Source: TW
पत् इति धातुः
२६०
पतॢँ (गतौ) इति भ्वादिगणस्य परस्मैपदी धातुः ।
अस्य णिजन्तं रूपम् पातयति इति भवति ।
केषुचित् धातुपाठेषु पत्-धातोः निर्देशः चुरादिगणे पत गतौ वा इति स्वरूपेण कृतः दृश्यते । अयम् अदन्तः धातुः । अस्य णिजन्तम् रूपम् पतयति इति भवति ।
अत्र “वा” इति निर्देशात् अदन्तत्वं विकल्पेन एव ग्राह्यम् इति केचन वैयाकरणाः मन्यन्ते ।
अदन्तत्वस्य अभावे उपधावृद्धिं कृत्वा पातयति इत्यपि रूपं साधु इति तेषाम् आशयः ।
पत + णिच् + शप् + तिप्
→ पत् + इ + अ + ति [ ६.४.४८ अतो लोपः इति अकारस्य लोपः । अकारस्य लोपे कृते, ७.२.११६ अत उपधायाः इत्यनेन पकारोत्तरस्य अकारस्य वृद्धौ प्राप्तायाम्, १.१.५७ अचः परस्मिन् पूर्वविधौ इत्यनेन लुप्तः अकारः स्थानिवद् भवति, अतः अकारस्य वृद्धिः नैव सम्भवति । ]
→ पतयति [७.३.८४ सार्वधातुकार्धधातुकयोः इति गुणः, ६.१.७८ एचोऽयवायावः इति अयादेशः]
अदन्तत्वस्य अभावे तु अकारलोपः नैव प्रवर्तते, अतः स्थानिवद्भावः अपि न सम्भवति । अस्यां स्थितौ ७.२.११६ अत उपधायाः इत्यनेन उपधावृद्धि कृत्वा पातयति इति रूपं सिद्ध्यति ।