Source: TW
अजन्तधातुभ्यः
अजन्तधातुभ्यः कर्मपदस्य निर्देशार्थम् “३.१.९७ अचो यत्” इति सूत्रेण यत् इति कृत्प्रत्ययः विधीयते ।
यथा, गै + यत् → गेय । एवमेव, चेयम्, पेयम्, देयम् ।
ऋकारान्तधातुभ्यः, हलन्तधातुभ्यः च
ऋकारान्तधातुभ्यः, हलन्तधातुभ्यः च कर्मपदस्य निर्देशार्थम् “३.१.१२४ ऋहलोर्ण्यत्” इति सूत्रेण ण्यत् इति कृत्प्रत्ययः विधीयते ।
यथा, कृ + ण्यत् → कार्य । पठ् + ण्यत् → पाठ्य । एवमेव - हार्यम्, तार्यम्, लेख्यम्, वाद्यम्, क्रीड्यम् ।
वच् + ण्यत् → वाक्य । पच् + ण्यत् → पाक्य । वद् +ण्यत् → वाद्य । हस् + ण्यत् → हास्य ।
यदि हलन्तधातोः अन्ते चकारः / जकारः वर्तते, तर्हि ण्यत्-प्रत्यये परे “७.३.५२ चजोः कु घिण्ण्यतोः” इति सूत्रेण चकारस्य ककारादेशः, जकारस्य च गकारादेशः भवति ।
- यथा, पच् + ण्यत् → पाक्य । वच् + ण्यत् → वाक्य । युज् + ण्यत् → योग्यम् । भज् + ण्यत् → भाग्यम् ।
अकारोपधे
[[२८०]]
अकारोपध-पवर्गान्तधातुभ्यः ण्यत्-प्रत्ययं बाधित्वा यत् प्रत्ययः विधीयते । ३.१.९८ पोरदुपधात् इति सूत्रम् ।+++(5)+++
शप् + यत् → शप्य । गम् + ण्यत् → गम्य । लभ् + ण्यत् → लभ्य ।
यम्
यम् (उपरमे, भ्वादिः) इति धातोः विषये उपसर्गः नास्ति चेद्
यत्-प्रत्ययः भवति ;
उपसर्गः अस्ति चेत् ण्यत् प्रत्ययः भवति ।+++(5)+++
३.१.१०० गदमदचरयमश्चानुपसर्गे इति सूत्रम् ।
यम् + यत् → यम्य । प्र + यम् + ण्यत् → प्रयाम्य ।
नि-उपसर्गपूर्वकस्य यम्-धातोः विषये तु यत्-प्रत्ययः एव भवति । नि + यम् + यत् → नियम्य ।+++(5)+++
त्वया नियम्या ननु दिव्यचक्षुषा — रघुवंशे ३.४५
तदुभयं नियम्यो दद्यात् — अर्थशास्त्रे ३.१.१४
न नियम्यो नियामकः — विवेकचूडामणौ १५६
नि + यम् + ल्यप् इत्यस्य अपि नियम्य इत्येव रूपं भवति,
परन्तु तत् अव्ययसंज्ञकम् ।
तस्य विभक्तिरूपाणि न भवन्ति । अतः नियम्यः/नियम्या इत्यत्र ल्यप्-प्रत्ययः न मन्तव्यः ।
नि + यम् इत्यत्र यत्-प्रत्ययस्य विधानार्थम् किमपि सूत्रम् नास्ति ।+++(5)+++ तर्हि अत्र यत्-प्रत्ययः कथम् — इति प्रश्नः । भिन्नेषु ग्रन्थेषु काश्चित् युक्तयः उक्ताः सन्ति —
“तेन तत्र न भवेद्विनियम्यम्” इति कश्चन प्रयोगः कात्यायनेन कृतः अस्ति । अस्य प्रयोगबलात् एव “नि + यम्” इत्यत्र यत्-प्रत्ययः भवति इति सिद्धम् ।
संज्ञापूर्वको विधिरनित्यः इति न्यायेन ७.२.११६ अत उपधायाः इत्यनेन उक्ता उपधावृद्धिः अनित्या । अतः नि + यम् +ण्यत् इत्यत्र उपधावृद्धिं विना एव “नियम्य” इति रूपं सिद्ध्यति ।
नियम्य इति तद्धितान्तम्, न हि कृदन्तम् । अप्-प्रत्ययान्तात् नियम-शब्दात् ४.४.९८ तत्र साधुः इत्यस्मिन् अर्थे यत् इति तद्धितप्रत्यये कृते नियम्य इति सिद्ध्यति ।
केवलात् यम्-धातोः यत्-प्रत्यये कृते यम्य इति प्राप्ते नि इति शब्देन तस्य प्रादिसमासः करणीयः । निश्चयेन यम्यम् नियम्यम् ।
यम्-धातुः यमोऽपरिवेषणे इत्यनेन गणसूत्रेण मित् स्वीक्रियते, अतः अस्मात् णिच्-प्रत्यये ६.४.९२ मितां ह्रस्वः इत्यनेन उपधाह्रस्वः प्राप्नोति । नि + यम् + (स्वार्थे) णिच् → नियमि । अस्मात् ण्यन्तात् ३.१.९७ अचो यत् इत्यनेन यत्-प्रत्यये कृते, प्रक्रियायाम् ६.४.५१ णेरनिटि इति णिलोपं कृत्वा नियम्य इति सिद्ध्यति ।
नि इति उपसर्गः नास्ति;
अपि कश्चन अन्यः उपसर्गप्रतिरूपकः निपात ज्ञेयः ।
अतः नियम्य इत्यत्र अनुपसर्गात् यम्-धातोः अवश्यमेव ३.१.१०० गदमदचरयमश्चानुपसर्गे इत्यनेन यत्-प्रत्ययः सम्भवति ।
विभज्यम्
“वि + भज् (सेवायाम्, भ्वादिः)” इति धातुः अपि हलन्तः, अतः “३.१.१२४ ऋहलोर्ण्यत्” इति सूत्रेण ण्यत् प्रत्यये कृते, अग्रे “७.३.५२ चजोः कु घिण्ण्यतोः” इति सूत्रेण जकारस्य गकारादेशे कृते, “विभाग्यम्” इति रूपं भवेत् ।
परन्तु तादृशः प्रयोगः नैव दृश्यते । अपितु, “५.३.५७ द्विवचनविभज्योपपदे तरबीयसुनौ” इति सूत्रे “विभज्य” इति शब्दः प्रयुक्तः अस्ति, यः “वि + भज्” इत्यस्मात् यत्-प्रत्ययं कृत्वा सिद्ध्यति ।
अतः वि +भज्-धातोः यत्-प्रत्ययः भवति इति निर्णयः ।
“बाधकान्य् एव निपातनानि” (परिभाषा ११९) इति परिभाषाम् अनुसृत्य अयं यत् प्रत्ययः ण्यत्-प्रत्ययं नित्यं बाधते ।+++)(+++)
ननु च ऋहलोर्ण्यत् इति ण्यति कृते विभाग्य इति भवितव्यम्, कथं विभज्य इति निर्देश उपपद्यते ? इत्याह ‘निपातनाद्भवति’ इति — न्यासः ।
ऋहलोर्ण्यत् इति ण्यतोऽपवादः, तेन विभाग्यम् इति नैव भवति — पदमञ्जरी ।
ऋहलोर्ण्यत् इति ण्यति प्राप्ते तदपवादो यत् निपात्यते । ण्यति तु चजोः कुः घिण्ण्यतोः इति कुत्वेन विभाग्यम् इति स्यात् — तत्त्वबोधिनी ।