पञ्चभिर् हलैः कर्षति।
- ३.१.२६ हेतुमति च इत्यत्र भाष्यम्
कृष्-धातोः विलेखनम्, विलेखनप्रेरणम्, विलेखनोपकारकरणम्, विलेखनविषये यावत् प्रतिविधानकरणम् — इत्यादयः भिन्नाः अर्थाः सन्ति । अतः यत्र देवदत्तः यत्र स्वयमेव कृषति तत्रापि “देवदत्तः हलेन कृषति” इति प्रयोगः, यत्र तस्य भृत्याः कृषन्ति तत्रापि “देवदत्तः हलेन कृषति” इत्येव प्रयोगः, यत्र तस्य अंशभागिनः कृषन्ति, तत्रापि “देवदत्तः हलेन कृषति” इत्येव प्रयोगः साधुत्वं सङ्गच्छते ।
परन्तु तत्र किञ्चन उपपदम् अवश्यमेव भवेत् इति कैयटेन निर्दिष्टम् अस्ति —
धातुनैव चोपपदसहितेन तस्यार्थस्य प्राशितत्वाण् णिजभावः
…इत्युक्ते, यत्र “हल” इति साधनस्य स्पष्टः निर्देशः, तत्र शुद्धधातोः अपि प्रयोजके अर्थे प्रयोगः अवश्यं साधुत्वं प्राप्नोति । अतएव, “देवदत्तः धनेन गृहं निर्मितवान्” इति प्रयोगः अपि साधु । निर्माण–निर्माण-प्रेरण–निर्माण-प्रतिविधानादयः सर्वेऽपि अर्थाः शुद्धधातुना एव निर्दिष्टाः सन्ति इति मत्वा अत्र वाक्यसङ्गतिः विद्यते ।
परन्तु, यदि तादृशम् उपपदं नास्ति, अथ वा पृथक्-कर्तृपदस्य निर्देशस्यैव विवक्षा वर्तते, तर्हि तु अवश्यं “हलाः कृषन्ति, देवदत्तः कर्षयति” / “भृत्याः गृहं निर्मितवन्तः, देवदत्तः गृहं निर्मापितवान्” इति प्रयोगः करणीयः ।