Source: TW
‘वञ्चयति’ इति प्रयोगः
२६९
धातुपाठे वञ्च् (गतौ) इत्याख्यौ द्वौ धातू ।
वन्चुँ (गतौ, भ्वादिः, परस्मैपदी) इत्यस्य वञ्चति इति लटि रूपम् ।
वन्चुँ (प्रलम्भने, चुरादिः आकुस्मीयः, आत्मनेपदी) इत्यस्य वञ्चयते इति इति लटि रूपम् ।
प्रलम्भनम् इत्युक्ते विसंवादनम्, प्रतारणा, मिथ्याफलाख्यानम् (to cheat) इति ।
अयं धातुः आकुस्मीये गणे वर्तते, अतः “आ कुस्मादात्मनेपदिनः” इति गणसूत्रेण अस्मात् धातोः आत्मनेपदस्यैव प्रत्ययाः भवन्ति ।
किञ्च, उदित्त्वसामर्थ्यात् अत्र णिच्-प्रत्ययः अपि विकल्प्यते, अतः णिजभावे (परस्मैपदं प्राप्य) वञ्चति इति रूपं भवति ।+++(5)+++
व्यभिचाराः
तथापि, साहित्ये बहुत्र वञ्चयति इति प्रयोगः कृतः दृश्यते —
या वञ्चयति भर्तारम् (इति हरिवंशे) ।
वञ्चयन्ति नरा ये च (इति महाभारते) ।
वञ्चयन् उपसञ्चरैः (इति भागवते) ।
स्वार्थे णिचा परिहारः
एतादृशेषु स्थलेषु साधुत्वप्रतिपादनार्थम्
“निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते” इति सिद्धान्तः आश्रीयते । (दृश्यताम् — भाषापाकः १ - अध्यायौ ५५,५६, पञ्चदशः वर्गः - Video, PDF) ।
तदित्थम् —
चुरादिगणस्य वञ्च्-धातोः आदौ स्वार्थे णिच्, ततः प्रेरणार्थे णिच्-प्रत्ययः भवति, येन धातोः उभयपदित्वं सिद्ध्यति । ततः निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते इति सिद्धान्तस्य आधारेण प्रेषणार्थस्य निवृत्तिः भवति । किञ्च, प्रेरणार्थके णिच्-प्रत्यये परे स्वार्थिक-णिच्-प्रत्ययस्य ६.४.५१ णेरनिटि इति लोपे कृते एकः एव णिच्-प्रत्ययः अवशिष्यते परन्तु उभयपदित्वम् अवश्यं सिद्ध्यति । अतएव, आकुस्मीयनिबन्धनश्च तङ् स्वार्थण्यन्तस्य — इति प्रागेवोक्तम्, इति स्वार्थण्यन्तादस्मात् कारितणौ वञ्चयति वञ्चयते इति उभयं भवति — इति माधवीयधातुवृत्तिः ।
१.३.६९ गृधिवञ्च्योः प्रलम्भने इति सूत्रेण प्रलम्भने अर्थे प्रयुक्तस्य वञ्च्-धातोः प्रयोजक-ण्यन्ते आत्मनेपदमेव भवति (न हि उभयपदम्) इति उच्यते । परन्तु तत्र गृध्-इति भ्वादिगणस्य साहचर्येण वञ्च् इत्यनेनापि भौवादिकस्यैव वञ्च्-धातोः ग्रहणं भवति, न हि चौरादिकस्य वञ्च्-धातोः ।