Source: TW
फुल्ल इति रूपम्
२७७
ञिफलाँ (विशरणे = विकसने) इति धातोः क्त-प्रत्ययान्तरूपम् फुल्ल इति, क्तवतुँप्रत्ययान्तरूपं च फुल्लवान् इति ।
ञिफलाँ (विशरणे, भ्वादिः, अकर्मकः, सेट्) + क्त / क्तवतुँ
→ फल् + क्त / क्तवतुँ [ ७.२.१६ आदितश्च इति निष्ठाप्रत्ययस्य इण्-निषेधः]
→ फल् + ल / लवत् [ ८.२.५५ अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः इति निष्ठातकारस्य लकारः निपात्यते । क्तवत्वन्तस्य अपि एतत् लत्वम् इष्यते — इति काशिका ]
→ फुल् + ल / लवत् [ ७.४.८९ ति च इत्यनेन फल्-धातोः अकारस्य उकारादेशः ]
→ फुल्ल / फुल्लवत्
८.२.५५ अनुपसर्गात् फुल्लक्षीब… इत्यनेन उपसर्गभिन्नस्य फल्-धातोः विहितस्य क्त/क्तवतुँ-प्रत्यययोः आदिस्थतकारस्य लकारादेशः भवति ।
फल् + क्त → फुल्ल । फल् + क्तवतुँ → फुल्लवत् ।
तत्रैव विद्यमानं वार्त्तिकम् -
उत्फुल्लसंफुल्लयोरुपसंख्यानम् इत्यनेन उत् + फल्, सम् + फल् एतयोः विहितस्य क्त-प्रत्ययस्य अपि लत्वं भवति ।
उत् + फल् + क्त → उल्फुल्ल । सम् + फल् + क्त → सम्फुल्ल ।
अन्यत्र निष्ठातकारस्य लत्वं न भवति । प्र + फल् + क्त → प्रफुल्त ।+++(5)+++
फल् इति आदित् धातुः ।
आदित्-धातुभ्यः विहितस्य क्त-प्रत्ययस्य
७.२.१७ विभाषा भावादिकर्मणोः इत्यनेन विकल्पेन इडागमः भवति ।
अतः भावे, आदिकर्मणि च फलित इति रूपम् अपि साधु । वृक्षेण फलितम् । वृक्षः प्रफलितः ।
रघुवंशे १.२९ इत्यत्र लोध्रद्रुमं सानुमतः प्रफुल्लम् इति प्रयोगः दृश्यते ।
अत्र प्रफुल्लम् इत्यस्य समर्थनस्य प्रकारद्वयं सम्भवति —
७.४.८९ ति च इत्यत्र कौमुदी — कथं तर्हि लोध्रद्रुमं सानुमतः प्रफुल्लमिति । फुल्ल विकसने पचाद्यच् ।
प्र + फुल्लँ (विकसने) + (कर्तरि) अच् → प्रफुल्ल ।
फुल्ल इति धातोः निष्ठाप्रत्ययान्ते रूपे तु फुल्लित / फुल्लितवत् इति ।
प्रफुल्ल इत्यत्र प्रादिसमासः इति अमरकोषस्य सुधा व्याख्या । प्रकृष्टः फुल्लः सः प्रफुल्लः । फुल्लः इत्यत्र फल्-धातोः कर्तरि-क्त-प्रत्ययः ।