दा

Source: TW

डुदाञ् (दाने, जुहोत्यादिः) इति धातोः क्त-प्रत्यये परे ७.४.४६ दो दद् घोः इति सूत्रेण दथ् इति आदेशः भवति ।
घुसंज्ञकस्य दा इत्यस्य दथ् स्यात् तादौ किति —‌ इति कौमुदी ।
दा + क्त → दथ् + त → दत् + त → दत्त ।

यदि दा-धातोः पूर्वम् अजन्तः उपसर्गः विद्यते, तर्हि क्त-प्रत्यये परे दा-धातोः अन्तिम-आकारस्य ७.४.९७ अच उपसर्गात्तः इति सूत्रेण त् इति आदेशः भवति । अजन्ताद् उपसर्गात् परस्य दा इत्यस्य घोः अचः तः स्यात्तादौ किति — इति कौमुदी ।

प्र + दा + क्त
→ प्र + द् + आ + त
→ प्र + द् + त् + त [७.४.९७ अच उपसर्गात्तः ]
→ प्र + त् + त् + त [ ८.४.५५‌ खरि च]
→ प्र + त् + ० + त [८.४.६५ झरो झरि सवर्णे]
→ प्रत्त

एवमेव —
अव + दा + क्त → अवत्त ।
वि + दा + क्त →‌ वीत्त ।
सु + दा + क्त → सूत्त ।
अनु + दा + क्त → अनूत्त ।
नि + दा + क्त → नीत्त ।
आ + दा + क्त → आत्त ।
उप + आ + दा + क्त → उपात्त ।
६.३.१२४ दस्ति इति दीर्घादेशः ।

२७९

दा-धातोः यदि आदिकर्मणि क्त-प्रत्ययः विधीयते, तर्हि ७.४.९७ अच उपसर्गात्तः इति सूत्रं नैव प्रवर्तते अपितु ७.४.४६ दो दद् घोः इति सूत्रेण दथ् इति आदेशे कृते एव रूपं सम्भवति ।
अवदत्तं विदत्तं च प्रदत्तं चादिकर्मणि
सुदत्तमनुदत्तं च निदत्तमिति चेष्यते — ७.४.४६ दो दद् घोः इत्यत्र भाष्यम् ।+++(5)+++

अव + दा + (आदिकर्मणि) क्त → अव + दद् + त →‌ अवदत्त । एवमेव, विदत्त, प्रदत्त, सुदत्त, अनुदत्त, निदत्त ।
उप + आ + डुदाञ् (दाने, जुहोत्यादिः)
उप + आ + अद् (भक्षणे, अदादिः)

क्तान्तं रूपम्
उपात्त
उपजग्ध, उपान्न

तव्यन्तं रूपम्
उपदातव्य
उपात्तव्य

आत्त

Source: TW

“आत्त” इति शब्दः
[[२८६]]

आत्त इति आ-उपसर्गपूर्वकस्य दा-धातोः क्तान्तं रूपम् ।
“आ + दा + क्त” इत्यत्र प्रक्रियायाम्
अजन्तात् उपसर्गात् उत्तरस्य दा-धातोः आकारस्य
क्त-प्रत्यये परे
७.४.४७ अच उपसर्गात्तः इत्यनेन
त्-आदेशः भवति ।

अजन्ताद् उपसर्गात् परस्य
दा इत्यस्य
घोर् अचस् तः स्यात् तादौ किति —

इति कौमुदी ।
आ + दा + त → आ + द् + त् + त → आत्त्त → आत्त ।
आददाति = स्वीकरोति / गृह्णाति । अतः आत्त = गृहीत / स्वीकृत / प्राप्त इति अर्थः ।

आत्तसारा

गामात्तसारां रघुर् अप्यवेक्ष्य
निष्क्रष्टुम् अर्थं चकमे कुबेरात्

— इति रघुवंशे ५.२६ इत्यत्र ।

अत्र आत्तसारा इति शब्दः प्रयुक्तः ।
सारम् = धनम् । आत्तम् = गृहीतम् ।
आत्तम् सारम् यस्याः सा = गृहीतं धनं यस्याः सा = आत्तसारा (भूमिः) ।
सा भूमिः यस्याः बहु धनम् निष्कासितम्, अतश्च या निर्धना अस्ति ।

आत्तगर्वः

आत्तगर्वोऽभिभूतः स्याद्
दापितः साधितः समौ —

इति अमरकोशे ३.१.४० इत्यत्र ।
अत्र आत्तगर्वः इति शब्दः प्रयुक्तः ।
आत्तः गर्वः (= अभिमानः) यस्मात् सः इति विग्रहः । यस्य गर्वः / दर्पः केनचित् निष्कासितः, इत्युक्ते यः गर्वविरहितः / भग्नदर्पः / तिरस्कृतः सः आत्तगर्वः ।
कुत्रचित्, “आत्तः गर्वः येन सः” इति विग्रहे “येन गर्वः स्वीकृतः सः आत्तगर्वः” इति अपि अर्थः दृश्यते ।
अतएव “गर्वारूढस्य पर्यायः इत्येके” इति अमरकोशस्य सुधाव्याख्यायां निर्देशः वर्तते ।+++(5)+++

आत्तगन्धः

नात्तगन्धम् अवधूय शत्रुभिश्
छायया च शमितामरश्रमम्

— इति शिशुपालवधे १४.८४ ।
अत्र “आत्तगन्ध” इति शब्दः प्रयुक्तः ।
“गन्धः” इति गर्व-शब्दस्य पर्यायः ।

अमर-कोशे कुत्रचित् “आत्तगर्वो ऽभिभूतः स्याद्” इत्यस्य स्थाने “आत्तगन्धोऽभिभूतः स्याद्” इत्यपि पाठान्तरं दृश्यते ।
अपि च,

गन्धो गन्धक आमोदे, सम्बन्धे लेशगर्वयोः —

इति विश्वकोशः ।

अत्र न + आत्तगन्धः इति सुप्सुपा समासः ।

यदि अत्र तत्पुरुषः समासः स्यात् तर्हि अनात्तगन्धः इति भवेत् ।
अतः अत्र केवलसमासः स्वीक्रियते ।+++(5)+++
नात्तगन्धः इत्यस्य अत्र संदर्भवशात् द्वौ अर्थौ सम्भवतः -
अनभिभूतम् (न आत्तः गर्वः यस्य सः । यस्य गर्वः न केनचित् गृहीतः, तत्),
अथवा अनाघ्रात-सौरभम् (न आत्तः गन्धः यस्य सः । यस्य गन्धः न केनचित् घ्रातः, तत्) ।

पक्षच्छिदा गोत्रभिदात्तगन्धाः
शरण्यम् एनं शतशो महीध्राः
(रघुवंशे १३.७) ।

अत्र आत्तगन्धाः महिध्राः — इति अन्वयः ।
आत्तगन्धः = हृतगर्वः ।
महीध्रः = पर्वतः ।
इन्द्रेण येषां गर्वस्य हरणं कृतम्, ते = आत्तगन्धाः पर्वताः इत्याशयः ।