९. नवमोऽध्यायः
सङ्ख्या ०१. षष्ठकक्ष्यायां विंशतयः जनाः सन्ति ।
“विंशतिः जनाः’ इति वक्तव्यम् । “विंशतयः जनाः’ इति प्रयोगः
असाधुः । सङ्ख्याविषये इदं किञ्चित् ज्ञातव्यम् । एकशब्दः एकत्वे । द्वित्वे द्विशब्दः । त्रिशब्दतः दशान्ताः शब्दाः च (नवदशपर्यन्तम्) बहुत्वे । विंशत्यादयः (विंशतिः, त्रिंशत् …. शतम्, लक्षम्..) नित्यैकवचनान्ताः । तेषु आ नवतेः शब्दाः स्त्रीलिङ्गे च । तथा हि अमरकोषः - “विंशत्याद्याः सदैकत्वे, तासु चानवतेः स्त्रियः’ इति । एवं च विंशत्यादयः नित्यैकवचनान्ताः । अतः विशतिं पुस्तकानि, विंशत्या जनैः, विंशत्यां विद्यालयेषु इत्यादयः प्रयोगाः । ‘विंशतिः जनाः’ इत्यत्र विशेष्यभूतः जनशब्दः पुंसि बहुत्वे च । विशेषणभूतः स्त्रियाम् एकत्वे च । एतस्यां स्थितौ कश्चन प्रश्रः उद्भवेत् - ‘यल्लिङ्गं यद्वचनं…’ इत्येतस्य नियमस्य अन्वयः अत्र न दृश्यते खलु इति । सत्यम् । स च नियमः अत्र न अन्वेति । सः नियमः विशेष्यनिघ्नानां विषये । नियतलिङ्गानां विषये तस्य अन्वयः न भवति । अतः एव - ‘मयूरः वाहनम्’ “मित्रं रामः’ ‘वेदाः प्रमाणम्’ इत्यादयः प्रयोगाः । एतदपि अत्र ज्ञातव्यम् - संस्कृतभाषायां सङ्ख्याः अर्थद्वयं बोधयन्ति - सङ्ख्यां सङ्ख्येयं चेति । प्रादेशिकभाषासु एषः क्रमः नास्ति । ‘सङ्ख्येयः’ सङ्ख्यया परिच्छिन्नं वस्तु बोधयति । स च विशेष्यनिघ्नो भवति । यथा - एकः पुरुषः, एका महिला, एकं पुष्पम् इत्यादि । किन्तु आदश सङ्ख्येयार्थकत्वमेव । तन्नाम नवदशान्ताः सर्वाः सङ्ख्याः सङ्ख्येयार्थकत्वमेव बोधयन्ति । प्रमाणं यथा - ‘सङ्ख्याः सङ्घयेये
ह्यादश त्रिषु’ इति अमरः । विंशत्याद्याः तु सङ्ख्यां सङ्ख्येयं च बोधयन्ति । सङ्घयेयबोधकता
212
शुद्धिकौमुदी
यथा - विंशतिः पुरुषाः, नवतिः पुस्तकानि, त्रिंशत् महिलाः इत्यादयः । सङ्ख्याबोधकता यथा - पुरुषाणां विंशतिः, पुस्तकानां नवतिः, महिलानां त्रिंशत् इत्यादयः। एवं च दशान्ताः (*नवदशपर्यन्ताः) सश्येयमाने । विंशत्याद्याः सङ्ख्येयार्थे सत्यार्थे च भवन्ति इति सिद्धम् ।
‘सङ्ख्यार्थे द्विबहुत्वे स्तः’ इति अमरकोषः । यथा - जनानां विंशतिः . (२०), जनानां विंशती (४०), जनानां विंशतयः (६०,८०… इत्यादयः) तात्पर्यम् एतत् सिद्धं भवति - विशेषणत्वेन सङ्घयेयार्थत्वेन उपयुज्यमानाः विंशत्याद्याः सङ्ख्याः नित्यैकवचनान्ताः । सङ्ख्यार्थे उपयुज्यमानानां द्विवचनबहुवचनान्तता सम्भवति । यस्याः द्विवचन
बहुवचनान्तता अस्ति सा विशेषणत्वेन उपयोक्तुं न शक्या । ०२. स्पर्धायां विंशतिजनैः भागः गृह्यते ।
अत्र विंशतिजनयोः यः समासः कृतः सः न दोषाय । ‘दिक्सङ्खये संज्ञायाम् (२.१.५०) इति सूत्रं वदति - ‘सङ्ख्या वाचकः दिग्वाचकः च कर्मधारयसमासे (तत्पुरुषे) संज्ञायाम् एव समस्यते’ इति । सप्तर्षयः इत्यादीनि एतस्य उदाहरणानि । ‘विशंतिजनाः’ इति न संज्ञा । अतः सूत्रस्य आशयानुसारेण अत्र समासः निषिद्धः । किन्तु सङ्ख्यया समासः कृतः दृश्यते प्राचीनैः । तद्यथा - - ‘त्रिलोकनाथः पितृसद्मगोचरः’ इति कालिदासः । - ‘नवरसरुचिरा’ इति मम्मटः । - ‘षोडशपदार्थानाम्’ इति न्यायशास्त्रे । - सप्तस्त्रीलिङ्गशब्दानाम्’ इति प्रयोगः कौमुद्याम् उदाहृते प्राचाम् ___- ‘अवीतन्त्री……’ इत्यस्मिन् पद्ये । एतादृशेषु स्थलेषु इत्थं समाधानम् उच्यते - त्र्यवयवः लोकः
त्रिलोकः । शाकपार्थिवादित्वात् उत्तरपदलोपः । षोडशपदार्थानाम् * अत्र ‘नवदश’ इति शब्दः ग्रहीतव्यः, न तु अर्थः । ‘नवदश’शब्दे प्रयुक्ते दशान्तत्वम् । अतः सङ्ख्येयमात्रार्थकता बहुवचनं च । ‘एकोनविंशतिः’ इति शब्दे प्रयुक्ते विंशत्याद्यत्वम् । तदा सङ्ख्येयार्थता सङ्ख्यार्थता च ।सङ्ख्या
213
SPI
इत्यत्र पोडशसङ्ख्याकाः पदार्थाः इति मध्यमपदलोपी समासः । एवम् एव इतरत्रापि । एतच्च समाधानं कौमुद्याः व्याख्याने बालमनोरमायां तत्त्वबोधिन्यां च निरूपितम् अस्ति । तत्र एतदपि उच्यते - “एतच्च द्विगोलुंगनपत्ये इति भाष्ये स्पष्टम्’ इति । महाकविप्रयोगाणां साधुत्वम् अवगतम् । दैनन्दिनव्यवहारे अस्माभिः किं करणीयम् ? यदि समासः न अङ्गीक्रियेत तर्हि विंशत्या जनैः, चत्वारिंशतः जनेभ्यः, नवत्यां गृहेषु इत्यादीनां विषये अधीतशास्त्राः अपि प्रमादं कुर्युः । एवं स्थिते का कथा स्यात् सामान्यानाम् ? अतः प्रमादबाहुल्यस्य निवारणाय सङ्ख्यया सह तत्पुरुषसमासः अङ्गी क्रियते । प्राचीनानां प्रयोगाणां साधुत्वकथनाय यः उपायः आश्रितः स एव उपायः आश्रीयते अत्रापि । यत्र क्लेशस्य बाहुल्यं तत्र शिष्टैः
अनिषिद्धस्य मार्गस्य अवलम्बनं न दोषाय इति भाव्यते । ०३. शतं जनेभ्यः भोजनं व्यवस्थापनीयम् अस्ति ।
‘शतं जनेभ्यः’ इति असाधुप्रयोगः । “शताय जनेभ्यः’ इति, “शतजनेभ्यः ’ इति वा प्रयोक्तव्यम् ।
शतशब्दस्य एकवचनान्तप्रयोगः युक्तः एव । किन्तु जनशब्दोत्तरं श्रूयमाणा चतुर्थीविभक्तिः तत्र न योजिता । स च दोषाय । ‘शताय’
इति प्रयोक्तव्यम् । यदि समासः इष्यते तर्हि शतजनेभ्यः इति प्रयोगः । ०४. ‘भवतः कोषे कति रूप्यकाणि सन्ति ?’ ‘पञ्च अस्ति’
‘पञ्च अस्ति’ इति दोषाय । “पश्च सन्ति’ इति प्रयोक्तव्यम् । पञ्चशब्दः बहुवचनान्तः । कदाचित् वक्ता पञ्चरूप्यकद्योतकम् एकं रूप्यककागदम् अस्ति इत्येतम् अर्थं मनसि निधाय ‘पञ्च अस्ति’ इति वाक्यं प्रयुक्तवान् स्यात् । किन्तु प्रयुक्तं वाक्यं तु तादृशम् अर्थं न
अभिव्यञ्जयति । अतः ‘पञ्च सन्ति’ इत्येव प्रयोगः स्यात् । ०५. अहं पञ्चदिनात् पत्रस्य प्रतीक्षां कुर्वन् अस्मि ।
‘पञ्चभ्यः दिनेभ्यः’ इति, ‘पञ्चदिनेभ्यः’ इति वा प्रयोगः वरम् । पञ्चशब्दः बहुवचनान्तः । अतः दिनशब्दः अपि बहुवचनान्तः एव स्यात् । अन्यथा परस्परान्वयः न स्यात् । ‘पञ्चभ्यः दिनेभ्यः’ इत्यत्र व्यस्तप्रयोगः । ‘पञ्चदिनेभ्यः’ इत्यत्र समासः । सूत्रेण निषिध्यमानः अपि समासः प्राचीनप्रयोगान् अवलब्य क्रियते अगतिकगत्या ।
214
शुद्धिकौमुदी
अतः यत्र शक्यते तत्र व्यस्तप्रयोगः एव वरम् । अथवा ‘पञ्चदिनात्’ इत्येतत् समर्थनीयम् एव इति तीवेच्छा तर्हि इत्थं समर्थनं शक्यम् - पञ्चानां दिनानां समाहारः पञ्चदिनम् । पात्रादिगणे
प्रवेशनात् अकारान्तता । पात्रादिः आकृतिगणः । ०६. ‘भवतः कोषे कति रूप्यकाणि सन्ति ? ‘शतम् अस्ति’
‘शतम् अस्ति’ इति प्रयोगः समर्थनार्हः अस्ति । ‘रूप्यकाणाम्’ इति पदं तत्र अध्याहार्यम् । तथा च ‘रूप्यकाणां शतम् अस्ति’ इति समग्रं वाक्यम् । शतशब्दस्य सङ्ख्यार्थकता । अतः क्रियापदस्य एक वचनान्तता न दोषाय । ‘शतं सन्ति’ इत्यपि प्रयोगः भवितुम् अर्हति । तदा तु ‘रूप्यकाणि’ इत्यस्य अध्याहारः । शतं रूप्यकाणि सन्ति’ इत्यत्र प्रथमान्तस्य बहुवचनान्तस्य रूप्यकशब्दस्य अध्याहारः । ‘शत’पदस्य सङ्ख्येयार्थकता । अतः उभयथा अपि साधुत्वम् । ‘तुल्यन्यायेन ‘पञ्च अस्ति’ इति प्रयोगः कुतो वा समर्थयितुं न शक्यः’ इति प्रश्नः सम्भवेत् । ‘पञ्च’ इत्यस्य सङ्घार्थकता नास्ति । सङ्ख्येयमात्रार्थकता तस्य । अतः प्रथमान्तस्यैव पदस्य अध्याहारः सम्भवति, न तु षठ्यन्तस्य । तस्मात् दशान्तपदस्य प्रयोगे सति (एकशब्दं द्विशब्दश्च विहाय) क्रियापदस्य एकवचनान्तस्य
प्रयोगः न सम्भवति । ०७. अष्टादशतमे पाठे अयम् अंशः चर्चितः अस्ति ।
‘अष्टादशतमे’ इति अपशब्दः । ‘अष्टादशे’ इति वक्तव्यम् । ‘विंशत्यादिभ्यः तमडन्यतरस्याम्’ (५.२.५६) इति सूत्रेण विंशत्यादिभ्यः एव तमडागमः विहितः । अष्टादशशब्दः दशान्तेषु अन्तर्भवति, न तु विंशत्यादिषु । अतः तत्र न तमट् । तस्मात् अष्टादशः इत्यस्मात् केवलं डट् एव ‘तस्य पूरणे डट्’ (५.२.४८)
इति सूत्रेण । ०८. भोः षष्ठम ! त्वम् उत्तिष्ठ । . .
‘षष्ठम’ इति अपशब्दः । “षष्ठ’ इति प्रयोक्तव्यम् । पञ्चम-सप्तमाष्टमादिषु अन्ते मकारः श्रूयते । ‘नान्तात् असङ्घयादेर्मट्’ (५.२.४९) इति सूत्रेण पञ्चादिभ्यः मडागमः भवति । ‘षष्’ इति
सहत्या
215
शब्दात् तु पूरणार्थे न मट, अपि तु तस्य ‘षट्कतिकतिपयचतुरां थुक्’ (५.२.५१) इति सूत्रेण थुगागमः । अतः “षष्ठः’ इति रूपम् । मटः
अभावात् षष्ठमः इति रूपं न । ०९. संवत्सरचक्रे नवपञ्चाशः क्रोधनः, षष्टः क्षयः अक्षयो वा ।
“षष्टः’ इति अपशब्दः । “पष्टितमः’ इति प्रयोक्तव्यम् । षष्टिशब्दात् नित्यं तमट ‘षष्ट्यादेश्चासंख्यादेः’ (५.२.५८) इति सूत्रेण । अतः षष्टः सप्ततः, अशीतः, नवतः इत्येतानि चत्वारि रूपाणि असाधूनि एव । ‘एकषष्टः’ … इत्यादयः तु भवन्ति एव । तेभ्यः विकल्पेन तमटः विधानात् । ‘षष्ठः’ इत्येतत् टवर्ग
चतुर्थाक्षरयुक्तं रूपं तु ‘षष्’शब्दस्य पूरणार्थकं रूपम् । १०. चतुर्थायां पढौ कश्चन मुद्रणदोषः अस्ति ।
‘चतुर्थायाम्’ इति अपशब्दः । ‘चतुर्थ्याम्’ इति वक्तव्यम् । चतुर्थशब्दः स्त्रियाम् ईकारान्तः । अतः चतुर्थी इति रूपम् । ‘चतुर्थ’ इत्यत्र ‘षट्कति…’ इति सूत्रेण थुगागमः । स च डटि एव । डट्प्रत्ययः टित् । तस्मात् ‘टिड्डाणञ्…’ (४.१.१५) इति सूत्रेण ङीप् । अतः चतुर्थी इत्येव रूपम् । प्रथमद्वितीयतृतीयशब्दाः आकारान्ताः स्त्रियाम् । यतः ते टित्प्रत्ययं न प्राप्नुवन्ति । प्रथमः इत्यत्र अमच्प्रत्ययः । द्वितीयतृतीयौ तीयप्रत्ययं प्राप्नुतः । अन्याः सर्वाः अपि सङ्ख्याः पूरणार्थे टितम् एव प्रत्ययं प्राप्नुवन्ति । एतान् त्रीन् विहाय अन्याः सर्वाः पूरणार्थे स्त्रियाम् ईकारम् एव प्राप्नुवन्ति । कारागारे स्थापितः चोरः विंशतितमायां रात्रौ पलायितवान् । ‘विंशतितमायाम्’ इति अपशब्दः । “विंशतितम्याम्’ इति
वक्तव्यम् । “विंशतिशब्दात् पूरणार्थे डट्प्रत्ययः (तमडागमश्च) । स च टित् । टित्त्वात् ‘टिहाणञ्…’ इति सूत्रेण ङीप् । अतः विंशतितमी इति रूपम् । आढ्यतमः लघुतमः इत्यादिषु अपि ‘तम’ इति श्रूयते । स च ‘तमप्’ प्रत्ययः । ‘अतिशायने तमबिष्ठनौ’ (५.३.५५) इति सूत्रेण तमप्प्रत्ययः । तस्य पित्त्वात् न ङीबादयः । तस्मात् आढ्यतमा
8B
216
शुद्धिकौमुदी
लघुतमा इत्येवं टाबन्तं रूपं स्त्रियाम् । सङ्ख्यायाः तु पूरणार्थे डट् । सः टित् । तस्मात् ङीप् । अतिशायनार्थे तमप् । सः न टित् । अतः टाप् । अतः विंशतितम-लघुतमयोः अन्ते
‘तम’ इत्येतत् श्रूयते चेदपि प्रत्ययभेदात् स्त्रीप्रत्ययभेदः । १२. विंशतितमे एतस्मिन् शताब्दे सर्वे अर्थपराः एव दृश्यन्ते प्रायेण ।
शततमः अब्दः भवति शताब्दः । “एतस्यां शताब्द्याम्’ इति, “एतस्मिन् शतके’ इति वा प्रयोक्तव्यम् । समासबलात् ‘शत’शब्दः शततमार्थं बोधयति । सङ्ख्याशब्दानां वृत्तिविषये पूरणार्थत्वं दृश्यते । “त्रिभागशेषासु निशासु’ इति कुमारसम्भवे (५.५७) प्रयोगः । तृतीयः भागः त्रिभागः, सः शेषः यासां तासु इति विग्रहः । ‘आददीताथ षड्भागम्…’ इति मनुस्मृतौ (८.३३) । अत्र षष्ठः भागः षड्भागः इति अर्थः । एवमेव ‘शतांशः’ इत्यादिषु पूरणाप्रत्ययार्थता बोध्या ।
अत्र तु शतस्य अब्दानां समूहः अपेक्षितः । तस्मिन् अर्थे द्विगुः करणीयः । शतस्य अब्दानां समाहारः शताब्दी । “द्विगोः’ (४.१.२१) इति सूत्रेण डीप । अतः ‘विंशतितम्याम् एतस्यां शताब्द्याम्’ इति प्रयोक्तव्यम् । “विंशतितमे एतस्मिन् शतके’ इत्यपि
प्रयोगः भवितुम् अर्हति । १३. विद्यालयस्य शततमं वर्षम् एतत् । अतः शताब्दीकार्यक्रमः महता
वैभवेन आचरणीयः । ‘शताब्दीकार्यक्रमः’ इति अशुद्धम् । “शताब्दकार्यक्रमः’ इति प्रयोक्तव्यम् । शततमं वर्षं सूचयितुम् अत्र ‘शताब्दी पदं प्रयुक्तम् । “शताब्दी’ इत्यस्य ‘शतस्य अब्दानां समाहारः’ इत्यर्थः । अत्र सः न अभिप्रेतः । ‘शततमः अब्दः’ इत्यर्थः अभिप्रेतः । तस्मिन् अर्थे
‘शताब्द’शब्दस्य प्रयोगः युज्यते । तस्य अर्थविवरणं पूर्वम् उक्तम् । १४. एतस्मिन् शतमाने बहवः कवयः अभूवन् ।
‘एतस्मिन् शतके’ इति, “एतस्यां शताब्दयाम्’ इति वा प्रयोक्तव्यम् । शतमानशब्दस्य ‘शतस्य अनेकेषां मानं पूजा यस्मिन्’ इति अर्थः ।
सहया
217
बहूनाम् आदरपात्रीभूतः उच्यते ‘शतमानः’ इति । ‘शतमानं भवति शतायुः पुरुषः ….’ इत्येतस्मिन् श्रुतिवाक्ये शतमानशब्दस्य अयमेव अर्थः उक्तः । “शतस्य वर्षाणां समूहः’ इत्यर्थः तस्य पदस्य नास्ति । अतः अपेक्षितम् अर्थं गमयितुं शतकशब्दः शताब्दीशब्दो वा प्रयोक्तव्यः । उभयोः अपि अर्थः समानः भवति । यदि स्थितस्य गतिः कथञ्चित् चिन्तनीया तर्हि इत्थं समर्थनं भवितुम् अर्हति - शतं वर्षाणि मानं यस्य सः शतमानः । यस्य = काल खण्डस्य इत्यर्थः । सः कालखण्डः शतमानः । . पितृपादानां षष्ट्यब्दिकार्यक्रमे बहवः उपस्थिताः आसन् ।
‘षष्ट्यब्दि कार्यक्रमः इति असाधु । षष्ट्यब्दकार्यग्रमः इति प्रयोक्तव्यम् । अत्र ‘षष्टितमः अब्दः’ इत्यर्थः अपेक्षितः । तदर्थं षष्ट्यब्दशब्दः उपयोक्तव्यः । षष्टितमः अब्दः षष्ट्यब्दः । समासबलात् पूरणार्थता । “षष्टेः अब्दानां समाहारः’ इति विग्रहे कृते तु ‘षष्ट्यब्दी’ इति ईकारान्तता स्यात् । इकारान्तता तु कथमपि न सम्भवति । समाहारार्थः अत्र न अभिप्रेतः इत्यतः षष्ट्यब्दीशब्द
प्रयोगः अपि अनुचितः । १६. द्वित्रिक्षणानन्तरं सः ततः निर्जगाम ।
‘द्वित्रिः’ इति अपशब्दः । ‘द्वित्राः’ इति प्रयोक्तव्यम् ।
द्वौ वा त्रयो वा द्वित्राः । “संख्याव्ययासन्न…’ (२.२.२५) इति सूत्रेण बहुव्रीहित्वम् । “बहुव्रीहौ संख्येये डजबहुगणात्’ (५.४.७३) इति सूत्रेण डच् । ‘टेः’ (६.४.१४३) इति सूत्रेण टिलोपः । तस्मात् अकारान्तता । केवलः त्रिशब्दः इकारान्तः । द्वित्रशब्दः तु
अकारान्तः । १७. मम गृहे पश्चषड् यानानि सन्ति ।
‘पञ्चषड्’ इति अपशब्दः । ‘पञ्चषाणि’ इति वक्तव्यम् । पञ्च वा षड् वा इति बहुव्रीहिः । बहुव्रीहौ डच्प्रत्ययः । तस्मात् अकारान्तता। षष्शब्दः षकारान्तः । पञ्चषशब्दः तु अकारान्तः । अतः ‘पञ्चषड्दिनेषु’ ‘पञ्चषड्वाक्यानि’ इत्यादीनि रूपाणि असाधूनि एव ।
218
शुद्धिकौमुदी
१८. बन्धुगृहं गतः सः चतुःपञ्चसु दिनेषु प्रत्यागच्छेत् ।।
‘चतुःपञ्चसु’ इति अपशब्दः । “चतुःपश्चेषु’ इति प्रयोक्तव्यम् । एतादृशशब्दानां प्रयोगः एव परिहरणीयः वा । चत्वारः वा पञ्च वा इति विग्रहः । ‘संख्याव्ययासन्न…’ इति सूत्रेण बहुव्रीहित्वम् । ततः डच्प्रत्ययः च । तस्मात् अकारान्तता । ‘चतुःपञ्चाः’ इति रूपम् । इदमत्र ज्ञेयम् - प्रादेशिकभाषासु “एक-दो’ ‘दो-तीन’ ‘तीन-चार’ ‘चार-पांच’ ‘पांच-छे’ “सात-आठ’ ‘आठ-दस’ ‘दस-बारह’ ‘दस-पंद्रह’ इत्यादयः प्रयोगाः श्रूयन्ते । संस्कृते तु एते सर्वे शब्दाः व्युत्पादयितुं शक्याः । किन्तु व्याकरणेन ये ये व्युत्पादयितुं शक्याः ते सर्वे प्रयुज्यन्ते इति न । ये प्रयोगाः शिष्टव्यवहारे दृश्यन्ते ते एव प्रसिद्धाः, न अन्ये । अतः अप्रसिद्धानां रूपाणां प्रयोगस्य परिहारः
एव वरम् । त्रिचतुर्वारं सः माम् आहूतवान् । ‘त्रिचतुर्वारम्’ इति अपशब्दः । “त्रिचतुरबारम्’ इति प्रयोक्तव्यम् । ‘त्रयः वा चत्वारः वा’ इति त्रिचतुराः । तस्य अकारान्तता । युक्तिस्तु पूर्वम् उक्ता । अतः त्रिचतुरवारम् इति प्रयोगः एव साधुः ।
त्रिचतुरशब्दः अकारान्तः । (चतुश्शब्दस्तु रेफान्तः) २०.
अद्य कार्यक्रमे उपविंशतिः जनाः आसन् । । ‘उपविंशतिः’ इति अपशब्दः । ‘उपविंशाः’ इति प्रयोक्तव्यम् । विंशतेः समीपे ये सन्ति ते उपविंशाः । उपशब्दस्य अव्ययत्वात् ‘सङ्घयाव्ययासन्न..’ इति सूत्रेण बहुव्रीहिता । ततः डच् । ततः ‘ति विंशतेर्डिति’ (६.४.१४२) इति सूत्रेण ति इत्यस्य लोपः । ‘उपविंशाः’ इति रूपम् ।।
अत्रापि ज्ञेयम् - प्रादेशिकभाषायां ‘बीस-पच्चीस’ ‘तीस-चालीस’ ‘चालीस-पचास’ ‘साठ-सत्तर’ इत्यादयः प्रयोगाः श्रूयन्ते । किन्तु संस्कृते एतादृशाः प्रयोगाः न श्रूयन्ते । (प्रयलेन व्युत्पादयितुं शक्याः ते शब्दाः इति तु अन्यत् ।) संस्कृते तु तादृशं भावं प्रकाशयितुम् उपविंशादयः शब्दाः
सङ्ख्या
219
प्रयुज्यन्ते । उपविंशादयः यथा - उपदशाः, उपविंशाः, उपत्रिंशाः, उपचत्वारिंशाः, उपपञ्चाशाः, उपषष्टाः, उपसप्तताः, उपाशीताः, उपनवताः, उपशताः, उपसहस्त्राः , ……. । विंशत्यधिकाः, ‘त्रिंशदधिकाः, शताधिकाः इत्यादयः शब्दाः अपि
प्रयोक्तुं शक्याः । २१. जीवने परश्शतं समस्याः सम्मुखीकरणीयाः भवन्ति ।
‘परश्शतम्’ इति प्रयोगः असाधुः । ‘परश्शताः’ इति प्रयोगः करणीयः । शतात् परे इति विग्रहः । ‘शतसहस्रौ परेणेति वक्तव्यम्’ इति काशिकावचनेन, पञ्चमी इति योगविभागाद्वा पञ्चम्यन्तः शतशब्दः परशब्देन समस्यते । राजदन्तादिगणे निपातात् शतशब्दस्य परनिपातत्वं पारस्करादित्वात् सुडागमः च । तस्मात् ‘परश्शताः’ इति रूपम् । शतशब्दः नपुंसके । किन्तु परश्शतशब्दस्तु विशेष्यनिघ्नः ।
अतः बहुवचनान्तता । एवमेव परस्सहस्त्राः इत्यादयः अपि । २२. अद्य कार्यक्रमः कतिवादने ?
‘कतिवादने’ इति अपशब्दः । ‘कदा’ इति, ‘कस्मिन् समये’ इति
वा प्रयोक्तव्यम् । कतिशब्दः प्रश्नवाचकः बहुवचनान्तः च । वादनशब्देन सह कति शब्दस्य समासः कथमपि उच्यते चेदपि अपेक्षितार्थस्य अवगमनं तु
न भवति । अतः स च शब्दः परिहरणीयः एव । २३. अद्य कार्यक्रमः पञ्चवादने ।
‘पञ्चवादने’ इति प्रयोगः न दोषाय । शिष्टाः अपि समयकथनावसरे एताम् एव आनुपूर्वीम् उपयुआनाः दृश्यन्ते । ‘पञ्च वादनानि यस्मिन्
तत्’ इति विग्रहः । लोकाश्रयत्वात् लिङ्गस्य नपुंसकता अत्र । २४. कस्मिंश्चित् राज्ये एकः राजा आसीत् ।
‘कश्चन राजा’ इति प्रयोक्तव्यम् । एकस्मिन् राज्ये राजा भवति एकः एव । तच्च एकत्वं राजपदगतेन एकवचनेन एव अवगम्यते । तस्मात् एकत्वद्योतनाय एकशब्दस्य प्रयोगः निरर्थकः भवति । निरर्थकं पदप्रयोगं न सहन्ते शिष्टाः ।
220
शुद्धिकौमुदी अतः अत्र ‘कश्चन’ इति पदस्य प्रयोगः एव उचितः । यत्र एकशब्दः परिहर्तुं शक्यः तादृशाः केचन प्रयोगाः यथा -
• एकं वर्षम् अतीतम् ।
• छात्रेण एकः प्रश्नः पृष्टः ।
• तेन एकः स्वप्नः दृष्टः । २५. सः मह्यम् एकशतं रूप्यकाणि दत्तवान् ।
‘शतं रूप्यकाणि’ इति प्रयोगः युज्यते ।
अत्र ‘शत गतस्य एकत्वस्य द्योतनाय एकशब्दः प्रयुक्तः । तच्च एकत्वं शतशब्दगतेन एकवचनेन एव द्योत्यते । तस्मात् एकत्वम् उक्तं भवति । उक्तस्यैव अर्थस्य कथनाय न पदान्तरं प्रयुज्यते । तस्मात् ‘शतं रूप्यकाणि’ इत्येषः प्रयोगः अत्र समुचितः । शतशब्दगतात् एकवचनात् एकत्वं भासते एव । यदा शतशब्दगतं द्वित्वं त्रित्वं वा द्योतनीयं भवति तत्र तु द्विशत-त्रिशतादयः प्रयोगाः साधवः । एकत्वद्योतनाय तु एकवचनम् एव समर्थं भवति । प्रादेशिकभाषासु एकशतादयः प्रयोगाः श्रूयन्ते । संस्कृतशैली अन्या खलु भवति ? चेकपत्रादिषु तु (यदि संस्कृतेन लिख्यते तर्हि) एकं शतं रूप्यकाणि’ इति प्रयोगः औचित्यम् आवहति । ‘शतं रूप्यकाणि’ इति लिखिते सति अपरः कश्चित् शतशब्दात् पूर्वं द्वित्रप्रभृतीः लिखित्वा वञ्चयितुम्
अर्हति । अतः स्पष्टप्रतिपत्तये तत्र ‘एकं शतम्’ इति प्रयोगः उचितः । २६. एकस्मिन् राज्ये एकः कृषकः आसीत् ।
‘कस्मिंश्चित् राज्ये कश्चन कृषकः आसीत्’ इति वाक्यविन्यासः वरम् । एकशब्दः सङ्ख्यावाची । सङ्ख्या च विशेषणं भवति । विशेषणस्य इतरव्यावर्तकत्वं भवति । ‘एकः आसीत्’ इत्यस्य ‘द्वौ त्रयः वा न आसन्’ इत्यपि अर्थः भवति । स च अर्थः अत्र न अभिप्रेतः । अनिर्दिष्टत्वम् अत्र अभिप्रेतम् । तदर्थं किंशब्दात् चित् चन वा प्रयोक्तव्यम् । तस्मात् अभिप्रेतस्य अर्थस्य प्रतिपादनं भवितुम्
अर्हति । २७. तात ! एकां कथां कथय ।
एतस्मिन् वाक्यविन्यासे न दोषः ।
सङ्ख्या
221
यद्यपि कथागतम् एकत्वं वक्तुः इष्टं, तच्च एकत्वम् एकवचनेन एव योतितं, तथापि एकशब्दप्रयोगः कृतः अस्ति अत्र । कथाकथनम् अनिच्छन्तं पितरं पितामहं वा उद्दिश्य उक्तं वाक्यम् एतत् । अतः वक्ता द्वित्वं त्रित्वं च निवारयितुम् इच्छन् एकशब्दं प्रयुक्ते । एवं च एकशब्दप्रयोगस्य फलं द्वित्वादिनिवृत्तिः । (पूर्वोदाहरणेषु एकत्व द्योतनं फलम् आसीत्, अत्र द्वित्वादिनिवृत्तिः अपि उद्दिष्टा) अतः एकशब्दप्रयोगः उचितः एव । यदि पूर्वोदाहरणेषु द्वित्वादिनिवृत्तिः अपि फलत्वेन इष्यते तदा तु
‘एक’शब्दस्य प्रयोगोऽपि युज्यते एव । २८. कति गुरुदक्षिणा देया इति शिष्येण पृष्टम् ।
‘कति गुरुदक्षिणा’ इति प्रयोगः असाधुः। “कियती गुरुदक्षिणा’ इति, “गुरुदक्षिणा कियत् देया’ इति वा प्रयोक्तव्यम् । ‘कति’ इत्यस्य उत्तरं संख्यात्मकम् एव भवति । गुरुदक्षिणा च परिमाणात्मिका । (एका गुरुदक्षिणा, द्वे गुरुदक्षिणे…. इति गणना न क्रियते । एतावत्परिमाणिका गुरुदक्षिणा इति उच्यते ।) अतः ‘कियती गुरुदक्षिणा’ इत्येव वक्तव्यम् । यदि कियच्छब्दस्य क्रियायाम्
अन्वयः इष्यते तदा ‘गुरुदक्षिणा कियत् देया’ इति प्रयोगः । ‘किमः परिमाणे डति च’(५.२.४१) इति सूत्रेण संख्यापरिमाणे वाच्ये किमः डतिः । तस्मात् ‘कति’ इति सिद्धिः । कियच्छब्दस्य तु परिमाणे संख्यापरिमाणे च वतुप् । वस्य घः । अतः परिमाणार्थकता सङ्ख्यार्थकता च तस्य । तस्मात् यत्र संख्यात्मकम् उत्तरं भवति तत्रापि
कियच्छब्दस्य प्रयोगः शक्यः। यथा - कियन्तः जनाः सन्ति तत्र ? २९. चतसूणाम् अपि बालिकानाम् अध्ययनं सम्यक् प्रचलति ।
‘चतसृणाम्’ इति अपशब्दः । ‘चतसृणाम्’ इति प्रयोक्तव्यम् ।
अजन्तशब्दानां सर्वेषां षष्ठीबहुवचने दीर्घः - ‘नामि’ इति सूत्रेण । यथा - रामाणाम्, मातृणाम् इत्यादि । किन्तु तिसृचतसृशब्दयोः न दीर्घः, ‘न तिसृचतसृ’ (६.४.४) इति सूत्रेण तस्य निषेधात् । तस्मात्
‘चतसृणाम्’ इति रूपम् । एवमेव ‘तिसृणाम्’ इत्यपि । ३०. सा प्रथमापतौ स्थितवती ।
‘प्रथमापतौ’ इति अपशब्दः । ‘प्रथमपतौ’ इति, ‘प्रथमायां पौ’
222
शुद्धिकौमुदी
इति वा प्रयोक्तव्यम् । विशेषणपूर्वपदकर्मधारये प्रथमा + पतिः इति स्थिते ‘पुंवत्कर्म धारय…’(६.३.४२) इति सूत्रेण पुंवद्भावः । तस्मात् ‘प्रथमपङ्क्तिः
इति रूपम् । व्यस्तप्रयोगे तु ‘प्रथमायां पतौ’ इति रूपम् । ३१. बालः ‘प्रथमाकक्ष्यायां पठति ।
“प्रथमाकक्ष्या’ इति प्रयोगः न दोषाय । “प्रथमकक्ष्या’ इत्यपि प्रयोगः भवितुम् अर्हति । ‘प्रथमा’ इति कक्ष्यायाः नाम । तस्मात् कर्मधारये न वद्भावः । अतः “प्रथमाकक्ष्यायाम्’ इति प्रयोगः साधुः । यदि प्रथमपदस्य संज्ञात्वं न इष्टम्, अपि तु पूरणप्रत्ययान्तमात्रत्वम् इष्टं तदा तु पुंवद्भावे “प्रथमकक्ष्यायाम्’ इत्यपि साधु । एवं ‘प्रथमाविभक्तौ’ इत्यादिषु अपि ज्ञेयम् । ‘प्रथमा’ इति विभक्तेः नाम । तस्मात् ‘प्रथमाविभक्तौ’ इति प्रयोगः । विभक्तिनिर्देशावसरे सामान्यतया प्रथमा’ ‘द्वितीया’ इत्यादयः संज्ञाशब्दाः एव प्रयुज्यन्ते, न तु प्रथमादयः पूरणप्रत्ययान्ताः । अतः ‘प्रथमविभक्तौ’ इति
प्रयोगः यद्यपि समर्थनार्हः, तथापि तस्य प्रयोगवैरल्यम् एव । ३२. साईं कसहस्रवर्षात् पूर्व एषा घटना प्रवृत्ता ।
‘साधैकसहस्रवर्षात्’ इति अपशब्दः । ‘साधैकसहस्त्रात् वर्षेभ्यः’ इति, ‘साधैकसहस्रवर्षेभ्यः’ इति वा प्रयोक्तव्यम् । ‘साधैंक..’ इति प्रयोगः अस्ति, अतः एकवचनम् इति चिन्तयति प्रयोक्ता । उदाहरणे ‘साधैंक..’ इत्येतावत् एव नास्ति, अपि तु ‘सहस्र’शब्दः अपि अस्ति । सः एकवचनान्तः अपि बहुत्वं द्योतयति । तस्मात् वर्षशब्दात् बहुत्वद्योतकः विभक्तिप्रत्ययः एव भवेत् । अतः ‘साधैकसहस्रात् वर्षेभ्यः’ इति प्रयोगः । यदि समासः क्रियते तर्हि
‘साधैकसहस्रवर्षेभ्यः’ इति प्रयोगः । ३३. एकशतदश (११०)
‘एकशतदश’ इति भाषाध्ययनावसरे प्राथमिकस्तरे प्रयोगः न दोषाय । ‘अङ्कानां वामतो गतिः’ इति हि नियमः । अतः “दशाधिक शतम्’(११०) इति पठ्यते । अङ्कानां दक्षिणतः गतिः सर्वथा नास्तिसहत्या
223
इति न । हेमाद्रिपुराणे महासङ्कल्पे प्रयोगो यथा - ‘चतुर्लक्षद्वात्रिंशत् सहस्त्राणाम्’ (४३२०००) इति । दीधितिकारस्य प्रयोगो यथा - ‘दशसहस्राणां चतुश्शतानि चत्वारि’ (१०४०४) इति । प्रादेशिकभाषासु अङ्कानां दक्षिणतः गतिः एव दृश्यते । अतः प्राथमिके स्तरे सः एव क्रमः आदृतः चेत् पठितृणाम् आनुकूल्यं सिध्येत् । तस्मात् प्राथमिके स्तरे दक्षिणतः गतिः अङ्गीक्रियते । गच्छता कालेन
वामतः गतिः एव अनुसरणीया । सा एव प्राचुर्येण दृश्यते संस्कृतक्षेत्रे । ३४. मम दूरवाणीसंख्या -द्वे वे एकं पञ्च पश्च सप्त नव (२२१५५७९)
एषः प्रयोगः न दोषाय । अत्र संख्यागताः अङ्काः पार्थक्येन उच्चारिताः । दरवाणीसंख्यादीनां ज्ञापने अयं नमः उपकारकः भवति । उच्चारितानाम अङ्कानां विभक्तियोजनम् एकैकस्यापि पार्थक्येन कृतम् इत्यतः शास्त्रदृष्ट्या न कोऽपि दोषः । एतस्मात् संख्यायाः अखण्डता उक्ता न भवति इति तु सत्यम् । अखण्डताज्ञापने वक्तुः तात्पर्यं नास्ति । श्रोतुः आनुकूल्याय सः एकैकम् अपि अङ्कं पार्थक्येन उच्चारयितुम्
इच्छति । ३५. कार्यक्रमः पञ्चजून्दिनाले भविष्यति ।
‘पञ्चजून्दिनाङ्के’ इति प्रयोगः अयुक्तः । ‘जून्मासस्य पञ्चमे दिनाङ्के’ इति प्रयोक्तव्यम् । दिनाङ्कः (Date) कश्चन निर्देष्टुम् इष्टः वक्त्रा । स च पञ्चमः । ‘पञ्च’ इत्येषा सङ्ख्या “दिनाङ्क पदे अभेदेन अन्वयं प्राप्तुं नार्हति । अतः तेन ‘पञ्चम’शब्दः (पूरणप्रत्ययान्तः) प्रयोक्तव्यः । स च दिनाङ्कः जून् मासस्य । अतः ‘जून्मास’शब्दात् षष्ठी । तस्मात् ‘जून्मासस्य पञ्चमे
दिनाङ्के’ इति प्रयोगः उचितः भवति । ३६. सभायाम् अतिथित्रयाणां सत्कारः कृतः ।
‘अतिथित्रयाणाम्’ इति अस्थाने । ‘अतिथित्रयस्य’ इति प्रयोक्तव्यम् । ‘त्रयम्’ इत्यत्र ‘द्वित्रिभ्यां तयस्यायज्वा’ (५.२.४३) इति सूत्रेण त्रिशब्दात् अयच् । ‘त्रयम्’ इत्यस्य अर्थः - त्र्यवयवकसमुदायः इति । समुदायस्य एकत्वात् एकवचनम् । अतः ‘अतिथित्रयस्य’ इति
224
शुद्धिकौमुदी एकवचनान्तेन रूपेण एव इष्टसिद्धिः । त्रयस्य इति कथनात् समुदायघटितानां त्रयाणाम् अपि अतिथीनाम् उपसङ्ग्रहः भवति एव ।
पुनः तेषां निर्देशाय बहुवचनस्य न आवश्यकता । ३७. कतिचित् मासेभ्यः पूर्वम् एषा घटना घटिता ।
.‘कतिभ्यश्चित्’ इति प्रयोक्तव्यम् ।
कतिशब्दः मासशब्दस्य विशेषणम् । मासात् पञ्चमीबहुवचनं श्रूयते । अतः कतिशब्दात् अपि पञ्चमीबहुवचनम् एव श्रूयेत । ‘कतिचित्’ इत्यत्र चित् इति अव्ययम् । ‘कति’ इति पृथक् एव पदम् । न तस्य अव्ययाङ्गत्वम् । अतः विशेष्यानुगुण्येन तस्यापि यथायोग्यं विभक्तिः
स्यात् एव । ३८. कतिचन सहस्रपुस्तकानि अस्माभिः प्रकाशयिष्यन्ते ।
‘कतिपयसहस्त्रं पुस्तकानि’ इति प्रयोगः साधुः स्यात् । एतस्मिन् वाक्ये सहस्रस्य विशेषणत्वेन अनिर्दिष्टसङ्ख्यासूचकं पदम् इष्यते । कतिपयशब्दः सुबन्तः विशेषणार्हः अनिश्चितसङ्ख्यासूचकः च । अतः तस्य प्रयोगे एव औचित्यम् । कतिचनशब्दः विशेषणं भवितुं नार्हति । कति-विशेष्ययोः मध्ये
अव्ययस्य ‘चन’ इत्यस्य अनुप्रवेशात् । ३९. त्रिंशत्यधिकानि कथापुस्तकानि पठितानि मया ।
‘त्रिशत्यधिकानि’ इति अपशब्दः । “त्रिंशदधिकानि’ इति प्रयोक्तव्यम् । “त्रिंशद्’ इति दकारान्तं पदम् । त्रिंशद् + अधिकम् = त्रिंशदधिकम् । यदि स च शब्दः विंशतिः इव त्यन्तः (‘ति’ अन्ते यस्य सः) स्यात् तर्हि त्रिंशत्यधिकम् इति यणसन्धियुक्तं रूपं स्यात् । त्यन्तता तु नास्ति ।
अतः यणः अपि अप्राप्तिः । ४०. कक्ष्यायां द्विविंशतिः छात्राः सन्ति ।
“द्विविंशतिः’ इति अपशब्दः । “द्वाविंशतिः’ इति प्रयोक्तव्यम् । द्विशब्दात् दश-विंशति-त्रिंशच्छब्देषु परेषु नित्यम् आत्वं विहितं ‘व्यष्टनः सङ्ख्यायामबहुव्रीह्यशीत्योः’ (६.३.४७) इति सूत्रेण । एतत् आत्वं बहुव्रीहिसमासे अशीतिशब्दे परे च न भवति । ‘विभाषा चत्वारिशत्प्रभृतौ सर्वेषाम्’ (६.३.४९) इति सूत्रेण चत्वारिंशदादिषु
सङ्ख्या
225
परेषु विकल्पेन आत्वम् । अतः - “द्वादश, द्वाविंशतिः, द्वात्रिंशत्, इत्येतेषु त्रिषु आकारः नित्यः । ‘द्वाचत्वारिंशत्/द्विचत्वारिंशत्, द्वापञ्चाशत्/द्विपञ्चाशत्, द्वाषष्टिः/ द्विषष्टिः, द्वासप्ततिः/द्विसप्ततिः, द्वानवतिः/द्विनवतिः’ इत्येतेषु रूपद्वयम् । शतपर्यन्तम् एव एषा व्यवस्था । ‘प्राक् शतात् वक्तव्यम्’
इति वार्तिकम् । “व्यशीतिः’ इत्यत्र आत्वं नास्ति इति तु स्मर्तव्यम् । ४१. अष्टत्रिंशत् विकलाङ्गाः सन्ति एतस्मिन् ग्रामे ।
‘अष्टत्रिंशत्’ इति अपशब्दः । ‘अष्टात्रिंशत्’ इति प्रयोक्तव्यम् । द्विशब्दात् इव अष्टशब्दात् अपि दश-विंशति-त्रिंशच्छब्देषु परेषु नित्यम् आत्वम् । ततः ऊर्ध्वं (शतपर्यन्तं) विकल्पेन आत्वम् । सूत्रे पूर्वोक्ते एव । उदा -
• नित्यम् आत्वम् - अष्टादश, अष्टाविंशतिः, अष्टात्रिंशत् विकल्पेन आत्वम् -
अष्टाचत्वारिंशत् / अष्टचत्वारिंशत् अष्टापञ्चाशत् / अष्टपञ्चाशत् अष्टाषष्टिः / अष्टषष्टिः अष्टासप्ततिः / अष्टसप्ततिः
अष्टानवतिः / अष्टनवतिः ‘अष्टाशीतिः’ इत्यत्र तु आत्वं नास्ति । अत्र सवर्णदीर्घः अस्ति इति
विशेषः । ४२. त्रयाशीतिः छात्राः प्रथमां श्रेणीम् आप्नुवन् ।
‘त्रयाशीतिः’ इति अपशब्दः । ‘त्र्यशीतिः’ इति प्रयोक्तव्यम् । ‘त्रेस्त्रयः’ (६.३.४८) इति सूत्रेण त्रिशब्दस्य नित्यं त्रयस्-आदेशः दश-विंशति-त्रिंशच्छब्देषु परेषु । ततः ऊर्ध्वं शतपर्यन्तं विकल्पेन । अशीतिशब्दे परे न त्रयस्-आदेशः । अतः ‘त्र्यशीतिः’ इत्येव रूपम् । इतरत्र रूपाणि यथा - . नित्यं त्रयस्-आदेशः - त्रयोदश, त्रयोविंशतिः, त्रयस्त्रिंशत्
• विकल्पेन त्रयस्-आदेशः -
त्रिचत्वारिंशत् / त्रयश्चत्वारिंशत् त्रिपञ्चाशत् / त्रयःपञ्चाशत् त्रिषष्टिः / त्रयषष्टिः त्रिसप्ततिः / त्रयस्सप्ततिः
226
शुद्धिकौमुदी त्रिनवतिः / त्रयोनवतिः ४३. एकानविंशतिः रूप्यकाणि मया मित्राय दातव्यानि ।
“एकान्नविंशतिः’ इति रूपं न दोषाय । ‘एकेन न विंशतिः’ इति विग्रहः । ‘एकादिश्चैकस्य आदुक्’ (६.३.७३) इति सूत्रेण अत्र आदुक् । आदुकः अनुनासिकत्वे “एकानविंशतिः’ इति रूपम् । तदभावे ‘एकानविंशतिः’ इति । एकेन ऊना विंशतिः “एकोनविंशतिः’ । एताम् एव सङ्ख्याम् अभिधातुं ‘नवदश’ शब्दः अपि प्रयुज्यते । तस्मात् ‘१९’ इत्यस्य अभिधानाय चत्वारः शब्दाः - “एकोनविंशतिः, एकानविंशतिः, एकानविंशतिः, नवदश’ इति । एवमेव २९, ३९ इत्यादिषु अपि व्यवस्था ।
विशिष्टाः प्रयोगाः
227