तस्मादुत्तरस्यान्त्यस्य सकारस्य लोपो भवति। गो-भि॑रक्षाः॒ (ऋ० ९.१०७.९)। प्॒रत्यञ्च॑मत्साः(ऋ० १०.२८.४)। क्षरतेः त्सरतेश्च लुङिसिचश्छान्दसत्वादीडभावो ‘बहुलं छन्दसि’(७.३.९७) इति वचनात्। वृद्धौ सत्यां रूपमेतत्। मातुः, पितुरिति ‘ऋत उत्’(६.१.१११) इत्युत्वे कृते रपरत्वे (१.१.५१) च सति रात् सस्येति सलोपः। सिद्धे सत्यारम्भो नियमार्थः- रात् सस्यैव लोपो भवति, नान्यस्येति। ऊर्जेः क्विप्-ऊर्क। मृजेर्लङि-न्यमार्ट्॥

धि च॥ ८.२.२५॥

धकारादौ प्रत्यये परतः सकारस्य लोपो भवति। अलविध्वम्, अलविढ्वम्। अपविध्वम्, अपविढ्वम्। यद्यत्र सकारलोपो न स्यात्, सिचः षत्वे जश्त्वे च ‘विभाषेटः’ (८.३.७९) इति मूर्धन्याभावपक्षेऽपि न धकारः श्रूयेत। इतः प्रभृति सिचः सकारस्य लोप इष्यते। इह न भवति-चकाद्धि पलितं शिर इति। तथा पयो धावतीत्येवमादावपि न भवति। सग्धिः॑ (मा०सं० १८.९) ब॒ब्धाम् (निरु० ५.१२) इति छान्दसो वर्णलोपः। भाष्यकारस्त्वाह-चकाधीत्येव भवितव्यमिति। तेन पयो धावतीत्येवमादौ यत्नान्तरमास्थेयम्॥

धि सकारे सिचो लोपश्चकाद्धीति प्रयोजनम्।

आशाध्वं तु कथं जश्त्वं सकारस्य भविष्यति ॥ १॥

सर्वमेवं प्रसिद्धं स्याच्छ्रुतिश्चापि न भिद्यते।

लुङश्चापि न मूर्धन्ये ग्रहणं सेटि दुष्यति॥ २॥

घसिभसोर्न सिध्येत तस्मात् सिज्ग्रहणं न तत्।

छान्दसो वर्णलोपो वा यथेष्कर्तारमध्वरे॥ ३॥

नि॒ष्क॒र्तार॑मध्व॒रस्य॒ (तै०सं० ४.२.७.३) इत्येवं प्राप्ते॥

झलो झलि ॥ ८.२.२६॥

झल उत्तरस्य सकारस्य झलि परतो लोपो भवति। अभित्त। अभित्थाः। अच्छित्त। अच्छित्थाः। अवात्ताम्, अवात्तेत्यत्र वा सिचः सकारलोपस्यासिद्धत्वात् ‘सः स्यार्धधातुके’ (७.४.४९) इति सकारस्य तकारः। झल इति किम्? अमंस्त। अमंस्थाः। झलीति किम्? अभित्साताम्। अभित्सत। अयमपि सिच एव लोपः, तेनेह न भवति-सोमसुत् स्तोता, दृषत्स्थानमिति॥

ह्रस्वादङ्गात्॥ ८.२.२७॥

ह्रस्वान्तादङ्गादुत्तरस्य सकारस्य लोपो भवति झलि परतः। अकृत। अकृथाः। अहृत। अहृथाः। ह्रस्वादिति किम्? अच्योष्ट। अप्लोष्ट। अङ्गादिति किम् ? अलाविष्टाम्, अलाविषुः। झलीत्येव-अकृषाताम्, अकृषत। अयमपि सिच एव लोपः, तेनेह न भवति-द्विष्टराम्, द्विष्टमामिति। सुजन्ताद् द्विशब्दात्तरप्तमपौ, अद्रव्यप्रकर्ष आतिशायिकाद् आम् प्रत्ययः॥

इट ईटि॥ ८.२.२८॥

इट उत्तरस्य सकारस्य लोपो भवतीटि परतः। अदेवीत्। असेवीत्। अकोषीत्। अमोषीत्। इट इति किम् ? अकार्षीत्। अहार्षीत्। ईटीति किम् ? अलाविष्टाम्, अलाविषुः॥

स्कोः संयोगाद्योरन्ते च॥ ८.२.२९॥

पदस्यान्ते यः संयोगः, झलि परतो वा यः संयोगः, तदाद्योः सकारककारयोर्लोपो भवति। लस्जेः-लग्नः। लग्नवान्। साधुलक् । मस्जेः- मग्नः। ककारस्य-तक्षेः- तट्। तष्टः। तष्टवान्। काष्ठतट्॥ झलि सङीति वक्तव्यम्॥ किमिदं सङीति? सनः सप्रभृति महिङो ङकारेण प्रत्याहारः। इह मा भूत्-काष्ठशक् स्थातेति। थकारे झलि ककारस्य संयोगादेर्लोपः प्राप्नोति। तदत्र शकेः क्विबन्तस्य प्रयोग एव नास्तीत्याह-‘काष्ठशगेव नास्ति कुतोऽयं काष्ठशकि तिष्ठेत्’ (महाभाष्य ३.४००) इति। वास्यर्थम्, काक्यर्थम् इत्यत्रापि बहिरङ्गलक्षणस्य यणादेशस्यासिद्धत्वात् संयोगादिलोपो न भवति। स्कोरिति किम्? नर्नर्त्ति। वर्वर्त्ति। संयोगाद्योरिति किम्? पयः। शक् । अन्ते चेति किम्? तक्षिता। तक्षकः॥

चोः कुः ॥ ८.२.३०॥

चवर्गस्य कवर्गादेशो भवति झलि परतः पदान्ते च। पक्ता। पक्तुम्। पक्तव्यम्। ओदनपक्। वक्ता। वक्तुम्। वक्तव्यम्। वाक्। क्रुञ्चेत्यत्र सङीति वचनाद् ञकारस्य चकारे झलि कुत्वं न भवति। युजिक्रु ञ्चां च (३.२.५९) इति निपातनाद् वा। नकारोपधो वा धातुरयं रेफरहितश्च ‘कुञ्च कौटिल्याल्पीभावयोः’ इति पठ्यते। नकारलोपे हि निकुचितिः (महाभाष्य १.२००) इति दृश्यते। युजिक्रुञ्चां च (३.२.५९) इति तस्यैव रेफोऽधिकः,नकारस्य लोपाभावश्चेति निपात्यते। तत्रानुस्वारस्य परसवर्णस्य चासिद्धत्वाद् ञकार एव नास्तीति कुत्वं न भविष्यति॥

हो ढः ॥ ८.२.३१॥

हकारस्य ढकारादेशो भवति झलि परतः, पदान्ते च। सोढा। सोढुम्। सोढव्यम्। जलाषाट्। वोढा। वोढुम्। वोढव्यम्। प्रष्ठवाट्। दित्यवाट्॥

दादेर्धातोर्घः ॥ ८.२.३२॥

दकारादेर्धातोर्हकारस्य घकारादेशो भवति झलि परतः पदान्ते च। दग्धा। दग्धुम्। दग्धव्यम्। काष्ठधक् । दोग्धा। दोग्धुम्। दोग्धव्यम्। गोधुक् । दादेरिति किम् ? लेढा ? लेढुम्। लेढव्यम्। गुडलिट्। धातोरिति दादिसमानाधिकरणमेतद् न। किं तर्हि? तद्विशेषणमवयवषष्ठ्यन्तम्-धातोरवयवो यो दादिः शब्दस्तदवयवस्य हकारस्येति। किं कृतं भवति? अधोगित्यत्रापि घकारः सिद्धो भवति। कथं दोग्धा, दोग्धुमिति? व्यपदेशिवद्भावात्। अथवा धातूपदेशे यो दादिरित्येवं विज्ञायते। तथा च दामलिहमिच्छति दामलिह्यति, दामलिह्यतेः क्विप् प्रत्ययो दामलिडित्यत्रापि न भवति॥

वा द्रुहमुहष्णुहष्णिहाम् ॥ ८.२.३३॥

द्रुह मुह ष्णुह ष्णिह इत्येतेषां धातूनां हकारस्य वा घकारादेशो भवति झलि परतः, पदान्ते च। द्रुह-द्रोग्धा, द्रोढा। मित्रध्रुक्, मित्रध्रुट्। मुह-उन्मोग्धा, उन्मोढा। उन्मुक् , उन्मुट्। ष्णुह-उत्स्नोग्धा, उत्स्नोढा। उत्स्नुक्, उत्स्नुट्। ष्णिह-स्नेग्धा, स्नेढा। स्निक् , स्निट्। द्रुहेर्दादित्वाद् घत्वं नित्यं प्राप्तम्, इतरेषामप्राप्तमेव घत्वं विकल्प्यते॥

नहो धः॥ ८.२.३४॥

नहो हकारस्य धकारादेशो भवति झलि परे, पदान्ते च। नद्धम्। नद्धुम्। नद्धव्यम्। उपानत्। परीणत्॥

आहस्थः॥ ८.२.३५॥

आहो हकारस्य धकारादेशो भवति झलि परतः। इदमात्थ। किमात्थ। आदेशान्तरकरणं ‘झषस्तथोर्धोऽधः’ (८.२.४०) इत्यस्य निवृत्त्यर्थम्। झलीत्येव-आह,आहतुः, आहुः॥ हृग्रहोर्भश्छन्दसि हस्येति वक्तव्यम्॥ गर्द॒भेन॒ संभ॑रति॒ (तै०सं० ५.१.५.५)। ग्रभीता। जभ्रिरे। उ॒द्ग्रा॒भं च॒ निग्रा॒भं च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन् (तै०सं० १.१.१३.१)॥

व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः॥ ८.२.३६॥

व्रश्च भ्रस्ज सृज मृज यज राज भ्राज इत्येतेषाम्, छकारान्तानाम्, शकारान्तानां च षकार आदेशो भवति झलि परतः, पदान्ते च। व्रश्च-व्रष्टा। व्रष्टुम्। व्रष्टव्यम्। मूलवृट्। भ्रस्ज-भ्रष्टा। भ्रष्टुम्। भ्रष्टव्यम्। धानाभृट्। सृज-स्रष्टा। स्रष्टुम्। स्रष्टव्यम्। रज्जुसृट्। मृज-मार्ष्टा। मार्ष्टुम्। मार्ष्टव्यम्। कंसपरिमृट्। यज-यष्टा। यष्टुम्। यष्टव्यम्। उपयट्। राज-सम्राट्। स्वराट्। विराट्। भ्राज-विभ्राट्। राजभ्राजोः पदान्तार्थं ग्रहणम्, झलादिराभ्यामिटा पर्यवपद्यते। केचित् तु राष्टिर्भ्राष्टिरिति क्तिन्नन्तम् इच्छन्ति। छकारान्तानाम्-प्रच्छ-प्रष्टा। प्रष्टुम्। प्रष्टव्यम्। शब्दप्राट्। ‘च्छ्वोः शूडनुनासिके च’ (६.४.१९) इत्यत्र क्ङितीत्यनुवर्तत इति छग्रहणमिह क्रियते। शकारान्तानाम्-लिश्-लेष्टा। लेष्टुम्। लेष्टव्यम्। लिट्। विश्-वेष्टा। वेष्टुम्। वेष्टव्यम्। विट्॥

एकाचो बशो भष् झषन्तस्य स्ध्वोः॥ ८.२.३७॥

धातोरवयवो य एकाच् झषन्तः तदवयवस्य बशः स्थाने भष् आदेशो भवति झलि सकारे ध्वशब्दे च परतः, पदान्ते च। अत्र चत्वारो बशः स्थानिनो भषादेशाश्चत्वार एव, तत्र संख्यातानुदेशे प्राप्ते डकारस्य स्थानिनोऽभावात् ढकारादेशो न भवति? आन्तर्यतो व्यवस्था विज्ञास्यते। बुध-भोत्स्यते। अभुद्ध्वम्। अर्थभुत्। गुह-निघोक्ष्यते। न्यघूढ्वम्। पर्णघुट्। दुह-धोक्ष्यते। अधुग्ध्वम्। गोधुक् । अजर्घाः- गृधेर्यङ्लुगन्तस्य लङिसिपि लघूपधगुणे कृते सिपो हल्ङ्यादिलोपे च धातोरवयवस्यैकाचो बशः स्थाने भष्भावः, ततो धकारस्य जश्त्वम्,‘दश्च’(८.२.७५) इति रुत्वम्,‘रो रि’ (८.३.१४) इति पूर्वरेफस्य लोपः,‘ढ्रलोपे पूर्वस्य दीर्घोऽणः’(६.३.१११) इति दीर्घत्वम्। गर्दभयतेरप्रत्ययः- गर्द्धप्। एकाच इति किम् ? दामलिहमिच्छति दामलिह्यति, दामलिह्यतेरप्रत्ययो दामलिट्। असति ह्येकाज्ग्रहणे धातोरित्येतद् बशो विशेषणं स्यात्। बश इति किम्? क्रुध-क्रोत्स्यति। झषन्तस्येति किम्? दास्यति। स्ध्वोरिति किम्? बोद्धा। बोद्धुम्। बोद्धव्यम्। धकारस्य वकारोपसृष्टस्य ग्रहणं किम्? दादद्धि। ‘दध धारणे’ इत्येतस्य यङ्लुकि लोटि ‘हुझल्भ्यो हेर्धिः’ (६.४.१०१) इति धिभावे सत्येतद् भवति॥

** दधस्तथोश्च॥ ८.२.३८॥**

दध इति दधातिः कृतद्विर्वचनो निर्दिश्यते। तस्य झषन्तस्य बशः स्थाने भष् आदेशो भवति तकारथकारयोः परतः, चकारात् स्ध्वोश्च परतः। धत्तः। धत्थः। धत्से। धत्स्व। धद्ध्वम्। वचनसामर्थ्यादातो लोपस्य स्थानिवद्भावो न भवति, अभ्यासजश्त्वस्य चासिद्धत्वम्। तथोरिति किम्? आनन्तर्यात् स्ध्वोरेव विज्ञायेत। चकारस्तयोरनुवृत्त्यर्थः। झषन्तस्येत्येव-दधाति॥

** झलां जशोऽन्ते॥ ८.२.३९॥**

झलां जश आदेशा भवन्ति पदस्यान्ते वर्तमानानाम्। वागत्र। श्वलिडत्र। अग्निचिदत्र। त्रिष्टुबत्र। अन्तग्रहणं झलीत्येतस्य निवृत्त्यर्थम्। वस्ता। वस्तव्यम्॥

झषस्तथोर्धोऽधः॥ ८.२.४०॥

झष उत्तरयोस्तकारथकारयोः स्थाने धकार आदेशो भवति, दधातिं वर्जयित्वा। लब्धा। लब्धुम्। लब्धव्यम्। अलब्ध। अलब्धाः। दुह-दोग्धा। दोग्धुम्। दोग्धव्यम्। अदुग्ध। अदुग्धाः। लिह-लेढा। लेढुम्। लेढव्यम्। अलीढ। अलीढाः। बुध-बोद्धा। बोद्धुम्। बोद्धव्यम्। अबुद्ध। अबुद्धाः। अध इति किम्? धत्तः। धत्थः॥

षढोः कः सि॥ ८.२.४१॥

षकारढकारयोः ककारादेशो भवति सकारे परतः। षकारस्य-पिष्-पेक्ष्यति। अपेक्ष्यत्। पिपिक्षति। ढकारस्य-लिह-लेक्ष्यति। अलेक्ष्यत्। लिलिक्षति। सीति किम् ? पिनष्टि। लेढि॥

रदाभ्यां निष्ठातो नः पूर्वस्य च दः ॥ ८.२.४२॥

रेफदकाराभ्यामुत्तरस्य निष्ठातकारस्य नकार आदेशो भवति, पूर्वस्य च दकारस्य रेफात् तावत्-आस्तीर्णम्। विस्तीर्णम्। विशीर्णम्। निगीर्णम्। अवगूर्णम्। दकारात्-भिन्नः। भिन्नवान्। छिन्नः। छिन्नवान्। रदाभ्यामिति किम्? कृतः। कृतवान्। र इत्यत्र रश्रुतिसामान्यं नोपादीयते। किं तर्हि? व्यञ्जनमात्रम्। रेफसामान्यनिर्देशेऽपि सति रेफात् परा याज्भक्तिः, तद्व्यवधानाद् नत्वं न भवति। निष्ठेति किम्? कर्ता। हर्ता। त इति किम्? चरितम्। मुदितम्। पूर्वस्येति किम्? परस्य मा भूत्-भिन्नवद्भ्याम्, भिन्नवद्भिः। इह कृतस्यापत्यं कार्तिरिति वृद्धेर्बहिरङ्गलक्षणाया असिद्धत्वाद् नत्वे कर्तव्ये रेफस्यासिद्धत्वम्॥

संयोगादेरातो धातोर्यण्वतः॥ ८.२.४३॥

संयोगादिर्यो धातुराकारान्तो यण्वान्, तस्मादुत्तरस्य निष्ठातकारस्य नकारादेशो भवति। प्रद्राणः। प्रद्राणवान्। म्लानः। म्लानवान्। संयोगादेरिति किम्? यातः। यातवान्। आत इति किम्? च्युतः। च्युतवान्। प्लुतः। प्लुतवान्। धातोरिति किम्? निर्यातः। निर्वातः। यण्वत इति किम्? स्नातः। स्नातवान्॥

ल्वादिभ्यः॥ ८.२.४४॥

‘लूञ् छेदने’ इत्येतत्प्रभृति ‘व्री वरणे’ इति यावत् वृत्करणेन समापिता ल्वादयो गृह्यन्ते। तेभ्य उत्तरस्य निष्ठातकारस्य नकारादेशो भवति। लूनः। लूनवान्। धूनः। धूनवान्। जीनः। जीनवान्॥ ॠकारल्वादिभ्यः क्तिन्निष्ठावद् भवतीति वक्तव्यम्॥ कीर्णिः। गीर्णिः। शीर्णिः। लूनिः। धूनिः॥ दुग्वोर्दीर्घश्चेति वक्तव्यम्॥ दु-आदूनः। गु-विगूनः॥ पूञो विनाश इति वक्तव्यम्॥ पूना यवाः। विनष्टा इत्यर्थः। विनाश इति किम्? पूतं धान्यम्॥ सिनोतेर्ग्रासकर्मकर्तृकस्येति वक्तव्यम्॥ सिनो ग्रासः स्वयमेव। ग्रासकर्मकर्तृकस्येति किम्? सिता पाशेन सूकरी। ग्रासोऽपि यदा कर्मैव भवति न कर्मकर्ता, तदा न भवति-सितो ग्रासो देवदत्तेनेति॥

ओदितश्च॥ ८.२.४५॥

ओकारेतो धातोरुत्तरस्य निष्ठातकारस्य नकारादेशो भवति। ओलस्जी-लग्नः। लग्नवान्। ओविजी- उद्विग्नः। उद्विग्नवान्। ‘ओप्यायी वृद्धौ’- आपीनः। आपीनवान्। ‘स्वादय ओदितः’। षूङ्-सूनः। सूनवान्। दूङ्-दूनः। दूनवान्। दीङ्-दीनः। दीनवान्। डीङ्-डीनः। डीनवान्। धीङ्-धीनः। धीनवान्। मीङ्-मीनः। मीनवान्। रीङ्-रीणः। रीणवान्। लीङ्-लीनः। लीनवान्। व्रीङ्-व्रीणः। व्रीणवान्॥

क्षियो दीर्घात्॥ ८.२.४६॥

क्षियो धातोर्दीर्घादुत्तरस्य निष्ठातकारस्य नकारादेशो भवति। क्षीणाः क्लेशाः। क्षीणो जाल्मः। क्षीणस्तपस्वी। ‘क्षियः’, ‘निष्ठायामण्यदर्थे’, ‘वाक्रोशदैन्ययोः’ (६.४.५९,६०,६१) इति दीर्घत्वं भवति। दीर्घादिति किम्? अक्षि॑तमसि॒ मा मे॑क्षेष्ठाः (तै०सं०१.६.५.१)। अक्षितमिति क्तप्रत्ययो भावे, भावश्च ण्यदर्थ इति दीर्घाभावः। ह्रस्वस्यापि हि धात्वनुकरणस्य दृष्ट इयङा निर्देशः- ‘क्षियः’, ‘निष्ठायामण्यदर्थे’ (६.४.५९,६०) इत्यत्र दीर्घग्रहणं क्रियते। ‘विपराभ्यां जेः’ (१.३.१९) इत्येवमादौ तु धातुत्वमनुकार्यगतं सदप्यविवक्षितत्वाद् जिरूपसामान्यानुकरणं द्रष्टव्यम्॥

श्योऽस्पर्शे॥ ८.२.४७॥

श्यायतेरुत्तरस्य निष्ठातकारस्यास्पर्शे नकार आदेशो भवति। शीनं घृतम्। शीनं मेदः। शीना वसा। अस्पर्श इति किम्? शीतं वर्तते। शीतो वायुः। शीतमुदकमित्यत्र गुणभूतोऽपि स्पर्शो नत्वप्रतिषेधस्य संप्रसारणस्य च निमित्तं भवति। गुणे च स्पर्शे प्रतिषेधोऽयं न रोगे, तेन प्रतिशीन इत्यत्र नत्वं भवत्येव॥

अञ्चोऽनपादाने ॥ ८.२.४८॥

अञ्चतेरुत्तरस्य निष्ठातकारस्य नकारादेशो भवति, न चेदपादानं तत्र भवति। समक्नौ शकुनेः पादौ। तस्मात् पशवो न्यक्नाः (काठ० सं० २९.९)। अनपादान इति किम्? उदक्तमुदकं कूपात्। व्यक्तमित्येतदञ्जे रूपम्॥

दिवोऽविजिगीषायाम् ॥ ८.२.४९॥

दिव उत्तरस्य निष्ठातकारस्य नकारादेशो भवति अविजिगीषायामर्थे। आद्यूनः। परिद्यूनः। अविजिगीषायामिति किम्? द्यूतं वर्तते। विजिगीषया हि तत्राक्षपातनादि क्रियते॥

निर्वाणोऽवाते ॥ ८.२.५०॥

निर्वाण इति निस्पूर्वाद् वातेरुत्तरस्य निष्ठातकारस्य नकारो निपात्यते, न चेद् वाताधिकरणो वात्यर्थो भवति। निर्वाणोऽग्निः। निर्वाणः प्रदीपः। निर्वाणो भिक्षुः। अवात इति किम्? निर्वातो वातः। निर्वातं वातेन। निर्वाणः प्रदीपो वातेनेत्यत्र तु प्रदीपाधिकरणो वात्यर्थः, वातस्तु तस्य करणमिति भवत्येव नत्वम्॥

शुषः कः ॥ ८.२.५१॥

शुषेर्धातोरुत्तरस्य निष्ठातकारस्य ककारादेशो भवति। शुष्कः। शुष्कवान्॥

पचो वः ॥ ८.२.५२॥

पचेर्धातोरुत्तरस्य निष्ठातकारस्य वकारादेशो भवति। पक्वः। पक्ववान्॥

क्षायो मः ॥ ८.२.५३॥

क्षैधातोरुत्तरस्य निष्ठातकारस्य मकारादेशो भवति। क्षामः। क्षामवान्॥

प्रस्त्योऽन्यतरस्याम् ॥ ८.२.५४॥

प्रपूर्वात् स्त्यायतेरुत्तरस्य निष्ठातकारस्यान्यतरस्यां मकारादेशो भवति। प्रस्तीमः। प्रस्तीमवान्। प्रस्तीतः। प्रस्तीतवान्। यदा मत्वं नास्ति तदा ‘संयोगादेरातो धातोर्यण्वतः’(८.२.४३) इत्यस्य पूर्वत्रासिद्धत्वात् संप्रसारणं प्रथमं क्रियते। तत्र कृते निमित्तव्याघाताद् नत्वं न भवति॥

अनुपसर्गात् फु ल्लक्षीबकृशोल्लाघाः ॥ ८.२.५५॥

फुल्ल क्षीब कृश उल्लाघ इत्येते निपात्यन्ते, न चेदुपसर्गादुत्तरा भवन्ति। फुल्ल इति ‘ञिफला विशरणे’ इत्येतस्माद् धातोरुत्तरस्य निष्ठातकारस्य लकारो निपात्यते। उत्वमिडभावश्च सिद्ध एव। क्तवत्वन्तस्याप्येतद् लत्वमिष्यते-फुल्लः, फुल्लवानिति। क्षीबकृशोल्लाघा इति क्षीबिकृशिभ्यामुत्पूर्वात् च लाघेः क्तप्रत्ययस्य तलोप इडभावश्च निपात्यते, कृते वेटि इच्छब्दलोपः। क्षीबः। कृशः। उल्लाघः। अनुपसर्गादिति किम्? प्रफुल्ताः सुमनसः। प्रक्षीबितः। प्रकृशितः। प्रोल्लाघितः। लाघेरुदोऽन्य उपसर्गः प्रतिषिध्यते॥ उत्फुल्लसंफुल्लयोरिति वक्तव्यम्॥ उत्फुल्लः। संफुल्लः। परिकृश इत्यत्र यः परिशब्दः स क्रियान्तरयोगात् कृशिं प्रत्यनुपसर्ग एव-परिगतः कृशः परिकृश इति॥

नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् ॥ ८.२.५६॥

नुद विद उन्द त्रा घ्रा ह्री इत्येतेभ्य उत्तरस्य निष्ठातकारस्य नकार आदेशो भवत्यन्यतरस्याम्। नुद-नुन्नः, नुत्तः। विद-विन्नः, वित्तः। उन्द-समुन्नः, समुत्तः। त्रा-त्राणः, त्रातः। घ्रा-घ्राणः, घ्रातः। ह्री-ह्रीणः, ह्रीतः। ह्री इत्येतस्मादप्राप्तं नत्वम्, इतरेषां नित्यं प्राप्तं विकल्प्यते। ‘विद विचारणे’ इत्यस्य विदेरिह ग्रहणमिष्यते। एवं ह्युक्तम्-

				वेत्तेस्तु विदितो निष्ठा विद्यतेर्विन्न इष्यते।

				विन्तेर्विन्नश्च वित्तश्च भोगवित्तश्च विन्दतेः॥ इति॥

न ध्याख्यापृृमूर्चि्छमदाम्॥ ८.२.५७॥

ध्या ख्या पृृ मूर्च्छि मद इत्येतेषां निष्ठातकारस्य नकारादेशो न भवति। ध्यातः। ध्यातवान्। ख्यातः। ख्यातवान्। पूर्तः। पूर्तवान्। मूर्तः। मूर्तवान्। मत्तः। मत्तवान्। ‘रदाभ्यां०’(८.२.४२),‘संयोगादेः०’(८.२.४३) इति च प्राप्तः प्रतिषिध्यते॥

वित्तो भोगप्रत्यययोः॥ ८.२.५८॥

वित्त इति विदेर्लाभार्थात् उत्तरस्य क्तस्य नत्वाभावो निपात्यते भोगे प्रत्यये चाभिधेये। वित्तमस्य बहु। धनमस्य बह्वित्यर्थः। धनं हि भुज्यत इति भोगोऽभिधीयते। प्रत्यये-वित्तोऽयं मनुष्यः। प्रतीत इत्यर्थः। प्रतीयत इति प्रत्ययः। भोगप्रत्यययोरिति किम्? विन्नः॥

भित्तं शकलम्॥ ८.२.५९॥

भित्तमिति निपात्यते शकलं चेत् तद् भवति। भित्तं तिष्ठति। भित्तं प्रपतति। शकलपर्यायोऽयम्। अत्र भिदिक्रि या शब्दव्युत्पत्तेरेव निमित्तम्। भिदिक्रियाविवक्षायां हि शकलविषये भिन्नं भित्तमित्येव भवति॥

ऋणमाधमर्ण्ये॥ ८.२.६०॥

ऋणमिति ऋ इत्येतस्माद् धातोरुत्तरस्य निष्ठातकारस्य नकारो निपात्यत आधमर्ण्यविषये। अधम ऋणेऽधमर्णः। एतस्मादेव निपातनात् सप्तम्यन्तेनोत्तरपदेन समासः, तद्भाव आधमर्ण्यम्। यद्येवम्, उत्तमर्ण इति न सिध्यति? नैष दोषः। कालान्तरदेयविनिमयोपलक्षणार्थं चेदमुपात्तम्। तेनोत्तमर्ण इत्यपि हि भवति। ऋणं ददाति। ऋणं धारयति। आधमर्ण्य इति किम्? ऋतं वक्ष्यामि नानृतम्॥

नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि॥ ८.२.६१॥

नसत्त निषत्त अनुत्त प्रतूर्त सूर्त गूर्त इत्येतानि छन्दसि विषये निपात्यन्ते। नसत्त निषत्तेति सदेर्नञ्पूर्वाद् निपूर्वात् च नत्वाभावो निपात्यते। नसत्तमञ्जसा। नसन्नमिति भाषायाम्। निष॑त्तः (ऋ०१.५८.३)। निषण्ण इति भाषायाम्। अनुत्तमित्युन्देर्नञ्पूर्वस्य निपातनम्। अनु॑त्त॒मा ते॑ मघव॒न् (ऋ० १.१६५.९)। अनुन्नमिति भाषायाम्। प्रतूर्तमिति त्वरतेः, तुर्वी इत्येतस्य वा निपातनम्। प्रतू॑र्तं वाजि॒न् (तै०सं० ४.१.२.१)। प्रतूर्णमिति भाषायाम्। सूर्तमिति सृ इत्येतस्योत्वं निपात्यते। सूर्ता गावः। सृता गाव इति भाषायाम्। गूर्तमिति गूरी इत्येतस्य नत्वाभावो निपात्यते। गूर्ता अ॒मृत॑स्य॒ (मा०सं० ६.३४)। गूर्णमिति भाषायाम्॥

क्विन्प्रत्ययस्य कुः॥ ८.२.६२॥

पदस्येति वर्तते। क्विन्प्रत्ययस्य सर्वत्र पदान्ते कुत्वमिष्यते। क्विन् प्रत्ययो यस्माद् धातोः स क्विन्प्रत्ययः, तस्य पदस्यालोऽन्त्यस्य कवर्गादेशो भवति। ‘स्पृशोऽनुदके क्विन्’ (३.२.५८)-घृतस्पृक् । हलस्पृक्। मन्त्रस्पृक्। क्विनः कुरिति वक्तव्ये प्रत्ययग्रहणं कृतं बहुव्रीहिविज्ञानार्थम्, क्विन् प्रत्ययो यस्माद् विहितस्तस्मादन्यस्मिन्नपि प्रत्यये कुत्वं यथा स्यात्। मा नो अस्राक्। मा नो अद्राक् । सृजिदृशिभ्यां हि क्विन् विहितः,तयोर्लुङि कुत्वमेतत्। माङ्योगेऽपि छान्दसत्वादडागमः। ईट् च न भवति ‘बहुलं छन्दसि’ (७.३.९७) इति। तथा दृग्भ्याम्, दृग्भिरिति क्विबन्तस्यापि दृशेः कुत्वं भवति। एवं च सति रज्जुसृड्भ्यामित्यत्रापि कुत्वं प्राप्नोति। अथ तु नेष्यते, प्रतिविधानं कर्तव्यमिति॥

नशेर्वा॥ ८.२.६३॥

पदस्येति वर्तते। नशेः पदस्य वा कवर्गादेशो भवति। सा वै जीवनगाहुतिः। सा॑ वै॑ जी॒वन॒डा॑हु॒तिः (मै०सं० १.४.१३)। नशेरयं संपदादित्वाद् भावे क्विप्। जीवस्य नाशो जीवनक् , जीवनट्। षत्वे प्राप्ते कुत्वविकल्पः॥

मो नो धातोः॥ ८.२.६४॥

मकारान्तस्य धातोः पदस्य नकारादेशो भवति। प्रशान्। प्रतान्। प्रदान्। शमितमिदमादीनां क्विप्। ‘अनुनासिकस्य क्विझलोः क्ङिति’ (६.४.१५) इति दीर्घत्वम्। नत्वस्यासिद्धत्वाद् नलोपो न भवति। म इति किम्? भित्। छित्। धातोरिति किम्? इदम्। किम्। पदस्येत्येव-प्रतामौ। प्रतामः॥

म्वोश्च॥ ८.२.६५॥

मकारवकारयोश्च परतः मकारान्तस्य धातोर्नकारादेशो भवति। अग॑न्म॒ तम॑सस्पा॒रम् (मा०सं० १२.७३)। अगन्व। गमेर्लङि ‘बहुलं छन्दसि’ (२.४.७३) इति शपो लुक् । जगन्वान्। ‘विभाषा गमहनविदविशाम्’ (७.२.६८) इति क्वसाविडागमस्याभावः। अपदान्तार्थ आरम्भः॥

ससजुषो रुः॥ ८.२.६६॥

सकारान्तस्य पदस्य सजुष् इत्येतस्य च रुर्भवति। सकारान्तस्य-अग्निरत्र। वायुरत्र। सजुषः- स॒जू॑र्ऋ॒तु॑भिः॒ (मै०सं० २.८.१.)। स॒जूर्दे॒वेभिः॑ (ऋ०७.३४.१५)। जुषेः क्विपि सपूर्वस्य रूपमेतत्॥

अवयाः श्वेतवाः पुरोडाश्च॥ ८.२.६७॥

अवयाः श्वेतवाः पुरोडाः इत्येते निपात्यन्ते। अवपूर्वस्य यजेः, श्वेतपूर्वस्य वहेः, पुरस्पूर्वस्य दाशतेः ‘मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन्’, ‘अवे यजः’ (३.२.७१,७२) इति ण्विनि कृते, ‘श्वेतवाहादीनां डस्पदस्य’ (३.२.७१ वा०) इति डस्प्रत्यये निपातनान्येतानि। किमर्थं तर्हि निपातनं यावता पूर्वेणैव रुः सिद्धः, दीर्घत्वमपि ‘अत्वसन्तस्य चाधातोः’ (६.४.१४) इति? संबुद्धौ दीर्घार्थमेते निपात्यन्ते। ‘अत्वसन्तस्य चाधातोः’(६.४.१४) इत्यत्र ह्यसंबुद्धाविति वर्तते। हे अव॒याः (मा०सं० ३.४६)। हे श्वेतवाः। हे पु॒रो॒डाः (ऋ० ३.२८.२)। चकारोऽनुक्तसमुच्चयार्थः। हे उक्थ॑शाः॒ (तै०सं० ३.२.९.१)॥

अहन्॥ ८.२.६८॥

अहन्नित्येतस्य पदस्य रुर्भवति। अहोभ्याम्। अहोभिः। नलोपमकृत्वा निर्देशो ज्ञापकः-नलोपाभावो यथा स्यादिति। दीर्घाहा निदाघः। हे दीर्घाहोऽत्रेति। अहन्नित्यत्र तु लाक्षणिकत्वात् अहन्शब्दस्य रुर्न भवति॥ अह्नो रुविधौ रूपरात्रिरथन्तरेषूपसंख्यानं कर्तव्यम्॥ अहोरूपम्। अहोरात्रः। अहोरथन्तरम्। ‘रोऽसुपि’(८.२.६९) इत्यस्यापवादो रुत्वमुपसंख्यायते। अपर आह-सामान्येन रेफादौ रुत्वं भवति- अहोरम्यम्, अहोरत्नानीति॥

रोऽसुपि॥ ८.२.६९॥

अहन्नित्येतस्य रेफादेशो भवत्यसुपि परतः। अहर्ददाति। अहर्भुङ्क्ते। असुपीति किम्? अहोभ्याम्। अहोभिः। ननु चात्रापि प्रत्ययलक्षणेन (१.१.६२) सुबस्ति- अहर्ददाति, अहर्भुङ्क्त इति? नैतदस्ति। उक्तमेतत्-‘अह्नो रविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवति’ (महाभाष्य १.१६६) इति नायमहः शब्दः सुप्परो भवति। यत्र तु लोपशब्देन लुप्यते तत्र प्रत्ययलक्षणं भवत्येव, यथा हे दीर्घाहोऽत्र, दीर्घाहा निदाघ इति। अत्र हि ‘हल्ङ्याब्भ्यः०’ (६.१.६८) इति लोपेन प्रत्ययस्य निवृत्तिः॥

अम्नरूधरवरित्युभयथा छन्दसि॥ ८.२.७०॥

अम्नस् ऊधस् अवस् इत्येतेषां छन्दसि विषय उभयथा भवति, रुर्वा रेफो वा। अम्नस्-अ॒म्न॑ ए॒व॑ (मै०सं० १.६.१०)। अम्नरेव। ऊधस्-ऊध एव (काठ०सं० ७.५)। ऊध॑र् (ऋ०१०.१००.११) एव। अवस्-अ॒वः (शौ०सं० २०.२५.२) एव। अवरेव। यदा रुत्वं तदा ‘भोभगोअघोअपूर्वस्य योऽशि’(८.३.१७) इति यकारः॥ छन्दसि भाषायां च विभाषा प्रचेतसो राजन्युपसंख्यानं कर्तव्यम्॥ प्रचेता॒ राज॒न् (ऋ०१.२४.१४), प्रचेतो॒ राज॒न् (तै०सं० १.५.११.३)॥ अहरादीनां पत्यादिषूपसंख्यानं कर्तव्यम्॥ अहर्पतिः, अहःपतिः। गीर्पतिः, गीःपतिः। धूर्पतिः, धूःपतिः। विसर्जनीयबाधनार्थमत्र पक्षे रेफस्यैव रेफो विधीयते॥

भुवश्च महाव्याहृतेः॥ ८.२.७१॥

भुवस् इत्येतस्य महाव्याहृतेश्छन्दसि विषय उभयथा भवति, रुर्वा रेफो वा। भुव इत्यन्तरिक्षम्। भुवरित्यन्तरिक्षम्। महाव्याहृतेरिति किम्? भुवो॒ विश्वे॑षु॒ सव॑नेषु य॒ज्ञियः॑ (ऋ० १०.५०.४)। भुवरित्येतदव्ययमन्तरिक्षवाचि महाव्याहृतिः॥

वसुस्रंसुध्वंस्वनडुहां दः॥ ८.२.७२॥

‘ससजुषोः०’ (८.२.६६) इत्यतः स इति वर्तते। तेन संभवाद् व्यभिचारात् च वसुरेव विशेष्यते, न स्रंसुध्वंसू व्यभिचाराभावाद्, असंभवात् च नानडुह्शब्दः। वस्वन्तस्य पदस्य सकारान्तस्य, स्रंसु, ध्वंसु, अनडुह् इत्येतेषां च दकारादेशो भवति। वसु-विद्वद्भ्याम्, विद्वद्भिः। पपिवद्भ्याम्, पपिवद्भिः। स्रंसु-उखास्रद्भ्याम्, उखास्रद्भिः। ध्वंसु-पर्णध्वद्भ्याम्, पर्णध्वद्भिः। अनडुह्-अनडुद्भ्याम्, अनडुद्भिः। स इत्येव-विद्वान्। पपिवान्। नकारस्य न भवति। रुत्वे नाप्राप्त इदमारभ्यत इति तद् बाध्यते। संयोगान्तलोपस्तु नैवमिति तेनैतदेव दत्वं बाध्यते। अनडुहोऽपि ढत्वमनेन बाध्यते। नुमस्तु विधानसामर्थ्याद् न भवति-अनड्वान्। हे अनड्वन्निति। पदस्येत्येव-विद्वांसौ, विद्वांसः॥

तिप्यनस्तेः॥ ८.२.७३॥

तिपि परतः सकारान्तस्य पदस्यानस्तेर्दकार आदेशो भवति। अचकाद् भवान्। अन्वशाद् भवान्। तिपीति किम्? चकास्तेः क्विप्, चकाः। अनस्तेरिति किम्? आप एवेदं सलिलं सर्वमाः। आ इत्यस्तेर्लङि तिपि ‘बहुलं छन्दसि’ (७.३.९७) इतीड् न कृतः॥

सिपि धातो रुर्वा॥ ८.२.७४॥

सिपि परतः सकारान्तस्य पदस्य धातो रुरित्ययमादेशो भवति, दकारो वा। अचकास्त्वम्, अचकात् त्वम्। अन्वशास्त्वम्, अन्वशात् त्वम्। धातुग्रहणं चोत्तरार्थं रुग्रहणं च॥

दश्च॥ ८.२.७५॥

दकारान्तस्य धातोः पदस्य सिपि परतो रुर्भवति, दकारो वा। अभिनस्त्वम् अभिनत् त्वम्। अच्छिनस्त्वम्, अच्छिनत् त्वम्॥

र्वोरुपधाया दीर्घ इकः॥ ८.२.७६॥

रेफवकारान्तस्य धातोः पदस्योपधाया इको दीर्घो भवति। गीः। धूः। पूः। आशीः। वकारग्रहणमुत्तरार्थम्। उपधाग्रहणं किम्? अबिभर्भवान्। अभ्यासेकारस्य मा भूत्। इक इति किम्? अत्रैव प्रत्युदाहरणे भशब्दाकारस्य मा भूत्। धातोरित्येव-अग्निः। वायुः। पदस्येत्येव-गिरौ, गिरः॥

हलि च॥ ८.२.७७॥

हलि च परतो रेफवकारान्तस्य धातोरुपधाया इको दीर्घो भवति। आस्तीर्णम्। विस्तीर्णम्। विशीर्णम्। अवगूर्णम्। वकारान्तस्य-दीव्यति। सीव्यति। धातोरित्येव-दिवमिच्छति दिव्यति। चतुर इच्छति चतुर्यति। इक इत्येव-स्मर्यते। भव्यम्। अपदान्तार्थोऽयमारम्भः॥

उपधायां च॥ ८.२.७८॥

हलीत्यनुवर्तते। धातोरुपधाभूतौ यौ रेफवकारौ हल्परौ तयोरुपधाया इको दीर्घो भवति। हुर्छा-हूर्छिता। मुर्छा-मूर्छिता। उर्वी-ऊर्विता। धुर्वी-धूर्विता। हलीत्येव-चिरि जिरि-चिरिणोति। जिरिणोति। इह कस्माद् न भवति-‘रि गतौ’ रिर्यतुः, रिर्युः, वी गत्यादिषु विव्यतुः, विव्युरिति? यणादेशस्य स्थानिवत्त्वाद् असिद्धत्वात् च बहिरङ्गलक्षणत्वेन हल्परौ रेफवकारौ न भवतः। चतुर्यितेत्यत्रापि बहिरङ्गलक्षणत्वादतो लोपस्य (६.४.४८) धातोरुपधाभूतो रेफो न भवति। प्रतिदीव्नेत्यत्र तु ‘हलि च’ (८.२.७७) इति दीर्घत्वम्, दीर्घविधौ लोपाजादेशस्य स्थानिवद्भावप्रतिषेधात् (१.१.५८)‘असिद्धं बहिरङ्गमन्तरङ्गे’ इत्येतत् तु नाश्रयितव्यम् (८.२.२ का०)। ‘उणादयोऽव्युत्पन्नानि प्रातिपदिकानि’इति जिव्रिः किर्योर्गिर्योरित्येवमादिषु दीर्घो न भवति॥

न भकुर्छुराम्॥ ८.२.७९॥

रेफवकारान्तस्य भस्य कुर् छुर् इत्येतयोश्च दीर्घो न भवति। धुरं वहति धुर्यः। धुरि साधुर्धुर्यः। दिव्यम्। कुर्-कुर्यात्। छुर्-छुर्यात्। रेफवकाराभ्यां भविशेषणं किम्? प्रतिदीव्ना। प्रतिदीव्ने॥

अदसोऽसेर्दादु दो मः॥ ८.२.८०॥

अदसोऽसकारान्तस्य वर्णस्य दात् परस्योवर्णादेशो भवति, दकारस्य च मकारः। अमुम्, अमू, अमून्। अमुना, अमूभ्याम्। ‘भाव्यमानेनाप्युकारेण सवर्णानां ग्रहणमिष्यते’ इत्येकमात्रिकस्य मात्रिकः, द्विमात्रिकस्य द्विमात्रिक आदेशो भवति। असेरिति किम्? अद इच्छति अदस्यति॥ अदसोऽनोस्र इति वक्तव्यम्॥ ओकाररेफयोरपि प्रतिषेधो यथा स्यादिति। अदोऽत्र। अदः। तदर्थं केचित् सूत्रं वर्णयन्ति- अः सेर्यस्य सोऽयमसिः, यत्र सकारस्याकारः क्रियत इति। तेन त्यदाद्यत्वविधान एतद्, अन्यत्र न भवितव्यमेवेति। अद्र्यादेशे कथम्?

	अदसोऽद्रेः पृथङ् मुत्वं केचिदिच्छन्ति लत्ववत्।

	केचिद् अन्त्यसदेशस्य नेत्येकेऽसेर्हि दृश्यते॥ इति॥

यैरसेरिति सकारस्य प्रतिषेधः क्रियते, ‘अनन्त्यविकारेऽन्त्यसदेशस्य०’इति च परिभाषा नाश्रीयते, तेषामुभयोरपि मुत्वेन भवितव्यम्- अमुमुयङ्, अमुमुयञ्चौ, अमुमुयञ्च इति, यथा चलीक्ऌप्यत इति लत्वम्। ये तु परिभाषामाश्रयन्ति, तेषामन्त्यसदेशस्यैव भवितव्यम्-अदमुयङ्, अदमुयञ्चौ, अदमुयञ्च इति। येषां तु त्यदाद्यत्वविषय एव मुत्वेन भवितव्यमिति दर्शनम्, तेषामत्र न भवितव्यम्-अदद्र्यङ्, अदद्र्यञ्चौ, अदद्र्यञ्च इति। दादिति किम्? अलोऽन्त्यस्य मा भूत्-अमुया। अमुयोः॥

एत ईद् बहुवचने॥ ८.२.८१॥

अदसो दकारादुत्तरस्य एकारस्य ईकारादेशो भवति, दकारस्य च मकारः, बहुवचने बहूनामर्थानामुक्तौ। अमी। अमीभिः। अमीभ्यः। अमीषाम्। अमीषु। बहुवचन इत्यर्थनिर्देशोऽयम्, पारिभाषिकस्य हि बहुवचनस्य ग्रहणेऽमी इत्यत्र न स्यात्॥

वाक्यस्य टेः प्लुत उदात्तः॥ ८.२.८२॥

अधिकारोऽयम्। वाक्यस्य टेरिति, प्लुत इति च, उदात्त इति च, एतत्त्रयमप्यधिकृतं वेदितव्यमा पादपरिसमाप्तेः। यदि ऊर्ध्वमनुक्रमिष्यामो वाक्यस्य टेः प्लुत उदात्त इत्येवं तद् वेदितव्यम्। वक्ष्यति-‘प्रत्यभिवादेऽशूद्रे’(८.२.८३)। अभिवादये देवदत्तोऽहं भोः, आयुष्मानेधि दे॒व॒द॒त्त३। पदाधिकारोऽनुवर्तत एव। वाक्यग्रहणमनन्त्यस्य पदस्य प्लुतनिवृत्त्यर्थम्। टिग्रहणं व्यञ्जनान्तस्यापि टेरचः प्लुतो यथा स्यात्-अ॒ग्नि॒चि३त् इति ॥

प्रत्यभिवादेऽशूदे्र ॥ ८.२.८३॥

प्रत्यभिवादो नाम यदभिवाद्यमानो गुरुराशिषं प्रयुङ्क्ते , तत्राशूद्रविषये यद् वाक्यं वर्तते तस्य टेः प्लुत उदात्तो भवति। अभिवादये देवदत्तोऽहं भोः, आयुष्मानेधि दे॒व॒द॒त्त३। अशूद्र इति किम्? अभिवादये तुषजकोऽहं भोः, आयुष्मानेधि तुषजक॥ स्त्रियामपि प्रतिषेधो वक्तव्यः॥ अभिवादये गार्ग्यहं भोः, आयुष्मती भव गार्गि। असूयकेऽपि केचित् प्रतिषेधमिच्छन्ति। अभिवादये स्थाल्यहं भोः, आयुष्मानेधि स्थालिन्। यावच्च तस्यासूयकत्वं न ज्ञायते, तावदेव प्रत्यभिवादवाक्यम्। तस्मिंस्त्वसूयकत्वेन निर्ज्ञाते प्रत्यभिवाद एव नास्ति, कुतः प्लुतः? तथा ह्युक्तम्-‘असूयकस्त्वं जाल्म,न त्वं प्रत्यभिवादम् अर्हसि, भिद्यस्व वृषल स्थालिन्’ (महाभाष्य ३.४१६) इति। अभिवादवाक्ये यत् संकीर्तितं नाम गोत्रं वा, तद् यत्र प्रत्यभिवादवाक्यान्ते प्रयुज्यते तत्र प्लुतिरिष्यते। इह न भवति- देवदत्त कुशल्यसि, देवदत्त आयुष्मानेधीति॥ भोराजन्यविशां वेति वक्तव्यम्॥ भो अभिवादये देवदत्तोऽहम्, आयुष्मानेधि देवदत्त भो३ः, आयुष्मानेधि देवदत्त भोः। राजन्य-अभिवादय इन्द्रवर्माहं भोः, आयुष्मानेधी॒न्द्॒रव॒र्म३न्, आयुष्मानेधीन्द्रवर्मन्। विश्-अभिवादय इन्द्रपालितोऽहं भोः, आयुष्मानेधी॒न्द्॒रपा॒लि॒त३। आयुष्मानेधीन्द्रपालित॥

दूराद्धूते च ॥ ८.२.८४॥

दूराद्धूते यद् वाक्यं वर्तते तस्य टेः प्लुतो भवति, स चोदात्तः। आह्वानं हूतम्, शब्देन संबोधनम्। आगच्छ भो माणवक देवद॒त्त३। आगच्छ भो माणवक यज्ञद॒त्त३। दूरं यद्यप्यपेक्षाभेदादनवस्थितम्, तथापि हूतापेक्षं यत् तदाश्रीयत इति यत्र प्राकृतात् प्रयत्नात् प्रयत्नविशेष आश्रीयमाणे शब्दः श्रूयते तद् दूरम्। हूतग्रहणं च सम्बोधनमात्रोपलक्षणार्थं द्रष्टव्यम्। तेन यत्राप्याह्वानं नास्ति, तत्रापि प्लुतिर्भवति-सक्तून् पिब देवद॒त्त३, पलायस्व देवद॒त्त३ इति। अस्याश्च प्लुतेरेकश्रुत्या समावेश इष्यते। दूरादिति किम्? आगच्छ भो माणवक देवदत्त। दूरादाह्वाने वाक्यस्यान्ते यत्र संबोधनपदं भवति, तत्रायं प्लुत इष्यते। तेनेह न भवति-देवदत्त आगच्छ॥

हैहेप्रयोगे हैहयोः ॥ ८.२.८५॥

हैहेप्रयोगे दूराद्धूते यद् वाक्यं वर्तते तत्र हैहयोरेव प्लुतो भवति। है३ देवदत्त। हे३ देवदत्त। देवदत्त है३। देवदत्त हे३। पुनर्हैहयोर्ग्रहणम् अनन्त्ययोरपि यथा स्यात्॥

गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् ॥ ८.२.८६॥

‘प्रत्यभिवादेऽशूद्रे’ (८.२.८६) इत्येवमादिना यः प्लुतो विहितः, तस्यैवायं स्थानिविशेष उच्यते। ऋकारवर्जितस्य गुरोरनन्त्यस्य, अपिशब्दादन्त्यस्यापि टेरेकैकस्य संबोधने वर्तमानस्य प्लुतो भवति प्राचामाचार्याणां मतेन। दे३व॑दत्त,दे॒व॒द३त्त॑, दे॒व॒द॒त्त३। य३ज्ञ॑दत्त, य॒ज्ञ॒द३त्त॑, य॒ज्ञ॒द॒त्त३। गुरोरिति किम् ? वकारात् परस्य मा भूत्। अनृत इति किम् ? कृ॒ष्ण॒मि३त्र॑, कृ॒ष्ण॒मि॒त्र३। एकैकग्रहणं पर्यायार्थम्। प्राचामिति ग्रहणं विकल्पार्थम्- आयुष्मानेधि देवदत्त। तदनेन यदेतदुच्यते-‘सर्व एव प्लुतः साहसमनिच्छता विभाषा कर्तव्यः’ (महाभाष्य ३.४२०) इति, तदुपपन्नं भवति॥

ओमभ्यादाने ॥ ८.२.८७॥

अभ्यादानं प्रारम्भः, तत्र य ओम्शब्दः तस्य प्लुतो भवति। ओ३म् अ॒ग्निमी॑ळे पु॒रोहि॑तम् (ऋ० १.१.१)। अभ्यादान इति किम् ? ओमित्येतदक्षरमुद्गीथमुपासीत (छा०उप० १.१.१)॥

ये यज्ञकर्मणि ॥ ८.२.८८॥

ये इत्येतस्य यज्ञकर्मणि प्लुतो भवति। ये३ यजामहे। यज्ञकर्मणीति किम्? ये यजा॑मह॒ इति॒ पञ्चा॑क्षरम् (तै०सं० १.६.११.१) इति स्वाध्यायकाले मा भूत्। ये यजामह इत्यत्रैवायं प्लुत इष्यते। इह हि न भवति- ये दे॑वासो दि॒व्येका॑दश॒ स्थ (ऋ०१.१३९.११) इति॥

प्रणवष्टेः ॥ ८.२.८९॥

यज्ञकर्मणीति वर्तते। यज्ञकर्मणि टेः प्रणव आदेशो भवति। क एष प्रणवो नाम? पादस्य वार्द्धर्चस्य वान्त्यमक्षरमुपसंगृह्य तदाद्यक्षरशेषस्य स्थाने त्रिमात्रमोकारमोङ्कारं वा विदधति, तं प्रणवमित्याचक्षते। अ॒पां रेतां॑सि जिन्वतो३म् (ऋ० ८.४४.१६)। दे॒वान् जि॑गाति सुम्न॒यो३म् (ऋ० ३.२७.१)। टिग्रहणं सर्वादेशार्थम्। ओकारः सर्वादेशो यथा स्यात्, व्यञ्जनान्तेऽन्त्यस्य मा भूदिति। यज्ञकर्मणीत्येव-अ॒पां रेतां॑सि जिन्वति (ऋ० ८.४४.१६)॥

याज्यान्तः ॥ ८.२.९०॥

याज्या नाम ये याज्याकाण्डे पठ्यन्ते मन्त्रास्तेषामन्त्यो यष्टिः स प्लवते, यज्ञकर्मणि। स्तोम॑ैर्विधेमा॒ग्नये॑३ (ऋ० ८.४३.११)। जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑३म् (तै०सं० ४.४.४.१)। अन्तग्रहणं किम्? याज्या नाम ऋचः काश्चिद् वाक्यसमुदायरूपाः, तत्र यावन्ति वाक्यानि तेषां सर्वेषां टेः प्लुतः प्राप्नोति। सर्वान्त्यस्यैवेष्यते, तदर्थमन्तग्रहणम्॥

ब्रूहिप्रेष्यश्रौषड्वौषडावहानामादेः ॥ ८.२.९१॥

ब्रूहि प्रेष्य श्रौषट् वौषट् आवह इत्येतेषामादेः प्लुतो भवति यज्ञकर्मणि। अग्नये॒ऽनुब्रू३हि॒ (श०ब्रा० २.५.३.१२)। प्रेष्य-अग्नये गोमयान् प्रे३ष्य॑। श्रौषट्-अस्तु॒ श्रौ३ष॒ट् (तै०सं० १.६.११.१)। वौषट्-सोमस्याग्ने वीही३वौ३ष॑ट् (ऐ०ब्रा० ३.५,६)। आवह-अ॒ग्निमा३व॑ह (तै०ब्रा० ३.५.३.२)। आव॑ह दे॒वान् यज॑मानाय (तै०ब्रा० ३.५.३.२) इत्येवमादावयं प्लुतो न भवति। ‘सर्वे विधयश्छन्दसि विकल्प्यन्ते’ इति॥

अग्नीत्प्रेषणे परस्य च॥ ८.२.९२॥

अग्नीधः प्रेषणमग्नीत्प्रेषणम्। तत्रादेः प्लुतो भवति परस्य च। आ३ श्रा॑३व॒य (तै०सं० १.६.११.२)। ओ३श्रा३व॑य। अत्रैवायं प्लुत इष्यते। तेनेह न भवति-अग्नी॑द॒ग्नीन् विह॑र ब॒र्हिः स्तृ॑णाहि (तै०सं० ६.३.१.२) इति। तदर्थं केचिद् वक्ष्यमाणं विभाषेत्यभिसंबध्नन्ति। सा च व्यवस्थितविभाषेति। अपर आह-‘सर्व एव प्लुतः साहसमनिच्छता विभाषा विज्ञेयः’(महाभाष्य ३.४२०) इति। इह तु उद्धर३उद्धर, अभिहर३अभिहर इति छान्दसः प्लुतव्यत्ययः। यज्ञकर्मणीत्येव-ओ श्रावय॥

विभाषा पृष्टप्रतिवचने हेः ॥ ८.२.९३॥

पृष्टप्रतिवचने विभाषा हेः प्लुतो भवति। अकार्षीः कटं देवदत्त? अकार्षं हि३, अकार्षं हि। अलावीः केदारं देवदत्त ? अलाविषं हि३, अलाविषं हि। पृष्टप्रतिवचन इति किम् ? कटं करिष्यति हि। हेरिति किम् ? करोमि ननु॥

निगृह्यानुयोगे च ॥ ८.२.९४॥

स्वमतात् प्रच्यावनं निग्रहः। अनुयोगस्तस्य मतस्याविष्करणम्। तत्र निगृह्यानुयोगे यद् वाक्यं वर्तते तस्य टेः प्लुतो भवति विभाषा। अनित्यः शब्द इति केनचित् प्रतिज्ञातम्, तमुपालिप्सुरुपपत्तिभिर्निगृह्य साभ्यसूयमनुयुङ्क्ते -अनित्यः शब्द इत्यात्थ३, अनित्यः शब्द इत्यात्थ। अद्य श्राद्धमित्यात्थ३, अद्य श्राद्धमित्यात्थ। अद्यामावास्येत्यात्थ३, अद्यामावास्येत्यात्थ। अद्यामावास्येत्येवं वादी युक्त्या प्रच्याव्य स्वमतादेवमनुयुज्यते॥

आम्रेडितं भर्त्सने ॥ ८.२.९५॥

‘वाक्यादेरामन्त्रितस्य०’ (८.१.८) इति भर्त्सने द्विर्वचनमुक्तम्, तस्याम्रेडितं प्लवते। चौर॑चौ॒र३, वृष॑लवृष॒ल३, दस्यो॑द॒स्यो३ घातयिष्यामि त्वा, बन्धयिष्यामि त्वा॥ भर्त्सने पर्यायेणेति वक्तव्यम्॥ चौ॒र३चौ॑र, चौर॑चौ॒र३। तदर्थमाम्रेडितग्रहणं द्विरुक्तोपलक्षणार्थं वर्णयन्ति॥

अङ्गयुक्तं तिङाकाङ्क्षम् ॥ ८.२.९६॥

अङ्ग इत्यनेन युक्तं तिङन्तमाकाङ्क्षं भर्त्सने प्लवते। अङ्ग कू॒ज३, अङ्ग व्या॒ह॒र३ इदानीं ज्ञास्यसि जाल्म। तिङिति किम् ? अङ्ग देवदत्त, मिथ्या वदसि। आकाङ्क्षमिति किम्? अङ्ग पच। नैतदपरमाकाङ्क्षति। भर्त्सन इत्येव-अङ्गाधीष्व, ओदनं ते दास्यामि॥

विचार्यमाणानाम् ॥ ८.२.९७॥

प्रमाणेन वस्तुपरीक्षणं विचारः, तस्य विषये विचार्यमाणानां वाक्यानां टेः प्लुतो भवति। हो॒त॒व्यं॑ दीक्षि॒तस्य॑ गृ॒हा३इ (तै०सं० ६.१.४.५)। होतव्यं न होतव्यमिति विचार्यते। तिष्ठेद्यूपा३इ। अनुप्रहरेद्यूपा३इ। यूपे तिष्ठेत्, यूपेऽनुप्रहरेदिति विचार्यते॥

पूर्वं तु भाषायाम् ॥ ८.२.९८॥

भाषायां विषये विचार्यमाणानां पूर्वमेव प्लवते। अहिर्नु३ रज्जुर्नु। लोष्टो नु३ कपोतो नु। प्रयोगापेक्षं पूर्वत्वम्। इह भाषाग्रहणात् पूर्वयोगश्छन्दसि विज्ञायते॥

प्रतिश्रवणे च॥ ८.२.९९॥

प्रतिश्रवणमभ्युपगमः, प्रतिज्ञानम्, श्रवणाभिमुख्यं च। तत्राविशेषात् सर्वस्य ग्रहणम्। प्रतिश्रवणे यद् वाक्यं वर्तते तस्य टेः प्लुतो भवति। देवदत्त भोः, किमा॒त्थ३। गां मे देहि भोः, अहं ते द॒दा॒मि३। नित्यः शब्दो भवितुम॒र्ह॒ति३॥

अनुदात्तं प्रश्नान्ताभिपूजितयोः॥ ८.२.१००॥

अनुदात्तः प्लुतो भवति प्रश्नान्ते, अभिपूजिते च। अगम॑३ः पूर्वा॑३न् ग्रामा॑३न् अग्निभूता॒३ इ, पटा॒३उ। अग्निभूते, पटो इत्येतयोः प्रश्नान्ते वर्तमानयोरनुदात्तः प्लुतो भवति। अगम इत्येवमादीनां तु ‘अनन्त्यस्यापि प्रश्नाख्यानयोः’(८.२.१०५) इति स्वरितः प्लुतो भवति। अभिपूजिते-शोभनः खल्वसि माणवक॒३॥

चिदिति चोपमार्थे प्रयुज्यमाने ॥ ८.२.१०१॥

अनुदात्तमिति वर्तते। चिदित्येतस्मिन् निपात उपमार्थे प्रयुज्यमाने वाक्यस्य टेरनुदात्तः प्लुतो भवति। प्लुतोऽप्यत्र विधीयते, न गुणमात्रम्। अग्निचिद् भाया॒३त्। राजचिद् भाया॒३त्। अग्निरिव भायात्, राजेव भायादित्यर्थः। उपमार्थ इति किम् ? कथंचिदाहुः। प्रयुज्यमान इति किम् ? अग्निर्माणवको भायात्॥

उपरिस्विदासीदिति च ॥ ८.२.१०२॥

अनुदात्तमिति वर्तते। उपरिस्विदासीदित्येतस्य टेरनुदात्तः प्लुतो भवति। अ॒धस्स्वि॑दा॒सी३द् उ॒परि॑ स्विदासी३त् (तै०ब्रा०२.८.९.५)। अधः स्विदासीदित्यत्र ‘विचार्यमाणानाम्’ (८.२.९७) इत्युदात्तः प्लुतः। उपरिस्विदासीदित्यत्र तु अनेनानुदात्तः॥

स्वरितमाम्रेडितेऽसूयासंमतिकोपकुत्सनेषु ॥ ८.२.१०३॥

स्वरितः प्लुतो भवति आम्रेडिते परतोऽसूयायाम्, संमतौ, कोपे, कुत्सने च गम्यमाने। ‘वाक्यादेरामन्त्रितस्यासूयासंमतिकोपकुत्सनभर्त्सनेषु’(८.१.८) इति द्विर्वचनमुक्तम्, तत्रायं प्लुतविधिः। असूयायां तावत्-मा॒ण॒व॒क॑३ माणवक, अ॒भि॒रू॒प॒क॑३ अभिरूपक रिक्तं त आभिरूप्यम्। संमतौ-मा॒ण॒व॒क॑३, माणवक, अ॒भि॒रू॒प॒क॑३ अभिरूपक शोभनः खल्वसि। कोपे-मा॒ण॒व॒क॑३ माणवक, अ॒वि॒नी॒त॒क॑३ अविनीतक इदानीं ज्ञास्यसि जाल्म। कुत्सने-शा॒क्ती॒क॑३ शाक्तीक, या॒ष्टी॒क॑३ याष्टीक रिक्ता ते शक्तिः॥ असूयादिषु वावचनं कर्तव्यम्॥ माणवक माणवकेत्येवमाद्यपि यथा स्यात्॥

क्षियाशीःप्रैषेषु तिङाकाङ्क्षम् ॥ ८.२.१०४॥

स्वरित इति वर्तते। क्षिया आचारभेदः, आशीः प्रार्थनाविशेषः, शब्देन व्यापारणं प्रैषः-एतेषु गम्यमानेषु तिङन्तमाकाङ्क्षं यत् तस्य स्वरितः प्लुतो भवति। आकाङ्क्षतीत्याकाङ्क्षम्, तिङन्तमुत्तरपदमाकाङ्क्षतीत्यर्थः। क्षियायां तावत्-स्वयं रथेन याति॑३, उपाध्यायं पदातिं गमयतीति। स्वयम् आदेनं ह भुङ्क्ते॑३, उपाध्यायं सक्तून् पाययति। पूर्वमत्र तिङन्तमुत्तरपदमाकाङ्क्षतीति आकाङ्क्षं भवति। आशिषि-सुतांश्च लप्सीष्ट॑३ धनं च तात। छन्दोऽध्येषीष्ट॑३ व्याकरणं च भद्र। प्रैषे-कटं कुरु॑३ ग्रामं च गच्छ। यवान् लुनीहि॑३ सक्तूंश्च पिब। आकाङ्क्षमिति किम् ? दीर्घं त आयुरस्तु। अग्नीन् विहर॥

अनन्त्यस्यापि प्रश्नाख्यानयोः ॥ ८.२.१०५॥

पदस्येति वर्तते, स्वरितमिति च। अनन्त्यस्यापि अन्त्यस्यापि पदस्य टेः प्लुतो भवति प्रश्न आख्याने च। अगम॑३ः पूर्वा॑३न् ग्रामा॑३न् अग्निभूता॑३इ, पटा॑३उ। सर्वेषामेव पदानामेष स्वरितः प्लतुः। अन्त्यस्य ‘अनुदात्तं प्रश्नान्ताभिपूजितयोः’ (८.२.१००) इति अनुदात्तोऽपि पक्षे भवति। आख्याने-अगम॑३म् पूर्वा॑३न् ग्रामा॑३न् भोः॑३॥

प्लुतावैच इदुतौ ॥ ८.२.१०६॥

दूराद्धूतादिषु प्लुतो विहितः। तत्र ऐचः प्लुतप्रसङ्गे तदवयवभूताविदुतौ प्लुतौ। ऐ३तिकायन। औ३पमन्यव। अत्र यदेवर्णोवर्णयोरवर्णस्य च समविभागः, तदेदुतौ द्विमात्रावनेन प्लुतौ क्रियेते। प्लुताविति हि क्रियानिमित्तोऽयं व्यपदेशः। इदुतौ प्लवेते वृद्धिं गच्छत इत्यर्थः। तावती च सा प्लुतिर्भवति, यावत्या तावैचौ त्रिमात्रौ संपद्येते। यदा त्वर्धमात्रावर्णस्याध्यर्धमात्रेवर्णोवर्णयोः, तदा तावर्धतृतीयमात्रौ क्रियेते इति। भाष्ये तूक्तम्-इष्यत एव चतुर्मात्रः प्लुत इति। तत् कथम्? समप्रविभागपक्ष इदुतोरनेन त्रिमात्रः प्लुतो विधीयते॥

एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ॥ ८.२.१०७॥

एचोऽप्रगृह्यस्यादूराद्धूते प्लुतविषयस्य पूर्वस्यार्धस्याकार आदेशो भवति, स च प्लुतः, उत्तरस्येकारोकारावादेशौ भवतः। विषयपरिगणनं कर्तव्यम्॥ प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्विति वक्तव्यम्॥ प्रश्नान्ते-अगम३ः पूर्वा३न् ग्रामा३न् अग्निभूता॒३इ, पटा॒३उ। अभिपूजिते-भद्रं करोषि माणवक३ अग्निभूता॒३इ, पटा॒३उ। विचार्यमाणे-हो॒त॒व्यं॑ दीक्षि॒तस्य॑ गृ॒हा३इ (तै०सं० ६.१.४.५)। प्रत्यभिवादे-आयुष्मानेधि अग्निभू॒ता३इ, प॒टा३उ। याज्यान्ते-उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे॑। स्तोमै॑र्विधेमा॒ग्नया३इ (ऋ० ८.४३.११)। सोऽयम् अकारः प्लुतो यथाविषयमुदात्तोऽनुदात्तः स्वरितो वेदितव्यः। इदुतौ पुनरुदात्तावेव भवतः। परिगणनं किम्? विष्णुभूते विष्णुभू॒ते३ घातयिष्यामि त्वा। आगच्छ भो माणवक विष्णुभू॒ते। परिगणने च सत्यदूराद्धूत इति न वक्तव्यम्। पदान्तग्रहणं तु कर्तव्यम्। इह मा भूत्-भद्रं क रोषि गौ॒३ः इति। अप्रगृह्यस्येति किम् ? शोभने खलु स्तः खट्वे॒३॥ आमन्त्रिते छन्दसि प्लुतविकारोऽयं वक्तव्यः॥ अग्ना३इ पत्नी॒वा३ः (तै०सं० १.४.२७.१)॥

तयोर्य्वावचि संहितायाम् ॥ ८.२.१०८॥

तयोरिदुतोर्यकारवकारादेशौ भवतोऽचि संहितायां विषये। संहितायामित्येतत् चाधिकृतम्। इत उत्तरमाध्यायपरिसमाप्तेर्यद् वक्ष्यामः संहितायामित्येवं तद् वेदितव्यम्। अग्ना३याशा। पटा३वाशा। अग्ना३यिन्द्रम्। पटा३वुदकम्। अचीति किम्? अग्ना३इ। पटा३उ। संहितायामिति किम्? अग्ना३इ इन्द्रम्। पटा३उ उदकम्। इदुतोरसिद्धत्वात् ‘इको यणचि’ (६.१.७७) इति न प्राप्नोतीत्ययमारम्भः। अथापि कथंचित् तयोः सिद्धत्वं स्यात्, एवमपि सवर्णदीर्घत्वनिवृत्त्यर्थम् (६.१.१०१) शाकलनिवृत्त्यर्थं (६.१.१२७) च वक्तव्यमेतत्। अथापि तन्निवृत्त्यर्थं यत्नान्तरमस्ति, तथापि यण्स्वरनिवृत्त्यर्थमिदमारभ्यते। यणादेशस्यासिद्धत्वाद् ‘उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य’(८.२.४) इत्येष स्वरो न भवति।

	किं तु यणा भवतीह न सिद्धं य्वाविदुतोर्यदयं विदधाति।

	तौ च मम स्वरसन्धिषु सिद्धौ शाकलदीर्घविधी तु निवर्त्यौ॥

	इक्तु  यदा भवति प्लुतपूर्वस्तस्य यणं विदधात्यपवादम्।

	तेन तयोश्च न शाकलदीर्घौ यण्स्वरबाधनमेव तु हेतुः॥

॥ इति श्रीवामनविरचितायां काशिकायां वृत्तावष्टमाध्यायस्य द्वितीयः पादः॥