१. प्रथमोऽध्यायः
लेखनदोषाः
संस्कृतभाषा देवनागरीलिप्या यदा लिख्यते तदा केचन प्रमादाः सम्भवन्ति । ते केचन यथा - |१.१. मकारलेखनम् |
१.१.१ * रामः गृहं आगतवान् ।
बालः फलं इच्छति । उपरि स्थितम् उभयम् अपि उदाहरणवाक्यं दोषयुक्तम् । प्रथमे उदाहरणे ‘गृह’शब्दे हकारोत्तरम् अनुस्वारः लिखितः । तस्य पुरतः स्वरः (आकारः) अस्ति । द्वितीये उदाहरणे ‘फल’ शब्दे लकारोत्तरम् अनुस्वारः लिखितः । तस्य पुरतः अपि स्वरः (इकारः) अस्ति । उदाहरणद्वये अपि अनुस्वारः लिखितः यत् तत् तु दोषाय । स्वरे परे मकारः एव लेखनीयः । प्राचीनाः तु ‘गृहमागतवान्’ इति पदद्वयमपि योजयित्वा लिखन्ति स्म । तन्नाम ते सर्वत्र *संहिताम् इच्छन्ति स्म । किन्तु इदानीम् आधुनिके काले पठनक्लेशनिवारणाय वाक्ये संहिता न इष्यते । संहितायाः अविवक्षा न शास्त्रविरुद्धा । ‘वाक्ये तु सा विवक्षाम् अपेक्षते’ इति हि प्राचीनोक्तिः । अनुस्वारात् स्वरे परे मकारः एव लेखनीयः, न तु अनु स्वारः । अतः स्वरे परे मकारलेखनम् एव शुद्धम्, अनुस्वारलेखनं
च अशुद्धम् । ‘मोऽनुस्वारः’ (८.३.२३) इत्येतस्य सूत्रस्य अत्र अप्रवृत्तिः इत्यतः एवं भवति । तस्य सूत्रस्य प्रवृत्त्यर्थं निमित्तं किमपि नास्ति ।
अतः तत् सूत्रम् अत्र न प्रवर्तते । * वर्णानाम् अतिशयितः सन्निधिः “संहिता’ इति उच्यते । वर्णद्वयम् अव्यवहिततया
यत्र उच्चारयितुम् इष्यते तत्र “संहिता’ भवति ।
अण्डम्
शुद्धिकौमुदी
१.१.२. रामेण कार्यं कृतं ।
- बालकेन चित्रं दृष्टं । एतस्मिन् वाक्यद्वये पूर्णविरामात् पूर्वम् अनुस्वारः लिखितः । सः
दोषाय । अवसाने अपि मकारः एव लेखनीयः । १.२. परसवर्णलेखनम् १.२.१. नित्यम् -
अधः अशुद्धानि शुद्धानि च रूपाणि दत्तानि सन्ति ।
अशुद्धानि (x) शुद्धानि (/) अंगणम्
अङ्गणम् चंचूः
चञ्चूः अंडम् शांतः
शान्तः पंपा
पम्पा अनुस्वारस्य पुरतः वर्गीयव्यञ्जनानि यवलाश्च यदा भवन्ति तदा सदृशः परसवर्णः लेखनीयः । ‘अनुस्वारस्य ययि परसवर्णः’ (८.४.५८) इति पाणिनिसूत्रम् । एतादृशेषु स्थलेषु परसवर्णरहितानि (अनुस्वार
सहितानि) रूपाणि असाधूनि एव । १.२.२. विकल्पेन -
पदान्ते तु परसवर्णः विकल्पेन । अतः सङ्घटनम् / संघटनम्, सञ्चयः/ संचयः इत्यादिषु रूपद्वयम् अपि साधु एव । ‘वा पदान्तस्य’(८.४.५९) इति पाणिनिसूत्रम् । उपसर्गस्य पदत्वम् (पदसंज्ञा) अस्ति इति न
विस्मरणीयम् । १.३. द्वित्वम् । १.३.१. द्वित्वम् (सामान्यम् - १)
केषाञ्चित् पदानां लेखनावसरे केचन वर्णाः द्विवारं लेखनीयाः भवन्ति । उच्चारणश्रवणात् एतत् द्वित्वं यद्यपि न अनुभवगोचरतां याति, तथापि लेखनावसरे तु तत् लेखनीयम् एव । कानिचन उदाहरणानि यथा -लेखनदोषः
सात्विकम्
| अशुद्धानि (x) | शुद्धानि (/)
महत्वम्
महत्त्वम् (महत् + त्वम्) सत्वम्
सत्त्वम् (सत् + त्वम्) तत्वम्
तत्त्वम् (तत् + त्वम्)
सात्त्विकम् उज्वलः
उज्ज्वलः (उत् + ज्वल) पाश्चात्यः
पाश्चात्त्यः (पश्चात् + त्यक्) कार्तिकमासः कार्तिकमासः तज्ञः
तज्ज्ञः (तत् + ज्ञः) कित्वम्
कित्त्वम् (कित् + त्वम्) छित्वा
छित्त्वा (छिद् + त्वा) भित्वा
भित्त्वा (भिद् + त्वा) उध्वस्तः
उद्ध्वस्तः (उत् + ध्वस्तः) १.३.२. द्वित्वम् (सामान्यम् - २)
येषां पदानाम् अन्तिमस्वरात् पूर्वं द्वित्वघटितवर्णौ भवतः तेषां तृतीयादि विभक्तौ द्वित्वं स्यादेव ।। यथा - वृत्तिः - वृत्त्या, भित्तिः - भित्त्या ‘वृत्ति पदे अन्तिमस्वरात् पूर्वं द्वित्वघटितवर्णी (तकारद्वयम्) स्तः । अतः तस्य तृतीयाविभक्तिरूपे तकारद्वयं लेखनीयम् । एवमेव इतरत्रापि । उदाहरणान्तराणि यथा -
| प्रथमान्तम् अशुद्धम् (X) | शुद्धम् (1)
प्रवृत्तिः प्रवृत्या प्रवृत्त्या विच्छित्तिः विच्छित्या विच्छित्त्या विपत्तिः विपत्या विपत्त्या बुद्धिः बुध्या बुद्ध्या शुद्धिः शुध्या शुद्ध्या व्युत्पत्तिः व्युत्पत्तिः
व्युत्पत्त्या रङ्गवल्ली रङ्गवल्याः रङ्गाल्लयाः द्वित्वघटितेन उपान्त्यवर्णेन युक्ताः शब्दाः सन्धौ यदा पूर्वपदत्वं प्राप्नुवन्ति तदा
शुद्धिकौमुदी
अपि तेषां द्वित्वं करणीयम् एव । यथा - अशुद्धानि (x) | शुद्धानि (/)
शुध्यर्थम्
शुद्धयर्थम् समृध्यर्थकः समृद्ध्यर्थकः प्रवृत्यादयः
प्रवृत्त्यादयः समृध्युपायः
समृद्धयुपायः उत्पत्यर्थे
उत्पत्त्यर्थे १.३.३ द्वित्वम् (सामान्यम् - ३)
केषुचित् पदेषु दुस्दुरादीनां प्रादीनाम् अनन्तरं सकारादिः शब्दः भवति । तादृशे प्रसने विसर्गसन्धेः (प्रादिसन्धेः वा) नियमः स्मर्तव्यः । विसर्गः । सकारः एव वा लेखनीयः । सकारे लिखिते सकारद्वयं दृश्येत । (उपसर्ग सम्बद्धः एकः सकारः । सादिपदसम्बद्धः अपरः ।) उदा - अशुद्धम् (X)
शुद्धम् (1) दुस्थितिः
दुस्थितिः / दुःस्थितिः मनस्थितिः
मनस्थितिः / मनःस्थितिः निस्थानम्
निस्स्थानम् / निःस्थानम् निस्पृहः
निस्स्पृहः / निःस्पृहः शिरस्नानम्
शिरस्स्नानम् / शिरःस्नानम् मनस्थैर्यम्
मनस्थैर्यम् / मनःस्थैर्यम् वयस्तरः
वयस्स्तरः / वयःस्तरः वक्षस्थलम्
वक्षस्स्थलम् / वक्षःस्थलम् निसृतम्
निस्सृतम् / निःसृतम् निस्वार्थः
निस्स्वार्थः / निःस्वार्थः अप्सरस्त्री
अप्सरस्स्त्री / अप्सरःस्त्री ज्योतिशास्त्रम् ज्योतिश्शास्त्रम् / ज्योतिःशास्त्रम् दुस्वप्नः
दुस्स्वप्नः / दुःस्वप्नः १.३.४. द्वित्वम् (विशेषः)
‘दा’धातोः क्त्वाप्रत्यये ‘दो दद्घोः’ (७.४.४६) इति सूत्रेण दद्भावः । (‘दथ्’ इति आदेशः इत्यर्थः ।) तस्मात् परिनिष्ठितं रूपं तावत्
लेखनदोषः
‘दत्त्वा’ इति तकारद्वयोपेतम् । . अतः - अशुद्धम् (x) शुद्धम् (1)
दत्वा
दत्त्वा १.३.५. द्वित्वं विकल्पेन -
अ) मर्यादा / मर्यादा, अर्कः /अर्कः, तात्पर्यम् / तात्पर्य्यम् आ) न ह्यस्ति / न यस्ति, अपहृतिः / अपह्ह्वतिः इ) सिध्यति / सिद्ध्यति, सुध्युपास्यः / सुद्ध्युपास्यः, वल्मीकः । __वल्लमीकः
। एतेषु सर्वेषु उदाहरणेषु द्वित्वं विकल्पेन । *‘अचो रहाभ्यां द्वे’ (८.४.४६) ‘अनचि च’ (८.४.४७) इत्येताभ्यां सूत्राभ्याम् एतेषु द्वित्वं विकल्पेन विहितम् । अतः एव केचन एव द्वित्वघटितं रूपं
लिखन्ति । सामान्याः तु द्वित्वरहितं रूपम् एव प्रयुञ्जते । १.३.६. पत्रपुत्रादयः -
अन्ये केचन सन्ति, येषु च द्वित्वं भवेत् एव इति व्युत्पत्त्यवलम्बितः तर्कः वदति । किन्तु शिष्टाः अपि बहवः तेषु शब्देषु द्वित्वं न लिखन्ति । ते च शब्दाः पुत्रपत्रादयः ।
१. पतति इति पत्रम् । (पत्ल + ष्ट्रन्) २. पुनाति इति पुत्रः । (पू(पु) + कत्र) अथवा
पुन्नाम्नो नरकात् त्रायते । (पुत् + त्रैङ्) अतः पुत्रपत्रादीनां लेखनावसरे तकारस्य द्वित्वं स्याद्वान वेत्यत्र विद्वांसः
एव प्रमाणम् । १.४. अनुस्वारः १.४.१. केषुचित् शब्देषु अनुस्वारः त्यज्यते जनैः । यथा -
सन्यासी - अशुद्धम् (x)
संन्यासी - शुद्धम् (/) अत्र ‘सम्’ इति उपसर्गः । उपसर्गगतः ‘म’कारः लोपं नार्हति कथमपि । * अचः परस्य यरः द्वे वा स्तः, न त्वचि ।
शुद्धिकौमुदी
. अतः अनुस्वारः लेखनीयः एव । १.४.२. अशुद्धम् (x) | शुद्धम् ()
पुल्लिङ्गः/पुंल्लिङ्गः पुंल्लिङ्गः/पुंलिङ्गः पुं + लिङ्गः इति स्थिते ‘वा पदान्तस्य’ (८.४.५९) इति सूत्रेण विकल्पेन परसवर्णः । परसवर्णे कृते लकारस्य सवर्णः ‘लं’ इत्यादेशः अनुस्वारस्य । तदा ‘पुल्लिङ्गः’ (अनुनासिकघटितलकारयुक्तम्) इति रूपम् । अत्र लकारद्वयं दृश्यते । परसवर्णाभावे तु अनुस्वारः । ‘पुंलिङ्गः’ इति रूपम् । एकः लकारः अत्र । एवं च - १) लकारद्वयं लिखितं चेत् अनुनासिकम् अपि लेखनीयम् ।
(पुंल्लिङ्गः) २) अनुस्वारः लिखितः चेत् एकः एव लकारः लेखनीयः ।
(पुंलिङ्गः) अन्यानि सर्वाणि रूपाणि असाधूनि एव । एतदत्र अवधातव्यं यत् ‘पुलिङ्गम्’ इति लेखनम् एव साधु स्यात् । किन्तु लिख्यते - ‘पुँल्लिङ्गम्’ इति । अत्र लेखनावसरे यद्यपि पकारस्य उपरि अनुनासिकचिह्न () दृश्यते, तथापि अनुनासिकता तु लकारस्य एव, न तु पकारोत्तरस्य उकारस्य । लिपेः परिमितसामर्थ्यम् एव अत्र कारणम् ।