धातुभ्यः प्रत्ययाः यदा विधीयन्ते, तदा सर्वप्रथमम् अस्माभिः किं चिन्त्यते नाम अनुबन्धाः के, अपि च तेषां निष्कासनं कथं क्रियेत | अनुबन्धः नाम यस्य इत्-संज्ञा-योग्यत्वं, सः | तर्हि इत्-संज्ञा-योग्यत्वं केषां भवति ? अस्य ज्ञानं भवति इत्-संज्ञा-विधायक-सूत्रैः | अष्टाध्याय्यां कश्चन प्रकरणं वर्तते इत्-संज्ञा नाम्ना, येन सर्वम् इत्-संज्ञाविधायक-कार्यं क्रियते | प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात् आरभ्य, अष्टमसूत्रपर्यन्तम् इत्-संज्ञा प्रकरणम् इति | आहत्य तत्र षट् इत्-संज्ञा-विधायकानि सूत्राणि सन्ति, एकं वार्तिकम् अस्ति इत्-संज्ञा-विधायकम्, एकम् इत्-संज्ञा-निषेधकं सूत्रम् अस्ति, एकं लोप-विधायकं सूत्रम् अस्ति | तत्रत्यैः षड्भिः सूत्रैः इत्-संज्ञा विधीयते; धातुषु, प्रत्ययेषु, आगमेषु, आदेशेषु — यत्र कुत्रापि इत्-संज्ञा भवति, तत्र एभिः एव सूत्रैः |
यदा वयम् आपणतः शाकाधिकम् आनयामः, तदा यथा आनयामः, तथैव तस्य उपयोगं न कुर्मः | कदलीफलम् आनयामः चेत् तस्य आवरणं निष्कासयामः, तदैव अन्तस्थं भागं खादामः | शाकस्य अपि कश्चन भागः निष्कास्यते, कश्चन भागः उपयुज्यते | तथैव धातूनां, प्रत्ययानाम्, आगमानाम्, आदेशानां च विषये अस्ति |
प्रश्नः उदेति अनुबन्धाः किमर्थं युज्यन्ते पाणिनिना यदि तेषां लोपः भवति एव ? अत्र, “अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः” इत्युच्यते | अर्धमात्रायाः अपि व्यर्थता न भवति | अनुबन्धानाम् अर्थाः सन्ति, तेषां प्रयोजनानि कार्याणि च सन्ति | अस्मिन् विषये एतावता अस्माभिः किञ्चित् दृष्टम्; अग्रे गत्वा इतोऽपि बहुकिमपि द्रक्ष्यामः | अधुना तावत् अवगम्यताम्— यथा वयं यदा आपणतः वस्तूनि आनयामः, तर्हि यथा तस्मिन् एव रूपे तेषाम् उपयोगं न कुर्मः, तथैव धातूनां प्रत्ययानां च स्थितिः अपि अस्ति | तेषां विकृतिं साधयित्वा उपयुञ्ज्महे |
एवमपि धेयं, लोके कतिचन पदार्थाः तादृशाः सन्ति, यथा आनयामः, तथैव प्रयोगं कुर्मः | धातवः प्रत्ययाः अपि तादृशाः केचन सन्ति, येषु अनुबन्धाः न भवन्ति | यथा भू धातुः, भू सत्तायाम्— तत्र कोऽपि अनुबन्धः नास्ति | प्रत्ययेषु यथा “अ” प्रत्ययः, तत्र अनुबन्धः नास्ति |
तर्हि अत्र मूलधातुः कः, अपि च अनुबन्धानां निष्कासनानन्तरं किं अवशिष्यते इति प्रथमम् अवगन्तव्यम् | परं तस्मात् धातोः विहितः यः प्रत्ययः अस्ति, तस्मिन् अपि अनुबन्धाः के, किं च अवशिष्यते | इति विज्ञानम् अस्माकं भवेत् | तदा एव प्रक्रिया अग्रे अनुवर्तते | वृत्तान्ते डुपचँष् पाके इति मूलस्वरूपं, पचति इति क्रियापदम् | तत्र सामान्यतया धातुः “पच्” इति वदामः; परन्तु मूलतया डुपचँष् इति स्वरूपं वर्तते | तत्र केचन अनुबन्धाः सन्ति— आरम्भे डु, अन्ते षकारः अपि च चकारोत्तरवर्ती अँकारः | चकारात् उत्तरं वर्तते इति चकारोत्तरवर्ती | वर्ती इत्यस्य प्रातिपदिकं वर्तिन्, वृत् धातोः | त्रयाणाम् अपि अनुबन्धानाम् इत्-संज्ञा भवति, परं लोपः भवति; पच् इत्येव अवशिष्यते | ततः परम् अस्माभिः प्रत्ययः कः इति चिन्तनीयं, यथा तव्यत् | तत्र तकारस्य इत्-संज्ञा लोपः च, तव्य इति अवशिष्यते | तर्हि पच् + तव्य इति स्थितिः | एतादृश्यां स्थित्याम् इदानीं कार्यस्य आरम्भः भवति, येन पक्तव्यम् इति रूपं निष्पद्येत |
अतः धातुपाठे अस्माकं प्रथमं कार्यं इत् संज्ञा विधानं, निबन्ध-लोपः च | तदर्थम् इत्-संज्ञा प्रकरणम् अस्ति | तत्र प्रथमसूत्रस्य प्रसङ्गे किञ्चित् वक्तव्यम् अस्ति विशेषः, तदा सर्वाणि सूत्राणि अवलोकयाम |
उपदेशेऽजनुनासिक इत् (१.३.२) इति प्रथमम् इत्-संज्ञा-विधायकं सूत्रम् | उपदेशावस्थायां यः अच् अनुनासिकः अस्ति, तस्य इत्-संज्ञां करोति इदं सूत्रम् | उपदेशः नाम धातुः, प्रत्ययः, आदेशः, आगमो वा | अनुनासिकः अच् नाम यस्मिन् अचि ँ इति अनुनासिकचिह्नम् अस्ति | बृहद्धातुकुसुमाकरे पश्यन्ति चेत्, धातुषु न कुत्रापि अनुनासिकचिह्नं दृश्यते | किमर्थम् इत्युक्ते एकं पूर्णं स्वरविज्ञानं वर्तते; प्राचीनकाले इदं विज्ञानं ज्ञायते स्म | अद्य प्रायः इदं विज्ञानं न लभ्यते अतः अस्मिन् आधुनिकयुगे, स्वरविषये अस्माकं क्लेशः | तद्विज्ञानस्य अभावे बृहद्धातुकुसुमाकरेऽपि अनुनासिकचिह्नानि न दत्तानि | किन्तु वयं फलं दृष्ट्वा अनुमानं कर्तुं शक्नुमः यत्र अनुनासिकचिह्नं स्यात् | नाम यत्र मूलधातौ कश्चन स्वरः आसीत् यत् लौकिकधातौ नास्ति, तत्र अवगम्यते यत् सः स्वरः अनुनासिकः आसीत् अतः उपदेशेऽजनुनासिक इत् इति सूर्त्रेण तस्य लोपः जातः | अद्य इदम् इत्थम् इति वक्तुं कश्चन अन्योपायः नास्ति; ऊहया एव बोध्यम् | यथा गम्ऌ धातुः, अत्रः ऌ इति अच् वर्णः अनुनासिकः अस्ति अतः उपदेशेऽजनुनासिक इत् इति सूत्रेण तस्य इत्-संज्ञा भवति; तस्य लोपः इत्यनेन लोपः; गम् इति अवशिष्यते | ऌ अनुनासिकः अस्ति इति कथं ज्ञातम् ? फलं दृष्ट्वा | प्रक्रियायां लोके च गम् इत्येव दृश्यते अतः ऌ इत्यस्य लोपः जातः; लोपः जातः चेत् उपदेशेऽजनुनासिक इत् इत्येव सूत्रेण अर्हति स्म, अतः ऌ अनुनासिकः स्यात् इति अनुमानम् अस्माकम् |
(एतदपि धेयं यत्, यदि स्वरः अपरेण वर्णेन सह उपस्थितः, तर्हि कुत्रचित् तयोः एकं “unit” कृत्वा अपरेण सूत्रेण इत्-संज्ञा क्रियेत; यथा डुपचष् इत्यस्मिन् डकारोत्तरवर्ती यः उकारः अस्ति, सः उकारः अनुनासिकः नास्ति | तत्र “डु” इत्येव एकम् unit अस्ति अतः अपरेण सूत्रेण इत्-संज्ञा साध्येत |)
तर्हि प्रथमं कार्यम् इत्-संज्ञा इति | तदर्थं सप्त सूत्राणि सन्ति; तेषु त्रीणि सूत्राणि धातुषु अपि प्रत्ययेषु अपि, नाम सर्वेषु उपदेशेषु प्रयुज्यन्ते; त्रीणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते, न धातुषु; अपि च एकं सूत्रं निषेधकं सूत्रम्|
इत्संज्ञाप्रकरणम्
चत्वारि सूत्राणि, उपदेशावस्थायां, सर्वेषु रूपेषु (धातुषु, प्रत्ययेषु, आदेशेषु, आगमेषु)—
१. उपदेशेऽजनुनासिक इत् (१.३.२) = उपदेशे (धातौ, प्रत्यये, आदेशे, आगमे) अच्-वर्णः अनुनासिकः चेत्, तस्य इत्-संज्ञा भवति | उपदेशे सप्तम्यन्तम्, अच् प्रथमान्तम्, अनुनासिकः प्रथमान्तम्, इत् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— उपदेशे अच् अनुनासिकः इत् |
२. हलन्त्यम् (१.३.३) = उपदेशस्य अन्ते हल् वर्णः अस्ति चेत्, तस्य हल्-वर्णस्य इत्-संज्ञा भवति | हल् प्रथमान्तम्, अन्त्यं प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्— उपदेशे अन्त्यम् हल् इत् |
३. न विभक्तौ तुस्माः (१.३.४) = विभक्त्यां तवर्गीयवर्णः, सकारः, मकारः च इत्-सज्ञकाः न भवन्ति | विभक्तिश्च (१.४.१०४) इत्यनेन सुप्-प्रत्ययाः तिङ्-प्रत्ययाः च सर्वे विभक्ति-संज्ञकाः | इदं सूत्रं हलन्त्यम् इत्यस्य अपवादः | तुश्च स् च मश्च, तेषाम् इतरेतरद्वन्द्वः, तुस्माः | न अव्ययपदं, विभक्तौ सप्तम्यन्तं, तुस्माः प्रथमान्तं, त्रिपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्— उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः |
४. आदिर्ञिटुडवः (१.३.५) = उपदेशस्य आदौ ञि, टु, डु इति त्रिषु एकः वर्णसमूहः अस्ति चेत्, तस्य इत्-संज्ञा भवति | ञि, टु, डु एते निबन्धाः धातुषु एव भवन्ति अतः इदं सूत्रं वस्तुतः धातूनां कृते | ञिः च, टुः च, डुः च, तेषाम् इतरेतरद्वन्द्वः ञिटुडु, बहुवचने ञिटुडवः (गुरु-शब्दः इव) | आदिः प्रथमान्तं, ञिटुडवः प्रथमान्तं, द्विपदमिदं सूत्रम् | आदिः इति इत् इति च बहुत्वे एकवचनम् | अनुवृत्ति-सहितसूत्रम्— उपदेशे धातोः आदयः ञिटुडवः इतः |
*इँर इत्संज्ञा वाच्या [नेटि (७.२.४) इति सूत्रस्य अन्तर्गतम्] एकं वार्त्तिकम् =धातोः ‘इँर्’ इत्यस्य शब्दसमुदायस्य इत्-संज्ञा भवति | छिदिँर् इत्यादिषु धातुषु इरः इत्संज्ञा भवति.| भिदिँर् → भिद्, छिदिँर् → छिद्, दृशिँर् → दृश्, णिजिँर् → णिज्, युजिँर् → युज्, ईशुचिँर् → शुच् | धेयं यत् इँकारस्य रेफस्य च भिन्नरीत्या इत्संज्ञा न करणीया |
त्रीणि सूत्राणि, उपदेशावस्थायां, प्रत्ययेषु एव—
१. षः प्रत्ययस्य (१.३.६) = प्रत्ययस्य आदौ षकारः अस्ति चेत्, तस्य इत्-संज्ञा भवति | षः प्रथमान्तं, प्रत्ययस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्— उपदेशे प्रत्ययस्य आदिः षः इत् |
२. चुटू (१.३.७) = प्रत्ययस्य आदौ चवर्गीयः (च्, छ्, ज्, झ्, ञ्), अथवा टवर्गीयः (ट्, ठ्, ड्, ढ्, ण्) वर्णः भवति चेत्, तस्य वर्णस्य इत्-संज्ञा भवति | चुश्च टुश्च तयोः इतरेतरद्वन्द्वः, चुटू (द्विवचने, गुरु-शब्दः इव) | चुटू प्रथमान्तम्, एकपदमिदं सूत्रम् | वचनविपरिणामं क्रियते | अनुवृत्ति-सहितसूत्रम्— उपदेशे प्रत्ययस्य आदी चुटू इतौ |
३. लशक्वतद्धिते (१.३.८) = प्रत्ययस्य आदौ लकारः, शकारः, कवर्गीयः (क्, ख्, ग्, घ्, ङ्) च वर्णः अस्ति चेत्, तस्य इत्-संज्ञा भवति; किन्तु तद्धितप्रत्यये न | लश्च, शश्च, कुश्च, तेषां समाहारद्वन्द्वः, लशकु | न तद्धितम्, अतद्धितं नञ्तत्पुरुषः, तस्मिन् अतद्धिते | लशकु प्रथमान्तम्, अतद्धिते सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्— उपदेशे प्रत्ययस्य आदि लशकु इत् अतद्धिते |
इत्-लोप-विधिः
एकवारं यदा कस्यचित् वर्णस्य वर्णसमूहस्य च इत्-संज्ञा भवति, तदा तस्य लोपः इति सूत्रेण, तस्य लोपो भवति |
तस्य लोपः (१.३.९) = इत्-संज्ञकस्य वर्णस्य लोपो भवति | तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् |
उपदेशेऽजनुनासिक इत् (१.३.२) इत्यस्मात् इत् इत्यस्य अनुवृत्तिः, षष्ठ्यर्थे | अनुवृत्ति-सहितसूत्रम्— तस्य इतः लोपः |
अनुवृत्तिः
एतेषाम् अनुवृत्ति-क्रमः सुलभः |
उपदेशेऽजनुनासिक इत् (१.३.२) इत्यस्मिन् न काऽपि अनुवृत्तिः | सर्वं सूत्रे एव वर्तते |
हलन्त्यम् (१.३.३) इत्यस्मिन् सूत्रे उपदेशेऽजनुनासिक इत् इत्यस्मात् सूत्रात् “उपदेशे”, “इत्” इत्यनयोः अनुवृत्तिः | अतः “उपदेशे अन्त्यं हल् इत्” इति वाक्यम् |
न विभक्तौ तुस्माः (१.३.४) इत्यस्मिन् उपदेशेऽजनुनासिक इत् इत्यस्मात् “उपदेशे”, “इत्” इत्यनयोः अनुवृत्तिः | हलन्त्यम् इत्यस्मात् “हल्”, “अन्त्यम्" इत्यनयोः अनुवृत्तिः | अतः “उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः” इति वाक्यम् |
आदिर्ञिटुडवः (१.३.५) इत्यस्मिन् उपदेशेऽजनुनासिक इत् इत्यस्मात् सूत्रात् “उपदेशे”, “इत्" इत्यनयोः अनुवृत्तिः; भूवादयो धातवः (१.३.१) इत्यस्मात् “धातोः” इत्यस्य अनुवृत्तिः (वचनपरिणामं विभक्तिपरिणामं च कृत्वा) | अतः “उपदेशे धातोः आदयः ञिटुडवः इतः” इति वाक्यम् |
षः प्रत्ययस्य (१.३.६) इत्यस्मिन् आदिर्ञिटुडवः इत्यस्मात् “आदिः”, उपदेशेऽजनुनासिक इत् इत्यस्मात् “उपदेशे”, “इत्”, अतः “उपदेशे प्रत्ययस्य आदिः षः इत्” इति वाक्यम् |
चुटू (१.३.७) इत्यस्मिन् षः प्रत्ययस्य इत्यस्मात् “प्रत्ययस्य”, आदिर्ञिटुडवः इत्यस्मात् “आदिः”, उपदेशेऽजनुनासिक इत् इत्यस्मात् “उपदेशे”, “इत्”, अतः “उपदेशे प्रत्ययस्य आदिः चुटू इतौ” इति वाक्यम् |
लशक्वतद्धिते (१.३.८) इत्यस्मिन् पुनः षः प्रत्ययस्य इत्यस्मात् “प्रत्ययस्य”, आदिर्ञिटुडवः इत्यस्मात् “आदिः”, उपदेशेऽजनुनासिक इत् इत्यस्मात् “उपदेशे”, “इत्”, अतः “उपदेशे प्रत्ययस्य आदिः ल, श, कु अतद्धिते इत्” इति वाक्यम् |
तस्य लोपः (१.३.९) इत्यस्मिन् उपदेशेऽजनुनासिक इत् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः अतः “तस्य इतः लोपः” इति वाक्यम् |
अभ्यासः
धातवः—
डुपचँष् = “डु” आदिर्ञिटुडवः इत्यनेन इत्-संज्ञा, हलन्त्यम् इत्यनेन षकारस्य इत्-संज्ञा, चकारोत्तरवर्ती अँकारः उपदेशेऽजनुनासिक इत् इत्यनेन इत्-संज्ञा, तस्य लोपः इत्येनेन सर्वेषां लोपः → पच् इति धातुः
लिखँ = उपदेशेऽजनुनासिक इत् इत्यनेन अँकारस्य इत्-संज्ञा → लिख् इति धातुः
डुकृञ् =
ञिमिदाँ =
गम्ऌँ =
दृशिँर्
जीवँ
युजिँर्
प्रत्ययाः—
णिच्
षाकन् =
जुस् =
टा =
शप् =
ङस् =
श्ना =
क्त =
ष्वुञ् =
ण्वुल् =
ख्युन् =
श्यन् =
ल्युट् =
तृच् =
ष्वुन् =
क्तिन् =
तव्यत् =
शानच् =
अनीयर् =
शतृँ =
णिनिँ =
क्लुकँन् =
अवधेयम्— यत्र प्रत्ययाः समानाः दृश्यन्ते, अनुबन्धैः ते भिद्यन्ते |
मूलधातूनां लौकिकरूपाणां सिद्ध्यर्थं कार्यद्वयं विचारणीयम् | धातुविज्ञानम् - १ इति पाठे अस्माभिः दृष्टं यत् अनुबन्धानां निष्कासनम् इति प्रथमं कार्यम् | इत्-संज्ञकवर्णानां निष्कासनानन्तरं सत्वं, नत्वं, नुमागमः, उपधादीर्घः—चेमानि सङ्गृहीततया द्वितीयं कार्यम् | एषु चतुर्षु किञ्चन सम्भवति वा इति अवश्यं चिन्तनीयम् | सम्भवति चेत्, इदं कार्यं कुर्मः; नो चेत् धातुः प्रक्रियार्थं सिद्धः | तर्हि इमानि चत्वारि कार्याणि कानि इति अस्मिन् करपत्रे अवलोकयाम |
१. सत्वम्
धात्वादेः षः सः (६.१.६३) = उपदेशावस्थायां धातोः आदौ षकारः अस्ति चेत्, षकारस्य स्थाने सकारादेशो भवति | धातोः आदिः, धात्वादिः षष्ठीतत्पुरुषः; तस्य धात्वादेः | धात्वादेः षष्ठ्यन्तं, षः षष्ठ्यन्तं, सः प्रथमान्तं, त्रिपदमिदं सूत्रम् | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— धात्वादेः षः सः उपदेशे |
वृत्तान्ते ष्वदँ आस्वादने इति धातुः | उपदेशेऽजनुनासिक इत् (१.३.२) इत्यनेन दकारोत्तरवर्तिनः अँकारस्य इत्-संज्ञा, तस्य लोपः इत्यनेन लोपश्च | ष्वदँ → ष्वद् | धात्वादेः षः सः (६.१.६३) इत्यनेन आदौ स्थितस्य षकारस्य स्थाने सकारादेशः, ष्वद् → स्वद् |
अन्यत् उदाहरणं, ष्ठा गतिनिवृत्तौ इति धातुः | यथासामान्यं, प्रथमं कार्यम् इत्-संज्ञकवर्णानां निष्कासनम् | ष्ठा-धातौ कोऽपि इत्-संज्ञकः वर्णः नास्ति, अतः प्रथमं सोपानं समाप्तं; साक्षात् द्वितीयं सोपानं गच्छेम— तत्र चतुर्षु कार्येषु सत्वस्य प्रसक्तिः | ष्ठा-धातोः आदौ षकारः अस्ति, अतः धात्वादेः षः सः (६.१.६३) इत्यनेन सूत्रेण षकारस्य स्थाने सकारः | ष्ठा → स्ठा |
अत्र कश्चन प्रसिद्धप्रवादो वर्तते— निमित्तापाये नैमित्तिकस्याप्यपायः | निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः | निमित्तम् इत्युक्ते कारणं, नैमित्तिकम् इत्युक्ते फलम्, अपायः इत्युक्ते अभावः | अत्र धेयं यत् यद्यपि ‘ष्ठा’ इत्येव अस्य धातोः मूलरूपं, किञ्च वस्तुतः यः ठकारः वर्तते, सः थकारः आसीत् | अष्टाध्याय्यां तादृशम् इङ्गितम् अस्ति; कथमिति अग्रे दृश्यताम् | ठकारस्य मूलस्वरूपं थकारः, किन्तु षकारस्य प्रभावेन (ष्टुत्व-सन्धिना) थकारः ठकारः जातः | तदा धात्वादेः षः सः (६.१.६३) इत्यनेन षकारस्य स्थाने सकारादेशः | षकारस्य कारणेन एव थकारः ठकारः जातः इत्युक्तम् | अधुना स च षकारः अपगतः; गतः इति कारणतः, तेन षकारेण कृतं यत् कार्यं, तत् पुनः निवर्तते | कारणं गतम्, अतः फलम् अपि गच्छति— येन निमित्तेन कार्यं कारितं, तन्निमित्तं (षकारः) नास्ति चेत्, यत् नैमित्तिकम् (ठकारः) अस्ति, तदपि न तिष्ठति | निमित्तापाये नैमित्तिकस्याप्यपायः— षकारः गतः, अतः ठकारः अपि गच्छति | ष्ठा → स्ठा → स्था इति धातुः निष्पन्नः |
तथैव यत्र धातुषु अनुनासिकः वर्गीयवर्णः (ङ्, ञ्, ण, म्) च अनुस्वारः च अस्ति, तत्र एते वर्णाः नकारजाः | नकारजः नाम नकारात् उत्पन्नः | वृत्तान्ते अञ्चु-धातुः, गतिपूजनयोः | मूलधातुः अञ्चु इत्येव, किन्तु तत्र ञकारस्य मूलस्वरूपं नकारः | चकारस्य योगेन एव सः नकारः ञकारः जातः | धातुषु एवं सर्वत्र बोध्यम् |
ष्णा शौचे इति धातुः | अत्र णकारस्य मूलस्वरूपं नकारः, किन्तु षकारस्य प्रभावेन (ष्टुत्व-सन्धिना) नकारः णकारः जातः | तदा धात्वादेः षः सः इत्यनेन ष्णा → स्णा | निमित्तापाये नैमित्तिकस्याप्यपायः इत्यनेन स्णा → स्ना इति लौकिकः धातुः | स्नाति इति लटि, स्नानम् इति ल्युटि |
अधुना एतत् सर्वं यदुक्तं, तत्तु विषयपरिचयत्वादुक्तं, भावार्थस्य सुखबोधार्थं दत्तं; निमित्तापाये नैमित्तिकस्याप्यपायः इति प्रसिद्धप्रवादस्त्वस्ति— बहुत्र च एतादृशी शिक्षा दीयते यत् ष्ठा, ष्णा इत्यादयः धातवः तथैव उपदेशात् लौकिकस्थितिं प्राप्नुवन्ति | किन्तु भाष्यकारः पतञ्जलिश्च, काशिकाकारौ वामनजयादित्यौ प्रतिपादयतः यत् अयं निमित्तापाये नैमित्तिकस्याप्यपायः इति तु न परिभाषा, न वा वार्त्तिकम्; अस्य प्रवादस्य एतस्मिन् विषये सामर्थ्यम् अधिकारो वा नास्ति | अतः शास्त्रीयाश्रयम् अवलम्ब्य प्रतिपादनं भवति चेत् वरं स्यात् | इति विचिन्त्य एतौ द्वौ मुनी एवं वार्तां स्पष्टीकुरुतः—
ष्ठा-धातोः उपदेशावस्थायां मूर्धन्य-षकारः अस्ति, परन्तु दन्त्य-थकारः अस्ति— ‘ष्था’ इति स्थितिः | अधुना युगपत् ष्टुना ष्टुः (८.४.४१) च धात्वादेः षः सः (६.१.६३) च आगत्य कार्यार्थम् उद्युक्तं भवति | ष्टुना ष्टुः (८.४.४१) इत्यनेन ष्था-धातौ विद्यमानस्य षकारस्य प्रभावेन थकारस्य स्थाने ठकारादेशः, अपि च धात्वादेः षः सः (६.१.६३) इत्यनेन औपदेशिकधातोः आदौ स्थितस्य षकारस्य स्थाने सकारादेशः | अस्यां दशायां द्वयोः सूत्रयोः मध्ये कस्य कार्यं प्रथमं प्रवर्तनीयम् इति प्रश्ने सति अस्माकं पाठे अग्रे वक्ष्यमाणेन पूर्वत्रासिद्धम् (८.२.१) इति सूत्रेण ष्टुना ष्टुः (८.४.४१) इति शास्त्रम् असिद्धं तस्य त्रिपाद्यां विद्यमानत्वात् | धात्वादेः षः सः (६.१.६३) इत्यनेन षकारस्य सकारादेशो भवति; तदा यतोहि तदानीं षकारो नास्त्येव, ष्टुना ष्टुः (८.४.४१) इत्यनेन यः ठकारादेशः भवति स्म, सः तु न भवति असङ्गत्वात् | दन्त्य-थकारः यथावत् तिष्ठति एव, दन्त्य-सकारस्तु जातः अतः लौकिकधातुः स्था इति सम्पन्नम् | अस्यां प्रक्रियायां थकारस्य ठकारः न कदापि भवति | अयं विषयः बाध्यबाधकभावस्य पाठे इतोऽपि स्पष्टं भविष्यति; अस्य अभावे निमित्तापाये नैमित्तिकस्याप्यपायः इति प्रवादः अत्र दत्तः |
प्रक्रियां दृष्ट्वा प्रश्नः उदेति, तर्हि किमर्थं धातुपाठे औपदेशिकधातुः ष्ठा इति दीयते ? कारणमिदं यत् औपदेशिकधातुः एव अपेक्षते चेत्, ष्टुत्वस्य अवसरो भवति | धात्वादेः षः सः (६.१.६३) इति सूत्रं प्रवर्तनीयं भवति यदा किमपि कार्यं करणीयं— यदा किमपि लौकिकरूपं सम्पादनीयं भवति | किन्तु औपदेशिकधातुः एव अपेक्षितं चेत्, तत्र मूर्धन्य-षकारः अस्त्येव, तदर्थं ष्टुना ष्टुः (८.४.४१) इत्यनेन ठकारादेशं करोति; अनेन ष्ठा इति धातुः जायते |
२. नत्वम्
णो नः (६.१.६४) = उपदेशावस्थायां धातोः आदौ णकारः अस्ति चेत्, णकारस्य स्थाने नकारादेशः भवति | णः षष्ठ्यन्तं, नः प्रथमान्तं, द्विपदमिदं सूत्रम् | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः, धात्वादेः षः सः (६.१.६३) इत्यस्मात् धात्वादेः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— धात्वादेः णः नः उपदेशे |
णटँ नृत्तौ इति धातुः | प्रथमम् उपदेशेऽजनुनासिक इत् (१.३.२) इत्यनेन अँकारस्य इत्-संज्ञा, तस्य लोपः (१.३.९) इत्यनेन लोपश्च | णटँ → णट् | णो नः (६.१.६४) इत्यनेन णट् → नट् इति लौकिकः धातुः | नटति लटि, नाटकः ण्वुलि, नटनम् ल्युटि |
अस्य महत्त्वं किम् इति चेत्, कार्यं कुत्रचित् अस्मिन् अवलम्ब्यते | यथा णत्व-विषये—
उपसर्गादसमासेऽपि णोपदेशस्य (८.४.१४) = उपसर्गस्थात् निमित्तात् परस्य णोपदेशस्य धातोः नस्य णः स्यात् समासे असमासे अपि | आधिक्येन नकारादि-धातवः यथा नी (नयति), नम् (नमति), नश् (नश्यति), एते धातवः वस्तुतः उपदेशे णकारादयः सन्ति | तदा णो नः (६.१.६४) इत्यनेन, लोके नकारादयः भवन्ति | यत्र एते धातवः उपसर्गपूर्वाः भवन्ति अपि च उपसर्गे णत्वस्य निमित्तं वर्तते— यथा परि + नी — तत्र यतोहि उपसर्गः पृथक् पदम् अस्ति, अतः रषाभ्यां नो णः समानपदे (८.४.१) इति णत्वविधायकसूत्रेण णत्वं न स्यात् | किन्तु उपसर्गादसमासेऽपि णोपदेशस्य (८.४.१४) इति सूत्रेण यत्र णोपदेश-धातुः उपसर्गपूर्वकः अस्ति अपि च उपसर्गे णत्वस्य निमित्तम् अस्ति, तत्र णत्वस्य निमित्तं समानपदे नास्ति चेदपि णत्वं भवति |
यथा समासे—
प्र + नी + ल्युट् → प्र + नयनम् → प्रणयनम्
परि + नामः → परिणामः
परि + नी + ण्वुल् → परिणायकः
परि + नम् + क्तिन् → परिणतिः
परि + नह् + क्त → परिणद्धम्
परि + नम् + घञ् → परिणामः
असमासे—
समासः सुबन्तानां भवति, न तु तिङन्तानाम् | अतः यत्र उपसर्गे णत्वस्य निमित्तम् अस्ति अपि च तेन सह तिङन्तपदस्य संयोजनं भवति, तत्र समासो नास्ति |
प्र + नदति → प्रणदति
णदँ-धातुः → अनुबन्धलोपानन्तरं णो नः (६.१.६४) इत्यनेन णत्वविधानम् → नद् → नद् + शप् + ति → नदति → प्र + नदति → उपसर्गादसमासेऽपि णोपदेशस्य (८.४.१४) इत्यनेन असमासे अपि उपसर्गस्थात् निमित्तात् णोपदेशस्य णत्वम् → प्रणदति
अन्यानि उदाहरणानि—प्रणमति, प्रणयति, परिणमति, परिणयति इत्यादीनि रूपाणि |
वस्तुतः एते धातवः उपदेशावस्थायां णमँ, णीञ्, णशँ, णहँ | एवम् एव ३५ णकारादि-धातवः सन्ति | केवलं अष्टौ धातवः उपदेशे नकारादयः सन्ति—नर्द्, नाद्, नाथ्, नाध्, नन्द्, नक्क्, नॄ, नृत् च | अतः प्रनर्दति, प्रनर्दितुम्, प्रनर्दकः—अत्र उपसर्गे णत्वस्य निमित्तम् अस्ति, परन्तु णत्वं न भवति |
धेयं यत् उपसर्गादसमासेऽपि णोपदेशस्य (८.४.१४) इत्यस्य अनुवृत्ति-सहितसूत्रम् अस्ति उपसर्गात् असमासे अपि णोपदेशस्य रषाभ्यां नः णः अट्कुप्वाङ्नुम्व्यवाये अपि संहितायाम् |
‘अट्कुप्वाङ्नुम्व्यवाये अपि’ इत्यनेन एतान् वर्णान् वर्जयित्वा निमित्तस्य उद्देश्यस्य च मध्ये अन्यः कोऽपि वर्णः भवति चेत् स च वर्णः णत्वं प्रति व्यवधानम् |
यथा—
प्र + नि + नदति → प्रणिनदति
अत्र प्र-उपसर्गे स्थितस्य रेफस्य प्रभावेन नि-उपसर्गस्थितस्य नकारस्य णत्वं भवति, परन्तु स च नि-उपसर्गस्थितः नकारः, नदति-पदस्य नकारं प्रति णत्वव्यवधानम् | यतोहि मध्ये स्थितः नकारः अट्कुप्वाङ्नुमः (अट्, कवर्गः, पवर्गः, आङ्, नुम्) इत्येषु नास्ति |
(प्रणिनदति इति पदे नि-उपसर्गे स्थितस्य नकारस्य णत्वं भवति ८.४.१७ इति सूत्रेण | तस्य च व्याख्या अत्र नावश्यकी |)
अग्रिमोदाहरणं णिदिँ इति धातुः | प्रथमम् उपदेशेऽजनुनासिक इत् (१.३.२) इत्यनेन इकारस्य इत्-संज्ञा, तस्य लोपः (१.३.९) इत्यनेन लोपश्च | णिदिँ → णिद् | णो नः (६.१.६४) इत्यनेन णिद् → निद् | अधुना नुमागमः (अधः दृश्यताम्) निद् → निन्द् इति लौकिक-धातुः |
३. नुमागमः
इदितो नुम् धातोः (७.१.५८) = इदितः धातोः नुम् आगमो भवति | इदित् इत्युक्ते इत् इत् यस्य सः | तत्र प्रथमः इत् नाम ह्रस्वः इकारः* | द्वितीयः इत् नाम इत्-संज्ञा | ह्रस्व-इकारस्य इत्-संज्ञा यस्य, सः धातुः इदित् | इत् इत् यस्य स इदित् बहुव्रीहिः, तस्य इदितः | इदितः षष्ठ्यन्तं, नुम् प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— इदितः धातोः नुम् |
तर्हि यः धातुः इदित् अस्ति, तस्य नुमागमः भवति इति इदं सूत्रं सूचयति | बहवः इदितः धातवः सन्ति; यत्र कुत्रापि धातौ ह्रस्व-इकारस्य इत्-संज्ञा भवति, तस्मिन् धातौ नुम्-आगमः भवति एव | सः धातुः इदित् अस्ति, अतः नुमागमः |
यथा णिदिँ → णिद् | णो नः (६.१.६४) इत्यनेन णिद् → निद् | अयं धातुः इदित्, नाम ह्रस्वः इकारः इत्-संज्ञकः यस्य सः | निद्-धातोः इत् इत् अस्ति इति कारणेन नुमागमः | अधुना निद् धातौ नुम् कुत्र आयाति ? नुम्-आगमः मित्, अतः अयं नकारः धातोः अन्तिमस्वरात् परे आयाति इति अग्रिमं सूत्रं वक्ति |
नुँम् इति आगमे हलन्त्यम् (१.३.३) इत्यनेन मकारस्य इत्-संज्ञा, उपदेशेऽजनुनासिक इत् (१.३.२) इत्यनेन उकारस्य इत्-संज्ञा, न् इति अवशिष्यते |
मिदचोऽन्त्यात्परः (१.१.४७) = यः मित् अस्ति, सः अच्-वर्णेषु अन्त्यात् परः आयाति, अपि च अयं मित् यस्य वर्ण-समुदायस्य, तस्य अन्तिमावयवो भवति | म् इत् यस्य सः मित्, बहुव्रीहिः | मित् प्रथमान्तम्, अचः षष्ठ्यन्तम्, अन्त्यात् पञ्चम्यन्तम्, परः प्रथमान्तम्, अनेकपदमिदं सूत्रम् | आद्यन्तौ टकितौ (१.१.४६) इत्यस्मात् अन्तः इत्यस्य अनुवृत्तिः | अस्मिन् सूत्रे ‘अचः’ षष्ठीविभक्तौ; “अचः अन्त्यात्” इत्यस्य अर्थः निर्धारणम्— नाम “सर्वेषु स्वरेषु अन्तिमः, तस्मात्” | अत्र अचः एकवचने यतोहि अनेन अच्-जातिः इति इष्टम् | आशयः बहुवचनं, निर्धारण-सप्तमी (बहुषु एकम्) | जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् (१.२.५८) = जाति-आख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् | तर्हि ‘अचः’ एकवचने चेदपि सार्वत्रिक-बहुवचनार्थकः | इत्थञ्च षष्ठीविभक्तेः अर्थः ‘स्थाने’ इति न; षष्ठी स्थानेयोगा (१.१.४९) इति सामान्यम्, इदं सूत्रं विशेषः | अनुवृत्ति-सहितसूत्रम्— मित् अचः अन्त्यात् परः अन्तः |
अस्मिन् सूत्रे नुमागमः “यस्य वर्ण-समुदायस्य आगमः, तस्य अन्तिमावयवो भवति”, इत्युक्तम् | अस्य अर्थः कः इति स्पष्टं भवति सुबन्तप्रकरणे | ज्ञान-शब्दः बहुवचने ‘ज्ञानानि’ भवति | ज्ञान + इ [शि-प्रत्ययः, लशक्वतद्धिते (१.३.८) इत्यनेन ‘इ’ अवशिष्यते] → मिदचोऽन्त्यात्परः (१.१.४७) इत्यनेन नुमागमः → ज्ञान + न् + इ → अयं नकारः ज्ञान इति अङ्गस्य वर्ण-समुदायस्य अन्तिमावयवः इति कारणेन सर्वनामस्थाने चासम्बुद्धौ (६.४.८) इत्यनेन अङ्गस्य उपधायाः दीर्घः → ज्ञानान् + इ → ज्ञानानि | यदि नकारः ज्ञान इति अङ्गस्य अन्तिमावयवः नाभविष्यत्, अकारः उपधायां नाभविष्यत्, सर्वनामस्थाने चासम्बुद्धौ (६.४.८) इत्यनेन अकारस्य दीर्घादेशः च नाभविष्यत् |
(प्रश्नः— अत्रोक्तं “ज्ञान + इ [शि-प्रत्ययः]” | केचन श्रुतवन्तः स्युः यत् सुबन्तविषये प्रत्ययाः भवन्ति सु, औ, जस् इत्यादयः | तर्हि प्रथमाविभक्तौ बहुवचने ‘जस्’ इति प्रत्ययः भवेत् किल; कथं वा ‘शि’ इति जातम् ? उत्तरम् अस्ति यत् मूलप्रत्ययाः सु, औ, जस् इति तु सत्यम् | किन्तु अनन्तरं प्रत्ययादेशाः भवन्ति, इत्युक्ते मूलप्रत्ययानां स्थाने आदेशाः भवन्ति | सुबन्तविषये लिङ्गम् अनुसृत्य, कुत्रचित् प्रातिपदिकस्य अन्तिमवर्णम् अनुसृत्य च आदेशाः भिद्यन्ते | नपुंसकलिङ्गे जश्शसोः शिः (७.१.२०) इत्यनेन नपुंसकात् अङ्गात् जस्-स्थाने शि-आदेशः | अनेन नपुंसकलिङ्गे, प्रथमाविभक्तौ बहुवचने इकारः आयाति—वनानि, वारीणि, मधूनि, जगन्ति, कर्माणि, धनूंषि, मनांसि |)
तर्हि नुम्-आगमः मित् अस्ति (मकारः इत् यस्य सः), अतः नुम् अचः अन्त्यात् परः आयाति |
णिदिँ → निद्-धातौ नकारोत्तरवर्ती इकारः अन्तिमः अच्, अतः तस्मात् परे नुम् आयाति | तर्हि नि-न्-द् इति स्थितिः, निन्द् इति धातुः निष्पन्नः |
तथैव मदिँ → मन्द्, वदिँ → वन्द्, भदिँ → भन्द्, चदिँ → चन्द्, ग्लदिँ → ग्लन्द् | परन्तु त्रपिँ → त्रम्प् |
त्रम्प् इत्यस्मिन् किमर्थं मकारः न तु नकारः ? वस्तुतः नकारः आयाति एव; तदा नकारस्थाने अनुस्वारः, अनुस्वारस्थाने तत्तत् वर्गीयः अनुनासिकवर्णः आयाति |
यथा—
वदिँ → वद् → वन्द् → वंद् → वन्द्
वदिँ → वद् ** उपदेशेऽजनुनासिक इत्**
वद् → वन्द् ** इदितो नुम् धातोः**
वन्द् → वंद् ** नश्चापदान्तस्य झलि**
वंद् → वन्द् ** अनुस्वारस्य ययि परसवर्णः**
लाछिँ → लाछ् → लान्छ् → लांछ् → लाञ्छ्
कपिँ → कप् → कन्प् → कंप् → कम्प्
लबिँ → लब् → लन्ब् → लंब् → लम्ब्
नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | मोऽनुस्वारः (८.३.२३) इत्यस्मात् मः, अनुस्वारः इत्यनयोः अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |
अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनुस्वारस्य ययि परसवर्णः संहितायाम् |
परसवर्णः इत्युक्ते अनुस्वारोत्तरः यः वर्णः, तस्य सवर्णः | सवर्णः नाम अनुस्वारोत्तरवर्ती यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते | अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु | परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः ? स्थानेऽन्तरतमः (१.१.५०) सूचयति यत् यस्य स्थाने आदेशो भवति तस्य अन्तरतमो नाम सदृश आदिष्टो भवतु | वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदस्यः एव | अतः स्थानेऽन्तरतमः इत्यस्य साहाय्येन अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमादेशो भवति | नाम क, ख, ग, घ इत्येषु कश्चन परे अस्ति चेत्, अनुस्वारस्य स्थाने ङकारादेशः | तथैव च, छ, ज, झ इत्येषु कश्चन परे अस्ति चेत्, ञकारादेशः; टवर्गीयः अस्ति चेत् णकारादेशः; पवर्गीयः अस्ति चेत् मकारादेशः | यथा—अंग → अङ्ग, मंच → मञ्च, मंता → मन्ता |
अनुस्वारस्य ययि परसवर्णः (८.४.५८) इति सूत्रेण अनुस्वारस्य वर्गीयव्यञ्जनेषु परेषु तत्तद्वर्गस्य पञ्चमो वर्णादेशो भवति | यकारः, वकारः, लकारश्चापि यय्-प्रत्याहारे सन्ति, किन्तु वर्गीयव्यञ्जनानि न; तेषां का गतिः ? यवले परे तु य्ँ, व्ँ, ल्ँ इत्यादेशो भवति, इति बोध्यम् |
मोऽनुस्वारः (८.३.२३) = पदान्तस्य मकारस्य स्थाने अनुस्वारादेशः भवति हलि परे | मः षष्ठ्यन्त्म्, अनुस्वारः प्रथमान्तं, द्विपदमिदं सूत्रम् | हलि सर्वेषाम् (८.३.२२) इत्यस्मात् हलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— पदस्य मः अनुस्वारः हलि संहितायाम् |
गृहम् + च → गृहं च
वा पदान्तस्य (८.४.५९) = पदान्तस्य अनुस्वारस्य परसवर्णादेशो वा भवति ययि परे | अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यस्य बाधकसूत्रम्; अनेन पदान्ते परसवर्णादेशः वैकल्पिकः न तु नित्यः | वा अव्ययपदं, पदान्तस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् |
अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यस्य पूर्णतया अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— पदान्तस्य अनुस्वारस्य वा परसवर्णः ययि संहितायाम् |
सं + यमः → सय्ँयमः / संयमः
सं + वत्सरः → सव्ँवत्सरः / संवत्सरः
सं + लापः → सल्ँलापः / संलापः
अधुना अनुस्वारात् परे रेफः अस्ति चेत् का गतिः ? रेफः यय्-प्रत्याहारे अन्तर्भूतः अतः तस्य अनुस्वारस्य ययि परसवर्णः (८.४.५८) इति सूत्रेण परसवर्णादेशः स्यात् | किन्तु वस्तुस्थितिः भिन्ना | रेफस्य कोऽपि सवर्णः नास्ति, “रेफोष्मणां सवर्णा न सन्ति” इति भाष्यम् | अतः अनुस्वारात् परे रेफोऽस्ति चेत्, किमपि कार्यं नास्ति; यथावत् तिष्ठति |
धेयम्— यय्-प्रत्याहारः सूचयति यत् श्, ष्, स्, ह् एषु अन्यतमः परे अस्ति चेत्, अनुस्वारस्य परसवर्णादेशो नैव भवति | यथा—रंस्यते = रंस्यते, नंस्यति = नंस्यति, संगंस्यते = संगंस्यते |
प्रश्नः उदेति— यदि वदिँ-धातौ नकारादेशः भवति एव, तर्हि किमर्थं वन्द् मूलधातुः न स्यात् ? तथैव यदि लबि मकारः आयाति एव, तर्हि किमर्थं लम्ब् इत्येव मूलधातुः न स्यात् ? उत्तरम् अस्ति यत् तत्र कतिचन कार्याणि सन्ति | यथा अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन यः धातुः इदित् नास्ति, तस्य धातोः उपधायां स्थितस्य नकारस्य लोपः स्यात् किति ङिति परे | परन्तु इदित् चेत् अस्माभिः यः नकारः आनीतः, तस्य नकारस्य लोपः कस्यामपि दशायां न भवति | साक्षात् आरम्भतः नकारः अस्ति चेत्, तस्य लोपः किति ङिति च भवति | यथा बन्ध-धातौ नकारः उपस्थितः मूलधातौ, अतः किति ङिति परे नकारलोपः | ल्युटि “बन्धनं” (नकारः उपस्थितः यतोहि ल्युट् प्रत्ययः कित् अपि नास्ति, ङित् अपि नास्ति); परन्तु क्तान्तरूपं “बद्ध” (नकारलोपः यतोहि क्त प्रत्ययः कित् अस्ति) | वदिँ धातोः इदितो नुम् धातोः इत्यनेन नुम् आगमः → वन्द् | अस्य नकारस्य लोपः किति ङिति न भवति— यथा क्तान्तरूपं वन्दितः |
*तपरस्तत्कालस्य (१.१.७०) = तकारात् परः यः, तकारः परः यस्मात्, द्वयोः अपि समकालस्य बोधकः | तात्परः तपरः पञ्चमीतत्पुरुषः, तः परो यस्मात् सः तपरः, बहुव्रीहिः— द्वावपि अर्थौ | तस्य कालः तत्कालः (तस्य काल इव कालः यस्य स तत्कालः) षष्ठीतत्पुरुषगर्भः बहुव्रीहिः | तस्य तत्कालस्य | तपरः प्रथमान्तम्, तत्कालस्य षष्ठ्यन्तम्, द्विपदमिदं सूत्रम् | स्वं रूपं शब्दस्याशब्दसंज्ञा (१.१.६८) इत्यस्मात् स्वं रूपम् इत्यनयोः अनुवृत्तिः | अणुदित्सवर्णस्य चाप्रत्ययः (१.१.६९) इत्यस्मात् सवर्णस्य इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— तपरः तत्कालस्य स्वस्य रूपस्य सवर्णस्य |
वर्णः ह्रस्वः भवतु, दीर्घः भवतु, तकारात् पूर्वं भवतु, तकारात् परं भवतु; यः वर्णः अनेन तकारेण संयुक्तो भवति, सः तत्कालस्य एव प्रतिनिधिः | अदेङ् गुणः (१.१.२) अस्य उदाहरणम् | अनेन अकारः अत् अतः ह्रस्व-अकारस्य एव प्रतिनिधिः; एङ्-प्रत्याहारः तकारात् परः अतः दीर्घ-वर्णानाम् एव प्रतिनिधिः न तु प्लुतानाम् |
यस्मात् ह्रस्व-अचः परे तकारः संयुज्यते, सः अच् केवलं ह्रस्वस्य प्रतिनिधिः— न तु दीर्घस्य प्लुतस्य वा | यथा इत् = ह्रस्वः इकारः, अत् = ह्रस्वः अकारः, उत् = ह्रस्वः उकारः | अतः ह्रस्वम् अकारं बोधयितुम् अत् इति वदामः | नो चेत् व्याकरणे यदा “अकारः” इति वदामः, तदा सः अकारः अकारस्य, आकारस्य, अपि च आ३कारस्य प्रतिनिधिः | अतः माहेश्वरसूत्रेषु केवलम् “अ, इ, उ” इत्यादयः ह्रस्ववर्णाः लिखिताः | ते वर्णाः ह्रस्वस्य, दीर्घस्य, प्लुतस्य च प्रतिनिधयः | दृष्टान्ते “अतः स्थाने इत् भवतु” अपि च “अकारस्य स्थाने इकारः भवतु”, द्वयोः वाक्ययोः समानार्थः नास्ति | अकारः इति कथनेन अष्टादश प्रकारकः अकारः गृह्यते (ह्रस्वः उदात्तः/अनुदात्तः/स्वरितः, अनुनासिकः/अननुनासिकः; दीर्घः उदात्तः/अनुदात्तः/स्वरितः, अनुनासिकः/अननुनासिकः; प्लुतः उदात्तः/अनुदात्तः/स्वरितः, अनुनासिकः/अननुनासिकः इत्यनेन अष्टादश भेदाः) | किन्तु तपरं स्वीकृत्य यत्र “अत्” उच्चार्यते, तत्र निश्चयेन केवलं षट् प्रकारकः ह्रस्वः अकारः गृह्यते | तदर्थं तपरः क्रियते— तः परो यस्मात् सः तपरः | व्याकरणे “तपरकरणम्” इत्युच्यते |
षट् प्रकारकः ह्रस्वः अकारः इयुक्ते ह्रस्व-उदात्त-अनुनासिकः, ह्रस्व-उदात्त-अननुनासिकः, ह्रस्व-अनुदात्त-अनुनासिकः, ह्रस्व-अनुदात्त-अननुनासिकः, ह्रस्व-स्वरित-अनुनासिकः, ह्रस्व-स्वरित-अननुनासिकः | अस्माकं कृते “अत्” इत्युक्ते ह्रस्वः अकारः इति चिन्त्यताम् |
४. उपधादीर्घः
उपधायां च (८.२.७८) = धातोः उपधाभूतयोः रेफवकारयोः हल्परयोः इकः दीर्घः स्यात् | हलन्तधातूनाम् उपधायां रेफः वा वकारः वा अस्ति चेत्, तयोः वर्णयोः पूर्वम् इकः दीर्घः भवति | इक् = इ, उ, ऋ, ऌ | उपधायां सप्तम्यन्तं, चाव्ययम् | सिपि धातो रुर्वा (८.२.७४) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः, र्वोरुपधाया दीर्घः इकः (८.२.७६) इत्यस्मात् र्वोः, इकः, दीर्घः इत्येषाम् अनुवृत्तिः, हलि च (८.२.७७) इत्यस्मात् हलि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— धातोः र्वोः उपधायां च इकः दीर्घः हलि |
कुर्दँ (कुर्द +ँ) → कुर्द् ** उपदेशेऽजनुनासिक इत्**
कुर्द् → कूर्द् ** उपधायां च**
तथैव
खुर्दँ → खूर्द्, गुर्दँ → गूर्द् |
अलोऽन्त्यात्पूर्व उपधा (१.१.६५) = वर्णानां समुदाये यः अन्तिमः वर्णः, तस्मात् पूर्वं यः वर्णः अस्य उपधासंज्ञा स्यात् | अलः पञ्चम्यन्तम्, अन्त्यात् पञ्चम्यन्तं, पूर्वः प्रथमान्तम्, उपधा प्रथमान्तम्, अनेकपदमिदं सूत्रम् | अल्-प्रत्याहारे सर्वेऽपि वर्णाः अन्तर्भूताः (अच् + हल् = अल्) | सूत्रं स्वयं सम्पूर्णम्— अन्त्यात् अलः पूर्वः उपधा |
प्रश्नः उदीयेत— रेफः इत्युक्ते कः वर्णः, यः रकारः उपरि उपविष्टः, अथवा सर्वे रकाराः ? उत्तरम्— सर्वे रकाराः एव | रेफः नाम “रात् इफः” | इफः कश्चन प्रत्ययः | र + इफः = रेफः |
अवधेयम्— उपदेशेऽजनुनासिक इत् (१.३.२) इति सूत्रेण सर्वेषाम् अजन्तानां मूलधातूनाम् अन्तिमस्य अचः इत्-संज्ञा न भवति | तदा एव इत्-संज्ञा भवति यदा सः अच् अनुनासिकः अस्ति | यथा लिखँ, पठँ इत्यादयः धातवः | किन्तु भू, नी इत्यादिषु अजन्तधातुषु अन्तिमः अच्-वर्णः अनुनासिकः नास्ति अतः तत्रत्यानाम् अच्-वर्णानाम् इत्-संज्ञा न भवति | परन्तु “हलन्त्यम्” इति सूत्रेण सर्वेषां हलन्तमूलधातूनाम् अन्तिमस्य हलः इत्-संज्ञा भवति एव |
अभ्यासः
अधः उपदेशावस्थायां मूलधातवः प्रदर्शिताः | तेषां लौकिक-रूपाणि कानि अपि च कैः सूत्रैः प्राप्तानि इति वक्तव्यम् |
अगिँ, घट्टँ, भ्रेजृँ, चन्चुँ, टिकृँ, शलँ, इण्, गुजिँ, शीङ्, द्रै, णमँ, छुरँ, णुदँ, शुभँ, षुरँ, कठिँ, विद्ऌँ, षिलँ, णिलँ, इलँ, क्लिशँ, णीलँ, ष्टकँ, खुर्द (खुर्दँ), पृषुँ, णखँ, रगेँ, प्लुङ्, षु, ध्रु, चक्कँ, बधँ, टुनदिँ, युच्छँ
पाणिनीयशास्त्रम् अनुबन्धान् आश्रित्य, स्वरांश्च आश्रित्य प्रवर्तते | एतयोः ज्ञानम् अन्तरा पाणिनीयशास्त्रस्य अवगतिः न भवति | धातुषु प्रत्ययेषु च के अनुबन्धाः, अपि च धातुषु स्वरः कीदृशः (उदात्तः, अनुदात्तः, स्वरितो वा)—इदं सर्वम् आश्रित्य एव पाणिनीयशास्त्रं प्रवर्तते |
एतावता मूलधातौ निबन्धाः के के अपि च कैः कैः सूत्रैः इत्-संज्ञकाः वर्णाः विहिताः, इति अस्माभिः अधीतम् | तत्परं सत्वम्, नत्वम्, नुमागमः, उपधादीर्घः इत्येभिः कार्यैः परिपक्वो लौकिक-धातुः कथं जायते इत्यपि अवलोकितम् |
आहत्य एषु सर्वेषु कार्येषु, स्वराणां कृते एकं विशिष्टं ज्ञानम् अस्माभिः प्राप्तम्—अनुनासिकज्ञानम् इति | धातुषु अनुनासिकज्ञानेन एव अचाम् इत्-संज्ञा सम्भवति | अधुना तदाधारेण अग्रिमः सिद्धान्तः—स्वरविज्ञानेन पदव्यवस्था अपि च सेट्-अनिट्-व्यवस्था ज्ञायते | तर्हि धातुपाठे प्रथमप्रमुखविषयः लौकिक-धातुः कथं सञ्जायते इति; स च अस्माभिः परिशीलितः | अधुना द्वितीयप्रमुखविषयः—स्वरविज्ञानम् | तस्मिन् उपविषयद्वयम्—पदव्यवस्था इड्व्यवस्था च |
स्वरविज्ञानम्
इत्-संज्ञकेन अच्-वर्णेन धातुः किंपदी इति निर्णयः क्रियते, अपि च अनुबन्धलोपानन्तरम् अवशिष्टस्वरेण निर्णयः क्रियते अयं धातुः सेट् अनिट् वा इति |
१. स्वरः इत्-संज्ञकः चेत्, तर्हि तस्य अनुदात्त/उदात्त/स्वरित इत्येभिः वर्गैः पदव्यवस्था ज्ञायते |
२. स्वरः इत्-संज्ञकः नास्ति चेत्, तर्हि तस्य अनुदात्त/उदात्त/स्वरित इत्येभिः वर्गैः इड्व्यवस्था ज्ञायते |
सम्प्रति अनुदात्त/उदात्त/स्वरित इत्येतानि चिह्नानि कथम् अभिज्ञातुं शक्नुमः इत्यवलोकयाम |
स्वरचिह्नानि
रक्षँ इत्यस्मिन् धातौ ँ इति चिह्नम् अचः अनुनासिकत्वं सूचयति | यथा डुपचँष् पाके, खनुँ अवदारणे, भजँ सेवायाम्, वचँ परिभाषणे, आसँ उपवेशने | एवं च ँ इत्यनेन चिह्नेन अङ्कितः अच् वर्णः अनुनासिकः भवति |
धातुषु अचः अधस्तात् या रेखा दृश्यते (यथा “अ॒” इति), सा रेखा अचः अनुदात्तत्वं सूचयति | आसँ॒ उपवेशने इत्यस्मिन् धातौ, सकारोत्तरवर्ती यः अकारः अस्ति, सः अकारः अनुदात्तः इति अधःस्थं चिह्नं सूचयति | धातुषु अचः उपरिष्टात् या रेखा दृश्यते (यथा “अ॑” इति), तया अचः स्वरितत्वं सूच्यते | यथा डुपच॑ष्* पाके इत्यस्मिन् धातौ, चकारोत्तरवर्ती यः अकारः अस्ति, सः अकारः स्वरितः इति उपरिस्थं चिह्नं सूचयति |
(*मम सङ्गणके ॑ ँ इत्यनयोः द्वयोः चिह्नयोः स्थलं साक्षात् स्वरस्य उपरि, अतः तयोः सहवासः समीचीनं न दृश्यते (आँ॑) | अतः अत्र यद्यपि उभयम् अपेक्षते, तथापि केवलं ॑ स्थापितम्; ँ न स्थापितम् |)
तर्हि उपरि चिह्नम् अस्ति चेत् स्वरः स्वरितः, अधः चिह्नम् अस्ति चेत्, अनुदात्तः | उपरि अपि नास्ति, अधः अपि नास्ति, तर्हि सः स्वरः उदात्तः | यथा व॒सँ-धातौ वकारोत्तरवर्ती यः अकारः अस्ति, तस्य अधः चिह्नम् अस्ति अतः सः अकारः अनुदात्तः | परन्तु शिषँ-धातौ शकारोत्तरवर्ती यः इकारः अस्ति, तस्य उपरि अपि अधः अपि चिह्नं नास्ति, अतः सः इकारः उदात्तः |
बहुत्र अनुदात्तः स्वरः अनुनासिकः अपि अस्ति, नाम चिह्नद्वयं अस्ति (अँ॒) | तथैव बहुत्र स्वरितः स्वरः अनुनासिकः अपि अस्ति, चिह्नद्वयसहितः इति (अँ॑) | परन्तु अनुदात्तः सर्वथा अनुनासिकः, अथवा स्वरितः सर्वथा अनुनासिकः, इति नियमः नास्ति एव | कदाचित् भवितुम् अर्हति, कदाचित् नाऽपि भवितुम् अर्हति |
एषां त्रयाणां संज्ञकस्वराणाम् उच्चारणभेदाः | उच्चैरुदात्तः (१.२.२९) इत्यनेन उदात्तः नाम ध्वनिः उपरि दिशि गच्छति | नीचैरनुदात्तः (१.२.३०) इत्यनेन अनुदात्तः नाम ध्वनिः अधो दिशि गच्छति | समाहारः स्वरितः (१.२.३१) इत्यनेन स्वरितः नाम ध्वनिः न उपरि न वा अधः | तर्हि उच्चारणभेदाः सन्ति, परन्तु इदानींतनकाले व्याकरणक्षेत्रे एतादृशः अभ्यासः प्रायः लुप्तः |
अधुना पाणिनीयधातुपाठे पदव्यवस्थाम् अवलोकयाम; अनन्तरम् इड्व्यवस्था दृश्यताम् |
I. पदव्यवस्था
पदव्यवस्था इत्युक्ते धातुः परस्मैपदिधातुः वा, आत्मनेपदिधातुः वा, उभयपदिधातुः वा, इत्यस्य बोधः |
अस्माभिः पूर्वमेव दृष्टं यत् धातुषु अनुनासिकः अच् इत्-संज्ञां प्रयोजयति | इत्-संज्ञां प्रयोजयति नाम अनुनासिकस्वरेण इत्-संज्ञा सूच्यते, इत्यर्थः | अस्य एव इत्-संज्ञकस्य स्वरस्य अनुदात्तत्वम्, उदात्तत्वं, स्वरितत्वं च पदव्यवस्थां सूचयति | तर्हि इत्-संज्ञकेन स्वरेण पदव्यवस्था ज्ञायते—कथम् इति पश्येम | यथा एधँ॒ वृद्धौ | धकारोत्तरवर्ती यः अकारः अस्ति, सः अनुनासिकः अस्ति | अनुनासिकः अतः इत्-संज्ञकः | अधस्थात् चिह्नम् अस्ति अतः अनुदात्तः अपि अस्ति | अनुनासिकः अकारः अनुदात्तः अपि अस्ति, अतः एधँ॒ धातुः आत्मनेपदी | किमर्थम् इति चेत्, अग्रे सरेम |
a. आत्मनेपदत्वम्
अनुदात्तङित आत्मनेपदम् (१.३.१२) = यस्य धातोः अनुदात्तस्वरस्य ङकारस्य च इत्-संज्ञा भवति, सः धातुः आत्मनेपदी | अनुदात्तश्च ङ् च अनुदात्तङौ, तौ इतौ यस्य सः अनुदात्तङित् द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात् अनुदात्तङितः | अनुदात्तङितः पञ्चम्यन्तम्, आत्मनेपदं प्रथमान्तम्, द्विपदमिदं सूत्रम् | भूवादयो धातवः (१.३.१) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | टीकाकाराः सूचयन्ति यत् लस्य इति पदम् आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः आत्मनेपदम् इत्यस्मिन् | अनुवृत्ति-सहितसूत्रम्— अनुदात्तङितः धातोः लस्य आत्मनेपदम् |
‘अनुदात्तेत्’ नाम अनुदात्तः इत् यस्य सः (धातुः) | अनुदात्तेद्भ्यः धातुभ्यः ङिद्भ्यः धातुभ्यः च आत्मनेपदसंज्ञकाः प्रत्ययाः विधीयन्ते इति सूत्रार्थः | तर्हि यः धातुः अनुदात्तेत् भवति अथवा ङित् भवति, सः आत्मनेपदिधातुः अस्ति |
यथा उपर्युक्ते एधँ॒-धातौ अनुनासिकः (नाम इत्-संज्ञकः) अकारः अनुदात्तः अपि अस्ति, अतः एधँ॒-धातुः अनुदात्तेत् अस्ति, अतः आत्मनेपदी | तर्हि एधते इति लटि—न तु एधति | कम्पँ॒ धातुः अपि ईदृशः, अनुदात्तेत् | अतः आत्मनेपदी, कम्पते इति लटि |
धातुः अनुदात्तेत् अस्ति चेत्, आत्मनेपदी | धातुः ङित् अस्ति चेदपि तथैव, आत्मनेपदी | शीङ् स्वप्ने इति धातुः ङित्, अतः सोऽपि आत्मनेपदी | शेते इति लटि | डीङ् विहायसा (वायौ) गतौ इति धातुः ङित्, अतः आत्मनेपदी, डयते इति | तर्हि अनुदात्तस्य स्वरस्य इत्-संज्ञा-कारणेन अथवा ङकारस्य इत्-संज्ञा-कारणेन धातुः आत्मनेपदी भवति |
b. उभयपदत्वम्
स्वरितञितः कर्त्रभिप्राये क्रियाफले (१.३.७२) = यस्य धातोः स्वरितस्वरस्य ञकारस्य च इत्-संज्ञा भवति, तस्य क्रियायाः फलं कर्तुः अस्ति चेत् धातुतः आत्मनेपदतिङ्प्रत्ययाः विहिताः; क्रियायाः फलं कर्तुः नास्ति चेत् धातुतः परस्मैपदतिङ्प्रत्ययाः विहिताः भवन्ति | नाम एतादृशः धातुः उभयपदी, इति सारांशः | स्वरितश्च ञ् च स्वरितञौ, तौ इतौ यस्य स स्वरितञित्, द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात् स्वरितञितः | कर्तारम् अभिप्रैति इति कर्त्रभिप्रायम् (फलम्) उपपद-तत्पुरुषः (यथा कुम्भकारः), तस्मिन् कर्त्रभिप्राये | क्रियायाः फलं क्रियाफलं षष्ठी-तत्पुरुषः, तस्मिन् क्रियाफले | स्वरितञितः पञ्चम्यन्तम्, कर्त्रभिप्राये सप्तम्यन्तम्, क्रियाफले सप्तम्यन्तम्, त्रिपदमिदं सूत्रम् | भूवादयो धातवः (१.३.१) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | लस्य इति पदम् आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः आत्मनेपदम् इत्यस्मिन् | अनुवृत्ति-सहितसूत्रम्— स्वरितञितः धातोः कर्त्रभिप्राये क्रियाफले लस्य आत्मनेपदम् |
धातुः यदि स्वरितेत् अस्ति (स्वरितः इत् यस्य सः) अथवा ञित् अस्ति, तर्हि धातुः उभयपदी भवति | यथा डुपचँ॑ष् पाके | अत्र चकारोत्तरवर्ती यः अकारः अस्ति, सः स्वरितः अस्ति, इत्-संज्ञकश्च | अतः धातुः स्वरितेत् अस्ति, उभयपदी च— लटि पचति, पचते |
प्राचीनकाले स्वरविज्ञानम् आसीत्, अतः तदाधारेण पदव्यवस्था ज्ञायते स्म | इदानींतनकाले डुपचँ॑ष्-धातुः उभयपदी अस्ति इति जानीमः; अपि च ञित् नास्ति, अतः स्वरितेत् स्यात् इति अनुमानं कुर्मः | एवम् ऊहां कृत्वा एव अद्यत्वे धातुपाठे एतादृशानि चिह्नानि कैश्चित् योजितानि | यथा अनुनासिकचिह्नानि न वर्तन्ते सामान्यधातुग्रन्थेषु, तथैव अनुदात्तस्वरितचिह्नानि अपि ग्रन्थेषु सामान्यतया न लभ्यन्ते | किन्तु केचन ऊहां कृत्वा स्थापितवन्तः; तेषु दीक्षितपुष्पा माता अस्मिन् क्षेत्रे नायिका |
अन्यत् उदाहरणं पश्येम, ञितः इति | डुकृञ् धातुः ञित् अस्ति | ञित् अतः अनेन सूत्रेण उभयपदी अस्ति— लटि करोति, कुरुते | वे॒ञ्, ह्वे॒ञ्, व्ये॒ञ् अपि उभयपदिनः |
उपर्युक्तयोः सूत्रयोः ज्ञानेन के के परस्मैपदिधातवः सन्ति इति अपि अवगम्यते | यः कोऽपि धातुः ङित् अपि नास्ति, अनुदात्तेत् अपि नास्ति, ञित् अपि नास्ति, स्वरितेत् अपि नास्ति, सः धातुः परस्मैपदी एव | धातुः उदात्तेत् अस्ति चेत्, परस्मैपदी | किन्तु उदात्तेत् नास्ति चेदपि, यदि ङित्, अनुदात्तेत्, ञित्, स्वरितेत् नास्ति, तर्हि सः धातुः परस्मैपदी एव | यथा रिषँ, गै॒, मुजँ, खुजुँ, णशँ, एते सर्वे धातवः अपि परस्मैपदिनः | परस्मैपदिधातूनां कृते पृथक् सूत्रम् अपि अस्ति | तच्च अग्रे दत्तम् अस्ति—
c. परस्मैपदत्वम्
शेषात्कर्तरि परस्मैपदम् (१.३.७८) = यत्र धातोः आत्मनेपदस्य कारणं नास्ति, तत्र कर्त्रर्थे परस्मैपदं भवति | आत्मनेपदनिमित्तहीनात् धातोः कर्तरि परस्मैपदं स्यात् | शेषात् पञ्चम्यन्तम्, कर्तरि सप्तम्यन्तम्, परस्मैपदं प्रथमान्तम्, त्रिपदमिदं सूत्रम् | भूवादयो धातवः (१.३.१) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | लस्य इति पदम् आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः परस्मैपदम् इत्यस्मिन् | अनुवृत्ति-सहित-सूत्रम्— शेषात् धातोः कर्तरि लस्य परस्मैपदम् |
अतः अनेन सूत्रेण अवशिष्टाः धातवः सर्वे परस्मैपदिनः | धातुः अनुदात्तेत्, ङित्, स्वरितेत्, ञित् च नास्ति चेत्, सः धातुः परस्मैपदिधातुः एव | ङितः अनुदात्तेतः धातवः एव आत्मनेपदिनः | ञितः स्वरितेतः धातवः एव उभयपदिनः | यदि अवशिष्टाः धातवः सर्वे परस्मैपदिनः, तर्हि सूत्रस्य का आवश्यकता ? इति चेत्, कर्तरि | कर्त्रर्थे अस्ति चेदेव धातुः परस्मैपदी | कर्मणि भावे परस्मैपदी न भवति इति सूचनार्थं सूत्रं विरचितम् |
पठँ-धातौ ठकारोत्तरवर्ती यः अकारः अस्ति, सः न अनुदात्तः न वा स्वरितः; चिह्नं नास्ति एव, अतः उदात्तः | उदात्तः अपि अनुनासिकः अपि अतः अयं धातुः उदात्तेत्; उदात्तेत् अतः परस्मैपदी | तथैव लिखँ धातुः | धावुँ (गतिशुद्ध्योः) इति उकारस्य उदाहरणम्— उकारः उदात्तः अनुनासिकः च, अतः धातुः उदात्तेत्; तर्हि परस्मैपदी | लटि धावति |
इदानीं क्षि॒ क्षये इति धातुः | इकारः अनुदात्तः अस्ति, अतः धातुः अनुदात्तेत्, आत्मनेपदी च किल, क्षयते इति रूपम् | इत्यस्मिन् अस्माकं भ्रान्तिः | कारणम्, अस्मिन् इकारे अनुनासिकचिह्नं नास्ति, अतः इत्-संज्ञकः नास्ति | तर्हि अनुदात्तेत् इति कथं वदेम ? धातौ अनुदात्त-इकारः इत्-संज्ञकः चेदेव खलु धातुः अनुदात्तेत् (अनुदात्तः इत् यस्य सः) इति वक्तुं शक्नुमः | तर्हि कः स्वरः अवशिष्यते, कः स्वरः च अपगच्छेत् इति अवधेयम् | स्वरेण पदनिर्णयः अस्माभिः कदा क्रियते ? यदा स्वरः शिष्यते इति न; यदा स्वरः इत्-संज्ञकः, नाम अपगच्छति, तदा एव क्रियते | क्षि॒ धातौ इकारः अनुदात्तः तु अस्ति, किन्तु इत्-संज्ञकः नास्ति | अतः क्षयति | अस्य धातोः इकारः इड्-व्यवस्थां सूचयति, न तु पदव्यवस्थाम् |
स्मृ॒-धातौ ऋकारः अनुदात्तः किन्तु अनुनासिकः न अतः अनुदात्तेत् न; अयं ऋकारः इड्-व्यवस्थां सूचयति, न तु पदव्यवस्थाम् | स्मृ धातुः अनुदात्तेत् अपि नास्ति, ङित् अपि नास्ति, स्वरितेत् अपि नास्ति, ञित् अपि नास्ति; अतः अयं धातुः परस्मैपदी | स्मरति इति लटि |
अभ्यासः
इमे धातवः सर्वे भ्वादिगणीयाः | सर्वप्रथमं धातुः आत्मनेपदी, उभयपदी, परस्मैपदी वा इति सूच्यताम् | तदा लौकिक-धातुः कः इति वदतु; तदा विकरणसहितम् अङ्गं किम्, तदा लट्-लकारस्य रूपम् |
उदा० वञ्चुँ इति धातुः | उदात्तेत् अतः परस्मैपदी | लौकिकधातुः वञ्च् | विकरणसहितम् अङ्गं वञ्च | लटि वञ्चति | वञ्चुँ → वञ्च् → (वञ्च् + शप्) → वञ्च → (वञ्च + ति) → वञ्चति |
मलँ॒, बुधिँ॑र् (बुधि॑र्), अक्षूँ , टुभ्राशृँ॒ , हृ॒ञ् , तॄ, दे॒ङ्, भृ॒ञ् , द्रै॒, इटँ, मिदृँ (दृ॑), जिषुँ, वृकँ॒, अटँ, वृधुँ॒
II. इड्व्यवस्था
इट् नाम किम् | प्रायः अस्माभिः सर्वैः अवलोकितं स्यात् यत् तिङन्तेषु कृदन्तेषु च कुत्रचित् इकारः श्रूयते कुत्रचित् न | यथा तिङन्तेषु गमिष्यति इत्यत्र मकारोत्तरः इकारः अस्ति; द्रक्ष्यति इत्यत्र एवं कोऽपि इकारः नास्ति | कृदन्तेषु पठितुम् इत्यत्र ठकारोत्तरः इकारः अस्ति; कर्तुम् इत्यत्र एवं कोऽपि इकारः नास्ति | अस्य इकारस्य नाम इट्-आगमः (इडागमः) | तर्हि कुत्र इडागमः संयुज्यते अपि च कुत्र न, इत्यस्य विज्ञानस्य नाम इड्व्यवस्था | यत्र इडागमस्य योजनार्थं धातोः अनुकूलता वर्तते, तत्र धातुः सेट् इत्युच्यते | सेट् = इटा सह, बहुव्रीहिसमासः | (एतादृश-बहुव्रीहिसमासस्य ‘यस्य सः, येन सः’ इति शैली न भवति, किन्तु अन्यपदप्राधान्यम् अस्ति; प्रधानं न ‘स’, न वा ‘इट्’, अपि तु ‘धातुः’ |) यत्र एतादृशी अनुकूलता नास्ति, तत्र धातुः अनिट् इत्युच्यते | अनिट् = न इट् (इट् राहित्यं) यस्य सः | सामान्यतया धातुः सेट् अस्ति चेत् अपि च तस्मात् यः प्रत्ययः विहितः अस्ति सः अपि सेट् अस्ति चेत्, तर्हि तत्र इडनुकूलता विद्यते | नाम तस्यां दशायाम् इडागमः भवितुम् अर्हति | धातुप्रत्यययोः कश्चन इडानुकूलो नास्ति चेत्, सामान्यतया तत्र ईडनुकूलता नास्ति | अपवादाः सन्ति, किन्तु सामान्यनियमः अयम् |
इत्-संज्ञकेन अच्-वर्णेन धातुः किंपदी इति निर्णयः क्रियते, अपि च अवशिष्टस्वरेण निर्णयः क्रियते अयं धातुः सेट् अनिट् वा इति अस्माभिः उक्तम् | इत्-संज्ञकानां वर्णानां निष्कासनानन्तरं यः स्वरः अवशिष्यते, तेन स्वरेण धातुः सेट् वा अनिट् वा इति निर्णयः क्रियते | अनेन स्वरेण इड्-व्यवस्था ज्ञायते |
तर्हि अत्र इड्व्यवस्था कीदृशी इति द्रष्टव्यम् | वृत्तान्ते पठँ इति धातुः | ठकारोत्तरवर्ती यः अकारः अस्ति सः अनुनासिकः उदात्तः च, अतः धातुः परस्मैपदी | पकारोत्तरवर्ती यः अकारः अस्ति, सः अवशिष्टः स्वरः इति उच्यते | अयम् अकारः कीदृशः इति धेयम् | अवशिष्टः स्वरः अनुदात्तः चेत्, धातुः अनिट् | अयम् अवशिष्टः स्वरः उदात्तः स्वरितो वा, धातुः सेट् | पकारोत्तरवर्ती अकारः उदात्तः, अतः धातुः सेट् | गै॒ धातौ ऐकारः अनुदात्तः, अतः धातुः अनिट् | मे॒ङ् धातौ ङकारस्य इत्-संज्ञा, मे॒ अवशिष्यते | एकारः अनुदात्तः, अतः धातुः अनिट् | क्षिवुँ इति धातौ उकारः अनुनासिकः अतः तस्य इत्-सज्ञा लोपः च | क्षिव् इति अवशिष्यते | क्षकारोत्तरवर्ती यः इकारः सः उदात्तः, अतः धातुः सेट् | उपर्युक्तस्य नियमस्य कारणं यदि अवगन्तुम् इच्छेम, तर्हि सूत्रद्वयं द्रष्टव्यं भवति |
प्रत्ययस्य स्वभावः
आर्धधातुकस्येड्वलादेः (७.२.३५) = आर्धधातुक-प्रत्ययस्य आदौ वल्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात् | इट्-आगमः टित् अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल् आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्, इट् प्रथमान्तम्, वलादेः षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गात् वलादेः आर्धधातुकस्य इट् |
वलादिः नाम वल् प्रत्याहारः आदौ यस्य सः | वलि यकारं विहाय सर्वाणि व्यञ्जनानि | कस्यचित् आर्धधातुकप्रत्ययस्य आदौ यदि वल्-प्रत्याहारस्य कश्चन सदस्यः अस्ति, तर्हि इडागमः तस्य प्रत्ययस्य आदौ आयाति | आदौ कथं ज्ञायते ? किमर्थं मध्ये अपि न, अन्ते अपि न ? आद्यन्तौ टकितौ (१.१.४६) इति सूत्रेण यः आगमः टित् अस्ति, सः यस्य आगमः अस्ति तस्य आदौ आयाति, कित् अस्ति चेत् यस्य आगमः अस्ति तस्य अन्ते आयाति | इट्-आगमः टित् अस्ति (टकारः इत् यस्य सः), अतः अनेन सूत्रेण इट्-आगमः प्रत्ययस्य आदौ आयाति | इडागमः प्रत्ययस्य आदौ न तु धातोः आदौ, यतोहि आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन इडागमः प्रत्ययस्य आगमः (न तु धातोः) |
आर्धधातुकप्रत्ययः कः इति स्मर्यताम् | प्रत्येकं प्रत्ययः यः धातुतः विहितः, सः सार्वधातुकः आर्धधातुकः वा | प्रत्ययः तिङ् शित् वा चेत्, तिङ्-शित्सार्वधातुकम् (३.४.११३) इत्यनेन स च प्रत्ययः सार्वधातुकः | तिङ् शित् नास्ति चेत्, आर्धधातुकं शेषः (३.४.११४) इत्यनेन प्रत्ययः आर्धधातुकः |
तर्हि इडागमविधायकं सूत्रम् आर्धधातुकस्येड्वलादेः | अनेन धातुभ्यः वलादि-आर्धधातुकप्रत्ययः विधीयते चेत्, तस्य प्रत्ययस्य इडागमः भवति | नाम अनेन सूत्रेण यः कोऽपि आर्धधातुक-प्रत्ययः वलादिः अस्ति, सः प्रत्ययः सेट् | अयं नियमः तिङ्-प्रत्यय-प्रसङ्गे पर्याप्तम् | किन्तु धातुभ्यः विहिताः प्रत्ययाः द्विविधाः—तिङ् कृत् च | कृत्-प्रत्ययेषु द्वितीयप्रमुखसूत्रेण प्रत्ययः वशादिः चेत्, इडागमो निषिध्यते—
नेड् वशि कृति (७.२.८) = कृत्-प्रत्ययस्य आदौ वश्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो न भवति | यस्मिन् विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम् २९) इत्यनेन वशि कृति इत्युक्तौ वशादौ कृति (तादृशप्रत्ययः यस्य आदौ वश् स्यात्) | वश्-प्रत्याहारे वर्गीयव्यञ्जनानां तृतीयः, चतुर्थः, पञ्चमश्च सदस्याः, वकाररेफलकाराः च | नाम कृत्सु प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः, द्वितीयः अथवा श्, ष्, स्, ह् चेत्, इडनुकूलः | न अव्ययपदम्, इट् प्रथमान्तं, वशि सप्तम्यन्तं, कृति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गात् न इट् वशि कृति |
अत्र नूतनप्रश्नः उदेति | आर्धधातुकस्येड्वलादेः इत्यनेन सर्वेभ्यः धातुभ्यः वलादि-आर्धधातुकप्रत्ययः विधीयते चेत्, तस्य प्रत्ययस्य इडागमः भवति | किन्तु तथा सर्वेभ्यः धातुभ्यः प्रत्ययः इडनुकूलः चेदपि कुत्रचित् इडागमः न भवति | वृत्तान्ते तुमुन्-प्रत्ययः | तुमुन् आर्धधातुकः (तिङ् शित् न), वलादिः किन्तु वशादि न (तकारः आदौ अस्ति; स च तकारः वलि अस्ति किन्तु वशि न); तर्हि आर्धधातुकस्येड्वलादेः, नेड् वशि कृति इति सूत्राभ्यां सर्वेभ्यः धातुभ्यः तुमुन्-प्रत्यये विहिते सति प्रत्ययादौ इडागमः भवेत्—‘इतुम्’ इति रूपं, यथा पठितुम्, लेखितुम्, चिन्तयितुम् | किन्तु कृ-धातोः कर्तुम्, श्रु-धातोः श्रोतुम् इत्यनयोः इडागमः नास्ति | किमर्थम् ? धातुः अपि इडनुकूलः न वा इति ज्ञेयम् |
धातोः स्वभावः
एकाच उपदेशेऽनुदात्तात् (७.२.१०) = यः औपदेशिकधातुः एकाच् अपि अनुदात्तः अपि अस्ति, तस्मात् विहितस्य प्रत्ययस्य इडागमो न भवति | उपदेशे यो धातुरेकाज् अनुदात्तश्च तत आर्धधातुकस्येड् न | यस्मिन् धातौ एकः एव स्वरः वर्तते, सः धातुः एकाच् | उपदेशे नाम पाणिनेः धातुपाठे अयं धातुः अन्तर्भूतः | औपदेशिकधातुः यथा पठँ, लिखँ, डुपचँष्, न तु आतिदेशिकधातुः यथा प्रेरणार्थकणिचि पाठि, लेखि, पाचि | एकोऽच् यस्मिन् स एकाच् बहुव्रीहिः, तस्मात् एकाचः | एकाचः पञ्चम्यन्तम्, उपदेशे सप्तम्यन्तम्, अनुदात्तात् पञ्चम्यन्तं, त्रिपदमिदं सूत्रम् | ॠत इद् धातोः (७.१.१००) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः; नेड् वशि कृति (७.२.८) इत्यस्मात् न, इट् इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— उपदेशे एकाचः अनुदात्तात् धातोः अङ्गात् न इट् |
अत्र यद्यपि “उपदेशे” इत्यनेन मूलधातुः इत्युक्तं, परन्तु “एकाच्” इत्यस्य कृते यदा स्वराणां गणनं भवति, तदा अनुबन्धेषु ये स्वराः सन्ति, ते गणने नान्तर्भूताः | यथा डुकृञ् इति धातौ यद्यपि उकारः अपि ऋकारः अपि स्तः, किन्तु उकारः अनुबन्धे अस्ति अतः तस्य गणनं न भवति | डुकृञ् एकाच् अस्ति |
इडागमनिषेधकं सूत्रम् इदम् | अनेन इडागमः तदा निषिध्यते यदा धातुः एकाच् अपि स्यात्, अनुदात्तः अपि स्यात् | अनेन ज्ञायते यत्—
१) अनेकाचः धातवः सर्वे सेटः भवन्ति | (अस्माकं परिचितेषु धातुषु आधिक्येन एकाचः धातवः एव सन्ति | सनन्तादिषु आतिदेशिकधातुषु अनेकाचः धातवः बहवः, परन्तु ते उपदेशे नान्तर्भूताः | उपदेशे केचन एव, यथा दरिद्रा-धातुः अनेकाच् |)
२) ये धातवः एकाचः सन्ति, तेषु ये उदात्तः स्वरितः सन्ति, ते अपि सेटः | यतः अनुदात्तात् धातोः एव वलादि-आर्धधातुक-प्रत्ययस्य इडागमः निषिद्धः इति सूत्रेण उक्तम् | तर्हि अनुदात्ताः ये एकाचः धातवः सन्ति, ते अनिटः, अन्येऽपि सर्वे सेटः भवन्ति |
निष्कर्षत्वेन अनेन सूत्रेण अवगच्छेम यत् एकाच्-धातुषु अनुदात्ताः अनिटः; उदात्ताः स्वरिताः च सेटः इति |
आर्धधातुकस्येड्वलादेः, नेड् वशि कृति इति सूत्राभ्यां प्रत्ययस्य वर्णनं क्रियते | तिङ्-प्रत्ययः आर्धधातुकः अपि वलादिः अपि चेत्, अयं प्रत्ययः इडागमानुकूलः | कृत्-प्रत्ययः वलादिः अवशादिः चेत्, अयं प्रत्ययः इडागमानुकूलः | धातुः यः कोऽपि भवतु नाम, प्रत्ययः इडागमानुकूलः अस्ति चेत्, इडागमस्य प्रसक्तिः अस्ति एव | तदा एकाच उपदेशेऽनुदात्तात् इति सूत्रं धातोः वर्णनं करोति | अनेन सूत्रेण वलाद्यार्धधातुकप्रत्ययानुगुणम् इडागमस्य प्रसक्तिः चेदपि यत्र धातुः एकाच् अनुदात्तः, तत्र इडागमो निषिध्यते |
यथा डुकृञ् (डुकृ॒ञ्) धातुः | अयं धातुः एकाच् अपि अस्ति, अनुदात्तः अपि अस्ति | तदा तुमुन् प्रत्ययः—तुमुन् आर्धधातुकप्रत्ययः (तिङ् अपि नास्ति, शित् अपि नास्ति अतः आर्धधातुकप्रत्ययः—तिङ्-शित्सार्वधातुकम्; आर्धधातुकं शेषः) | वलादिः अवशादिः अपि अस्ति | अतः आर्धधातुकस्येड्वलादेः इति सूत्रेण इडागमस्य प्राप्तिः अस्ति | किन्तु डुकृ॒ञ् एकाच् अनुदात्तः, अतः एकाच उपदेशेऽनुदात्तात् इति सूत्रं इडागमं निषेधयति | तदर्थं ‘कर्तुम्’ इति रूपं भवति (न तु ‘करितुम्’) |
उदाहरणम्
अधुना एकवारं समग्रं चिन्तनं क्रियताम् |
ञिष्विदाँ॒ इति धातुः | इमं धातुं दृष्ट्वा कीदृशी सूचना प्राप्तुं शक्येत अपि च कथं निरनुबन्धधातुः साध्येत |
ञिष्विदाँ॒
अनुदात्तस्वरस्य आँकारस्य इत्-संज्ञा अतः धातुः अनुदात्तेत् | अनुदात्तेत् अतः अनुदात्तङित आत्मनेपदम् इत्यनेन धातुः आत्मनेपदी |
ञिष्विदाँ॒
आदिर्ञिटुडवः इत्यनेन ञि इत्यस्य इत्-संज्ञा, तस्य लोपः इत्यनेन लोपश्च |
ष्विदाँ॒
आँकारः अनुनासिकः अतः उपदेशेऽजनुनासिक इत् इत्यनेन तस्य इत्-संज्ञा, तस्य लोपः इत्यनेन लोपश्च |
ष्विद्
अवशिष्टे धातौ प्रथमवर्णः इकारः किल | न, अत्र अस्माकं भ्रान्तिः न भवेत् | विन्यासः तथा भाति, किन्तु सा च केवलं लेखनस्य शैली | वस्तुतः आदिवर्णः षकारः | तर्हि धात्वादेः षः सः इत्यनेन षकारस्य स्थाने सकारः |
स्विद्
इति निरनुबन्धधातुः |
स्विद्
इति धातौ अवशिष्टस्वरः इकारः | स च इकारः उदात्तः यतोहि मूलधातौ तस्मिन् इकारे किमपि चिह्नं नास्ति | अयं धातुः एकाच् अपि अस्ति | एकाच उपदेशेऽनुदात्तात् इत्यनेन इडागमस्य निषेधः नास्ति | अतः अयं धातुः सेट् |
अवधेयम्—अयं धातुः उदात्तः, किन्तु उदात्तेत् न | तत्र भेदः अवगन्तव्यः | ञिष्विदाँ॒ इति धातुः उदात्तः, परन्तु अनुदात्तेत् | उदात्तः इति कारणेन धातुः सेट् | अनुदात्तेत् इति कारणेन धातुः आत्मनेपदी |
अग्रे गत्वा अस्य स्विद्-धातोः प्रयोगं कृत्वा यत् किमपि रूपम् अपेक्षितं—तिङन्तं स्यात् वा कृदन्तं स्यात्—प्रक्रियायां स्विद् इत्यस्य प्रयोगः करणीयः | स्विद् इति निरनुबन्धधातुः, प्रक्रियार्थम् सिद्धः |
धातूनां प्रवृत्तिः
अजन्तधातवः आधिक्येन अनिटः; किन्तु तत्र सर्वे ऊकारान्ताः ॠकारान्ताः च सेटः | हलन्तधातवः आधिक्येन सेटः | हलन्तधातुषु १०३ धातवः अनिटः |
अभ्यासः
अत्र केचन भ्वादिगणीयाः धातवः सूचिताः | प्रत्येकं धातुः सेट् अनिट् वा इति निर्णेतव्यम् | आत्मनेपदी, उभयपदी, परस्मैपदी वा इत्यपि वक्तव्यम् | तदा लौकिकधातुः कः, लट्-लकारे रूपं किम् इति सूचनीयम् | अन्ते सेट्-अनिट् दृष्ट्वा तृजन्तस्य किं रूपं स्यात् इति अनुमानं क्रियताम् | तृच् नाम इडागमे यथा स्पर्धिता, भविता; इडाभावे च यथा कर्ता, वक्ता |
इगिँ गतौ → इन्ग् सेट् परस्मैपदी इङ्गति [तृचि इङ्गिता]
रु॒ङ् गतिरेषणयोः, णिदृँ॑ (णि दृँ दृ॑) कुत्सासन्निकर्षयोः), ईषँ॒ गतिहिंसादर्शनेषु, व॒हँ॑ (व॒, हँ ह॑) प्रापणे, वि॒षुँ सेचने, वे॒ञ् तन्तुसन्ताने, मस्कँ॒ गतौ, र॒भँ॒ राभस्ये, चकँ तृप्तौ, क्षि॒ क्षये, राजृँ॑ (रा, जृँ जृ॑) दीप्तौ, घ॒स्ऌँ अदने, शुठिँ शोषणे, कै॒ शब्दे
परिसमाप्तिः
करपत्रत्रयेन अस्माभिः सम्पूर्णं धातुविज्ञानं प्राप्तम् | प्रथमे करपत्रे इत्-संज्ञा प्रकरणम्; कथम् अनुबन्धानां लोपः क्रियते | द्वितीये करपत्रे सत्वम्, नत्वम्, नुमागमः, उपधादीर्घः | करपत्रद्वयेन मूलधातुः प्रक्रियार्थं सिद्धः भवति | अस्मिन् तृतीये करपत्रे स्वरविज्ञानम्—पदव्यवस्था इड्व्यवस्था च | स्वरविज्ञानेन धातोः सम्पूर्णबोधः लभ्यते | अग्रे गत्वा मूलधातुः अस्माकम् आधारः | अनेन मूलधातुना सर्वेषां सार्वधातुकलकाराणां सिद्धिः, तत्पश्चात् आर्धधातुकलकाराणां सिद्धिः, परं कृदन्तानां सिद्धिः | अन्ते तद्धितान्तानां मूलाधारः अपि अयमेव मूलधातुः |