०३

प्राग् दिशो विभक्तिः॥ ५.३.१॥

‘दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो०’ (५.३.२७) इति वक्ष्यति। प्रागेतस्माद् दिक्संशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामो विभक्तिसंज्ञास्ते वेदितव्याः। वक्ष्यति-‘पञ्चम्यास्तसिल्’ (५.३.७)-ततः। यतः। कुतः। तसिलादीनां विभक्तित्वे प्रयोजनं त्यदादिविधयः, इदमो विभक्तिस्वरश्च। इह। ‘ऊडिदम्०’(६.१.१७१) इति विभक्त्युदात्तत्वं सिद्धं भवति। अतः परं स्वार्थिकाः प्रत्ययाः, तेषु समर्थाधिकारः प्रथमग्रहणं च प्रतियोग्यपेक्षत्वाद् नोपयुज्यत इति द्वयमपि निवृत्तम्। वावचनं तु वर्तत एव, तेन विकल्पेन तसिलादयो भवन्ति। कुतः, कस्मात्। कुत्र, कस्मिन्निति॥

किंसर्वनामबहुभ्योऽद्व्यादिभ्यः॥ ५.३.२॥

प्राग् दिश इत्येव। किमः सर्वनाम्नो बहुशब्दात् च प्राग् दिशः प्रत्यया वेदितव्याः। सर्वनामत्वात् प्राप्ते ग्रहणे द्व्यादिपर्युदासः क्रियते। कुतः। कुत्र। यतः। यत्र। ततः। तत्र। बहुतः। बहुत्र। अद्व्यादिभ्य इति किम् ? द्वाभ्याम्। द्वयोः। प्रकृतिपरिसंख्यानं किम् ? वृक्षात्। वृक्षे। प्राग् दिश इत्येव-वैयाकरणपाशः। सर्वनामत्वादेव सिद्धे किमो ग्रहणं द्व्यादिपर्युदासाद्॥ बहुग्रहणे संख्याग्रहणम्॥ इह न भवति-बहोः सूपात्। बहो सूप इति ॥

इदम इश्॥ ५.३.३॥

प्राग् दिश इत्येव। इदम इश् इत्ययमादेशो भवति प्राग्दिशीयेषु प्रत्ययेषु परतः। शकारः सर्वादेशार्थः। इह॥

एतेतौ रथोः॥ ५.३.४॥

रेफथकारादौ प्राग्दिशीये प्रत्यये परत इदम एतेतावादेशौ भवतः। इशोऽपवादः। रेफेऽकार उच्चारणार्थः। ‘इदमो र्हिल्’ (५.३.१६)-एतर्हि। ‘इदमस्थमुः’ (५.३.२४)-इत्थम्॥

एतदोऽश्॥ ५.३.५॥

प्राग् दिश इत्येव। एतदः प्राग्दिशीये परतोऽशित्ययमादेशो भवति। शकारः सर्वादेशार्थः। अतः। अत्र। एतद इति योगविभागः कर्तव्यः। एतदो रथोः परत एत इत् इत्येतावादेशौ भवतः। एतर्हि। इत्थम्। रेफादिः ‘अनद्यतने र्हिलन्यतरस्याम्’ (५.३.२१) इति विद्यत एव। थमुप्रत्ययः पुनरेतद उपसंख्येयः॥

सर्वस्य सोऽन्यतरस्यां दि॥ ५.३.६॥

सर्वस्य स इत्ययमादेशो भवति प्राग्दिशीये दकारादौ प्रत्यये परतोऽन्यतरस्याम्। सर्वदा, सदा। प्राग्दिशीय इत्येव-सर्वं ददातीति सर्वदा ब्राह्मणी॥

पञ्चम्यास्तसिल्॥ ५.३.७॥

पञ्चम्यन्तेभ्यः किंसर्वनामबहुभ्यस्तसिल् प्रत्ययो भवति। कुतः। यतः। ततः। बहुतः॥

तसेश्च॥ ५.३.८॥

‘प्रतियोगे पञ्चम्यास्तसिः’ (५.४.४४),‘अपादाने चाहीयरुहोः’ (५.४.४५) इति वक्ष्यति। तस्य तसेः किंसर्वनामबहुभ्यः परस्य तसिलादेशो भवति। कुत आगतः। यतः। ततः। बहुत आगतः। तसेस्तसिल्वचनं स्वरार्थं विभक्त्यर्थं च॥

पर्यभिभ्यां च॥ ५.३.९॥

परि अभि इत्येताभ्यां तसिल् प्रत्ययो भवति। सर्वोभयार्थे वर्तमानाभ्यां प्रत्यय इष्यते। परितः। सर्वत इत्यर्थः। अभितः। उभयत इत्यर्थः॥

सप्तम्यास्त्रल्॥ ५.३.१०॥

किंसर्वनामबहुभ्यः सप्तम्यन्तेभ्यः त्रल् प्रत्ययो भवति। कुत्र। यत्र। तत्र। बहुत्र॥

इदमो हः॥ ५.३.११॥

इदमः सप्तम्यन्ताद् हः प्रत्ययो भवति। त्रलोऽपवादः। इह॥

किमोऽत्॥ ५.३.१२॥

किमः सप्तम्यन्तादत् प्रत्ययो भवति। त्रलोऽपवादः। क्व भोक्ष्यसे। क्वाध्येष्यसे। त्रलमपि। केचिदिच्छन्ति। कुत्र। तत्कथम् ? उत्तरसूत्राद् वावचनं पुरस्तादपकृष्यते॥

वा ह चच्छन्दसि॥ ५.३.१३॥

किमः सप्तम्यन्ताद् वा हः प्रत्ययो भवति छन्दसि विषये। यथाप्राप्तं च। क्व। कुह॑ (ऋ० ८.७३.४)। कुत्रचिदस्य सा दूरे क्व ब्राह्मणस्य चावकाः॥

इतराभ्योऽपि दृश्यन्ते॥ ५.३.१४॥

पञ्चमीसप्तम्यपेक्षमितरत्वम्। इतराभ्यो विभक्तिभ्यस्तसिलादयो दृश्यन्ते। दृशिग्रहणं प्रायिकविध्यर्थम्, तेन भवदादिभिर्योग एवैतद्विधानम्। के पुनर्भवदादयः? भवान् दीर्घायुरायुष्मान् देवानां प्रिय इति। स भवान्, ततो भवान्, तत्र भवान्। तं भवन्तम्, ततो भवन्तम्, तत्र भवन्तम्। तेन भवता, ततो भवता, तत्र भवता। तस्मै भवते, ततो भवते, तत्र भवते। तस्माद् भवतः, ततो भवतः, तत्र भवतः। तस्य भवतः, ततो भवतः, तत्र भवतः। तस्मिन् भवति, ततो भवति, तत्र भवति। एवं दीर्घायुःप्रभृतिष्वप्युदाहार्यम्॥

सर्वैकान्यकिंयत्तदः काले दा॥ ५.३.१५॥

सप्तम्या इति वर्तते, न त्वितराभ्य इति। सर्वादिभ्यः प्रातिपदिकेभ्यो दा प्रत्ययो भवति। त्रलोऽपवादः। सर्वस्मिन् काले सर्वदा। एकदा। अन्यदा। कदा। यदा। तदा। काल इति किम् ? सर्वत्र देशे॥

इदमोर्हिल्॥ ५.३.१६॥

सप्तम्या इत्येव, काल इति च। इदमः सप्तम्यन्तात् काले वर्तमानाद् र्हिल् प्रत्ययो भवति। हस्यापवादः। लकारः स्वरार्थः। अस्मिन् काल एतर्हि। काल इत्येव-इह देशे॥

अधुना॥ ५.३.१७॥

अधुनेति निपात्यते। इदमोऽश्भावो धुना च प्रत्ययः। अस्मिन् काले अधुना॥

दानीं च॥ ५.३.१८॥

इदमः सप्तम्यन्तात् काले वर्तमानाद् दानीं प्रत्ययो भवति। अस्मिन् काल इदानीम्॥

तदो दा च॥ ५.३.१९॥

तदः सप्तम्यन्तात् काले वर्तमानाद् दा प्रत्ययो भवति, चकाराद् दानीं च। तस्मिन् काले तदा, तदानीम्। तदो दावचनमनर्थकम्, विहितत्वात्॥

तयोर्दार्हिलौ चच्छन्दसि॥ ५.३.२०॥

तयोरिति प्रातिपदिकनिर्देशः। तयोरिदमः तदश्च यथासंख्यं दार्हिलौ प्रत्ययौ भवतश्छन्दसि विषये। चकाराद् यथाप्राप्तं च। इदावत्सरीयः (काठ०सं० १३.१५)। इदं तर्हि। इदानीम्। तदानीम्॥

अनद्यतने र्हिलन्यतरस्याम्॥ ५.३.२१॥

छन्दसीति न स्वर्यते। सामान्येन विधानम्। किंसर्वनामबहुभ्यः सप्तम्यन्तेभ्योऽनद्यतने कालविशेषे वर्तमानेभ्यो र्हिल् प्रत्ययो भवत्यन्यतरस्याम्। कर्हि, कदा। यर्हि, यदा। तर्हि, तदा॥

सद्यःपरुत्परार्यैषमः परेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्यु-रधरेद्युरुभयेद्युरुत्तरेद्युः॥ ५.३.२२॥

सप्तम्या इति काल इति च वर्तते। सद्यःप्रभृतयः शब्दा निपात्यन्ते। प्रकृतिः, प्रत्ययः, आदेशः, कालविशेष इति सर्वमेतद् निपातनाद् लभ्यते। समानस्य सभावो निपात्यते द्यश्च प्रत्ययोऽहन्यभिधेये। समानेऽहनि सद्यः। पूर्वपूर्वतरयोः परभावो निपात्यत उदारी च प्रत्ययौ संवत्सरेऽभिधेये। पूर्वस्मिन् संवत्सरे परुत्। पूर्वतरे संवत्सरे परारी। इदम इश्भावः समसण् प्रत्ययो निपात्यते संवत्सरेऽभिधेये। अस्मिन् संवत्सर ऐषमः। परस्मादेद्यविः प्रत्ययोऽहनि। परस्मिन्नहनि परेद्यवि। इदमोऽश्भावो द्यश्च प्रत्ययोऽहनि। अस्मिन्नहनि अद्य। पूर्वान्यान्यतरेतरापराधरोभयोत्तरेभ्य एद्युस् प्रत्ययो निपात्यतेऽहन्यभिधेये। पूर्वस्मिन्नहनि पूर्वेद्युः। अन्यस्मिन्नहनि अन्येद्युः। अन्यतरस्मिन्नहनि अन्यतरेद्युः। इतरस्मिन्नहनि इतरेद्युः। अपरस्मिन्नहनि अपरेद्युः। अधरस्मिन्नहनि अधरेद्युः। उभयोरह्नोरुभयेद्युः। उत्तरस्मिन्नहनि उत्तरेद्युः॥ द्युश्चोभयाद् वक्तव्यः॥ उभयद्युः (शौ०सं० १.२५.४)॥

प्रकारवचने थाल्॥ ५.३.२३॥

‘किंसर्वनामबहुभ्योऽद्व्यादिभ्यः’ (५.३.२) इति वर्तते। सप्तम्या इति काल इति च निवृत्तम्। सामान्यस्य भेदको विशेषः प्रकारः। प्रकृत्यर्थविशेषणं चैतत्। प्रकारवृत्तिभ्यः किंसर्वनामबहुभ्यः स्वार्थे थाल् प्रत्ययो भवति। तेन प्रकारेण तथा। यथा। सर्वथा। जातीयरोऽपीदृशमेव लक्षणम्। स तु स्वभावात् प्रकारवति वर्तते, थाल् पुनः प्रकारमात्रे॥

इदमस्थमुः॥ ५.३.२४॥

इदंशब्दात् प्रकारवचने थमुः प्रत्ययो भवति। थालोऽपवादः। अनेन प्रकारेण इत्थम्। उकारो मकारपरित्राणार्थः॥

किमश्च॥ ५.३.२५॥

किंशब्दात् प्रकारवचने थमुः प्रत्ययो भवति। केन प्रकारेण कथम्। योगविभाग उत्तरार्थः॥

था हेतौ चच्छन्दसि॥ ५.३.२६॥

किंशब्दाद् हेतौ वर्तमानात् था प्रत्ययो भवति, चकारात् प्रकारवचने छन्दसि विषये। हेतौ तावत्-क॒था ग्रामं॒ न पृ॑च्छसि॒ (ऋ० १०.१४६.१)। केन हेतुना न पृच्छसीत्यर्थः। प्रकारवचने-कथा देवा आसन् पुराविदः। विभक्तिसंज्ञायाः पूर्णोऽवधिः॥

दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः॥ ५.३.२७॥

दिशां शब्दा दिक्शब्दाः। तेभ्यो दिक्शब्देभ्यो दिग्देशकालेषु वर्तमानेभ्यः सप्तमीपञ्चमीप्रथमान्तेभ्योऽस्तातिः प्रत्ययो भवति स्वार्थे। यथासंख्यमत्र नेष्यते। पुरस्ताद् वसति। पुरस्तादागतः। पुरस्ताद् रमणीयम्। अधस्ताद् वसति। अधस्तादागतः। अधस्ताद् रमणीयम्। दिक्शब्देभ्य इति किम् ? ऐन्द्र्यां दिशि वसति। सप्तमीपञ्चमीप्रथमाभ्य इति किम्? पूर्वं ग्रामं गतः। दिग्देशकालेष्विति किम् ? पूर्वस्मिन् गुरौ वसति। इकारस्तकारपरित्राणार्थः॥

दक्षिणोत्तराभ्यामतसुच्॥ ५.३.२८॥

दक्षिणोत्तराभ्यां दिग्देशकालेषु वर्तमानाभ्यां सप्तमीपञ्चमीप्रथमान्ताभ्यां स्वार्थेऽतसुच् प्रत्ययो भवति। अस्तातेरपवादः। दक्षिणाशब्दः काले न संभवतीति दिग्देशवृत्तिः परिगृह्यते। दक्षिणतो वसति। दक्षिणत आगतः। दक्षिणतो रमणीयम्। उत्तरतो वसति। उत्तरत आगतः। उत्तरतो रमणीयम्। अकारो विशेषणार्थः ‘षष्ठ्यतसर्थप्रत्ययेन’ (२.३.३०) इति॥

विभाषा परावराभ्याम्॥ ५.३.२९॥

परावरशब्दाभ्यां विभाषातसुच् प्रत्ययो भवत्यस्तातेरर्थे। परतो वसति। परत आगतः। परतो रमणीयम्। परस्ताद् वसति। परस्तादागतः। परस्ताद् रमणीयम्। अवरतो वसति। अवरत आगतः। अवरतो रमणीयम्। अवस्ताद् वसति। अवस्ताद् आगतः। अवस्ताद् रमणीयम्॥

अञ्चेर्लुक् ॥ ५.३.३०॥

अञ्चत्यन्तेभ्यो दिक्शब्देभ्य उत्तरस्यास्तातिप्रत्ययस्य लुग् भवति। प्राच्यां दिशि वसति। ‘लुक् तद्धितलुकि’ (१.२.४९) इति स्त्रीप्रत्ययोऽपि निवर्तते। प्राग् वसति। प्राग् आगतः। प्राग् रमणीयम्। प्रत्यग् वसति। प्रत्यग् आगतः। प्रत्यग् रमणीयम्॥

उपर्युपरिष्टात्॥ ५.३.३१॥

उपरि उपरिष्टाद् इत्येतौ शब्दौ निपात्येते अस्तातेरर्थे। ऊर्ध्वस्योपभावो रिल्रिष्टातिलौ च प्रत्ययौ निपात्येते। ऊर्ध्वायां दिशि वसति उपरि वसति। उपर्यागतः। उपरि रमणीयम्। उपरिष्टाद् वसति। उपरिष्टादागतः। उपरिष्टाद् रमणीयम्॥

पश्चात्॥ ५.३.३२॥

पश्चादित्ययं शब्दो निपात्यतेऽस्तातेरर्थे। अपरस्य पश्चभाव आतिश्च प्रत्ययः। अपरस्यां दिशि वसति पश्चाद् दिशि वसति। पश्चादागतः। पश्चाद् रमणीयम्॥ दिक्पूर्वपदस्यापरस्य पश्चभावो वक्तव्यः, आतिश्च प्रत्ययः॥ दक्षिणपश्चात्। उत्तरपश्चात्॥ अर्धोत्तरपदस्य दिक्पूर्वपदस्य पश्चभावो वक्तव्यः॥ दक्षिणपश्चार्धः। उत्तरपश्चार्धः॥ विनापि पूर्वपदेन पश्चभावो वक्तव्यः॥ पश्चार्धः॥

पश्च पश्चा चच्छन्दसि॥ ५.३.३३॥

पश्चपश्चाशब्दौ निपात्येते छन्दसि विषयेऽस्तातेरर्थे। चकारात् पश्चादित्यपि भवति। अपरस्य पश्चभावोऽकाराकारौ च प्रत्ययौ निपात्येते। पुरा व्याघ्रो जायते पश्च सिंहः। पश्चा सिंहः। पश्चात् सिंहः॥

उत्तराधरदक्षिणादातिः॥ ५.३.३४॥

उत्तराधरदक्षिणशब्देभ्य आतिः प्रत्ययो भवत्यस्तातेरर्थे। उत्तरस्यां दिशि वसति उत्तराद् वसति। उत्तरादागतः। उत्तराद् रमणीयम्। अधराद् वसति। अधरादागतः। अधराद् रमणीयम्। दक्षिणाद् वसति। दक्षिणादागतः। दक्षिणाद् रमणीयम्॥

एनबन्यतरस्यामदूरेऽपञ्चम्याः॥ ५.३.३५॥

उत्तराधरदक्षिणशब्देभ्य एनप् प्रत्ययो भवत्यन्यतरस्यामस्तातेरर्थे,अदूरे चेदवधिमानवधेर्भवति। विभक्तित्रये। प्रकृतेऽपञ्चम्या इति पञ्चमी पर्युदस्यते। तेनायं सप्तमीप्रथमान्ताद् विज्ञायते प्रत्ययः। उत्तरेण वसति, उत्तराद् वसति, उत्तरतो वसति। उत्तरेण रमणीयम्, उत्तराद् रमणीयम्, उत्तरतो रमणीयम्। अधरेण वसति, अधराद् वसति, अधस्ताद् वसति। अधरेण रमणीयम् अधराद् रमणीयम् अधस्ताद् रमणीयम्। दक्षिणेन वसति, दक्षिणाद् वसति, दक्षिणतो वसति। दक्षिणेन रमणीयम्, दक्षिणाद् रमणीयम्, दक्षिणतो रमणीयम्। अदूर इति किम् ? उत्तराद् वसति। अपञ्चम्या इति किम् ? उत्तरादागतः। अपञ्चम्या इति प्रागसेः (५.३.३९)। असिप्रत्ययस्तु पञ्चम्यन्तादपि भवति। केचिदिहोत्तरादिग्रहणं नानुवर्तयन्ति। दिक्छब्दमात्रात् प्रत्ययं मन्यन्ते। पूर्वेण ग्रामम्। अपरेण ग्रामम्॥

दक्षिणादाच्॥ ५.३.३६॥

अदूर इति न स्वर्यते॥ अपञ्चम्या इति वर्तते। दक्षिणशब्दादाच् प्रत्ययो भवत्यस्तातेरर्थे। दक्षिणा वसति। दक्षिणा रमणीयम्। अपञ्चम्या इत्येव- दक्षिणत आगतः। चकारो विशेषणार्थः, अञ्चूत्तरपदाजाहियुक्ते (२.३.२९) इति॥

आहि च दूरे॥ ५.३.३७॥

दक्षिणशब्दादाहिः प्रत्ययो भवत्यस्तातेरर्थे, चकारादाच् दूरे चेदवधिमानवधेर्भवति। दक्षिणाहि वसति। दक्षिणा वसति। दक्षिणाहि रमणीयम्। दक्षिणा रमणीयम्। दूर इति किम्? दक्षिणतो वसति। अपञ्चम्या इत्येव-दक्षिणत आगतः॥

उत्तराच्च॥ ५.३.३८॥

उत्तरशब्दादाजाही प्रत्ययौ भवतोऽस्तातेरर्थे, दूरे चेदवधिमानवधेर्भवति। उत्तरा वसति। उत्तराहि वसति। उत्तरा रमणीयम्। उत्तराहि रमणीयम्। दूर इत्येव-उत्तरेण प्रयाति। अपञ्चम्या इत्येव-उत्तरादागतः॥

पूर्वाधरावराणामसि पुरधवश्चैषाम्॥ ५.३.३९॥

अपञ्चम्या इति निवृत्तम्। तिसृणां विभक्तीनामिह ग्रहणम्। पूर्वाधरावराणामसिः प्रत्ययो भवत्यस्तातेरर्थे, तत्सन्नियोगेन चैषां यथासंख्यं पुर् अध् अव् इत्येत आदेशा भवन्ति। असीत्यविभक्तिको निर्देशः। पुरो वसति। पुर आगतः। पुरो रमणीयम्। अधो वसति। अध आगतः। अधो रमणीयम्। अवो वसति। अव आगतः। अवो रमणीयम्॥

अस्ताति च॥ ५.३.४०॥

सप्तम्यन्तमेतत्। अस्तातिप्रत्यये परतः पूर्वादीनां यथासंख्यं पुरादय आदेशा भवन्ति। इदमेवादेशविधानं ज्ञापकम्-अस्तातिरेभ्यो भवति, असिप्रत्ययेन न बाध्यत इति। पुरस्ताद् वसति। पुरस्तादागतः। पुरस्ताद् रमणीयम्। अधस्ताद् वसति। अधस्तादागतः। अधस्ताद् रमणीयम्॥

विभाषावरस्य॥ ५.३.४१॥

पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। अवरस्यास्तातौ परतो विभाषा अव् इत्ययमादेशो भवति। अवस्ताद् वसति। अवस्तादागतः। अवस्ताद् रमणीयम्। अवरस्ताद् वसति। अवरस्तादागतः। अवरस्ताद् रमणीयम्॥

संख्याया विधार्थे धा॥ ५.३.४२॥

संख्यावाचिभ्यः प्रातिपदिकेभ्यो विधार्थे वर्तमानेभ्यो धा प्रत्ययो भवति स्वार्थे। विधा प्रकारः, स च सर्वक्रियाविषय एव गृह्यते। क्रियाप्रकारे वर्तमानायाः संख्याया धा प्रत्ययः। एकधा भुङ्क्ते। द्विधा गच्छति। त्रिधा। चतुर्धा। पञ्चधा॥

अधिकरणविचाले च॥ ५.३.४३॥

संख्याया इत्येव। अधिकरणं द्रव्यम्, तस्य विचालः संख्यान्तरापादनम्। एकस्यानेकीकरणमनेकस्य वैकीकरणम्। अधिकरणविचाले गम्यमाने संख्यायाः स्वार्थे धा प्रत्ययो भवति। एकं राशिं पञ्चधा कुरु। अष्टधा कुरु। अनेकमेकधा कुरु॥

एकाद्धो ध्यमुञन्यतरस्याम्॥ ५.३.४४॥

एकशब्दात् परस्य धाप्रत्ययस्य ध्यमुञादेशो भवत्यन्यतरस्याम्। एकधा राशिं कुरु, ऐकध्यं कुरु। एकधा भुङ्क्ते, ऐकध्यं भुङ्क्ते। प्रकरणादेव लब्धे पुनर्धाग्रहणं विधार्थे विहितस्यापि यथा स्यात्। अनन्तरस्यैव ह्येतत् प्राप्नोति॥

द्वित्र्योश्च धमुञ्॥ ५.३.४५॥

धा इत्यनुवर्तते। द्वित्र्योः संबन्धिनो धाप्रत्ययस्य विधार्थेऽधिकरणविचाले च विहितस्य धमुञादेशो भवत्यन्यतरस्याम्। चकारो विकल्पानुकर्षणार्थः। द्विधा, द्वैधम्। त्रिधा, त्रैधम्॥ धमुञन्तात् स्वार्थे डदर्शनम्॥ मतिद्वैधानि संश्रयन्ते। मतित्रैधानि संश्रयन्ते॥

एधाच्च॥ ५.३.४६॥

द्वित्र्योः संबन्धिनो धाप्रत्ययस्य एधाजादेशो भवत्यन्यतरस्याम्। चकारो विकल्पानुकर्षणार्थः। द्वेधा, द्वैधम्, द्विधा। त्रेधा, त्रैधम्, त्रिधा॥

याप्ये पाशप्॥ ५.३.४७॥

याप्यः कुत्सित इत्युच्यते। याप्ये वर्तमानात् प्रातिपदिकात् स्वार्थे पाशप् प्रत्ययो भवति। याप्यो वैयाकरणः, कुत्सितो वैयाकरणो वैयाकरणपाशः। याज्ञिकपाशः। यो व्याकरणशास्त्रे प्रवीणो दुःशीलः, तत्र कस्माद् न भवति ? यस्य गुणस्य सद्भावाद् द्रव्ये शब्दनिवेशः,तस्य कुत्सायां प्रत्ययः॥

पूरणाद् भागे तीयादन्॥ ५.३.४८॥

पूरणप्रत्ययो यस्तीयः,तदन्ताद् प्रातिपदिकाद् भागे वर्तमानात् स्वार्थेऽन् प्रत्ययो भवति। स्वरार्थं वचनम्। द्वितीयो भागो द्वितीयः। तृतीयः। भाग इति किम्? द्वितीयम्। तृतीयम्। पूरणग्रहणमुत्तरार्थम्, न ह्यपूरणस्तीयोऽस्ति। मुखतीयादिरनर्थकः॥

प्रागेकादशभ्योऽच्छन्दसि॥ ५.३.४९॥

पूरणाद् भाग इत्येव। प्रागेकादशभ्यः संख्याशब्देभ्यः पूरणप्रत्ययान्तेभ्यो भागे वर्तमानेभ्यः स्वार्थेऽन् प्रत्ययो भवति अच्छन्दसि विषये। स्वरार्थं वचनम्। पञ्चमः। सप्तमः। नवमः। दशमः। प्रागेकादशभ्य इति किम् ? एकादशः। द्वादशः। अच्छन्दसीति किम् ? त॑स्य॒ पञ्च॒म॑मि॒न्द्रि॒य॑स्या॑पा॒क्राम॒त् (मै० सं० १.९.४)॥

षष्ठाष्टमाभ्यां ञ च॥ ५.३.५०॥

भाग इत्येव, अच्छन्दसीति च। षष्ठाष्टमाभ्यां भागेऽभिधेयेऽच्छन्दसि विषये ञः प्रत्ययो भवति, चकारादन् च। षष्ठो भागः षाष्ठः, षष्ठः। आष्टमः, अष्टमः॥

मानपश्वङ्गयोः कन्लुकौ च॥ ५.३.५१॥

भाग इत्येव। षष्ठाष्टमाभ्यां यथासंख्यं कन्लुकौ च भवतो मानपश्वङ्गयोर्भागयोरभिधेययोः। षष्ठको भागो मानं चेत् तद् भवति। अष्टमो भागः पश्वङ्गं चेत् तद् भवति। कस्य लुक् ? ञस्य लुक् , अनो वा। चकाराद् यथाप्राप्तं च। षाष्ठः, षष्ठः। आष्टमः, अष्टमः। मानपश्वङ्गयोरिति किम्? षाष्ठः। षष्ठः। आष्टमः। अष्टमः॥

एकादाकिनिच्चासहाये॥ ५.३.५२॥

एकशब्दादसहायवाचिनः स्वार्थ आकिनिच् प्रत्ययो भवति, चकारात् कन्लुकौ च। आकिनिचः कनो वा लुग् विज्ञायते। स च विधानसामर्थ्यात् पक्षे भवति। एकाकी, एककः, एकः। असहायग्रहणं संख्याशब्दनिरासार्थम्। तदुपादाने हि द्विबह्वोर्न स्यात्। एकाकिनौ, एकाकिनः॥

भूतपूर्वे चरट्॥ ५.३.५३॥

पूर्वं भूत इति विगृह्य सुप्सुपेति समासः। भूतपूर्वशब्दोऽतिक्रान्तकालवचनः। प्रकृतिविशेषणं चैतत्। भूतपूर्वत्वविशिष्टेऽर्थे वर्तमानात् प्रातिपदिकात् स्वार्थे चरट् प्रत्ययो भवति। आढ्यो भूतपूर्व आढ्यचरः। सुकुमारचरः। टकारो ङीबर्थः। आढ्यचरी॥

षष्ठ्या रूप्य च॥ ५.३.५४॥

षष्ठ्यन्तात् प्रातिपदिकाद् रूप्यः प्रत्ययो भवति, चकारात् चरट् च। षष्ठ्यन्तात् प्रत्ययविधानात् संप्रति भूतपूर्वग्रहणं प्रत्ययार्थस्य विशेषणम्, न तु प्रकृत्यर्थविशेषणम्। देवदत्तस्य भूतपूर्वो गौर्देवदत्तरूप्यः। देवदत्तचरः॥

अतिशायने तमबिष्ठनौ॥ ५.३.५५॥

अतिशयनमतिशायनम्, प्रकर्षः। निपातनाद् दीर्घत्वम्। प्रकृत्यर्थविशेषणं चैतत्। अतिशायनविशिष्टेऽर्थे वर्तमानात् प्रातिपदिकात् स्वार्थे तमबिष्ठनौ प्रत्ययौ भवतः। प्रकृत्यर्थविशेषणं च स्वार्थिकानां द्योत्यं भवति। सर्व इम आढ्याः, अयमेषामतिशयेनाढ्य आढ्यतमः। दर्शनीयतमः। सुकुमारतमः। सर्व इमे पटवः, अयमेषामतिशयेन पटुः पटिष्ठः। लघिष्ठः। गरिष्ठः। यदा च प्रकर्षवतां पुनः प्रकर्षो विवक्ष्यते, तदातिशायिकान्तादपरः प्रत्ययो भवत्येव। दे॒वो वः॑ सवि॒ता प्राप᐀्॑यतु श्रेष्ठ॑तमाय॒ क॑र्मणे॒ (मा०सं० १.१)। युधिष्ठिरः श्रेष्ठतमः कुरूणामिति॥

तिङश्च॥ ५.३.५६॥

तिङन्तात् चातिशायने द्योत्ये तमप् प्रत्ययो भवति। ‘ङ्याप्प्रातिपदिकात्’ (४.१.१) इत्यधिकारात् तिङो न प्राप्नोतीतीदं वचनम्। सर्व इमे पचन्तीति, अयमेषामतिशयेन पचति पचतितमाम्। जल्पतितमाम्। इष्ठन् नोदाह्रियते, गुणवचने तस्य नियतत्वात्॥

द्विवचनविभज्योपपदे तरबीयसुनौ॥ ५.३.५७॥

द्वयोरर्थयोर्वचनं द्विवचनम्। विभक्तव्यो विभज्यः। निपातनाद् यद् भवति। द्व्यर्थे विभज्ये चोपपदे प्रातिपदिकात् तिङन्तात् चातिशायने तरबीयसुनौ प्रत्ययौ भवतः। तमबिष्ठनोरपवादौ यथासंख्यमत्र नेष्यते। द्वाविमावाढ्यौ, अयमनयोरतिशयेनाढ्य आढ्यतरः। सुकुमारतरः। पचतितराम्। जल्पतितराम्। ईयसुन् खल्वपि-द्वाविमौ पटू, अयमनयोरतिशयेन पटुः पटीयान्। लघीयान्। विभज्ये चोपपदे-माथुराः पाटलिपुत्रकेभ्य आढ्यतराः। दर्शनीयतराः। पटीयांसः। लघीयांसः॥

अजादी गुणवचनादेव॥ ५.३.५८॥

इष्ठन्नीयसुनावजादी सामान्येन विहितौ, तयोरयं विषयनियमः क्रियते-गुणवचनादेव भवतस्तौ, नान्यस्मादिति। पटीयान्। लघीयान्। पटिष्ठः। लघिष्ठः। इह न भवतः-पाचकतरः, पाचकतम इति। एवकार इष्टतोऽवधारणार्थः, प्रत्ययनियमोऽयं न प्रकृतिनियम इति। पटुतरः। पटुतमः॥

तुश्छन्दसि॥ ५.३.५९॥

तुरिति तृन्तृचोः सामान्येन ग्रहणम्। त्रन्तात् छन्दसि विषयेऽजादी प्रत्ययौ भवतः। पूर्वेण गुणवचनादेव नियमे कृते छन्दसि प्रकृत्यन्तराण्यभ्यनुज्ञायन्ते, त्रन्तादप्यजादी भवत इति। आसु॒तिं करि॑ष्ठः। (ऋ० ७.९७.७)। दोहीयसी धेनुः। ‘भस्याढे तद्धिते०’ (वा० ६.३.३५) इति पुंवद्भावे कृते ‘तुरिष्ठेमेयःसु’ (६.४.१५४) इति तृचो निवृत्तिः॥

प्रशस्यस्य श्रः॥ ५.३.६०॥

प्रशस्यशब्दस्य श्र इत्ययमादेशो भवत्यजाद्योः प्रत्यययोः परतः। अजादी इति प्रकृतस्य सप्तमी विभक्तिर्विपरिणम्यते। ननु च प्रशस्यशब्दस्यागुणवचनत्वादजादी न संभवतः? एवं तर्ह्यादेशविधानसामर्थ्यात् तद्विषयो नियमो न प्रवर्तते, अजादी गुणवचनादेवेति। एवमुत्तरेष्वपि योगेषु विज्ञेयम्। सर्व इमे प्रशस्याः, अयमेषामतिशयेन प्रशस्यः श्रेष्ठः। उभाविमौ प्रशस्यौ, अयमनयोरतिशयेन प्रशस्यः श्रेयान्। अयमस्मात् श्रेयान्। ‘प्रकृत्यैकाच्’ (६.४.१६३) इति प्रकृतिभावात् श्रशब्दस्य टिलोपयस्येतिलोपौ न भवतः॥

ज्य च॥ ५.३.६१॥

प्रशस्यशब्दस्य ज्य इत्ययमादेशो भवत्यजाद्योः प्रत्यययोः परतः। सर्व इमे प्रशस्याः, अयमेषामतिशयेन प्रशस्यो ज्येष्ठः। उभाविमौ प्रशस्यौ, अयमनयोरतिशयेन प्रशस्यो ज्यायान्। अयमस्मात् ज्यायान्। ‘ज्यादादीयसः’ (६.४.१६०) इत्याकारः॥

वृद्धस्य च॥ ५.३.६२॥

वृद्धशब्दस्य च ज्य इत्ययमादेशो भवत्यजाद्योः प्रत्यययोः परतः। तयोश्च सत्त्वं नियमाभावेन पूर्ववद् ज्ञाप्यते। सर्व इमे वृद्धाः, अयमेषामतिशयेन वृद्धो ज्येष्ठः। उभाविमौ वृद्धौ, अयमनयोरतिशयेन वृद्धो ज्यायान्। अयमस्माद् ज्यायान्। ‘प्रियस्थिर०’ (६.४.१५७) इत्यादिना वृद्धशब्दस्य वर्षादेशो विधीयते। वचनसामर्थ्यात् पक्षे सोऽपि भवति-वर्षिष्ठः, वर्षीयानिति॥

अन्तिकबाढयोर्नेदसाधौ॥ ५.३.६३॥

अन्तिकबाढयोर्यथासंख्यं नेद साध इत्येतावादेशौ भवतोऽजाद्योः परतः। तयोश्च सत्त्वं पूर्ववद् विज्ञेयम्। निमित्तयोर्यथासंख्यमत्र नेष्यते। सर्वाणीमान्यन्तिकानि, इदमेषामतिशयेनान्तिकं नेदिष्ठम्। उभे इमे अन्तिके, इदमनयोरतिशयेनान्तिकं नेदीयः। इदमस्माद् नेदीयः। सर्व इमे बाढमधीयते, अयमेषामतिशयेन बाढमधीते,साधिष्ठम्। उभाविमौ बाढमधीयाते, अयमनयोरतिशयेन बाढमधीते साधीयः। अयमस्मात् साधीयोऽधीते॥

युवाल्पयोः कनन्यतरस्याम्॥ ५.३.६४॥

युवाल्पशब्दयोः कनित्ययमादेशो भवत्यन्यतरस्यामजाद्योः परतः। तयोश्च सत्त्वं पूर्ववत् ज्ञेयम्। सर्व इमे युवानः, अयमेषामतिशयेन युवा कनिष्ठः। द्वाविमौ युवानौ, अयमनयोरतिशयेन युवा कनीयान्। अयमस्मात् कनीयान्। यविष्ठः यवीयान् इति वा। सर्व इमेऽल्पाः, अयमेषामतिशयेनाल्पः कनिष्ठः। उभाविमावल्पौ, अयमनयोरतिशयेनाल्पः कनीयान्। अयमस्मात् कनीयान्। अल्पिष्ठः, अल्पीयानिति वा॥

विन्मतोर्लुक् ॥ ५.३.६५॥

विनो मतुपश्च लुग् भवत्यजाद्योः प्रत्यययोः परतः। इदमेव वचनं ज्ञापकमजादिसद्भावस्य। सर्व इमे स्रग्विणः, अयमेषामतिशयेन स्रग्वी स्रजिष्ठः। उभाविमौ स्रग्विणौ, अयमनयोरतिशयेन स्रग्वी स्रजीयान्। अयमस्मात् स्रजीयान्। सर्व इमे त्वग्वन्तः, अयमेषामतिशयेन त्वग्वान् त्वचिष्ठः। उभाविमौ त्वग्वन्तौ, अयमनयोरतिशयेन त्वग्वान् त्वचीयान्। अयमस्मात् त्वचीयान्॥

प्रशंसायां रूपप्॥ ५.३.६६॥

प्रशंसा स्तुतिः। प्रकृत्यर्थस्य विशेषणं चैतत्। प्रशंसाविशिष्टेऽर्थे वर्तमानात् प्रातिपदिकात् स्वार्थे रूपप् प्रत्ययो भवति। स्वार्थिकाश्च प्रत्ययाः प्रकृत्यर्थविशेषस्य द्योतका भवन्ति। प्रशस्तो वैयाकरणो वैयाकरणरूपः। याज्ञिकरूपः। प्रकृत्यर्थस्य वैशिष्ट्ये प्रशंसा भवति। वृषलरूपोऽयम्, यः पलाण्डुना सुरां पिबति। चोररूपः, दस्युरूपः, योऽक्ष्णोरप्यञ्जनं हरेत्। ‘तिङश्च’ (५.३.५६) इत्यनुवर्तते। पचतिरूपम् पचतोरूपम्, पचन्तिरूपम्। क्रियाप्रधानमाख्यातम्। एका च क्रियेति रूपप्प्रत्ययान्ताद् द्विवचनबहुवचने न भवतः। नपुंसकलिङ्गं तु भवति, लोकाश्रयत्वाल्लिङ्गस्य॥

ईषदसमाप्तौ कल्पब्देश्यदेशीयरः॥ ५.३.६७॥

संपूर्णता पदार्थानां समाप्तिः। स्तोकेनासंपूर्णता ईषदसमाप्तिः। प्रकृत्यर्थविशेषणं चैतत्। ईषदसमाप्तिविशिष्टेऽर्थे वर्तमानात् प्रातिपदिकात् कल्पब् देश्य देशीयर् इत्येते प्रत्यया भवन्ति। ईषदसमाप्तः पटुः पटुकल्पः। पटुदेश्यः। पटुदेशीयः। मृदुकल्पः। मृदुदेश्यः। मृदुदेशीयः। तिङश्चेत्येव- पचतिकल्पम्। जल्पतिकल्पम्॥

विभाषा सुपो बहुच् पुरस्तात्तु॥ ५.३.६८॥

ईषदसमाप्तिविशिष्टेऽर्थे वर्तमानात् सुबन्ताद् विभाषा बहुच् प्रत्ययो भवति, स तु पुरस्तादेव भवति न परतः। चित्करणमन्तोदात्तार्थम्। ईषदसमाप्तः पटुः बहुपटुः। बहुमृदुः। बहुगुडो द्राक्षा। विभाषावचनात् कल्पबादयोऽपि भवन्ति। सुब्ग्रहणं तिङन्ताद् मा भूदिति॥

प्रकारवचने जातीयर्॥ ५.३.६९॥

सामान्यस्य भेदको विशेषः प्रकारः, तस्य वचने। प्रकृत्यर्थविशेषणं चैतत्। सुबन्तात् प्रकारविशिष्टेऽर्थे वर्तमानात् प्रातिपदिकात् स्वार्थे जातीयर् प्रत्ययो भवति। प्रकारवति चायं प्रत्ययः। थाल् पुनः प्रकारमात्र एव भवति। पटुप्रकारः पटुजातीयः। मृदुजातीयः। दर्शनीयजातीयः॥

प्रागिवात् क ः॥ ५.३.७०॥

‘इवे प्रतिकृतौ’ (५.३.९६) इति वक्ष्यति। प्रागेतस्मादिवसंशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामः, कप्रत्ययस्तेष्वधिकृतो वेदितव्यः। वक्ष्यति-‘अज्ञाते’ (५.३.७३) इति। अश्वकः। गर्दभकः। तिङन्तादयं प्रत्ययो नेष्यते, अकजिष्यते। ‘तिङश्च’ (५.३.५६) इत्यनुवृत्तमुत्तरसूत्रेणैव संबन्धनीयम्॥

अव्ययसर्वनाम्नामकच् प्राक् टेः॥ ५.३.७१॥

‘तिङश्च’ (५.३.५६) इत्येव। अव्ययानां सर्वनाम्नां च प्रागिवीयेष्वर्थेष्वकच् प्रत्ययो भवति, स च प्राक् टेः, न परतः। कस्यापवादः। उच्चकैः। नीचकैः। शनकैः। सर्वनाम्नः खल्वपि-सर्वके। विश्वके। उभयके। प्रातिपदिकात् सुप इति द्वयमपीहानुवर्तते। तत्राभिधानतो व्यवस्था भवति। क्वचित् प्रातिपदिकस्य प्राक् टेः प्रत्ययो भवति, क्वचित् सुबन्तस्य। युष्मकाभिः, अस्मकाभिः, युष्मकासु, अस्मकासु, युवकयोः, आवकयोरित्यत्र प्रातिपदिकस्य। त्वयका, मयका, त्वयकि, मयकीत्यत्र सुबन्तस्य॥ अकच्प्रकरणे तूष्णीमः काम् प्रत्ययो वक्तव्यः॥ स च मित्त्वादन्त्यादचः परो भवति। तूष्णीकामास्ते। तूष्णीकांतिष्ठति॥ शीले को मलोपश्च वक्तव्यः॥ तूष्णींशीलः, तूष्णीकः। ‘तिङश्च’ (५.३.५६) इति प्रकृतमत्र संबध्यते। पचतकि। जल्पतकि॥

कस्य च दः॥ ५.३.७२॥

ककारान्तस्य प्रातिपदिकस्याकच्सन्नियोगेन दकारादेशो भवति। चकारः सन्नियोगार्थः। सामर्थ्याच्चाव्ययग्रहणमनुवर्तते, न सर्वनामग्रहणम्, ककारान्तस्य सर्वनाम्नोऽसंभवात्। धिक्-धकित्। हिरुक् -हिरकुत्। पृथक् -पृथकत्॥

अज्ञाते॥ ५.३.७३॥

अज्ञातविशेषोऽज्ञातः। अज्ञातत्वोपाधिकेऽर्थे वर्तमानात् प्रातिपदिकात् तिङन्तात् च स्वार्थे यथाविहितं प्रत्ययो भवति। स्वेन रूपेण ज्ञाते पदार्थे विशेषरूपेणाज्ञाते प्रत्ययविधानमेतत्। कस्यायमश्व इति स्वस्वामिसंबन्धेनाज्ञातेऽश्वे प्रत्ययः, अश्वकः। गर्दभकः। उष्ट्रकः। एवमन्यत्रापि यथायोगमज्ञातता विज्ञेया। उच्चकैः। नीचकैः। सर्वके। विश्वके। पचतकि। जल्पतकि॥

कुत्सिते॥ ५.३.७४॥

कुत्सितो गर्हितो निन्दितः। प्रकृत्यर्थविशेषणं चैतत्। कुत्सितत्वोपाधिकेऽर्थे वर्तमानात् प्रातिपदिकात् स्वार्थे यथाविहितं प्रत्ययो भवति। कुत्सितोऽश्वः अश्वकः। उष्ट्रकः। गर्दभकः। उच्चकैः। नीचकैः। सर्वके। विश्वके पचतकि। जल्पतकि॥

संज्ञायां कन्॥ ५.३.७५॥

कुत्सित इत्येव। कुत्सितत्वोपाधिकेऽर्थे वर्तमानात् प्रातिपदिकात् कन् प्रत्ययो भवति, कस्यापवादः, प्रत्ययान्तेन चेत् संज्ञा गम्यते। शूद्रकः। धारकः। पूर्णकः ॥

अनुकम्पायाम्॥ ५.३.७६॥

कारुण्येनाभ्युपपत्तिः परस्यानुकम्पा। तस्यां गम्यमानायां सुबन्तात् तिङन्तात् च यथाविहितं प्रत्ययो भवति। पुत्रकः। वत्सकः। दुर्बलकः। बुभुक्षितकः। स्वपितकि। श्वसितकि॥

नीतौ च तद्युक्तात्॥ ५.३.७७॥

सामदानादिरुपायो नीतिः। नीतौ च गम्यमानायां तद्युक्तादनुकम्पायुक्ताद् यथाविहितं प्रत्ययो भवति। हन्त ते धानकाः। हन्त ते तिलकाः। एहकि। अद्धकि। अनुकम्पमानो दानेनाराधयति। पूर्वेण प्रत्यासन्नानुकम्पासंबन्धादनुकम्प्यमानादेव प्रत्ययो विहितः। सम्प्रति व्यवहितादपि यथा स्यादिति वचनम्॥

बह्वचो मनुष्यनाम्नष्ठज् वा॥ ५.३.७८॥

अनुकम्पायाम्, नीतौ च तद्युक्तादिति वर्तते। बह्वचः प्रातिपदिकाद् मनुष्यनामधेयाद् वा ठच् प्रत्ययो भवत्यनुकम्पायां गम्यमानायां नीतौ च। देविकः, देवदत्तकः। यज्ञिकः, यज्ञदत्तकः। बह्वच इति किम् ? दत्तकः। गुप्तक ः। मनुष्यनाम्न इति किम् ? मद्रबाहुकः। भद्रबाहुकः॥

घनिलचौ च॥ ५.३.७९॥

अनुकम्पायामित्यादि सर्वमनुवर्तते। पूर्वेण ठचि विकल्पेन प्राप्ते वचनम्। बह्वचो मनुष्यनाम्नो घन् इलच् इत्येतौ प्रत्ययौ भवतः, चकाराद् यथाप्राप्तं च। देवियः। देविलः। देविकः। देवदत्तकः। यज्ञियः। यज्ञिलः। यज्ञिकः। यज्ञदत्तकः॥

प्राचामुपादेरडज्वुचौ च॥ ५.३.८०॥

पूर्ववत् सर्वमनुवर्तते। उपशब्द आदिर्यस्य तस्मादुपादेः प्रातिपदिकाद् बह्वचो मनुष्यनाम्नोऽडज्वुच्प्रत्ययौ भवतः। चकाराद् घनिलचौ प्रत्ययौ भवतः, ठच् च वा। उपडः। उपकः। उपियः। उपिलः। उपिकः। उपेन्द्रदत्तकः। प्राचांग्रहणं पूजार्थम्। वेत्येव हि वर्तते॥

जातिनाम्नः कन्॥ ५.३.८१॥

बह्वच इति नानुवर्तते। सामान्येन विधानम्। जातिशब्दो यो मनुष्यनामधेयो व्याघ्र सिंह इत्येवमादिः, तस्मादनुकम्पायां नीतौ च कन् प्रत्ययो भवति। व्याघ्रकः। सिंहकः। शरभकः। वावचनानुवृत्तेर्यथादर्शनमन्योऽपि भवति। व्याघ्रिलः। सिंहिलः। नामग्रहणं स्वरूपनिवृत्त्यर्थम्॥

अजिनान्तस्योत्तरपदलोपश्च॥ ५.३.८२॥

कनित्यनुवर्तते, मनुष्यनाम्न इति च। अजिनशब्दान्तात् प्रातिपदिकाद् मनुष्यनाम्नोऽनुकम्पायां कन् प्रत्ययो भवति, तस्य चोत्तरपदलोपः। व्याघ्राजिनो नाम कश्चिद् मनुष्यः, सोऽनुकम्पितो व्याघ्रकः। सिंहकः॥

ठाजादावूर्ध्वं द्वितीयादचः॥ ५.३.८३॥

लोप इत्यनुवर्तते। अस्मिन् प्रकरणे यष्ठोऽजादिश्च प्रत्ययः, तस्मिन् परतः प्रकृतेर्द्वितीयादच ऊर्ध्वं यच्छब्दरूपं तस्य लोपो भवति। ऊर्ध्वग्रहणं सर्वलोपार्थम्। अनुकम्पितो देवदत्तो देविकः। देवियः। देविलः। यज्ञिकः। यज्ञियः। यज्ञिलः। उपडः। उपकः। उपियः। उपिलः। उपिकः। उपेन्द्रदत्तकः। ठग्रहणमुको द्वितीयत्वे कविधानार्थम्। अजादिलक्षणे हि माथितिकादिवत् प्रसङ्गः। वायुदत्तो वायुकः। पितृदत्तः पितृकः॥ चतुर्थादच ऊर्ध्वस्य लोपो वक्तव्यः॥ अनुकम्पितो बृहस्पतिदत्तो बृहस्पतिकः। बृहस्पतियः। बृहस्पतिलः॥ अनजादौ विभाषा लोपो वक्तव्यः॥ देवदत्तकः, देवकः। यज्ञदत्तकः, यज्ञकः॥ लोपः पूर्वपदस्य च ठाजादावनजादौ च वक्तव्यः॥ दत्तिकः। दत्तिलः। दत्तियः। दत्तकः॥ विनापि प्रत्ययेन पूर्वोत्तरपदयोर्विभाषा लोपो वक्तव्यः॥ देवदत्तो दत्तः, देव इति वा॥ उवर्णाल् ल इलस्य च॥ भानुदत्तो भानुलः। वसुदत्तो वसुलः।

चतुर्थादनजादौ  च  लोपः पूर्वपदस्य च।

अप्रत्यये तथैवेष्ट उवर्णाल्ल इलस्य च॥

॥ द्वितीयादचो लोपे सन्ध्यक्षरद्वितीयत्वे तदादेर्लोपवचनम्॥ लहोडो लहिकः। कहोडः कहिकः॥ एकाक्षरपूर्वपदानामुत्तरपदलोपो वक्तव्यः॥ वागाशीर्वाचिकः। स्रुचिकः। त्वचिकः। कथं षडङ्गुलिदत्तः षडिक इति?॥ षषष्ठाजादिवचनात् सिद्धम्॥

शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात्॥ ५.३.८४॥

शेवलादीनां मनुष्यनाम्नां ठाजादौ प्रत्यये परतः तृतीयादच ऊर्ध्वस्य लोपो भवति। पूर्वस्यायमपवादः। अनुकम्पितः शेवलदत्तः शेवलिकः। शेवलियः। शेवलिलः। सुपरिकः। सुपरियः। सुपरिलः। विशालिकः। विशालियः। विशालिलः। वरुणिकः। वरुणियः। वरुणिलः। अर्यमिकः। अर्यमियः। अर्यमिलः॥ शेवलादीनां तृतीयादचो लोपः स चाकृतसन्धीनामिति वक्तव्यम्॥ शेवलेन्द्रदत्तः, सुपर्याशीर्दत्तः,शेवलिकः, सुपरिक इति यथा स्यात्। शेवलयिकः, सुपर्यिक इति मा भूत्॥

अल्पे॥ ५.३.८५॥

परिमाणापचयेऽल्पशब्दः। प्रकृतिविशेषणं चैतत्। अल्पत्वविशिष्टेऽर्थे वर्तमानात् प्रातिपदिकाद् यथाविहितं प्रत्ययो भवति। अल्पं तैलं तैलकम्। घृतकम्। सर्वकम्। विश्वकम्। उच्चकैः। नीचकैः। पचतकि। जल्पतकि॥

ह्रस्वे॥ ५.३.८६॥

ह्रस्वत्वविशिष्टेऽर्थे वर्तमानात् प्रातिपदिकाद् यथाविहितं प्रत्ययो भवति। दीर्घप्रतियोगी ह्रस्वः। ह्रस्वो वृक्षो वृक्षकः। प्लक्षकः। स्तम्भकः॥

संज्ञायां कन्॥ ५.३.८७॥

ह्रस्व इत्येव। ह्रस्वत्वहेतुका या संज्ञा तस्यां गम्यमानायां कन् प्रत्ययो भवति। पूर्वस्यायमपवादः। वंशकः। वेणुकः। दण्डकः॥

कुटीशमीशुण्डाभ्यो रः॥ ५.३.८८॥

ह्रस्व इत्येव। संज्ञाग्रहणं नानुवर्तते, सामान्येन विधानम्। कुटीशमीशुण्डाभ्यो ह्रस्वार्थे द्योत्ये रः प्रत्ययो भवति। कस्यापवादः। ह्रस्वा कुटी कुटीरः। शमीरः। शुण्डारः। स्वार्थिकत्वेऽपि पुँल्लिङ्गता, लोकाश्रयत्वाल् लिङ्गस्य॥

कुत्वा डुपच्॥ ५.३.८९॥

ह्रस्व इत्येव। कुतूशब्दाद् ह्रस्वत्वे द्योत्ये डुपच् प्रत्ययो भवति। कस्यापवादः। ह्रस्वा कुतूः कुतुपम्। चर्ममयं स्नेहभाजनमुच्यते। कुतूरित्यावपनस्याख्या॥

कासूगोणीभ्यां ष्टरच्॥ ५.३.९०॥

ह्रस्व इत्येव। कासूगोणीशब्दाभ्यां ह्रस्वत्वे द्योत्ये ष्टरच् प्रत्ययो भवति। कस्यापवादः। षकारो ङीषर्थः। ह्रस्वा कासूः कासूतरी। गोणीतरी। कासूरिति शक्तिरायुधविशेष उच्यते॥

वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे॥ ५.३.९१॥

ह्रस्व इति निवृत्तम्। वत्स उक्षन् अश्व ऋषभ इत्येतेभ्यस्तनुत्वे द्योत्ये ष्टरच् प्रत्ययो भवति। यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशः, तस्य तनुत्वे प्रत्ययः। वत्सतरः। उक्षतरः। अश्वतरः। ऋषभतरः। प्रथमवया वत्सः, तस्य तनुत्वं द्वितीयवयःप्राप्तिः। तरुण उक्षा, तस्य तनुत्वं तृतीयवयः प्राप्तिः। अश्वेनाश्वायामुत्पन्नोऽश्वः, तस्य तनुत्वमन्यपितृकता। अनड्वानृषभः, तस्य तनुत्वं भारवहने मन्दशक्तिता॥

किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच्॥ ५.३.९२॥

किं यत् तद् इत्येतेभ्यः प्रातिपदिकेभ्यो द्वयोरेकस्य निर्धारणे डतरच् प्रत्ययो भवति। निर्धार्यमाणवाचिभ्यः स्वार्थे प्रत्ययः। जात्या क्रियया गुणेन संज्ञया वा समुदायादेकदेशस्य पृथक्करणं निर्धारणम्। कतरो भवतोः कठः। कतरो भवतोः कारकः। कतरो भवतोः पटुः। कतरो भवतोर्देवदत्तः। यतरो भवतोः कारकः। यतरो भवतोः पटुः। यतरो भवतोर्देवदत्तः, ततर आगच्छतु। महाविभाषया चात्र प्रत्ययो विकल्प्यते। को भवतोर्देवदत्तः, स आगच्छतु। निर्धारण इति विषयसप्तमीनिर्देशः। द्वयोरिति समुदायाद् निर्धारणविभक्तिः। एकस्येति निर्धार्यमाणनिर्देशः॥

वा बहूनां जातिपरिप्रश्ने डतमच्॥ ५.३.९३॥

किंयत्तद इति वर्तते, निर्धारणे, एकस्येति च। बहूनामिति निर्धारणे षष्ठी। बहूनां मध्य एकस्य निर्धारणे गम्यमाने जातिपरिप्रश्नविषयेभ्यः किमादिभ्यो वा डतमच् प्रत्ययो भवति। कतमो भवतां कठः। यतमो भवतां कठः, ततम आगच्छतु। वावचनमकजर्थम्। यको भवतां कठः, सक आगच्छतु। महाविभाषा च प्रत्ययविकल्पार्थानुवर्तत एव। को भवतां कठः। यो भवतां कठः, स आगच्छतु। जातिपरिप्रश्न इति किम् ? को भवतां देवदत्तः। परिप्रश्नग्रहणं च किम एव विशेषणम्, न यत्तदोरसंभवात्। जातिग्रहणं तु सर्वैरेव संबध्यते। किमोऽस्मिन् विषये डतरमपीच्छन्ति केचित्। कतरो भवतां कठः। कतरो भवतां कालाप इति। तत्र ‘कतरकतमौ जातिपरिप्रश्ने’ (२.१.६३) इति वचनात् सिद्धम् ॥

एकाच्च प्राचाम्॥ ५.३.९४॥

एकशब्दात् प्राचामाचार्याणां मतेन डतरच् डतमच् इत्येतौ प्रत्ययौ भवतः स्वस्मिन् विषये। चकारो डतरचोऽनुकर्षणार्थः। द्वयोर्निर्धारणे डतरच्, बहूनां निर्धारणे डतमच्। जातिपरिप्रश्न इति नानुवर्तते। सामान्येन विधानम्। एकतरो भवतोर्देवदत्तः। एकतमो भवतां देवदत्तः। प्राचांग्रहणं पूजार्थम्, विकल्पोऽनुवर्तत एव॥

अवक्षेपणे कन्॥ ५.३.९५॥

अवक्षिप्यते येन तदवक्षेपणम्। तस्मिन् वर्तमानात् प्रातिपदिकात् कन् प्रत्ययो भवति। व्याकरणकेन नाम त्वं गर्वितः। याज्ञिक्यकेन नाम त्वं गर्वितः। परस्य कुत्सार्थं यदुपादीयते, तदिहोदाहरणम्। यत् पुनः स्वयमेव कुत्सितम्, तत्र ‘कुत्सिते’ (५.३.७४) इत्यनेन कन् प्रत्ययो भवति- देवदत्तकः, यज्ञदत्तक इति। प्रागिवीयस्य पूर्णोऽवधिः॥

इवे प्रतिकृतौ॥ ५.३.९६॥

कनित्यनुवर्तते। इवार्थे यत् प्रातिपदिकं वर्तते, तस्मात् कन् प्रत्ययो भवति। इवार्थः सादृश्यम्, तस्य विशेषणं प्रतिकृतिग्रहणम्। प्रतिकृतिः प्रतिरूपकं प्रतिच्छन्दकम्। अश्व इवायमश्वप्रतिकृतिरश्वकः। उष्ट्रकः। गर्दभकः। प्रतिकृताविति किम्? गौरिव गवयः॥

संज्ञायां च॥ ५.३.९७॥

इवेत्यनुवर्तते, कनिति च। इवार्थे गम्यमाने कन् प्रत्ययो भवति, समुदायेन चेत् संज्ञा गम्यते। अप्रतिकृत्यर्थ आरम्भः। अश्वसदृशस्य संज्ञा अश्वकः। उष्ट्रकः। गर्दभकः॥

लुम्मनुष्ये॥ ५.३.९८॥

संज्ञायामित्येव। संज्ञायां विहितस्य कनो मनुष्येऽभिधेये लुब् भवति। चञ्चेव मनुष्यः चञ्चा। दासी। खरकुटी। मनुष्य इति किम् ? अश्वकः। उष्ट्रकः। गर्दभकः। देवपथादेराकृतिगणत्वात् तस्यैवायं प्रपञ्चो वेदितव्यः॥

जीविकार्थे चापण्ये॥ ५.३.९९॥

जीविकार्थं यदपण्यं तस्मिन्नभिधेये कनो लुब् भवति। विक्रीयते यत् तत् पण्यम्। वासुदेवः। शिवः। स्कन्दः। विष्णुः। आदित्यः। देवलकादीनां जीविकार्था देवप्रतिकृतय उच्यन्ते। अपण्य इति किम् ? हस्तिकान् विक्रीणीते। अश्वकान्। रथकान्। देवपथादेरेवायं प्रपञ्चः॥

देवपथादिभ्यश्च॥ ५.३.१००॥

‘इवे प्रतिकृतौ’ (५.३.९६) ‘संज्ञायां च’ (५.३.९७) विहितस्य कनो देवपथादिभ्य उत्तरस्य लुब् भवति। आदिशब्दः प्रकारे। आकृतिगणश्चायम्। देवपथः। हंसपथः।

अर्चासु पूजनार्थासु चित्रकर्मध्वजेषु च ।

इवे प्रतिकृतौ लोपः कनो देवपथादिषु ॥

अर्चासु तावत्-शिवः। विष्णुः। चित्रकर्मणि-अर्जुनः। दुर्योधनः। ध्वजेषु-कपिः। गरुडः। सिंहः॥ देवपथ। हंसपथ। वारिपथ। जलपथ। राजपथ। शतपथ। सिंहगति। उष्ट्रग्रीवा। चामरज्जु। रज्जु। हस्त। इन्द्र। दण्ड। पुष्प। मत्स्य॥

वस्तेर्ढञ्॥ ५.३.१०१॥

इवेत्यनुवर्तते। इतः प्रभृति प्रत्यया सामान्येन भवन्ति, प्रतिकृतौ चाप्रतिकृतौ च। वस्तिशब्दादिवार्थे द्योत्ये ढञ् प्रत्ययो भवति। वस्तिरिव वास्तेयः। वास्तेयी ॥

शिलाया ढः॥ ५.३.१०२॥

शिलाशब्दादिवार्थे ढः प्रत्ययो भवति। शिलेव शिलेयं दधि। केचिदत्र ढञमपीच्छन्ति, तदर्थं योगविभागःकर्तव्यः। शिलाया ढञ् प्रत्ययो भवति। शैलेयम्। ततो ढः। शिलेयम्॥

शाखादिभ्यो यत्॥ ५.३.१०३॥

शाखा इत्येवमादिभ्यः प्रातिपदिकेभ्यो यत् प्रत्ययो भवति इवार्थे। शाखेव शाख्यः। मुख्यः। जघन्यः॥ शाखा। मुख। जघन। शृङ्ग । मेघ। चरण। स्कन्ध। शिरस्। उरस्। अग्र। शरण। शाखादिः॥

द्रव्यं च भव्ये॥ ५.३.१०४॥

द्रव्यशब्दो निपात्यते भव्येऽभिधेये। द्रुशब्दादिवार्थे यत् प्रत्ययो निपात्यते। द्रव्यं भव्यः, आत्मवान्, अभिप्रेतानामर्थानां पात्रभूत उच्यते। द्रव्योऽयं राजपुत्रः। द्रव्योऽयं माणवकः॥

कुशाग्राच्छः॥ ५.३.१०५॥

कुशाग्रशब्दादिवार्थे छः प्रत्ययो भवति। कुशाग्रमिव सूक्ष्मत्वात् कुशाग्रीया बुद्धिः। कुशाग्रीयं शस्त्रम् ॥

समासाच्च तद्विषयात्॥ ५.३.१०६॥

तदित्यनेन प्रकृत इवार्थो निर्दिश्यते। इवार्थविषयात् समासादपरस्मिन्निवार्थ एव छः प्रत्ययो भवति। काकतालीयम्। अजाकृपाणीयम्। अन्धकवर्तकीयम्। अतर्कितोपनतं चित्रीकरणमुच्यते। तत्कथम् ? काकस्यागमनं यादृच्छिकम्, तालस्य पतनं च। तेन तालेन पतता काकस्य वधः कृतः। एवमेव देवदत्तस्य तत्रागमनम्, दस्यूनां चोपनिपातः। तैश्च तस्य वधः कृतः। तत्र यो देवदत्तस्य दस्यूनां च समागमः स काकतालसमागमसदृश इत्येक उपमार्थः। अतश्च देवदत्तस्य वधः, स काकतालवधसदृश इति द्वितीय उपमार्थः। तत्र प्रथमे समासः, द्वितीये प्रत्ययः। समासश्चायमस्मादेव ज्ञापकात्, नह्यस्यापरं लक्षणमस्ति। सुप्सुपेति वा समासः। स चैवंविषय एव॥

शर्करादिभ्योऽण्॥ ५.३.१०७॥

शर्करा इत्येवमादिभ्यः प्रातिपदिकेभ्य इवार्थेऽण् प्रत्ययो भवति। शर्करेव शार्करम्। कापालिकम्॥ शर्करा। कपालिका। पिष्टिक। पुण्डरीक। शतपत्र। गोलोमन्। गोपुच्छ। नरालि। नकुला। सिकता। शर्करादिः॥

अङ्गुल्यादिभ्यष्ठक् ॥ ५.३.१०८॥

अङ्गुल्यादिभ्य इवार्थे ठक् प्रत्ययो भवति। अङ्गुलीवाङ्गुलिकः। भारुजिकः॥ अङ्गुलि। भरुज। बभ्रु। वल्गु। मण्डर। मण्डल। शष्कुल। कपि। उदश्वित्। गोणी। उरस्। शिखर। कुलिश। अङ्गुल्यादिः॥

एकशालायाष्ठजन्यतरस्याम्॥ ५.३.१०९॥

एकशालाशब्दादिवार्थेऽन्यतरस्यां ठच् प्रत्ययो भवति। अन्यतरस्यांग्रहणेनानन्तरष्ठक् प्राप्यते। एकशालेव एकशालिकः, ऐकशालिकः॥

कर्कलोहितादीकक् ॥ ५.३.११०॥

कर्कलोहितशब्दाभ्यामिवार्थ ईकक् प्रत्ययो भवति। कर्कः शुक्लोऽश्वः, तेन सदृशः कार्कीकः। लौहितीकः स्फटिकः। स्वयमलोहितोऽप्युपाश्रयवशात् तथा प्रतीयते॥

प्रत्नपूर्वविश्वेमात्थाल् छन्दसि॥ ५.३.१११॥

प्रत्न पूर्व विश्व इम इत्येतेभ्य इवार्थे थाल् प्रत्ययो भवति छन्दसि विषये। तं प्॒रत्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ (ऋ० ५.४४.१)॥

पूगाञ्ञ्योऽग्रामणीपूर्वात्॥ ५.३.११२॥

इवार्थ इति निवृत्तम्। नानाजातीया अनियतवृत्तयोऽर्थकामप्रधानाः संघाः पूगाः। पूगवाचिनः प्रातिपदिकादग्रामणीपूर्वात् स्वार्थ ञ्यः प्रत्ययो भवति। लौहध्वज्यः, लौहध्वज्यौ, लोहध्वजाः। शैब्यः, शैब्यौ, शिबयः। चातक्यः, चातक्यौ, चातकाः। अग्रामणीपूर्वादिति किम्? देवदत्तो ग्रामणीरेषां त इमे देवदत्तकाः। यज्ञदत्तकाः॥

व्रातच्फञोरस्त्रियाम्॥ ५.३.११३॥

नानाजातीया अनियतवृत्तय उत्सेधजीविनः संघ व्राताः। व्रातवाचिभ्यः प्रातिपदिकेभ्यः च्फञन्तेभ्यः च स्वार्थे ञ्यः प्रत्ययो भवत्यस्त्रियाम्। कापोतपाक्यः, कापोतपाक्यौ, कपोतपाकाः। वै्रहिमत्यः, वै्रहिमत्यौ, व्रीहिमन्तः। च्फञः खल्वपि- कौञ्जायन्यः, कौञ्जायन्यौ, कौञ्जायनाः। ब्राध्नायन्यः ब्राध्नायन्यौ, ब्राध्नायनाः। अस्त्रियामिति किम्? कपोतपाकी। व्रीहिमती। कौञ्जायनी। ब्राध्नायनी ॥

आयुधजीविसंघाञ्ञ्यड् वाहीकेष्वब्राह्मणराजन्यात्॥ ५.३.११४॥

आयुधजीविनां संघ आयुधजीविसंघः। स वाहीकैर्विशेष्यते। वाहीकेषु य आयुधजीविसंघः, तद्वाचिनः प्रातिपदिकाद् ब्राह्मणराजन्यवर्जितात् स्वार्थे ञ्यट् प्रत्ययो भवति। ब्राह्मणे तद्विशेषग्रहणम् राजन्ये तु स्वरूपग्रहणमेव। टकारो ङीबर्थः। तेनास्त्रियामिति नानुवर्तते। कौण्डीबृस्यः, कौण्डीबृस्यौ, कौण्डीबृसाः। क्षौद्रक्यः, क्षौद्रक्यौ, क्षुद्रकाः। मालव्यः, मालव्यौ, मालवाः। स्त्रियाम्- कौण्डीबृसी। क्षौद्रकी। मालवी। आयुधजीविग्रहणं किम् ? मल्लाः। शयण्डाः। संघग्रहणं किम् ? सम्राट्। वाहीकेष्विति किम् ? शबराः। पुलिन्दाः। अब्राह्मणराजन्यादिति किम् ? गोपालवा ब्राह्मणाः। शालङ्कायना राजन्याः॥

वृकाट् टेण्यण्॥ ५.३.११५॥

आयुधजीविसंघादिति वर्तते। वृकशब्दादायुधजीविनः स्वार्थे टेण्यण् प्रत्ययो भवति। टकारो ङीबर्थः, णकारो वृद्ध्यर्थः। वार्केण्यः, वार्केण्यौ, वृकाः। आयुधजीविसंघविशेषणं जातिशब्दाद् मा भूत्-कामक्रोधौ मनुष्याणां खादितारौ वृकाविव॥

दामन्यादित्रिगर्तषष्ठाच्छः॥ ५.३.११६॥

आयुधजीविसंघादिति वर्तते। दामन्यादिभ्यः प्रातिपदिकेभ्यः त्रिगर्तषष्ठेभ्यश्चायुध-जीविसंघवाचिभ्यः स्वार्थे छः प्रत्ययो भवति। येषामायुधजीविनां संघानां षडन्तर्वर्गास्तत्र च त्रिगर्तः षष्ठः। त्रिगर्तः षष्ठो येषाम्, ते त्रिगर्तषष्ठा इत्युच्यन्ते। तेषु चेयं स्मृतिः-

	आहुस्त्रिगर्तषष्ठांस्तु      कौण्डोपरथदाण्डकी।

	क्रौष्टकिर्जालमानिश्च ब्राह्मगुप्तोऽथ जानकिः॥

इति। दामन्यादिभ्यस्तावत्-दामनीयः, दामनीयौ, दामनयः। औलपीयः, औलपीयौ, औलपयः। त्रिगर्तषष्ठेभ्यः खल्वपि-कौण्डोपरथीयः, कौण्डोपरथीयौ, कौण्डोपरथाः। दाण्डकीयः, दाण्डकीयौ, दाण्डकयः। क्रौष्टकीयः। जालमानीयः। ब्राह्मगुप्तीयः। जानकीयः॥ दामनी। औलपि। आकिदन्ती। काकरन्ति। काकदन्ति। शत्रुन्तपि। सार्वसेनि। बिन्दु। मौञ्जायन। उलभ। सावित्रीपुत्र। दामन्यादिः॥

पर्श्वादियौधेयादिभ्यामणञौ ॥ ५.३.११७॥

आयुधजीविसंघादित्येव। पर्श्वादिभ्यो यौधेयादिभ्यश्च प्रातिपदिकेभ्य आयुधजीविसंघवाचिभ्यः स्वार्थेऽणञौ प्रत्ययौ भवतः। पार्शवः, पार्शवौ, पर्शवः। आसुरः, आसुरौ, असुराः। यौधेयः। शौके्रयः॥ पर्शु। असुर। रक्षस्। बाह्लीक। वयस्। मरुत्। दशार्ह। पिशाच। विशाल। अशनि। कार्षापण। सत्वत्। वसु। पर्श्वादिः॥ यौधेय। कौशेय। क्रौशेय। शौक्रेय। शौभे्रय। धार्तेय। वार्तेय। जाबालेय। त्रिगर्त। भरत। उशीनर। यौधेयादिः॥

अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ् ॥ ५.३.११८॥

आयुधजीविसंघादिति निवृत्तम्। अभिजिदादिभ्योऽणन्तेभ्यः प्रातिपदिकेभ्यः स्वार्थे यञ् प्रत्ययो भवति। अभिजितोऽपत्यमित्यण्। तदन्ताद् यञ्। आभिजित्यः, आभिजित्यौ, आभिजिताः। वैदभृत्यः, वैदभृत्यौ, वैदभृताः। शालावत्यः, शालावत्यौ, शालावताः। शैखावत्यः। शामीवत्यः। और्णावत्यः। श्रौमत्यः। गोत्रप्रत्ययस्यात्राणो ग्रहणमिष्यते। आभिजितो मुहूर्तः, आभिजितः स्थालीपाक इत्यत्र न भवति॥

ञ्यादयस्तद्राजाः ॥ ५.३.११९॥

‘पूगाञ्ञ्योऽग्रामणीपूर्वात्’ (५.३.११२) इत्यतः प्रभृति ये प्रत्ययाः, ते तद्राजसंज्ञा भवन्ति। तथा चैवोदाहृतम्। तद्राजप्रदेशाः-‘तद्राजस्य बहुषु०’ (२.४.६२) इत्येवमादयः॥

॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ पञ्चमाध्यायस्य तृतीयः पादः॥