शप्

Source: TW

“शप्” इति धातुः

२६३
शपँ (आक्रोशे) इति भ्वादिगणस्य उभयपदी धातुः । शपति, शपते इति उभयथा प्रयोगः । आक्रोशः = to curse, to abuse. यथा, गान्धारी कृष्णं शपति, शपते वा ।
उपालम्भः (to take oath, to swear, to pledge, to certify) अस्मिन् अर्थे यदि अयं धातुः प्रयुज्यते,
तदा तु अस्मात् केवलम् आत्मनेपदस्यैव प्रत्ययाः भवन्ति ।
यथा — देवदत्तः शपते ।
यस्य स्मरणं कृत्वा शपनं भवति तस्य कर्मत्वम् अस्ति ।+++(5)+++
देवदत्तः कृष्णं शपते ।

परन्तु कुत्रचित् तस्य करणत्वेन अपि प्रयोगः सम्भवति ।
यथा, देवदत्तः कृष्णनाम्ना शपते ।
अत्र कर्मणः करणत्व-विवक्षायां तृतीया — इति नागेशः ।+++(5)+++

यस्य बोधनार्थं शपनं भवति
तस्य १.४.३४ श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः इति सूत्रेण सम्प्रदानत्वम्,
अतश्च चतुर्थी विभक्तिः भवति ।
यथा — देवदत्तः राज्ञे शपते ।+++(5)+++
Devadatta swears in front of the king.

१.४.३४ श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः
इत्यत्र सिद्धान्तकौमुदी —
एषां प्रयोगे बोधयितुमिष्टः संप्रदानं स्यात् ।
गोपी स्मरात्कृष्णाय शपते ।

६.१.१४२ अपाच्चतुष्पाच्छकुनिष्वालेखने इत्यत्र सिद्धान्तकौमुदी — शप उपालम्भे [आत्मनेपदं वक्तव्यम्] (इति वार्त्तिकम्) ।
आक्रोशार्थात् स्वरितेतः अकर्तृगेऽपि फले शपथरूपे अर्थे आत्मनेपदम् वक्तव्यम् इत्यर्थः । कृष्णाय शपते ।

6

उपालम्भः इति शब्दस्य विवरणम्

काशिकाकारेण उपालम्भः इत्यस्य अर्थः “चरणस्पर्शं करोमि इति उक्त्वा शपनम्” (to take oath by saying - “I swear by touching your feet”) इति दत्तः अस्ति —

शप उपलम्भन इति वक्तव्यम्।
वाचा शरीरस्पर्शनमुपलम्भनम् ।
देवदत्ताय शपते।
यज्ञदत्ताय शपते।

उपलम्भने इति किम्? शपति — १.३.२१ इत्यत्र काशिका ।

शपथविशेषः।
तथा हि - देवदत्तस्य शरीरं स्पृशामीति शपथं कुर्वाणो
देवदत्ताय शपत इति प्रयुज्यते — १.३.२१ इत्यत्र न्यासः ।

वाचा शरीरस्पर्शनमिति ।
‘त्वत्पादौ स्पृशामि, नैतन्मया कृतम्’
इत्येवंरूपः शपथविशेषः — १.३.२१ इत्यत्र पदमञ्जरी ।

वाचा शरीरस्पर्शने
तव शरीरं स्पृष्ट्वा शपे
इति यल्लोकप्रसिद्धं,
तत्र शपेः तङ् — इति सुधाकरः ।

शपेः उपलम्भने प्रकाशने कथने
वर्तमानात् आत्मनेपदं भवति ।
देवदत्ताय शपते ।
देवदत्तं यत्किञ्चित् कथयति इत्यर्थः — भागवृत्तिः ।

उपालम्भनं प्रकाशनम् ।
देवदत्ताय शपते ।
देवदत्तं प्रकाशयति ।
एवम्भूतः असौ इति देवदत्तम् आचष्टे ।
अथवा, स्वाभिप्रायस्य परत्र आविष्करणम् उपालम्भनम् ।
देवदत्ताय शपते,
वाचा मात्रादि-शरीर-स्पर्शनेन देवदत्ते स्वाभिप्रायं प्रकाशयति इति ‌— इति शाकटायनः ।