लृङ् हेतु-फल-सम्बन्धे
भूते भविष्ये च हेतु-फल-सम्बन्धे (=लिङ्-निमित्ते) लृङ्, हेतु-क्रियातिपत्तौ।
- भविष्ये - सुवृष्टिश्चेदभविष्यत् तदा सुभिक्षमभविष्यत् (परन्तु इदानीम् सुवृष्टिः न जाता)।
- भूते - दृष्टो मया भवत्पुत्रोऽन्नार्थी चङ्क्रम्यमाणः अपरश्च द्विजो ब्राह्मणार्थी, यदि स तेन दृष्टोऽभविष्यत्, तदाऽभोक्ष्यत, न तु भुक्तवान्, अन्येन पथा स गतः ।
वर्तमाने ऽपि समीप-भविष्यतीव व्यवह्रियते।
यामुन आगमप्रामाण्ये -
न हि तदस्ति वचनं यदस्य प्रसिद्धबुद्ध्युत्पादनहेतुहानमुखेन सार्वज्ञ्यं ज्ञापयति ।
यद्यपि किञ्चिदभविष्यत् तथाऽपि परस्परान्वयाऽनुचितपदार्थतयाऽर्थवादतयैव समर्थनीयं …