०३ स्त्रीप्रत्ययगताः दोषाः

३. तृतीयोऽध्यायः

स्त्रीप्रत्ययगताः दोषाः

३.१. सामान्यः -

स्त्रीप्रत्यायन्तरूपाणां विषये केषाञ्चित् भ्रान्तिः अस्ति । प्रादेशिक भाषायाः प्रभावतः प्रायः एवं भवति । तादृशानि भ्रान्तियुक्तानि रूपाणि यथा

अशुद्धम् (X) | शुद्धम् (V) अध्यापकी अध्यापिका लेखकी

लेखिका उपन्यासकी उपन्यासिका नायकी

नायिका उद्घोषकी

उद्घोषिका सेवकी

सेविका अनुवादकी अनुवादिका विभूषकी विभूषिका

उपाध्यायिनी उपाध्याया / उपाध्यायी एतेषु कर्बर्थे ‘ण्वुल्’प्रत्ययः अस्ति । “प्रत्ययस्थात् कात्पूर्वस्यात इदाप्यसुपः’ (७.३.४४) इति सूत्रेण ककारस्य इकारः अपि परे । अतः एते टाबन्ताः एव, न तु ङीबन्ताः । ‘उपध्यायी’ इत्यत्र विकल्पेन ङीष् । ङीषः अभावे टाप् । या स्वयमेण अध्यापिका सा उपाध्यायी उपाध्याया वा (ङीष् टाप् वा)। या उपाध्यायस्य पत्नी भवति सा

उपाध्यायानी (आनुक्), उपाध्यायी (ङीष्) वा । ३.२. विशेषः -

स्त्रीप्रत्ययप्रकरणे एव अन्यानि कानिचन रूपाणि दृश्यन्ते भ्रान्ति मूलकानि । तत्रापि प्रादेशिकभाषाप्रभावः एव कारणम् । तानि

स्त्रीप्रत्ययगताः दोषाः

यथा

PU

अशुद्धम् (x)| शुद्धम् (1) अध्यक्षिणी अध्यक्षा सिंहिणी

सिंही इन्नन्ताः शब्दाः स्त्रियाम् ईकारं प्राप्नुवन्ति खलु ? (यथा - अधिकारिणी, उपकारिणी, न्यायवादिनी इत्यादयः) तेषां सादृश्यं

मनसि निधाय ‘अध्यक्षिणी’ इत्यादीनि रूपाणि प्रयुज्यन्ते प्रायः । ३.३. नर्तकी -

अधोलिखितं वाक्यं पठत - सा नर्तकी रमणीयतया नृत्यति । अत्र ‘नर्तकी’ इति यत् प्रयुक्तं तत् साधु । ‘नृती’धातोः ‘शिल्पिनि प्वुन्’ (३.१.१४५) इति सूत्रेण ष्वुन्प्रत्यये नर्तकः इति रूपम् । तस्य स्त्रियां न ‘टाप्’, अपि तु ङीष्, ‘षिद्गौरादिभ्यश्च’ (४.१.४१) इति सूत्रेण । अतः ‘नर्तकी ’ इति रूपम् । एतदत्र स्मर्तव्यम् । शिल्पं नाम क्रियाकौशलम् । तद्वतः कर्तुः ष्वुन् स्यात् । तदभावे ? तदभावे तु कर्तरि ‘ण्वुल्’ स्यात् एव । तदा अपि ‘नर्तकः’ इति रूपम् । किन्तु स्त्रियां षित्त्वाभावात् न ङीष्, अपि तु टाप् । ‘प्रत्ययस्थात्……’ इति सूत्रेण अकारस्य इकारः । तदा च ‘नर्तिका’ इति रूपम् । “नर्तनकौशलरहिता’ इत्यर्थः सिध्यति । तात्पर्यं तु - नर्तकी - नर्तनकौशलसहिता

नर्तिका - नर्तनकौशलरहिता ३.४. सुन्दरा -

सा लेखनी सुन्दरा अस्ति । इत्यस्मिन् वाक्ये यः ‘सुन्दरा’शब्दः प्रयुक्तः सः असाधुः । ‘सुन्दरी’ इत्येव साधु रूपम् । सुन्दरशब्दः गौरादिगणे पठितः । अतः ‘षिद् गौरादिभ्यश्च’ (४.१.४१) इति सूत्रेण ङीष् । चेतनावतीषु ‘सुन्दरी’ इति प्रयोगः क्रियते विना चिन्ताम् । यथा -

तरुणी सुन्दरी । किन्तु अचेतनासु आत्वं स्यादिति भ्रमः । अतः *“सिद्ध्यति’ इति दधयोः लेखनम् अपि न दोषाय ।

शुद्धिकौमुदी ‘सुन्दरा लेखनी’ ‘सुन्दरा लता’ इत्यादयः प्रयोगाः क्रियन्ते । ‘सुन्दर’शब्दः

स्त्रियां सर्वत्र (चेतनेषु अचेतनेषु च) ईत्वम् एव प्राप्नोति, न कदाचिदपि

आत्वम् । ३.५. सुमङ्गली -

सुमङ्गल्यः आशीर्भिः वधूम् अनुगृहीतवत्यः । अत्र ‘सुमङ्गलाः’ इति स्यात् । सुमङ्गलाशब्दः छन्दसि संज्ञायां चैव ईत्वं (ङीप्) प्राप्नोति ‘केवलमामक… सुमङ्गलभेषजाच्च’ (४.१.३०) इति सूत्रेण । तद्भिन्नस्थले, तन्नाम भाषायां, ‘सुमङ्गला’ इत्येव रूपम् । ‘सुमङ्गली’ इति रूपं वेदे एव । लोके च संज्ञायां गम्यमानायां भवति । बालिकायाः नाम ‘सुमङ्गली’ इति भवितुम्

अर्हति । आश्चर्य नाम प्रादेशिकभाषासु अविधवायां ‘सुमङ्गली’ इति ईकारान्तस्य प्रयोगः, नाम्नि ‘सुमङ्गला’ इति आकारान्तस्य प्रयोगः च दृश्यते ।

विपरीतप्रयोगः अयम् । ३.६. चोरा सा आरक्षकैः गृहीता ।

अत्र ‘चोरी’ प्रयोक्तव्यम् । स्तेयार्थकात् चुरधातोः अचि (चुर + णिच् + अच्) चोरशब्दः सिद्ध्यति । ण्यन्तात् स्त्रियां ङीप् । अतः ‘चोरी’ इति रूपम् । चोरार्थे चौरशब्दोऽपि अस्ति । चुरधातोः ‘अ’प्रत्यये ‘चुरा’ इति रूपम् । चुरा शीलम् अस्य इति चौरः । (चुरा + णः - छत्रादिभ्यो णः - ४.४.६२) तस्यापि ण्यन्तात् (स्त्रियां

ङीप्) अतः ‘चौरी’ इति रूपम् । ३.७. सनातनादयः -

अशुद्धम् (x)| शुद्धम् () सनातना

सनातनी पुरातना

पुरातनी आधुनिका

आधुनिकी इदानीन्तना

इदानीन्तनी वार्षिका

वार्षिकी पाण्मासिका

षाण्मासिकी

स्त्रीप्रत्ययगताः दोषाः

प्राचीनी

प्राचीना नवीनी/नूतनी

नवीना/नूतना अधस्तना

अधस्तनी एते सर्वे कालसम्बद्धाः शब्दाः । टित्प्रत्ययानां ठगादीनां वा कारणतः एते स्त्रीलिङ्गे ईकारम् एव अर्हन्ति, न तु आकारम् । प्राचीननवीन नूतनाः न तथा । प्राचीननवीनौ ‘ख’प्रत्ययान्तौ । नूतनः ‘तनप् प्रत्ययान्तः । टित्वाद्यभावात् एतेषु ईकारः न, अपि तु आकारः ।

अन्येषां तु ईकारः । अतः ‘सनातना परम्परा’, ‘पुरातना भाषा’ इत्यादयः प्रयोगाः

असाधवः एव । ३.८. प्रार्थनाप्रभृतयः -

प्रार्थना/प्रार्थनम्, उद्घाटना/उद्घाटनम्, गणना/गणनम्… इत्येवं रूपद्वयं श्रूयते । प्रार्थनादिषु रूपद्वयं दृष्ट्रा केचन भ्रान्त्या ‘पठना, लेखना’ इत्यादीनि रूपाणि अपि भवन्ति इति चिन्तयन्ति । वस्तुस्थितिस्तु इत्थम् - पठनम्, लेखनम्, गणनम्, उद्घाटनम् इत्यादिषु भावे ल्युट्प्रत्ययः । । एषः सर्वेभ्यः धातुभ्यः विधीयते । सर्वे धातवः भावार्थे ल्युडन्तरूपम् अर्हन्ति । एतेषां नपुंसकत्वम् एव । ‘प्रार्थना’ इत्यादिषु ‘युच् प्रत्ययः । *(ण्यासश्रन्थो युच्-३.३.१०७) सर्वे णिजन्ताः, परिगणिताः केचन शब्दाश्च स्त्रियां युचम् अर्हन्ति । अतः प्रार्थनागणनादीनि रूपाणि सिद्ध्यन्ति । ये णिजन्ताः न, परिगणितेषु शब्देषु अन्तर्भावः अपि येषां नास्ति, ते स्त्रियां युचं न अर्हन्ति । अतः तादृशधातूनां भावार्थे ल्युडन्तत्वात् आकारान्तं रूपं न भवति, अपि तु नपुंसकरूपम् एव । अतः पठना, लेखना इत्यादीनि रूपाणि असाधूनि एव । ये णिजन्ताः न, परिगणितेषु अपि न अन्तर्भवन्ति ते आकारान्तं रूपं न अर्हन्ति इति तात्पर्यम् । अन्वेषणा वन्दना इत्यादीनि परिगण

नाकारणतः सिद्धानि । * णि, आस, श्रन्थ - एभ्यः स्त्रियां भावादिषु युच् स्यात् ।

शुद्धिकौमुदी

३.९. भयङ्करीप्रभृतयः -

अधोनिर्दिष्टानि वाक्यानि परिशीलयत -

१. तस्याः राक्षस्याः आकृतिः भयङ्करी आसीत् । २. एषा मम सहोदरी । ३. काचित् युवती अद्य मिलिता । ४. एषा स्वाभाविका प्रक्रिया । ५. संस्कृतभाषा परमपावना अस्ति ।

६. ‘संस्कृतसेवा करणीया’ इति मम जीवनाभिलाषा । एतेषु षट्सु वाक्येषु यानि स्त्रीप्रत्ययान्तानि रूपाणि प्रयुक्तानि तेषां विषये ज्ञातव्यं किञ्चिदस्ति ।

१. भयङ्करी इति असाधुः । ‘भयङ्करा’ इत्येव ।

‘मेधार्तिभयेषु कृञः’ (३.२.४३) इति सूत्रेण अत्र खच्प्रत्ययः । अतः स्त्रियां टाप् एव, न तु ङीबादयः । तस्मात् ‘भयङ्करा’ इति

आकारान्तं रूपम् एव साधु । २. ‘सहोदरा’ इति आकारान्तरूपम् एव शुद्धम् । सह समानम् उदरम्

अस्य इति सहोदरः । सभावे तु सोदरः इति । सहनविद्यमानपूर्वाच्च (४.१.५७) इति सूत्रेण ङीषः निषेधः । अतः टाप् एव । तस्मात् ‘सहोदरा’ इति आकारान्तम् एव शुद्धम् । ईकारान्तस्य न साधुता । लोके क्वचित् सहोदरी इति रूपं प्रयुक्तं दृश्यते । यदि शिष्टाः प्रयोगाः दृश्यन्ते तर्हि गौरादिगणादिषु पाठः अङ्गीकरणीयः

भवेत् । ३. यूनस्ति : (४.१.७७) इति सूत्रेण तिप्रत्यये युवतिः इति सिद्धम् ।

केचन युवती इति ईकारान्तं रूपं न अङ्गीकुर्वन्ति । सिद्धान्तकौमुद्यां तु ‘यौतेः शत्रन्तात् डीषि बोध्यम्’ इति वचनेन युवती इति रूपं समर्थितम् एव । व्याख्याकाराः तत्साधनाय अन्यान् अपि मार्गान् दर्शितवन्तः दृश्यन्ते । अतः ‘युवती’ इति रूपम् अपि साधु

एव । ४. ‘स्वाभाविकी’ इति ईकारान्तं रूपम् एव साधु । स्वभावात् ___ आगतः इत्यर्थे ठक्प्रत्ययः । तेन स्त्रियां ङीष् । ईकारान्तत्वम् ।स्त्रीप्रत्ययगताः दोषाः

५. पावनशब्दः करणल्युडन्तः । तेन टित्त्वात् ङीप्प्रत्यये ‘पावनी’

इति रूपं स्यात् । अतः पावना इति आकारान्तं रूपम् असाधु । ६. ‘अभिलाषा’ इति आकारान्तं रूपम् असाधु । ‘अभिलाष’

शब्दः घअन्तः । ‘घजबन्ताः पुंसि’ इति लिङ्गानुशासनेन घअन्तस्य पुंस्त्वं विहितम् । अतः ‘अभिलाषः’ इति पुंल्लिङ्गविशिष्टं रूपम्

एव साधु । ३.१०. शूर्पणखीप्रभृतयः -

अधोनिर्दिष्टानि वाक्यानि परिशीलयत - १. राक्षसी शूर्पणखी रामसमीपम् आगता । २. अरण्ये काचित् पिशाचा वसति स्म । ३. चित्रस्था आकृतिः नैजा इति भाति ।

शूर्पणखा इत्येव साधुः । “नखमुखात् संज्ञायाम्’ (४.१.५८) इति ङीषः निषेधात् ईकारस्य प्रसक्तिः नास्ति अत्र । पिशाचः ‘अण्’प्रत्ययान्तः । अतः स्त्रियां ङीष् । तस्मात् ‘पिशाची’ इत्येव रूपम् *। निजशब्दात् स्वार्थे अणि नैजम् इति रूपम् । एवं तस्य अण्णन्तत्वात् स्त्रियां ‘टिड्डाणञ्…’ इति सूत्रेण ङीप् ।

अतः ‘नैजी’ इति रूपम् । ४. प्रतिदशवर्ष देशे जनगणतिः प्रचलति ।

‘जनगणतिः’ इति अपशब्दः । ‘जनगणना’ इति प्रयोक्तव्यम् । गणधातुः दशमगणीयः । अतः तस्य स्वार्थे णिच् । णिजन्तात् “क्तिन्’ न भवति, प्रत्युत ‘युच्’ भवति - ‘ण्यासश्रन्थो युच्’ (३.३.१०७) इति सूत्रेण । युचि (यकारस्य अनादेशः) ‘गणना’ इति रूपम् । ‘गणतिः’ इति रूपं तदा स्यात्, यदा च णिज्रहितं रूपं प्राप्येत गणधातोः । आधृषीयाः णिज्रहितं रूपम् अपि प्राप्नुवन्ति । (‘आधृषाद्वा’ इति गणसूत्रम्) किन्तु गणधातुः न आधृषीयः । ‘सर्वे चुरादयः विकल्पेन णिचं लभन्ते’ इति कश्चन पक्षः अस्ति ।

किन्तु तं वादं सर्वे न अङ्गीकुर्वन्ति । ‘गणति’शब्दं कोषकाराः * “पिशाचिनी’ इत्यपि रूपं श्रूयते लोके । तदपि असाधु एव ।

शुद्धिकौमुदी अपि दर्शितवन्तः न दृश्यन्ते । अतः गणना’ इत्येव रूपं वरं

भावार्थे । ३.११. बहवः -

बहवः महिलाः शास्त्राध्ययने उत्सुकाः दृश्यन्ते । ‘बहवः’ इति न दोषाय । बहुशब्दस्य पुंसि बहुवचने बहवः इति रूपम् । स्त्रियाम् अपि ‘बहवः’ इति रूपम् अस्ति । पुँल्लिङ्ग स्त्रीलिङ्गयोः रूपभेदः द्वितीयाबहुवचनान्तादारभ्य ज्ञायते । तावत् पर्यन्तं समान रूपम् । द्वितीयाबहुवचनान्ते पुंसि ‘बहून्’ इति रूपम् । स्त्रियां ‘बहूः’ इति । एवमग्रेऽपि ।

बहुशब्दात् स्त्रियां विकल्पेन डीष् विधीयते “बह्वादिभ्यश्च’ (४.१.४५) इति सूत्रेण । ङीषि ‘बह्वी’ इति रूपम् । तदभावे ‘बहुः’ इति रूपम् । केचन ‘बहुशब्दस्य स्त्रियां ‘बह्वी’ इत्येव रूपम्’ इति भावयन्ति । अतः ‘बहवः’ इति रूपं पुंसि एव इति तेषां भ्रान्तिः । ङीष् विकल्पेन इति ते विस्मरन्ति ।

एवमेव -

मृदुः मद्वी लघुः लघ्वी गुरुः गुर्वी पटुः

पट्टी इत्यादयः अपि । ३.१२. हलन्ताः अपि केचन शब्दाः आकारान्ततां प्राप्नुवन्ति कदाचित् ।

यथा -

वाक - वाचा दिक् - दिशा निट - निशा प्रतिपत् - प्रतिपदा

सम्पत् - सम्पदा अत्र प्रमाणं तु -

वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः ।

आपं चैव हलन्तानां यथा वाचा निशा दिशा ।।

(वष्टि = इच्छति)