औपदेशिकधातवः
- धातुपाठे विद्यमानाः प्रायेण २००० धातवः - भू, एध्, स्पर्ध्, … पाणिनिविरचितः धातुपाठः ।
पाठान्तराणि
-
“इष्टशब्दानां सिद्ध्यर्थम् एतेषु दत्ताः सर्वेऽपि पाठभेदाः आवश्यकाः सन्ति । यथा, आडम्बरः, विडम्बनम् इत्येतयोः सिद्धौ आवश्यकः डम्ब् क्षेपे इति धातुः पाणिनीयधातुपाठे नास्ति परन्तु चान्द्रधातुपाठे विद्यते ।”
-
क्षीरस्वामीविरचितः धातुपाठः = क्षीरतरङ्गिणी
-
मैत्रेयरक्षितेन निर्मितः धातुपाठः = धातुप्रदीपः
-
सायणाचार्येण कृतः धातुपाठः = माधवीयधातुवृत्तिः
-
सिद्धान्तकौमुद्यां निर्दिष्टः (भट्टोजीदीक्षितकृतः) धातुपाठः
-
काशकृत्स्नव्याकरणस्य काशकृत्स्नधातुपाठः
-
चान्द्रव्याकरणस्य चान्द्रधातुपाठः
-
जैनेन्द्रव्याकरणस्य जैनेन्द्रधातुपाठः
-
शाकटायनव्याकरणस्य शाकटायनधातुपाठः
वर्णव्यत्ययः
वर्णव्यत्ययविचारो ऽन्यत्र ।
गणसम्बन्धे भेदाः
- भ्वादिगणः, दिवादिगणः, चुरादिगणः आकृतिगणः इति केचन ।
दिवादिस्तु भ्वादिवद् आकृतिगणः । तेन क्षीयते-मृग्यतीत्यादि-सिद्धिर् इत्य् आहुः
इति सिद्धान्तकौमुद्यां दिवादिगणस्य अन्ते निर्देशः लभ्यते ।
एवमान्दोलयति । प्रेङ्खोलयति । विडम्बयति । अधीरयतीत्यादि ।
अन्ये तु दशगणीपाठो बहुलम् इत्य् आहुः ।
तेनापठिता अपि सौत्र-लौकिक-वैदिका बोध्याः ।अपरे तु नव-गणीपाठो बहुलमित्य् आहुः ।
तेनापठितेभ्योऽपि क्वचित् स्वार्थे णिच् । रामो राज्यम् अचीकरत् इति यथेत्याहुः ।चुरादिभ्यो एव बहुलं णिज् इत्य् अर्थ इत्य् अन्ये ।
सर्वे पक्षाः प्राचां ग्रन्थे स्थिताः
— इति सिद्धान्तकौमुद्यां चुरादिगणस्य अन्ते निर्देशः लभ्यते ।
व्याख्यातेयं नवगणी
कुशकाशावलम्बनात् ।
चुरादिर् अधुनारब्धो
यत्र भग्नाः महारथाः ॥+++(5)+++पाठेऽर्थे चागम-भ्रंशान्
महताम् अपि मोहतः ।
न विद्मः किं जहीमोऽत्र
किमुपादद्महे वयम् ॥— इति क्षीरतरङ्गिण्यां चुरादिगणस्य आदौ ।
सौत्राःधातवः
- पाणिनिविरचितेषु सूत्रेषु एषां निर्देशः कृतः
- यथा
३.१.८२ स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च
आतिदेशिकधातवः / प्रत्ययान्ताः धातवः
- धातुनिर्माणपत्रे विस्तारः।