Expandध्वनिमुद्रणानि
१) it-sangyA-paricayaH_2015-10-21
२) it-sangyA-prakaraNam—cintanam_+_prathama-catvAri-sUtrANi_2015-10-28
३) it-sangyA-prakaraNam—antima-trINi-sUtrANi_+_abhyAsaH_2015-11-04
४) anubandha-varNAnAM-kAryam_2015-11-11
अत्र इत्-संज्ञा नाम का इति अस्माभिः ज्ञास्यते |
व्याकरणे पाणिनिना यदा किञ्चन मूलरूपं दीयते—धातुः, प्रत्ययः, आदेशः, आगमः—तदा तस्य मूलरूपस्य नाम उपदेशः | उपदेशावस्थायां यानि मूलरूपाणि सन्ति, तेषु बहुवारं केचन वर्णाः उपस्थिताः ये प्रक्रियायां लौकिक-रूपेषु च न तिष्ठन्ति |
यथा गम्-धातुः, लटि गच्छति | उपदेशे अस्य धातोः नाम गम्ऌ | ऌ इति वर्णः लोके न तिष्ठति; प्रक्रियायां तस्य लोपः भवति | ये वर्णाः उपदेशे सन्ति परन्तु लोके न, तेषां नाम अनुबन्धः | अपि च तेषां विशिष्टा संज्ञा भवति— इत्-संज्ञा | तर्हि इमे वर्णाः स्वयम् इत्-संज्ञकाः इत्युच्यन्ते |
इत्-संज्ञायाः प्रयोजनं किम् इति चेत्, यस्य वर्णस्य इत्-संज्ञा, तस्य लोपो भवति | केषां केषां वर्णानाम् इत्-संज्ञा भवति इति ज्ञायते इत्-संज्ञा-विधायक-सूत्रैः | तत्र सप्त सूत्राणि सन्ति; मिलित्वा तेषां नाम इत्संज्ञाप्रकरणम् |पाणिनेः प्रमुखग्रन्थः अष्टाध्यायी; इदं प्रकरणम् अष्टाध्याय्याम् | एभिः च सप्तभिः सूत्रैः सर्वम् इत्-संज्ञाविधायक-कार्यं सिध्यति | प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात् (१.३.२) आरभ्य, अष्टमसूत्रपर्यन्तम् (१.३.८) इत्संज्ञाप्रकरणम् |
अनुनासिकाः स्वराः
उपदेशे—नाम पाणिनेः मूलधातुषु, मूलप्रत्ययेषु, मूलादेशेषु, मूलागमेषु च—केचन स्वराः अनुनासिकाः | अनुनासिकः स्वरः नाम यस्मिन् अचि ँ इति अनुनासिकचिह्नम् अस्ति | सामान्यतया धातुकोषेषु पश्यन्ति चेत्, धातुषु न कुत्रापि अनुनासिकचिह्नं दृश्यते | किमर्थम् इति चेत्, प्राचीनकाले एकं संपूर्णं स्वरविज्ञानम् आसीत्; अस्माकम् आधुनिकयुगे इदं विज्ञानं लुप्तम् अतः स्वरविषये अस्माकं क्लेशः | स्वरविज्ञानस्य अभावे धातुकोषेषु अनुनासिकचिह्नानि न दत्तानि | किन्तु पाणिनेः सूत्रेषु अनुनासिकस्वराणां प्रयोगो भवति | यथा उपदेशेऽजनुनासिक इत् (१.३.२) इति प्रथमम् इत्-संज्ञा-विधायकं सूत्रम् | उपदेशावस्थायां यः अच् अनुनासिकः अस्ति, तस्य इत्-संज्ञा भवति अनेन सूत्रेण |
के स्वराः अनुनासिकाः इति विज्ञानम् यदा अस्माकं सविधे नास्ति; तदा अस्य सूत्रस्य प्रयोगं कथं कर्तुं शक्नुयाम ? वयं फलं दृष्ट्वा अनुमानं कुर्मः यत्र अनुनासिकचिह्नं स्यात् | यत्र मूलधातौ कश्चन स्वरः आसीत् यत् लौकिकधातौ नास्ति, तत्र अवगम्यते यत् सः स्वरः अनुनासिकः आसीत् अतः उपदेशेऽजनुनासिक इत् इति सूर्त्रेण तस्य लोपः जातः |
यथा गम्ऌ धातुः, अत्रः ऌ इति अच्-वर्णः औपदेशिकधातौ अस्ति, लौकिकधातौ च नास्ति | अतः तस्य लोपः जातः स्यात् | अनेन बुध्यते यत् ऌ इति अच्-वर्णः अनुनासिकः अपि च उपदेशेऽजनुनासिक इत् इति सूत्रेण तस्य इत्-संज्ञा भवति | तदा अन्यत् सूत्रम् अस्ति तस्य लोपः (१.३.९) येन इत्-संज्ञकवर्णानां लोपः भवति | तर्हि तस्य लोपः इत्यनेन ऌ-लोपः; गम् इति अवशिष्यते |
ऌ अनुनासिकः अस्ति इति कथं ज्ञातम् ? फलं दृष्ट्वा | लोके गम् इत्येव दृश्यते अतः ऌ इत्यस्य लोपः जातः; लोपः जातः चेत् उपदेशेऽजनुनासिक इत् इत्येव सूत्रेण अर्हति स्म, अतः ऌ अनुनासिकः स्यात् इति अनुमानम् अस्माकम् |
कुत्रचित् स्वरस्य इत्-संज्ञा-प्राप्तिः भवति अपरेण सूत्रेण यदा स्वरः अन्येन वर्णेन सह विशिष्टः वर्णसमूहः भवति | यथा डुपचष् इत्यस्मिन् डकारोत्तरवर्ती यः उकारः अस्ति, सः उकारः अनुनासिकः नास्ति | तत्र “डु” इत्येव एकः वर्णसमूहः | अधः एतादृशं विशिष्टम् इत्-संज्ञक-कार्यम् अपि प्रदर्श्यते |
तर्हि इत्संज्ञाप्रकरणे सप्त सूत्राणि सन्ति | अष्टाध्याय्यां चतुस्सहस्रं सूत्राणि, किन्तु तेषु केवलं सप्तभिः इत्-संज्ञा विधीयते | सप्त सूत्राणि ज्ञायन्ते चेत्, सर्वम् इत्संज्ञाप्रकरणं ज्ञायते | इमानि च सप्त सूत्राणि पाणिनिना सौकर्यार्थम् एकत्र स्थापितानि |
सप्तसु सूत्रेषु चत्वारि सूत्राणि सर्वेषु उपदेशेषु प्रयुज्यन्ते (धातुषु प्रत्ययेषु* च); त्रीणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते, न धातुषु | *अत्र प्रत्ययः इत्यनेन प्रत्ययाः, आदेशाः, आगमाः, त्रयाणाम् अपि ग्रहणम् |
इत्संज्ञाप्रकरणम्
चत्वारि सूत्राणि, उपदेशावस्थायां, सर्वेषु रूपेषु (धातुषु, प्रत्ययेषु, आदेशेषु, आगमेषु)—
१. उपदेशेऽजनुनासिक इत् (१.३.२) = उपदेशे (धातौ, प्रत्यये, आदेशे, आगमे) अच्-वर्णः अनुनासिकः चेत्, तस्य इत्-संज्ञा भवति | उपदेशे सप्तम्यन्तम्, अच् प्रथमान्तम्, अनुनासिकः प्रथमान्तम्, इत् प्रथमान्तम्,
अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— उपदेशे अच् अनुनासिकः इत् |
एधँ इति औपदेशिकधातुः → उपदेशेऽजनुनासिक इत् (१.३.२) इत्यनेन अँकारस्य इत्-संज्ञा (तदा वक्ष्यमाणसूत्रेण तस्य लोपः [१.३.९] इत्यनेन यस्य इत्-संज्ञा तस्य लोपः) → एध् इति लौकिकधातुः
२. हलन्त्यम् (१.३.३) = उपदेशस्य अन्ते हल् वर्णः अस्ति चेत्, तस्य हल्-वर्णस्य इत्-संज्ञा भवति | हल् प्रथमान्तम्, अन्त्यं प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्— उपदेशे अन्त्यम् हल् इत् |
कृ-धातुः + तृच्-प्रत्ययः → हलन्त्यम् (१.३.३) इत्यनेन चकारस्य इत्-संज्ञा (तदा तस्य लोपः इत्यनेन लोपः) → कृ + तृ → → कर्तृ इति प्रातिपदिकम्
३. न विभक्तौ तुस्माः (१.३.४) = विभक्त्यां तवर्गीयवर्णः, सकारः, मकारः च इत्-सज्ञकाः न भवन्ति | विभक्तिश्च (१.४.१०४) इत्यनेन सुप्-प्रत्ययाः तिङ्-प्रत्ययाः च सर्वे विभक्ति-संज्ञकाः | इदं सूत्रं हलन्त्यम् इत्यस्य बाधकसूत्रम् | तुश्च स् च मश्च, तेषाम् इतरेतरद्वन्द्वः, तुस्माः | न अव्ययपदं, विभक्तौ सप्तम्यन्तं, तुस्माः प्रथमान्तं, त्रिपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्— उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः |
राम + जस् → चुटू (१.३.७) इत्यनेन जकारलोपः → राम + अस् → हलन्त्यम् (१.३.३) इत्यनेन सकारस्य इत्-संज्ञा → न विभक्तौ तुस्माः (१.३.४) इत्यनेन सकारस्य इत्-संज्ञानिषेधः → रामास् → रामाः
अन्ये विभक्तिसंज्ञकप्रत्ययाः यत्र हलन्तलोपः बाधितः — शस्, भिस्, भ्यस्, ङस्, ओस्, अम्, भ्याम्, आम् | पदानि यत्र अन्तिमतवर्गीयवर्णः न लुप्तः— रामात्, तस्मात्, तस्मिन्, लभेरन् |
४. आदिर्ञिटुडवः (१.३.५) = उपदेशस्य आदौ ञि, टु, डु इति त्रिषु एकः वर्णसमूहः अस्ति चेत्, तस्य इत्-संज्ञा भवति | ञि, टु, डु एते निबन्धाः धातुषु एव भवन्ति अतः इदं सूत्रं वस्तुतः धातूनां कृते | ञिः च, टुः च, डुः च, तेषाम् इतरेतरद्वन्द्वः ञिटुडु, बहुवचने ञिटुडवः (गुरु-शब्दः इव) | आदिः प्रथमान्तं, ञिटुडवः प्रथमान्तं, द्विपदमिदं सूत्रम् | आदिः इति इत् इति च बहुत्वे एकवचनम् | अनुवृत्ति-सहितसूत्रम्— उपदेशे धातोः आदयः ञिटुडवः इतः |
टुनदिँ इति धातुः → आदिर्ञिटुडवः (१.३.५) इत्यनेन टु इति वर्णसमूहस्य इत्-संज्ञा (तदा तस्य लोपः इत्यनेन लोपः) → नदिँ → उपदेशेऽजनुनासिक इत् (१.३.२) इत्यनेन इँकारस्य इत्-संज्ञा → नद् → नन्द् इति लौकिकधातुः (अत्र नुमागमः भवति इति अग्रे पठिष्यामः)
*इँर इत्संज्ञा वाच्या [नेटि (७.२.४) इति सूत्रस्य अन्तर्गतम्] एकं वार्त्तिकम् =धातोः ‘इँर्’ इत्यस्य शब्दसमुदायस्य इत्-संज्ञा भवति | छिदिँर् इत्यादिषु धातुषु इरः इत्संज्ञा भवति | भिदिँर् → भिद्, छिदिँर् → छिद्, दृशिँर् → दृश्, णिजिँर् → णिज्, युजिँर् → युज्, ईशुचिँर् → शुच् | धेयं यत् इँकारस्य रेफस्य च भिन्नरीत्या इत्संज्ञा न करणीया |
त्रीणि सूत्राणि, उपदेशावस्थायां, प्रत्ययेषु एव—
१. षः प्रत्ययस्य (१.३.६) = प्रत्ययस्य आदौ षकारः अस्ति चेत्, तस्य इत्-संज्ञा भवति | षः प्रथमान्तं, प्रत्ययस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्— उपदेशे प्रत्ययस्य आदिः षः इत् |
जल्पँ इति औपदेशिकधातुः + षाकन्-प्रत्ययः → उपदेशेऽजनुनासिक इत् (१.३.२), हलन्त्यम् (१.३.३), षः प्रत्ययस्य (१.३.६) इति सूत्रैः इत्-संज्ञा (तदा तस्य लोपः इत्यनेन लोपः)→ जल्प् +आक → जल्पाक इति प्रातिपदिकम् | जल्पाकः = यः बहु वदति इत्यर्थः |
२. चुटू (१.३.७) = प्रत्ययस्य आदौ चवर्गीयः (च्, छ्, ज्, झ्, ञ्), अथवा टवर्गीयः (ट्, ठ्, ड्, ढ्, ण्) वर्णः भवति चेत्, तस्य वर्णस्य इत्-संज्ञा भवति | चुश्च टुश्च तयोः इतरेतरद्वन्द्वः, चुटू (द्विवचने, गुरु-शब्दः इव) | चुटू प्रथमान्तम्, एकपदमिदं सूत्रम् | वचनविपरिणामं क्रियते | अनुवृत्ति-सहितसूत्रम्— उपदेशे प्रत्ययस्य आदी चुटू इतौ |
राम + जस् → चुटू (१.३.७) इत्यनेन जकारस्य इत्-संज्ञा (तदा तस्य लोपः इत्यनेन लोपः) → राम + अस् → → रामाः
३. लशक्वतद्धिते (१.३.८) = प्रत्ययस्य आदौ लकारः, शकारः, कवर्गीयः (क्, ख्, ग्, घ्, ङ्) च वर्णः अस्ति चेत्, तस्य इत्-संज्ञा भवति; किन्तु तद्धितप्रत्यये न | लश्च, शश्च, कुश्च, तेषां समाहारद्वन्द्वः, लशकु | न तद्धितम्, अतद्धितं नञ्तत्पुरुषः, तस्मिन् अतद्धिते | लशकु प्रथमान्तम्, अतद्धिते सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्— उपदेशे प्रत्ययस्य आदि लशकु इत् अतद्धिते |
राम + शस् → लशक्वतद्धिते (१.३.८) इत्यनेन शकारस्य इत्-संज्ञा (तदा तस्य लोपः इत्यनेन लोपः) → राम + अस् → → रामान्
इत्-लोप-विधिः
एकवारं यदा कस्यचित् वर्णस्य वर्णसमूहस्य च इत्-संज्ञा भवति, तदा तस्य लोपः इति सूत्रेण, तस्य लोपो भवति |
तस्य लोपः (१.३.९) = इत्-संज्ञकस्य वर्णस्य लोपो भवति | तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | उपदेशेऽजनुनासिक इत् (१.३.२) इत्यस्मात् इत् इत्यस्य अनुवृत्तिः, षष्ठ्यर्थे | अनुवृत्ति-सहितसूत्रम्— तस्य इतः लोपः |
अनुवृत्तिः
एतेषाम् अनुवृत्ति-क्रमः सुलभः |
उपदेशेऽजनुनासिक इत् (१.३.२) इत्यस्मिन् न काऽपि अनुवृत्तिः | सर्वं सूत्रे एव वर्तते |
हलन्त्यम् (१.३.३) इत्यस्मिन् सूत्रे उपदेशेऽजनुनासिक इत् इत्यस्मात् सूत्रात् “उपदेशे”, “इत्" इत्यनयोः अनुवृत्तिः | अतः “उपदेशे अन्त्यं हल् इत्” इति वाक्यम् |
न विभक्तौ तुस्माः (१.३.४) इत्यस्मिन् उपदेशेऽजनुनासिक इत् इत्यस्मात् “उपदेशे”, “इत्” इत्यनयोः अनुवृत्तिः | हलन्त्यम् इत्यस्मात् “हल्”, “अन्त्यम्" इत्यनयोः अनुवृत्तिः | अतः “उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः” इति वाक्यम् |
आदिर्ञिटुडवः (१.३.५) इत्यस्मिन् उपदेशेऽजनुनासिक इत् इत्यस्मात् सूत्रात् “उपदेशे”, “इत्" इत्यनयोः अनुवृत्तिः; भूवादयो धातवः (१.३.१) इत्यस्मात् “धातोः” इत्यस्य अनुवृत्तिः (वचनपरिणामं विभक्तिपरिणामं च कृत्वा) | अतः “उपदेशे धातोः आदयः ञिटुडवः इतः” इति वाक्यम् |
षः प्रत्ययस्य (१.३.६) इत्यस्मिन् आदिर्ञिटुडवः इत्यस्मात् “आदिः”, उपदेशेऽजनुनासिक इत् इत्यस्मात् “उपदेशे”, “इत्”, अतः “उपदेशे प्रत्ययस्य आदिः षः इत्” इति वाक्यम् |
चुटू (१.३.७) इत्यस्मिन् षः प्रत्ययस्य इत्यस्मात् “प्रत्ययस्य”, आदिर्ञिटुडवः इत्यस्मात् “आदिः”, उपदेशेऽजनुनासिक इत् इत्यस्मात् “उपदेशे”, “इत्”, अतः “उपदेशे प्रत्ययस्य आदिः चुटू इतौ” इति वाक्यम् |
लशक्वतद्धिते (१.३.८) इत्यस्मिन् पुनः षः प्रत्ययस्य इत्यस्मात् “प्रत्ययस्य”, आदिर्ञिटुडवः इत्यस्मात् “आदिः”, उपदेशेऽजनुनासिक इत् इत्यस्मात् “उपदेशे”, “इत्”, अतः “उपदेशे प्रत्ययस्य आदिः ल, श, कु अतद्धिते इत्” इति वाक्यम् |
तस्य लोपः (१.३.९) इत्यस्मिन् उपदेशेऽजनुनासिक इत् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः अतः “तस्य इतः लोपः” इति वाक्यम् |
धेयं यत् सिद्धान्तकौमुद्याः इत्संज्ञा-सम्बद्धसूत्राणां सूत्रसङ्ख्याः क्रमेण न वर्धन्ते | पठनेन अनुवृत्तिः न स्फुटा अतः सूत्रार्थः नावगम्यते |
अभ्यासः
धातवः—
डुपचँष् = “डु” आदिर्ञिटुडवः इत्यनेन इत्-संज्ञा, हलन्त्यम् इत्यनेन षकारस्य इत्-संज्ञा, चकारोत्तरवर्ती अँकारः उपदेशेऽजनुनासिक इत् इत्यनेन इत्-संज्ञा, तस्य लोपः इत्यनेन सर्वेषां लोपः → पच् इति धातुः
लिखँ = उपदेशेऽजनुनासिक इत् इत्यनेन अँकारस्य इत्-संज्ञा → लिख् इति धातुः
डुकृञ् =
ञिमिदाँ =
गम्ऌँ =
दृशिँर्
जीवँ
युजिँर्
प्रत्ययाः—
णिच्
षाकन् =
जुस् =
टा =
शप् =
ङस् =
श्ना =
क्त =
ष्वुञ् =
ण्वुल् =
ख्युन् =
श्यन् =
ल्युट् =
तृच् =
ष्वुन् =
क्तिन् =
तव्यत् =
शानच् =
अनीयर् =
शतृँ =
णिनिँ =
क्लुकँन् =
अनुबन्ध-वर्णाः किमर्थम् ?
१) अनुबन्धैः विभिन्नकार्याणि सिध्यन्ति |
२) यत्र प्रत्ययाः समानाः दृश्यन्ते, अनुबन्धैः ते भिद्यन्ते | यथा भ्वादिगणे शप्, तुदादिगणे श | उभयत्र ‘अ’ इत्येव अवशिष्यते अनुबन्धनिष्कासानन्तरम् | अनुबन्धवर्णैः एव प्रत्ययभेदः ज्ञायते | तथैव बहुत्र |
३) प्रत्ययस्य अन्यरीत्या नामकरणं भवति— तस्य स्वभावम् अनुसृत्य, अनुबन्धानुगुणं भवति | णकारः अनुबन्धः चेत्, यथा णिच्-प्रत्ययः, तर्हि सङ्क्षेपे प्रत्ययस्य नाम णित् (णकारः इत् यस्य सः णित् इति बहुव्रीहिसमासः); ककारः अनुबन्धः चेत्, यथा क्त, क्तवतु, क्त्वा, तर्हि सङ्क्षेपे प्रत्ययस्य नाम कित् (ककारः इत् यस्य सः कित्) इत्यादिकम् |
प्रश्नः उदेति अनुबन्धाः किमर्थं युज्यन्ते पाणिनिना यदि तेषां लोपः भवति एव ? अनुबन्धाः अपगच्छन्ति, परन्तु तैः सङ्केतः दीयते कार्यार्थम् | यथा शप् इति विकरणप्रत्ययः | तस्य शकारस्य इत्-संज्ञा, पकारस्य च इत्-संज्ञा |
अनुबन्धलोपानन्तरम् ‘अ’ इत्येव अवशिष्यते | शकारपकारयोः इत्-संज्ञा इत्यनेन धातोः स्वरपरिवर्तनं भवति | भू + शप् + ति → अनुबन्धलोपे → भू + अ + ति → शप्-प्रत्ययस्य कारणेन ऊकारः ओकारः भवति (गुणः) → भो + अ + ति → सन्धिः → भव + ति → भवति |
तर्हि क्रियापदविषये मूलधातुः कः, अपि च अनुबन्धानां निष्कासनानन्तरं किम् अवशिष्यते इति प्रथमम् अवगन्तव्यम् | परं तस्मात् धातोः विहितः यः प्रत्ययः अस्ति, तस्मिन् अपि अनुबन्धाः के, किं च अवशिष्यते | तदा एव अग्रे धातु-प्रत्यययोः मेलनेन क्रियापदं निर्मातुं शक्नुयाम | सुबन्तपदविषये (नामपदविषये) अपि तथा; प्रथमं कार्यम् अस्ति प्रकृति-प्रत्यययोः अनुबन्धलोपः | तदा एव पदनिर्माणम् |
वृत्तान्ते डुपचँष् (पाके) इति मूलस्वरूपं, पचति इति क्रियापदम् | तत्र सामान्यतया धातुः “पच्” इति वदामः; परन्तु मूलतया डुपचँष् इति उपदेशे स्वरूपं वर्तते | तत्र केचन अनुबन्धाः सन्ति— आरम्भे डु, अन्ते षकारः अपि च चकारोत्तरवर्ती अँकारः | चकारात् उत्तरं वर्तते इति चकारोत्तरवर्ती | वर्ती इत्यस्य प्रातिपदिकं वर्तिन्, वृत् धातोः | त्रयाणाम् अपि अनुबन्धानाम् इत्-संज्ञा भवति, परं लोपः भवति; पच् इत्येव अवशिष्यते | ततः परम् अस्माभिः प्रत्ययः कः इति चिन्तनीयं, यथा तव्यत् | तत्र तकारस्य इत्-संज्ञा लोपः च, तव्य इति अवशिष्यते | तर्हि पच् + तव्य इति स्थितिः | एतादृश्यां स्थित्याम् इदानीं कार्यस्य आरम्भः भवति, येन पक्तव्यम् इति रूपं निष्पद्येत |
एवमपि धेयं, केचन धातवः प्रत्ययाः चापि तादृशाः सन्ति, येषु अनुबन्धाः न भवन्ति | यथा भू-धातुः, भू सत्तायाम्— तत्र कोऽपि अनुबन्धः नास्ति | प्रत्ययेषु यथा ‘अ’ इति प्रत्ययः, तत्र अनुबन्धः नास्ति |
अन्यानि उदाहरणानि— प्रत्ययस्य ण् च ञ् च अनुबन्धः चेत्, धातोः अन्तिम-स्वरस्य वृद्धिः; प्रत्ययस्य क् च ङ् च अनुबन्धः चेत्, धातोः कस्यापि स्वरस्य गुणः वृद्धिः च न भवति | ण्, ञ्, क्, ङ् इत्येतान् अनुबन्धान् विहाय प्रत्ययस्य अन्यः कोऽपि अनुबन्धः चेत्, धातोः अन्तिम-स्वरस्य गुणः | एतादृशानि महत्वपूर्ण-कार्याणि अनुबन्धैः सिध्यन्ति |
Swarup – August 2014 (Updated October 2015)
परिशिष्टम्
अत्र वंशी सुधा भगिनी अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या इत्संज्ञाप्रकरणं चित्रत्वेन निरूपितवती—