लुट् लुठ्

श्लेषालस्योपघातेषु
प्रतिघाते क्रमाल्लुठे्त् ।
लुण्ठेत् लोठति लोठेत
किन्तु गत्यां च लुण्ठति ।
णौ लोटयति भाषार्थे
लुट्येल् लोटति लोटने ।
लोटते प्रतिघातेऽर्थे
स्तेये लुण्टति लुण्टयेत् ॥
— दैवम् ।

लुटँ

  • विलोडने (भ्वादिः, प.प.)
  • प्रतिघाते (भ्वादिः, आ.प.)
  • विलोडने (दिवादिः, प.प.)
  • संश्लेषणे (तुदादिः, प.प.)
  • भाषायाम् (चुरादिः, उ.प.)

लुठँ

  • उपघाते (भ्वादिः, प.प.)
  • प्रतिघाते (भ्वादिः, आ.प.)
  • विलोडने (दिवादिः, प.प.)
  • संश्लेषणे (तुदादिः, प.प.)

लुटिँ (लुण्ट्)

स्तेये (भ्वादिः, प.प.)

लुन्टँ / लुन्ठँ

स्तेये (चुरादिः, उ.प.)

ण्वुलि रूपाणि

  • लुट् → लोटक
  • लुठ् → लोठक
  • लुटिँ → लुण्टक
  • लुठिँ → लुण्ठक
  • लुन्ट् → लुण्टक
  • लुण्ठ‌ → लुण्ठक

षाकन्

३.२.१५५ जल्पभिक्षकुट्टलुण्टवृङः षाकन्
इति सूत्रेण जल्पादिभ्यः धातुभ्यः ताच्छीलिकेषु अर्थेषु “षाकन्” इति कृत्प्रत्ययः भवति ।

  • लुन्ट् / लुन्ठ् (स्तेये, चौरादिकः) + षाकन्‌ → लुण्टाक, लुण्ठाक । लुण्टनं शीलम् अस्य सः लुण्टाकः । लुण्ठनं शीलम् अस्य सः लुण्ठाकः ।