कार

वर्णात्

“वर्णात्कारः” इति वार्त्तिकेन वर्णस्य निर्देशार्थम् कार-प्रत्ययः भवति । यथा, अकारः, आकारः, ककारः, पकारः ।

“रादिफः” इति वार्त्तिकेन र्-वर्णस्य निर्देशार्थम् इफ-प्रत्ययः भवति । र + इफ → रेफ ।

  • र्-वर्णस्य निर्देशार्थं वाऽसरूपविधिना कार-प्रत्ययः अपि भवति । अतः “रकारः” इति अपि साधु शब्दः ।

वर्णसङ्घातस्य

कार-प्रत्ययः कुत्रचित् वर्णसङ्घातस्य अन्ते अपि भवति । यथा, चकारः, एवकारः, वषट्कारः, ओङ्कारः । तत्र व्याख्यानप्रमाणम् इदम् —

क्वचित् सङ्घाताद् अपि भवति; १.२.३५ उच्चैस्तरां वा वषट्कारः इति सूत्रनिर्देशात्; “सर्वे चकाराः प्रत्याख्यान्ते” इति भाष्यप्रयोगात्, बहुवचनात् च — तत्त्वबोधिनी ।

बहुलग्रहणसन्निधौ वचनात् क्वचित् अवर्णादपि भविष्यति इति अदोषः । अथवा, करणं कारः, एवस्य कारः एवकारः इति षष्ठीसमासोऽयम् — काशिका ।

कृ+अण्

“कुम्भकार”, “स्वीकार”, “प्रकार” इत्यत्र “कार” इति प्रत्ययः नास्ति, अपितु कृ-धातोः अण् / घञ्-प्रत्ययान्तरूपम् प्रयुक्तम् अस्ति । अन्ये “जयकारः / जयजयकारः” इत्यादयः शब्दाः तु असाधु एव ज्ञेयाः ।