Source: TW
शास्-धातुद्वयम्
२५८
धातुपाठे शास् इत्याख्यौ द्वौ धातू — शासुँ (इच्छायाम्, अदादिः), तथा च शासुँ (अनुशिष्टौ, अदादिः) ।
शासुँ (इच्छायाम्) इति अदादिगणस्य आत्मनेपदी धातुः ।
अयं प्रायेण आङ्-पूर्वकः । आशास्ते, आशासाते, आशासते एतानि अस्य लट्लकारस्य प्रथमपुरुषस्य रूपाणि ।
कुत्रचित् अयम् प्र-पूर्वकः अपि प्रयुक्तः दृश्यते, यथा नमोवाकं प्रशास्महे इति उत्तररामचरितस्य प्रथमे श्लोके । अस्य धातोः कर्मणि प्रयोगे आ + शास् + यक् + ते → आशास्यते इति रूपं भवति ।
शासुँ (अनुशिष्टौ) इति अदादिगणस्य परस्मैपदी धातुः ।
शास्ति, शिष्टः, शासति एतानि अस्य लट्लकारस्य प्रथमपुरुषस्य रूपाणि ।
अस्य धातोः कर्मणि प्रयोगे शास् + यक् + ते इति स्थिते ६.४.३४ शास इदङ्हलोः इति सूत्रेण हलादि-कित्/ङित्-प्रत्यये परे शास्-धातोः उपधा-आकारस्य इकारादेशः भवति । अग्रे शिस् + य + ते इति स्थिते प्रक्रियायाम् ८.३.६० शासिवसिघसीनां च इत्यनेन षत्वे कृते शिष्यते इति रूपं भवति ।