From Samskrita Vyakaranam
< अस्माकं मूल-यन्त्राणि02—asmAkaM-mUla-yantrANi/2a—nimittam
‘निमित्तम्’ इति विषये कश्चन विचारः | अनेन पाणिनीयसूत्र-सन्दर्भे विभक्तीनाम् अर्थः पुनः इतोऽपि स्पष्टः स्यात् |
यदा वदामः यत् सूत्रे किञ्चन पदं/कश्चन वर्णः/कश्चन प्रत्याहारः —
१) सप्तमीविभक्तौ अस्ति | तदा पूर्वकार्यम् इति उच्यते | नाम यत् पदं सप्तमीविभक्तौ, तत् परम् (अनन्तरम्) अस्ति अपि च तत् कार्यस्य निमित्तम् (कारणं); निमित्तस्य अभावे कार्यं न भविष्यति |
इको यणचि (६.१.७७) | अचि सप्तमीविभक्तौ | अच्-वर्णः परं, कार्यं पूर्वम् | कश्चन अच्-वर्णः परं नास्ति चेत्, कार्यं न भविष्यति |
यदि + अपि → यद्यपि |
अत्र “अपि” इत्यस्य अकारः परं नास्ति चेत्, इकारस्य स्थाने यकारः भविष्यति किम् ? नैव | अतः सः अकारः कार्यस्य निमित्तम् | कार्यात् परम् अच्-वर्णः नास्ति चेत्, कार्यं (इ → य्) न भवति |
यदि | अत्र केवलं ‘यदि’ इति पदम् अस्ति चेत्, इ → य् इति कार्यं भवति वा ? न भवति किल | निमित्तस्य अभावे’यदि’ यथावत् तिष्ठति |
२) पञ्चमीविभक्तौ अस्ति | तदा परकार्यम् इति उच्यते | नाम यत् पदं पञ्चमीविभक्तौ, तत् पूर्वम् अस्ति; अपि च तत् कार्यस्य निमित्तम् (कारणं); निमित्तस्य अभावे कार्यं न भविष्यति |
रषाभ्यां नो णः समानपदे (८.४.१) | एकस्मिन् पदे, पूर्वं रेफः अथवा षकारः अस्ति चेत्, अपि च तस्मिन् एव पदे, परं नकारः अस्ति चेत्, तर्हि नकारस्य स्थाने णकारादेशः भवति | रः च षः च रषौ इतरेतर-द्वन्द्वसमासः, ताभ्यां रषाभ्याम् | रषाभ्यां पञ्चम्यन्तं, नः षष्ठ्यन्तं, णः प्रथमान्तम् |
राम + इन → रामेन → रषाभ्यां नो णः समानपदे (८.४.१)* → रामेण
अत्र रामस्य रेफः पूर्वं नास्ति चेत्, नकारस्य स्थाने णकारादेशः भविष्यति किम् ? नैव | अतः सः रेफः कार्यस्य निमित्तम् | कार्यात् पूर्वं रेफः षकारः च नास्ति चेत्, कार्यं (न् → ण्) न भवति |
देव + इन → देवेन | अत्र देव-शब्दे रेफः नास्ति | अस्यां दशायां नकारस्य स्थाने णकारः भवति वा ? न भवति किल | निमित्तस्य अभावे ‘देवेन’ यथावत् तिष्ठति |
*अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) इत्यनेन रेफ-नाकरयोः मध्ये स्वराः सन्ति चेदपि णत्वं भवति | अट्-प्रत्याहारे ये वर्णाः, कवर्गीयाः वर्णाः, पवर्गीयाः वर्णाः, ‘आ’ इति उपसर्गः, अनुस्वारः— रेफ-नाकरयोः मध्ये एते सन्ति चेदपि णत्वं भवति |
३) तृतीयाविभक्तौ अस्ति | तदा योगः इति उच्यते | योगः इत्युक्ते सम्बन्धः | ‘सम्बन्धः’ इत्यनेन निमित्तं पूर्वम् अपि भवितुम् अर्हति, परम् अपि भवितुम् अर्हति | अतः सप्तमी, पञ्चमी इत्यनयोः मेलनम् इति चिन्त्यताम् | नाम पूर्वकार्यम् अपि अर्हति, परकार्यम् अपि अर्हति |
अत्र यत् पदं तृतीयाविभक्तौ, तत् कार्यस्य निमित्तम् इत्युक्तौ कार्यस्य कारणं; तस्य अभावे कार्यं न भविष्यति |
स्तोः श्चुना श्चुः (८.४.४०) = सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः | योगः (‘सम्बन्धः’) इत्यनेन निमित्तं (शकारः चवर्गः च) पूर्वम् अपि भवितुम् अर्हति, परम् अपि भवितुम् अर्हति | स्तोः षष्ठ्यन्तं, श्चुना तृतीयान्तं, श्चुः प्रथमान्तम् |
अन्यत् + च → अन्य + त्-स्थाने च् + च → अन्यच्च | अत्र निमित्तं (चकारः) परं, कार्यं (त्-स्थाने च्) पूर्वम् |
अन्यत् | अत्र केवलम् ‘अन्यत्’ इति पदम् अस्ति चेत्, त् → च् इति कार्यं भवति वा ? न भवति किल | निमित्तस्य अभावे ‘अन्यत्’ यथावत् तिष्ठति |
यज् + नः → यज् + न्-स्थाने ञ् + अः → यज्ञः | अत्र निमित्तं (जकारः) पूर्वं, कार्यं (न्-स्थाने ञ्) परम् |
नः | अत्र केवलं ‘नः’ इति पदम् अस्ति चेत्, न् → ञ् इति कार्यं भवति वा ? न भवति किल | निमित्तस्य अभावे ‘नः’ यथावत् तिष्ठति |
निमित्तं सप्तमीविभक्तौ चेत् पूर्वकार्यं; निमित्तं पञ्चमीविभक्तौ चेत् परकार्यं; निमित्तं तृतीयाविभक्तौ चेत् कार्यं पूर्वं परं च | त्रिषु अपि स्थलेषु निमित्ताभावे कार्याभावः | नाम कार्यार्थं निमित्तस्य उपस्थितिः आवश्यकी |
Swarup – October 2015