Source: TW
आत्मनेपदिता
“प्र + अर्थ” इत्यस्य परस्मैपदे प्रयोगाः
२६७, २६८
अर्थ (उपयाच्ञायाम्, to beg / request) इति चुरादिगणस्य आगर्वीये अन्तर्गणे पाठितः धातुः ।
“आ गर्वादात्मनेपदिनः” इति गणसूत्रेण
अस्मात् धातोः केवलम् आत्मनेपदस्यैव प्रत्ययाः भवन्ति ।
अर्थयते, अर्थयेते, अर्थयन्ते ।
एवमेव, प्र-उपसर्गपूर्वकः अर्थ-धातुः अपि आत्मनेपदी एव । प्रार्थयते, प्रार्थयेते, प्रार्थयन्ते ।
व्यभिचारः
परन्तु, प्र-उपसर्गपूर्वकस्य अर्थ-धातोः बहुत्र परस्मैपदरूपेण प्रयोगः कृतः अस्ति ।
यथा —
व्यालोलेषु जनेषु तत्र रजकं कञ्चित् पटीं प्रार्थयन् — नारायणीयम् ।
सिद्धिं प्रार्थयता जनेन विदुषा तेजो निगृह्य स्वकम् — पञ्चतन्त्रम् ।
उत्सृष्टमाशिषं भूमौ प्रार्थयन्ति यथा खगाः — महाभारतम् ।
यथाऽयं वेदवेदाङ्गपारङ्गोऽन्यं न प्रार्थयति — भोजप्रबन्धः ।
कुमुदमन्दारौ हरिहरौ प्रार्थयतः पुरः —लक्ष्मीनारायणसंहिता ।
समर्थनयुक्तिः १
अतः, प्र + अर्थ इत्यस्य परस्मैपदित्वं कथञ्चित् समर्थनीयम् !
“प्र + अर्थ” इत्यस्य परस्मैपदे प्रयोगाः
प्र + अर्थ इत्यत्र परस्मै-पद-समर्थानार्थम् माधवीय-धातुवृत्तौ चक्षिङ्-धातोः व्याख्यान-समये द्वे युक्ती उच्येते —
प्रार्थ (= प्र + अर्थ् + घञ् । प्रार्थनम् इत्यर्थः) इत्यस्मात् शब्दात् तत्करोति तदाचष्टे इति गणसूत्रेण णिच्-प्रत्यये कृते प्रार्थि इति धातुः सम्भवति । अयं उभयपदी । अतः अस्मात् धातोः प्रार्थयति इति रूपं सम्भवति ।
परन्तु इयं युक्तिः विद्वद्भिः तादृशी न स्वीक्रियते, यतः प्रार्थ इति शब्दात् णिच्-प्रत्यये कृते अर्थवेदसत्यानामापुक् इति सूत्रेण आपुगागमं कृत्वा प्रार्थापयति इति रूपं भवेत्, न हि प्रार्थयति इति । अतएव माधवीयधातुवृत्तौ चक्षिङ्-धातोः व्याख्यानसमये — सत्यं, शब्दाः सिद्ध्यन्ति, अर्थाः तु सहृदयहृदयङ्गमाः न भवन्ति — इति निर्दिष्टम् ।
३.२.१४९ अनुदात्तेतश्च हलादेः इति सूत्रेण हलादि-अनुदात्तेत्-धातोः युच्-प्रत्ययः विधीयते । अयं युच्-प्रत्ययः चक्षिङ् इति धातोः विषये अपि इष्यते, येन विचक्षण इति शब्दः सिद्ध्यति । अतः चक्षिङ्-धातौ विद्यमानः इकारः इत्संज्ञकः, अनुदात्तः इति स्पष्टम् । तर्हि तत्र अनुदात्तेत्त्वाद् एव १.३.१२ अनुदात्तङित आत्मनेपदम् इत्यनेन आत्मनेपदित्वे सिद्धे, पुनः ङित्करणं व्यर्थम् । व्यर्थं सत् अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् इति परिभाषाज्ञापनार्थम् । अतः प्र + अर्थ इति धातोः परस्मैपदे अपि प्रयोगः शक्यः ।
धातुः अनुदात्तेत् अस्ति चेत् वस्तुतः ७.१.५८ इदितो नुम् धातोः इत्यनेन नुमागमः भवेत् ।
परन्तु तस्मिन् सूत्रे अन्ते इत्यस्य पदस्य अनुवृत्तिं स्वीकृत्य
अयम् अनिष्टः नुमागमः निवारयितुम् शक्यः
— इति माधवीयधातुवृत्तौ निर्दिष्टम् ।
कौमुदीकारस्य स्पष्टीकरणम्
पुनर् णिच्
निवृत्तप्रेषणाद्धातोः हेतुमण्णौ शुद्धेन तुल्योर्थः ।
तेन प्रार्थयन्ति शयनोत्थितं प्रिया इत्यादि सिद्धम् — सिद्धान्तकौमुद्याम् २.४.४६ णौ गमिरबोधने इत्यत्र । अयं विषयः भाषापाकः-१ इत्यत्र ५५-५६ अध्याययोः (पञ्चदशे वर्गे) पाठितः अस्ति ।
“निवृत्तप्रेषणाद् धातोः प्राकृतेऽर्थे णिजुच्यते”
इति वाक्यपदीयस्य कारिकायाः आधारेण
“प्रार्थयन्ति” इत्यस्य साधुत्वं वक्तुं शक्यम् । तदित्थम् —
धातोः आदौ स्वार्थे णिच्-प्रत्ययः विधीयते ।
प्र + अर्थ् + णिच् → प्रार्थि । अयम् आत्मनेपदी धातुः ।
ततः प्रेषणार्थे णिच्-प्रत्ययः विधीयते ।
प्रार्थि + णिच् → प्रार्थि । ६.४.५१
णेरनिटि इति णिलोपः । १.३.७४ णिचश्च इति उभयपदित्वम् ।
ततः प्रेषणार्थस्य निवृत्तिः क्रियते ।+++(4)+++
अत्र केवलम् अर्थस्यैव निवृत्तिः भवति, प्रत्ययस्य न ।
अतः प्रार्थि इत्यत्र केवलं स्वार्थः अवशिष्यते परन्तु उभयपदित्वम् न निर्गच्छति ।
अस्यां स्थितौ प्रार्थयति इति परस्मैपदस्य प्रयोगः अपि साधुत्वं प्राप्नोति ।
यद्यपि सिद्धान्तकौमुद्याम् प्रार्थयन्ति इति रूपस्य साधुत्वं प्रदर्शितम्,
तथापि तत्र निर्दिष्टम् “प्रार्थयन्ति शयनोत्थितं प्रिया” इति उदाहरणम् अनुचितम् ।
वस्तुतः रघुवंशात् उद्धृतः अयं श्लोकः ।
परन्तु अस्मिन् श्लोके “प्रार्थयन्त शयनोत्थितं प्रिया” इति निर्देशः अस्ति ।
अत्र “प्रार्थयन्त” इति प्र + अर्थ इत्यस्य आत्मनेपदस्य लङ्लकारस्य प्रथमपुरुषबहुवचनम् ।
अत्र परस्मैपदस्य न कश्चन विषयः !
परन्तु माधवीयधातुवृत्तौ कथञ्चित् अयं दोषः जातः,
तस्मादेव सिद्धान्तकौमुदीकारेण अपि इदम् उदाहरणं स्वीकृतम् ।+++(4)+++
किञ्च, अस्य वाक्यस्य स्पष्टीकरणसमये बालमनोरमायां, तत्त्वबोधिन्यां चापि माघकाव्ये इति कश्चन निर्देशः वर्तते, सः अपि अनुचितः ।+++(5)+++
माघकाव्ये कुत्रापि इदं वाक्यं न दृश्यते ।