यत्र वाक्ये कृदन्तस्य तिङन्तस्य च युगपत् प्रयोगः क्रियते, तत्र तिङन्तेन प्रधानक्रियायाः निर्देशः भवति, कृदन्तेन च गौणक्रिया निर्दिश्यते । यथा, “रामः पचन् वदति” इत्यत्र वदति इति प्रधानक्रिया, पचन् इति गौणक्रिया । एतादृशेषु स्थलेषु प्रधानक्रियायाः यः कालः, सः एव गौणक्रियायाः अपि कालः स्वीक्रियते ।
यथा —
माता गायन्ती अपचत् — इत्यत्र यद्यपि गायन्ती इति शतृप्रत्ययान्तरूपम् अस्ति (अतश्च तस्य वर्तमानकाले एव प्रयोगः भवेत्) तथापि “अपचत्” इति मुख्या क्रिया भूतकाले अस्ति अतः “गायन्ती” शब्द: अपि भूते एव स्वीक्रियते । अतः“माता पचनसमये गायनम् अपि अकरोत्” इति अस्य अर्थः सिद्ध्यति ।
रावणः हतः भविष्यति — अस्मिन् वाक्ये “हत” इति क्तप्रत्ययान्तरूपम् अस्ति (अतश्च तस्य भूते एव प्रयोगः भवेत्), तथापि “भविष्यति” इति मुख्या क्रिया भविष्यत्काले अस्ति अतः “हतः” शब्दस्य अर्थः अपि भविष्यत्कालवाची एव गृह्यते । अतः “रावणः भविष्यत्काले मृत्युं प्राप्स्यति” इति अस्य वाक्यस्य अर्थः ।
कानिचन अन्यानि उदाहरणानि — कार्यक्रमः निश्चितः भविष्यति । भावि कृत्यम् आसीत् । सः आगतवान् अस्ति । युधिष्ठिरः इन्द्रप्रस्थे वसन् राज्यं चकार ।
दृश्यते च अन्यत्र अपि कालान्यत्वम् — ‘साटोपमुर्वीमनिशं नदन्तो यैः प्लावयिष्यन्ति समन्ततोऽमी’ इत्यत्र । नदन्तः इति वर्तमानकालः प्लावयिष्यन्ति इति अवर्तमानेन अभिसम्बद्ध्यमानः भविष्यत्कालः सम्पद्यते — ३.४.१ धातुसम्बन्धे प्रत्ययाः इत्यत्र पदमञ्जरी ।