[[सम्बद्धसङ्ग्रहः २ (जिज्ञासा) Source: EB]]
\
जिज्ञासा
_______________________________________________________________________________
**शिष्यः–**आचार्य! अभिवादये।
**आचार्यः–**चिरं जीवतु वत्स! आगच्छतु उपविशतु।
**शिष्यः –**जिज्ञासुः अहम् भवतः समीपम् उपस्थितः अस्मि।
**आचार्यः –**मम सकाशतः ज्ञातुम् इच्छति भवान्? सन्तोषस्य एषः विषयः मम। यतः श्रोतारः खलु दुर्लभाः? यत् ज्ञातुम् इच्छति तत् निस्सङ्कोचं प्रष्टुम् अर्हति भवान्। कुत्र संशयः भवतः? तर्कशास्त्रे? व्याकरणे?…।
**शिष्यः –**शास्त्रविषयम् अत्र अहं प्रस्तोतुं न इच्छामि।
आचार्यः – एवं तर्हि…?
**शिष्यः –**सामान्यभाषाज्ञानविषये व्यवहारविषये च प्रष्टव्यम् अस्ति मया।
**आचार्यः –**तत्र प्रष्टव्यं वक्तव्यं वा किं स्यात् भोः!
**शिष्यः –**तथा न श्रीमन्! भाषादृष्ट्या अहम् इदानीम् अपि बालः। व्यवहारसन्दर्भे तदा तदा सन्देहाः उद्भवन्ति। कुत्रचित् अज्ञानं, कुत्रचित् अस्पष्टता…।
**आचार्यः –**अस्तु नाम, भवान् यत् इच्छति तत् पृच्छतु! सरलया शैल्या सर्वस्य अपि विवरणं ददामि।
**शिष्यः –**तथा कृतं चेत् नितराम् उपकृतः भवेयम्।
**आचार्यः –**अस्तु तावत्। पाठने मम अपि विशेषाभिरुचिः। किन्तु अद्य मम समयावकाशः नास्ति किल?
शिष्यः– चिन्ता नास्ति। अत्र ज्ञातव्यम् इति ममापि न तथा त्वरा। यदासूच्यते तदा आगमिष्यामि।
**आचार्यः –**एवं तर्हि श्वः आगच्छतु। शुभे मुहूर्ते पाठस्य आरम्भः भवतु।
**शिष्यः –**उपकृतोऽस्मि भवतः अनुग्रहेण।
**आचार्यः –**मम किम् अत्र! देवः सर्वं कारयति।
सम्बोधनं कथम्?_________________________________________________________________________________________________
शिष्यः– आचार्य! अभिवादये!
**अचार्यः –**आगच्छतु वत्स! उपविशतु।
शिष्यः– श्रीमन्, अद्य ‘रवि’ इति सम्बोधनं श्रुतवान्।
**अचार्यः –**असाधुरूपं तत्। ‘रवे’ ‘हरे’ इति एकारान्तत्वेन सम्बोधनम् उचितम्। आकारान्तस्त्रीलिङ्गशब्दानाम् अपि सम्बोधनम् एकारान्तत्वेन एव। यथा ‘मङ्गले’ ‘विमले’ ‘चन्द्रिके’ इति।
शिष्यः– ईकारन्तशब्दानां सम्बोधने ह्रस्वत्वं खलु?
आचार्यः – आम्, ‘मालति’ ‘भगिनि’ ‘भारति’ इत्यादिरूपेण।
शिष्यः– ‘शास्त्री’ इति सम्बोधनम् उचितं न किल?
आचार्यः – आम्, एतादृशाः इन्नन्ताः इति उच्यन्ते। (यतः अन्ते इन् अस्ति) सम्बोधने तु ‘न्’ श्रूयते। यथा - शास्त्रिन्, अग्निहोत्रिन् इत्यादि। एवम् एव वर्मन्, शर्मन् इत्यत्रापि ‘न्’ श्रूयते।
शिष्यः– मातरं पितरं च कथं सम्बोधयेयम्?
**आचार्यः –**मातः अम्ब इति वा, पितः जनक इति वा सम्बोधयतु।
शिष्यः– मातुः विषये भवदुक्तम् उचितम्। किन्तु पितुः सम्बोधने व्यावहारिकदृष्टया कृतकता अनुभूयते किल? ययोः आत्मीयता, तयोः सम्बोधनं कृतकं न भवेत्।
आचार्यः – तत् तु सत्यम् एव। एवं तर्हि पितरं ‘तात’ इति सम्बोधयतु। पिता अपि पुत्रं ‘तात’ इत्येव सम्बोधयितुम् अर्हति। पुत्र/वत्स इत्यपि। पुत्रीं च वत्से/पुत्रि इति।
शिष्यः– अध्यापकम् अध्यापिकां च किमिति…?
आचार्यः – श्रीमन्/आर्य/आचार्य इति अध्यापकं, मान्ये/आर्ये इति च अध्यापिकां सम्बोधयतु।
शिष्यः – अपरिचितानां सम्बोधनं कथम्?
आचार्यः – श्रीमन्/महोदय इत्यादिरूपेण पुरुषस्य, स्त्रियः तु मान्ये/आर्ये इति वा, ज्येष्ठायाः मातः इति, कनिष्ठायाः भगिनि इति वा सम्बोधनम्।
शिष्यः – पतिः पत्नीं पत्नी, पतिंच किमिति सम्बोधयेत्?
आचार्यः – पतिः पत्नीं नाम्ना वा (यथा- सीते, गीते, मालति,) ‘भवति’ इति वा (भवच्छब्दस्य सम्बोधनं) सम्बोधयतु। पत्युः ‘भोः’ इति पर्याप्तम्। नाटकेषु ‘आर्यपुत्र’ इत्यपि सम्बोधनम् श्रूयते।
शिष्यः – मातुलपितृव्यादीनां सम्बोधनम्?
आचार्यः – मातुल, पितृव्य, आवुत्त, पितामह इत्यादिरूपेण एव।
शिष्यः – आवुत्त, प्रजावति! (भ्रातृजाये इति वा) इत्यादिषु कृतकता स्फुटतया प्रतीयते किल? एवं चेत् श्वशुरं श्वश्रूंच किमिति सम्बोधयेत् स्नुषा?
आचार्यः – प्रायः श्वशुर श्वश्रु इत्येव सम्बोधनीयम्। कृतकृता भासते इति तु सत्यम्। आत्मना स्वयं न अभ्यस्तम् इति कारणतः एवं भासते प्रायः। निरन्तरेण अभ्यासेन कृतकता अपगच्छेत्।
शिष्यः – केचन ज्येष्ठान् सर्वदा बहुवचनेन सम्बोधयन्ति किल? तथैव पत्नीं पतिं एकवचने यदि सम्बोधयेत् तर्हि…।
आचार्यः – पत्नी पतिम् एकवचने सम्बोधयति चेत् कः दोषः? प्राचीनव्यहारः तथा आसीत् एव। वस्तुतः यत्र बहुत्वं तत्रैव बहुवचनम्। गुरूणां स्वामिपादानां च विषये कुत्रचित् बहुवचनम् अनुमतं, तावदेव। इतरत्र एकवचनम् एव शोभते। अतः भवान् मां एकवचनेन यत् सम्बोधयति तत् उचितम् एव।
शिष्यः – शिष्यं माम् उद्दिश्य भवच्छब्दप्रयोगः उचितः वा?
आचार्यः – अत्र एकैकेन अपि आत्मा प्रष्टव्यः। यदि हृदयम् अङ्गीकरोति तर्हि तथा व्यवहारे कः दोषः? सौलभ्यदृष्ट्या किल एवं व्यवहारः? अन्यच्च नाटकादिषु पत्नीं चेटीं च भवच्छब्देन सम्बोधयन्ति तत्र तत्र। ये भवच्छब्दप्रयोगं न इच्छन्ति ते युष्मच्छन्देन व्यवहरन्तु नाम।
सङ्ख्याः(Numbers)
_______________________________________________________________________________
शिष्यः – आचार्य, अभिवादये।
आचार्यः- आगच्छतु, उपविशतु वत्स!
शिष्यः – श्रीमन्, सङ्ख्याविषये मम केचन संशयाः आसन्….।
आचार्यः – आम्, भवता सह सम्भाषणे मया एषः अंशः लक्षितः। तदर्थम् अहं सङ्ख्याविषयेज्ञातव्यान् कांश्चन अंशान् सोदाहरणं वदामि। तदनन्तरं भवान् भवतः संशयान् प्रष्टुम्अर्हति।
शिष्यः – तथैव अस्तु।
**आचार्यः –***एकं, द्वे, त्रीणि, चत्वारि- एतासां सङ्ख्यानां लिङ्गभेदेन रूपभेदः अस्ति। यथा -एकः(पु) एका (स्त्री) एकम् (न)
एवम् एव - द्वौ-द्वे द्वे, त्रयः - तिस्रः-त्रीणि, चत्वारः चतस्रः चत्वारि इति च।
*****पञ्चतः नवदशपर्यतं स्थिताः सङ्ख्याःनित्यबहुवचनान्ताः। एतासां लिङ्गभेदेनरूपभेदः नास्ति।
यथा - दश जनाः सन्ति, दश स्त्रियः सन्ति, दश फलानि सन्ति।
*****विंशतितः नवनवतिपर्यन्तम् स्थिताः सङ्ख्याः नित्यैकवचनान्ताः।
यथा - विंशतिः जनाः, विंशतिः बालिकाः, विंशतिः पुष्पाणि, इति।
शिष्यः – आचार्य! अत्र विंशतिः इति एकवचनं जनाः इति बहुवचनं च दृश्यते। विशेषणविशेष्ययोः समानविभक्तिकत्वं भवेत् किल?
आचार्यः – भवतः संशयः युक्तः एव। विशेषणविशेष्यभावविषये एव पुनः चिन्तयाम। यतः तत्रापिज्ञातव्याः अंशाः बहवः सन्ति। प्रकृते च विंशतिः जनाः इति वचनभेदे सत्यपि न दोषाय,यतः विंशत्यादयः नित्यैकवचनान्ताः इति एतावत् सद्यः स्मरतु, तावता अलम्।
शिष्यः – एवं तर्हि सविभक्तिकानाम् एतासां प्रयोगे अपि सङ्ख्या एकवचने विशेष्यपदं बहुवचने चकिल?
आचार्यः – युक्तम् एव उक्तं भवता। द्वित्राणि उदाहरणानि यथा - विंशत्यां जनेषु, विंशतेः जनानां,विंशत्या पुरुषैः, विंशत्या बालिकाभिः, विंशतिं फलानि, इत्यादीनि।
शिष्यः – एतादृशेषु स्थलेषु विंशतिजनानां, विंशतिबालिकाभिः इत्यादिरूपेण समासपूर्वकं कथनम्उचितं किल?
आचार्यः – सत्यम्। वस्तुतः सौलभ्यदृष्ट्या व्यावहारिकदृष्ट्या च समासपूर्वकं कथनम् एव उचितम्…।
शिष्यः – एवं तर्हि शास्त्रे सङ्ख्यासमासे अनुपपत्तिः प्रदर्शिता वा?
आचार्यः – आम्। व्याकरणे कुत्रचित् एषः विषयः प्रस्तुतः।’[दिग्वाचकाः1 सङ्ख्यावाचकाः च शब्दाःसंज्ञायां केवलं समस्यन्ते न तु इतरत्र’ इति। किन्तु ‘त्रिलोकनाथः पितृसद्यगोचरः’‘त्रिलोकनाथेन सदा मखद्विषा’ इत्यादि कालिदासप्रयोगात्, ‘नवरसरुचिरा’ इति मम्मटेनउक्तत्वात्, इतरत्रापि एतादृशप्रयोगानां वर्तमानत्वात् च समासः कृतः चेत् न दोषाय इतिसिद्धान्तितम्। सिद्धान्तकौमुद्याः बालमनोरमाव्याख्याने एतद्विषये विशेषचर्चा कृतादृश्यते। पूर्वोक्तेषु उदाहरणेषु विंशतिसङ्ख्याकाः जनाः विंशतिजनाः (मध्यमपदलोपीसमासः) इति व्युत्पत्तिः प्रदर्शिता। एतदनुगुणं समासे कृते, न दोषाय।
शिष्यः – विंशतयः जनाः सन्ति इत्यस्य कः अर्थः सिध्यति?
आचार्यः – विंशतित्रयं (६०) ततोऽप्यधिकं वा जनाः सन्ति इत्यर्थः लभ्यते। अस्तु तावत्, एतद्विषयेअवशिष्टान् अंशान् पुनः परिशीलयिष्यामः।
सङ्ख्येयाः(Numerals)
_______________________________________________________________________________
**शिष्यः –**आचार्य! ‘Fifth Girl’ इत्यर्थे ‘पञ्चमा बालिका’ इति साधुवा? उत ‘पञ्चमी बालिका’ इति?
**आचार्यः–**पञ्चमी इत्येव साधु रूपम्।
शिष्यः – प्रथमा, द्वितीया…. इत्यादिषु आकारः। पञ्चमी षष्ठी… इतिईकारः। एवं तर्हि कापि सुलभव्यवस्था….?
**आचार्यः–**अस्ति एव सुलभव्यवस्था। क्रमशः गच्छाम।
प्रथमः, द्वितीयः, तृतीयः, चतुर्थः, पञ्चमः, षष्ठः, (न षष्टः, न वाषष्ठमः) सप्तमः…. दशमः इति एतावत्पर्यन्तं सुलभतया ज्ञातुं शक्यते। तदनन्तरम् एकादशः, द्वादशः… सप्तदशः… नवदशः इत्यादीनि।एवम् एतानि विसर्गसहितानि सङ्ख्येयं बोधयन्ति।विसर्गरहितानि तु सङ्ख्याम्।
**शिष्यः –**एवं तर्हि एकादशतमः, पञ्चदशतमः इत्यादीनि रूपाणि अयुक्तानि वा?
आचार्यः– त्वरा किमर्थम्? शृणोतु। विंशतितः पूर्वं तमट् प्रत्ययः (तमट्=तम) न योजनीयः। विंशत्यनन्तरं सर्वत्र योजनीयः। विंशत्यनन्तरं विकल्पेनतमट् अस्ति। तथापि तमट् योजितः चेत् न दोषाय। अतः ‘विंशतितःपूर्व न तमट्, विंशत्यनन्तरं सर्वत्र तमट्’ इति एषः नियमः आश्रितःचेत् कुत्रापि दोषस्य न अवकाशः। यथा-विंशतितमः …. पञ्चविंशतितमः …. पञ्चत्रिंशत्तमः…. षडशीतितमः शततमः ….।
शिष्यः – सङ्ख्येयानां लिङ्गभेदेः रूपभेदः अस्ति किल? अतः तत्र रूपनिर्णयःकथम्?
आचार्यः– पुल्लिङ्गनपुंसकलिङ्गयोः तु साम्यम्। यथा प्रथमः/ प्रथमम्, दशमः/दशमम्, त्रिंशत्तमः/त्रिशत्तमम्, नवाशीतितमः/नवाशीतितमम्।
स्त्रीलिङ्गे तु- प्रथमा, द्वितीया तृतीया - इति त्रिषु स्थलेषु आकारः। इतरत्रसर्वत्र ईकारः। यथा- चतुर्थी, दशमी, अष्टादशी, पञ्चविंशतितमी,अशीतितमी… तमी।
शिष्यः – एवं तर्हि चतुर्था बालिका, विंशतितमा लता, इत्यादयः प्रयोगाःअसाधवः इत्येव?
**आचार्यः –**अथ किम्? चतुर्थी, विंशतितमी, इत्येव युक्तं रूपम्।
**शिष्यः –**श्रीमन्! कश्चित् ‘भवतः जन्मदिनाङ्कः कः’ इति पृच्छति चेत्’विंशतितमः’ ‘नवमः’ इत्येव वक्तव्यं किल? न तु ‘विंशतिः’ ‘नव’ इति।
आचार्यः – आम्, जन्म-दिनाङ्कः इत्यस्य विशेषणत्वेन किल अत्र प्रयोगः? अतःसङ्ख्येयकथनम् एत्र उचितः मार्गः। दिनाङ्ककथने अपि एवम् एव।नवमः पञ्चदशः विंशतितमः इत्येव उचितम्।
शिष्यः – वयं नगरे वसाम इत्यतः नगरयानानां (City Bus) सूचने क्लेशम्अनुभवामः। सङ्ख्यायाः सङ्ख्यावतः च व्यवहारे अभेदः अस्ति।तथापि तत्र नवदशम् आगतम्, त्रिंशतितमम् आगतम्, षष्टितमम्आगतम् इत्येव प्रयोगः किल?
आचार्यः – तथा प्रयोगः कृतः चेत् दोषस्य न अवकाशः। किन्तु सङ्ख्यापरतयाअपि प्रयोगः एतत्सन्दर्भे कुत्रचित् शक्यः।
शिष्यः – भवतः कथनस्य आशयं स्पष्टतया न ज्ञातवान् अहम्।
**आचार्यः –**विंशत्यनन्तरं सङ्ख्यायाः सङ्ख्येयपरत्वम्2 अपि अस्ति।अतःविंशतिः आगता, विंशतितमम् आगतम् इति उभयथा अपि प्रयोगःउचितः एव। किन्तु जागरूकता भवतु यत् एवम् उभयथा प्रयोगःविंशत्यनन्तरम् एव, न तु ततः पूर्वम्। अतः ‘पञ्चदश (विसर्गरहितंरूपम्) आगतम्’ इत्यादिरूपेण न वक्तव्यम्। एतदपेक्षया यानकथनेदिनाङ्ककथने च सङ्ख्येयस्य आश्रयणं सुलभतरः मार्गः।
शिष्यः – ‘विंशतिः आगतम्’ (यानम्) इति तु दोषाय एव किल?
आचार्यः – आम् आम्, विंशत्यादयः सङ्ख्याशब्दाः नित्यस्त्रीलिङ्गाः एकवचनान्ताःच। अतः विंशतिः आगता, षष्टिः आगता इत्येव शुद्धः प्रयोगः।
सङ्ख्यापठनम्
_______________________________________________________________________________
**शिष्यः–**श्रीमन्!सङ्ख्याविषये मम इतोऽपि केचन प्रश्नाः सन्ति।
**आचार्यः–**पृच्छतु तावत्। तत्र किमर्थं सङ्कोचः?
**शिष्यः–**एतावता एवं बहु उक्तम्। इतोऽपि कथने भवतः खेदः यदि न स्यात्…
**आचार्यः–**श्रोता भवान् सिद्धः अस्ति। एवं स्थिते कथने मम कः क्लेशः? निस्सङ्कोचंपृच्छतु।
शिष्यः– १९८६ इति सख्यां वयं षडशीत्युत्तर-नवशतोत्तर-एकसहस्त्रम् इति पठामः।….
**आचार्यः–**परम्परानुगुणः क्रमः एषः।
**शिष्यः–**किन्तु व्यवहारे इतर भाषासु दक्षिणतः वामं (from right to left ) पठन्ति,न तु वामतः दक्षिणम्।
**आचार्यः–**भवतु, तेन किं नः छिन्नम्?
**शिष्यः–**अस्माकं तु बाल्यादारभ्य संस्कारः दक्षिणतः वामं पठनम्। अतः संस्कृतसङ्ख्यापठने क्लेशम् अनुभवामः। उक्तायाः दीर्घसङ्ख्यायाः लेखने तु….
**आचार्यः–**एवं तर्हि बाल्यतः आरभ्य एव संस्कृतसंस्कारः दातव्यः।
**शिष्यः–**कालान्तरे फलेत् एषः स्वप्नः । सद्यःकालीनक्लेशस्य परिहारार्थं कालानुगुणंकिमपि….।
**आचार्यः–**भवदुक्तं युक्तम् एव। वस्तुतः वामतो दक्षिणम् इति क्रमः इतरक्रमाणाम् अपेक्षयावैज्ञानिकः। यतः (अ) वयं लिखितां सख्यां दृष्ट्वा अङ्कानां स्थानं गणयाम,(वामतो दक्षिणम्) (आ) पुनः दक्षिणतः वामं पठामः –एवम् इतरभाषासुसोपानद्वयम्। संस्कृते तु यथा गणनं तथैव पठनम् इति एकेनैव प्रयत्नेन (वामतःदक्षिणं) गणनं पठनम् उभयम् अपि साधयितुं शक्नुमः।
**शिष्यः–**वामतः दक्षिणम् इति क्रमः वैज्ञानिकः वा न वा इति तु भिन्नः विषयः। तथाक्रमे असहजता अनुभूयते इति तु सत्यम्।
**आचार्यः–**एवं तर्हि कालिकी आवश्यकता अस्ति चेत् दक्षिणतः वामं पठितं चेत् नअपराधाय। यथा १९८६ = एकसहस्र-नवशत- षडशीतिः।
**शिष्यः–**अत्र व्याकरणानुग्रहः स्यात् वा?
**आचार्यः–**व्याकरणानुग्रहः कुतः न स्यात्? मध्यमपदलोपिसमासम् आश्रित्य साधुत्वं साधयितुं शक्यते एव। किन्तु वस्तुतः एतादृशे स्थले व्याकरणानुग्रहः न प्रमाणम्।कालिकी आवश्यकता, पूर्वप्रयोगप्रामाण्यं चापि अपेक्षितम्। साधुत्वसम्पादनार्थं व्याकरणे बहवः मार्गाः भवन्ति एव। सन्तीति कारणतः सर्वे मार्गाः न अनुसरणीयाः। आवश्यकं चेत् (अनिवार्यं चेत् वा) मार्गस्य अनुसरणे न भेतव्यम् अपि।
**शिष्यः–**दक्षिणतः पठने प्रयोगप्रामाण्यं किमपि अस्ति वा?
**आचार्यः–**द्वित्राणि प्रमाणानि सन्ति। यथा-
हेमाद्रिपुराणे महासङ्कल्पे- ‘चतुर्लक्ष-द्वात्रिंशत्-सहस्रणां’ (४३२०००)
दीधितिकारः’दशसहस्राणि चतुःशतानि चत्वारः च’ (१०४०४)
**शिष्यः–**एवं तर्हि द्वादशसहस्र-नवशत-दश (१२९१०) इति वक्तुं शक्नोमि एव?
आचार्यः– किमर्थं न? सौलभ्यदृष्ट्या एवं कथनम् अनिवार्यम् अपि।
**शिष्यः–**दूरवाणी संख्या कथनसमये Six - Five - Nine - Seven - Nine - Eight(659798) इति क्रमेण वदामः। तथैव संस्कृते अपि षट्-पञ्च-नव-सप्त-नव-अष्टइति वक्तुं शक्यते वा?
**आचार्यः–**तथा कथने कः दोषः? तत्र केवलं अङ्काः (Digits) उच्चार्यन्ते षट्-पञ्च…इति क्रमेण। न हि तत्र तेषाम् अङ्कानाम् आनुपूर्वी अपेक्षिता। अतः एवंकथनं न दोषाय।
शतृप्रत्ययान्तेषु ‘नुम्’व्यवस्था
_______________________________________________________________________________
शिष्यः– श्रीमन्! गच्छन् अस्ति, कुर्वन् अस्ति, पठन् अस्ति इत्यादीनितात्कालिक-वर्तमानकालस्य (Present continuous) रूपाणिकिल?
**आचार्यः –**आम्, व्याकरणभाषया एतानि गच्छन् कुर्वन् इत्यादीनि शतृप्रत्ययान्तरूपाणि इति उच्यन्ते।
शिष्यः– एतेषां पुल्लिङ्गरूपाणि सुलभानि। गच्छन्-लिखन्-शृण्वन्-उपविशन्इति सर्वेषां समानरूपता। नपुंसके अपि तथैव गच्छत्-लिखत्-शृण्वत्-उपविशत् इत्यादीनि समानरूमाणि।
**आचार्यः –**एवं तर्हि शतृप्रत्ययान्तानां स्त्रीलिङ्गरूपाणि क्लेशकराणि इति किलभवतः अभिप्रायः?
**शिष्यः–**आम्। यतः पठन्ती-गच्छन्ती-लिखन्ती इत्यादीनि एकरीत्या दृश्यन्ते।कुत्रचित् शृण्वती-कुर्वती इत्यादीनि रूपाणि अपि दृश्यन्ते। तदा चकुर्वती इति रूपं साधु वा, उत कुर्वन्ती इति रूपम्? इति संशयःउद्भवति।
**आचार्यः –**शतृप्रत्ययान्तानां स्त्रीलिङ्गरूपेषु कुत्र नकारः (नुम्) योजनीयः कुत्रन योजनीयः इति भवान् विवेक्तुं न शक्नोति।
**शिष्यः–**आम्। कुत्रचित् स्वीकुर्वन्ती इति लिखितवान् आसम्। तदाअग्रजः ‘स्वीकुर्वती इति रूपम् एव साधु’ मां बोधितवान्।
**आचार्यः –**एतां नुम्व्यवस्थां (कुत्र नकारः, कुत्र नकारः नास्ति इति) ज्ञातुं नतथा क्लेशः।किन्तु ततः पूर्वं भवता विषयद्वयं ज्ञातव्यम्-
(१) आत्मनेपदि-परस्मैपदि-विभागः। (२) गणव्यवस्था।
**शिष्यः –**भवति, पठति, गच्छति इत्यादीनि परस्मैपदीनि। (वर्तमानकाले प्रथमपुरुषे एकवचने ‘ति’ इति श्रूयते) एधते, वर्धते, रोचते इत्यादीनि आत्मनेपदीनि। (वर्त. प्र. ए. ‘ते’ इति श्रूयते) एतत् अहंजानामि एव।
**आचार्यः–**तात्कालिक-वर्तमानकाले परस्मैपदिधातवः शतृप्रत्ययं प्राप्नुवन्ति।(आगच्छन्, पठन्, तिष्ठन् ) आत्मनेपदिधातवः शानच्प्रत्ययं प्राप्नुवन्ति। तेषां च एधमानः वर्धमानः इत्यादीनि रूपाणि।
शिष्यः – एवं तर्हि शत्रन्तानां शानजन्तानां च अर्थ भेदः नास्ति।
**आचार्यः–**युक्तम् उक्तम्। द्वितीयतः गणविभागः ज्ञातव्यः। संस्कृते सामान्यतः२००० धातवः सन्ति। ते दशसु गणेषु विभक्ताः। तत्रापि१,४,६,१० गणीयानां धातूनां विशेषतः साम्यम्। यथा-
भवति -प्रथमगणः, कुप्यति - चतुर्थगणः
तुदति - षष्ठगणः, चोरयति -दशमगणः
**शिष्यः –**अत्र सर्वत्र ‘ति’ प्रत्ययतः पूर्वम् ह्रस्व अकारः दृश्यते।
**आचार्यः–**यदि कोऽपि धातुः एतेषु चतुर्षु गणेषु प्रविशति तर्हि शतृप्रत्यये कृतेस्त्रीलिङ्गे ‘नुम्’ योजनीयम्। इतरत्र ‘नुम्’ न योजनीयम्। एषःसुलभः मार्गः।
शिष्यः –‘करोति’ एतेषु चतुर्षु गणेषु न प्रविष्टम्। अतः कुर्वती इत्येव, नतु कुर्वन्ती। एवं किल?
**आचार्यः–**आम्। कानिचन उदाहरणानि यथा-
शृणोति - शृण्वती,रोदिति - रुदती
गृह्णाती - गृह्णती, जानाति - जानती
**शिष्यः –**इदानीं मया ‘नुम्’ व्यवस्थायाः सारः ज्ञातः। अतः इतः परं ममसम्भाषणे एतद्विषये दोषः न भवेत्।
_____________
क्त्वाप्रत्ययप्रयोगे भिन्नकर्तृकत्वम्
_______________________________________________________________________________
**शिष्यः–**आचार्य! ह्यःमम स्नेहितस्य सुरेशस्य पत्रम् आगतम्। भवतेनमस्कारान् निवेदितवान् सः।
**आचार्यः–**सन्तोषः। उत्तरलेखनसमये मम आशीर्वादान् सूचयतु।
**शिष्यः–**तस्य पत्रे आरम्भे एव एकं वाक्यम् आसीत्….।
**आचार्यः–**किमिति?
शिष्यः–‘भवतः पत्रं दृष्ट्वा महान् सन्तोषः अभवत्’ इति।
**आचार्यः–**सामान्यवाक्यम् एतत्। सर्वेषु पत्रेषु भवति एव प्रायः।
**शिष्यः–**एतत् वाक्यं साधु वा?
**आचार्यः–**कया दृष्ट्या? व्याकरणदृष्ट्या उत व्यवहारदृष्ट्या?
**शिष्यः–**व्याकरण-अविरुद्धा किल व्यवहारदृष्टिः? एवं तर्हि तयोः कः भेदः?
**आचार्यः–**व्याकरण-अविरोधं भिन्नैः भिन्नैः मार्गैः साधयितुं शक्यते बहुत्र।यदि प्रामाणिकः शिष्ट-प्रयोगःकुत्रापि दृष्टः चेत् तस्यव्याकरणानुग्रहः सम्पाद्यते आस्माभिः। एवं च व्याकरणदृष्ट्याःव्यवहारदृष्ट्याः च सूक्ष्मः भेदः अस्ति एव।
**शिष्यः–**अस्माकं तु व्याकरणाविरुद्धः व्यवहारः प्रमाणम्। एवं तर्हिव्यावहारिकदृष्ट्या साधुत्वं वदतु।
**आचार्यः–**अत्रैव पश्यतु। वस्तुतः व्याकरणस्य सामान्यनियमानुसारं एतत्वाक्यं दुष्टम्। किन्तु व्यवहारदृष्ट्या साधुत्वं सम्पाद्यते।
**शिष्यः–**व्याकरणदृष्ट्या असाधुत्वं कथम् इति…..।
**आचार्यः–**यत्र ‘क्त्वा’ (त्वा) प्रयुज्यते तत्र क्रियाद्वयं भवति। तदुभयम् अपिएकः एव कर्ताकरोति*3 । यथा - रामः भोजनं कृत्वा शालां गच्छतिइत्यत्र भोजनकर्ताशालागन्ता च रामः एव। यदि रामःभोजनकर्ता, भीमः शालागन्ता चेत् तत्र क्त्वा (त्वा) न भवति।
शिष्यः– पूर्वतनवाक्ये तु दर्शनं तु स्नेहितः कृतवान्। भवनं (Happening)तु सन्तोषस्य। एवं भिन्नकर्तृकत्वात् अत्र क्त्वाप्रत्ययस्य प्रयोगः नउचितः। एवं किल?
**आचार्यः–**विषयः सम्यक् अवगतः भवता। किन्तु पूर्वं प्रामाणिकैः कविभिःएवं भिन्नकर्तृकस्थले अपि क्त्वाप्रयोगः कतः। यथा-
(१) भक्ष्याशया हि मञ्जूषां दष्ट्वाखुः तेन भक्षितः
- जयदेवः, अप्पय्यदीक्षितः च
(२) मत्प्रसूतिमनाराध्य… सन्ततिः न भविष्यति।
-कालिदासः रघवंशे
व्याख्यानकारैः एतस्य प्रामाणिकत्वं साधितम्।
**शिष्यः–**तत् कथम्?
**आचार्यः–**अत्र, ‘स्थितः’ ‘स्थितस्य’ इत्यादीनाम् अध्याहारः करणीयः। तदाच ‘दष्ट्वा स्थितः आखुः भक्षितः’ ‘अनाराध्य स्थितस्य ते सन्ततिःन भविष्यति’ इत्यादिरीत्या वाक्यानि सिध्यन्ति। दंशनस्य स्थितेःच समानकर्तृकत्वं, आराधनस्य स्थितेः च समानकर्तृकत्वम् इतिदोषः अपास्तः।
**शिष्यः–**एवं तर्हि पूर्वोक्ते वाक्ये ‘स्थितस्य’ इति अध्याहारः करणीयः।भवतः पत्रं दृष्ट्वा (स्थितस्य) मम सन्तोषः अभवत् इतिवाक्यस्वरूपम्। तथा च न दोषाय।
**आचार्यः–**आम्, क्त्वाप्रत्यये प्रयुक्ते भिन्नकर्तृकत्वं यत्र दृश्यते तत्र एवंसमाधानं वक्तव्यं भवति।
शिष्यः–‘आगत्य कति मासाः अतीताः’ इत्यादिवाक्येषु अपि एवम् एवकिल?
**आचार्यः–**अथ किम्?
**शिष्यः–**मादृशानां सामान्यानां प्रयोगस्य प्रामाण्यम्….।
**आचार्यः–**किमर्थं चिन्ता भोः? प्राचीनैः एतादृशे स्थले प्रामाण्यं सम्पादितम्।वयं तु, अगतिकगत्या ‘पत्रं दृष्ट्वा …’ ‘आगत्य कति….’ इत्यादिषु क्त्वाप्रयोगं कुर्मः। अतः व्यवहारे एतादृशानि वाक्यानि निश्चयेनप्रयोक्तुं शक्यन्ते।
लेखनदोषाः
_______________________________________________________________________________
**शिष्यः –**आचार्य, अनुस्वारस्य अनुनासिकस्य च कः भेदः?
**आचार्यः–**बिन्दुरूपेण (ं ) यत् लिख्यते सः अनुस्वारः। ञ् म् ङ् ण् नादयः अनुनासिकाः इति उच्यन्ते यतः एतेषाम् उच्चारणे नासिकायाः उपयोगः क्रियते। तदस्तु, एवं जिज्ञासा किमर्थम् उत्पन्ना?
शिष्यः – शान्तः, कङ्कणम्, अन्तरङ्गम् इत्यादिषु केचन अनुस्वारं योजयन्तः शांतः, कंकणम्, अंतरंग इति लिखन्ति।
आचार्यः– कुत्र अनुस्वारः कुत्र अनुनासिकः इति किल सन्देहः भवतः?
**शिष्यः –**आम्, तथैव यत्र शब्दद्वयं भवति - ‘गृहम् आगतः’ इत्यादौ - तत्र गृहशब्दान्ते अनुस्वारः वा अनुनासिकः वा इतिसन्देहः।
आचार्यः– शान्तः, कङ्कणम् इत्यादौ अनुस्वारलेखनं दोषाय एव। अतः तत्र तत्तद्वर्गस्य (अग्रे स्थितस्य) पञ्चमाक्षरं लेखनीयम्। यथा - कङ्कणम्, अञ्चलम्, कण्टकम्, कान्तः, सम्पादनम् इत्यादयः।
**शिष्यः –**सङ्घटनं, सङ्ख्या इत्यादौ अनुस्वारः अपि लेखितुं शक्यः किल?
आचार्यः– युक्तमेव उक्तम्। किन्तु कुत्रचित् अनुस्वारः कुत्रचित् अनुनासिकः इति चेत् पुनः विवेचने कष्टम्। अतः सर्वत्र तत्तद्वर्गस्य पञ्चमाक्षरं लिखतु। तदा दोषस्य अवकाशः एव न भवति।
शिष्यः – ‘गृहम् आगतः’ इत्यादौ मकारः सहजः, उत अनुस्वारः?
आचार्यः– वस्तुतः (पदान्ते) मकारः एव सर्वत्र सहजः। यथा - शालां गच्छति। *4 - पाणिनिसूत्रम्।")व्यञ्जने परे तस्य मकारस्य अनुस्वारः। स्वरपरत्वे तु अनुस्वारप्राप्तौ निमित्तम् एव नास्ति। अतः
सहजतया मकारः एव अवशिष्यते। तथा च ‘गृहम् आगतः’ इति लेखनम् एव उचितम्।‘गृहं आगतः’ इति अनुस्वारलेखनं दोषाय एव।
वाक्यान्ते अपि सर्वदा अनुनासिकवर्णः (मकारः) एव लेखनीयः। यथा - ‘यानम्आगतम्।’ ‘केन उक्तम्?’
शिष्यः –‘तत्वम्’ ‘महत्वम्’ इत्यादिरूपेण लिखन्ति केचन। तत्र तकारद्वयं भवेत् किल?
**आचार्यः–**आम्, व्यावहारिकाः केचन शब्दाः सन्ति, येषां लेखने जागरूकता अपेक्षिता। ते च-
[TABLE]
शिष्यः – समस्ते पदे यत्र सन्धिः अनिवार्या तत्र केचन सन्धिं न कुर्वन्ति। किम् एतत् उचितम्?
**आचार्यः–**उदाहरणानि वदतु….
**शिष्यः –**सार्ध-एकादशवादनम्, त्रि-अशीतिः इत्यादयः।
**आचार्यः–**वस्तुतः अत्र सन्धिः अनिवार्या एव। किन्तु पठनसौलभ्यदृष्ट्या प्रायः कैश्चित् सन्धिम्अकृत्वा लिख्यते इति मन्ये। अत्र तु एवं करणीयम् - यत्र सन्धिः नित्यः तत्र तस्यज्ञापनार्थम् एका रेखिका (-) लेखनीया। (उदा–त्रि-अशीतिः) तस्य च अर्थः भवति– ‘सन्धिः एव अभिप्रेत, पठनसौलभ्यदृष्ट्या विभज्य लिखितम्’ इति।
**शिष्यः –**पठने कथम्?
**आचार्यः–**पठनं तु सार्धैकादशवादनम्, त्र्यशीतिः इति सन्धिसहितम् एव उचितम्।
भूतकाले कृदन्तरूपाणि
_______________________________________________________________________________
**शिष्यः–**श्रीमन्! भवान् सर्वाणि क्रियापदरूपाणि जानन् अपि भूतकाले’गतवान्’, ‘कृतवान्’ इत्यादिरूपेण कृदन्तानां प्रयोगं करोति किल? तदपि साग्रहं सर्वदा च!
**आचार्यः–**तत्र कः दोषः इति भवतः अभिप्रायः?
**शिष्यः–**दोषः इति न। जिज्ञासुः अहं पृच्छामि –“एवं प्रयोगे किं कारणम्” इति।
**आचार्यः–**सरलतादृष्टिः एव अत्र कारणम्।
**शिष्यः–**मृत्पिण्डबुद्धेः मम एतावता अपि…..।
**आचार्यः–**समग्रं विवरणं खलु इच्छति भवान्? अस्तु तावत्। भूतकाले लिट्, लड्,लुङ् इति लकारत्रयं विहितम् अस्ति। क्रमेण उदाहरणानि-
बभूव (लिट्)
अभवत् (लङ्)
अभूत् (लुङ्)
एतेषु लिटः (बभूव) प्रयोगः व्यवहारे विरलः। इतररूपाणां प्रयोगेक्लेशः।
**शिष्यः–**तत् कथम्?
**आचार्यः–**लुङि(अभूत्) लङि (अभवत्) च धातोः पूर्वम् अकारः (अडागमः) श्रूयते।किन्तु तस्य योजने सामान्यतः सर्वैः दोषः क्रियते। विशेषतः उपसर्गसहितधातूनां प्रयोगे। स्वीकरोति, प्रकटयति, प्रविशति इत्यादीनांभूतकालरूपाणि वदतु।
**शिष्यः–**स्व्यकरोत् (स्वी+अकरोत् ) प्राकटयत्, (प्र+अकटयत्) प्राविशत्(प्र+अविशत्)।
**आचार्यः–**समीचीनतया उक्तं भवता। सामान्यतः बहवः अस्वीकरोत्, अप्रकटयत्,अप्रविशत् इति वदन्ति।
**शिष्यः–**उपसर्गस्य अनन्तरं धातोः पूर्वम् अकारे योजनीये, उपसर्गतः पूर्वंयोजयन्ति। तदा एषः दोषः सम्भवति। एवं किल?
आचार्यः– आम्, एतावदेव न, भूतकालक्रियापदरूपस्य वर्तमानरूपस्य च साम्यं नभवति। यथा - स्वीकरोति - स्व्यकरोत्, प्रविशति - प्राविशत्। अतःअर्थबोधे क्लेशः। भूतकृदन्तरूप-वर्तमानरूपयोः तु साम्यम्। यथा -स्वीकरोति -स्वीकृतवान्। प्रकटयति - प्रकटितवान्।
**शिष्यः–**प्रयोगसौलभ्यम् अस्ति इति तु सत्यम् एव। किन्तु क्रियापदरूपस्य त्लिङ्गभेदः नास्ति। (यथा सः/सा/तत्-अगच्छत्) कृदन्तरूपस्य त् लिङ्गभेदः अस्ति। (यथा सः गतवान्, सा गतवती, तत् गतवत्) एवंप्रयोगसौलभ्यम् अङ्गीकुर्वद्भिः लिङ्गभेदभारः अपि अङ्गीकरणीयःआपतितः।
**आचार्यः–**यद्यपि एतत् सत्यम् एव। किन्तु अत्र अपरः लाभः अस्ति यत्पुरुषभेदचिन्ता नास्ति। यथा–
सः/रामः — गतवान्
त्वम् — गतवान्
अहम् — गतवान्
क्रियापदरूपे तु पुरुषभेदरूपः क्लेशः आसीत् एव। यथा सः/रामःअगच्छत्, त्वम्– अगच्छः, अहम् अगच्छम्।
शिष्यः– एवं तर्हि लिङ्गभेदस्य आधिक्ये अपि पुरुषभेदः नास्तीति लाभः अपिअस्ति।
**आचार्यः–**आम्! अन्यच्च सरलतादृष्ट्या युष्मच्छब्दस्य स्थाने भवच्छब्दस्य प्रयोगःक्रियते। भवच्छब्दरूपस्य कृदन्तरूपस्य च साम्यम् अपि अस्ति। यथा – भवान् - गतवान्। भवती - गतवती। प्रान्तीयभाषासु क्रियापदरूपेलिङ्गभेदः अस्ति एव।अतः छात्राः सुलभतया कृदन्तरूपाणिअनुसरन्ति। एवं च क्रियापदकाठिन्यं सर्वैः संस्कृतज्ञैः यत् अनुभूयते तत्अत्र परिहृतं भवति।
अपरं च भूतसामान्ये कोऽपि लकारः नास्ति। सर्वेऽपि सामान्यतःभूतकालार्थे लङ्लकारस्य (अभवत्) प्रयोगं कुर्वन्ति। कालविशेषेउक्तस्य लकारस्य भूतसामान्ये प्रयोगः न तथा औचित्यम् आवहतिकिल। कृदन्तरूपं तु भूतसामान्ये उक्तम् अस्ति। अतः भूतकालेकृदन्तरूपस्य प्रयोगः कृतः चेत् दोषस्य न अवकाशः।
शिष्यः– इदानीं ज्ञाता कृदन्तरूपप्रयोगे भवता क्रियमाणस्य आग्रहस्य पृष्ठभूमिः।
भवच्छब्दस्य प्रयोगः
_______________________________________________________________________________
शिष्यः– श्रीमन्! भवान् युष्मच्छब्दस्य स्थाने भवच्छब्दस्य प्रयोगं करोति।तद्विषये कदाचित् भवता उक्तं यत् –‘सरलतादृष्ट्या एवं करोमि इति। एतस्य पृष्ठभूमिं ज्ञातुम् इच्छामि अहम्।
**आचार्यः–**वत्स! प्रथमं सरलतामनोभावस्य अर्थः ज्ञातव्यः भवता। यतः सरलता,कठिनता इत्यादयः सापेक्षाः शब्दाः।
**शिष्यः–**तन्नाम….?
आचार्यः–‘रामः स्थूलः’ इति अहं वदामि। तदा प्रश्नः उदेति –‘रामः कस्य अपेक्षयास्थूलः?’ इति। रामः बलरामस्य अपेक्षया स्थूलः स्यात्। तथैव भीमस्यअपेक्षया कृशः अपि स्यात् किल?
**शिष्यः–**एवं तर्हि रामे स्थूलत्वं कृशत्वं च अस्ति एव। स्थूलः/कृशः इति कथनसमयेमनसि किमपि मानं तिष्ठति।
**आचार्यः–**आम्, एवम् एव सरलतादयः अपि। मनसि किमपि मानं, तदाधारेण सरलतायाःकल्पनं, तदनुगुणं भाषायाः स्वरूपनिश्चयः च।
**शिष्यः–**एवं तर्हिकिं मानम् अस्ति भवतः विचारे?
**आचार्यः–**भवान् जानाति एवं यत् अहं सम्भाषणप्रचारान्दोलनस्य कार्यकर्ता इति। अल्पेसमये सुलभतया संस्कृतसम्भाषणस्य पाठनं मम लक्ष्यम्। अतः पाठनसौलभ्यंमम एक मानम्।
**शिष्यः–**तन्नाम युष्मच्छब्दस्य पाठनसौलभ्यं नास्ति इति वा भवतः अभिप्रायः?
**आचार्यः–**अहं कदा तथा उक्तवान्? मम आन्दोलनस्य अङ्गतया यत् पाठ्यते तत्रभवच्छब्दं स्वीकृत्य पाठनम् अधिकसौलभ्याय भवति, तदपि प्राथमिके स्तरे।द्वितीये तृतीये वा स्तरे युष्मच्छब्दस्य पाठनं भवति एव।
**शिष्यः–**प्रथमे स्तरे कीदृशं पाठनसौलभ्यं तस्य?
**आचार्यः–**ततः पूर्वं भवता Basic Samskrit विषये अपि किञ्चिदिव ज्ञातव्यम्। अल्पेसमये अधिकं पाठनीयं, पाठितस्य दृढता सम्पादनीया इति हि अस्माकं लक्ष्यम्।दश शब्दाः पाठनीयाः इति चिन्तयतु। पञ्चानां शब्दानां पाठनेन एव यदिइष्टसिद्धिः तर्हि अवशिष्टाः शब्दाः न पाठनीयाः भवन्ति। तेन अभ्यासिनांपठनश्रमस्य सञ्चयः भवति।
**शिष्यः –**युष्मच्छब्दप्रयोगेन यः भावः प्रकाश्यते सः भावः भवच्छब्द-प्रयोगेन एवप्रकाशयितुं शक्यते?
**आचार्यः –**आम्। ‘गच्छति’ इति प्रथमपुरुषरूपं वयं पाठयामः एव। भवच्छब्दप्रयोगेक्रियापदरूपम् एतदेव भवति5। यथा–भवान् गच्छति, भवती गच्छति, भवान्/भवती गच्छतु। इदानीं गच्छति–गच्छामि इत्यनयोः भेदः पाठितः चेत्इष्टसिद्धिः। तदपि सुकरम् एव। अहं–गच्छामि, इतरत्र सर्वत्र गच्छति इति।भूतकाले तु वयं कृदन्तरूपस्य आश्रयणं कुर्मः। भूतकृदन्तरूपस्यभवच्छब्दस्य साम्यम् अस्तीति कारणतः तत्रापि न क्लेशः।
शिष्यः– एवं युष्मच्छब्दस्य परिहारेण व्यवहारः कृतकः न भवेत् वा? किं माता पुत्रंभवच्छब्देन सम्बोधयेत्? किं यजमानः सेवकेन सह, स्नेहितः स्नेहितेन सह चभवच्छब्देन व्यवहरेत्?
आचार्यः – भवतः स्मरणे भवतु यत् युष्मच्छब्दः प्राथमिके स्तरे परिह्रियते, (तदपिपाठनसौलभ्यदृष्ट्या) न तु सर्वत्र इति। इदानीं भवतः प्रश्नः – व्यवहारः कृतकःभवेत् किल इति। आंग्लभाषायां सर्वत्र You इति प्रयोगः श्रूयते। हिन्दीभाषायाम् ‘आप’ इति प्रयोगः। किं तत्र कृतकता अनुभूयते भवता?
शिष्यः– इतरत्र क्रियते इति कारणतः अनुकरणम् अनुचितं किल?
**आचार्यः –**न हि एतत् अनुकरणम् **। पाठनसौलभ्यरूपः महान् लाभः अस्तीति कारणतःएषः मार्गः अनुसृतः। निरन्तरम् अभ्यासेन परस्परव्यवहारेण च कृतकतापरिहृता भवेत्।
शिष्यः– एवं तर्हि सर्वत्र भवच्छब्दः प्रयोक्तव्यः?
**आचार्यः –**समर्थतया शीघ्रातिशीघ्रं संस्कृतोन्नतिः साधनीया चेत्, सर्वत्र संस्कृतस्य प्रसारःकरणीयः चेत्, तदर्थं सरलं मुखम् आश्रयणीयं चेत्, पाठनसौलभ्यं मनसिचिन्तनीयं चेत् भवच्छब्दप्रयोगः आश्रयणीयः एव।
–––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––
**परिशीलयत् – १. स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान् दर्शितशिष्यवृत्तिः – रघुवंशे २-४०. २. किं पुनः अभिहितं भवत्या – (चेटीं प्रति भीमस्य वचनम्) – वेणीसंहारे प्रथमोऽङ्कः
–––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––
पर्यायपदेषु कः स्वीकरणीयः?
_______________________________________________________________________________
**शिष्यः–**श्रीमन्! भवता सरलसंस्कृतदृष्ट्या परिमितीकरणम् (Limitingthe words) अङ्गीक्रियते किल। एवं तर्हि पर्यायपदानां विषये काधारणा?
**आचार्यः–**पर्यायपदेषु कश्चन एकः एव शब्दः अङ्गीक्रियते। सामान्यतःअकारान्तः शब्दः प्रयोगसुलभः। अतः पर्यायपदेषु अकारान्तः शब्दःप्रसिद्धः यदि कोऽपि अस्ति तर्हि सः स्वीकरणीयः। अत्र अकारान्तःनाम– अकारान्तपुल्लिङ्गः (यथा –वृक्षः, देवः….इ) आकारान्त–स्त्रीलिङ्गः (यथा –शाला, माला, लता…. इ) अकारान्त–नपुंसकलिङ्गः (यथा –ज्ञानम्, कार्यम्…. इ) च शब्दः।
शिष्यः– इदानीं देवतापर्यायत्वेन अमर-निर्जर-विबुध-सुर-प्रभृतयः बहवः शब्दाःसन्ति। ते सर्वे अकारान्ताः एव। अत्र कः शब्दः स्वीकरणीयः?
आचार्यः– देवः इति शब्दः प्रान्तीयभाषासु रूढः। श्रवणमात्रेण तस्य अर्थः अवबुध्यते।अतः सः एव शब्दः स्वीकरणीयः।
शिष्यः– ‘देवता’ इति आकारान्तः शब्दः अपि प्रसिद्धः अस्ति किल?
आचार्यः– तथापि देवशब्दस्वीकारे एव सौलभ्यं किल? आकारान्तशब्दस्यविभिन्नविभक्तिषु प्रयोगः क्लिष्टः। सामान्यतः भ्रमेण तस्य विशेषणम् अपिपुल्लिङ्गे कदाचित् योजयन्ति।
यथा –‘ते देवताः ….उक्तवन्तः’ इत्यादयः।
अतः देवशब्दस्वीकारः एव अत्र युक्तः।
शिष्यः– कस्यचित् अकारान्तः पर्यायशब्दः कोऽपि न भवति। तदा?
आचार्यः– तदानीम् प्रयोगसुलभः सुलभगम्यः कोऽपि अन्यः शब्दः स्वीकरणीयः।
शिष्यः– कदाचित् अकारान्तः पर्यायशब्दः अप्रसिद्धः तिष्ठति। इकाराद्यन्तः शब्दःप्रसिद्धः भवति, तदा?
आचार्यः– तदा प्रसिद्धं शब्दं स्वीकरोतु। सुलभावगतिः प्रधाना किल? स्वीकृतः शब्दःसुलभावगतियोग्यः सन् प्रयोगयोग्यः अपि यदि भवेत् तर्हि वरम्।
शिष्यः– एवं तर्हि सुलभावगतेः प्रथमप्राशस्त्यम्। तदनन्तरं प्रयोगसौलभ्यम् अपिमनसि स्थापनीयम्।
**आचार्यः–**आम्। अन्यच्च कृतकता (असहजता वा) यथा न भासेत तथा अपि जागरूकताआश्रयणीया।
शिष्यः– एवं तर्हि अनुभवबलस्य आधारेण निर्णयः स्वीकरणीयः।
**आचार्यः–**आम्। पूर्वोक्तक्रमेण एकस्मिन् अर्थे एकः (एव) शब्दः इति एकंव्यवहारसूत्रम्। ‘बहुषु शब्देषु सत्सु अपि एकस्मिन् अर्थे एकः (एव) शब्दःस्वीकरणीयः’ इति तस्य तात्पर्यम्।
अपरं च सूत्रम्– एकः शब्दः एकस्मिन् अर्थे (एव) इति।
अस्य तात्पर्यं तु– एकस्य शब्दस्य बहवः अर्थाः भवन्ति। कस्मिंश्चित्एकस्मिन् एव अर्थे तस्य प्रयोगः कृतः चेत् अध्येतॄणां भ्रमस्य न अवकाशः। यथा ‘कुतः’ इत्यस्य अर्थद्वयम्-कस्मात् प्रदेशात् (From where) किं निमित्तं(why) इति। ‘किं निमित्तं’ इति अर्थं बोधयितुं शब्दान्तरं ‘किमर्थम्’ इतिअस्ति एव। अतः वयं कृतः इति शब्दस्य प्रयोगं ‘कस्मात् प्रदेशात्’ इति अर्थेएव कुर्मः।
**शिष्यः–**रमणीयं सूत्रम् एतत् –एकस्मिन् अर्थे एकः (एव) शब्दः।
एकः शब्दः एकस्मिन् अर्थे (एव)।
अभ्यासाः (Drills)
_______________________________________________________________________________
शिष्यः– श्रीमन्! विद्यालयेषु पञ्चषाणां वर्षाणाम् अध्ययनानन्तरम् अपि यत् नसिध्यति तादृशं कथं वा भवन्तः अल्पे काले साधयन्ति? कथं वा भवतांपाठनेन छात्राः अल्पे काले सम्भाषणसमर्थाः भवन्ति?
**आचार्यः–**वयं तुयत् पाठयामः तद्विषये अभ्यासं कारयामः। पर्याप्तमात्रेण अभ्यासःकारितः चेत् प्रयोगसामर्थ्यं स्वयं सिध्यति।
**शिष्यः–**शब्दस्य अर्थः अवगतः चेत् प्रयोक्तुं शक्नोति किल कोऽपि?
**आचार्यः–**तन्नाम मातृभाषया शब्दस्य अर्थः बोधितः चेत् पर्याप्तम् इति भवतःअभिप्रायः। किन्तु वस्तुस्थितिः इतोऽपि भिन्ना एव भवति। अध्ययनसमये सर्वेशब्दार्थं जानन्ति एव। तथापि ते प्रयोगे कष्टम् अनुभवन्ति किल?
शिष्यः– एवं किमर्थं भवति? यस्य ज्ञानं तस्य प्रयोगः किमर्थं वा न शक्यते?
आचार्यः– तत् ज्ञानं दृढं न भवति। एकक्षणे ज्ञातम् अपि अनन्तरक्षणे विस्मृतं भवति। अतःएव वयं वदामः –यत् पाठयति तस्य विषये अभ्यासं कारयत इति।
**शिष्यः–**एवं तर्हि महान् प्रयासः करणीयः भवति। यदि विंशतिः शब्दाः पाठनीयाः चेत्तावद्वारम् अभ्यासः कारणीयः। एकैकस्मिन् अभ्यासे दश वाक्यानिवाचनीयानि भवन्ति।…
**आचार्यः–**एवं करणम् अनिवार्यम्। एतदर्थं महान् समयः व्ययीकरणीयः भवति अपि।अतः एव वयं वदामः यत् ‘अल्पं पाठ्यभागं स्वीकरोत्अधिकम् अभ्यासंकारयत्’ इति। तदानीं च परिमितीकरणम् अङ्गीकरणीयं भवति। एतस्य
तत्त्वस्य आधारेण एव शब्देषु अकारान्तस्य प्रयोगसुलभस्य स्वीकारः,पर्यायपदेष् एकस्य अङ्गीकारः, भवच्छब्दप्रयोगस्य आदरः इत्यादयःअस्माभिः अङ्गीकृताः। सुदूरं प्रवासार्थ गन्तुम् उद्युक्तःकश्चित् यथा न्यूनतमंभारं केवलं नेतुं प्रयतते, भाराधिक्यं यावच्छक्यं परिहरति चतद्वत् एव पाठनेअपि।
**शिष्यः –**अधिकं पाठयामः चेत् छात्रस्य अधिकः लाभः भवति किल? यतः अधिकस्यअधिकं फलम्।
आचार्यः– अधिकस्य फलस्य आशया वयम् अभ्यासस्य, तद्द्वारा दृढीकरणस्य चउपेक्षांकर्मः चेत् अपेक्षितः परिणामः कथं लभ्येत? इदानीन्तनपरिस्थितेः एतदेवकारणम्। संस्कृतज्ञाः बहवः पर्याप्तमात्रेण ज्ञानं प्राप्तवन्तः अपि अभ्यासाभावकारणतः सम्भाषणे क्लेशम् अनुभवन्ति।
शिष्यः – अन्यच्च मया लक्षितं यत् सम्भाषणसमर्थाः अपि बहवः सामान्यान् दोषान् कुर्वन्ति। (यथा –विशेषणविशेष्यविषये, लिङ्गविषये इ)
आचार्यः– अत्रापि कारणम् अभ्यासाभावः एव। अतः एव शिक्षणविदः वदन्ति यत् शिक्षणेअभ्यासः अनिवार्यः भवेत् इति। सुलभतया शिक्षणार्थं, पाठितस्य दृढीकरणार्थं,भ्रमनिवारणार्थं, प्रयोगपाठनार्थं च अभ्यासः बहुधा उपकरोति।
शिष्यः – आचार्य! अभ्यासदृष्ट्या वयं परिमितीकरणम् अङ्गीकर्मः। तेन ज्ञानम् अपिन्यूनं भवति। तथा च विषयग्रहणसामर्थ्यं सीमितं भवति किल?
आचार्यः– सहजम् एतत्। आधारभूमिः यावत् दृढा न भवति तावत् भवननिर्माणं न भवतिकिल? अतः प्रारम्भे स्तरे प्रयोगस्य (निरर्गलतायाः) प्राधान्यं, यस्य च अभ्यासःमूलम्। अनन्तरे स्तरे ज्ञानविस्तारः कारयितुं शक्यः। सर्वस्य अपि कश्चनसोपानक्रमः भवति एव किल?
**शिष्यः –**आम्। भवदुक्तं सत्यम् एव।
नूतनाःशब्दाः
_________________________________________________________________________________________________
**शिष्यः–**श्रीमन्! यदा वयं सम्भाषणार्थम् उद्यक्ताः भवामः तदा प्रथमा समस्या– नूतनशब्दानां विषये। दैनन्दिनजीवने तु Table, Chair, Bucket,Radio इत्यादयः ओतप्रोततया सम्मिलिताः सन्ति। तैः विना व्यवहारःएव न प्रचलति। अतः सहजतया सम्भाषणे अपि तेषाम् उपयोगःपौनःपुन्येन भवति एव। किन्तु संस्कृतभाषया तानि वस्तूनि कथंनिर्देष्टव्यानि इति वयं न जानीमः। एतानि वस्तूनि नूतनतयाआविष्कृतानि इत्यतः कोशेषु अपि ते शब्दाः न उपलभ्यन्ते…।
**आचार्यः–**नूतनशब्दानां विषये समस्या तु अस्ति एव। सहस्रशः वर्षाणि यावत्सम्भाषणपरम्परा एव उच्छिन्ना आसीत्। तेन तत्तत्काले उपयुज्यमानाःशब्दाः संस्कृते न निर्मिताः। अतः पदे पदे एषा समस्या बाधते इति तुसत्यम् एव।
शिष्यः– कः परिहारोपायः? कथं व्यवहारः?
आचार्यः– एकः तु उपायः–तादृशानां शब्दानां निर्माणम्। निर्मितानाम्आधुनिकशब्दानां सङ्ग्रहः वा।
**शिष्यः–**तत्रापि क्लेशः एव। नूतनशब्दनिर्माणे पाण्डित्यम् अनुभवः च महान्अपेक्षितः। निर्मितानां सङ्ग्रहणम् अपि न सुलभम्। यतः देशः विशालः,विरलः सम्पर्कः।
अन्यच्च एकैकः अपि स्वमत्यनुगुणं शब्दान् निर्माति। एवं निर्मितेषु कः’शब्दः स्वीकरणीयः इति पुनरपि समस्या। अतः सङ्घटितः कोऽपि प्रयत्नःपण्डितैः कृतः चेत् तदा भवत्सूचितः एषः उपायः प्रयोजनकारी स्यात्।
आचार्यः– द्वितीयः अतिसरलः मार्गः –नूतनशब्दानां विषये विशेषचिन्तनम् अकृत्वातत्तत्सन्दर्भानुगुणं ते ते प्रान्तीयाः शब्दाः एव प्रयोक्तव्याः।
**शिष्यः–**तन्नाम–संस्कृतवाक्ये प्रान्तीयशब्दाः मध्ये मध्ये प्रयोक्तव्याः इति वा अभिप्रायः?
आचार्यः– आम्। तथा प्रयुक्ते कः दोषः?
शिष्यः– एवं कुर्मः चेत् संस्कृतत्वं भज्येत किल?
आचार्यः– किमर्थं तथा चिन्तयति? प्रान्तीयभाषासु किम् एतादृशः व्यवहारः नास्ति?प्रान्तीयभाषाशब्देषु सत्सु अपि बहवः तान् परित्यज्य आंग्लादि-शब्दानाम्उपयोगं कुर्वन्ति। Road, Picture, Class, Note book इत्यादयःअसङ्ख्याः शब्दाः निर्बाधं प्रयुज्यन्ते एव किल? ताः इव संस्कृतम् अपि एकाभाषा। अतः अत्रापि मध्ये मध्ये इतरभाषीयशब्दानाम् उपयोगः नअपराधाय।
शिष्यः– प्रान्तीयभाषायां तु संस्कृते इव विशेषचिन्तनम् एतादृशविषयेषु नास्ति किल?तत्र तु आंग्लादिशब्दानां विभक्तियोजनम् अपि अनुमतम्। तासु भाषासु तत्सहजम्। किन्तु संस्कृतं तथा न किल?
आचार्यः– भोः, इतरभाषीयशब्दानाम् (संस्कृते अव्युत्पन्नानाम्) विभक्तियोजनं तु नकरणीयम्। टेबल्लस्य, पिक्चरे इत्यादयः प्रयोगाः सर्वथा परिहर्तव्याः।तादृशाः शब्दाः अव्ययत्वेन प्रयुक्ताः चेत् का हानिः? ‘पेपर् पठितवान् वा?‘‘फोटो कुत्र?’ ‘स्विच् आन् करोतु’ इत्यादयः प्रयोगाः कुतः न करणीयाः?
शिष्यः– तथापि…।
आचार्यः– पश्यतु, अव्ययत्वेन तेषां परिगणनम् इत्यतः व्याकरणानुग्रहः तु अस्ति एव।सर्वथा सम्भाषण-अकरणापेक्षया तु एतत् वरं किल? किन्तु सदा एषा एवरीतिः न भवेत्। शब्दानां सङ्ग्रहणे प्रवृत्तिः, सङ्गृहीतानां प्रयोगे निरन्तरता चभवेत्।
सम्भाषणशीलता प्रवृत्तौ आनेतव्या इति तु लक्ष्यम्। तदर्थं व्याकरणअविरुद्धाः केचन सरलाः व्यावहारिकोपायाः प्राथमिके स्तरे आश्रयणीयाः।अनन्तरकाले सहजताविषये आग्रहः प्रदर्शनीयः।
‘शब्दशाला’ (Word Factory)
__________________________________________________________________________________________________
शिष्यः– आचार्य! अद्य मया कुत्रचित् पठितं यत् संस्कृतस्य शब्दनिर्माणसामर्थ्यम् असदृशम्, अनन्तकोटिशब्दाः अत्र निर्मातुं शक्यन्ते इति।
**आचार्यः –**अनितरसाधारणं संस्कृतस्यैव वैशिष्ट्यम् एतत्। सूक्ष्मातिसूक्ष्मान् भावान् प्रभेदान् च निरूपयतुं शक्नुमः वयं संस्कृतेन।
शिष्यः– एवं विशिष्टे सामर्थ्ये सत्यपि अत्र समकालिकशब्दानां महत् दारिद्र्यं दृश्यते इति तु विचित्रं किल?
आचार्यः – किं वदाम? कालस्य आवश्यकतानुगुणम् इतः पूर्वम् अत्र नूतनशब्दनिर्माणादिकं न प्रवृत्तम्।
शिष्यः– अत्र किं कारणं स्यात्?
आचार्यः – सामर्थ्ये सत्यपि प्रवृत्तिं विना कार्यं न भवति किल? प्रवृत्तौ तु आवश्यकता कारणम्। दैनन्दिनव्यवहारः, समकालिकविषयाणां लेखनम्, नूतनाविष्कारे प्रयत्नः इत्यादयः यदि कृताः स्युः तर्हि आवश्यकता सहजतया उत्पन्ना अभविष्यत्।
वयं संस्कृतज्ञाः तु संस्कृतस्य पूर्वतनं वैशिष्ट्यं सगर्वं प्रतिपादयन्तः कर्तव्यं विस्मृत्य तूष्णीं स्थितवन्तः। वचसा व्यवहारेण च आराधनीया वाग्देवी पुष्पैः आरार्तिकैः च समाराधिता। यस्य च परिणामः इदानीं सर्वत्र अनुभूयते।
संस्कृतस्य वर्तमानपरिस्थितेः कारणानि निरन्तरं विदेशीयानाम् आक्रमणं, राजाश्रयराहित्यम् इत्यादयः अपि। तया दृष्ट्या विचार्यमाणे संस्कृतम् इदानीम् एवंरूपेण लभ्यते इत्येव विशेषः। इतरत्र कुत्रापि यदि एतादृशं प्रवृत्तं स्यात् तर्हि तत्रत्या भाषा नामावशिष्टा अभविष्यत्। अतः पूर्वजाः सर्वथा स्तुत्यर्हाः।
किन्तु कर्तव्यलोपः तैः आचरितः इति तु गोपयितुं न शक्यते। एतस्य
निवारणं तु स्वाधीनम् आसीत् किल?
**शिष्यः –**तत् अस्तु तावत्। वयं समस्यां जानीमः। समस्यामूलम् अपि जानीमः एव। परिहारविषये अपि अस्माकं आग्रहः अस्ति। तथापि किमर्थं वा इष्टसिद्धिः न दृश्यते?
**आचार्यः –**वत्स! संस्कृतम् अधीतवन्तः सर्वे शब्दनिर्माणं कर्तुं न शक्नुवन्ति। अस्य अभिप्रायः तेषां सामर्थ्यं नास्ति इति न। तैः निर्मितेषु शब्देषु प्रामाण्यं न भवेत्। शब्दपरिपाकः च न दृश्येत। तदर्थम् अस्माकं कल्पना एवम् अस्ति – शरीरे हस्तपादादयः इव चिन्तितस्य कार्यान्वयनार्थं काचित् कार्यकतॄणां श्रेणी। मनोहृदयादयः (Mind and Hart) इव कार्यसञ्चालनार्थं जीवपूरणार्थं च अन्या कार्यकर्तृश्रेणी। शिरसः (बुद्धेः) कार्यं कर्तुं च अपरा श्रेणी। एषा एव ‘शिष्टमण्डली’ इति अभिधानम् अर्हति।
शिष्यः – शिष्टमण्डली? व्याकरणादिग्रन्थेषु तत्र तत्र उल्लिख्यमानानां शिष्टानां समूहः?
आचार्यः – आम्, ते एव शिष्टाः अभिप्रेताः। अथवा एवं वा चिन्तयतु– ये इदमित्थम् इति अधिकारपूर्वकं वक्तुं शक्नुवन्ति, ये च अनुभववृद्धाः ते एव ‘शिष्टाः’ इति।
शिष्यः – ततस्ततः?
आचार्यः – एतादृशी शिष्टमण्डली तत्र तत्र भवेत्। एषा संस्कृतप्रचारार्थम् आवश्यकं समग्रं बौद्धिककार्यं करोति। शब्दक्षेत्रदृष्ट्या एका ‘शब्दशाला’ (Word Factory) भवेत्, या च शब्दसाधुत्वादिविषये अन्तिमं प्रमाणम्।
इस्रेलदेशस्य कथां जानाति खल् भवान्? कदाचित् हिब्रूभाषायां द्वित्रसहस्रशब्दाः केवलम् उपलभ्यन्ते स्म! इदानीं तु अत्याधुनिकाः वैज्ञानिकाः विषयाः अपि तस्यां भाषायां प्रतिपाद्यन्ते। तादृशी शब्दशक्तिः तस्याः। तत्रापि पूर्वोक्तः एव क्रमः अनुसृतः।
शिष्यः – ‘शब्दशाला’ इति विषयः किं कल्पनामात्रम्, उत….?
**आचार्यः –**कल्पनामात्रं न। इदानीं ‘शब्दशाला’कार्यारम्भं कृतवतीइव। इतः पूर्वम् एव तया प्रयोगपूर्वकं कश्चन कार्यमार्गः अन्विष्टः अपि।
शिष्यः – ‘शब्दशाला’! रमणीया योजना एषा!
नूतनशब्दनिर्माणम्
_________________________________________________________________________________________________
**शिष्यः –**श्रीमन्! नूतनशब्द-निर्मिति-दृष्ट्या अखिलभारतव्यापितया किञ्चन संघटनात्मकंकार्यं प्रचलेत् इति तु तत्त्वम्। किन्तु तदर्थं महान् समयः, निरन्तरप्रयत्नः च अपेक्षितः।
**आचार्यः–**एतद्विषये मम अपि विमतिःनास्ति…।
शिष्यः – तथा न, तादृशकार्यस्य सिद्धिपर्यन्तं वयं प्रतीक्षां कर्तुं न शक्नुमः। यतः नूतनशब्दानाम् आवश्यकता प्रतिदिनं प्रतिक्षणम् अस्ति एव।
**आचार्यः–**एतदर्थं तात्कालिकतया शब्दाः निर्मातव्याः, व्यवहारे उपयोक्तव्याः च इति किल भवतः अभिप्रायः?
**शिष्यः –**आम्। सस्यैः सह कसस्यानि अपि यथेष्टं प्रवृद्धानि यथा न भवेयुःतथा जागरूकता आश्रयणीया किल? मम मित्रेण केनचित् उक्तम् आसीत्–“आघातसंस्कृतः कश्चित् ‘Bicycle Bell’ इति अर्थं प्रतिपादयितुं ‘गमनागमन-प्रतिरोधक-निषेध-सूचकम्’ इति शब्दं निर्मितवान् आसीत्"इति। एवं भारतीयानां रक्ते एषा प्रवृत्तिः रूढा अस्ति। शब्दनिर्माणे सरलता, समानरूपता, सौष्ठवता इत्यादयः गुणाः अवश्यं भवेयुः एव किल? एवं तर्हि ‘शब्दनिर्माणसन्दर्भे केचन नियमाः अङ्गीकरणीयाः भवन्ति। तादृशाः नियमाः के के भवेयुःइति?
आचार्यः– भोः, अहम् एतस्मिन् विषये न हि परिणतः। तथापि यथामति वक्तुं तु शक्नोमि।
शिष्यः – तावता अलम्। किन्तु सोदाहरणं, सविवरणं च …।
आचार्यः– प्रथमः तुनियमः सरलतादृष्ट्या –
* निर्मितः शब्दः यावच्छक्यम् अकारान्तः स्यात्। वस्तुतः इदानीम् अपि लोके व्यवहारे अकारान्ताः एव शब्दाः अर्त्याधकाः। ८०% ते एव राजन्ते। इतः परम् अपि अकारान्ताः एव (अकारान्तपुल्लिङ्गः, आकारान्तस्त्रीलिङ्गः, अकारान्तनपुंसकलिङ्गः च) निर्मातव्याः।
अकारान्तेतराः न निर्मातव्याः इति मम अभिप्रायः न। तेषां निर्माणे कृते, प्रयोगक्लेशः तु भवति इति एतावत् एव वक्तुं शक्नोमि।
शिष्यः – इदानीं ऋकारान्त-सकारान्त-नकारान्तादयः शब्दाः तत्र तत्र निर्मिताः दृश्यन्ते किल?
आचार्यः– ‘शब्दनिर्माणे सर्वेषाम् अपि समानाधिकारः किल? तथापि ‘एतदन्तस्य शब्दस्य निर्माणं, तत् द्रव्यं भावं वा प्रकाशयितुम् अनिवार्यम् आसीत् वा?’ इति तादृशैः पुनः एकवारं चिन्तितं चेत् युक्तम् अभविष्यतुइति मम अभिप्रायः।
शिष्यः – मम स्नेहितः कश्चन वदति –“यैः वारं वारं एतादृशशब्दानां प्रयोगे पाठने च क्लेशः अनुभूतः, यैः च भाषाभ्यासिनां महाक्लेशः प्रत्यक्षम् अवलोकितः, यैः च मध्यमस्तरीय-ज्ञानवन्तः अपि अभ्यासाभावतः प्रयोगे दोषम् आचरन्ति इति वस्तुस्तितिः सहार्दम् अङ्गीकृता, ते एव भवद्भिः प्रस्तुतां समस्याम् अवगच्छेयुः, न तु इतरे” इति।
**आचार्यः–**अस्तु तावत्, द्वितीयः अंशः–*निर्मीयमाणः शब्दःअल्पाक्षरः उच्चारणसुलभः च स्यात्। श्रुतिमधुरः अपि स्यात् एव।
शिष्यः – व्याकरणाविरुद्धाः भवेयुः इत्यपि एकः अंशः किल?
आचार्यः– अथ किम्? संस्कृतसम्बन्धी यः कोऽपि व्यवहारः पाणिनिसीमाम् अतिक्रम्य न गच्छेत्।
शिष्यः – तर्हि ‘सोफायां, दोसायाः पैसानाम्’ इत्यादयः प्रयोगाः ….?
आचार्यः– परिहर्तव्याः इत्येव। तत्र किमर्थं सन्देहः? तादृशं द्रव्यं बोधयितुं युक्तः शब्दः वा अन्वेष्टव्यः, अव्युत्पन्नस्य (प्रकृति-प्रत्यय-विवेकरहितस्य) शब्दस्य विभक्तियोजनं वा न करणीयम्। अथवा तृतीयः सरलः मार्गः आश्रणीयः–‘सोफासनम्’ इति संस्कृतशब्दं योजयित्वा वा वक्तव्यम्। वस्तुतः विचार्यमाणे सद्यः एषः एव मार्गः (तृतीयः) उचितः इति भाति।
उदाहरणान्तरं पश्यतु– कार्यानम्, जीप्यानम्, स्कूटरयानम्, बैक्यानम्, मेटेडोर्यानम् इत्यादिषु पूर्वोक्तः मार्गः अनुसृतः। यतः कार्जीप्प्रभृतयः नामपदत्वेन प्रसिद्धाः। शब्दान्तरैः तेषां बोधः दुःसाध्यः (प्रायः असाध्यः?) एव। अतः यानशब्दं योजयित्वा संस्कृतत्वं सम्पादितम्। तदा तेषां परस्परभेदःअपि सुस्पष्टं निरूपितः अभवत्।
शब्दस्य अन्तरङ्गम्
_________________________________________________________________________________________________
**शिष्यः –**श्रीमन्! नूतनशब्दनिर्माणविषये भवता एतावता बाह्यं स्वरूपम् उक्तम्। तस्य आन्तरङ्गिकं स्वरूपं किं भवेत् इति जिज्ञासुः अहम्।
**आचार्यः–**तन्नाम…?
**शिष्यः –**तन्नाम, अकारान्तः भवेत् इत्यादिकं वदता भवता निर्मितः शब्दः कथं भवेत् इति सूचितम्। शब्दस्वीकारे के अंशाः मनसि स्थापनीयाः इति….।
**आचार्यः–**तत्र किं भोः? प्रवृत्तिनिमित्तम् अवलोकनीयम्।
शिष्यः – प्रवृत्तिनिमित्तम् इति? तस्य कः अर्थः? अहं तु बालः….।
आचार्यः– इतरभाषायां तस्य शब्दस्य स्वीकारे किं कारणम् आसीत् इति परिशीलनीयम्।
शिष्यः – उदाहरणार्थम्?
आचार्यः– शरीरशब्दम् एव पश्यतु। शरीरशब्दस्य व्युत्पत्तिः शीर्यते इति। प्रतिक्षणं नश्यति इत्यर्थः। अस्माकं भारतीयानां दृष्ट्या आत्मा शाश्वतिकः, शरीरं तु क्षणिकम्, अशाश्वतं च। अतः शरीरशब्दः स्वीकृतः। एवं सर्वेषाम् अपि शब्दानां प्रायशः काऽपि व्युत्पत्तिः भवति। तां परिशील्य तदनुगुणम् इतरभाषासु अपि शब्दः निर्मातव्यः।
शिष्यः – सर्वासु भाषासु एवं व्युत्पत्तिः भवति वा? उदाहरणार्थम् आंग्लभाषायाम्…?
आचार्यः– सामान्यतः सर्वासु भाषासु व्युत्पत्तिः भवति एव। आंग्लभाषायाम् अपि व्युत्पत्तिक्रमः अस्ति एव। आंग्लभाषायां बहवः शब्दाः ग्रीक् ल्याटिन् इत्यादिभाषाभ्यः आगताः। अतः मूलानुगुणं तत्रापि व्युत्पत्तिः भवेत् एव।
शिष्यः – आचार्य! कदाचित् एवं भवति –व्युत्पत्तिः अन्या एव भवति, रूढिः च अन्यार्थे दृश्यते। तदा?
आचार्यः– आं, तदा व्युत्पत्तिम् आधारीकृत्य शब्द निर्मातुं न शक्नुमः वयम्। रूढ्यर्थः एव प्रबलः खलु व्यवहारे?
शिष्यः – तदा किं करणीयम् इति?
आचार्यः– तदेव वक्तुम् आरब्धवान् आसम् अहम्। तादृशे सन्दर्भे तस्य वस्तुनः उपयोगम्, आकारं, गुणं वा आधारीकृत्य शब्दः निर्मातव्यः भवेत्।
शिष्यः – एतद्विषये कानिचन उदाहरणानि?
आचार्यः– Vanity Bag इति शब्दः अस्ति। व्युत्पत्त्यनुगुणं गर्वस्यूतः इति वक्तव्यं भवेत्। तस्मिन् शब्दे न औचित्यं, न वा सौन्दर्यम्। अतः ‘वनितास्यूतः’ इति शब्दः चिन्तितः। एतस्मिन् शब्दे, सौन्दर्यं दृश्यते, वकारादिसाम्यं चापि अस्ति। औचित्यं च स्फुटम्। एषः शब्दः तद्वाच्यवस्तुनः उपयोगं परिशील्य निश्चितः।
अन्यं शब्दं पश्यतु –Chewing Gum इति अस्ति। कश्चित् सहृदयः चर्वणकम् इति शब्दम् एतदर्थं सूचितवान्। अत्र वस्तुनः गुणः चिन्तितः।
Credit Bill इति शब्दः अस्ति। Bill इत्यम्य देयकम् इति सामान्यः शब्दः। यत्र धनं न आगतं भवति तादृशे सन्दर्भे Credit Bill दीयते। अतः केनचित् निर्मितम् ऋणदेयकम् इति। स्वीकारार्हता अस्ति अत्र। अत्र तेन स्वरूपं चिन्तितम्।
एवं च शब्दनिर्माणे, सूक्ष्मावलोकनं, शुद्धं चिन्तनं, सहृदयता च नितराम् अपेक्षितं भवति।
**शिष्यः –**अन्यः अंशोऽपि मम मनसि भाति। शब्दनिर्माणसन्दर्भे एव तत्सम्बन्धिसूक्ष्मभेदाः अपि पूर्वम् एव चिन्तनीयाः।
**आचार्यः–**आम्। तादृशः शब्दः एव स्वीकरणीयः, यत्र अवान्तरभेदोऽपि कल्पयितुम् शक्यः स्यात्। अत्र अस्माकम् एव अनुभवः एवम् अस्ति। Bus- stand इत्येतदर्थं वयं ‘निःस्थानम्’ इति शब्दं स्वीकृतवन्तः, यतः तादृशः प्रयोगः अन्यत्र दृष्टः आसीत्। किन्तु कदाचित् एकेन पृष्टं –‘Bus-stop इत्येतदर्थं कः शब्दः?’ इति। तत्काले वयं निरुत्तरा एव। कालान्तरे ‘स्थानकम्’ इति शब्दः महाराष्ट्रे व्यवह्रियमाणः दृष्टः। अतः इदानीं वयं निःस्थानम्– Bus-stop,स्थानकम् –Bus-standइति भेदं वदामः।
व्यवहारतः नूतनशब्दसिद्धिः
_________________________________________________________________________________________________
शिष्यः– श्रीमन्! “यथा घटेन कार्यं करिष्यन् कुम्भकारकुलं गत्वा आह–कुरु घटं, कार्यम् अनेन करिष्यामि इति, न तद्वत् शब्दान् प्रयुयुक्षमाणः वैयाकरणकुलं गत्वा आह–कुरु शब्दान् प्रयोक्ष्ये इति।”
**आचार्यः –**किं, महाभाष्यम् अपि आघ्रातम् इव भवता!
शिष्यः– आचार्य, न मया महाभाष्यम् अवलोकितम्। यतो हि अहं बालः। आरम्भे स्तरे अध्ययनं कुर्वन् अस्मि….।
आचार्यः – अस्तु तावत्, केन उद्देशेन एतत् वाक्यम् उद्धृतम्?
शिष्यः– गतसप्ताहे कश्चन संस्कृतज्ञः पूर्वोक्तं वाक्यम् उदाहृत्य माम् उक्तवान् –“भोः, नूतनशब्दनिर्माणम् इति भवन्तः चिन्तयन्ति। किन्तु किमर्थं तथा शब्दाः निर्मातव्याः? व्यवहारेण एव ते रूढौ आगच्छन्ति किल?” इति।
आचार्यः – तेन येन केनापि अभिप्रायेण एतत् उक्तं स्यात् नाम। किन्तु एकः तु सत्यांशः अस्ति तत्र– ‘केवलं शब्दनिर्माणतः प्रयोजनं नास्ति’ इति। अस्मत्पूर्वजाः अपि एतत् जानन्ति स्म। ते अपि भवता उद्धृतम् एव महाभाष्यवाक्यम् उद्धरन्ति स्म। किन्तु ते एव स्वप्रतिभानुगणं बहून् शब्दान् निर्मितवन्तः, प्रकाशितवन्तः च। अन्ते ‘लोकः मम प्रयत्नं न परिचिनोति, जनाः मां, मम पाण्डित्यं, परिश्रमं च उपेक्षन्ते’ इति वदन्तः मौनं स्थितवन्तः।
शिष्यः– एतत् सत्यम् एव। व्यावहारिकशब्दानां सङ्ग्रहरूपः कोषः तत्र तत्र उपलभ्यते। तदस्तु, तर्हि एवं शब्दनिर्माणेन प्रयोजनं नास्ति इति वा भवतः अभिप्रायः?
आचार्यः – तथा कथं वक्तुं शक्यते? यत्र व्यवहारशीलाः भवन्ति तत्र तेषाम् उपयोगार्थं केचन शब्दाः निर्मातव्याः एव। अन्यथा आंग्लादिशब्दान् एव ते प्रत्ययादिसंयोगेन उपयुज्य व्यवहारं कुर्युः, यच्च संस्कृतप्रकृतिविरुद्धं भवति। न हि अत्र ते व्यवहारशीलाः दोषभागिनः। यतः ते न जानन्ति अतः ते तथा कर्वन्ति। व्यवहारशीलानां साहाय्यम् आचरणीयम् इति एतत् तु जानतां कर्तव्यम्।
**शिष्याः–**तर्हि ‘व्यवहारतः नूतनशब्दसिद्धिः’ इत्यस्य कः अर्थः अवशिष्टः?
**आचार्यः–**किमर्थं तथा चिन्तयति? मम कथनस्य तात्पर्यं तु –ये पण्डिताः भवन्ति ते अपेक्षायां सत्यां तदा तदा व्यवहारशीलानां साहाय्यम् आचरेयुः इति। एतस्य अर्थः–यथा आंग्लभाषायां वदन्ति Spoon feeding इति तथा करणीयम् इति, प्रतिकवलं ब्रह्मार्पणम् इति वक्तव्यम् इति वा न।
शिष्याः– उदाहरणम्?
आचार्यः– मया पूर्वं कदाचित् उक्तम् आसीत् –‘नूतनशब्दचिन्तनं भारतीयानां रक्तेषु सहजतया प्रवहति’ इति। एषा प्रवृत्तिः अत्र उपकरोति। एकं प्रधानं शब्दं सूचयामः चेत् अवान्तरभेदान्, तत्सम्बन्धिशब्दान् वा जनाः एव स्वयं चिन्तयिष्यन्ति। अत्र अनुभवः एव अस्माकं प्रमाणम्।
गतवर्षत्रयस्य परिशीलनेन वदामि –पूर्वं Needle -सूची इति एकः शब्दः आसीत्। इदानीं तु महासूची - Bodkin, पत्रसूची - Pin, केशसूची - Hair pin, यन्त्रसूची - Sewing machine needle, इत्यादयः शब्दाः व्यवहारे दृश्यन्ते। एतेषु सर्वेषु अपि शब्देषु औचित्यं दृश्यते एव।
अन्यां सरणिं पश्यतु –मुख्यमार्गः - Main road, उपमार्गः- Cross road,राजमार्गः - High-way, पादमार्गः - Foot track, पादपथः- Foot-path, एकमुखमार्गः - One way इत्यादयः शब्दाः व्यवहारतः एव आगताः। कोऽपि पण्डितः टङ्कशालायां नाणकानि इव एकत्र उपविश्य एतान् न टङ्कितवान्। व्यवहारशीलाः एव तत्तत्सन्दर्भे चिन्तितवन्तः, जानन्तं पृष्टवन्तः पुनः परिशीलितवन्तः, व्यवहारं कृतवन्तः। अथवा इतरेषां व्यवहारं दृष्ट्वा वा स्वव्यवहारे आनीतवन्तः स्युः अपि। कथम् अपि एते व्यवहारे आगताः। अतः व्यवहारतः बहवः शब्दाः सिध्यन्ति इति तु सत्यम् एव।
शिष्याः– एवं तर्हि अशुद्धाः शब्दाः अपि व्यवहारे आगच्छेयुः किल? सामान्याः साधुत्वविषये किम् अधिकं जानन्ति?
आचार्यः– आम्। तादृशानां परिष्कारः पण्डितानां दायित्वम्। ये शब्दाः व्यवहारे दृश्यन्ते तेषाम् औचित्यविषये शुद्धताविषये च ते निरन्तरं चिन्तयेयुः। साधून् युक्तान् शब्दान् ते ज्ञापयेयुः।
तत्तत्प्रान्ते स स शब्दः
_________________________________________________________________________________________________
**शिष्यः –**आचार्य! ‘व्यवहारतः शब्दाः सिध्यन्ति’ इति विषये वयं किञ्चित् चिन्तितवन्तः। ‘शब्दक्षेत्रे व्याकरणाविरुद्धः व्यवहारः एव प्रमाणम्’ इति तुसर्वानुमतः अभिप्रायः। किन्तु व्यवहारे एकस्मिन् एव अर्थे बहवः शब्दाः प्रयुज्यमानाः दृश्यन्ते। तत्तस्य प्रयोक्ता चिन्तयति– उपयुज्यमानः शब्दः एव साधुः इति। तदा कः शब्दः स्वीकरणीयः? अत्र अस्माकं धारणा का?
**आचार्यः –**एकम् उदाहरणं प्रदर्शयतु।
शिष्यः –‘Hotel’ इत्येतत् बोधयितुम् उपाहारमन्दिरं, भोजनशाला, फलाहारमन्दिरम्, अट्टशूलः इत्यादयः शब्दाः प्रयुज्यमानाः दृश्यन्ते।
**आचार्यः –**एतादृशसन्दर्भे सरलः संस्कृतानभिज्ञैः अपि ज्ञायमानः शब्दः स्वीकरणीयः। अत्रैव पश्यतु, अट्टशूलशब्दं पण्डिताः केवलं जानन्ति। सरलः ‘उपाहारमन्दिरम्’ इति शब्दः अत्र स्वीकारार्हः दृश्यन्ते।प्रान्तीय भाषायाम् अपि स च शब्दः अस्तीति कारणतः तस्य अर्थावबोधः सुलभः।
शिष्यः – श्रीमन्, एवं चेत् एकैकस्मिन् प्रान्ते एकैकः शब्दः स्वीकरणीयः भवेत्। प्रान्तान्तरे ‘भोजनशाला’ इति शब्दः तत्प्रान्तीयभाषायां उपयुज्यते चेत् सः एव तत्र स्वीकरणीय भवेत्।
आचार्यः – ते तथा स्वीकुर्वन्तु, का हानिः तेन?
शिष्यः – ‘शब्दस्वीकारे एकरूपता भवेत्’ इति तत्त्वस्य का गतिः?
आचार्यः – ‘एकरूपता भवेत्’ इति चिन्तनसमये ‘बलात् आरोपितं शब्दं जनाः तिरस्कुर्युः’ इति अंशोऽपि न विस्मरणीयः। यत्र प्रकृतिप्रत्ययविवेकसहितः सरलः कश्चन शब्दः व्यवह्रियमाणः अस्ति तत्र अन्यं शब्दम् आरोपयितुं न शक्नुमः। ‘अन्यः शब्दः किमर्थं स्वीकरणीयः?’ इति ते पृच्छन्ति एव। केन तर्केण समाधातुं शक्यते तत्र? ‘अन्यः शब्दः एव मास्तु, एषः एव भवतु’ इति ते वदेयुःअपि। किम् उत्तरम् अस्माकम्?
शिष्यः– एवं तर्हि ‘अ’ प्रान्ते ‘उपाहारमन्दिरम्’ इति शब्दः, ‘ब’ प्रान्ते ‘भोजनशाला’ इति शब्दः, ‘क’ प्रान्ते ‘अट्टशूलः’ इति शब्दः। (शब्दान्तरं वा ) एवम् एव एकत्र ‘उपाहारः’, अपरत्र ‘फलाहारः’, अन्यत्र ‘जलपानम्’, कुत्रचित् ‘अल्पाहारः’, पुनः कुत्रचित् ‘प्रातराशः’।
आचार्यः– भवतु इति वदामि। तेन न काऽपि हानिः। तत्तत्प्रान्ते तत्तस्य शब्दस्य रूढिबलम् अस्ति इति न विस्मरणीयम्। एतेषु कोऽपि असंस्कृतः शब्दः चेत् स च विषयः भिन्नः। सर्वे अपि संस्कृताः एव चेत् केन प्रमाणेन भवान् ‘एषः एव शब्दः भवतु’ इति वदति? कालान्तरे व्यवहारः एव सर्वं निर्णेष्यति। सामर्थ्यतारतम्यात् कदाचित् एकः एव शब्दः व्यवहारेण अङ्गीकृतः भवेत्। अथवा समानबलत्वात् सर्वे अपि अङ्गीकृताः भवेयुः। सर्वे अपि तथैव स्थिताः इत्येव चिन्तयेम, तदा किं भवेत्? अमरादिकोषाः इव एतादृशानाम् आधुनिकशब्दानां नूतनः कश्चन कोषः निर्मितः भवेत्, यत्र च पर्यायपदानि निर्दिष्टानि भवन्ति।
शिष्यः– एकस्मिन् प्रान्ते पर्यायपदेषु बहुषु सत्सु अपि सरलसंस्कृतादिनियमानुसारम् एकम् एव शब्दं व्यवहारार्थं यथा स्वीकुर्मः तथैव अत्रापि नूतनशब्दानां विषये अपि कर्तुं न शक्येत वा?
**आचार्यः–**न शक्यते एव। एकस्मिन् प्रान्ते बहुषु शब्देषु सत्सु अपि एकस्य एव शब्दस्य सरलतादि – नियमबद्धत्वं, रूढिबलं च भवति सामान्यतः। अतः तत्र निर्णयः न क्लेशाय। प्रान्तद्वयस्य व्यवहारे एतत् न शक्यते। प्रान्तद्वये अपि तत्तत्प्रान्तस्य शब्दस्य रूढिबलं समानं भवति किल?
**शिष्यः–**संस्कृतस्य शब्दस्य व्यापकं रूढिबलम् अपि यदि स्यात्, तर्हि स च शब्दःतत्प्रान्ते व्यवहारे स्वीकरणीयः इति खलुकथनस्य सारः?
आचार्यः– आम्। एतस्मिन् एव सन्दर्भे संस्कृताभासकाः, भिन्नप्रवृत्तिनिमित्तकाः (येषां प्रवृत्तिनिमित्तम् अन्यत्, प्रयोगश्च अन्यार्थे) च परिहरणीयाः। ऐक्यतादार्ढ्यता, हन्तकः इत्यादयः संस्कृताभासकाः। उचितः (निश्शुल्कम् इत्यर्थे),आग्रहः (कोपः इत्यर्थे), व्यापारः(वाणिज्यम् इत्यर्थे) इत्यादीनां प्रवृत्तिनिमित्तं भिन्नं, प्रयोगश्च भिन्नार्थे। जागरूकतया परिशील्य एतादृशाः शब्दाः परिहरणीयाः।
शब्दस्वीकारे गुणग्राहिता
_________________________________________________________________________________________________
**शिष्यः –**श्रीमन्, शब्दविषये दुराग्रहः न भवेत खलु?
**आचार्यः –**कदापि न भवेत् एव। मया यत् उच्यते तदेव प्रमाणभूतम् इति धारणा सर्वथा अनुचिता। एतादृशे सन्दर्भे अस्माभिः उदारैः भवितव्यम्। चिन्तनपूर्वकं प्रकटितस्य सर्वेषाम् अपि अभिप्रायस्य सदा पुरस्कारःभवेत्।
शिष्यः – केचन आज्ञास्वरेण वदन्तः अपि दृश्यन्ते। मया यः शब्दः सूच्यते स एव प्रमाणम् इति ते प्रतिपादयन्ति।
आचार्यः – पश्यतु पण्डितेषुद्वैविध्यम् –सहृदयाः तदितराः च इति। सहृदयाःतु युक्तेन प्रयोगेण तुर्ष्यान्त। युक्तिरहितं प्रयोगं श्रुत्वा तत्क्षणे मन्दहासपूर्वकं मौनं तिष्ठन्ति। अनन्तरकाले युक्ततां बाधयितुंप्रयतन्ते। यतः ते एतस्य क्षेत्रस्य समस्यां विधायकमार्गं च सम्यक् जानन्ति।
एताद्भिन्नानां तु ज्ञातस्य प्रकटने प्रदर्शने च विशेषतात्पर्यम्। एतेषां सूचनायाः पृष्ठतः चिन्तनं स्यात् इति वक्तुंन शक्यते।
शिष्यः – कदाचित एवं भवति। वयं तु अल्पज्ञाः। व्यवहारार्थं तु कश्चन मार्गः अनुसरणीयः एव। अतः परिसरानुगुणं कञ्चन मार्गम् अनुसरामः। तदा केचन आगत्य वदन्ति–“एवं न, एवम् एव। भवदुक्तः शब्दः उचितः न। मया उच्यमानः शब्द एव योग्यः” इति।
**आचार्यः –**सर्वम् अपि विना विरोधं शृणाोतु भवान्।
शिष्यः – ततः…..?
आचार्यः – यदि तेषां वचने संत्याशः अस्ति तर्हि तत् अवश्यम् अङ्गीकरणीयम्। कस्मिंश्चित् अंशे भवतः विप्रतिपत्तिः अस्ति इत्येव चिन्तयेम, तदापि श्रवणेन न
काऽपि हानिः। तत्काले शृणोतु। युक्तायुक्तता परस्तात् चिन्तयत। यदि तथा कर्तुं न शक्नोति तर्हिपरिचितान् सहृदयान् एतद्विषये पृच्छतु।
शिष्यः– कदाचित् वयं श्रवणसमनन्तरम् एव ज्ञातुंशक्नुमः यत एतस्य वचनस्य पृष्ठभूमौ किमपिचिन्तनं नास्ति इति।
आचार्यः – तत्रापि मौनम् एव उत्तरम्। यतः वादेन सुदीर्घचर्चया वा तादृशान् समाधातुं न शक्नुमः वयम्। अस्माकं धारणा तु सदा स्पष्टाभवेत् यत् कस्यापि शब्दस्य विषये व्यामोहः न स्यात्। इतोऽपि उत्तमः सुविचिन्तितःशब्दः लब्धः चेत् तं वयम् अङ्गीकर्तुं सिद्धाः एव। अविचिन्त्य सूचितम् अभिप्रायं न पुरस्कुर्मः अपि।
शिष्यः– एवं तर्हिइदानीम् अस्माभिः एवं अङ्गीकृतः कश्चन शब्दः कालान्तरे पार्श्वे स्थापितः अपि भवेत्।
आचार्यः – आम्, तथा भवति कदाचित्। उदाहरणार्थं पश्यतु। पूर्वं वयं Home Work इत्यर्थं प्रतिपादयितुं’गृहकार्यम् इत्यस्य उपयोगं कुर्मः स्म। तादृशः प्रयोगः प्रान्तीयभाषायां दृष्टः आसीत्। अनन्तरं कदाचित् कश्चित् सूचितवान्–“गृहिणी गृहे यत् कार्यं करोति तदपि गृहकार्यम् एव। अतः विद्यार्थी गृहे यत् करोति तदर्थं गृहपाठः इति शब्दः भवतु” इति। वयम् एतत् अङ्गीकृतवन्तः। इतोऽपि उत्तमं कश्चित् सूचयतु तर्हितदपि अङ्गीक्रियते एव।
चाकलेट् पदार्थं सूचयितुम् इदानीं ‘चाकलेहः’ इति शब्दः तात्पूर्तिकतया उपयुज्यते। ‘चक-तृप्तौ’ ‘लिह-आस्वादने’ इति धातुद्वयस्य उपयोगेन कश्चित् चाकलेहशब्दम्य व्युत्पत्तिं सम्पादितवान्। अत्र पूर्णतः तृप्तिः अस्ति इति न। तथापि तस्य शब्दस्य उपयोगः गत्यन्तराभावात् क्रियते। उत्तमः शब्दः अन्यः प्राप्तः चेत् एतं त्यजेम। अथवा एषः एव शब्दः कदाचित् कालान्तरे स्थिरीकृतः अपि भवेत्।
शिष्यः– एवं तर्हि शब्दस्वीकारे गुणग्राहिता स्यात्। कस्यापि शब्दस्य विषये व्यामोहः न स्यात्। उत्तमस्य शब्दस्य स्वीकारे सर्वदा अस्माकं मनः सिद्धं स्यात्।
आचार्यः – आम् एषा एव हितकरी दृष्टिः।
समासे पूर्वपदे नकारलोपः
_________________________________________________________________________________________________
शिष्यः– श्रीमन्! शास्त्रीमहोदयः मह्यम् एकं पत्रं लिखितवान्।
**आचार्यः–**कः पत्रं लिखितवान्?
शिष्यः– शास्त्रीमहोदयः।
आचार्यः–‘शास्त्रीमहोदयः न, शास्त्रिमहोदयः इति वक्तव्यम्।
**शिष्यः–**किमर्थं तथा वक्तव्यम् ?
**आचार्यः–**किमर्थम् इति ज्ञातुंसमासप्रक्रिया स्थूलतया ज्ञातव्या भवति।
**शिष्यः–**ज्ञापयतु तावत्।
**आचार्यः–**समासे पूर्वपदम् उत्तरपदं चेति पदद्वयं भवतिसामान्यतः। दशरथस्य पुत्रः इत्यत्र दशरथस्य इति पूर्वपदम्। पुत्रः इति उत्तरपदम्।
**शिष्यः–**समासे पूर्वपदस्य विभक्तेः लोपः भवति किल?
आचार्यः– तत्र कश्चन सोपानक्रमः अस्ति–
1) अर्थानुगुणं पदानां विभागं कुर्मः। यथा-दशरथस्य पुत्रः इति।
2) तत्तत्पदानां विभक्तिं प्रत्ययद्वारा सूचयामः। तन्नाम–प्रातिपदिकस्य विभक्तेः च विभागः भवति।
यथा –दशरथ (षष्ठी = ङस्) + पुत्र (प्रथमा= सु)
3) पूर्वोत्तरपदयोः विभक्तेः लोपः भवति। तेन उभयत्र अपि प्रातिपदिकमात्रम् अवशिष्यते।
यथा –दशरथ (षष्ठी = ङस्) + पुत्र (प्रथमा= सु) —दशरथ+पुत्र
4) सन्दर्भानुगुणम् उत्तरपदस्य अग्रे विभक्तिः योज्यते–दशरथपुत्रः दशरथपुत्रस्य, दशरथपुत्रेण इत्यादिरूपेण।
शिष्यः– एतेषां सोपानानां ज्ञानेन मम कः विशेषलाभः?
**आचार्यः –**पृष्टवान्ं खलु –शास्त्रीमहोदयः इति कृतः न भवति इति? तस्य उत्तरं भवान् एव ज्ञातुं शक्नोति। शास्त्रिमहोदयः इत्यत्र कः समासः इति वक्तुं शक्नोति वा?
**शिष्यः–**समानविभक्तिकत्वम् अस्ति। अतः कर्मधारयसमासः।
**आचार्यः –**पूर्वोक्तक्रमेण सोपानानि सूचयतु। ‘शास्त्री’ इति इन्नन्तशब्दस्य रूपम् इति स्मरतु।
**शिष्यः–**शास्त्री + महोदयः ……I
शास्त्रिन् (प्रथमा = सु) + महोदय (प्रथमा = सु) –II
शास्त्रिन् (प्रथमा = सु) + महोदय (प्रथमा = सु) – III
आचार्यः – तिष्ठतु। पूर्वपदे यदि अन्ते नकारः स्यात् तर्हि तस्य लोपः भवति इति एकः नियमः अस्ति।6
**शिष्यः–**तर्हि शास्त्रिन् इत्यत्र नकारस्य लोपः भवति? तदा शास्त्रि + महोदय इति प्रातिपदिकम्। विभक्तियोजनं कृतं चेत् शास्त्रिमहोदयः इति रूपम्।
आचार्यः – इदानीं भवान् एव ज्ञातवान् खलु शास्त्रिमहोदयः इति कुतः न भवति इति?
**शिष्यः–**आम्। अधिकारिणः समीपम् –अधिकारिसमीपम्। पादचारिणां धर्मः पादचारिधर्मः इत्यादयः अपि एवम् एव किल?
**आचार्यः –**एतादृशानि अन्यानि व्यावहारिकानि उदाहरणानि वदतु।
**शिष्यः–**राज्ञः पुरुषः –राजपुरुषः, परमात्मनः रूपेण परमात्मरूपेण, महिम्नः वर्णनम् –महिमवर्णनम्, शक्तिशाली पुरुषः –शक्तिशालिपुरुषः इत्यादयः।
आचार्यः – एवं समासे पूर्वपदे स्थितस्य नकारस्य लोपः भवति इति सर्वदा स्मरतु भवान् ।
महाकार्यं, मातापितरौ इ.
_________________________________________________________________________________________________
**शिष्यः –**श्रीमन्, महत्कार्यम् इति रूपं साधु, उत महाकार्यम् इति?
आचार्यः– महत् कार्यम् इत्यत्र व्यस्तः प्रयोगः। कार्यस्य विशेषणं भवति महच्छष्दः। महाकार्यम् इति तुसमस्तं रूपम्। अतः उभयत्र अपि साधुत्वम् अस्ति एव।
शिष्यः – ‘महत् कार्यम्’ इति व्यस्तस्य प्रयोगस्य साधुत्वम् अस्ति इति अहम् अपि जानामि। समस्तेप्रयोगे कथम् इति…।
आचार्यः– ‘महाकायम्’ इत्यत्र कः समासः इति वदतुप्रथमम्।
शिष्यः – ‘महत् च तत् कार्यम् च’ इति विग्रहः। महत्–कार्ययोः समान-विभक्तिकत्व विशेषणविशेष्यभावः च अस्ति। अतः कर्मधारयसमासः।
आचार्यः– विभक्तिप्रत्ययलोपादिसोपानानि वदतुतावत्।
शिष्यः – महत्+कार्यम् …I
महत् (प्रथमा = स्) + कार्य (प्रथमा = स्) …II
महत् (प्रथमा = स्) + कार्य (प्रथमा = स्) …III
आचार्यः– तिष्ठतुतावत्। कर्मधारयसमासे पूर्वपदत्वेन स्थितस्य महच्छब्दस्य तकारस्थाने आकारः भवति।7 ‘महा’ इति रूपं सिध्यति च।
शिष्यः – तदा ‘महाकार्यम्’ इति रूपं सिध्यति। एवं तर्हि महत्कार्यम् इति समस्तं रूपं न भवति?
आचार्यः– न भवति इति तु कर्मधारयसमासे। तत्पुरुषे तु भवति एव। महतः (महापुरुषस्य) कार्यम् इति विग्रहः तत्र।
शिष्यः – एवं तर्हि सारः एवं वक्तुं शक्यते–
* महाकार्यम् –कर्मधारयसमासः। (महत् च तत् कार्यं च इति विग्रहः।)
* महत्कार्यम् –षष्ठीतत्पुरुषसमासः। (महतः कार्यम् इति विग्रहः।)
* महत् कार्यम् –भिन्नं पदम्। (तयोः शब्दयोः समासः न कृतः इत्यर्थः।)
**आचार्यः –**आं विषयः सम्यक् अवगतः भवता।
**शिष्यः –**श्रीमन्, अन्यः कश्चन संशयः। मातापितरौ इत्यत्र कथं पूर्वपदस्य आकारः? वस्तुतः तु मातृपितरौ इति भवेत् खलु? पूर्वपदस्य विभक्तिलोपे कृते ‘मातृ’ इति किल प्रातिपदिकम्?
आचार्यः – द्वन्द्वसमासे यत्र रक्तसम्बन्धः विद्यासम्बन्धः वा दृश्यते तत्र ऋकारान्तस्य पूर्वपदस्य ऋकारान्ते शब्दे परे आकारान्तत्वम्।8
शिष्यः – एवं वा? तदा सोपानानि एवं भवन्ति खलु?
माता + पिता …I
मातृ (प्रथमा = सु) + पितृ (प्रथमा = सु) …II
मातृ (प्रथमा = सु) + पितृ (प्रथमा = सु) …III
पूर्वपदे स्थितस्य ऋकारस्य आकारः। तदा मातापितरौ इति रूपं सिध्यति। आचार्य! किन्तु मया मातापुत्रौ पितापुत्र्यौ इत्यादीनि उदाहरणानि अपि दृष्टानि। तत्र ऋकारान्तस्य पदस्य परत्वं नास्ति खलु?
आचार्यः – पुत्रशब्दस्य विशेषविधानम् अस्ति। अतः ऋकारान्ते शब्दे परे, पुत्रशब्दे (पुत्रीशब्दे च) परे च पूर्वपदस्थस्य ऋकारस्य आकारः भवति।
शिष्यः – एतत्केवलं द्वन्द्वसमासे एव खलु?
आचार्यः – आम्। मातुः गृहम् = मातृगृहम्, मातुः सम्बन्धः = मातृसम्बन्धः इत्यादिषु तत्पुरुषादिस्थलेषु पूर्वपदस्थस्य ऋकारस्य न आकारः।
पूर्वपदस्य पुल्लिङ्गवत् रूपम्।
_________________________________________________________________________________________________
**आचार्यः–**वत्स, अत्र आगच्छतु। दीर्घमाला इत्यत्र कः समासः? विग्रहवाक्यं च कथम्?
**शिष्यः –**कर्मधारयसमासः ननु? दीर्घा चासौ माला इति विग्रहः।
आचार्यः– अत्र पूर्वपदं किम्?
**शिष्यः –**दीर्घा इति खलु? एषः तु सामान्यः विषयः।
आचार्यः– विग्रहवाक्ये पूर्वपदं दीर्घा इति। समस्तपदे तु दीर्घमाला इत्यत्र पूर्वपदं तु दीर्घ इति। एवं तर्हि विग्रहवाक्ये पूर्वपदे दीर्घा इत्यत्र स्थितः आकारः कुत्र गतः? कथं लुप्तः अभवत्? समासस्य सामान्यनियमानुगुणं पूर्वपदस्य विभक्तेः लोपः केवलं खलु भवति?
शिष्यः – सत्यं खलु! उत्तमलेखनी, श्वेतशाटिका, वक्ररेखा इत्यादिषु अपि एवमेव दृश्यते। अत्र किमपि विशेषविधानम् अस्ति वा?
आचार्यः– आम्, कर्मधारयसमासे पूर्वपदत्वेन स्थितं प्रातिपदिकं स्त्रीलिङ्गे विद्यमानं सत् यदि भाषितपुंस्कं भवति तदा तस्य पुल्लिङ्गवत् रूपं भवति।9
शिष्यः – प्रातिपदिकं नाम विभक्तिरहितं शब्दरूपं खलु? किन्तु आचार्य! भाषितपुंस्कं नाम किम्?
आचार्यः– यस्य शब्दस्य रूपं पुल्लिङ्गे स्त्रीलिङ्गे च भवति तस्य भाषितपुस्कम् इति नाम इति वक्तुं शक्यते सामान्यतः।
शिष्यः – दीर्घशब्दस्य पुल्लिङ्गे ‘दीर्घ’ इति रूपं, स्त्रीलिङ्गे च ‘दीर्घा’ इति रूपम्। अतः
तस्य भाषितपुंस्कत्वम्। तेन च दीर्घा + माला इत्यत्र ‘दीर्घा’ इति पूर्वपदस्थाने ‘दीर्घ’ इति पुल्लिङ्गरूपं तिष्ठति। तदा दीर्घमाला इति रूपम्।
**आचार्यः–**आम्। जीवन्ती चासौ भाषा च इत्यत्र समस्तं रूपं वदतु।
शिष्यः–….। जीवन्तीभाषा इति समस्तरूपं न भवति इत्येतावदेव वक्तुं शक्नोमि। शुद्धरूपं तु न जानामि।
आचार्यः– तथा न भवति इति कथं ज्ञातवान्?
शिष्यः– यतः विशेषतः पृष्टम्, अतः अत्र कोऽपि विशेषः अस्ति इति अहं तर्कितवान्।
आचार्यः– अस्तु तावत्। जीवन्ती+भाषा इत्यत्र सोपानानि वदतु।
शिष्यः– जीवन्ती+भाषा …I
जीवन्ती (प्रथमा=सु) + भाषा (प्रथमा=सु) …II
जीवन्ती (प्रथमा=सु) + भाषा (प्रथमा=सु) …III
आचार्यः– अत्र जीवन्ती इति तात्कालिकवर्तमानकालिकं शतृप्रत्ययान्तं रूपम्। एतस्य पुल्लिङ्गरूपं ‘जीवत्’ इति। (प्रथमाविभक्तौ एकवचने च ‘जीवन्’ इति।) स्त्रीलिङ्गे ‘जीवन्ती’ इति। अतः तस्य शब्दस्य भाषितपुंस्कत्वम्। तेन च पूर्वपदस्थस्य ‘जीवन्ती’ इत्यस्य स्थाने ‘जीवत्’ इति रूपं भवति।
शिष्यः– तदा ‘जीवद्भाषा’ इति रूपं सिध्यति।
आचार्यः– एवम् एव पतन्ती+माला = पतन्माला, क्रीडन्ती+बालिका = क्रीडद्बालिका, गच्छन्ती+महिला = गच्छन्महिला, खादन्ती+धेनुः = खादद्धेनुः इत्यादिषु अपि ज्ञेयम्।
शिष्यः– शतृप्रत्ययान्तं स्त्रीलिङ्गरूपं कर्मधारयसमासे यदा पूर्वपदरूपेण तिष्ठति तदा जागरूकता अपेक्षिता इति खलु कथनस्य आशयः?
आचार्यः– आं, तथैव।
पूर्वपदविशेषाः (सङ्ग्रहेण )
_________________________________________________________________________________________________
आचार्यः– वत्स! पूर्वपदविशेषविषये अस्माभिः किञ्चित् चर्चितं खलु? तत् पुनः स्मर्तुं शक्नोति वा?
**शिष्यः –**तत्सर्वं सम्यक् स्मरामि आचार्य! ते च–
(१) **नकारलोपः –**समासे पूर्वपदस्य अन्ते स्थितस्य नकारस्य लोपः भवति। महिम्नः (महिमन्) + वर्णनम्= महिमवर्णनम्, गुणी (गुणिन्) + पुरुषः= गुणिपुरुषः इत्यादिनि उदाहरणानि।
(२) **महतः आत्वम्–**समासे सामानाधिकरण्यस्थले पूर्वपदस्थस्य महच्छब्दस्य आकारः भवति। महापुरुषः, महाजनः इत्यादिनि उदाहरणानि।
(३) **ऋकारस्य आकारः –**द्वन्द्वसमासे रक्तसम्बन्धे विद्यासबन्धे वा द्योत्यमाने ऋदन्ते च परे पूर्वपदस्य ऋकारस्य आकरः। मातापितरौ इति उदाहरणम्।
आचार्यः– मातापुत्रौपितापुत्र्यौ इत्यादिषु?
शिष्यः – पुत्रशब्दे पुत्रीशब्दे च परे अपि आत्वं भवति। पूर्वोक्तानि निमित्तानि तु भवेयुः एव।
आचार्यः– अस्तु, अग्रे कथयतु।
शिष्यः – (४) **पुल्लिङ्गवत् रूपम्–**कर्मधारयसमासे (बहुव्रीहौ च) पूर्वपदत्वेन स्थितं प्रातिपदिकं स्त्रीलिङ्गरूपेण विद्यमानं सत् यदि भाषितपुंस्कं भवति तर्हि तस्य पुल्लिङ्गवत् रूपं भवति। दीर्घमाला, जीवद्भाषा इत्यादीनि उदाहरणानि।
आचार्यः– साधु वत्स, साधु! विषयः सम्यक् अवगतः भवता।
**शिष्यः –**श्रीमन्, महात्मागान्धेः इति रूपं न भवति खलु?
आचार्यः– गान्धिशब्दः अव्युत्पन्नः। अतः तस्य विभक्तियोजनं करणीयं वा न वा इति तु भिन्नः एव विषयः। तथापि गान्धेः इति षष्ठीविभक्त्यन्तं इति भावयामः चेत्
महात्मनः गान्धेः इति वा वक्तव्यम्। महात्मागान्धेः इति रूपं तु सर्वथा अशुद्धम्।
**शिष्यः –**महदानन्दः इति रूपम् अपि न भवति खलु?
**आचार्यः –**युक्तायुक्ततानिर्णये भवतः किमर्थं सन्देहः? नियमान् भवान् जानाति। अतः उदाहरणानां साधुत्वविवेचनं भवान् एव कर्तुं शक्नोति।
शिष्यः – तथापि व्याकरणसूत्राणां विशेषज्ञानं नास्तीति कारणतः ज्ञातस्य अपि निर्णये अस्पष्टता। महदानन्दः इत्यत्र समानविभक्तिकत्वम्। अतः महच्छब्दस्य आकारः भवति एव। महानन्दः इत्येव वक्तव्यं, न तु महदानन्दः इति।
आचार्यः – कार्यकर्तारः श्रोतरः च इत्यत्र द्वन्द्वे कृते।
शिष्यः – कार्यकर्तृश्रोतरः इत्येव। यतः अत्र विद्यासम्बन्धः रक्तसम्बन्धः वा न द्योत्यते।
आचार्यः – ननान्दा + पुत्री= ….?
शिष्यः – ननान्दा नाम पत्युः भगिनी खलु? ऋकारान्तं वा तत् पदम्?।
आचार्यः – अथ किम्? आकारान्तम् इति चिन्तितवान् वा भवान्?
शिष्यः – आम्, कस्य समासस्य अनुगुणं मया रूपं वक्तव्यम्?
**आचार्यः –**साधु वत्स! समासानुगुणं रूपं भिद्यते इति स्मरति खलु भवान्? द्वन्द्वे तत्पुरुषे चापि वदतु।
शिष्यः – द्वन्द्वे ननान्दापुत्र्यौ इति। पुत्रीशब्दस्य परत्वम् अस्तीत्यतः ऋकारस्य आत्वम्। तत्पुरुषे तु ननान्दृपुत्री इति।
आचार्यः – सुन्दरी चासौ भाषा इत्यत्र समस्तं रूपं किम्?
**शिष्यः –**सुन्दरी भाषा? उत सुन्दरा भाषा?
आचार्यः – स्त्री चेत् सुन्दरी, भाषादयः चेत् सुन्दराः इति वा भवतः अभिप्रायः? भाषा अपि सुन्दरी एव, न तु सुन्दरा। अस्तु तावत्, समस्त रूपं कथयतु।
शिष्यः – सुन्दरभाषा इति। यतः सुन्दरीशब्दः भाषितपुंस्कः। अतः पूर्वपदस्थस्य तस्य पुल्लिङ्गवद्रूपम्।
आचार्यः – पूर्वपदविशेषस्य उदाहरणानि प्रत्युदाहरणानि च भवान् सम्यक् ज्ञातवान्। प्रयोगसमये सर्वं स्मरति चेत् भवान् निर्दुष्टं व्यवहर्तुं शक्नोति।
अव्ययीभावसमासः
_______________________________________________________________________________________
**शिष्यः–**श्रीमन्, अव्ययीभावसमासविषये मया किञ्चित् ज्ञातव्यम् अस्ति।
**आचार्यः –**पृच्छतु तावत्। अव्ययीभावसमासविषयकं पदम् अव्ययं भवति इति तु सामान्यः विषयः।
**शिष्यः–**अकारान्तं पदम् अन्ते अस्ति चेत् तस्य ‘अम्’ भवति खलु। तन्नाम नपुंसकलिङ्गस्य ज्ञानशब्दस्य एकवचनवत् रूपं भवति।
आचार्यः – तच्च अव्ययम्। तन्नाम विभिन्नविभक्तिषु तस्य रूपभेदः न भवति।
**शिष्यः–**किन्तु प्रतिवर्षे, प्रतिगृहस्य, प्रत्येकेन इत्यादीनि विभक्त्यन्तानि रूपाणि अपि दृश्यन्ते खलु ?
आचार्यः – एतद्विषये किञ्चित् विशेषतः ज्ञातव्यम् अस्ति। अव्ययीभावसमासविषयकस्य अकारान्तस्य पदस्य तृतीयाविभक्त्यन्तं पञ्चमीविभक्त्यन्तं सप्तमीविभक्त्यन्तं च रूपं भवति। तानि विभक्त्यन्तानि रूपाणि अपि अव्ययानि एव।
उदाहरणं तु–
प्रतिगृहम् —प्रतिगृहेण, प्रतिगृहात्, प्रतिगृहे।
प्रतिवर्षम् —प्रतिवर्षेण, प्रतिवर्षात्, प्रतिवर्षे।
प्रतिपुस्तकं —प्रतिपुस्तकेन, प्रतिपुस्तकात्, प्रतिपुस्तके।
शिष्यः– एतस्य अयम् अर्थः सिध्यति यत् षष्ठीविभक्त्यन्तं रूपं न भवति इति।
आचार्यः – आं, युक्तम् ऊहितं भवता। प्रतिगृहस्य, प्रतिवर्षस्य, प्रतिविद्यालयस्य इत्यादीनि रूपाणि असाधूनि एव।
शिष्यः–‘प्रत्येकस्य’ इति रूपम् अपि असाधु एव, यच्च व्यवहारे तदा तदा श्रूयते।
आचार्यः – सत्यम्। प्रत्येकः इति अपि रूपं प्रयुक्तं श्रुतं मया। प्रत्येकः इति कथं साधयितुं शक्यते इति न जानामि। अतः प्रत्येकं जनः, प्रत्येकं शाला इत्यादिरूपेण एव
प्रयोक्तव्यम्।
**शिष्यः –**श्रीमन्! शालां शालां = …..?
**आचार्यः–**प्रतिशालम् इति अकारान्तम् एव रूपम्। एवम् एव प्रतिमालं, प्रतिबालिकम्, प्रतिपत्रिकम् इत्यादिषु अपि ज्ञातव्यम्। अन्नन्तेषु अपि एषा एव व्यवस्था इति स्मरतु। अध्यात्मम् इति उदाहरणम्। किन्तु व्यवहारे एतादृशानि रूपाणि अल्पानि।
शिष्यः – यथामति, यथाशक्ति इत्यादौ इकारान्तः शब्दः अव्ययीभावस्य अन्ते अस्ति चेत् तस्य विसर्गः न श्रूयते। एवं खलु?
**आचार्यः–**आम्, अधिहरि, प्रतिगिरि, यथारुचि इत्यादीनि उदाहरणानि।
शिष्यः – ईकारान्तं पदम् अन्ते अस्ति चेत्?
आचार्यः– इकारान्तत्वं, तन्नाम् हस्वत्वम् भवति —आकारान्तस्य अकारान्तत्वमिव। प्रतिनदि, प्रतिगृहिणि इत्यादीनि उदाहरणानि। उकारान्तस्यापि विसर्गः न श्रूयते। ऊकारान्तं किमपि यदि स्यात् तर्हि तस्य हस्वत्वम्।
**शिष्यः –**आचार्य! यथामत्या, यथामतेः इत्यादीनि रूपाणि न भवन्ति वा?
आचार्यः– सर्वथा न भवन्ति। अकारान्तस्य केवलं तृतीया-पञ्चमी-सप्तम्यन्तानि रूपाणि। न तु इकारान्तादीनाम् अपि।
**शिष्यः –**येषु विभक्त्यन्तरूपेषु विधानं नास्ति तादृशानां प्रयोगः कथम्?
**आचार्यः–**यथा —
प्रत्येकं विद्यालयस्य —–।
प्रतिचित्रं शतस्य रूप्यकाणां व्ययः।
प्रतिभिक्षुकं धनं दत्तवान्।
**शिष्यः –**मम तु काचन भ्रान्तिः आसीत् यत् अव्ययीभावसमासविशिष्टं पदम् अव्ययं भवति। ततः प्रतिगृहे इत्यादीनि रूपाणि असाधूनि इति। तानि अपि विभक्त्यन्तानि अव्ययानि इति अहं न ज्ञातवान् आसम्।
समासे उत्तरपदे रात्रिशब्दः
_______________________________________________________________________________________
**शिष्यः–**श्रीमन्! यत्र सरस्वत्याः पूजा प्रचलति सः नवरात्र्युत्सवः, (नवरात्रि + उत्सवः) उत नवरात्रोत्सवः? (नवरात्र + उत्सवः)
**आचार्यः –**पूर्वपदं ‘नव’ इति सङ्ख्यावाचकं खलु? तर्हि नवरात्रोत्सवः इत्येव। तन्नाम नवरात्रम् इति रूपम्। नवशब्दस्य नूतनम् इत्यर्थः यदि स्वीक्रियेत तर्हि नवरात्रिः इति रूपं कथञ्चित् साधयितुं शक्येत।
**शिष्यः–**कथम् अपि साधनं तिष्ठतु नाम। व्यवहारे तु ‘नव’ इत्यस्य सङ्ख्यावाचकत्वम् एव अर्थः। अतः नवरात्रम्, इत्येव रूपम् उचितम् इति मन्ये। किन्तु श्रीमन्! रात्रिशब्दः (रात्रिः) इकारान्तः। नवरात्रम् इत्यत्र तु अन्ते अकारः श्रूयते। एवं तर्हि समासे रात्रिशब्दः अकारान्तः भवति इति अहं भावयामि वा?
आचार्यः – समासे सर्वत्र तथा न भवति। ‘शिवरात्रिः’, ‘शुभरात्रिः’ इत्यादौ इकारान्तत्वम् एव।
शिष्यः– आगता तर्हि समस्या। कुत्र इकारः, कुत्र अकारः इति मां बोधयतु श्रीमन्! चन्दमामापठनसमये तदा तदा ‘अर्धरात्रे’ ‘मध्यरात्रे’ इत्यादीनि रूपाणि दृष्टानि। तदानीम् एव एषः सन्देहः उत्पन्नः आसीत् मम मनसि।
आचार्यः – इदानीं चर्चा तु तत्पुरुषसमासविषये खलु प्रचलति? (नवरात्रम्, शुभरात्रिः इत्यादौ) अत्र एकं सूत्रं स्मरति चेत् भवान् सुलभतया शुद्धाशुद्धताज्ञानं प्राप्तुं शक्नोति।
शिष्यः– किं तत् सूत्रम्?
आचार्यः – ‘अहःसर्वैकदेशसङ्ख्यातपुण्याच्च रात्रेः’ इति। एतस्य सामान्यः अर्थः तु–अहः शब्देन, सर्वशब्देन, एकदेशिशब्दैः, (अर्ध–मध्यादिभिः) सङ्ख्यातशब्देन, पुण्यशब्देन, सङ्ख्यावाचकैः शब्दैः (एकं, द्वे, त्रीणि इत्यादिभिः) च यदा रात्रिशब्दः समासं प्राप्नोति तदा अन्ते इकारस्थाने अकारः भवति इति।
‘अहोरात्रः’ इत्यत्र द्वन्द्वसमासः। इतरत्र तत्पुरषः।
**शिष्यः –**अहोरात्रः? किं तत् रूपं पुल्लिङ्गे?
**आचार्यः–**आम्। सङ्ख्यापूर्वः रात्रिशब्दः केवलं नपुंसके भवति10। अन्ये सर्वे पुल्लिङ्गे एव। पूर्वोक्तसूत्रस्य उदाहरणानि तु क्रमशः– अहोरात्रः, सर्वरात्रः, मध्यरात्रः/अर्धरात्रः, सङ्ख्यातरात्रः, पुण्यरात्रः, नवरात्रम्/पञ्चरात्रम्। तथा च रात्रिशब्दस्य त्रिधा गतिः —
(१) पुल्लिङ्गे अकारान्तः—अहोरात्रः, पुण्यरात्रः इत्यादिषु।
(२) नपुंसके अकारान्तः—नवरात्रम्, पञ्चरात्रम् इत्यादिषु(सङ्ख्यापूर्वकत्वे सति)।
(३) स्त्रीलिङ्गे इकारान्तः—शिवरात्रिः, शुभरात्रिः इत्यादौ।
**शिष्यः –**श्रीमन् ! ‘अहोरात्रं पठति’ ‘अहोरात्रं कार्यं करोति’ इत्यादौ नपुंसकलिङ्गविशिष्टं रूपं श्रूयते खलु?
आचार्यः– मन्दबुद्धे! तत्र तु क्रियाविशेषणत्वं खलु तस्य? अतः ‘अम्’ सहितं (द्वितीयैकवचनरूपविशिष्टम्) नपुंसकं तत्। ‘सशब्दं गच्छति’ ‘साग्रहं वदति’ इत्यादिषु अपि एवम् एव खलु? शब्दः इति पुल्लिङ्गे। ‘आग्रहः’ इत्यपि तथैव। किन्तु क्रियाविशेषणत्वे अन्ते ‘अम्’ श्रूयते।
शिष्यः – क्षाम्यतु श्रीमन्! अविचार्य मया पृष्टम्। अल्पेन चिन्तनेन मया ज्ञातुं शक्यम् आसीत् तत्। ‘शुभरात्रिः’ ‘शिवरात्रिः’ इत्यादौ कुतः वा अकारान्तत्वं न?
आचार्यः– पुनः अपि तादृशम् एव बालिशं प्रश्नं पृच्छति खलु? मया पूर्वोक्ते सूत्रे शुभशिवादयः शब्दाः न प्रविष्टाः। अतः तथा न भवति इति तु सरलः तर्कः।
**शिष्यः –**क्षाम्यतु, अद्य मम मनःस्थितिः सम्यक् नास्ति। अतः एव एवं पदे पदे प्रमादाः भवन्ति ।
प्रथमाविभक्तिः इ.
_________________________________________________________________________________________________
**शिष्यः –**श्रीमन्! कर्मधारयसमासे पूर्वपदत्वेन स्थितः शब्दः स्त्रीलिङ्गे विद्यमानः भाषितपुंस्कः अपि यदि भवेत् तर्हि तस्य पुंवत् रूपम् इति खलु नियमः अस्ति?
**आचार्यः –**आम्। भाषितपुंस्कं नाम किमिति पुनः एकवारं स्मृत्वा वदतु तावत्।
शिष्यः – यः शब्दः स्त्रीलिङ्गे विद्यमानः पुल्लिङ्गरूपम् अपि प्राप्तुम् अर्हति तस्य ‘भाषितपुंस्कः’ इति नाम। विशेषणानि प्रयः अत्र व्यावहारिकानि उदाहरणानि।
आचार्यः – समीचीनम्, इदानीं भवतः संशयं निरूपयतु।
शिष्यः – ‘कर्मधारयसमासे भाषितपुंस्कं पूर्वपदं पुंवत् रूपं प्राप्नोति’ इति नियमे स्थिते पञ्चमीविभक्तिः, द्वितीयाविभक्तिः इत्यादिषु पञ्चम्यादिशब्दानां पुंवत् रूपं किमर्थं नास्ति? पञ्चमीद्वितीयादयः शब्दाः भाषितपुंस्काः स्त्रीलिङ्गे स्थिताः, कर्मधारयसमासस्य विषयाः च।
आचार्यः – ज्ञातः भवतः सन्देहः। पञ्चमविभक्तिः, द्वितीयविभक्तिः इत्येवं रूपाणि भवेयुः, न तु पञ्चमीविभक्तिः, द्वितीयाविभक्तिः इत्यादीनि इति किल भवतः अभिप्रायः?
शिष्यः – आम्, मया ये सामान्यनियमाः ज्ञाताः तदनुगुणं रूपाणि तथा भवेयुः।
आचार्यः – युक्तः भवतः सन्देहः। व्यवहारे पञ्चमीविभक्तिः, द्वितीयाविभक्तिः इत्यादीनि रूपाणि एव दृश्यन्ते, न तु प्रथमविभक्तिः, पञ्चमविभक्तिः इत्यादीनि। अत्र कोऽपि अन्यः मार्गः चिन्तनीयः। आं…, स्मृतम्। वत्स! अत्र अन्यथा एव समासः वक्तव्यः।
**शिष्यः –**तन्नाम एषः कर्मधारयस्य विषयः न इति?
**आचार्यः–**तथा न। अत्रापि कर्मधारयसमासः एव। कर्मधारये बहवः भेदाः सन्ति। भवता ज्ञातः प्रकारः विशेषणपूर्वपदः, यत्र भाषितपुंस्कत्वम् अन्वेति। अत्र सम्भावनापूर्वपदः कर्मधारयः वक्तव्यः। सम्भावनापूर्वपदे कर्मधारये तु पूर्वपदं संज्ञा भवति। अतः तत्र भाषितपुंस्कत्वं न अन्वेति।
शिष्यः – उदाहरणम्?
आचार्यः– आम्रः इति वृक्षः —आम्रवृक्षः, मद्रास् इति नगरं —मद्रासनगरम् इत्यादीनि उदाहरणानि।
शिष्यः – तर्हि अत्र पञ्चमी इति विभक्तिः —पञ्चमीविभक्तिः, प्रथमा इति विभक्तिः —प्रथमाविभक्तिः इत्येवंरूपेण विग्रहः खलु?
**आचार्यः–**आम्। एवं समासः अङ्गीकृतः चेत् अन्या समस्या उत्थिता भवति। आम्रः मद्रास् इत्यादीनि संज्ञापदानि। अतः सम्भावनापूर्वपदे कर्मधारये पूर्वपदं संज्ञाबोधकं स्यात्। अत्र विभक्तिबोधकानां प्रथमादीनां संज्ञात्वं वक्तव्यं भवति।
शिष्यः – प्रथमादयः संज्ञाः इति कुत्रापि उल्लेखः दृश्यते वा?
आचार्यः– आं, सिद्धान्तकौमुद्यां स्वौजसमौट् …. (पा. सू. -४-१-२) इत्यस्य सूत्रस्य वृत्तौ लिखितम् अस्ति —“सु, औ, जस् इत्यादीनां त्रिकाणां प्रथमादयः सप्तम्यन्ताः प्राचां संज्ञाः” इति।
शिष्यः – प्रथमातिथिः, पञ्चमीतिथिः इत्यादौ अपि एवम् एव सम्भावनापूर्वपदत्वं वक्तव्यं भवति खलु?
आचार्यः– आम्। तत्रापि प्रथमादीनां संज्ञात्वम् एव।
आत्मनेपदी, परस्मैपदी इत्यादयः
_________________________________________________________________________________________________
**शिष्यः–**श्रीमन्, ‘आत्मनेपदम्’ ‘आत्मनेपदी’ इत्यनयोः, ‘परस्मैपदम्’ ‘परस्मैपदी’ इत्यनयोः च कः भेदः?
आचार्यः –‘सुखम्’ ‘सुखी’ इत्यनयोः कः भेदः इति वदतु तावत्।
**शिष्यः–**सुखम् इति तु गुणः। सुखविशिष्टः भवति सुखी।
आचार्यः – एवम् एव ‘आत्मनेपदम्’ इति संज्ञा। आत्मनेपदविशिष्टः भवति ‘आत्मनेपदी’।
शिष्यः– संज्ञा नाम?
आचार्यः – कस्यचित् बालकस्य नाम भवति गणपतिः इति। सः बालकः वस्तुतः न गणस्य प्रभुः। तथापि तद्व्यक्तेः ज्ञानार्थं वयं सूचयामः गणपतिः इति। एतत् एव संज्ञा इति उच्यते। एवम् एव आत्मनेपदं परस्मैपदम् इत्यादिकं संज्ञा।
शिष्यः– आत्मनेपद-परस्मैपदयोः कः अर्थः?
आचार्यः – संज्ञा तु व्यक्तिज्ञानार्थं खलु? अतः संज्ञापदानाम् अर्थः स्यात् चेदपि तद्विषयकचिन्तनेन प्रकृते किमपि प्रयोजनं नास्ति।
शिष्यः– श्रीमन्, क्रियाफलं परगामि चेत् परस्मैपदी, क्रियाफलम् आत्मगामि चेत् आत्मनेपदी इति मया कुत्रापि पठितम्!
**आचार्यः –**क्रियापदस्य मूलरूपाणि धातवः इति उच्यन्ते। धातुषु त्रैविध्यं— परस्मैपदिनः, आत्मनेपदिनः, उभयपदिनः चेति। यस्य परस्मैपदिरूपाणि आत्मनेपदिरूपाणि च भवन्ति सः धातुः उभयपदी इति उच्यते। उभयपदिषु धातुषु केवलं आत्मनेपदिरूपाणां परस्मैपदिरूपाणां च अर्थभेदः भवति।
यस्याः क्रियायाः फलं अन्यः प्राप्नोति तस्य परस्मैपदित्वं, तथैव यस्याः क्रियायाः फलं स्वयं प्राप्यते तस्य आत्मनेपदित्वम् इति काचित् व्यवस्था अस्ति। यथा—
पच्धातुः उभयपदी। पाकः अन्यार्थं चेत् परस्मैपदिरूपं योजनीयम्। उदा – देवदत्तः रामार्थं पचति। पाकः आत्मनिमित्तं चेत् आत्मनेपदिरूपं योजनीयम्। उदा– देवदत्तः पचते।
एवं च उभयपदिषु क्रियाफलस्य परगामित्वे परस्मैपदित्वम्, आत्मगामित्वे आत्मनेपदित्वम् इति अन्वर्थता अस्ति। इतरत्र तु न।
**शिष्यः–**देवदत्तः रामार्थं पचते इति वा, देवदत्तः आत्मार्थं पचति इति वा न वक्तव्यं वा एवं तर्हि?
**आचार्यः–**वस्तुतः नियमः तथैव सूचयति। किन्तु प्राचीनकालतः अपि महाकाव्यादिषु अपि एषा व्यवस्था न अनुसृता। अर्थभेदे सत्यपि बहुभिः तत् अनादृत्य व्यवहारः कृतः दृश्यते।
**शिष्यः–**केवलपरस्मैपदिषु केवलात्मनेपदिषु वा क्रियाफलं परगामि आत्मगामि वा भवतु, रूपं तु नियतम् एव।
आचार्यः– आम्। गम्लृ धातुः (गच्छति) परस्मैपदी। गमनं परार्थं वा भवतु, आत्मार्थं वा भवतु रूपं गच्छति इत्येव। एवम् एव नित्यात्मनेपदिषु अपि। उभयपदिषु अपि अर्थभेदस्य अनादरात् व्यवहारसन्दर्भे क्रियाफलविषये चिन्तनीयं नास्ति।
शिष्यः– कः धातुः आत्मनेपदी, कः परस्मैपदी, कः उभयपदी इति कथं ज्ञातव्यम्?
आचार्यः– एतत् तु गुरुमुखात्, अनुभवबलात् च ज्ञातव्यं भवति। तथापि कुत्रचित् ज्ञातुं शक्यते, येन क्रियापदस्य मूलं रूपं (धातुः) ज्ञातं तेन। यस्य धातोः अन्ते इत्संज्ञायुक्तः11 ङकारः भवति सः आत्मनेपदी भवति। उदा –शीङ्, चक्षिङ्, प्लुङ् इत्यादयः। एवम् एव येषाम् अन्ते ञकारः इत्संज्ञायुक्तः भवति ते उभयपदिनः भवन्ति। उदा –कृञ्, वृञ्, हृञ्, क्रीञ् इत्यादयः। इतरत्र तु एवं सुलभतया ज्ञातुं कोऽपि मार्गः नास्ति।
धातुपाठः
_________________________________________________________________________________________________
**शिष्यः –**श्रीमन्! गतमासे भवता उक्तम् आसीत् – आत्मनेपदि-परस्मैपदिविभागः कुत्रचित् एव ज्ञातुं शक्यः इति। तथा ज्ञानार्थम् उपायः सूचितः आसीत् अपि। इतरत्र तु अनुभवबलात् एव ज्ञातव्यं भवति इत्यपि उक्तम् आसीत्। एवं तर्हि पाणिनिः केन मानेन विभागं कृतवान्? पाणिनिव्याकरणं सुपरिष्कृतम्। तर्हि तेन परिष्कृतः कोऽपि मार्गः आश्रितः स्यात् एव। एवं मार्गः सिद्धः यदि स्यात् तर्हि किमर्थं वा ज्ञातुं कोऽपि उपायः नास्ति इति उच्यते?
**आचार्यः–**भवतः तर्कः युक्तः एव। पाणिनिः परिष्कृतेन मार्गेण एव व्यवस्थां कृतवान्। किन्तु सा च व्यवस्था उदात्तानुदात्तस्वरितस्वरान् आधारीकृत्य कृता अस्ति। यथा वेदमन्त्राः स्वरनिबद्धाः तथैव धातुपाठः अपि स्वरबद्धः आसीत्। पूर्वं तु पुस्तकाभावात् धातुपाठः मुखात् मुखं प्रसरति स्म। यदा पुस्तकम् आगतं तदा क्रमशः स्वरवैशिष्ट्यं नष्टम्। यः स्वरविशिष्टं धातुपाठं जानीयात् सः सुलभतया आत्मनेपदित्वं परस्मैपदित्वम् उभयपदित्वं वा निर्णेतुं शक्नुयात्।
**शिष्यः –**वेदाः सस्वराः एव इदानीं श्रूयन्ते। एवम् एव धातुपाठाः सस्वराः किं न श्रूयन्ते?
**आचार्यः–**नैव। अङ्गुलिगणनासाध्याः केचन जानीयुः, तावदेव। सर्वत्र सामान्यः धातुपाठः श्रूयते, न तु सस्वरः। अतः कः धातुः उदात्तस्वरसहितः, कः अनुदात्तस्वरसहितः कश्च स्वरितस्वरसहितः इति ज्ञानं न सुलभसाध्यम्। अतः एव आत्मनेपदित्वादिज्ञानम् अपि दुष्करम् एव।
यथा –एधधातौ धकारोत्तरःअकारः कीदृशः (उदात्तः, अनुदात्तः, उत स्वरितः) इति ज्ञातं चेत् धातुः आत्मनेपदी, उत न इति निर्णेतुं शक्यते। स्वरपाठस्य अभावात् तादृशः निर्णयः न सुलभसाध्यः इदानीम्।अनुभवबलात् वयं वदामः–एधधातुः आत्मनेपदी इति।
**शिष्यः–**यथा सस्वरः वेदपाठः रक्षितः तथैव सस्वरः धातुपाठः अपि रक्षणीयः आसीत् खलु?
**आचार्यः –**आम्। तथा करणीयम् आसीत्….। किन्तु न कृतम् ….।
शिष्यः– स्वरपाठतः अन्यः कोऽपि लाभः?
आचार्यः – ‘इड्’ व्यवस्था अपि एतदाधारेण अस्ति। यथा –पठिष्यति, पठित्वा, पठितुम् इत्यादौ इकारः (इट्) श्रूयते। त्यक्ष्यति, त्यक्त्वा, त्यक्तुम् इत्यादौ तत् नास्ति। धातुस्थस्य प्रथमस्वरस्य स्वरूपज्ञानेन एषा व्यवस्था ज्ञायते।
**शिष्यः–**एवं तर्हि स्वरपाठस्य लोपात् महती हानिः एव जाता। श्रीमन्! धातवः कति सन्ति?
आचार्यः – सामान्यतः द्विसहस्रं मूलधातवः सन्ति। प्रत्ययान् कांश्चन योजयित्वा अपि धातून् निर्मातुं शक्नुमः।
शिष्यः– केवलं द्विसहस्रं धातवःएव?
आचार्यः – आम्, मूलधातवः तावन्तः एव। एतैः एव उपसर्गाणां प्रत्ययानां च योजनेन विभिन्नार्थकाः असङ्ख्याः शब्दाः निर्मातुं शक्यन्ते।
शिष्यः– ‘एतावन्तः धातवः सन्ति’ इति पाणिनिना निर्दिष्टं खलु?
**आचार्यः –**आम्, पाणिनिः धातुपाठं बोधितवान्। काशकृत्स्नादीनां धातुपाठाः अपि श्रूयन्ते। तथापि पाणिनीये धातुपाठे एव विशेषादरः सर्वत्र।
द्विसहस्रं धातवः सन्ति इति मया उक्तम्। किन्तु तत्रापि बहूनाम् अर्थं वयं न जानीमः। ते कस्मिन् अर्थविशेषे प्रयोक्तव्याः इत्यत्र स्पष्टता नास्ति। व्यवहाराभावः एव अत्र कारणम्।
शिष्यः– धातूनाम् अर्थनिर्देशम् अपि पाणिनिः एव कृतवान् वा? ।
आचार्यः – न, पाणिनिः एध, पठ इति धातून् उक्तवान्। एध-वृद्धौ, पठ-व्यक्तायां वाचि इत्यादिरूपेण अर्थनिर्देशनं तु भीमसेनाचार्यस्य इति श्रूयते।
धातूनाम् अर्थनिर्देशः यद्यपि कृतः, किन्तु तस्मिन् एव अर्थे स च धातुः प्रयुज्यते इति नास्ति। धातवः अनेकार्थाः। अतः प्रामाणिकान् प्रयोगान् दृष्ट्वाधात्वर्थस्य निर्णयः करणीयः भवति।
धात्वर्थविचारः
_________________________________________________________________________________________________
**शिष्यः–**श्रीमन्! ‘श्रु-श्रवणे’ इति धातुः (शृणोति) प्रथमे गणे अस्ति वा?
**आचार्यः–**आम्। पञ्चमे गणे अस्ति इति चिन्तितवान् वा भवान्?
**शिष्यः–**रूपसाम्यं दृष्ट्वा तथैव चिन्तितवान् आसम्। कस्मिंश्चित् पुस्तके लिखितम् आसीत् यत् श्रुधातुः प्रथमगणीयः इति। तदा ज्ञातवान् यत् श्रुधातुः प्रथमगणे अस्ति इति।
आचार्यः– अन्ये अपि केचन धातवः, कित (चिकित्सते), गुप (जुगुप्सते), तिज (तितिक्षते ) इत्यादयः अपि अन्यगणीयाः इव भासमानाः प्रथमे गणे दृश्यन्ते।
**शिष्यः–**किमर्थम् एवं कृतं स्यात् पाणिनिना?
आचार्यः– किमपि विशेषप्रयोजनं मनसि कृत्य सः तथा योजितवान्। किन्तु न जाने, किं तत् विशेषप्रयोजनम् इति। अपवादरूपेण एतादृशाः केचन धातवः प्रथमगणेसन्ति इति एतावत् तु वक्तुं शक्यते।
शिष्यः– श्रीमन्! ‘धातूनाम् अर्थनिर्देशः कृतः दृश्यते चेदपि व्यवहारं दृष्ट्वा एव प्रयोगः करणीयः’ इति भवान् इतः पूर्वम् उक्तवान् खलु? तस्य उदाहरणम्?
आचार्यः– ‘धावृ’ धातुः गत्यर्थे शुद्ध्यर्थे च अस्ति। किन्तु लोके रूढिः तु गत्यर्थे एव। शुद्ध्यर्थे केवलस्य (उपसर्गरहितस्य) प्रयोगः न दृश्यते। अतः सीता वस्त्रं धावति इति न वक्तव्यम्।
‘हन्’ धातुः हिंसार्थे गत्यर्थे च अस्ति। तथापि रूढेः अभावात् गत्यर्थे तस्य प्रयोगः न करणीयः। अतः रामः गृहं हन्ति (गच्छति इत्यर्थे) इति प्रयोगः अनुचितः एव। एवं च प्राचीनैः अर्थे निर्दिष्टे अपि व्यवहारौचित्यं मनसि निधाय एव तत्तदर्थे धातोः प्रयोगः करणीयः भवति।
शिष्यः– ‘धातवः अनेकार्थाः’ इति वचनं श्रूयते। अनिर्दिष्टे अपि अर्थे धातुः प्रयुज्यते
इत्यस्य किम् उदाहरणम्?
**आचार्यः–**अत्रापि बहूनि उदाहरणानि लभ्यन्ते। तत्रापि कृधातुः (करोति) आ+गम्लृ धातुः (गच्छति) च अनिर्दिष्टेषु बहुषु अर्थेषु प्रयुज्यते। यथा– कृधातोः करणम् अर्थः खलु? तथापि अर्थान्तरेषु बहुधा प्रयोगः कृतः दृश्यते।
यथा –
१) वितरति गुरुः…. शक्तिं करोत्यपहन्ति वा –भवभूतिः (उत्पादयतिइत्यर्थः)
२) काष्ठं भस्म करोति। (विकृतीकरोति इत्यर्थः)
३) अग्निं करोति। (प्रवर्तयति इत्यर्थः)
४) ब्रह्मणः प्रणवं कुर्यात्। (उच्चारणम् अर्थः)
५) कुरु पदानि घनोरु शनैः शनैः। (निक्षेपणम् अर्थः)
**शिष्यः –**श्रीमन्! गत्यर्थकानां सर्वेषां समानः अर्थः इति नास्ति खलु? ‘गम्लृ-गतौ’ (गच्छति), ‘अट्-गतौ’ (अटति), ‘लघि-गतौ’ (लङ्घते), ‘प्लुङ्-गतौ’ (प्लवते), इत्येवं रूपेण गत्यर्थकाः बहवः। तथापि तेषाम् अर्थभेदः तु अस्ति एव खलु?
आचार्यः– आम्। अर्थभेदः निश्चयेन अस्ति। विभिन्नाः गतिविशेषाः गतिशब्देन सूचिताः। अतः प्रयोगं दृष्ट्वा ‘कस्य धातोः कीदृशी गतिः अर्थः?’ इति ज्ञातव्यं भवति।
शिष्यः – एवं तर्हि धात्वर्थनिर्णये परमं प्रमाणं व्यवहारः एव।
आचार्यः– आम्। प्रामाणिकाः प्रयोगाः बहुधा परिशीलिताः चेत् धात्वर्थप्रपञ्चः ज्ञायते।
शिष्यः – उपसर्गयोगात् ये अर्थाः लभ्यन्ते ते अपि तस्यैव धातोः खलु अर्थाः?
आचार्यः– अविद्यमानं वस्तु कोऽपि दातुं न शक्नोति खलु? तथैव यदि सः अर्थः धातोः न स्यात् तर्हि उपसर्गयोगे सत्यपि तम् अर्थं प्रकाशयितुं स च धातुः सर्वथा न अशक्ष्यत्। अतः उपसर्गयोगात् लभ्यमानाः अर्थाः अपि धातोः एव इत्येव परिगण्यते।
********
सकर्मकाकर्मकव्यवस्था
_________________________________________________________________________________________________
**शिष्यः–**श्रीमन्! कः धातुः सकर्मकः, कश्च अकर्मकः इति कथं ज्ञातुं शक्यते?
**आचार्यः–**धात्वर्थं ज्ञात्वा एतत् सकर्मकाकर्मकत्वं ज्ञातव्यं भवति। धातोः ‘किम्’ इति (कः / का इति वा) प्रश्नः करणीयः। द्वितीयाविभक्त्यन्तम् उत्तरं लब्धं चेत् सः धातुः सकर्मकः। अन्यथा अकर्मकः। उदाहरणार्थं ‘पठ’ धातुं परिशीलयाम। पठति– कं पठति?– ग्रन्थं पठति। ‘ग्रन्थम्’ इति द्वितीयाविभक्त्यन्तम् उत्तरं प्राप्तम् इत्यतः पठधातुः सकर्मकः। अन्यत् उदाहरणं कम्पते —कं/कां/किं कम्पते? ………। उत्तरं नास्ति। अतः कम्प्धातुः अकर्मकः।
शिष्यः– वर्धते –किं वर्धते? सस्यं वर्धते। अतः ‘वर्धते’ इत्येतत् किं सकर्मकम्?
आचार्यः– एतदर्थम् एव खलु मया उक्तं –किम् इत्यस्य उत्तरं द्वितीयाविभक्त्यन्तं भवेत् इति। वृक्षः वर्धते इत्येव वयं वदामः, न तु वृक्षं वर्धते इति। सस्यशब्दः नपुंसकलिङ्गः इत्यतः प्रथमायां द्वितीयायां च विभक्तौ तस्य समानं रूपम्। अतः भवति भ्रान्तिः उत्पन्ना।
शिष्यः– एवं च निश्चितं यत् धात्वर्थज्ञानानन्तरम् एव वयं सकर्मकाकर्मकव्यवस्थां ज्ञातुं शक्नुमः इति।
आचार्यः– आम्। एषा तु सामान्या व्यवस्था। एतस्याः अपवादाः अपि भवन्ति एव।
तद्यथा–
धातोरर्थान्तरे वृत्तेः धात्वर्थेनोपसङ्ग्रहात्।
प्रसिद्धेः अविवक्षातः कर्मणोऽकर्मिका क्रिया॥
१) अर्थान्तरे वृत्तिः – सकर्मकः अपि धातुःकदाचित् अर्थान्तरे प्रवृत्तः अकर्मकत्वं प्राप्नोति। यथा–
i) कर्मकरः भारं वहति।
ii) नदी वहति।
प्रथमे उदाहरणे वहधातुःसकर्मकः। सः एव धात्वर्थः। द्वितीये तुउदाहरणे सः अकर्मकः जातः, यतः सः अर्थान्तरे प्रवृत्तः।
२) धात्वर्थेन उपसङ्ग्रहः – यथा –नृत्यति, जीवतिइत्यादयः। नृत् धातोः अर्थः –‘गात्रविक्षेपं करोति’ इति। जीव् धातोः अर्थः –‘प्राणधारणं करोति’ इति। एतदुभयम् अपि धात्वर्थेन उपसङ्गृहीतम् इत्यतः तयोः अकर्मकत्वम्।
३) प्रसिद्धिः12 –यथा –मेघः वर्षति। वर्षति इत्यत्र जलम् इत्यस्य सुप्रसिद्धत्वम्। अतः वर्षति इत्येतत् अकर्मकम्।
**शिष्यः –**श्रीमन्! वर्षति इत्यत्र कर्म यदि न सुप्रसिद्धं तर्हि स च धातुः सकर्मकः भवति वा?
**आचार्यः–**आम्। यथा इन्द्रः सुवर्णं वर्षति। अत्र सुवर्णस्य वर्षणं न सुप्रसिद्धम्। अतः अत्र ‘वर्षति’ इत्यस्य सकर्मकत्वम्।
शिष्यः – श्रीमन्! गत्यर्थकाः धातवः संस्कृते सकर्मकाः वा?
**आचार्यः–**आम्। प्रादेशिकभाषासु तेषाम् अकर्मकत्वं दृश्यते। किन्तु संस्कृते ते सकर्मकाः। यथा –रामः शालां गच्छति।
अत्र एतदपि स्मर्तव्यं यत् गत्यर्थश्रवणमात्रेण सकर्मकत्वं निर्णेतुं न शक्यते। उदाहरणार्थं ‘पत्लृ’ धातुं पश्यतु। सः सामान्यव्यवहारे अकर्मकः खलु?
शिष्यः – आम्। ‘पर्णं भूमौ पतति’ इत्येव वाक्यं प्रयुञ्ज्महे वयम्।
आचार्यः–एषः एव धातुः (पतति) सकर्मकत्वेन अपि प्रयुक्तः दृश्यते। यथा –
** i) दिशः पपात पत्रेण वेगनिष्कम्पहेतुना…. (रघु० १५ / ७८)
** ii) यथा महान्तमध्वानम् आशया पुरुषः पतन्…. (महा०शा० १०/११)
कर्मविचारः मिलति, प्रतिष्ठते इत्यत्र
_________________________________________________________________________________________________
**शिष्यः –**श्रीमन्! गत्यर्थकः धातुः प्रादेशिकभाषायाम् अकर्मकः चेत् अपि संस्कृते सकर्मकः। एतादृशाः एतद्विपरीतरूपेण स्थिताः वा (तन्नामप्रादेशिकभाषायां सकर्मकाः चेदपि संस्कृते अकर्मकाः) सन्ति वा?
**आचार्यः–**एकः एव धातुः अर्थभेदेन कारणान्तरेण वा संस्कृते एव सकर्मकत्वम् अकर्मकत्वम् उभयम् अपि प्राप्नोति। एवं स्थिते भाषाभेदेन सकर्मकाकर्मकत्वं परिवृत्तं चेत् न तत्र आश्चर्यम्। एवं खलु?
शिष्यः – व्यवहारसन्दर्भे एतद्विषये दोषाः यथा न भवेयुः तथा जागरूकताश्रयणार्थं पृष्टं मया –तादृशः सन्दर्भविशेषः अस्ति वा? इति।
आचार्यः– अवश्यं ज्ञातव्याः तादृशाःसन्दर्भविशेषाः केचन सन्ति एव। द्वित्राणि उदाहरणानि यथा —
i)‘मिल’ धातुःसंस्कृतेन अकर्मकः।
उदा –(अ) गङ्गा यमूनया मिलति। (आ) अहं मित्रेण मिलामि।
ii) ‘क्रीड्’ धातुः अपि अकर्मकः।
रामः कन्दुकेन क्रीडति।
शिष्यः – श्रीमन्! अहं रामं मिलामि इति न वक्तव्यं वा? अद्यावधि अहम् एवम् एव वदन् आसम्।
आचार्यः– अतः एव मया विशिष्य उक्तम्। अहं रामं मिलामि इति तु दोषाय एव।
शिष्यः – कि श्रीमन्, एवम्…..?
आचार्यः– किं वा कर्तुं शक्यते? भाषामर्यादा तथा अस्ति। सर्वे प्राचीनाः प्रयोगाः अपि तस्य धातोः अकर्मकत्वम् एववदन्ति। अतः प्रामाण्यं विना प्रादेशिकभाषामर्यादां मनसि कृत्वा अकर्मकत्वेन तस्य प्रयोगं कर्तं न अर्हामः। यतः संस्कृते अस्मदादीनां प्रयोगाः, प्रादेशिकभाषामर्यादा वा प्रमाणं न।
शिष्यः–‘भवान् मिलतु’ ‘अहं मिलामि’ ‘सः मिलितवान्’ इत्यादिषु प्रयोगेषु कृतेषु…..?
**आचार्यः –**कोऽपि दोषः। यतः तत्र तृतीयाविभक्त्यन्तस्य पदस्य अध्याहारः क्रियते। ययोः मेलनं भवति तयोः अन्यतरस्य ग्रहणं करणीयं वाक्ये। तदा अध्याहारः तु तृतीयाविभक्त्यन्तेन कर्तुं शक्यते। द्वयोः अपि उपादाने एकं पदं प्रथमाविभक्त्यन्तम्, अपरं च तृतीयाविभक्त्यन्तम् अवश्यं भवेत्।
मिलधातुविषये अन्यदपि स्मर्तव्यं यत् ‘आपणे वस्तु मिलति’ इति प्रयोगः असाधुः एव। मिलधातोः प्राप्त्यर्थकत्वं न, अपि तु सङ्गमनार्थकत्वम्। अतः ‘आपणे वस्तु लभ्यते / प्राप्यते’ इत्येव प्रयोक्तव्यम्। (एतच्च वाक्यं कर्मणिप्रयोगे अस्ति।)
**शिष्यः–**श्रीमन्! ‘प्रतिष्ठते’ इति क्रियापदम् अकर्मकम्, उत सकर्मकम्?
आचार्यः – किमर्थं भवतः मनसि तादृशः सन्देहः उत्पन्नः?
शिष्यः– ‘प्र’ इति उपसर्गेण युक्तः ष्ठाधातुः आत्मनेपदित्वं प्राप्नोति, अकर्मकं च भवति, गतेः आरम्भः तस्य अर्थः इति मया कुत्रचित् पठितम् आसीत्।
आचार्यः – भवता यत् ज्ञातं तत् युक्तम् एव अस्ति। ‘प्रतिष्ठते’ इति अकर्मकम् एव।
शिष्यः– किन्तु मेघदूते ‘चित्रकूटं प्रतस्थे’ इति प्रयोगः दृश्यते खलु? अत्र तु सकर्मकत्वं सुस्पष्टम् एव।
**आचार्यः –**वस्तुतः प्रस्थानक्रियायाः अकर्मकत्वम् एव। अत्र तु प्रतस्थे इत्यस्य केवलं प्रस्थानं न अर्थः, अपि तु गतिः अर्थः। गत्यर्थकस्य सकर्मकत्वम् अस्ति एव। एतादृशम् उदाहरणान्तरं यथा –
भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम्॥–(रघु – १२/१०४)
शिष्यः– श्रीमन्! एतादृशाः विषयाः ज्ञातव्याः एव वा?
आचार्यः – यथा स्फुरति तथा व्यवहारः इति तु सामान्यं चिन्तनम्। यथा वक्तव्यं तथा वदामि इति तुं लक्ष्यं स्यात्। तद्दृष्ट्या एतादृशं ज्ञानम् अपेक्षितम् एव। भाषायां प्रगतिः खलु निरन्तरं साधनीया?
पदानाम् अन्वयः
_________________________________________________________________________________________________
**शिष्यः–**श्रीमन्! संस्कृते वाक्येषु ये केऽपि शब्दाः यत्र कुत्रापि स्थापिताः चेदपि अर्थव्यत्यासः न भवति इति कश्चन वादः श्रूयते…..।
**आचार्यः–**आम्। ‘रामः शालां गच्छति’ इति वाक्ये त्रयः शब्दाः सन्ति खलु? तेषाम् आनुपूर्वी एवम् एव भवेत् इति न नियमः। ‘रामः गच्छति शालाम्’ ‘गच्छति रामः शालाम्’ ‘गच्छति शालां रामः’ ‘शालां गच्छति रामः’ ‘शालां रामः गच्छति’ इति एवं यथाकथम् अपि वक्तुं शक्नुमः।
**शिष्यः–**किन्तु पूर्वोक्तः नियमः सर्वत्र न अन्वेति खलु? तस्य नियमस्य अपवादाः बहवः सन्ति।
**आचार्यः–**भवता कुत्र अपवादः दृष्टः? एकम् उदाहरणं वदतु।
शिष्यः–‘रामस्य पुत्रः मित्रेण सह गच्छति’ इति वाक्ये ‘रामस्य’ इति पदं स्थानान्तरे स्थापयामः चेत् –तन्नाम ‘पुत्रः रामस्य मित्रेण सह गच्छति’ इति उक्तं चेत्– अर्थे भेदः दृश्यते।
आचार्यः– सम्यक् चिन्तितं भवता। षष्ट्यन्तस्य पदस्य स्थानं प्रायः परिवर्तयितुं न शक्नुमः।
शिष्यः– किमर्थम् एवम् ?
आचार्यः– संस्कृते षष्टीं विहाय इतरासां विभक्तीनां सम्बन्धः क्रियापदेन सह भवति। एकं वाक्यं पश्याम तावत् –‘रामः प्रातः काले द्विचक्रिकया गृहात् शालां वेगेन गच्छति’। अत्र वाक्ये गच्छति इति क्रियापदं प्रधानम्। तेन सह इतरेषांसम्बन्धः स्वातन्त्र्येण भवति।
एवं च क्रियापदेन सह यः सम्बन्धः भवति तद्बलात् सर्वेषां पदानां विभक्त्यर्थनिश्चयः भवति (न तु स्थानबलात्) इत्यतः यः कोऽपि शब्दः यत्र
कुत्रापि स्थापितः चेदपि तमेव अर्थं निरूपयति।
**शिष्यः–**षष्ट्याः क्रियापदेन सह सम्बन्धः नास्ति इति एतावता सिद्धम्।
**आचार्यः–**सम्यक् तर्कितं भवता। प्रायशः षष्ट्याः क्रियापदेन सह सम्बन्धः न भवति। (कुत्रचित् ‘कृष्णस्य कृतिः’ इत्यादिषु क्रियया सह सम्बन्धः भवति इति तु अन्यत् एतत्।) शब्दान्तरेण सह सम्बन्धः भवति। यत्र स्थानपरिवर्तनेन अन्यसम्बन्धकल्पनायाः अवसरः तत्र षष्ट्यन्तस्य पदस्य परिवर्तनं न शक्यते। भवता तादृशम् उदाहरणं प्रदर्शितम्।
शिष्यः– स्थानपरिवर्तनेन यत्र अर्थभेदः भवति तादृशम् अपरम् उदाहरणम् अस्ति वा?
आचार्यः– अव्ययानि –च, अपि, एव इत्यादीनि अपि स्थानपरिवर्तनं न सहन्ते। यथा–अहम् एव तत्र आगच्छामि’ इति वाक्ये एवकारं ‘तत्र’ इत्यस्य पुरतः स्थापयामः चेत् भिन्नः एव अर्थः सिध्यति। ‘आगच्छामि’ इत्यस्य पुरतः स्थापयामः चेत् अन्यः एव अर्थः दृश्यते।
शिष्यः– एतादृशम् अपरम् उदाहरणम्?
आचार्यः– एकस्मिन् वाक्ये बहव्यः क्रियाः भवन्ति चेत् तत्तत्क्रियासम्बद्धाः शब्दाः तत्तया क्रियया सहैव स्थापनीयाः। यथा–‘माता स्नानं कृत्वा पाकं करोति’ इति वाक्ये स्नानपाकयोः परस्परस्थानपरिवर्तनेन भिन्नः एव अर्थः सिध्यति।
शिष्यः– श्रीमन्, ‘कृत्वा’ इति पदं किं क्रियां द्योतयति?
आचार्यः– ज्ञातः भवतः सन्देहः। कृत्वा कर्तुम् इत्यादीनि अपि क्रियां द्योतयन्ति वा? इति चिन्तयन् अस्ति भवान्। तिङ्प्रत्ययसहितं (‘गच्छति’ इत्यादिकम्) पूर्णक्रियां द्योतयति। क्त्वान्तं (‘गत्वा’ इत्यादिकम्) पूर्वकालिकक्रियां द्योतयति। तुमुन्नन्तं (‘गन्तुम्’ इत्यादिकम्) क्रियार्थक्रियां द्योतयति। क्तिन्प्रत्ययान्तं (गतिः) ल्युट्प्रत्ययान्तं वा (गमनम्) लिङ्गसङ्ख्याविशिष्टतां बोधयति। एवम् अत्र सर्वत्र क्रिया तु द्योत्यते एव।
शिष्यः– एवं वा! तिङन्तपदं केवलं क्रियां द्योतयति, न तु अन्यत् इति भ्रमः आसीत मम।
******
वदधातुः ब्रूञ्धातुः च
_________________________________________________________________________________________________
**शिष्यः –**श्रीमन्! ‘वदति’ इति रूपस्य भविष्यत्कालरूपं वक्ष्यति इति, उत वदिष्यति इति?
**आचार्यः–**वदिष्यति इति।
शिष्यः – तस्यैव भूतकृदन्तरूपम् उक्तवान् इति, उत वदितवान् इति?
आचार्यः– उभयम् अपि न। उदितवान् इति।
शिष्यः – वक्तुम्, उक्त्वा इत्यादीनि वदधातोः एव खलु?
आचार्यः– न, वदधातोः तु वदितुम् उदित्वा इत्यादीनि रूपाणि।
शिष्यः – किं श्रीमन्? वदति– वक्तुम्, उक्त्वा, वदन्, उक्तवान्, वक्तव्यम् इत्यादीनि वदधातोः कृदन्तरूपाणि इति मया बाल्ये पठितं स्मर्यते खलु?
आचार्यः– बाल्ये पठितं स्मरतः भवतः स्मरणशक्तिः प्रशंसार्हा एव। किन्तु तानि कृदन्तरूपाणि वदधातोः तु न।
शिष्यः – एवं तर्हि मम अध्यापकः अशुद्धं पाठितवान् वा?
आचार्यः– प्रथमं वस्तुस्थितिं विवृणोमि, तत् अवधारयतु। ततः अग्रिमचिन्तनं भवतु।
* वद—व्यक्तायां वाचि इति एतस्य धातोः रूपाणि एतानि–
भविष्यति – वदिष्यति
तव्यत्प्रत्यये – वदितव्यम्
क्त्वाप्रत्यये – उदित्वा
क्तवतुप्रत्यये – उदितवान्
कर्मणि – उद्यते
तुमुन्प्रत्यये – वदितुम्
ल्युट्प्रत्यये – वदनम्
शतृप्रत्यये –वदन्
* ब्रूञ् – व्यक्तायां वाचि इति धातोः(वच-परिभाषणे इति धातोः वा) रूपाणि तु एवम् –
भविष्यति – वक्ष्यति
तव्यत्प्रत्यये – वक्तव्यम्
क्त्वाप्रत्यये –उक्त्वा
कर्मणि–उच्यते
तुमुन्प्रत्यये –वक्तुम्
ल्युट्प्रत्यये – वचनम्
क्तवतुप्रत्यये –उक्तवान् शतृप्रत्यये – ब्रुवन् (वचधातोः तु–वचन्)
एवं ब्रूञ्धातोः वदधातोः च रूपाणि। किन्तु बहूनाम् अत्रैव भ्रान्तिः। ब्रूञ्धातोः रूपाणि वदधातोः इति वदन्ति। उदितवान् उदित्वा इत्यादीनि रूपाणि न भवन्ति इति सधैर्यं प्रतिपादयन्ति अपि।
**शिष्यः –**श्रीमन्! एवं तर्हि बाल्ये मां यः पाठितवान् सः अध्यापकः अपि एवम् एव भ्रान्तः आसीत् इति मन्ये।
आचार्यः– तथा मा भावयतु। वस्तुतस्तु वदधातोः वदति, वदन्, वदिष्यति इत्यादीनि रूपाणि प्रसिद्धानि। तथैव ब्रूञ्धातोः उच्यते, वक्तव्यम्, उक्त्वा, उक्तवान् इत्यादीनि रूपाणि प्रसिद्धानि। धातुद्वयस्य अपि अर्थः समानः। अतः वाचा यत्र भावप्रकाशनं भवति तत्र प्रसिद्धिम् आश्रित्य यथासौकर्यं धातुद्वयस्य अपि रूपाणि स्वीकुर्वन्ति –प्रायः प्राथमिके स्तरे। भवतः अध्यापकः अपि एवम् एव कृतवान् स्यात्। किं तेन कण्ठतः उक्तं वा –‘वदधातोः एव उक्तवान्, उक्त्वा इत्यादीनि रूपाणि’ इति?
शिष्यः – न। यत्र वाचा भावप्रकाशनं भवति तत्र वदति, उक्तवान्, उक्त्वा, वक्तुम् इत्यादीनि रूपाणि इति तेन प्रयोगपुरस्सरं सोदाहरणं बोधितम् आसीत्। तत्सन्दर्भे तेन धातुविषयः एव न उक्तः। अनन्तरकाले मया वदति इत्यस्य क्रियापदस्य ‘वद्’ धातुः मूलम् इति ज्ञातम्। साहचर्यबलात् उक्तवान्, उक्त्वा इत्यादीनाम् अपि वदधातुः एव मूलम् इति मया तर्कितम्।
आचार्यः– स्वयं भ्रान्तः सन् अध्यापके भ्रान्तिम् आरोपयति खलु?
**शिष्यः –**आं, मया प्रमादः कृतः। दोषः तु मम तर्केआसीत्, न तु अध्यापकस्य बोधने। श्रीमन्! एकस्मिन् एव अर्थे कुत्रचित् वदधातोः कानिचन रूपाणि प्रसिद्धानि, पुनः कुत्रचित् ब्रूञ्धातोः रूपाणि। एवं किमर्थम्?
आचार्यः– प्रसिद्धेः कारणं किमिति वदाम? ‘निरङ्कुशाः कवयः’ इतिवत् ‘स्वतन्त्रः लोकः’। सौकर्यं चिन्तयता लोकेन एवं रूढिः कृता।
प्रत्यये ककारलोपः, णिजन्तात् णिच् च
_______________________________________________________________________________
**शिष्यः–**श्रीमन्! ज्ञात्वा त्यक्त्वा इत्यादिषु कः प्रत्ययः?
**आचार्यः–**क्त्वाप्रत्ययः। एषः तु प्राथमिकः अंशः। भवता पूर्वम् एव ज्ञातः स्यात् अपि।
शिष्यः– किन्तु ‘ज्ञात्वा’ इत्यादिषु रूपेषु तु ‘त्वा’ केवलं श्रूयते, न तु क्त्वा?
**आचार्यः–**आम्। प्रत्ययादौ स्थितस्य ककारस्य लोपः भवति। क्त, क्तवतु इत्यादिषु अपि एवम् एव।
शिष्यः– किमर्थं तथा लोपः करणीयः?
**आचार्यः–**पाणिनेः व्यवस्था तथा अस्ति। प्रत्ययेषु के के वर्णाः लुप्ताः भवन्ति इति तेन निर्दिष्टम् अस्ति।
शिष्यः– सिद्धे रूपे यस्य वर्णस्य दर्शनं न भवति तादृशस्य वर्णस्य प्रत्यये योजनेन किं प्रयोजनम्?
आचार्यः– एकैकस्य वर्णस्य लोपेन एकैकं प्रयोजनं भवितुम् अर्हति।
शिष्यः– ‘क्त्वा’ इत्यत्र ककारलोपेन किं प्रयोजनम्?
आचार्यः– भवान् गुणं वृद्धिं च जानाति खलु?
**शिष्यः–**आम्। ह्रस्वः अकारः, एकारः, ओकारश्च गुणः इति उच्यते13। आकारः, (दीर्घः अकारः) ऐ औ च वृद्धिः इति उच्यते14।
आचार्यः– ककारलोपयुक्तः प्रत्ययः यस्य परे भवति तस्य धातोः गुणः वृद्धिः वा न भवति15। यथा नीत्वा, मिलित्वा, क्रीत्वा इत्यादयः।
शिष्यः– एवं तर्हि ककारलोपरहितः प्रत्ययः यदा परे भवति तदा गुणः वृद्धिः वा भवतिखलु?
आचार्यः– आम्। तुमुन्प्रत्यये परे तादृशः विकारः दृश्यते। यतः तत्र ककारलोपः कोऽपि नास्ति। एतानि रूपाणि पश्यतु तावत्–
नीत्वा –नेतुम्
मिलित्वा –मेलितुम्
लिखित्वा –लेखितुम्
भूत्वा –भवितुम्
क्रीत्वा –क्रेतुम्
**शिष्यः –**नीत्वा, मिलित्वा इत्यादिषु गुणविकारः न दृश्यते। नेतुम्, मेलितुम् इत्यादिषु स च विकारः दृश्यते।
**आचार्यः–**एवम् एव क्त, क्तवतु इत्यादिषु परेषु अपि धातौ विकारः न दृश्यते। यथा–
नीतः / नीतवान्
मिलितः / मिलितवान्
लिखितः/ लिखितवान्
शिष्यः – तर्हि मेलयित्वा, लेखयित्वा इत्यादिषु यः गुणः (इकारस्य एकारः) दृश्यते सः किन्निमित्तकः?
आचार्यः– ‘मिलित्वा’ इत्येतस्य रूपस्य धातुः मिल्। ‘मेलयित्वा’ इत्यत्र तु धातोः अनन्तरं क्त्वाप्रत्ययात् पूर्वं प्रेरणार्थकः ‘णिच्’ योजितः। णिच्प्रत्ययकारणतः गुणः दृश्यते, न तु क्त्वाप्रत्ययकारणतः। ‘लेखयित्वा’ इत्यादिषु अपि एवम् एव।
शिष्यः – श्रीमन्! प्रसङ्गवशात् स्मृतं पृच्छामि –
रामः करोति। कृष्णः रामं करणे प्रेरयति –तन्नाम कृष्णः कारयति। एवं करोति इत्यस्य प्रेरणार्थकं रूपं कारयति इति। गोविन्दः कृष्णद्वारा रामं प्रेरयति चेत् क्रियापदरूपं किं भवति?
**आचार्यः–**णिजन्तात् णिच् कृतंचेत् किं रूपम् इति खलु भवतः प्रश्नः? तदा अपि कारयति इत्येव रूपम्।
शिष्यः – करोतेः प्रेरणार्थकं णिजन्तं रूपं कारयति इति। कारयतेः प्रेरणार्थकं णिजन्तं रूपम् अपि कारयति इत्येव?
आचार्यः– आम्। कारयति इति णिजन्तं रूपम्। तदूर्ध्वं यावत् वा णिच् योजयतु रूपं तुकारयति इत्येव।
शिष्यः – तदा अर्थनिर्णयः कथम्?
आचार्यः– सन्दर्भानुसारम् अर्थनिर्णयः क्रियते। यथा –
* कृष्णः रामेण कारयति– अत्र रामः कर्ता, कृष्णः च प्रेरकः।
* गोविन्दः कृष्णेन रामेण कारयति –अत्र रामः कर्ता, कृष्णः गोविन्दश्च प्रेरकौ।
आत्मशब्दस्य प्रयोगः
———————————————————————————————————————————
**शिष्यः –**श्रीमन्! ‘सः तस्य दोषं ज्ञातवान्’ इति वाक्यं शुद्धम्, उत ‘सः आत्मनः दोषं ज्ञातवान्’ इत्येतत्?
आचार्यः – भवान् एव विमृशतु। तच्छब्दस्य कः अर्थः?
शिष्यः – तच्छब्दः दूरस्थां व्यक्तिं बोधयति।
**आचार्यः –**एतत् तु स्पष्टं खलु? इदानीं वदतु — दोषः तस्यां व्यक्तौ एव भवति, उत ततः दूरे।
**शिष्यः –**तस्याम् एव व्यक्तौ भवति।
आचार्यः – एवं तर्हि ‘सः तस्य दोषं ज्ञातवान्’ इति वाक्यं कथं शुद्धं स्यात्? रामः इति कश्चित्। सः कृष्णनामकस्य दोषं जानाति। तृतीयः गोविन्दः वदति — “सः (रामः) तस्य (कृष्णस्य) दोषं ज्ञातवान्"इति। अत्र तु वाक्ये न कोऽपि दोषः। किन्तु ‘रामे दोषाः सन्ति, रामः एव ज्ञाता’ इत्ययं सन्दर्भः गोविन्देन उच्यते चेत्—“सः (रामः) आत्मनः (स्वस्य) दोषान् ज्ञातवान्” इत्येव वक्तव्यम्।
शिष्यः – श्रीमन् ! कर्तृपदं स्त्रीवाचकं चेत् कथं प्रयोगः?
**आचार्यः –**कर्तृपदं स्त्रीवाचकं चेदपि प्रयोगः एवम् एव।
शिष्यः – तन्नाम ‘सा आत्मनः दोषां ज्ञातवती इति’ प्रयोक्तव्यम् इति।
**आचार्यः –**अथ किम्? प्रयोगः तथैव। भवतः सन्देहः एव मास्तु।
शिष्यः – किं श्रीमन् ! ‘सा’ इति स्त्रीलिङ्गं पदम्। ‘आत्मा’ इति पुल्लिङ्गं पदम्।
**आचार्यः –**अलम् अलम्। ज्ञातः भवतः सन्देहः। एतद्विषये पूर्वं मया उक्तम् इति स्मरामि। ‘यल्लिङ्गं यद्वचनम् ..’ इति नियमः विशेष्यनिघ्नानां (विशेषणानां) विषये अन्वेति, न तु नियतलिङ्गानां विषये। आत्मशब्दः नित्यपुल्लिङ्गः। अतः कर्तृपदं यस्मिन् कस्मिन् वा लिङ्गे भवतु, आत्मशब्दस्तु पुल्लिङ्गे एव भवति।
शिष्यः –‘अहं मम दोषं ज्ञातवान्’ ‘अहम् आत्मनः (स्वस्य) दोषं ज्ञातवान्’ इत्यनयोः कतरत् वाक्यं शुद्धम्?
**आचार्यः –**उभयम् अपि शुद्धम् एव। पूर्वोक्ते भवतः उदाहरणे तच्छब्दः दूरस्थं निर्दिशति स्म। अत्र तु अस्मच्छब्दः (मम) आत्मशब्दः च समानां व्यक्तिं बोधयतः। अतः ‘अहं मम दोषं ज्ञातवान्’ इति, ‘अहम् आत्मनः दोषं ज्ञातवान्’ इति वा वक्तुं शक्यते।
शिष्यः – श्रीमन्! ‘ते आत्मनां दोषं ज्ञातवन्तः’ इति प्रयोगः उचितः, उत ‘ते आत्मनः दोषं ज्ञातवन्तः’ इति?
आचार्यः –‘ते आत्मनः दोषं ज्ञातवन्तः’ इति प्रयोगः एव उचितः।
**शिष्यः –**कर्तृपदं बहुवचने अस्ति। अतः आत्मशब्दस्य अपि बहुवचनम् एव युक्तं खलु?
आचार्यः – तथा न। एतादृशे सन्दर्भे एकवचनेन प्रयोगः एव शिष्टानां व्यवहारः। तदनुगुणं खलु अस्माभिः व्यवहरणीयम्? अतः अस्मिन् अर्थे आत्मशब्दः सर्वदा एकवचनेन एव प्रयोक्तव्यः।
शिष्यः – पाणिनिसूत्रानुग्रहः, भाष्यकारवचनं वा एतद्विषये किमपि अस्ति वा?
आचार्यः – अस्ति वा न वा इति अहं तु स्पष्टं न जानामि। प्रमाणत्वेन परिगण्यमानाः प्रसिद्धाः वैयाकरणाः चारुदेवशास्त्रिणः एतद्विषये एवं वदन्ति16—
“आत्मशब्दप्रयोगः अपि एकत्वे एव दृश्यते, बहुत्वेऽपि व्यक्तीनाम्। तद्यथा भारते प्रयोगः — मन्यन्ते सन्तमात्मानम् असन्तमपि विश्रुतम्। (प्रजागरपर्वणि ३४/४५) बहुधा च प्रयुञ्ज्महे — अज्ञाः आत्मानं कृतिनं मन्यन्ते इति। एकः आत्मा इति पक्षे एकवचनम् उपपन्नम् एव। नानात्मानः इति नैयायिकादीनां पक्षे अपि एकवचनं न अयुक्तम्। प्रत्येकं वाक्यपरिसमाप्तेः। अज्ञाः प्रत्येकम् आत्मानं कृतिनं मन्यन्ते इत्यर्थात्।”
शिष्यः – आत्मशब्दस्थाने स्वशब्दस्य प्रयोगः क्रियते खलु? तस्यापि एकवचनेन एव प्रयोगः वा?
आचार्यः – आम्। ‘ते स्वस्य दोषं ज्ञातवन्तः’ इत्येव प्रयोगः। पूर्वप्रस्तुताः चारुदेवशास्त्रिणः एतद्विषये वदन्ति — ‘अत्र स्वेषाम् इति वदन् बाढं भवत्यपशब्दभाक्’ इति।
‘शक्यते’ इत्यत्र….
———————————————————————————————————————————
**शिष्यः –**श्रीमन्! ‘शक्लृ’ धातुः (शक्नोति–इति वर्तमानकाले प्रथमैकवचने)सकर्मकः, उत अकर्मकः?
आचार्यः – मां किमर्थं पृच्छति एतद्विषये? सकर्मकाकर्मकत्वनिर्णये समर्थः खलुभवान्? अतः भवान् एव विचिन्त्य वदतु तावत्।
शिष्यः – कं/कां/किं शक्नोति? इति प्रश्नस्य उत्तरं नास्ति। अतः शक्लृधातुःअकर्मकः। सत्यं खलु?
आचार्यः – आम्। शक्लृधातुः अकर्मकः एव।
**शिष्यः –**प्रयोगभेदात् सकर्मकाकर्मकत्वेव्यवस्थायां व्यत्यासः भवति वा? तन्नामकर्तरिप्रयोगे कश्चन धातुः अकर्मकः सन् कर्मणिप्रयोगे सकर्मकः भवितुम्अर्हति वा?
**आचार्यः –**सकर्मकाकर्मकत्वव्यवस्थायाः प्रयोगस्य च कोऽपि सम्बन्धः नास्ति।कश्चित् धातुः सकर्मकः चेत् सः प्रयोगद्वये (कर्तरि कर्मणि च) अपि सकर्मकःएव। अकर्मकः चेत् अपि कर्तरि भावे चापि अकर्मकः एव। तदस्तु तावत्, एवंबहुधा प्रश्नं किमर्थं पृच्छन् अस्ति? कुत्र भवतः सन्देहः?
शिष्यः – ‘प्रयत्नः कर्तुं शक्यते’ इति कुत्रचित् प्रयोगः दृष्टः। प्रयत्नशब्दः द्वितीयान्तःयदि प्रयुक्तः स्यात् (‘प्रयत्नम्’ इति) तर्हि तस्य अन्वयः ‘कर्तुम्’ इत्यनेन इतिवक्तुं शक्यम् अभविष्यत्। किन्तु ‘प्रयत्नः’ इति प्रयोगः कृतः। अतः तस्यअन्वयः शक्यते इत्यनेन एव। तथा चेत् शक्यते इत्यस्य सकर्मकत्वम्अङ्गीकरणीयं भवति।
आचार्यः – सुसूक्ष्मं चिन्तितं भवता। शक्लृधातुः एकः एव मया अपि दृष्टः, यश्च
प्रयोगभेदात् सकर्मकत्वं प्राप्नोति इति। किमर्थम् एवं भवति इत्यस्य उत्तरम्अहम् अपि न जानामि। अभिज्ञाः शास्त्रतत्त्वज्ञाः प्रष्टव्याः।
**शिष्यः –**श्रीमन् ! ‘प्रयत्नः कर्तुं शक्यते’ इत्यादयः प्रयोगाः प्रामादिकाः कुतो वा न स्युः?शक्लृधातोः कर्तरि अकर्मकत्वात् तस्य कर्मणि सकर्मकत्वस्यअङ्गीकारापेक्षया, तादृशस्य प्रयोगस्य प्रामादिकत्वाङ्गीकारः एव उचितःभवेत् खलु?
**आचार्यः–**यदि अस्मदादीनां प्रयोगः स्यात् तर्हि स च प्रयोगः प्रामादिकः इति वक्तुंशक्येत। किन्तु अप्पय्यदीक्षिताः
लिखन्ति17— पूजयितुं शक्यते हरिः हरिं वाइति उभयं साधु इति।
कैयटः लिखिति18—‘क्षुत् प्रतिहन्तुं शक्या / शक्यम् इति, क्षुदं प्रतिहन्तुः’शक्यम् इति वा’ इति।
अतः एतादृशाः प्रयोगाः प्रामादिकाः तु न।
**शिष्यः –**श्रीमन् ! एवं तर्हि—
प्रयत्नः कर्तुं शक्यते, प्रयत्नं कर्तुं शक्यते
हरिः पूजयितुं शक्यते, हरिं पूजयितुं शक्यते।
इत्यादिरूपेण उभयथा अपि वक्तं शक्नुमः?
आचार्यः– निश्चयेन।
**शिष्यः –**तदा कथम् अन्वयः?
आचार्यः– ‘प्रयत्नः कर्तुं शक्यते’ इत्यत्र प्रयत्नशब्दस्य शक्यते इत्यनेन (शाब्दः)अन्वयः। ‘प्रयत्नं कर्तुं शक्यते’ इत्यत्र तु प्रयत्नशब्दस्य तुमुन्नन्तेन अन्वयः,तुमुन्नन्तस्य कर्मत्वेन शक्यते इत्यत्र अन्वयः। एवं च न कोऽपि क्लेशः।
भूतकृदन्तविषये पुनश्चिन्तनं किञ्चित्
———————————————————————————————————
शिष्यः – श्रीमन् ! अहं पूर्वं पृष्टवान् आसं यत् ……।
आचार्यः– तद्विषये पुनरिपि प्रष्टव्यम् अस्ति? तथा चेत् अवश्यं पृच्छतु भोः। किमर्थंसङ्कोचः? कदाचित् मम निरूपणे अस्पष्टता आगता स्यात्। अथवाभवता नूतनः सन्देहः प्राप्तः स्यात् अपि। अतः बोधितस्य विषये पुनःसन्देहप्रकटनं न अनुचितम्। निस्सङ्कोचं पृच्छतु।
शिष्यः – अस्माभिः ‘रामः अगच्छत्’ इत्यस्मिन् अर्थे ‘रामः गतवान्’ इति प्रयोगः सर्वदाक्रियते।
**आचार्यः–**भूतकाले भूतकृदन्तस्य (क्तवतुप्रत्ययान्तस्य) प्रयोगः क्रियते। अत्र अनौचित्यंकिमपि नास्ति खलु?
**शिष्यः –**पूर्वम् अहं भवता बोधितः। तथापि तेन तृप्तिः न जाता मम।
आचार्यः– कोऽपि सन्देहः इतोऽपि अवशिष्टः। अतः तृप्तिः न दृश्यते। सः सन्देहः कःइति वदतु।
शिष्यः – ‘रामः गतवान्’ इत्यत्र ‘गतवान्’ इति पदात् ‘गमनकर्ता’ इत्यर्थः ज्ञायते, न तुक्रियामात्रम्। अतः अगच्छत् इत्यर्थे गतवान् इति प्रयोगः कथं साधुः स्यात्?
आचार्यः– अहं पूर्वम् एव उक्तवान् आसं खलु — तयोः शब्दबोधे वैलक्षण्यम् अस्ति इतितु सत्यम् एव इति?
तथापि प्राचीनकालात् अपि तयोः अभेदेन व्यवहारः दृश्यते। गतवान् इत्यस्यविवरणम् अगच्छत् इति पदेन, अगच्छत् इति पदस्य विवरणं च गतवान् इति
पदेन च कुर्वन्ति। क्रियापदस्थाने कृदन्तरूपप्रयोगः तु सर्वैः (कविभिः शास्त्रकारैः चापि) स्वेच्छया कृतः एव।
शिष्यः – श्रीमन्! अगच्छत्–गतवान् इत्यनयोः सूक्ष्मः भेदः अस्ति एव। तथापि अगच्छत् इत्यस्य स्थाने गतवान् इति प्रयोगः कथम् आगतः?
आचार्यः– ‘रामः अगच्छत्’ इत्यत्र वक्त्रा अंशद्वयम् वक्तव्यत्वेन इष्टम्। तच्च — कर्तृत्वं, भूतकालविशिष्टं गमनम् (उत्तरदेशसंयोगानुकूलः व्यापारः)। एतत् अंशद्वयं ‘रामः गतवान्’ इत्यनेन अपि ज्ञायते एव। अतः एव भूतकाले ‘गतवान्’ इत्यस्य कृदन्तस्य प्रयोगः अपि व्यवहारे आगतः।
**शिष्यः –**श्रीमन् ! गतवान् इत्यत्र गमनक्रियाश्रयत्वं द्योत्यते खलु?
आचार्यः– पश्यतु। अगच्छत् इत्यत्र, गतवान् इत्यत्र च कर्तृत्वं व्यापारः चेति अंशद्वयं द्योत्यते एव। अगच्छत् इत्यत्र व्यापारः प्रधानः, कर्तृत्वं गौणम्। गतवान् इत्यत्र तु कर्तृत्वं प्रधानं, व्यापारः गौणः। एषः एव तयोः वास्तविकः भेदः। किन्तु गुणप्रधानभावः वैपरीत्येन अपि वक्तुं शक्यते व्याकरणशास्त्रे। एतद्विषये भाष्यकारः वदति—“यथेष्टम् अभिसम्बन्धो भवति। विशेषणविशेष्यभावे कामचारः” इति। अतः अगच्छत् इति स्थले गतवान् इति प्रयोगे कृते व्याकरणदृष्ट्या न कोऽपि दोषः।
शिष्यः – श्रीमन् ! वस्तुस्थितिः एवं चेत् अपि केचन भूतकृदन्तप्रयोगविषये किमर्थम् अनादरं प्रकटयन्ति?
**आचार्यः–**यदि शैलीदृष्ट्या कश्चित् अनादरं प्रकटयति तर्हि तत् अस्माभिः सोढव्यम्। तिङन्तरूपस्य प्रयोगेण सौन्दर्यम् अधिकम् इति तस्य चिन्तनं भवितुम् अर्हति। किन्तु असाधुत्वं चिन्तयन् कश्चित् अनादरं प्रकटयति चेत् एतावत् वक्तव्यं भवति यत् तेन इतोऽपि ज्ञातव्यम् अस्ति इति। तदस्तु तावत्, गभीरः एषः विषयः भवति नीरसताम् अजनयत् ननु?
शिष्यः – न श्रीमन् ! एतेन चिन्तनेन नितरां सन्तुष्टः अस्मि अहम्।
कर्तरि क्तप्रत्ययः
———————————————————————————————————————————
**शिष्यः–**श्रीमन्! अहम् अद्य कस्मिंश्चित् पुस्तके कञ्चन श्लोकं पठन् आसम्।‘श्लोकस्य विवरणसन्दर्भे ‘गतः — अत्र कर्तरि क्तप्रत्ययः’ इति लिखितम्आसीत्। एतस्य वाक्यस्य तात्पर्यं मया सम्यक् न गृहीतम्।
**आचार्यः –**कर्तरि क्तः इत्यस्य तात्पर्यं ज्ञातव्यं वा भवता? ततः पूर्वं मम प्रश्नः —भवान् कर्मणिप्रयोगं भावेप्रयोगं च जानाति वा? इति।
**शिष्यः–**जानामि एव। ‘मया पुस्तकं पठ्यते’ इति कर्मणिप्रयोगस्य उदाहरणम्। ‘पुष्पेणपत्यते’ इति भावेप्रयोगस्य उदाहरणम्। कर्मणिप्रयोगे क्रियापदं सकर्मकंभवति, भावेप्रयोगे च क्रियापदम् अकर्मकं भवति इति अनयोः भेदः।
आचार्यः – भवता उक्तयोः वाक्ययोः भूतकालरूपं वदतु।
शिष्यः– मया पुस्तकम् अपठ्यत — कर्मणि भूतकाले
पुष्पेण अपत्यत — भावे भूतकाले।
आचार्यः –‘अपठ्यत’ इत्यस्य स्थाने ‘पठितम्’ इति, ‘अपत्यत’ इत्यस्य स्थाने ‘पतितम्’इति च प्रयोगः कर्तुं शक्यते।
**शिष्यः–**आं, जानामि। ‘रामेण पुस्तकं पठितम्’ ‘पुष्पेण पतितम्’ इत्यादयः प्रयोगाः एवअधिकतया क्रियन्ते अस्माभिः।
आचार्यः – पठितः/पठिता/पठितम्, पतितम् इत्यादीनि रूपाणि क्तप्रत्ययान्तानि। एवंतर्हि …..
शिष्यः– कर्मणि भावे च क्तप्रत्ययः प्रयोक्तुं शक्यः इति सिद्धम्।
**आचार्यः –**आम्। ‘रामः गतः’ ‘वृष्टिः आगता’ ‘यानं गतम्’ इत्यादयः प्रयोगाः श्रुताः वा?
शिष्यः– अवश्यंश्रुताः। तथैव प्रयुक्ताः अपि।
आचार्यः – गतादिषु अपि प्रत्ययः ‘क्तः’ एव। किन्तु रामः गतः इतिवत् रामः पठितः,रामः लिखितः इत्यादयः प्रयोगाः न करणयाः।
शिष्यः– कथम् एतत् ? तात्पर्यं मया सम्यक् न गृहीतम्। कर्मणि भावे च क्तप्रत्ययःभवति इति ज्ञातम्। गतः/गता/गतम् इत्यादिषु अपि क्तप्रत्ययः प्रयुज्यतेइत्यपि ज्ञातम्।
**आचार्यः–**तिष्ठतु तावत्, विस्तरेण कथयामि। अधस्तनानि चत्वारि वाक्यानिपरिशीलयतु–
I. रामः पुस्तकम् अपठत् –सकर्मककर्तरिप्रयोगः
II. रामेण पुस्तकम् अपठ्यत –कर्मणिप्रयोगः
III. पुष्पम् अपतत् –अकर्मककर्तरिप्रयोगः
IV. पुष्पेण अपत्यत –भावेप्रयोगः
कर्मणिप्रयोगे (II), भावेप्रयोगे (III), अकर्मककर्तरिप्रयोगे (IV) च सर्वत्रक्तप्रत्ययः कर्तुं शक्यः। किन्तु सकर्मककर्तरिप्रयोगे (I) सर्वत्र क्तप्रत्ययः नभवति। यदि धातुः गत्यर्थकः19तर्हि एव क्तप्रत्ययः, इतरत्र न। यथा – रामःशालां गतः।
रामः पुस्तकं पठितः इति तु न प्रयोक्तव्यम्। यतः पठ्धातुः सकर्मकः,गत्यर्थकः न। अतः तस्य कर्तरि क्तप्रत्ययः न भवति।
**शिष्यः–**एवं तर्हि सकर्मककर्तरिप्रयोगे क्तप्रत्यययोजनसन्दर्भे अस्माभिः जागरूकैःभवितव्यम्। गत्यर्थकत्वम् अस्ति चेदेव क्तप्रत्ययः तत्र करणीयः, अन्यथान।
**आचार्यः–**आम्। एतावदेव तात्पर्यम्। वयं कर्तरि क्तवतुप्रत्ययम् अपि उपयुञ्ज्महेक्रियापदस्थले। अतः एवं रूपाणि–
* सकर्मककर्तरिप्रयोगे–
(i) गत्यर्थकत्वे – अगच्छत् / गतवान् / गतः।
(ii) गत्यर्थकाभावे–अपठत् / पठितवान्।
* अकर्मककर्तरिप्रयोगे – अपतत् / पतितवान् / पतितम्।
* कर्मणिप्रयोगे–अपठ्यत / पठितम्।
* भावेप्रयोगे – अपत्यत / पतितम्।
**शिष्यः–**एतया चर्चया बहुधा उपकृतोऽस्मि श्रीमन्।
**आचार्यः–**अग्रिमे मेलने एतद्विषये कांश्चन प्रश्नान् पृच्छामि। अस्तु वा?
**शिष्यः–**अवश्यं पृच्छतु। अहं तदर्थं सिद्धः।
गत्यर्थकत्वनिर्णयः
———————————————————————————————————————————
आचार्यः – वत्स! कर्तरि क्तप्रत्ययः मया बोधितः खलु? तस्य सारं वदतु।
**शिष्यः –**सकर्मककर्तरिप्रयोगे भूते क्तप्रत्यययोजनसन्दर्भे जागरूकता अपेक्षिता।धातुः गत्यर्थकः चेदेव भूते क्तप्रत्ययः योजनीयः। अन्यथा न। किन्तुइतरत्र—तन्नाम अकर्मककर्तरिप्रयोगे, कर्मणिप्रयोगे, भावेप्रयोगे च—सर्वत्र क्तप्रत्ययः कर्तुं शक्यते।
आचार्यः – एषः विषयः सुस्पष्टम् अवगतः अस्ति भवता। इदानीं मम अग्रिमः प्रश्नः —‘धातोः गत्यर्थकत्वं कथं जानाति भवान्?’ इति।
शिष्यः – कथम् इति? धात्वर्थनिर्देशः प्राचीनैः कृतः। यत्र यत्र तैः गतिः इति अर्थःनिर्दिष्टः ते सर्वे गत्यर्थकाः। यथा —गम्लृ -गतौ (गच्छति), अट-गतौ (अटति), सृ-गतौ (सरति), चल-गतौ (चलति) इत्यादयः।
आचार्यः – युक्तम् उत्तरं दत्तं भवता। तर्हि मम अपरः प्रश्नः—‘रामः गृहं प्राप्तः’ इतिवाक्यं शुद्धम्, उत अशुद्धम्?
शिष्यः – प्राप्तः इत्यत्र क्तप्रत्ययः। प्राप्नोतेः सकर्मकत्वम्। किन्तु गत्यर्थकत्वं नास्ति।अतः ‘रामः गृहं प्राप्तः’ इति अशुद्धम्। ‘रामः गृहं प्राप्तवान्’ इत्येववक्तव्यम्। एवं ननु?
**आचार्यः –**भवतः चिन्तनरीतिः युक्ता। किन्तु ‘रामः गृहं प्राप्तः’ इति वाक्यं शुद्धम् एव।
**शिष्यः –**तत् कथम्?
**आचार्यः –**प्राप्तिः गमनं विना न सम्भवति खलु? गमनपूर्विका एव हि प्राप्तिः। अतःप्राप्नोतेः अपि गत्यर्थकत्वम् एव अङ्गीक्रियते अस्माभिः। तत्कारणतः तस्यसकर्मकत्वेऽपि गत्यर्थकत्वात् कर्तरि क्तप्रत्ययः।
**शिष्यः–**अत्र प्रमाणं किम् अस्ति श्रीमन्?
**आचार्यः–**प्राचीनाः प्रयोगाः, शास्त्रकाराणां वचनानि च। यथा—
* प्राप्तावेकरथारूढौ पृच्छन्तौ त्वामितस्ततः।–वेणीसंहारे (५-२५)
* प्राप्ता वयं पर्वतसार्वभौमम्।–यादवाभ्युदये (१८-३३)
* गङ्गां प्राप्तः - ‘आप्लृ व्याप्तौ’ उपसर्गवशात् गतौ वर्तते।–बालमनोरमाटीका
* प्राप्तम् उदकं यं सः प्राप्तोदको ग्रामः।–सिद्धान्तकौमुदी
शिष्यः– श्रीमन्! एतादृशः अन्यः धातुः अस्ति वा?
आचार्यः– आम्।प्रविशति इत्यत्र अपि एवम् एव। गमनपूर्वकं प्रवेशः भवति इत्यतःप्रविशतेः गत्यर्थकत्वम्। अतः ‘गृहं प्रविष्टः’ इति वक्तुं शक्नुमः वयम्।अत्र कविप्रयोगः यथा—
स्वस्यैव तन्व्या हृदयं प्रविष्टः।–नैषधीयचरितम् ( ६-३०)
‘प्रतिष्ठते’ इत्यत्र गत्यर्थकत्वात्सकर्मकत्वम् इति मया पूर्वं कदाचित् उक्तम्आसीत् खलु? अतः ‘नगरं प्रस्थितः’ ‘ग्रामं प्रस्थितः’ इत्यादयः प्रयोगाःभवन्ति।
शिष्यः– श्रीमन्! गत्यर्थाभावे अपि ‘प्रस्थितः’ इति रूपं कर्तरि भवति एव खलु? यतःतस्य अकर्मकत्वम् अस्ति। अकर्मकाश्च कर्तरि क्तप्रत्ययं प्राप्नुवन्ति एव।
**आचार्यः–**एवं प्रकरणबलात् अपि गत्यर्थकत्वं निर्णेतव्यं भवति। अतः ‘सकर्मकस्थलेअत्र कर्तरि क्तप्रत्ययः भवति, उत न’ इति निर्णयात् पूर्वं गत्यर्थकत्वं,गत्यर्थकसम्बन्धः वा अस्ति किम् इति प्रथमं द्रष्टव्यम्। अन्यथा निर्दुष्टम्अपि प्रयोगं दुष्टम् इति भावयेम वयम्।
‘जितः’–कर्तरि न
———————————————————————————————————————————
आचार्यः – वत्स! ‘अ’ ‘ब’ इति पक्षद्वयम् अस्ति इति चिन्तयतु। तयोः मध्ये स्पर्धाप्रचलति। ‘अ’पक्षः जयं प्राप्नोति। ‘ब’पक्षः च पराजयं प्राप्नोति। एवं तर्हि— ‘ब’पक्षः = पराजितः, ‘अ’पक्षः = ?
शिष्यः–‘अ’पक्षः = जितः।
आचार्यः – मया यथा चिन्तितं तथैव उक्तवान् भवान्। वस्तुतः तु ‘जयं प्राप्तवान्’ इत्यर्थे’जितः’ इति प्रयोगः दोषाय।
शिष्यः– तर्हि किमिति प्रयोक्तव्यम्?
आचार्यः – ‘जितवान्’ इति क्तवतुप्रत्ययान्तं रूपं प्रयोक्तव्यं, न तु ‘जितः’ इतिक्तप्रत्ययान्तम्।
शिष्यः– किमर्थम् एवम्? ‘जितः’ इति प्रयोगे कृते कः दोषः?
आचार्यः – ‘जयं प्राप्तवान्’ इत्यर्थे खलु भवता ‘जितः’ इति प्रयुक्तम्? अत्र क्तप्रत्ययःकस्मिन् अर्थे?
शिष्यः– कत्रर्थे। यतः स च कर्तरिप्रयोगः।
आचार्यः – जिधातुः सकर्मकः, उत अकर्मकः?
शिष्यः– ‘संस्कृतभाषा जयति’ इत्यत्र अकर्मकत्वं भासते। ‘रामः रावणं जयति’ इत्यत्रसकर्मकत्वं दृश्यते।
आचार्यः – वस्तुतः जिधातुद्वयम् अस्ति। जि-जये इत्येकः। जि-अभिभवे इत्यपरः। जयःनाम उत्कर्षः। एतदर्थकः जिधातुः अकर्मकः। ‘संस्कृतभाषा जयति’ इत्यस्यअर्थः — ‘संस्कृतभाषा सर्वोत्कर्षेण वर्तते’ इति।
अभिभवः नाम न्यूनीकरणम्। एतदर्थकः जिधातुः सकर्मकः।उदाहरणं तु— रामः रावणं जयति इति।
शिष्यः – अवगतः अयम् अंशः।
**आचार्यः–**स्पर्धा-युद्धादिषु सकर्मकस्य जिधातोः (जि-अभिभवे इत्यस्य) प्रयोगःभवति। सकर्मकधातवः सर्वे कर्तरि क्तप्रत्ययं न अर्हन्ति इति जानाति खलुभवान्?
शिष्यः – आम्। सकर्मकेषु गत्यर्थकाः केवलं कर्तरि क्तप्रत्ययम् अर्हन्ति, न इतरे।
आचार्यः– एतत्सन्दर्भे जिधातुः सकर्मकः। किन्तु गत्यर्थकः न। तथापि क्तप्रत्ययःकृतः। अतः दोषः। ‘अ’पक्षः जितः इति अयं कर्मणिप्रयोगः चेत् साधुः। तदा तु’ब’पक्षेण इति तृतीयान्तस्य पदस्य अध्याहारः क्रियते। तदा अर्थः तु—‘अ’पक्षः पराजयं प्राप्नोत्, ‘ब’पक्षः जयं प्राप्नोत् इति भवति। अयं विपरीतःअर्थः अत्र न अभिप्रेतः।
शिष्यः – ‘अहं जितः’ इति उच्यते चेत् ‘अहं पराजयं प्राप्तवान्, मम प्रतिस्पर्धी जयंप्राप्तवान्’ इत्यर्थः सिद्ध्यति इति?
**आचार्यः–**आम्। तत्र सन्देहः एव मास्तु भवतः।
शिष्यः – श्रीमन्! जिधातुः अकर्मकः अपि कश्चन अस्ति खलु? स एव अत्र अभिप्रेतः, नतु सकर्मकः इति वदामि अहम्। अकर्मकः धातवः कर्तरि अपि क्तप्रत्ययंप्राप्नुवन्ति एव। अतः ‘जयं प्राप्तवान्’ इत्यर्थे ‘जितः’ इति प्रयोगः साधुः एवइति कुतो वा न वक्तव्यम्?
**आचार्यः–**तन्नाम ‘जि-जये’ इत्यस्य अकर्मकधातोः प्रयोगः अत्र इति वक्तव्यम् इति?तथा चेत् ‘जितः’ इति रूपं कर्तरि साधु भवेत्। किन्तु तादृशः अर्थः अत्र नअभिप्रेतः खलु? स्पर्धायाम् अन्यस्य पक्षस्य न्यूनीकरणं भवति। अतः तत्रसकर्मकः जिधातुः इत्येव वक्तव्यं भवति। सकर्मकत्वे कर्तरिक्तप्रत्ययः तस्यदुर्लभः एव। अतः कथमपि वयम् ’ अहं जितः’ इत्यादीन् प्रयोगान् समर्थयितुं नशक्नुमः।
पुराणम् इत्येव न साधु सर्वम्
———————————————————————————————————
शिष्यः– श्रीमन्! ‘जि’ धातुः परस्मैपदी खलु?
आचार्यः– आम्। जिधातुद्वयम् अस्ति –जि-जये, जि-अभिभवे चेति। तदुभयम् अपिपरस्मैपदि एव।
**शिष्यः–**तदुभयम् अपि आत्मनेपदि उभयपदि वा न खलु?
**आचार्यः–**तयोः परस्मैपदित्वम् एव इत्यत्र सन्देहः एव नास्ति।
**शिष्यः–**एवं तर्हि ‘जयते’ इति प्रयोगः कृतः चेत् दोषाय एव खलु?
**आचार्यः–**निश्चयेन।
शिष्यः– तर्हि ‘सत्यमेव जयते’ इति वाक्यं किं शुद्धम्?
आचार्यः– एतदर्थं वा भवतः एतावन्तः प्रश्नाः? भोः, सत्यमेव जयते इति वैदिकंवाक्यम्। वैदिकप्रयोगेषु लौकिकं व्याकरणं सर्वत्र अन्वेति इति न। ‘सत्यमेवजयते’ इति वैदिकं वाक्यं तु शुद्धम् एव।
शिष्यः– तर्हि तत् वाक्यम् अनुकुर्वद्भिः अस्माभिः व्यवहारे ‘जयते’ इति प्रयोगः कर्तुं नशक्यते।
**आचार्यः–**आम्। केभ्यश्चित् वर्षेभ्यः पूर्वं सर्वकारेण एकं घोषणावाक्यं प्रयुक्तम्आसीत् –‘श्रम एव जयते’ इति। किन्तु केनचित् पण्डितेन स्मारितम् इतिभाति। अल्पे एव काले ‘श्रम एव जयति’ इति वाक्ये परिवर्तनम् आनीतम् इतिस्मरामि।
शिष्यः– श्रीमन्! वैदिकव्याकरणं लौकिकव्याकरणात् तत्र तत्र भिन्नः भवति इत्यतःवैदिकप्रयोगाणाम् अनुकरणे जागरूकता आश्रयणीया। एवं खलु?
आचार्यः– न केवलं वैदिकप्रयोगाणां विषये एषा धारणा, प्राचीनप्रयोगाणाम् अनुकरणेअपि कदाचित् जागरूकता अपेक्षिता भवति। अन्यथा अस्माभिः दोषः कृतःभवेत्।
शिष्यः– उदाहरणम्?
आचार्यः– ‘न विश्वसेत् अविश्वस्तं विश्वस्तं नातिविश्वसेत्’ इति प्रयोगः श्रुतः भवताइति भावयामि। अत्र ‘विश्वसेत्’ इति क्रियापदरूपं प्रयुक्तम्। एतस्यअनुकरणम् अस्माभिः न करणीयम्। ‘विश्वस्येत्’ इति प्रयोगः करणीयः।यतः स च धातुः चतुर्थगणीयः।
शिष्यः– एवं तर्हि ‘विश्वसेत्’ इति प्रयोगं कुर्वता कविना दोषः कृतः इति?
**आचार्यः–**एतादृशे सन्दर्भे आर्षप्रयोगात् (ऋषितुल्यैः प्रयोगः कृतः इत्यतः) तत्रसाधुत्वम् अङ्गीकुर्मः। किन्तु एतस्य रूपस्य अनुकरणं कुर्वता लोके केनापितादृशः प्रयोगः कृतः चेत् स च दोषाय एव।
शिष्यः– अपरं किमपि उदाहरणम्?
आचार्यः– पिता रत्नाकरो यस्य लक्ष्मीर्यस्य सहोदरी।
शङ्खो रोदिति भिक्षार्थी फलं भाग्यानुसारतः॥
इत्यस्मिन् श्लोके ‘सहोदरी’ इति प्रयोगः कृतः। व्यवहारे ‘सहोदरा’ इत्येवप्रयोक्तव्यम्।
शिष्यः–‘सहोदरी’ इति रूपम् असाधु?
**आचार्यः–**तथैव वक्तव्यं भवति। यतः कथम् अपि तस्य रूपस्य साधुत्वकथने प्रमाणं नपश्यामः वयम्। तदस्तु भवान् ‘रामाय रामभद्राय’ इति श्लोकं जानातिखलु?
**शिष्यः–**आम्। रामाय रामभद्राय रामचन्द्राय वेधसे।
रघुनाथाय नाथाय सीतायाः पतये नमः॥
इति पूर्णपाठः।
**आचार्यः–**अत्र पतये इति प्रयुक्तम्। वस्तुतः तु पतिशब्दस्य चतुर्थीविभक्त्यन्तं रूपंपत्यै इति। समासे तु - रमापतये, सीतापतये - इत्यादीनि रूपाणि भवन्ति।केवलस्य पतिशब्दस्य चतुर्थ्यन्तं रूपं तु ‘पत्यै’ इत्येव।
शिष्यः– सत्यं खलु! एतानि सर्वाणि दोषस्थानानि एव।
**आचार्यः–**एतादृशानि स्थानानि बहूनि न स्युः। तथापि श्लोकानां प्रसिद्धिकारणतःभ्रान्ताः वयं साधुत्वविषये चिन्तनम् अकृत्वा प्रयोगम् अनुकुर्मः कदाचित्,दोषभागिनः च भवामः।
शिष्यः– ‘पुराणमित्येव न साधु सर्वम्’ इति कालिदासेन युक्तम् उक्तम्।
चित् चन इत्येतयोः अर्थः
———————————————————————————————————————————
**शिष्यः–**श्रीमन्! चित्-चन इत्येतयोः कः अर्थः?
**आचार्यः–**अनिर्दिष्टार्थकत्वं तयोः।
शिष्यः– तयोः अर्थभेदः कोऽपि अस्ति वा?
**आचार्यः–**न। ‘चित्’ इत्यस्य यः अर्थः स एव अर्थः ‘चन’ इत्यस्य अपि।
शिष्यः– तौ किं प्रत्ययौ?
आचार्यः– न, तदुभयम् अपि अव्ययम्। प्रश्नवाचकेन युक्तं तदुभयम् अनिर्दिष्टार्थकत्वंद्योतयति।
शिष्यः– कश्चत्, काचित्, केनचित् कस्यैचित् इत्यादिषु पूर्वपदस्य विभक्तिः दृश्यते।तर्हि किं तत्र अलुक्समासः?
आचार्यः– वस्तुतः तत्र समासः एव न। सविभक्तिकः किंशब्दः एकं पदम्। चित् इतिअपरं पदम्। एवं तत्र पदद्वयम् एव।
**शिष्यः–**पदद्वयं चेत् किमर्थं ते (सविभक्तिकः किंशब्दः, चित्/चन च) सहैवउच्चार्येते?’
आचार्यः– रूढिरेव तत्र कारणम्। एवं पृथक्पदत्वे अपि यत्र सहप्रयोगः दृश्यते तस्य’अनुप्रयोगः’ इति नाम।
शिष्यः– उपसर्गाः। धातोः पूर्वं प्रत्ययाश्च²धातोः (शब्दस्य वा) अनन्तरं सहैवनियतरूपेण प्रयोक्तव्याः इत्यत्र यथा सूत्रप्रामाण्यम् अस्ति तथा अनयोःसहोच्चारणे किमपि प्रामाण्यं स्यात् वा?
आचार्यः– नैव। अनुप्रयोगे शिष्टानां प्रयोगः एव प्रमाणम्।
शिष्यः– श्रीमन्! ‘कस्मिंश्चित् ग्रामे कश्चन निर्धनः आसीत्’ इत्येवंरूपेण वाक्यानिप्रयुज्यन्ते खलु? तस्मिन् एव अर्थे ‘एकस्मिन् ग्रामे एकः निर्धनः आसीत्’ इत्येवंप्रयुज्यते चेत् को दोषः?
आचार्यः– प्रायः अत्र दोषः इति न। औचित्यस्य प्रश्नः अत्र। तदस्तु, एकशब्दस्य कःअर्थः?
**शिष्यः–**एकशब्दः विशेषणम्। एकत्वसङ्ख्याविशिष्टत्वम् इति तस्य अर्थः।
**आचार्यः–**विशेषणानि इतरव्यावर्तकानि भवन्ति। यथा ‘श्वेतं वस्त्रम्’ इत्युक्तौश्वेतशब्दस्य बलात् वस्त्रस्य कृष्ण-रक्त-नीलादियुक्तत्वं निवार्यते (श्वेतत्वंच द्योत्यते) तथैव सङ्ख्याप्रयोगात् तदितरसङ्ख्यायुक्तत्वं निवार्यते।
**शिष्यः–**तन्नाम ‘एकःनिर्धनः’ इत्युक्तौ द्वित्व-त्रित्वादियुक्तत्वं निवार्यते?
**आचार्यः–**आम्। अत एव ‘एकः निर्धनः आसीत्’ नाम ‘अन्यः न आसीत्’ इत्यपि अर्थःभासेत वा इति मम सन्देहः।
शिष्यः– ‘अन्यः न आसीत्’ इति अर्थः भासते इति किमर्थं वक्तव्यम्? निर्धनगतम्एकत्वं भासते इति एतावान् एव अर्थः इति कुतो वा न वक्तव्यम्?
आचार्यः– सङ्ख्या तु विशेषणम्। विशेषणानाम् इतरव्यावर्तकत्वं धर्मः। अंतःएकशब्दस्य प्रयोगे द्वित्वादिकं निवार्यते इति अवश्यं वक्तव्यं भवति एव।अन्यच्च एतादृशे सन्दर्भे एकत्वविशिष्टत्वं न अभिप्रेतम्। एकत्वं तुएकवचनात् एव ज्ञाप्यते। अनिर्दिष्टार्थकत्वम् अभिप्रेतम्। अतः कश्चित्,कस्मिंश्चित् इत्येव प्रयोक्तव्यम्।
शिष्यः– श्रीमन्! एकशब्दस्य एकत्वं केवलम् अर्थः इति नास्ति खलु? एकशब्दस्यबहवः अर्थाः सन्ति। अनिर्दिष्टार्थकत्वम् अपि कुतः तस्य न स्यात्?
आचार्यः– एतया दृष्ट्या अपि चिन्तितं मया। कोषे एकशब्दस्य अर्थाः परिशीलिताः।तस्य बहवः अर्थाः सन्ति इति तु सत्यम् एव। ‘स्त्रीसंख्यानंचाप्सरस्तीर्थमारादुत्क्षिप्यैनां ज्योतिरेकं जगाम’ इति शाकुन्तलप्रयोगे(५-३०) एकशब्दस्य अनिर्दिष्टार्थकत्वम् इति लिखति कश्चन कोषकारः।किन्तु एतावता अपि मम तृप्तिः न जाता।
शिष्यः– ‘एकस्मिन् ग्रामे एकः निर्धनः आसीत्’ इति न प्रयोक्तव्यम् इति भवतःआशयः वा?
आचार्यः– तथा न। एतादृशस्य प्रयोगस्य अपेक्षया ‘कस्मिंश्चित् ग्रामे कश्चन निर्धनःआसीत्’ इति प्रयोगः उचिततरः इति एतावत् एव वक्तुं शक्नोमि सद्यः।
———————————————————————————————————————————
- ते प्राग्धातोः - (१-४-८०) 2. परश्च - (३-१-२)
‘नाम’ शब्दः
_______________________________________________________________________________
आचार्यः – भवान् चन्दमामां पठति खलु प्रतिमासम्?
शिष्यः – अथ किम्?
आचार्यः – कथायाः आरम्भे काचित् वाक्यरचना भवति। तां रचनां लक्षितवान् वाभवान्?
शिष्यः – ‘पूर्व कस्मिंश्चित् ग्रामे गोविन्दो नाम कृषिकः आसीत्’ इत्येवंरूपेण भवतिखलु?
आचार्यः – आम्। एतादृशेषु वाक्येषु ‘नाम’ इति शब्दः प्रयुज्यते खलु? तेन शब्देनयुक्तानि कानिचन वाक्यानि श्रावयामि अहम्। तेषु किं शुद्धं, किम् अशुद्धम्इति वदतु तावत्-
(१) गोविन्दो नाम कृषिकः आसीत्।
(२) गोविन्दनामा कृषिकः आसीत्।
(३) गोविन्दनामकः कृषिकः आसीत्।
(४) गोविन्दः इति नामकः कृषिकः आसीत्।
(५) गोविन्दः इति नाम कृषिकः आसीत्।
शिष्यः – सर्वाणि वाक्यानि शुद्धानि इति भासते खलु मम?
**आचार्यः –**नामशब्दस्य कः अर्थः गृहीतः भवता?
शिष्यः – अभिधानं, नामधेयम् (Name) इति अर्थःगृहीतः।
**आचार्यः –**प्रथमे वाक्ये स च अर्थः सङ्गच्छते वा परिशीलयतु।
**शिष्यः –**न खलु ? नामशब्दस्य अन्यः अर्थः अस्ति वा?
**आचार्यः –**अन्यः अर्थः अस्ति वा इति न, अन्ये अर्थाः सन्ति वा इति पृच्छतु। यतःनामशब्दस्य बहवः अर्थाः सन्ति।
शिष्यः – अस्मिन् वाक्ये कः अर्थः वक्तव्यः–नामशब्दस्य?
**आचार्यः –**अत्र नामशब्दः प्रसिद्धार्थकः।
शिष्यः – गोविन्दः प्रसिद्धः कृषिकः आसीत् इति तस्य वाक्यस्य तात्पर्यम्?
**आचार्यः –**आम्।
शिष्यः – कदाचित् कश्चित् प्रसिद्धः न भवति। तदा वाक्ये नामशब्दः प्रयोक्तुं नशक्यः?
**आचार्यः –**भोः, अत्र प्रसिद्धः इत्यस्य ‘कीर्तिसहितं सर्वैः ज्ञातः’ इति अर्थः न अभिप्रेतः।‘तेन रूपेण सर्वैः ज्ञातः’ इति एतावान् एव अर्थः अभिप्रेतः। अतः कश्चित्कीर्तिमान् भवतु वा मा वा, तेन अभिधानेन ज्ञातः तु भवति एव। अतः सर्वत्रनामशब्दः प्रयोक्तुं शक्यः।
शिष्यः – किम् अत्र प्रमाणम्?
**आचार्यः –**प्राचीनाः प्रयोगाः एव। अप्रसिद्धायाम् अपि व्यक्तौ, नामशब्दः प्रयुज्यते एववाक्ये। हितोपदेशस्य कानिचन वाक्यानि परिशीलयतु तावत्—
* अस्ति कल्याणकटकवास्तव्यो भैरवो नाम व्याधः।—मित्रलाभः, कथा-६
* अस्ति हस्तिनापुरे विलासो नाम रजकः।—विग्रहः, कथा- २
* अस्ति यौवन श्रीनगरे मन्दमतिर्नाम रथकारः।—विग्रहः, कथा-६
* अस्ति विक्रमपुरे समुद्रदत्तो नाम वणिक्।—सन्धिः, कथा - ३
शिष्यः – द्वितीयवाक्ये नामशब्दस्य अभिधानम् (Name) इत्येव अर्थः खलु?बहुव्रीहिसमासः तत्र। गोविन्दः इति नाम यस्य सः इति विग्रहः।
आचार्यः – नकारान्तपुल्लिङ्गः अयं शब्दः। तृतीये वाक्ये अपि नाम शब्दस्य अभिधानम्इत्येव अर्थः। समासान्तप्रत्ययः (ककारः) युक्तः अस्ति तत्र। चतुर्थेनामकशब्दः, पञ्चमे नामशब्दश्च अनपेक्षितौ। चतुर्थे समासान्तःकप्रत्ययः अपि दुर्लभः एव समासाभावात्।
शिष्यः – व्यस्तः प्रयोगः अयं इति वक्तुं न शक्यते वा?
आचार्यः – कथम् अन्वयं वदति भोः भवान्? व्यस्तः प्रयोगः अभिप्रेतः चेत् ‘गोविन्दः इतिनाम यस्य सः, तादृशः कृषिकः आसीत्’ इति विस्तरेण वक्तव्यम्।
पितरौ, चतुर्थीसमासः
इत्यादीनि
_______________________________________________________________________________
**शिष्यः–**श्रीमन्, ‘माता च पिता च– पितरौ’ एतेत्यत् कस्य समासस्य उदाहरणम्?
**आचार्यः–**न कस्यापि समासस्य उदाहरणं तत्।
**शिष्यः–**द्वन्द्वसमासस्य उदाहरणं न वा तत्?
**आचार्यः–**न इति वदामि खलु? विग्रहवाक्यदर्शनात् द्वन्द्वसमासस्य भानं यद्यपि भवति,तथापि तत्र न द्वन्द्वसमासः, न समासान्तरं वा। तत्र न समासवृत्तिः, अपि तुएकशेषवृत्तिः। वृत्तयः कति काश्च ताः इति भवान् जानाति एव खलु?
**शिष्यः–**आं, जानामि। कृत्-तद्धित-समासैकशेष-सनाद्यन्तधातुरूपाः पञ्च वृत्तयः।
**आचार्यः–**एकैकस्याः अपि वृत्तेः उदाहरणं वदतु तावत्।
**शिष्यः–**पचति इति पाचकः इत्येतत् कृद्वृत्तेः उदाहरणम्।
दशरथस्य अपत्यं पुमान् दाशरथिः इत्येतत् तद्धितवृत्तेः उदाहरणम्।
राज्ञः पुरुषः राजपुरुषः इत्येतत् समासवृत्तेः उदाहरणम्।
पठितुम् इच्छति पिपठिषति, पठन्तं प्रेरयति पाठयति, इत्यादीनिसनाद्यन्तधातुवृत्तेः उदाहरणानि।
एकशेषवृत्तेः तु….
**आचार्यः–**माता च पिता च पितरौ20")इत्येतत् उदाहरणम्।
शिष्यः– प्राथमिकस्तरे मां यः पाठितवान् सः अध्यापकः पितरौ इत्येतत् द्वन्द्वसमासस्यउदाहरणम् इति पाठितवान् खलु?
**आचार्यः–**भ्रमवशात् केचन तथा वदन्ति। पितरौ भ्रातरौ, रामाः, इत्यादीनिएकशेषवृत्तेः एव उदाहरणानि।
शिष्यः–‘पितरौ’ इत्येतत् द्वन्द्वसमासस्य उदाहरणम् इति बोधयन्तः किम्एकशेषवृत्तिं न जानन्ति इति?
आचार्यः– तथा न। पितरौ इत्यस्य विग्रहवाक्ये पदद्वयं श्रूयते। द्वन्द्वसमासे अपि एवम्एव। अतः ते भ्रान्त्या तत्र द्वन्द्वसमासं वदन्ति। अथवा एकशेषवृत्तिंसमासवृत्त्यभिन्नां भावितवन्तः स्युः अपि।
**शिष्यः–**श्रीमन्, ‘अध्ययनार्थं पुस्तकम् – अध्ययनपुस्तकम्’ इत्येवमादिरूपेण कुतोवा समासः न करणीयः?
आचार्यः– विधायकस्य सूत्रस्यअभावात् अत्र चतुर्थीसमासः न क्रियते।
**शिष्यः–**अर्थानुगुणं विग्रहवाक्यं प्रदर्शितम्। तथापि एवं न करणीयम् इति ….
**आचार्यः–**समासकरणार्थं विधायकं सूत्रम् आवश्यकं खलु? चतुर्थीसमासः तु – ‘चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः’ (२-१-३६) इति सूत्रेण। तदर्थपदेनप्रकृतिविकृतिभावः इष्यते। भवता उक्ते उदाहरणे तत् नास्ति।
**शिष्यः–**प्रकृतिविकृतिभावो नाम?
**आचार्यः–**कुण्डलाय हिरण्यम् इति तदुदाहरणम्। कुण्डलं हिरण्यस्य विकृतिः। तन्नामकुण्डलम् (आभरणविशेषः) हिरण्यात् (सुवर्णात्) न अन्यत्। हिरण्यम् एवकुण्डलरूपेण भवति। कुण्डलं हिरण्यस्य रूपान्तरम्। एतादृशे सन्दर्भे एव तादर्थ्यचतुर्थी, नान्यत्र।
**शिष्यः–**तर्हि अध्ययनपुस्तकम् इत्यादिषु कः समासः वक्तव्यः?
**आचार्यः–**षष्टीतत्पुरुषसमासः उच्यते।अध्ययनस्य पुस्तकम् इति विग्रहः।द्वितीया–तृतीयादितत्पुरुषाः अपि एवम् एव। यत्र सूत्रेण विधानं तत्रैव तेवक्तव्याः। यथा स्फुरति तथा वक्तुं न शक्नुमः।
‘देवं नमस्करोति’ इति प्रयोगः
_______________________________________________________________________________
शिष्यः– श्रीमन्, ‘रामः देवाय नमस्करोति’ इति वाक्यं साधु, उत ‘रामः देवंनमस्करोति’ इति वाक्यम् ?
आचार्यः –‘रामः देवं नमस्करोति’ इति वाक्यम् एव उचितम्। ‘नमस्करोति’ इतिक्रियापदं यत्र दृश्यते तत्र द्वितीया प्रयोक्तव्या।
शिष्यः– श्रीमन्, ‘हरये नमः’, ‘हराय नमः’, ‘देवाय नमः’ इत्यादिषु चतुर्थीविभक्तिःदृश्यते खलु? तद्वदेव ‘देवाय नमस्कोरति’ इति प्रयोगे कृते को दोषः?
आचार्यः – ‘देवं नमस्करोति इत्यत्र एव औचित्यम्’ इत्येतेन मम वचनमात्रेण भवतः नतृप्तिः।अतः शास्त्रीयं विवरणम् एव दातव्यं भवति मया।उपपदविभक्ति-कारकविभक्त्योः भेदं जानाति वा भवान्?
शिष्यः– जानामि। यत्र केषाञ्चन शब्दानां सन्निधिमात्रेण साक्षात् विभक्तेः विधानंक्रियते तत्र उपपदविभक्तिः इति उच्यते। यत्र च कर्तृ-करण-सम्प्रदानादिकारकाणां विधानं कृत्वा, ततः विभक्तिः विधीयते तत्रकारकविभक्तिः इति उच्यते।
आचार्यः – सम्यक् उक्तं भवता। एकैकस्य एकैकम् उदाहरणं वदतु तावत्।
शिष्यः– “नमः स्वास्तिस्वाहास्वधालंवषड्योगाच्च” इत्यनेन सूत्रेण साक्षात् चतुर्थीविधीयते। अतः अत्र उपपदविभक्तिः। ‘कर्तुरीप्सिततमं कर्म’ इत्यनेनकर्मकारकं विधाय ‘कर्मणि द्वितीया’ इति सूत्रेण द्वितीया विधीयते। अतः अत्रकारकविभक्तिः।
आचार्यः – ‘उपपदविभक्तेः कारकविभक्तिः बलीयसी’ इति कश्चन नियमः अस्ति।‘नमस्करोति’ इत्यत्र “नमः स्वस्ति….” सूत्रात् चतुर्थी प्राप्ता। ‘कर्मणिद्वितीया’ इत्यनेन सूत्रेण द्वितीया प्राप्ता। एतादृशे सन्दर्भे कारकविभक्तेः एव
— बलीयस्त्वात् द्वितीया एव वक्तव्या। अतः ‘देवं नमस्कोति’ इत्येव प्रयोगःउचितः।
शिष्यः – ‘नमस्कुर्मो नृसिंहाय’, ‘स्वयम्भुवे नमस्कृत्य’ इत्यादिषु चतुर्थीप्रयोगः दृश्यतेखलु? एतादृशाः प्रयोगाः सिद्धान्तकौमुद्यां समर्थिताः इति श्रुतं मया।
आचार्यः–‘नमस्कुर्मो नृसिंहाय’ इति प्रयोगः सिद्धान्तकौमुद्याम् अस्ति इति जानन् भवान्तत्रैव उक्तम् ‘उपपदविभक्तेः कारकविभक्तिः बलीयसी’ इति नियमं,‘देवान् नमस्करोति’ इति प्रयोगं च जानीयात् एव। एवं तर्हि किमर्थं प्रश्नःकृतः भवता? मम परीक्षार्थम् …?
शिष्यः – तथा न श्रीमन्। ‘नमस्कुर्मो नृसिंहाय’ इत्यत्र चतुर्थी समर्थ्यते। ‘नमस्करोतिदेवान्’ इत्यत्र द्वितीया समर्थ्यते। एवं तर्हि युक्ततरः मार्गः कः इति अजानन्अहं पृष्टवान्।
आचार्यः– ‘नमस्कुर्मो नृसिंहाय’ इत्यत्र नृसिंहम् अनुकूलयितुम् इति तुमुन्नन्तार्थस्यअध्याहारः क्रियते21। पूर्वजैः प्रयुक्तस्य अन्वाख्यानार्थम् एषः क्रमः अनुसृतः।
शिष्यः – चतुर्थ्यन्तप्रयोगस्य अन्वाख्यानं तु कृतम्। अतः एतादृशं प्रयोगम्अनुकुर्वद्भिः अस्माभिः अपि कुतो वा चतुर्थी न प्रयोक्तव्या?
आचार्यः– पूर्वजैः कृतस्य प्रयोगस्य साधुत्वसम्पादनार्थम् एवम् अन्वाख्यानं कृतम्। तत्रअध्याहारकृतं गौरवम् अपि अस्ति। अतः तदपेक्षया द्वितीया एव उचिता स्यात्इति मम आशयः। नमस्करोति इति पदस्य श्रवणात् कर्मणः आकाङ्क्षाउदेति। अतः द्वितीया एव उचिता स्यात्।
शिष्यः – चतुर्थ्यन्तपदयुक्तस्य प्रयोगस्य असाधुत्वं नास्ति। तथापि व्यवहारेद्वितीयायाः प्रयोगः एव उचितः इति भवतः आशयः।
आचार्यः– आम्। ‘देवं नमस्करोति’ इत्येतस्य द्वितीयान्तपदयुक्तस्य प्रयोगस्य अनुकरणेएव औचित्यम्।
]
-
“‘दिक्सख्ये संज्ञायाम्’ -पाणिनिसूत्रम्” ↩︎
-
“‘आदशभ्यः सङ्ख्याः सङ्ख्येये वर्तन्ते, तत ऊर्ध्वं सङ्ख्येये सङ्ख्याने ‘च’-कैयटवचनम्” ↩︎
-
“समानकर्तृकयोः पूर्वकाले-पाणिनिसूत्रम्।” ↩︎
-
“मोऽनुस्वारः (हलि ↩︎
-
“भवद्योगे न मध्यमः।” ↩︎
-
“नलोपः प्रातिपदिकान्तस्य– पाणिनिसूत्रम्।” ↩︎
-
“आत्महतः समानाधिकरण-जातीययोः –पाणिनि सूत्रम्।” ↩︎
-
“आनङ् ऋतो द्वन्द्वे –पाणिनीसूत्रम्।” ↩︎
-
“पुंवत्कर्मधारयजातीयदेशीयेषु –पाणिनिसूत्रम्।” ↩︎
-
“सङ्ख्यापूर्व रात्रं क्लीबम् –गणसूत्रम्।” ↩︎
-
“यस्य वर्णस्य इत्संज्ञा भवति तस्य वर्णस्य लोपः भवति।” ↩︎
-
“अविवक्षातः अकर्मकत्वं लोकव्यवहारे न प्रसिद्धम् इत्यतः अत्र उदाहरणं न प्रदर्शितम्।” ↩︎
-
“अदेङ्गुणः” ↩︎
-
“वृद्धिरादैच्” ↩︎
-
“क्क्ङिति च” ↩︎
-
“वाग्व्यवहारादर्शः” ↩︎
-
“प्रौढमनोरमायां द्वितीयाविभक्तिविचारसन्दर्भे।” ↩︎
-
“महाभाष्ये पश्पशाह्निके धर्मनियमाधिकरणे।” ↩︎
-
“गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च–३-४-७२” ↩︎
-
“पिता मात्रा - (१-२-७० ↩︎
-
“क्रियार्थोपपदस्य कर्मणि स्थानिनः – २–३–१४” ↩︎