पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च ॥ ५.४.१॥
पादशतान्तस्य संख्यादेः प्रातिपदिकस्य वीप्सायां द्योत्यायां वुन् प्रत्ययो भवति, तत्सन्नियोगेन चान्तस्य लोपो भवति। यस्येति-(६.४.१४८)-लोपेनैव सिद्धे पुनर्वचनमनैमित्तिकार्थम्। यस्येतिलोपः परनिमित्तकः। तस्य स्थानिवद्भावात् ‘पादः पत्’ (६.४.१३०) इति पद्भावो न स्यात्। अस्य त्वनैमित्तिकत्वाद् न स्थानिवत्त्वम्। द्वौद्वौ पादौ ददाति, द्विपदिकां ददाति। द्वेद्वे शते ददाति, द्विशतिकां ददाति। ‘तद्धितार्थो०’ (२.१.५१) इति समासः। ततः प्रत्ययः। स्वभावात् च वुन्प्रत्ययान्तं स्त्रियामेव वर्तते। पादशतस्येति किम्? द्वौद्वौ माषौ ददाति। संख्यादेरिति किम् ? पादंपादं ददाति। वीप्सायामिति किम्? द्वौ पादौ ददाति। द्वे शते ददाति। पादशतग्रहणमनर्थकम्, अन्यत्रापि दर्शनात्। द्विमोदकिकां ददाति। त्रिमोदकिकां ददाति ॥
दण्डव्यवसर्गयोश्च ॥ ५.४.२॥
दमनं दण्डः। दानं व्यवसर्गः। दण्डव्यवसर्गयोर्गम्यमानयोः पादशतान्तस्य प्रातिपदिकस्य संख्यादेर्वुन् प्रत्ययो भवति, अन्तलोपश्च। अवीप्सार्थोऽयमारम्भः। द्वौ पादौ दण्डितो द्विपदिकां दण्डितः। द्वौ पादौ व्यवसृजति द्विपदिकां व्यवसृजति। द्विशतिकां दण्डितः। त्रिशतिकाम्। द्विशतिकां व्यवसृजति। त्रिशतिकाम्॥
स्थूलादिभ्यः प्रकारवचने कन् ॥ ५.४.३॥
स्थूलादिभ्यः प्रकारवचने द्योत्ये कन् प्रत्ययो भवति। जातीयरोऽपवादः। प्रकारो विशेषः। स्थूलप्रकारः स्थूलकः। अणुकः। माषकः॥ कन्प्रकरणे चञ्चद्बृहतोरुपसंख्यानम्॥ चञ्चत्प्रकारः चञ्चत्कः। बृहत्कः। चञ्चबृहयोरिति केचित् पठन्ति। तेषां चञ्चकः, बृहक इति उदाहरणं द्रष्टव्यम्॥ स्थूल। अणु। माष। इषु। कृष्ण तिलेषु (ग०सू० १४०)। यव व्रीहिषु (ग०सू० १४१)। पाद्यकालावदाताः सुरायाम् (ग०सू० १४२)। गोमूत्र आच्छादने (ग०सू० १४३)। सुरा अहौ (ग०सू० १४४)। जीर्ण शालिषु (ग०सू० १४५)। पत्रमूले समस्तव्यस्ते (ग०सू० १४६)। कुमारीपुत्र। कुमार। श्वशुर। मणि। स्थूलादिः॥
अनत्यन्तगतौ क्तात् ॥ ५.४.४॥
अत्यन्तगतिरशेषसंबन्धः, तदभावोऽनत्यन्तगतिः। अनत्यन्तगतौ गम्यमानायां क्तान्तात् कन् प्रत्ययो भवति। भिन्नकः। छिन्नकः। अनत्यन्तगताविति किम् ? भिन्नम्। छिन्नम्॥
न सामिवचने ॥ ५.४.५॥
सामिवचन उपपदे क्तान्तात् कन् प्रत्ययो न भवति। सामिकृतम्। सामिभुक्तम्। वचनग्रहणं पर्यायार्थम्। अर्धकृतम्। नेमकृतम्। सामिवचने प्रतिषेधानर्थक्यम्, प्रकृत्याभिहितत्वात्। एवं तर्हि नैवायमनत्यन्तगतौ विहितस्य कनः प्रतिषेधः। किं तर्हि? स्वार्थिकस्य। केन पुनः स्वार्थिकः कन् विहितः? एतदेव ज्ञापकम्-भवति स्वार्थे कन्निति। तत्र यदेतदुच्यते-‘एवं हि सूत्रमभिन्नतरकं भवति’ (महाभाष्य १.१७२), ‘एतैर्हि बहुतरकं व्याप्यते’(महाभाष्य १.३५९) इत्येवमादि, तदुपपन्नं भवति॥
बृहत्या आच्छादने ॥ ५.४.६॥
कन्ननुवर्तते, न प्रतिषेधः। बृहतीशब्दादाच्छादने वर्तमानात् स्वार्थे कन् प्रत्ययो भवति। बृहतिका। आच्छादन इति किम् ? बृहती छन्दः॥
अषडक्षाशितंग्वलंकर्मालंपुरुषाध्युत्तरपदात् खः ॥ ५.४.७॥
अषडक्ष आशितङ्गु अलंकर्म अलंपुरुष इत्येतेभ्योऽध्युत्तरपदात् च स्वार्थे खः प्रत्ययो भवति। अविद्यमानानि षडक्षीण्यस्येति बहुव्रीहिः। ‘बहुव्रीहौ सक्थ्यक्ष्णोः०’ (५.४.११३) इति षच्, ततः खप्रत्ययः। अषडक्षीणो मन्त्रः। यो द्वाभ्यामेव क्रियते न बहुभिः। आशिता गावोऽस्मिन्नरण्य आशितंगवीनमरण्यम्। निपातनात् पूर्वपदस्य मुमागमः। अलंकर्मन्, अलंपुरुष इति ‘पर्यादयो ग्लानाद्यर्थे चतुर्थ्या’ (वा० २.२.१८) इति समासः। अलं कर्मणे अलंकर्मीणः। अलं पुरुषाय अलंपुरुषीणः। अध्युत्तरपदस्तत्पुरुषः-अधिशब्दः शौण्डादिषु पठ्यते। राजाधीनः। नित्यश्चायं प्रत्ययः, उत्तरत्र विभाषाग्रहणात्। अन्येऽपि स्वार्थिका नित्याः प्रत्ययाः स्मर्यन्ते-तमबादयः (५.३.५५) प्राक् कनः (५.३.६४), ञ्यादयः (५.३.११२) प्राग् वुनः (५.४.१), आमादयः (५.४.११) प्राङ् मयटः (५.४.२१), बृहतीजात्यन्ताः (५.४.६,९) समासान्ताश्चेति॥
विभाषाञ्चेरदिक्स्त्रियाम्॥ ५.४.८॥
अञ्चत्यन्तात् प्रातिपदिकाददिक्स्त्रियां वर्तमानात् स्वार्थे विभाषा खः प्रत्ययो भवति। प्राक् , प्राचीनम्। अर्वाक् , अर्वाचीनम्। अदिक्स्त्रियामिति किम् ? प्राची दिक् । प्रतीची दिक्। दिग्ग्रहणं किम् ? प्राचीना ब्राह्मणी। अर्वाचीना शिखा। स्त्रीग्रहणं किम् ? प्राचीनं दिग् रमणीयम्। उदीचीनं दिग् रमणीयम् ॥
जात्यन्ताच्छ बन्धुनि ॥ ५.४.९॥
जात्यन्तात् प्रातिपदिकाद् बन्धुनि वर्तमानात् स्वार्थे छः प्रत्ययो भवति। बध्यतेऽस्मिन् जातिरिति बन्धुशब्देन द्रव्यमुच्यते। येन ब्राह्मणत्वादिजातिर्व्यज्यते तद् बन्धु द्रव्यम्। ब्राह्मणजातीयः, क्षत्रियजातीयः, वैश्यजातीय इति ब्राह्मणादिरेवोच्यते। बन्धुनीति किम्? ब्राह्मणजातिः शोभना॥
स्थानान्ताद् विभाषा सस्थानेनेति चेत् ॥ ५.४.१०॥
स्थानान्तात् प्रातिपदिकाद् विभाषा छः प्रत्ययो भवति, सस्थानेन चेत् स्थानान्तमर्थवद् भवति। सस्थान इति तुल्य उच्यते, समानं स्थानमस्येति कृत्वा। पित्रा तुल्यः पितृस्थानीयः, पितृस्थानः। मातृस्थानीयः, मातृस्थानः। राजस्थानीयः, राजस्थानः। सस्थानेनेति किम् ? गोस्थानम्। अश्वस्थानम्। इतिकरणो विवक्षार्थः। तेन बहुव्रीहिः सस्थानशब्दार्थमुपस्थापयति, न तत्पुरुषः। चेच्छब्दः संबन्धार्थः। द्वयोर्विभाषयोर्मध्ये नित्या विधय इति पूर्वत्र नित्यः प्रत्ययः॥
किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे॥ ५.४.११॥
किम एकारान्तात् तिङन्तादव्ययेभ्यश्च यो विहितो घः स किमेत्तिङव्ययघः, तदन्तात् प्रातिपदिकादद्रव्यप्रकर्ष आमुप्रत्ययो भवति। यद्यपि द्रव्यस्य स्वतः प्रकर्षो नास्ति, तथापि क्रियागुणस्थः प्रकर्षो यदा द्रव्य उपचर्यते तदायं प्रतिषेधः। क्रियागुणयोरेवायं प्रकर्षे प्रत्ययः। किंतराम्। किंतमाम्। पूर्वाह्णेतराम्। पूर्वाह्णेतमाम्। पचतितराम्। पचतितमाम्। उच्चैस्तराम्। उच्चैस्तमाम्। अद्रव्यप्रकर्ष इति किम् ? उच्चैस्तरः। उच्चैस्तमः॥
अमु चच्छन्दसि॥ ५.४.१२॥
किमेत्तिङव्ययघादद्रव्यप्रकर्षेऽमुप्रत्ययो भवति छन्दसि विषये। चकारादामु च। प्रत॒रं न॒ आयुः॑ (ऋ० ४.१२.६)। प्॑रत॒रां न॑य (मा०सं० १७.५१)। स्वरादिषु अम् आम् इति पठ्यते। तस्मात् तदन्तस्याव्ययत्वम्॥
अनुगादिनष्ठक् ॥ ५.४.१३॥
अनुगदतीत्यनुगादी। अनुगादिन्शब्दात् स्वार्थे ठक् प्रत्ययो भवति। आनुगादिकः॥
णचः स्त्रियामञ्॥ ५.४.१४॥
‘कर्मव्यतिहारे णच् स्त्रियाम्’ (३.३.४३) इति णच् विहितः, तदन्तात् स्वार्थेऽञ् प्रत्ययो भवति स्त्रियां विषये। व्यावक्रोशी। व्यावहासी वर्तते। स्त्रीग्रहणं किमर्थं यावता णच् स्त्रियामेव विहितः, ततः स्वार्थिकस्तत्रैव भविष्यति? एवं तर्ह्येतज् ज्ञापयति-‘स्वार्थिकाः प्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्तेऽपि’ इति। तेन गुडकल्पा द्राक्षा, तैलकल्पा प्रसन्ना, देव एव देवतेत्येवमादि उपपन्नं भवति॥
अणिनुणः॥ ५.४.१५॥
‘अभिविधौ भाव इनुण्’ (३.३.४४) विहितः, तदन्तात् स्वार्थेऽण् प्रत्ययो भवति। सांराविणं वर्तते। सांकूटिनम्॥
विसारिणो मत्स्ये॥ ५.४.१६॥
विसरतीति विसारी। विसारिन्शब्दात् स्वार्थेऽण् प्रत्ययो भवति मत्स्येऽभिधेये। वैसारिणो मत्स्यः। मत्स्य इति किम्? विसारी देवदत्तः॥
संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्॥ ५.४.१७॥
संख्याशब्देभ्यः क्रियाभ्यावृत्तिगणने वर्तमानेभ्यः स्वार्थे कृत्वसुच् प्रत्ययो भवति। पौनःपुन्यम् अभ्यावृत्तिः। एककर्तृकाणां तुल्यजातीयानां क्रियाणां जन्मसंख्यानं क्रियाभ्यावृत्तिगणनम्, तत्र प्रत्ययः। पञ्च वारान् भुङ्क्ते पञ्चकृत्वः। सप्तकृत्वः। संख्याया इति किम् ? भूरीन् वारान् भुङ्क्ते। क्रियाग्रहणं किमर्थम्, यावताभ्यावृत्तिः क्रियाया एव संभवति, न द्रव्यगुणयोः? उत्तरार्थं क्रियाग्रहणम्। ‘एकस्य सकृच्च’ (५.४.१९) इत्यत्र क्रियैव गण्यते, नाभ्यावृत्तिः, असंभवात्। अभ्यावृत्तिग्रहणं किम् ? क्रियामात्रगणने मा भूत्। पञ्च पाकाः। दश पाकाः। गणनग्रहणं किमर्थम्, यावता गणनात्मिकैव संख्या? अक्रियमाणे गणनग्रहणे क्रियाभ्यावृत्तौ वर्तमानेभ्यः संख्येयवचनेभ्य एव प्रत्ययः स्यात्-शतं वारान् भुङ्क्ते शतकृत्व इति। इह न स्यात्- शतं वाराणां भुङ्क्त इति। न ह्यत्राभ्यावृत्तौ शतशब्दः, संख्यानमात्रवृत्तित्वात्। गणनग्रहणात् तु सर्वत्र सिद्धं भवति॥
द्वित्रिचतुर्भ्यः सुच्॥ ५.४.१८॥
द्वि त्रि चतुर् इत्येतेभ्यः संख्याशब्देभ्यः क्रियाभ्यावृत्तिगणने वर्तमानेभ्यः सुच् प्रत्ययो भवति। कृत्वसुचोऽपवादः। द्विर्भुङ्क्ते। त्रिर्भुङ्क्ते। चतुर्भुक्तम्। चकारः स्वरार्थः॥
एकस्य सकृच्च॥ ५.४.१९॥
एकशब्दस्य सकृदित्ययमादेशो भवति सुच् च प्रत्ययः क्रियागणने। कृत्वसुचोऽपवादः। अभ्यावृत्तिस्त्विह न संभवति। सकृद् भुङ्क्ते। सकृदधीते। एकः पाक इत्यत्र न भवति, अनभिधानात्॥
विभाषा बहोर्धाविप्रकृष्टकाले॥ ५.४.२०॥
बहुशब्दात् क्रियाभ्यावृत्तिगणने वर्तमानाद् विभाषा धा प्रत्ययो भवति। कृत्वसुचोऽपवादः। पक्षे सोऽपि भवति। अविप्रकृष्टग्रहणं क्रियाभ्यावृत्तिविशेषणम्। क्रियाणामुत्पत्तयश्चेदासन्नकाला भवन्ति, न विप्रकृष्टकालाः। बहुधा दिवसस्य भुङ्क्ते, बहुकृत्वो दिवसस्य भुङ्क्ते। अविप्रकृष्टकाल इति किम् ? बहुकृत्वो मासस्य भुङ्क्ते॥
तत्प्रकृतवचने मयट्॥ ५.४.२१॥
तदिति प्रथमा समर्थविभक्तिः। प्राचुर्येण प्रस्तुतं प्रकृतम्। प्रथमासमर्थात् प्रकृतोपाधिकेऽर्थे वर्तमानात् स्वार्थे मयट् प्रत्ययो भवति। टकारो ङीबर्थः। अन्नं प्रकृतम् अन्नमयम्। अपूपमयम्। अपरे पुनरेवं सूत्रार्थमाहुः। प्रकृतमित्युच्यतेऽस्मिन्निति प्रकृतवचनम्। तदिति प्रथमासमर्थात् प्रकृतवचनेऽभिधेये मयट् प्रत्ययो भवति। अन्नं प्रकृतमस्मिन् अन्नमयो यज्ञः। अपूपमयं पर्व। वटकमयी यात्रा। द्वयमपि प्रमाणम्, उभयथा सूत्रप्रणयनात्॥
समूहवच्च बहुषु॥ ५.४.२२॥
तत् प्रकृतवचन इत्येव। बहुषु प्रकृतेषूच्यमानेषु समूहवत् प्रत्यया भवन्ति। चकाराद् मयट् च। मोदकाः प्रकृताः प्राचुर्येण प्रस्तुता मौदकिकम्, मोदकमयम्। शाष्कुलिकम्, शष्कुलीमयम्। ‘अतिवर्तन्तेऽपि स्वार्थिकाः प्रकृतितो लिङ्गवचनानि’। द्वितीये सूत्रार्थे-मोदकाः प्रकृता अस्मिन् यज्ञे मौदकिको यज्ञः, मोदकमयः। शाष्कुलिकः, शष्कुलीमयः॥
अनन्तावसथेतिहभेषजाञ् ञ्यः॥ ५.४.२३॥
अनन्तादिभ्यः स्वार्थे ञ्यः प्रत्ययो भवति। अनन्त एव आनन्त्यम्। आवसथ एवावसथ्यम्। इति ह ऐतिह्यम्। निपातसमुदायोऽयमुपदेशपारम्पर्ये वर्तते। भेषजमेव भैषज्यम्। महाविभाषया विकल्पते प्रत्ययः॥
देवतान्तात्तादर्थ्ये यत्॥ ५.४.२४॥
देवताशब्दान्तात् प्रातिपदिकात् चतुर्थीसमर्थात् तादर्थ्ये यत् प्रत्ययो भवति। तदर्थ एव तादर्थ्यम्। चातुर्वर्ण्यादित्वात् ष्यञ्। तदिति प्रकृत्यर्थो निर्दिश्यते। अग्निदेवतायै इदम् अग्निदेवत्यम्। पितृदेवत्यम्। वायुदेवत्यम्॥
पादार्घाभ्यां च॥ ५.४.२५॥
तादर्थ्य इत्येव। पादार्घशब्दाभ्यां चतुर्थीसमर्थाभ्यां तादर्थ्येऽभिधेये यत् प्रत्ययो भवति। पादार्थमुदकं पाद्यम्। अर्घ्यम्। अनुक्तसमुच्चयार्थश्चकारः। यथादर्शनमन्यत्रापि प्रत्ययो भवति। ए॒ष वै छ॑न्द॒स्यः॑ प्॒रजाप॑तिः॒ (तै०सं० १.६.११.४)। वसु, अपस्, ओक, कवि, क्षेम, उदक, वर्चस्, निष्केवल, उक्थ, जन, पूर्व, नव, सूर, मर्त, यविष्ठ इत्येतेभ्यः छन्दसि स्वार्थे यत् प्रत्ययो भवति। अ॒ग्निरी॑शे वस॒व्य॑स्य (ऋ० ४.५५.८)। अप॒३स्यो॒ व॑सा॒नाः (मै०सं० २.६.८)। द्वितीयाबहुवचनस्यालुक् । अपो वसाना इत्यर्थः। स्व ओ॒क्ये॑ (ऋ०१.९१.१३)। क॒व्योऽसि कव्य॒वा॑हनः॒ (मै०सं० १.२.१२) क्षे॒म्यम॒ध्यव॑स्यति (तै०सं०५.२.१.७)। वायुर्वर्चस्यः। निष्केवल्यं (काठ०सं० २८.१०) शंसन्ति। उक्थ्यं शंसति। जन्यं ताभिः। पू॒र्व्या वि॑दुः (शौ०सं० १९.३४.६)। स्तोमं॑ जनयामि॒ नव्य॑म् (ऋ० १.१०९.२)। सूर्यः॑ (ऋ० १.२३.१७)। मर्त्यः॑-(ऋ० १.१९.२)। य॒वि॒ष्ठ्यः॑ (ऋ० १.३६.६)॥ आमुष्यायणामुष्यपुत्रिकेत्युपसंख्यानम् (द्र०- शौ० सं० १०.५.३६)॥ समशब्दादावतुप्रत्ययो वक्तव्यः॥ स॒मा॑व॒द्वसति॒ (मै०सं० २.२.७)॥ नवस्य नू आदेशस्त्नप्तनप्खाश्च प्रत्ययाः॥ नूत्नम्। नूतनम्। नवीनम्॥ नश्च पुराणे प्रात्॥ पुराणे वर्तमानात् प्रशब्दाद् नः प्रत्ययो भवति, चकारात् त्नप्तनप्खाश्च। प्रणम्। प्॒रत्नम् (ऋ० १.३६.४)। प्रतनम्। प्रीणम्॥ भागरूपनामभ्यो धेयः प्रत्ययो वक्तव्यः॥ भागधेयम्। रूपधेयम्। नामधेयम्॥ मित्राच्छन्दसि॥ मित्र॒धेये॑ यतस्व (तै०सं० ४.१.७.२)॥ आग्नीध्रसाधारणादञ्॥ आग्नी॑ध्रम् (तै०सं० ३.१.६.१)। साधा॑रणम् (तै०सं० २.६.१.६)। स्त्रियां ङीप्-आग्नीध्री। सा॑धार॒णी (ऋ०१.१६७.४)। वाप्रकरणाच्च विकल्पन्त एतान्युपसंख्यानानि, तेन यथाप्राप्तमपि भवति। आग्नीध्रा शाला। साधारणा भूरिति॥ अयवसमरुद्भ्यां छन्दस्यञ् वक्तव्यः॥ आय॑वसे रमन्ते (तै०सं० ५.२.८.३)। मारु॑तं॒ शर्धः॒ (ऋ०१.१०६.१)॥
अतिथेर्ञ्यः॥ ५.४.२६॥
तादर्थ्य इत्येव। अतिथिशब्दात् चतुर्थीसमर्थात् तादर्थ्येऽभिधेये ञ्यः प्रत्ययो भवति। अतिथय इदम् आतिथ्यम्॥
देवात्तल्॥ ५.४.२७॥
तादर्थ्य इति निवृत्तम्। देवशब्दात् स्वार्थे तल् प्रत्ययो भवति। देव एव देवता॥
अवेःकः॥ ५.४.२८॥
अविशब्दात् स्वार्थे कः प्रत्ययो भवति। अविरेव अविकः॥
यावादिभ्यः कन्॥ ५.४.२९॥
याव इत्येवमादिभ्यः स्वार्थे कन् प्रत्ययो भवति। याव एव यावकः। मणिकः॥ याव। मणि। अस्थि। चण्ड। पीत। स्तम्ब। ऋतावुष्णशीते (ग०सू० १४७)। पशौ लूनवियाते (ग०सू० १४८)। अणु निपुणे (ग० सू० १४९)। पुत्र कृत्रिमे (ग० सू० १५०)। स्नात वेदसमाप्तौ (ग०सू० १५१)। शून्य रिक्ते (ग०सू० १५२)। दान कुत्सिते (ग०सू० १५३)। तनु सूत्रे (ग०सू० १५४)। ईयसश्च (ग०सू० १५५)। श्रेयस्कः। ज्ञात। कुमारीक्रीडनकानि च (ग०सू० १५६)। यावादिः॥
लोहितान् मणौ॥ ५.४.३०॥
लोहितशब्दाद् मणौ वर्तमानात् स्वार्थे कन् प्रत्ययो भवति। लोहितो मणिर्लोहितकः। मणाविति किम् ? लोहितः॥
वर्णे चानित्ये॥ ५.४.३१॥
अनित्ये वर्णे वर्तमानात् लोहितशब्दात् स्वार्थे कन् प्रत्ययो भवति। लोहितकः कोपेन। लोहितकः पीडनेन। अनित्य इति किम् ? लोहितो गौः। लोहितं रुधिरम्॥ लोहिताल्लिङ्गबाधनं वा वक्तव्यम्॥ लोहितिका कोपेन, लोहिनिका कोपेन॥
रक्ते॥ ५.४.३२॥
लाक्षादिना रक्ते यो लोहितशब्दः, तस्मात् कन् प्रत्ययो भवति। लोहितकः कम्बलः। लोहितकः पटः। लिङ्गबाधनं वेत्येव। लोहितिका, लोहिनिका शाटी॥
कालाच्च॥ ५.४.३३॥
वर्णे चानित्ये रक्त इति द्वयमप्यनुवर्तते। कालशब्दादनित्ये वर्तमानाद् रक्ते च कन् प्रत्ययो भवति। कालकं मुखं वैलक्ष्येण। रक्ते-कालकः पटः। कालिका शाटी॥
विनयादिभ्यष्ठक् ॥ ५.४.३४॥
विनय इत्येवमादिभ्यः स्वार्थे ठक् प्रत्ययो भवति। विनय एव वैनयिकः। सामयिकः। औपयिकः। विभाषाग्रहणेन विकल्प्यते प्रत्ययः॥ विनय। समय। उपायाद् ध्रस्वत्वं च (ग०सू० १५७)। संगति। कथंचित्। अकस्मात्। समयाचार। उपचार। समाचार। व्यवहार। संप्रदान। समुत्कर्ष। समूह। विशेष। अत्यय। विनयादिः॥
वाचो व्याहृतार्थायाम् ॥ ५.४.३५॥
व्याहृतः प्रकाशितोऽर्थो यस्यास्तस्यां वाचि वर्तमानाद् वाच्शब्दात् स्वार्थे ठक् प्रत्ययो भवति। पूर्वमन्येनोक्तार्थत्वात् संदेशवाग् व्याहृतार्थेत्युच्यते। वाचिकं कथयति। वाचिकं श्रद्दधे। व्याहृतार्थायामिति किम् ? मधुरा वाक् देवदत्तस्य॥
तद्युक्तात् कर्मणोऽण्॥ ५.४.३६॥
व्याहृतार्थया वाचा यत् कर्म युक्तम्, तदभिधायिनः कर्मशब्दात् स्वार्थेऽण् प्रत्ययो भवति। कर्मैव कार्मणम्। वाचिकं श्रुत्वा तथैव यत् कर्म क्रियते तत् कार्मणमित्युच्यते॥ अण्प्रकरणे कुलालवरुडनिषादकर्मारचण्डालमित्रामित्रेभ्यश्छन्दस्युपसंख्यानम्॥ कुलाल एव कौला॒लः (मा०सं० ३०.७)। वारु॒डः। नैषा॒दः (मा०सं० ३०.८)। का॒र्मा॒रः (ऋ० ९.११२.२)। चाण्डा॒लः (मा०सं०३०.२१)। म॒ैत्रः (मा०सं० ३९.५)। आमि॒त्रः (ऋ०६.२८.३)। सान्नाय्यानुजावरानुषूकाष्टुभचातुष्प्राश्यराक्षोघ्नवैयातवैकृत-वारिवस्कृताग्रायणाग्रहायणसान्तपनाः। एतेऽणन्ताः स्वार्थिकाश्छन्दसि भाषायां चेष्यन्ते। सांना॒य्यम् (तै०सं० २.५.३.७)। आनुजाव॒रः (तै०सं० २.३.४.२)। आनुषू॒कः (तै०सं० २.३.४.४)। आष्टुभः । चातुष्प्रा॒श्यः (काठ०सं० ८.१०)। राक्षो॒घ्नम् (तै०सं० ५.१.१०.२)। वैयातः। वैकृतः। वारिवस्कृ॒तः (तै०सं० ४.५.२.२)। आग्राय॒णः॑ (मै०सं० २.७.१९)। आग्रहायणः। सान्तप॒नः (मा०सं० १७.८५)॥
ओषधेरजातौ ॥ ५.४.३७॥
ओषधिशब्दादजातौ वर्तमानात् स्वार्थेऽण् प्रत्ययो भवति। औषधं पिबति। औषधं ददाति। अजाताविति किम् ? ओषधयः क्षेत्रे रूढा भवन्ति॥
प्रज्ञादिभ्यश्च ॥ ५.४.३८॥
प्रजानातीति प्रज्ञः। प्रज्ञ इत्येवमादिभ्यः प्रातिपदिकेभ्यः स्वार्थेऽण् प्रत्ययो भवति। प्रज्ञ एव प्राज्ञः। प्राज्ञी स्त्री। यस्यास्तु प्रज्ञा विद्यते सा प्राज्ञा भवति-‘प्रज्ञाश्रद्धार्चावृत्तिभ्यो णः’ (५.२.१०१) इति। विदन्नित्यत्र पठ्यते। विदेः शत्रन्तस्य ग्रहणम्, ‘विदेः शतुर्वसुः’ (७.१.३६) इत्यत एव ज्ञापकात् पाक्षिको वस्वादेशः। अन्यतरस्यांग्रहणं वा तत्रानुवर्तते-‘तुह्योस्तातङाशिष्यन्यतरस्याम्’ (७.१.३५) इति॥ प्रज्ञ। वणिज्। उशिज्। उष्णिज्। प्रत्यक्ष। विद्वस्। विदन्। षोडन्। षोडश। विद्या। मनस्। श्रोत्र शरीरे (ग०सू० १५८)। श्रौत्रम्। जुह्वत् कृष्णमृगे (ग०सू० १५९)। चिकीर्षत्। चोर। शत्रु। योध। चक्षुस्। वक्षस्। धूर्त। वस्। एत्। मरुत्। क्रुङ्। राजा। सत्वन्तु। दशार्ह। वयस्। आतुर। रक्षस्। पिशाच। अशनि। कार्षापण। देवता। बन्धु। प्रज्ञादिः॥
मृदस्तिकन् ॥ ५.४.३९॥
मृच्छब्दात् स्वार्थे तिकन् प्रत्ययो भवति। विकल्पः सर्वत्रानुवर्तते। मृदेव मृत्तिका॥
सस्नौ प्रशंसायाम् ॥ ५.४.४०॥
प्रशंसोपाधिकेऽर्थे वर्तमानाद् मृच्छब्दात् स स्न इत्येतौ प्रत्ययौ भवतः। रूपपोऽपवादः। प्रशस्ता मृद् मृत्सा। मृत्स्ना। नित्यश्चायं प्रत्ययः, उत्तरसूत्रेऽन्यतरस्यांग्रहणात्॥
वृकज्येष्ठाभ्यां तिल्तातिलौ चच्छन्दसि ॥ ५.४.४१॥
प्रशंसायामित्येव। वृकज्येष्ठाभ्यां प्रशंसोपाधिकेऽर्थे वर्तमानाभ्यां यथासंख्यं तिल्तातिलौ प्रत्ययौ भवतश्छन्दसि विषये। रूपपोऽपवादौ। वृ॒कतिः॑ (ऋ० ४.४१.४)। ज्ये॒ष्ठता॑तिः (ऋ० ५.४४.१)॥
बह्वल्पार्थाच्छस्कारकादन्यतरस्याम्॥ ५.४.४२॥
बह्वर्थादल्पार्थात् च कारकाभिधायिनः शब्दात् शस् प्रत्ययो भवत्यन्तरस्याम्। विशेषानभिधानात् च सर्वं कर्मादिकारकं गृह्यते। बहूनि ददाति, बहुशो ददाति। अल्पं ददाति, अल्पशो ददाति। बहुभिर्ददाति, बहुशो ददाति। अल्पेन, अल्पशः। बहुभ्यः, बहुशः। अल्पाय, अल्पश इत्येवमाद्युदाहार्यम्। बह्वल्पार्थादिति किम् ? गां ददाति। अश्वं ददाति। कारकादिति किम्? बहूनां स्वामी। अल्पानां स्वामी। अर्थग्रहणात् पर्यायेभ्योऽपि भवति। भूरिशो ददाति। स्तोकशो ददाति॥ बह्वल्पार्थान् मङ्गलवचनम्॥ यत्र मङ्गलं गम्यते तत्रायं प्रत्यय इष्यते। बहुशो ददातीत्याभ्युदयिकेषु कर्मसु। अल्पशो ददातीत्यनेष्टेषु कर्मसु॥
संख्यैकवचनाच्च वीप्सायाम्॥ ५.४.४३॥
संख्यावाचिभ्यः प्रातिपदिकेभ्य एकवचनात् च वीप्सायां द्योत्यायां शस् प्रत्ययो भवत्यन्यतरस्याम्। द्वौद्वौ मोदकौ ददाति द्विशः। त्रिशः। एकवचनात् खल्वपि-कार्षापणंकार्षापणं ददाति कार्षापणशः। माषशः। पादशो ददाति। एकोऽर्थ उच्यते येन तदेकवचनम्। कार्षापणादयश्च परिमाणशब्दा वृत्तावेकार्था एव भवन्ति। संख्यैकवचनादिति किम्? घटंघटं ददाति। वीप्सायामिति किम्? द्वौ ददाति। कार्षापणं ददाति। कारकादित्येव-द्वयोर्द्वयोः स्वामी। कार्षापणस्यकार्षापणस्य स्वामी॥
प्रतियोगे पञ्चम्यास्तसिः॥ ५.४.४४॥
प्रतिना कर्मप्रवचनीयेन योगे या पञ्चमी विहिता तदन्तात् तसिः प्रत्ययो भवति। प्रद्युम्नो वासुदेवतः प्रति। अभिमन्युरर्जुनतः प्रति। वाग्रहणानुवृत्तेर्विकल्पेन भवति। वासुदेवादर्जुनादित्यपि भवति॥ तसिप्रकरण आद्यादिभ्य उपसंख्यानम्॥ आदौ आदितः। मध्यतः। पार्श्वतः। पृष्ठतः। आकृतिगणश्चायम्॥
अपादाने चाहीयरुहोः॥ ५.४.४५॥
अपादाने या पञ्चमी तस्याः पञ्चम्या वा तसिः प्रत्ययो भवति, तच्चेदपादानं हीयरुहोः संबन्धि न भवति। ग्रामत आगच्छति, ग्रामात्। चोरतो बिभेति, चोरात्। अध्ययनतः पराजयते, अध्ययनात्। अहीयरुहोरिति किम् ? सार्थाद् हीयते। पर्वतादवरोहति। हीयत इति विकारनिर्देशो जहातेः प्रतिपत्त्यर्थः जिहीतेर्मा भूत्। भूमित उज्जिहीते। भूमेरुज्जिहीते। कथं ‘मन्त्रो हीनः स्वरतो वर्णतो वा’ (पा०श्लो०शि० ५२) इति। नैषा पञ्चमी। किं तर्हि? तृतीया। स्वरेण वर्णेन वा हीन इत्यर्थः॥
अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः॥ ५.४.४६॥
अतिक्रम्य ग्रहोऽतिग्रहः। अचलनमव्यथनम्। क्षेपो निन्दा। अतिग्रहादिविषये या तृतीया तदन्ताद् वा तसिः प्रत्ययो भवति, सा चेत् कर्तरि न भवति। वृत्तेनातिगृह्यते, वृत्ततोऽतिगृह्यते। चारित्रेणातिगृह्यते, चारित्रतोऽतिगृह्यते। सुष्ठुवृत्तवानन्यानतिक्रम्य वृत्तेन गृह्यत इत्यर्थः। अव्यथने-वृत्तेन न व्यथते, वृत्ततो न व्यथते। चारित्रेण न व्यथते, चारित्रतो न व्यथते। वृत्तेन न चलतीत्यर्थः। क्षेपे-वृत्तेन क्षिप्तः, वृत्ततः क्षिप्तः। चारित्रेण क्षिप्तः, चारित्रतः क्षिप्तः। वृत्तेन निन्दित इत्यर्थः। अकर्तरीति किम् ? देवदत्तेन क्षिप्तः॥
हीयमानपापयोगाच्च॥ ५.४.४७॥
अकर्तरि तृतीयाया इत्येव। हीयमानेन पापेन च योगो यस्य तद्वाचिनः शब्दात् परा या तृतीया विभक्तिरकर्तरि तदन्ताद् वा तसिः प्रत्ययो भवति। वृत्तेन हीयते, वृत्ततो हीयते। चारित्रेण हीयते, चारित्रतो हीयते। पापयोगात्- वृत्तेन पापः, वृत्ततः पापः। चारित्रेण पापः, चारित्रतः पापः। क्षेपस्य चाविवक्षायां तत्त्वाख्यायामिदमुदाहरणम्। क्षेपे हि पूर्वेणैव सिद्धम्। अकर्तरीत्येव-देवदत्तेन हीयते॥
षष्ठ्या व्याश्रये॥ ५.४.४८॥
नानापक्षसमाश्रयो व्याश्रयः। व्याश्रये गम्यमाने षष्ठ्यन्ताद् वा तसिः प्रत्ययो भवति। देवा अर्जुनतोऽभवन्। आदित्याः कर्णतोऽभवन्। षष्ठी चात्र पक्षापेक्षैव। अर्जुनस्य पक्षे, कर्णस्य पक्ष इत्यर्थः। व्याश्रय इति किम् ? वृक्षस्य शाखा॥
रोगाच्चापनयने॥ ५.४.४९॥
रोगो व्याधिः, तद्वाचिनः शब्दाद् या षष्ठी विभक्तिः, तदन्ताद् वा तसिः प्रत्ययो भवत्यपनयने गम्यमाने। अपनयनं प्रतीकारः, चिकित्सेत्यर्थः। प्रवाहिकातः कुरु। कासतः कुरु। छर्दिकातः कुरु। प्रतीकारमस्याः कुर्वित्यर्थः। अपनयन इति किम् ? प्रवाहिकायाः प्रकोपनं कुरु॥
अभूततद्भावे कृभ्वस्तियोगे संपद्यकर्तरि च्विः॥ ५.४.५०॥
कारणस्य विकाररूपेणाभूतस्य तदात्मना भावोऽभूततद्भावः। संपद्यतेः कर्ता संपद्यकर्ता। संपद्यकर्तरि वर्तमानात् प्रातिपदिकादभूततद्भावे गम्यमाने कृभ्वस्तिभिर्धातुभिर्योगे च्विः प्रत्ययो भवति। अशुक्लः शुक्लः संपद्यते, तं करोति शुक्लीकरोति। मलिनं शुक्लीकरोति। शुक्लीभवति। शुक्लीस्यात्। घटीकरोति मृदम्। घटीभवति। घटीस्यात्। अभूततद्भाव इति किम् ? शुक्लं करोति। नात्र प्रकृतिर्विवक्षिता। कृभ्वस्तियोग इति किम्? अशुक्लः शुक्लो जायते। संपद्यकर्तरीति किम्, यावता अभूततद्भावसामर्थ्याद् लब्धमेव संपद्यकर्तृत्वम्? कारकान्तरसंपत्तौ मा भूत्। अदेवगृहे देवगृहे संपद्यते। देवगृहस्याधेयविशेषसंबन्धेनाभूततद्भावः, स त्वधिकरणस्य न कर्तुरिति॥
अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च ॥ ५.४.५१॥
अरुःप्रभृतीनामन्तस्य लोपो भवति च्विश्च प्रत्ययः। अत्र सर्वविशेषणसंबन्धात् पूर्वेणैव प्रत्ययः सिद्धः, लोपमात्रार्थ आरम्भः। अनरुररुः संपद्यते, तं करोति अरूकरोति। अरूभवति। अरूस्यात्। मनस्-उन्मनीकरोति। उन्मनीभवति। उन्मनीस्यात्। चक्षुस्-उच्चक्षूकरोति। उच्चक्षूभवति। उच्चक्षूस्यात्। चेतस्-विचेतीकरोति। विचेतीभवति। विचेतीस्यात्। रहस्-विरहीकरोति। विरहीभवति। विरहीस्यात्। रजस्-विरजीकरोति। विरजीभवति। विरजीस्यात् ॥
विभाषा साति कात्स्नर्ये ॥ ५.४.५२॥
अभूततद्भावे कृभ्वस्तियोगे संपद्यकर्तरीति सर्वमनुवर्तते। अस्मिन् विषये विभाषा सातिः प्रत्ययो भवति कार्त्स्न्ये गम्यमाने। यदि प्रकृतिः कृत्स्नां विकारात्मतामापद्यत इत्यर्थः। अग्निसाद्भवति शस्त्रम्, अग्नीभवति शस्त्रम्। उदकसाद्भवति लवणम्, उदकीभवति लवणम्। कार्त्स्न्य इति किम् ? एकदेशेन पटः शुक्लीभवति। विभाषाग्रहणं च्वेः प्रापकम्। प्रत्ययविकल्पस्तु महाविभाषयैव सिद्धः॥
अभिविधौ संपदा च ॥ ५.४.५३॥
अभिविधिरभिव्याप्तिः। अभिविधौ गम्यमाने च्विविषये सातिः प्रत्ययो भवति संपदा योगे, चकारात् कृभ्वस्तिभिश्च। विभाषाग्रहणानुवृत्तेश्च्विरप्यभ्यनुज्ञायते। स तु कृभ्वस्तिभिरेव योगे भवति, न संपदा। अग्निसात्संपद्यते। अग्निसाद्भवति। उदकसात्संपद्यते। उदकसाद्भवति लवणम्। अग्नीभवति। उदकीभवति। अथाभिविधेः कार्त्स्न्यस्य च को विशेषः ? यत्रैकदेशेनापि सर्वा प्रकृतिर्विकारमापद्यते सोऽभिविधिः। यथास्यां सेनायामुत्पातेन सर्वं शस्त्रमग्निसात्संपद्यते, वर्षासु सर्वं लवणमुदकसात्संपद्यत इति। कार्त्स्न्यं तु सर्वात्मना द्रव्यस्य विकाररूपापत्तौ भवति॥
तदधीनवचने ॥ ५.४.५४॥
अभूततद्भाव इति निवृत्तम्, अर्थान्तरोपादानात्। कृभ्वस्तियोगे संपदा चेति वर्तते। तदधीनं तदायत्तं तत्स्वामिकमित्यर्थः। स्वामिसामान्यमीशितव्यसामान्यं च तदधीनशब्देन निर्दिश्यते। स्वामिविशेषवाचिनः प्रातिपदिकादीशितव्येऽभिधेये सातिः प्रत्ययो भवति कृभ्वस्तिभिः संपदा च योगे। राजाधीनं करोति, राजसात्करोति। राजसाद्भवति। राजसात्स्यात्। राजसात्संपद्यते। ब्राह्मणसात्करोति। ब्राह्मणसाद्भवति। ब्राह्मणसात्स्यात्। ब्राह्मणसात्संपद्यते॥
देये त्रा च ॥ ५.४.५५॥
तदधीनवचन इत्यनुवर्तते। तस्य विशेषणं देयग्रहणम्। दातव्यं देयम्। तदधीने देये त्रा प्रत्ययो भवति, चकारात् सातिश्च कृभ्वस्तिभिः संपदा च योगे। ब्राह्मणेभ्यो देयमिति यद् विज्ञातम्, तद् यदा तेषां समर्पणेन तदधीनं क्रियते तदा त्रा प्रत्ययः। ब्राह्मणाधीनं देयं करोति, ब्राह्मणसात्करोति। ब्राह्मणत्राकरोति। ब्राह्मणत्राभवति। ब्राह्मणत्रास्यात्। ब्राह्मणत्रासंपद्यते। देय इति किम् ? राजसाद्भवति राष्ट्रम्॥
देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् ॥ ५.४.५६॥
सातिर्निवृत्तः त्राप्रत्ययोऽनुवर्तते। देवादिभ्यः प्रातिपदिकेभ्यो द्वितीयासप्तम्यन्तेभ्यः त्रा प्रत्ययो भवति बहुलम्। कृभ्वस्तिभिरिति नात्र संबध्यते। सामान्येन विधानम्। देवान् गच्छति देवत्रा गच्छति। देवेषु वसति देवत्रा वसति। मनुष्यान् गच्छति मनुष्यत्रा गच्छति। मनुष्येषु वसति मनुष्यत्रा वसति। पुरुषान् गच्छति पुरुषत्रा गच्छति। पुरुषेषु वसति पुरुषत्रा वसति। पुरून् गच्छति पुरुत्रा गच्छति। पुरुषु वसति पुरुत्रा वसति। मर्त्यान् गच्छति मर्त्यत्रा गच्छति। मर्त्येषु वसति मर्त्यत्रा वसति। बहुलवचनादन्यत्रापि भवति। बहु॒त्रा जीव॑तो॒ मनः॑ (ऋ० १०.१६४.२) इति॥
अव्यक्तानुकरणाद् द्व्यजवरार्धादनितौ डाच् ॥ ५.४.५७॥
यत्र ध्वनावकारादयो वर्णा विशेषरूपेण न व्यज्यन्ते सोऽव्यक्तः। तस्यानुकरणमव्यक्तानुकरणम्। द्व्यज् अवरार्धं यस्य तद् द्व्यजवरार्धम्। अवरशब्दोऽपकर्षे। यस्यापकर्षे क्रियमाणे सुष्ठु न्यूनमर्धं द्व्यच्कं संपद्यते, तस्मादव्यक्तानुकरणादनितिपराड् डाच् प्रत्ययो भवति। कृभ्वस्तियोग इत्यनुवर्तते। यस्य च द्विर्वचने कृते द्व्यजवरार्धं ततः प्रत्ययः। ‘डाचि बहुलं द्वे भवतः’ (वा० ८.१.१२) इति विषयसप्तमी। डाचि विवक्षिते द्विर्वचनमेव पूर्वं क्रियते, पश्चात् प्रत्ययः। पटपटाकरोति। पटपटाभवति। पटपटास्यात्। दमदमाकरोति। दमदमाभवति। दमदमास्यात्। अव्यक्तानुकरणादिति किम्? दृषत्करोति। द्व्यजवरार्धादिति किम् ? श्रत्करोति। अवरग्रहणं किम् ? खरटखरटाकरोति। त्रपटत्रपटाकरोति। अनिताविति किम् ? पटिति करोति। चकारः स्वरार्थः स्वरितबाधनार्थः। पटपटासि। अत्र ‘स्वरितो वानुदात्ते पदादौ’ (८.२.६) इति स्वरितो न भवति। केचिद् द्व्यजवरार्ध्यादिति यकारं पठन्ति, स स्वार्थिको विज्ञेयः॥
कृञो द्वितीयतृतीयशम्बबीजात् कृषौ ॥ ५.४.५८॥
द्वितीयतृतीयादिभ्यः शब्देभ्यः कृषावभिधेयायां डाच् प्रत्ययो भवति कृञो योगे, नान्यत्र। पुनः कृञ्ग्रहणं भ्वस्त्योर्निवृत्त्यर्थम्। द्वितीयाकरोति। द्वितीयं कर्षणं विलेखनं करोतीत्यर्थः। तृतीयाकरोति। शम्बाकरोति। अनुलोमकृष्टं क्षेत्रं पुनः प्रतिलोमं कृषतीत्यर्थः। बीजाकरोति। सह बीजेन विलेखनं करोतीत्यर्थः। कृषाविति किम् ? द्वितीयं करोति पदम्॥
संख्यायाश्च गुणान्तायाः ॥ ५.४.५९॥
कृञ इत्यनुवर्तते, कृषाविति च। संख्यावाचिनः शब्दस्य गुणशब्दोऽन्ते समीपे यत्र संभवति, सा संख्या गुणान्तेत्युच्यते। तादृशात् प्रातिपदिकात् कृषावभिधेयायां डाच् प्रत्ययो भवति कृञो योगे। द्विगुणं विलेखनं करोति क्षेत्रस्य, द्विगुणाकरोति क्षेत्रम्। त्रिगुणाकरोति। कृषाविति किम् ? द्विगुणां करोति रज्जुम्॥
समयाच्च यापनायाम् ॥ ५.४.६०॥
कृञ इत्येव। कृषाविति निवृत्तम्। कर्तव्यस्यावसरप्राप्तिः समयः, तस्यातिक्रमणं यापना। समयशब्दाद् यापनायां गम्यमानायां डाच् प्रत्ययो भवति कृञो योगे। समयाकरोति। समयं यापयति, कालक्षेपं करोतीत्यर्थः। यापनायामिति किम् ? समयं करोति॥
सपत्रनिष्पत्रादतिव्यथने ॥ ५.४.६१॥
कृञ इत्येव। सपत्रनिष्पत्रशब्दाभ्यामतिव्यथने डाच् प्रत्ययो भवति कृञो योगे सति। अतिव्यथनमतिपीडनम्। सपत्राकरोति मृगं व्याधः। सपत्रं शरमस्य शरीरे प्रवेशयतीत्यर्थः। निष्पत्राकरोति। शरीराच्छरमपरपार्श्वे निष्क्रामयतीत्यर्थः। अतिव्यथन इति किम्? सपत्रं वृक्षं करोति जलसेचकः। निष्पत्रं वृक्षतलं करोति भूमिशोधकः॥
निष्कुलान्निष्कोषणे ॥ ५.४.६२॥
कृञ इत्येव। निष्कुलशब्दाद् निष्कोषणे वर्तमानात् कृञो योगे डाच् प्रत्ययो भवति। निष्कोषणमन्तरवयवानां बहिर्निष्कासनम्। निष्कुलाकरोति पशून्। निष्कुष्णातीत्यर्थः। निष्कोषण इति किम्? निष्कुलान् करोति शत्रून्॥
सुखप्रियादानुलोम्ये ॥ ५.४.६३॥
सुखप्रियशब्दाभ्यामानुलोम्ये वर्तमानाभ्यां कृञो योगे डाच् प्रत्ययो भवति। आनुलोम्यमनुकूलता, आराध्यचित्तानुवर्तनम्। सुखाकरोति। प्रियाकरोति। स्वाम्यादेश्चित्तमाराधयतीत्यर्थः। सुखं प्रियं वा कुर्वन्नप्यानुलोम्येऽवस्थित एवमुच्यते। आनुलोम्य इति किम् ? सुखं करोति, प्रियं करोत्यौषधपानम्॥
दुःखात् प्रातिलोम्ये ॥ ५.४.६४॥
कृञ इत्येव। दुःखशब्दात् प्रातिपदिकात् प्रातिलोम्ये गम्यमाने डाच् प्रत्ययो भवति कृञो योगे। प्रातिलोम्यं प्रतिकूलता। स्वाम्यादेश्चित्तपीडनम्। दुःखाकरोति भृत्यः। प्रातिलोम्य इति किम्? दुःखं करोति कदन्नम्॥
शूलात् पाके ॥ ५.४.६५॥
कृञ इत्येव। शूलशब्दात् पाकविषये डाच् प्रत्ययो भवति कृञो योगे। शूले पचति, शूलाकरोति मांसम्। पाक इति किम् ? शूलं करोति कदन्नम्॥
सत्यादशपथे ॥ ५.४.६६॥
कृञ इत्येव। सत्यशब्दादशपथे डाच् प्रत्ययो भवति कृञो योगे। सत्यशब्दोऽनृतप्रतिपक्षवचनः। क्वचित् तु शपथे च वर्तते-सत्येन शापयेद् विप्रम् (मनु०८.११३) इति, तस्यायं प्रतिषेधः। सत्याकरोति वणिक् भाण्डम्। मयैतत् क्रेतव्यमिति तथ्यं करोति। अशपथ इति किम् ? सत्यं करोति ब्राह्मणः॥
मद्रात् परिवापणे ॥ ५.४.६७॥
कृञ इत्येव। मद्रशब्दात् परिवापणे डाच् प्रत्ययो भवति कृञो योगे। परिवापणं मुण्डनम्। मद्रशब्दो मङ्गलार्थः। मङ्गलं मुण्डनं करोति, मद्राकरोति ॥ भद्राच्चेति वक्तव्यम्॥ भद्राकरोति नापितः कुमारम्। परिवापण इति किम् ? भद्रं करोति॥
समासान्ताः ॥ ५.४.६८॥
अधिकारोऽयम्। आ पादपरिसमाप्तेर्ये प्रत्यया विहितास्ते समासस्यान्ता अवयवा एकदेशा भवन्ति, तद्ग्रहणेन गृह्यन्ते (व्या०प० ८०) इति वेदितव्यम् । प्रयोजनम्-अव्ययीभावद्विगुद्वन्द्वतत्पुरुषबहुव्रीहिसंज्ञाः। उपराजम्। अधिराजम्। ‘नाव्ययीभावाद्०’ (२.४.८३) इत्येष विधिर्भवति। ‘अनश्च’ (५.४.१०८) इति टच्। द्विपुरी, त्रिपुरीति। ‘द्विगोः’ (४.१.२१) इति ङीब् भवति। कोशनिषदिनी। स्रक्त्वचिनी। ‘द्वन्द्वोपतापगर्ह्याद्०’ (५.२.१२८) इतीनिर्भवति। विधु॑रः। प्रधु॑रः। ‘तत्पुरुषे तुल्यार्थ०’ (६.२.२)-इत्येष स्वरो भवति। उ॒च्चैर्धु॑रः। नी॒चैर्धु॑रः। ‘बहुव्रीहौ प्रकृत्या पूर्वपदम्’ (६.२.१) इत्येतद् भवति॥
न पूजनात् ॥ ५.४.६९॥
यान् शब्दानुपादाय समासान्ता विधीयन्ते ‘राजाहःसखिभ्यष्टच्’ (५.४.९१) इत्येवमादीन्, यदा ते पूजनात् पूजनवचनात् परे भवन्ति तदा समासान्तो न भवति। सुराजा। अतिराजा। सुगौः। अतिगौः॥ पूजायां स्वतिग्रहणं कर्तव्यम्॥ इह मा भूत्-परमराजः, परमगव इति॥ प्राग्बहुव्रीहिग्रहणं च कर्तव्यम्॥ ‘बहुव्रीहौ सक्थ्यक्ष्णोः०’ (५.४.११३) इत्येवमादौ प्रतिषेधो न भवति। सुसक्थः। अतिसक्थः। स्वक्षः। अत्यक्षः॥
किमः क्षेपे ॥ ५.४.७०॥
क्षेपे यः किंशब्दस्ततः परस्य समासान्तो न भवति। किंराजा यो न रक्षति। किंसखा योऽभिद्रुह्यति। किंगौर्यो न वहति। ‘किं क्षेपे’ (२.१.६४) इति समासः। क्षेप इति किम्? कस्य राजा किंराजः। किंसखः। किंगवः॥
नञस्तत्पुरुषात् ॥ ५.४.७१॥
नञः परे वक्ष्यमाणा ये राजादयस्तदन्तात् तत्पुरुषात् समासान्तो न भवति। अराजा। असखा। अगौः। तत्पुरुषादिति किम् ? अनृचो माणवकः। अधुरं शकटम्॥
पथो विभाषा ॥ ५.४.७२॥
नञस्तत्पुरुषादिति वर्तते। नञः परो यः पथिन्शब्दः, तदन्तात् तत्पुरुषात् समासान्तो विभाषा न भवति। पूर्वेण नित्यः प्रतिषेधः प्राप्तो विकल्प्यते। अपथम्, अपन्थाः॥
** बहुव्रीहौ संख्येये डजबहुगणात् ॥ ५.४.७३॥**
संख्येये यो बहुव्रीहिर्वर्तते, तस्मादबहुगणान्ताद् डच् प्रत्ययो भवति। ‘संख्ययाव्ययासन्ना०’ (२.२.२५) इति यो बहुव्रीहिः, तस्येदं ग्रहणम्। उपदशाः। उपविंशाः। उपत्रिंशाः। आसन्नदशाः। अदूरदशाः। अधिकदशाः। द्वित्राः। पञ्चषाः। पञ्चदशाः। संख्येय इति किम् ? चित्रगुः। शबलगुः। अबहुगणादिति किम्? उपबहवः। उपगणाः। अत्र स्वरे विशेषः॥ डच्प्रकरणे संख्यायास्तत्पुरुषस्योपसंख्यानं कर्तव्यं निस्िंत्रशाद्यर्थम्॥ निर्गतानि त्रिंशतो निस्िंत्रशानि वर्षाणि देवदत्तस्य। निश्चत्वारिंशानि यज्ञदत्तस्य। निर्गतस्िंत्रशतोऽङ्गुलिभ्यो निस्त्रिंशः खड्गः॥
ऋक्पूरब्धूःपथामानक्षे॥ ५.४.७४॥
बहुव्रीहाविति न स्वर्यते। सामान्येन विधानम्। ऋक् पुर् अप् धुर् पथिन् इत्येवमन्तानां समासानामकारः प्रत्ययो भवति समासान्तोऽक्षे न । सामर्थ्याद् धुर एतद्विशेषणम् ऋगादीनां न भवति। अक्षसंबन्धिनी या धूस्तदन्तस्य न भवति। अनृचः। बह्वृचः। अर्धर्चः। पुर्-ललाटपुरम्। नान्दीपुरम्। अप्-द्वीपम्। अन्तरीपम्। समीपम्। धुर्-राजधुरा। महाधुरः। पथिन्-स्थलपथः। जलपथः। अनक्ष इति किम्? अक्षस्य धूः अक्षधूः। दृढधूरक्षः। अनृचो माणवके ज्ञेयः, बह्वृचश्चरणाख्यायाम् (महाभाष्य २.४४४)। अनृचो माणवकः। बह्वृचो ब्राह्मणः। अनृक्कं साम, बह्वृक्कं सूक्तमित्यत्र न भवति॥
अच् प्रत्यन्ववपूर्वात् सामलोम्नः ॥ ५.४.७५॥
प्रति अनु अव इत्येवंपूर्वात् सामान्तात् लोमान्तात् च समासादच् प्रत्ययो भवति। प्रतिसामम्। अनुसामम्। अवसामम्। प्रतिलोमम्। अनुलोमम्। अवलोमम्।
कृष्णोदक्पाण्डुपूर्वाया भूमेरच्प्रत्ययः स्मृतः।
गोदावर्याश्च नद्याश्च संख्याया उत्तरे यदि॥
कृष्णभूमः। पाण्डुभूमः। उदग्भूमः। पञ्चनदम्। पञ्चगोदावरम्। ‘नदीभिश्च’ (२.१.२०) इत्यव्ययीभावः। भूमेरपि संख्यापूर्वाया अच् प्रत्यय इष्यते। द्विभूमः प्रासादः। त्रिभूमः। दशभूमकं सूत्रम्। अन्यत्रापि च दृश्यते। पद्मनाभः। ऊर्णनाभः। दीर्घरात्रः। समरात्रः। अरात्रः। तदेतत् सर्वमिह योगविभागं कृत्वा साधयन्ति॥
अक्ष्णोऽदर्शनात् ॥ ५.४.७६॥
अजित्यनुवर्तते। दर्शनादन्यत्र योऽक्षिशब्दस्तदन्तादच् प्रत्ययो भवति। लवणाक्षम्। पुष्कराक्षम्। ‘उपमितं व्याघ्रादिभिः०’ (२.१.५६) इति समासः। अदर्शनादिति किम्? ब्राह्मणाक्षि। कथं कबराक्षं गवाक्षमिति। अश्वादीनां मुखप्रच्छादनार्थं बहुच्छिद्रं कबराक्षम्, तेनापि हि दृश्यते, गवाक्षेण च? नैष दोषः। चक्षुः पर्यायवचनो दर्शनशब्दः, प्राण्यङ्गवचन इहाश्रीयते॥
अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदार-गवोर्वष्ठीवपदष्ठीवनक्तंदिवरात्रिंदिवाहर्दिवसरजसनिश्श्रेयसपुरुषायुष-द्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः॥ ५.४.७७॥
अच्प्रत्ययान्ता एते शब्दा निपात्यन्ते। समासे व्यवस्थापि निपातनादेव प्रतिपत्तव्या। आद्यास्त्रयो बहुव्रीहयः। अदृश्यान्यविद्यमानानि वा चत्वारि यस्य सोऽचतुरः। विगतानि चत्वारि यस्य स विचतुरः। शोभनानि चत्वारि यस्य स सुचतुरः। ततः पर एकादश द्वन्द्वाः। स्त्री च पुमांश्च स्त्रीपुंसौ। इह न भवति-स्त्रियाः पुमान् स्त्रीपुमानिति। धेनुश्च अनड्वांश्च धेन्वनडुहौ। ऋक् च साम च ऋक्सामे। वाक् च मनश्च वाङ्मनसे। अक्षि च भ्रुवौ च अक्षिभ्रुवम्। दाराश्च गावश्च दारगवम्। ऊरू च अष्ठीवन्तौ च ऊर्वष्ठीवम्। टिलोपो निपात्यते। पादौ च अष्ठीवन्तौ च पदष्ठीवम्। पादस्य पद्भावो निपात्यते। नक्तं च दिवा च नक्तंदिवम्। सप्तम्यर्थवृत्तयोरव्यययोः समासोऽपि निपातनादेव। रात्रौ च दिवा च रात्रिंदिवम्। पूर्वपदस्य मान्तत्वं निपात्यते। अहनि च दिवा च अहर्दिवम्। ननु च पर्यायावेतौ कथमनयोर्द्वन्द्वः? वीप्सायां द्वन्द्वो निपात्यते। अहन्यहनीत्यर्थः। एकोऽव्ययीभावः साकल्ये-सरजसमभ्यवहरति। बहुव्रीहौ न भवति। सह रजसा सरजः पङ्कजमिति। ततस्तत्पुरुषः-निश्चितं श्रेयो निश्श्रेयसम्। निश्श्रेयस्कः पुरुष इत्यत्र न भवति। ततः षष्ठीसमासः। पुरुषस्यायुः पुरुषायुषम्। द्वन्द्वे न भवति-पुरुषश्च आयुश्च पुरुषायुषी। ततो द्विगू-द्वे आयुषी समाहृते द्व्यायुषम्। त्र्यायुषम्। इह न भवति-द्वयोरायुर्द्व्यायुः, त्र्यायुरिति। ततो द्वन्द्वः- ऋक् च यजुश्च ऋग्यजुषम्। इह न भवति-ऋग् यजुरस्योन्मुग्धस्य ऋग्यजुरुन्मुग्धः। जातादिपूर्वपदा उक्षशब्दान्तास्त्रयः कर्मधारयाः-जातोक्षः। महोक्षः। वृद्धोक्षः। बहुव्रीहौ न भवति-जातोक्षा ब्राह्मणः, महोक्षा, वृद्धोक्षेति। ततोऽव्ययीभावः-शुनः समीपमुपशुनम्। टिलोपाभावः संप्रसारणं च निपातनादेव। ततः सप्तमीसमासः-गोष्ठे श्वा गोष्ठश्वः॥ चतुरोऽच्प्रकरणे त्र्युपाभ्यामुपसंख्यानम्॥ त्रिचतुराः। उपचतुराः॥
ब्रह्महस्तिभ्यां वर्चसः ॥ ५.४.७८॥
ब्रह्महस्तिभ्यां परो यो वर्चःशब्दस्तदन्तात् समासादच् प्रत्ययो भवति। ब्रह्मवर्चसम्। हस्तिवर्चसम्॥ पल्यराजभ्यां चेति वक्तव्यम्॥ पल्यवर्चसम्। राजवर्चसम्॥
अवसमन्धेभ्यस्तमसः॥ ५.४.७९॥
अव सम् अन्ध इत्येतेभ्यो यः परस्तमःशब्दः, तदन्तात् समासादच् प्रत्ययो भवति। अवतमसम्। सन्तमसम्। अन्धतमसम्॥
श्वसो वसीयः श्रेयसः ॥ ५.४.८०॥
श्वसः परौ यौ वसीयःश्रेयःशब्दौ तदन्तात् समासादच् प्रत्ययो भवति। श्वोवसीयसम्। श्वःश्रेयसम्। मयूरव्यंसकादित्वात् समासः। स्वभावात् चेह श्वःशब्द उत्तरपदार्थस्य प्रशंसामाशीर्विषयामाचष्टे-श्वःश्रेयसं ते भूयात्। शोभनं श्रेयस्ते भूयादित्यर्थः। श्वोवसीयसमित्यस्यैवायं पर्यायः॥
अन्ववतप्ताद्रहसः ॥ ५.४.८१॥
अनु अव तप्त इत्येतेभ्यः परो यो रहश्शब्दस्तदन्तात् समासादच् प्रत्ययो भवति। अनुरहसम्। अवरहसम्। तप्तरहसम्॥
प्रतेरुरसः सप्तमीस्थात् ॥ ५.४.८२॥
प्रतेः परो य उरःशब्दस्तदन्तात् समासादच् प्रत्ययो भवति, स चेदुरःशब्दः सप्तमीस्थो भवति। सप्तम्यर्थे वर्तत इत्यर्थः। उरसि वर्तते। विभक्त्यर्थे ‘अव्ययम्०’ (२.१.६) इति समासः। प्रत्युरसम्। सप्तमीस्थादिति किम् ? प्रतिगतमुरः प्रत्युरः॥
अनुगवमायामे ॥ ५.४.८३॥
अनुगवमित्यच्प्रत्ययान्तं निपात्यत आयामेऽभिधेये। अनुगवं यानम्। ‘यस्य चायामः’ (२.१.१६) इति समासः। आयाम इति किम् ? गवां पश्चादनुगु ॥
द्विस्तावा त्रिस्तावा वेदिः ॥ ५.४.८४॥
द्विस्तावा त्रिस्तावेति निपात्यते, वेदिश्चेदभिधेया भवति। अच्प्रत्ययष्टिलोपः समासश्च निपात्यते। यावती प्रकृतौ वेदिस्ततो द्विगुणा वा त्रिगुणा वा कस्याञ्चिद् विकृतौ, तत्रेदं निपातनम्। द्विस्तावा वेदिः। त्रिस्तावा वेदिः। वेदिरिति किम्? द्विस्तावती, त्रिस्तावती रज्जुः॥
उपसर्गादध्वनः ॥ ५.४.८५॥
उपसर्गात् परो योऽध्वन्शब्दस्तदन्तात् समासाद् अच् प्रत्ययो भवति। प्रगतोऽध्वानं प्राध्वो रथः। प्राध्वं शकटम्। निरध्वम्। प्रत्यध्वम्। उपसर्गादिति किम्? परमाध्वा। उत्तमाध्वा॥
तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः॥ ५.४.८६॥
अङ्गुलिशब्दान्तस्य तत्पुरुषस्य संख्यादेरव्ययादेश्चाच् प्रत्ययो भवति। द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलम्। त्र्यङ्गुलम्। ‘तद्धितार्थो०’ (२.१.५१) इति समासः। ‘प्रमाणे लो द्विगोर्नित्यम्’ (वा०५.२.३७) इति मात्रचो लोपः। अव्ययादेः-निर्गतमङ्गुलिभ्यो निरङ्गुलम्। अत्यङ्गुलम्। तत्पुरुषस्येति किम् ? पञ्चाङ्गुलिः। अत्यङ्गुलिः पुरुषः। तत्पुरुषाधिकारश्च ‘द्वन्द्वाच्चुदषहान्ताद्०’ (५.४.१०६) इति यावत्॥
अहःसर्वैकदेशसंख्यातपुण्याच्च रात्रेः॥ ५.४.८७॥
अहरादिभ्यः परो यो रात्रिशब्दः तदन्तस्य तत्पुरुषस्याच् प्रत्ययो भवति, चकारात् संख्यादेरव्ययादेश्च। अहर्ग्रहणं द्वन्द्वार्थम्। अहश्च रात्रिश्च अहोरात्रः। सर्वरात्रः। एकदेशे-पूर्वं रात्रेः पूर्वरात्रः। अपररात्रः। ‘पूर्वापराधरो०’ (२.२.१) इति समासः। संख्याता रात्रिः संख्यातरात्रः। ‘विशेषणं विशेष्येण०’ (२.१.५७) इति समासः। एवं पुण्या रात्रिः पुण्यरात्रः। संख्याव्ययादेः खल्वपि-द्वे रात्री समाहृते द्विरात्रः। त्रिरात्रः। अतिक्रान्तो रात्रिम् अतिरात्रः। नीरात्रः॥
अह्नोऽह्न एतेभ्यः॥ ५.४.८८॥
‘राजाहःसखिभ्यष्टच्’ (५.४.९१) इति वक्ष्यति। तस्मिन् परभूतेऽहन्नित्येतस्याह्न इत्ययमादेशो भवत्येतेभ्य उत्तरस्य। संख्याव्ययादयः प्रक्रान्ताः सर्वनाम्ना प्रत्यवमृश्यन्ते। सामर्थ्याच्चाहः शब्दः पूर्वत्वेन नाश्रीयते। परिशिष्टानां ग्रहणम्। न ह्यहःशब्दात् परोऽहः शब्दः संभवति। संख्यायास्तावत्-द्वयोरह्नोर्भवो द्व्यह्नः, त्र्यह्नः। अव्ययात्-अहरतिक्रान्तोऽत्यह्नः। निरह्नः। सर्वाह्णः। पूर्वाह्णः। अपराह्णः। संख्याताह्नः। पुण्यशब्दात् प्रतिषेधं वक्ष्यति॥
न संख्यादेः समाहारे॥ ५.४.८९॥
संख्यादेस्तत्पुरुषस्य समाहारे वर्तमानस्याहःशब्दस्याह्नादेशो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते। द्वे अहनी समाहृते द्व्यहः। त्र्यहः। समाहार इति किम्? द्वयोरह्नोर्भवो द्व्यह्नः। त्र्यह्नः। ‘तद्धितार्थो०’ (२.१.५१) इति समासे कृतेऽण आगतस्य ‘द्विगोः०’ (४.१.८८) इति लुक्॥
उत्तमैकाभ्यां च॥ ५.४.९०॥
उत्तमैकशब्दाभ्यां च परस्याह्न इत्ययमादेशो न भवति। उत्तमशब्दोऽन्त्यवचनः पुण्यशब्दमाचष्टे। पुण्यग्रहणमेव न कृतं वैचित्र्यार्थम्। पुण्याहः। एकाहः। केचित् तु उपोत्तमस्यापि प्रतिपत्त्यर्थं वर्णयन्ति। तेन संख्यातशब्दादपि परस्य न भवति-संख्याताह इति॥
राजाहः सखिभ्यष्टच्॥ ५.४.९१॥
राजन् अहन् सखि इत्येवमन्तात् तत्पुरुषात् प्रातिपदिकात् टच् प्रत्ययो भवति। महाराजः। मद्रराजः। परमाहः। उत्तमाहः। राज्ञः सखा राजसखः। ब्राह्मणसखः। इह कस्माद् न भवति-मद्राणां राज्ञी मद्रराज्ञी, लिङ्गविशिष्टपरिभाषया प्राप्नोति ? लघ्वक्षरस्य पूर्वनिपाते प्राप्ते राजशब्दस्य सवर्णदीर्घार्थं प्रथमं प्रयोगं कुर्वन्नेतद् ज्ञापयति-यस्याकारेण सवर्णदीर्घत्वं संभवति तस्येदं ग्रहणमिति॥
गोरतद्धितलुकि॥ ५.४.९२॥
गोशब्दान्तात् तत्पुरुषात् टच् प्रत्ययो भवति, स चेत् तत्पुरुषस्तद्धितलुग्विषयो न भवति। परमगवः। उत्तमगवः। पञ्चगवम्। दशगवम्। अतद्धितलुकीति किम्? पञ्चभिर्गोभिः क्रीतः पञ्चगुः। दशगुः। ‘तेन क्रीतम्’ (५.१.३७) इत्यागतस्यार्हीयस्य ठको ‘अध्यर्धपूर्वद्विगोः०’ (५.१.२८) इति लुक् । तद्धितग्रहणं किम् ? सुब्लुकि प्रतिषेधो मा भूत्। राजगवमिच्छति राजगवीयति। लुग्ग्रहणं किम् ? तद्धित एव मा भूत्। पञ्चभ्यो गोभ्य आगतं पञ्चगवरूप्यम्। पञ्चगवमयम्। दशगवरूप्यम्। दशगवमयम्॥
अग्राख्यायामुरसः॥ ५.४.९३॥
उरःशब्दान्तात् तत्पुरुषात् टच् प्रत्ययो भवति, स चेदुरःशब्दोऽग्राख्यायां भवति। अग्रं प्रधानमुच्यते। यथा शरीरावयवानामुच्यत उरः प्रधानम्, एवमन्योऽपि प्रधानभूत उरःशब्देनोच्यते। अश्वानामुरः अश्वोरसम्। हस्त्युरसम्। रथोरसम्। अग्राख्यायामिति किम् ? देवदत्तस्योरः देवदत्तोरः॥
अनोऽश्मायःसरसां जातिसंज्ञयोः॥ ५.४.९४॥
अनस् अश्मन् अयस् सरस् इत्येवमन्तात् तत्पुरुषात् टच् प्रत्ययो भवति जातौ संज्ञायां च विषये। उपानसमिति जातिः। महानसमिति संज्ञा। अमृताश्म इति जातिः। पिण्डाश्म इति संज्ञा। कालायसमिति जातिः। लोहितायसमिति संज्ञा। मण्डूकसरसमिति जातिः। जलसरसमिति संज्ञा। जातिसंज्ञयोरिति किम् ? सदनः। सदश्मा। सत्सरः॥
ग्रामकौटाभ्यां च तक्ष्णः॥ ५.४.९५॥
जातिसंज्ञयोरिति नानुवर्तते। ग्रामकौटाभ्यां परो यस्तक्षन्शब्दस्तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति। ग्रामस्य तक्षा ग्रामतक्षः। बहूनां साधारण इत्यर्थः। कुट्यां भवः कौटः, तस्य तक्षा कौटतक्षः। स्वतन्त्रः कर्मजीवी, न कस्यचित् प्रतिबद्ध इत्यर्थः। ग्रामकौटाभ्यामिति किम्? राजतक्षा॥
अतेः शुनः॥ ५.४.९६॥
अतिशब्दात् परो यः श्वन्शब्दस्तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति। अतिक्रान्तः श्वानम् अतिश्वो वराहः। जववानित्यर्थः। अतिश्वः सेवकः। सुष्ठु स्वामिभक्त इत्यर्थः। अतिश्वी सेवा। अतिनीचेत्यर्थः॥
उपमानादप्राणिषु॥ ५.४.९७॥
उपमानवाची यः श्वन्शब्दोऽप्राणिषु वर्तते, तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति। आकर्षः श्वेव आकर्षश्वः। फलकश्वः। ‘उपमितं व्याघ्रादिभिः०’ (२.१.५६) इति समासः। उपमानादिति किम् ? न श्वा अश्वा लोष्टः। अप्राणिष्विति किम् ? वानरः श्वेव वानरश्वा॥
उत्तरमृगपूर्वाच्च सक्थ्नः॥ ५.४.९८॥
उत्तर मृग पूर्व इत्येतेभ्यः परो यः सक्थिशब्दः, चकारादुपमानात् च, तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति समासान्तः। उत्तरसक्थम्। मृगसक्थम्। पूर्वसक्थम्। उपमानात् खल्वपि-फलकमिव सक्थि फलकसक्थम्॥
नावो द्विगोः॥ ५.४.९९॥
नौशब्दान्ताद् द्विगोष्टच् प्रत्ययो भवति समासान्तः। द्वे नावौ समाहृते द्विनावम्। त्रिनावम्। द्विनावधनः। पञ्चनावप्रियः। द्वाभ्यां नौभ्यामागतं द्विनावरूप्यम्। द्विनावमयम्। द्विगोरिति किम् ? राजनौः। अतद्धितलुकीत्येव-पञ्चभिर्नौभिः क्रीतः पञ्चनौः। दशनौः॥
अर्धाच्च॥ ५.४.१००॥
अर्धशब्दात् परो यो नौशब्दस्तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति। अर्धं नावोऽर्धनावम्। ‘अर्धं नपुंसकम्’ (२.२.२) इति समासः। परवल्लिङ्गं न भवति, लोकाश्रयत्वाल्लिङ्गस्य॥
खार्याः प्राचाम्॥ ५.४.१०१॥
द्विगोरर्धाच्चेति द्वयमप्यनुवर्तते। खारीशब्दान्ताद् द्विगोरर्धात् च परो यः खारीशब्दस्तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति प्राचामाचार्याणां मतेन। द्वे खार्यौ समाहृते द्विखारम्, द्विखारि। त्रिखारम्, त्रिखारि। अर्धं खार्या अर्धखारम्, अर्धखारी॥
द्वित्रिभ्यामञ्जलेः॥ ५.४.१०२॥
द्वित्रिभ्यां परो योऽञ्जलिशब्दस्तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति। द्वावञ्जली समाहृतौ द्व्यञ्जलम्। त्र्यञ्जलम्। द्विगोरित्येव-द्वयोरञ्जलिर्द्व्यञ्जलिः। अतद्धितलुकीत्येव-द्वाभ्यामञ्जलिभ्यां क्रीतो द्व्यञ्जलिः। त्र्यञ्जलिः। प्राचामित्येव-द्व्यञ्जलिप्रियः॥
अनसन्तान्नपुंसकाच्छन्दसि॥ ५.४.१०३॥
अन्नन्तादसन्तात् च नपुंसकलिङ्गात् तत्पुरुषात् टच् प्रत्ययो भवति छन्दसि विषये। हस्तिचर्मे जुहोति। ऋषभचर्मेऽध्यभिषिच्यते (काठ० सं० ३७.३)। असन्तात्-देवच्छन्द॒सा॑नि (मै०सं० ३.२.९)। मनुष्यच्छन्द॒सम् (तै०सं० ५.४.८.६)। अनसन्तादिति किम्? बिल्वदारु जुहोति। नपुंसकादिति किम्? सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हस॑म् (ऋ० १०.६३.१०)॥ अनसन्तान्नपुंसकाच्छन्दसि वावचनम्॥ ब्रह्मसाम (ता०ब्रा० ४.३.१)। देवच्छन्दः (शां०ब्रा० १.५)। ब्रह्मसा॒मम् (तै०सं० १.८.१८.१)। देवच्छन्द॒सम् (तै०सं० ५.४.८.५)॥
ब्रह्मणो जानपदाख्यायाम्॥ ५.४.१०४॥
ब्रह्मन्शब्दान्तात् तत्पुरुषात् टच् प्रत्ययो भवति, समासेन चेद् ब्रह्मणो जानपदत्वमाख्यायते। जनपदेषु भवो जानपदः। यस्य तत्पुरुषस्य जनपदशब्दः पूर्वपदं तस्मादेतत् प्रत्ययविधानम्। सुराष्ट्रेषु ब्रह्मा सुराष्ट्रबह्मः। अवन्तिब्रह्मः। योगविभागात् सप्तमीसमासः। जानपदाख्यायामिति किम् ? देवब्रह्मा नारदः॥
कुमहद्भ्यामन्यतरस्याम्॥ ५.४.१०५॥
कुमहद्भ्यां परो यो ब्रह्मा तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवत्यन्यतरस्याम्। कुब्रह्मः, कुब्रह्मा। महाब्रह्मः, महाब्रह्मा। ब्राह्मणपर्यायो ब्रह्मन्शब्दः॥
द्वन्द्वाच्चुदषहान्तात् समाहारे॥ ५.४.१०६॥
तत्पुरुषाधिकारो निवृत्तः। द्वन्द्वात् चवर्गान्ताद् दकारान्तात् षकारान्तात् हकारान्तात् च टच् प्रत्ययो भवति, स चेद् द्वन्द्वः समाहारे वर्तते, नेतरेतरयोगे। वाक् च त्वक् च वाक्त्वचम्। स्रक् च त्वक् च स्रक्त्वचम्। श्रीस्रजम्। इडूर्जम्। वागूर्जम्। समिद्दृषदम्। संपद्विपदम्। वाग्विप्रुषम्। छत्रोपानहम्। धेनुगोदुहम्। द्वन्द्वादिति किम्? तत्पुरुषाद् मा भूत्-पञ्च वाचः समाहृताः पञ्चवाक् । चुदषहान्तादिति किम्? वाक्समित्। समाहार इति किम् ? प्रावृट्शरदौ॥
अव्ययीभावे शरत्प्रभृतिभ्यः॥ ५.४.१०७॥
शरदित्येवमादिभ्यः प्रातिपदिकेभ्यष्टच् प्रत्ययो भवत्यव्ययीभावे। शरदः समीपम् उपशरदम्। प्रतिशरदम्। उपविपाशम्। प्रतिविपाशम्। अव्ययीभाव इति किम्? परमशरत्। येऽत्र झयन्ताः पठ्यन्ते तेषां नित्यार्थं ग्रहणम्। स्वर्यते चेदमव्ययीभावग्रहणं प्राग् बहुव्रीहेः॥ शरत्। विपाश्। अनस्। मनस्। उपानह्। दिव्। हिमवत्। अनडुह्। दिश्। दृश्। चतुर्। यद्। तद्। जराया जरश्च (ग०सू० १६०)। प्रतिपरसमनुभ्योऽक्ष्णः (ग०सू० १६१)। पथिन्। प्रत्यक्षम्। परोक्षम्। समक्षम्। अन्वक्षम्। प्रतिपथम्। परपथम्। संपथम्। अनुपथम्॥
अनश्च॥ ५.४.१०८॥
अन्नन्तादव्ययीभावात् टच् प्रत्ययो भवति समासान्तः। उपराजम्। प्रतिराजम्। अध्यात्मम्। प्रत्यात्मम्॥
नपुंसकादन्यतरस्याम्॥ ५.४.१०९॥
अन इत्येव। नपुंसकग्रहणमुत्तरपदविशेषणम्। अन्नन्तं यद् नपुंसकं तदन्तादव्ययीभावादन्यतरस्यां टच् प्रत्ययो भवति समासान्तः। पूर्वेण नित्ये प्राप्ते विकल्प्यते। प्रतिचर्मम्, प्रतिचर्म। उपचर्मम्, उपचर्म॥
नदीपौर्णमास्याग्रहायणीभ्यः॥ ५.४.११०॥
नदी पौर्णमासी आग्रहायणी इत्येवमन्तादव्ययीभावादन्यतरस्यां टच् प्रत्ययो भवति। नद्याः समीपम् उपनदम्, उपनदि। उपपौर्णमासम्, उपपौर्णमासि। उपाग्रहायणम्, उपाग्रहायणि॥
झयः ॥ ५.४.१११॥
झय इति प्रत्याहारग्रहणम्। झयन्तादव्ययीभावादन्यतरस्यां टच् प्रत्ययो भवति। उपसमिधम्। उपसमित्। उपदृषदम्। उपदृषत्॥
गिरेश्च सेनकस्य ॥ ५.४.११२॥
गिरिशब्दान्तादव्ययीभावात् टच् प्रत्ययो भवति सेनकस्याचार्यस्य मतेन। अन्तर्गिरम्, अन्तर्गिरि। उपगिरम्, उपगिरि। सेनकग्रहणं पूजार्थम्। विकल्पोऽनुवर्तत एव॥
बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् ॥ ५.४.११३॥
स्वाङ्गवाची यः सक्थिशब्दोऽक्षिशब्दश्च तदन्ताद् बहुव्रीहेः षच् प्रत्ययो भवति समासान्तः। अयमर्थोऽभिप्रेतः। सूत्रे तु दुःश्लिष्टविभक्तीनि पदानि। दीर्घं सक्थि यस्य दीर्घसक्थः। कल्याणाक्षः। लोहिताक्षः। विशालाक्षः। बहुव्रीहाविति किम् ? परमसक्थि। परमाक्षि। सक्थ्यक्ष्णोरिति किम् ? दीर्घजानुः। सुबाहुः। स्वाङ्गादिति किम् ? दीर्घसक्थि शकटम्। स्थूलाक्षिः इक्षुः। टचि प्रकृते षज्ग्रहणं स्वरार्थम्। दीर्घसक्थी स्त्री। ‘सक्थं चाक्रान्तात्’ (६.२.१९८) इति विभाषयोत्तरपदस्यान्तोदात्तता विधीयते। तत्र यस्मिन् पक्षे नास्त्युदात्तत्वं तत्र ङीपि सत्युदात्तनिवृत्तिस्वरस्याभावादनुदात्तः श्रूयेत। ङीषि तु सर्वत्रोदात्तः सिद्धो भवति। बहुव्रीहिग्रहणम् आ पादपरिसामाप्तेरनुवर्तते॥
अङ्गुलेर्दारुणि॥ ५.४.११४॥
अङ्गुलिशब्दान्ताद् बहुव्रीहेः षच् प्रत्ययो भवति समासान्तो दारुणि समासार्थे। द्व्यङ्गुलं दारु। त्र्यङ्गुलं दारु। पञ्चाङ्गुलं दारु। अङ्गुलिसदृशावयवं धान्यादीनां विक्षेपणकाष्ठमुच्यते। यस्य तु द्वे अङ्गुली प्रमाणं दारुणस्तत्र ‘तद्धितार्थो०’ (२.१.५१) इति समासे कृते ‘तत्पुरुषस्याङ्गुलेः०’ (५.४.८६) इत्यचा भवितव्यम्। दारुणीति किम्? पञ्चाङ्गुलिर्हस्तः॥
द्वित्रिभ्यां ष मूर्ध्नः॥ ५.४.११५॥
द्वित्रिभ्यां परो यो मूर्धन्शब्दस्तदन्ताद् बहुव्रीहेः षः प्रत्ययो भवति समासान्तः। द्विमूर्धः। त्रिमूर्धः। द्वित्रिभ्यामिति किम् ? उच्चैर्मूर्धा॥
अप् पूरणीप्रमाण्योः॥ ५.४.११६॥
पूरणप्रत्ययान्ताः स्त्रीलिङ्गाः शब्दाः पूरणीग्रहणेन गृह्यन्ते। प्रमाणीति स्वरूपग्रहणम्। पूरण्यन्तात् प्रमाण्यन्तात् च बहुव्रीहेरप् प्रत्ययो भवति समासान्तः। कल्याणी पञ्चमी आसां रात्रीणां ताः कल्याणीपञ्चमा रात्रयः। कल्याणीदशमा रात्रयः। स्त्री प्रमाणी एषां स्त्रीप्रमाणाः कुटुम्बिनः। भार्याप्रधाना इत्यर्थः॥ अपि प्रधानपूरणीग्रहणं कर्तव्यम्॥ यत्रान्यपदार्थे पूरण्यनुप्रविशति न केवलं वर्तिपदार्थ एव, तत्र पूरण्याः प्राधान्यम्। पुंवद्भावप्रतिषेधेऽपि प्रधानपूरण्येव गृह्यते। इह न भवति-कल्याणी पञ्चमी अस्मिन् पक्षे कल्याणपञ्चमीकः पक्ष इति॥ नेतुर्नक्षत्र उपसंख्यानम्॥ मृगो नेता आसां रात्रीणां मृगनेत्रा रात्रयः। पुष्यनेत्राः। नक्षत्र इति किम्? देवदत्तनेतृकाः॥ छन्दसि च नेतुरुपसंख्यानम्॥ बृह॒स्पति॑नेत्रा दे॒वाः (तै०सं० १.८.७.१)। सो॑म॒नेत्राः (मै०सं० २.६.३)॥ मासाद् भृतिप्रत्ययपूर्वपदाट् ठज्विधिः॥ पञ्चको मासोऽस्य पञ्चकमासिकः कर्मकरः। दशकमासिकः। ‘सोऽस्यांशवस्नभृतयः’ (५.१.५६) इति ‘संख्याया अतिशदन्तायाः कन्’ (५.१.२२)॥
अन्तर्बहिर्भ्यां च लोम्नः॥ ५.४.११७॥
अन्तर् बहिस् इत्येताभ्यां परो यो लोमन्शब्दस्तदन्ताद् बहुव्रीहेरप् प्रत्ययो भवति। अन्तर्गतानि लोमान्यस्य अन्तर्लोमः प्रावारः। बहिर्लोमः पटः॥
अञ् नासिकायाः संज्ञायां नसं चास्थूलात्॥ ५.४.११८॥
नासिकान्ताद् बहुव्रीहेरच् प्रत्ययो भवति नासिकाशब्दश्च नसमादेशमापद्यते। अस्थूलादिति नासिकाविशेषणम्, न चेत् स्थूलशब्दात् परा नासिका भवतीति। संज्ञायामिति समुदायोपाधिः। द्रुरिव नासिकास्य द्रुणसः। वाद्ध्रीणसः। ‘पूर्वपदात् संज्ञायामगः’ (८.४.३) इति णत्वम्। गोनसः। संज्ञायामिति किम्? तुङ्गनासिकः। अस्थूलादिति किम् ? स्थूलनासिको वराहः॥ खुरखराभ्यां नस् वक्तव्यः॥ खुरणाः। खरणाः। पक्षेऽच्प्रत्ययोऽपीष्यते। खुरणसः। खरणसः। शितिनाः,अहिनाः, अर्चना इति निगम इष्यते॥
उपसर्गाच्च॥ ५.४.११९॥
उपसर्गात् परो यो नासिकाशब्दस्तदन्ताद् बहुव्रीहेरच् प्रत्ययो भवति, नासिकाशब्दश्च नसमापद्यते। असंज्ञार्थं वचनम्। उन्नता नासिकास्य उन्नसः। प्रणसः। ‘उपसर्गाद् बहुलम्’ (८.४.२८) इति णत्वम्॥ वेर्ग्रो वक्तव्यः॥ विगता नासिकास्य विग्रः॥
सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः॥ ५.४.१२०॥
सुप्रातादयो बहुव्रीहिसमासा अच्प्रत्ययान्ता निपात्यन्ते। अन्यदपि च टिलोपादिकं निपातनादेव सिद्धम्। शोभनं प्रातरस्य सुप्रा॒तः (शौ० सं० १९.८.३)। शोभनं श्वोऽस्य सुश्वः। शोभनं दिवास्य सु॒दिवः॑ (ऋ० १०.३.५)। शारेरिव कुक्षिरस्य शारिकुक्षः। चतस्रोऽश्रयोऽस्य चतुरश्रः। एण्या इव पादावस्य एणीपदः। अजस्येव पादावस्य अजपदः। प्रोष्ठो गौः, तस्येव पादावस्य प्रोष्ठप॒दः (तै०सं० ४.४.१०.३)॥
नञ्दुःसुभ्यो हलिसक्थ्योरन्यतरस्याम्॥ ५.४.१२१॥
नञ् दुस् सु इत्येतेभ्यः परौ यौ हलिसक्थिशब्दौ तदन्तात् बहुव्रीहेरन्यतरस्यामच् प्रत्ययो भवति समासान्तः। अविद्यमाना हलिरस्य अहलः, अहलिः। दुर्हलः, दुर्हलिः। सुहलः, सुहलिः। अविद्यमानं सक्थ्यस्य असक्थः, असक्थिः। दुःसक्थः, दुःसक्थिः। सुसक्थः, सुसक्थिः। हलिशक्त्योरिति केचित् पठन्ति। अविद्यमाना शक्तिरस्य अशक्तः, अशक्तिः। विरूपा शक्तिरस्य दुःशक्तः, दुःशक्तिः। शोभना शक्तिरस्य सुशक्तः, सुशक्तिः॥
नित्यमसिच् प्रजामेधयोः॥ ५.४.१२२॥
नञ्दुस्सुभ्य इत्येव। नञ् दुस् सु इत्येतेभ्यः परौ यौ प्रजामेधाशब्दौ तदन्तात् बहुव्रीहेर्नित्यमसिच् प्रत्ययो भवति समासान्तः। अविद्यमाना प्रजास्य अप्रजाः। दुष्प्रजाः। सुप्रजाः। अविद्यमाना मेधास्य अमेधाः। दुर्मधाः। सुमेधाः। नित्यग्रहणं किम् ? यावता पूर्वसूत्रेऽन्यतरस्यांग्रहणं नैव स्वर्यते? एवं तर्हि नित्यग्रहणादन्यत्रापि भवतीति सूच्यते।
श्रोत्रियस्येव ते राजन् मन्दकस्याल्पमेधसः।
अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी ॥
बहुप्रजाश्छन्दसि॥ ५.४.१२३॥
बहुप्रजा इति छन्दसि निपात्यते। बहुप्॒रजा निर्ऋ॑ति॒मावि॑वेश (ऋ० १.१६४.३२)। छन्दसीति किम् ? बहुप्रजो ब्राह्मणः॥
धर्मादनिच् केवलात्॥ ५.४.१२४॥
केवलाद् यो धर्मशब्दः तदन्तात् बहुव्रीहेरनिच्प्रत्ययो भवति समासान्तः। कल्याणो धर्मोऽस्य कल्याणधर्मा। प्रियधर्मा। केवलादिति किम् ? परमः स्वो धर्मोऽस्य परमस्वधर्मः। यद्येवं त्रिपदे बहुव्रीहौ प्राप्नोति-परमः स्वो धर्मोऽस्येति? एवं तर्हि केवलादिति पूर्वपदं निर्दिश्यते, केवलाद् पदाद् यो धर्मशब्दो न पदसमुदायात्, तदन्ताद् बहुव्रीहेः प्रत्ययः॥
जम्भा सुहरिततृणसोमेभ्यः॥ ५.४.१२५॥
बहुव्रीहौ समासे स्वादिभ्यः परं जम्भेति कृतसमासान्तमुत्तरपदं निपात्यते। जम्भशब्दोऽभ्यवहार्यवाची दन्तविशेषवाची च। शोभनो जम्भोऽस्य सुजम्भा देवदत्तः। शोभनाभ्यवहार्यः शोभनदन्तो वा। एवं हरितजम्भा। तृणजम्भा। सोमजम्भा। दन्तवचनेतृणमिव जम्भोऽस्य, सोम इव जम्भोऽस्येति विग्रहीतव्यम्। सुहरिततृणसोमेभ्य इति किम्? पतितजम्भः॥
दक्षिणेर्मा लुब्धयोगे॥ ५.४.१२६॥
दक्षिणेर्मेति कृतसमासान्तो निपात्यते बहुव्रीहौ समासे लुब्धयोगे। लुब्धो व्याधः। दक्षिणमीर्ममस्य दक्षिणेर्मा मृगः। ईर्मं व्रणमुच्यते। दक्षिणमङ्गं व्रणितमस्य व्याधेनेत्यर्थः। लुब्धयोग इति किम् ? दक्षिणेर्मं शकटम्॥
इच् कर्मव्यतिहारे॥ ५.४.१२७॥
कर्मव्यतिहारे यो बहुव्रीहिस्तस्मादिच् प्रत्ययो भवति। ‘तत्र तेनेदमिति सरूपे’ (२.२.२७) इत्ययं बहुव्रीहिर्गृह्यते। केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवृत्तं केशाकेशि। कचाकचि। मुसलैश्च मुसलैश्च प्रहृत्य इदं युद्धं प्रवृत्तं मुसलामुसलि। दण्डादण्डि। तिष्ठद्गुप्रभृतिषु (२.१.१७) अयमिच् प्रत्ययः पठ्यते॥
द्विदण्ड्यादिभ्यश्च॥ ५.४.१२८॥
द्विदण्ड्यादयः शब्दा इच्प्रत्ययान्ताः साधवो भवन्ति। द्विदण्ड्यादिभ्य इति तादर्थ्य एषा चतुर्थी, न पञ्चमी। द्विदण्ड्याद्यर्थमिच् प्रत्ययो भवति। तथा भवति यथा द्विदण्ड्यादयः। सिध्यन्तीत्यर्थः। समुदायनिपातनाच्चार्थविशेषेऽवरुध्यन्ते। द्विदण्डि प्रहरति। द्विमुसलि प्रहरति। इह न भवति-द्विदण्डा शालेति। बहुव्रीह्यधिकारेऽपि तत्पुरुषात् क्वचिद् विधानमिच्छन्ति। निकुच्य कर्णौ धावति। निकुच्यकर्णि धावति। प्रोह्य पादौ हस्तिनं वाहयति। प्रोह्यपादि हस्तिनं वाहयति। मयूरव्यंसकादित्वात् (२.१.७२) समासः॥ द्विदण्डि। द्विमुसलि। उभाञ्जलि। उभयाञ्जलि। उभाकर्णि। उभयाकर्णि। उभादन्ति। उभयादन्ति। उभाहस्ति। उभयाहस्ति। उभापाणि। उभयापाणि। उभाबाहु। उभयाबाहु। एकपदि। प्रोह्यपदि। आढ्यपदि। सपदि। निकुच्यकर्णि। संहतपुच्छि। उभाबाहु, उभयाबाह्विति निपातनादिच्प्रत्ययलोपः। प्रत्ययलक्षणेनाव्ययीभावसंज्ञा॥
प्रसम्भ्यां जानुनोर्ज्ञुः॥ ५.४.१२९॥
प्र सम् इत्येताभ्यामुत्तरस्य जानुशब्दस्य ज्ञुरादेशो भवति समासान्तो बहुव्रीहौ। प्रकृष्टे जानुनी अस्य प्रज्ञुः। संज्ञुः॥
ऊर्ध्वाद् विभाषा॥ ५.४.१३०॥
ऊर्ध्वशब्दादुत्तरस्य जानुशब्दस्य विभाषा ज्ञुरित्ययमादेशो भवति। ऊर्ध्वे जानुनी अस्य ऊर्ध्वजानुः, ऊर्ध्वज्ञुः॥
ऊधसोऽनङ् ॥ ५.४.१३१॥
ऊधःशब्दान्तस्य बहुव्रीहेरनङादेशो भवति समासान्तः। कुण्डमिव ऊधोऽस्याः सा कुण्डोध्नी। घटोध्नी॥ ऊधसोऽनङि स्त्रीग्रहणं कर्तव्यम्॥ इह मा भूत्-महोधाः पर्जन्यः। घटोधो धैनुकम्॥
धनुषश्च॥ ५.४.१३२॥
धनुःशब्दान्तस्य बहुव्रीहेरनङादेशो भवति समासान्तः। शार्ङ्गं धनुरस्य शार्ङ्गधन्वा। गाण्डीवधन्वा। पुष्पधन्वा। अधिज्यधन्वा॥
वा संज्ञायाम्॥ ५.४.१३३॥
धनुःशब्दान्ताद् बहुव्रीहेरनङादेशो वा भवति संज्ञायां विषये। पूर्वेण नित्यः प्राप्तो विकल्प्यते। शतधनुः, शतधन्वा। दृढधनुः, दृढधन्वा॥
जायाया निङ्॥ ५.४.१३४॥
जायाशब्दान्तस्य बहुव्रीहेर्निङादेशो भवति। युवतिर्जाया यस्य युवजानिः। वृद्धजानिः॥
गन्धस्येदुत्पूतिसुसुरभिभ्यः॥ ५.४.१३५॥
उत् पूति सु सुरभि इत्येतेभ्यः परस्य गन्धशब्दस्य इकारादेशो भवति समासान्तो बहुव्रीहौ समासे। तकार उच्चारणार्थः। उद्गतो गन्धोऽस्य उद्गन्धिः। पूतिगन्धिः। सुगन्धिः। सुरभिगन्धिः। एतेभ्य इति किम् ? तीव्रगन्धो वातः॥ गन्धस्येत्वे तदेकान्तग्रहणम्॥ तेन शोभनो गन्धोऽस्य सुगन्ध आपणिकः॥
अल्पाख्यायाम्॥ ५.४.१३६॥
अल्पाख्यायां यो गन्धशब्दस्तस्येकारादेशो भवति समासान्तो बहुव्रीहौ समासे। सूपोऽल्पोऽस्मिन् सूपगन्धि भोजनम्। अल्पमस्मिन् भोजने घृतं घृतगन्धि। क्षीरगन्धि। अल्पपर्यायो गन्धशब्दः॥
उपमानाच्च॥ ५.४.१३७॥
उपमानात् परो यो गन्धशब्दस्तस्येकारादेशो भवति समासान्तो बहुव्रीहौ समासे। पद्मस्येव गन्धोऽस्य पद्मगन्धिः। उत्पलगन्धिः। करीषगन्धिः॥
पादस्य लोपोऽहस्त्यादिभ्यः॥ ५.४.१३८॥
उपमानादित्येव। उपमानाद् हस्त्यादिवर्जितात् परस्य पादशब्दस्य लोपो भवति समासान्तो बहुव्रीहौ समासे। स्थानिद्वारेण लोपस्य समासान्तता विज्ञायते। व्याघ्रस्येव पादावस्य व्याघ्रपात्। सिंहपात्। अहस्त्यादिभ्य इति किम्? हस्तिपादः। कटोलपादः॥ हस्तिन्। कटोल। गण्डोल। गण्डोलक। महिला। दासी। गणिका। कुसूल॥
कुम्भपदीषु च॥ ५.४.१३९॥
कुम्भपदीप्रभृतयः कृतपादलोपाः समुदाया एव पठ्यन्ते। तत्रैवं सूत्रं ज्ञेयम्। पादस्य लोपो भवति कुम्भपद्यादिविषये, यथा कुम्भपद्यादयः सिध्यन्ति। समुदायपाठस्य च प्रयोजनं विषयनियमः-स्त्रियामेव, तत्र ङीप्प्रत्यय एव, नान्यदा। कुम्भपदी। शतपदी। यच्चेहोपमानपूर्वं संख्यापूर्वं च पठ्यते, तस्य सिद्धे लोपे नित्यङीबर्थं वचनम्। ‘पादोऽन्यतरस्याम्’ (४.१.८) इति विकल्पो न भवति॥ कुम्भपदी। शतपदी। अष्टापदी। जालपदी। एकपदी। मालापदी। मुनिपदी। गोधापदी। गोपदी। कलशीपदी। घृतपदी। दासीपदी। निष्पदी। आर्द्रपदी। कुणपदी। कृष्णपदी। द्रोणपदी। द्रुपदी। शकृत्पदी। सूपपदी। पञ्चपदी। अर्वपदी। स्तनपदी। कुम्भपद्यादिः॥
संख्यासुपूर्वस्य॥ ५.४.१४०॥
संख्यापूर्वस्य सुपूर्वस्य च बहुव्रीहेः पादशब्दान्तस्य लोपो भवति समासान्तः। द्वौ पादावस्य द्विपात्। त्रिपात्। शोभनौ पादावस्य सुपात्॥
वयसि दन्तस्य दतृ॥ ५.४.१४१॥
संख्यापूर्वस्य सुपूर्वस्य च बहुव्रीहेर्यो दन्तशब्दस्तस्य दतृ इत्ययमादेशो भवति समासान्तो वयसि गम्यमाने। ऋ कार उगित्कार्यार्थः। द्वौ दन्तावस्य द्विदन्। त्रिदन्। चतुर्दन्। शोभना दन्ता अस्य समस्ता जाताः। सुदन् कुमारः। वयसीति किम् ? द्विदन्तः कुञ्जरः। सुदन्तो दाक्षिणात्यः॥
छन्दसि च॥ ५.४.१४२॥
छन्दसि च दन्तशब्दस्य दतृ इत्ययमादेशो भवति समासान्तो, बहुव्रीहौ समासे। पत्रदतमालभेत। उ॒भ॒याद॑तः (ऋ० १०.९०.१०) आलभते॥
स्त्रियां संज्ञायाम्॥ ५.४.१४३॥
स्त्रियामन्यपदार्थे संज्ञायां विषये दन्तशब्दस्य दतृ इत्ययमादेशो भवति। अयोदती। फालदती। संज्ञायामिति किम् ? समदन्ती। स्निग्धदन्ती॥
विभाषा श्यावारोकाभ्याम्॥ ५.४.१४४॥
श्याव अरोक इत्येताभ्यां परस्य दन्तशब्दस्य दतृ इत्ययमादेशो भवति विभाषा समासान्तो बहुव्रीहौ। श्यावदन्, श्यावदन्तः। अरोकदन्, अरोकदन्तः। अरोको निर्दीप्तिः। संज्ञायामित्येव-श्यावदन्तः। अरोकदन्तः॥
अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च॥ ५.४.१४५॥
विभाषेत्येव। अग्रान्ताच्छब्दात् शुद्ध शुभ्र वृष वराह इत्येतेभ्यश्च परस्य दन्तशब्दस्य विभाषा दतृ इत्ययमादेशो भवति समासान्तो बहुव्रीहौ समासे। कुड्मलाग्रदन्, कुड्मलाग्रदन्तः। शुद्धदन्, शुद्धदन्तः। शुभ्रदन्, शुभ्रदन्तः। वृषदन्, वृषदन्तः। वराहदन् वराहदन्तः। अनुक्तसमुच्चयार्थश्चकारः। अहिदन्, अहिदन्तः। मूषिकदन्, मूषिकदन्तः। गर्दभदन्, गर्दभदन्तः। शिखरदन् शिखरदन्तः॥
ककुदस्यावस्थायां लोपः॥ ५.४.१४६॥
ककुदशब्दान्तस्य बहुव्रीहेर्लोपो भवति समासान्तोऽवस्थायां गम्यमानायाम्। कालादिकृता वस्तुधर्मा वयःप्रभृतयोऽवस्थेत्युच्यते। असञ्जातं ककुदमस्य असंजातककुत्। बालइत्यर्थः। पूर्णककुत्। मध्यमवया इत्यर्थः। उन्नतक कुत्। वृद्धवया इत्यर्थः। स्थूलककुत्। बलवानित्यर्थः। यष्टिककुत्। नातिस्थूलो नातिकृश इत्यर्थः। अवस्थायामिति किम्? श्वेतककुदः॥
त्रिककुत् पर्वते॥ ५.४.१४७॥
त्रिककुदि बहुव्रीहौ ककुदशब्दस्य लोपः समासान्तो निपात्यते पर्वतेऽभिधेये। त्रीणि ककुदान्यस्य त्रिककुत् पर्वतः। ककुदाकारं पर्वतस्य शृङ्गं ककुदमित्युच्यते। न च सर्वस्त्रिशिखरः पर्वतस्त्रिककुत्। किं तर्हि? संज्ञैषा पर्वतविशेषस्य। पर्वत इति किम्? त्रिककुदोऽन्यः॥
उद्विभ्यां काकुदस्य॥ ५.४.१४८॥
उद् वि इत्येताभ्यां परस्य काकुदशब्दस्य लोपो भवति बहुव्रीहौ समासे। उद्गतं काकुदमस्य उत्काकुत्। विकाकुत्। तालु काकुदमुच्यते॥
पूर्णाद् विभाषा॥ ५.४.१४९॥
पूर्णात् परस्य काकुदशब्दस्य विभाषा लोपो भवति बहुव्रीहौ समासे। पूर्णं काकुदमस्य पूर्णकाकुत्, पूर्णकाकुदः॥
सुहृद्दुर्हृदौ मित्रामित्रयोः॥ ५.४.१५०॥
सुहृद् दुर्हृद् इति निपात्यते यथासंख्यं मित्रामित्रयोरभिधेययोः। सुशब्दात् परस्य हृदयशब्दस्य हृद्भावो निपात्यते बहुव्रीहौ, तथा दुःशब्दात् परस्य। शोभनं हृदयमस्य सुहृद् मित्रम्। दुष्टं हृदयमस्य दृर्हृद् अमित्रम्। मित्रामित्रयोरिति किम् ? सुहृदयः कारुणिकः। दृर्हृदयश्चोरः॥
उरःप्रभृतिभ्यः कप्॥ ५.४.१५१॥
उरःप्रभृत्यन्ताद् बहुव्रीहेः कप् प्रत्ययो भवति। व्यूढमुरोऽस्य व्यूढोरस्कः। प्रियसर्पिष्कः। अवमुक्तोपानत्कः। पुमान् अनड्वान् पयो नौर्लक्ष्मीरिति विभक्त्यन्ताः पठ्यन्ते, न प्रातिपदिकानि। तत्रेदं प्रयोजनम्-एकवचनान्तानामेव ग्रहणमिह विज्ञायेत, द्विवचनबहुवचनान्तानां मा भूदिति। तत्र ‘शेषाद् विभाषा’ (५.४.१५४) इति विकल्प एव भवतीति। द्विपुमान्, द्विपुंस्कः। बहुपुमान्, बहुपुंस्कः॥ उरस्। सर्पिस्। उपानह्। पुमान्। अनड्वान्। नौः। पयः। लक्ष्मीः। दधि। मधु। शालि। अर्थान्नञः (ग०सू० १६२)। अनर्थकः॥
इनः स्त्रियाम्॥ ५.४.१५२॥
इन्नन्ताद् बहुव्रीहेः कप् प्रत्ययो भवति स्त्रियां विषये। बहवो दण्डिनोऽस्यां शालायां बहुदण्डिका शाला। बहुच्छत्रिका। बहुस्वामिका नगरी। बहुवाग्ग्मिका सभा। स्त्रियामिति किम्? बहुदण्डी राजा, बहुदण्डिकः। ‘शेषाद् विभाषा’ (५.४.१५४) इत्येतद् भवति॥
नद्यृतश्च॥ ५.४.१५३॥
नद्यन्ताद् बहुव्रीहेर्ऋकारान्तात् च कप् प्रत्ययो भवति। बह्व्यः कुमार्योऽस्मिन् देशे बहुकुमारीको देशः। बहुब्रह्मबन्धूकः। ऋतः खल्वपि-बहुकर्तृकः। तकारो मुखसुखोच्चारणार्थः॥
शेषाद् विभाषा॥ ५.४.१५४॥
यस्माद् बहुव्रीहेः समासान्तो न विहितः स शेषः, तस्माद् विभाषा कप्प्रत्ययो भवति। बह्व्यः खट्वा अस्मिन् बहुखट्वकः। बहुमालकः। बहुवीणकः। बहुखट्वाकः। बहुमालाकः। बहुवीणाकः। बहुखट्वः। बहुमालः। बहुवीणः। कथमनृक्कं साम बह्वृक्कं सूक्तमिति, यावता विहितोऽत्र सामान्येन समासान्त ‘ऋक्पूः०’ (५.४.७४) इति? नैतदस्ति। विशेषे स इष्यते, अनृचो माणवके ज्ञेयो बह्वृचश्चरणाख्यायाम् (५.४.७४) इति। शेषादिति किम् ? प्रियपथः। प्रियधुरः॥
न संज्ञायाम्॥ ५.४.१५५॥
संज्ञायां विषये बहुव्रीहौ समासे कप् प्रत्ययो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते। विश्वे देवा अस्य विश्वदेवः। विश्वयशाः॥
ईयसश्च॥ ५.४.१५६॥
ईयसन्ताद् बहुव्रीहेः कप् प्रत्ययो न भवति। सर्वा प्राप्तिः प्रतिषिध्यते। बहवः श्रेयांसोऽस्य बहुश्रेयान्। ‘शेषाद् विभाषा’ (५.४.१५४) इत्यस्य प्रतिषेधः। बह्व्यः श्रेयस्योऽस्य बहुश्रेयसी। ‘नद्यृतश्च’ (५.४.१५३) इत्यस्य प्रतिषेधः। ह्रस्वत्वमपि न भवति। ईयसो बहुव्रीहौ पुंवदिति वचनात्। (महाभाष्य १.२२४)॥
वन्दिते भ्रातुः॥ ५.४.१५७॥
वन्दितेऽर्थे यो भ्रातृशब्दो वर्तते, तदन्ताद् बहुव्रीहेः कप् प्रत्ययो न भवति। वन्दितः स्तुतः पूजित इत्युच्यते। शोभनो भ्रातास्य सुभ्राता। वन्दित इति किम् ? मूर्खभ्रातृक ः। दुष्टभ्रातृकः॥
ऋतश्छन्दसि॥ ५.४.१५८॥
ऋवर्णान्ताद् बहुव्रीहेश्छन्दसि विषये कप् प्रत्ययो न भवति। हता मातास्य ह॒तमा॑ता॒ (शौ०सं० २.३२.४)। हतपिता। ह॒तस्व॑सा (शौ०सं० २.३२.४)। सुहो॑ता (ऋ० ७.६७.३)॥
नाडीतन्त्र्योः स्वाङ्गे॥ ५.४.१५९॥
स्वाङ्गे यौ नाडीतन्त्रीशब्दौ तदन्ताद् बहुव्रीहेः कप् प्रत्ययो न भवति। बह्व्यो नाड्योऽस्य बहुनाडिः कायः। बहुतन्त्रीर्ग्रीवा। धमनीवचनस्तन्त्रीशब्दः। स्वाङ्ग इति किम् ? बहुनाडीकः स्तम्भः। बहुतन्त्रीका वीणा॥
निष्प्रवाणिश्च॥ ५.४.१६०॥
निष्प्रवाणिरिति नदीलक्षणस्य कपः प्रतिषेधो निपात्यते। प्रोयतेऽस्यामिति प्रवाणी। प्रवयन्ति तयेति वा प्रवाणी। करणसाधनोऽयं ल्युट्। तन्तुवायशलाका भण्यते। निर्गता प्रवाणी अस्य निष्प्रवाणिः पटः। निष्प्रवाणिः कम्बलः। अपनीतशलाकः समाप्तवानः प्रत्यग्रो नवक उच्यते॥
॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ पञ्चमाध्यायस्य चतुर्थः पादः॥