National Journal of Hindi & Sanskrit Research
59
ISSN: 2454-9177
NJHSR 2021; 1(38): 59-62
© 2021 NJHSR
www.sanskritarticle.com
सनातनघोषः विद्यावारिधिः शोधच्छात्रः, व्याकरणविभागः, केन्द्रीयसंस्कृतविश्वविद्यालयः, श्रीसदाशिवपरिसरः, पुरी, ओडिशा
व्याकरणशास्त्रे लिङ्गव्यवस्था
सनातनघोषः
विद्यावारिधिः शोधच्छात्रः, व्याकरणविभागः, केन्द्रीयसंस्कृतविश्वविद्यालयः, श्रीसदाशिवपरिसरः, पुरी, ओडिशा
व्याकरणशास्त्रं कालेन प्रयोगपथेऽभिव्यक्ति-साधनाय समागतानां समुपलब्धानाञ्च पदानां साधुत्व-सम्पादनार्थम् उद्दिष्टम् उपदिष्टं च वर्त्तते । शब्दाविदः स्व-कौशलं पुरस्कृत्य अनुशासन-विधिं प्रथितानां प्रसिद्धानाञ्च प्रयोगाणाम् उपरि ग्रथितुं प्रभवन्ति । यतो हि भाषायाः इदं कलु वैचित्र्यं वैलक्षण्यं स्वभाव-साधनञ्च यत् यदा भाषा-प्रवाह-पथे प्रयोग-सरणीम् आश्रित्य आवर्त्तते तदा ध्वनि-वैभवेन उच्चारण-प्रक्रियायां विभिन्नतां लभते । अतः तस्याः स्वरूपेऽवबोधन-प्रकारे च सार्वजनीनता यथा-अवाप्ता भवेत् तदर्थम् अनुशासन-परिधिः प्रस्तूयते । अद्य यावत् समुपदिष्टासु विभिन्नासु प्रक्रियासु सूत्रात्मक-पाठोऽन्यतमं साधनं लब्ध्वा तदुद्देश्यं सार्थकीकरोति । तेषु पुनः पाणिनीयं व्याकरणं त्रिमुनि-व्याकरण-भावेन अनुपमाम् अनन्यान-च ख्यातिं प्राप्य प्रवर्त्तते । सूत्रकारत्वेन भगवतः पाणिनेः, वार्त्तिककारत्वेन कात्यायनस्य, भाष्यकारत्वेन पतञ्जलिमुनेः योगदानं तत्-शास्त्रान्वित-तथ्यस्य पल्लवनाय आभूमि-मण्डलम् अनस्वीकरणीयं जायते । लक्ष्य-साधन-दिशा विभिन्नां प्रक्रियाम् उद्दिश्य प्रकारक्रमेण शब्दानुशासनं तत्र विधौ संरचितं वर्त्तते । प्रयोगे एकरूपता, विचारे सार्थकता, अनुशासनविधौ यतार्थता यथा स्यात् तदर्थं तत्रत्यः यत्नः कर्त्तव्यः दृश्यते । तेषु कार्य-प्रकारेषु लिङ्गोद्देश्यक-कार्य-व्यवस्था अन्यतमा । लिङ्गानुशासनम् आदाय प्रतिशब्दं शब्दान्तरात् स्वरूपे भिन्नतां प्राप्नोति । पद-निष्पत्तेः पूर्वं प्रतिपदिक-सञ्चरण-काले इयं व्यवस्था विचार्य्यते वितीर्य्यते च । व्युत्पन्नानां शब्दानां कृते कृत्-प्रक्रिया, तद्धित-प्रक्रिया, समास-प्रक्रिया च इति भेदेन पाणिनौ या प्रतिपन्ना प्रसिद्धा च विद्यते, तत्र विधौ कस्य प्रत्ययस्य योगेन किं लिङ्गं प्रतिपद्यते तस्य शब्दस्य च कस्मिन् लिङ्गे स्वभावतः प्रवृत्तिः, एवञ्च कस्मिन् लिङ्गे तस्य प्रयोगार्हता इति विलक्षण-पुरस्सरं लिङ्ग-विधान-निष्पत्तिर् अत्र व्याकरणे वितनुते । स्वरूपदृष्ट्या इदम् अन्यत् किमपि न, शास्त्रेषु चिह्न-विशेषः सङ्केत-विशेषो वा इति भावेन प्रतिपादनं लक्षीक्रियते । उक्तञ्च वर्त्तते-1
आचार्यः दुर्गसिंहः-
स्त्री-पुं-नपुंसकत्वेन भिन्नं येन चराचरम् ।
लिङ्गं जयति तत् नित्यम् अशेषागम-कारणम् ॥महाभारते-2
येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते ।
तेनैव नाम्ना तं देशं वाच्यम् आहुर् मनीषिणः ॥
स्त्री-पुंसादेश् च संस्थाने शरीरे चिह्न-शेफयोः ।
[[P60]]
व्रज्यामवयवे वेदे वंशे बुद्ध्य्-अनुमानयोः ॥3
मेक्डोनेल् कोषे- (Anything attaching to an object) Mark, Token, Sign, emblem, Characterstic."4
’लिङ्ग चित्रीकरणे’5 इति चुरादिगणीय-धातोः निष्पन्नो ऽयं शब्दस् तथ्यम् इदम् आदधति परिष्करोति च ।
लिङ्गस्य लक्षणम् -
लिङ्गस्य शाब्दिक-निर्वचनं लाक्षणिक-निर्वचनम् इति भावेन निर्वचन-द्वयम् अधिगम्यते । व्युत्पत्ति-कल्पना-अवसरे लिङ्गि चित्रणे इति चुरादिगणीय-धातोः घञ्-प्रत्यये एतस्य शब्दस्य निष्पत्तिः, सङ्केत-विशेषः तदर्थः । कोषादिषु तद् एवोपस्थापितं दृश्यते । तथा हि -
- लिङ्गम् - चिह्नम्, अनुमानम्, शेफः, सांख्योक्त-प्रकृतिः श.द्रु. ।
- लिङ्गम् - चिह्ने, पुंसो ऽसाधारण-चिह्न - अमरकोषः ।
- लिङ्गम् अनुमान-साधने हेतौ, क्षमता च लिङ्गम् इति मीमांसकाः - वाचस्पत्यम् ।
- लिङ्गं चिह्ने, व्याप्ते । - शब्दस्तोममहानिधिः ।
- लिङ्गम् लिङ्ग्यते गम्यते ऽतीन्द्रियार्थो ऽनेन इति, अथवा लीनं तिरोहितम् अर्थे । गमयतीतति, लिङ्ग्यते विशेषेण ज्ञायते ऽनेन लिङ्गम्, चिह्ने आकार-विशेषे लिङ्गम् अतन्त्रम् अभिधान-राजेन्द्र एवं हिन्दुधर्मकोशे, पारिजातकोषे, मीमांसाकोषे समानतात्पर्य्यकता शब्दास्यास्य विषये लक्षीकृता वर्त्तते ।
लाक्षणिक-निर्वचन-अवसरे सर्वथा उपाय-त्रयम् आविष्कृतं जायते ।
- प्राचीनानां तत्त्वज्ञानां विचारानुरोधात् सत्व-रजस्-तमो-गुणानाम् उपचयापचयादि-व्यवहारः,
- लौकिकस्वरूपम्,
- लौकिक-प्रसिद्धितिरति ।
महाभाष्यकार-कौयट-भर्तृहरि-हेलाराज-नागेश-प्रभृतयः तस्यावधानं साधयन्ति । पाणिनिना विषये ऽस्मिन् न किमपि निर्वचनं साधितम्, वार्त्तिककृताऽपि किमपि पालोचनं न-एवाकाङ्क्षितम् । महाभाष्यकाराद् आरभ्य एतद्-विषये चर्चा प्रवृत्ता च विद्यते ।
महाभाष्यकारः-6
संस्त्याप्रसवगुणाः इति भाष्यवृतोपस्थापितम् । यत्र सत्त्व-रज-तमोगुणानाम् उपचयादि-व्यवस्था लिङ्गं निरूपयति । कालक्रमेण तस्य विपर्ययो जातः । अनेकत्र व्यवस्था एतदनुसारम् अनिर्णेया समायाता । अतो लौकिकस्वरूपम् आदाय भाष्यकृता सिद्धान्तितम्7- “तस्माद् न वैयाकरणैः शक्यं लिङ्गम् आस्थातुं लिङ्गम् अशिष्यं लोक-आश्रयत्वाल् लिङ्गस्य ।”
कैयटः-8
महाभाष्यस्य अनुरूपं व्याख्यानं विधाय कैयटेन सिद्धान्तितम्- “स्तन-केशं च प्रसिद्धत्वाद् अन्यस्यापि स्त्री-प्रतिपत्ति-निमित्तस्य कुमाय्र्यादि-गतस्य-उप-लक्षणम् । तद् अनेन स्त्रीत्वादीनां स्तनाद्य्-उपव्यञ्जनानं गोत्वादिवत् सामान्य-विशेषत्वं दर्शितम् ।
भर्तृहरिः-9
तृतीयकाण्डे लिङ्ग-समुद्देशे भर्तृहरिणा कारिकमुखेन अवस्था-विशेष-विशिष्टा गुणा लिङ्गम् इति प्रतिपादितम् -
प्रवृत्तिर् इति सामान्य-लक्षणं तस्य लभ्यते ।
आविर्भावस् तिरोभावः स्थितिश् च इति अथ भिद्यते ।
प्रवृत्तिमन्तः सर्वे ऽर्थोः तिसृभिश् च प्रवृत्तिभिः ।
सततं न वियुज्यन्ते वाचश् च-एव-अत्र सम्भवः ॥
सन्निधाने निमित्तानां किञ्चिद् एव प्रवर्तकम् ।
यथा तक्षादि-शब्दानां लिङ्गेषु नियमस् तथा ॥
भावतत्त्वाविदः शिष्टाः शब्दार्थेषु व्यवस्थिताः ।
यद् यद् धर्मम् अङ्गताम् एति लिङ्गं तत्तत् प्रचक्षते ॥
हेलाराजीये व्याख्याने विषये ऽस्मिन् स्पष्टं प्रतिपादितम् । लिङ्गानां ग्रहणे सप्त-पक्षाः प्रतिपादिताः ।
- विकल्पेन चत्वारः
- केचित् पुनर् नपुंसक-विषयाः “खलः, पद्मः, शङ्खम्, पद्मम् इत्यादयः” पद्म-शङ्खौ निधौ पुंसि स्थितौ पुंसि च तोयजे इति ॥
- केचित् स्त्री-नपुंसक-नियताः भागधेयं भागधेयी, भेषजं भेषजी, अर्चिः इत्यादयः ।
- अन्ये स्त्री-पुंस-साधारणाः, यथा - इषुः अशनिः, तिथिः, इत्यादयः ।
- अपरे त्रि-लिङ्गाः - तटस् तटी तटम् इत्यादयः ।
- सन्नियोगे नियमः, तेन त्रयो विकल्पाः -
- वृक्षादयः पुंस्येव नियताः ।
- स्वत्त्वादयः स्त्रियाम् एव ।
- दध्यादयो नपुंसक एव ।
हरिनामामृतव्याकरणम् -
श्री-जीव-गोस्वामि-पादाः लिङ्गं स्त्री-पुं-नपुंसक-शब्द-वाच्यं प्रसवो विस्तारस् तस्माद् उपचयः ।
बौद्धदर्शने -
ग्राह्यं वस्तु प्रमाणं हि ग्रहणं यदि नोऽन्यथा ।
न तत् वस्तु न तत् मानं [[शब्दलिनेन्द्रियदिजम्|शब्द-लिङ्ग-इन्द्रियादि-जम्]] ॥10
मीमांसादर्शने
“लिङ्ग-विशेष-निर्देशात् पुंयुक्तम् ऐतिशायिनः “11 ।
सांख्यदर्शने - [[P61]]
“कस्य पुनः संस्त्यानं स्त्री, प्रवृत्तिर् वा पुमान् ? गुणानां केषाम् ? शब्द-स्पर्श-रूप-रस-गन्धानाम् “12 ।
न्याय-वैशेषिकदर्शने -
“व्याप्ति-बलेन-अर्थ-गमकं लिङ्गम्13 । “यद् अनुमेयेन सह-चरितं तत्-समान-जातीये च सर्वत्र-असर्वत्र वा सामान्ये प्रसिद्धम् तद्-विपरीते च सर्वस्मिन्न् असद् एव तत् लिङ्गम् ।14
वेदान्तदर्शने -
उपक्रम-उपसंहारौ अभ्यासो ऽपूर्वता फलम् ।
अर्थवाद-उपपत्ती च लिङ्गं तात्पर्य-निर्णये ॥15
J. Speijer महोदयाः एतद्-विषये शास्त्रीयं तत्त्वम् एव स्वभाषया प्रकटीकुर्वन्ति - “By the term gender is here meant any grammatical class division presenting same analogy to the distinction in Aryan language between masculine, feminine and nuter, whether the division is based on the natural division in to the two sexes on that between animate and inanimate or on some thing else.16
अयम् अत्र निष्कर्षो यत् - प्राचीन-ऋषितः आरभ्य लिङ्ग-विधानं प्रवृत्तम्, सत्त्वादि-गुण-परिणामाः शास्त्रीयं लिङ्गम् । तेषाम् उपचयादि-क्रमेण पुंलिङ्गादीनां लोक-व्यवहारे क्रमेण-अस्य नियमस्य परिवर्तनं जातम् । स्त्री-पुमान्-नपुंसकम् इति शब्द-मर्यादया लिङ्गस्य विवेचनं प्रारब्धम् । निश्चिततया अस्य किं लक्षणम् इति निरूपयितुं न शक्यते । प्रायशः सर्वत्र लक्षणे संकेत-रूपस्य-अवगतिर् अवधार्यते । समासेन इदम् एव प्रतिपादनेन-अलं यत्- सत्त्व-रजस्तमोगुणानां चयापचयादि-व्यवस्थामादाय लिङ्ग-साधनम् एवञ्च लौकिकस्वरूपम् आदाय लिङ्ग-व्यस्था पुनश् च लोक-प्रयोग-विज्ञानम् आदाय इयं व्यवस्था व्याकरण-शास्त्रेषु आपन्ना विद्यते ।
लिङ्गभेदस् तेषु प्रामुख्यञ्च-
लिङ्गं त्रिविधम्, चतुर्विधम् इति भावेन वैदिक-कालतः आरभ्य इदानीं यावत् विवेचनं प्रस्तुतं विद्यते । तथा-हि
वैदिक-वाङ्मये त्रिविधम् –
- “इत्थं ह त्व एव-अपि त्रेदा विहितो यद् अस्मिंस्त्रेधा विहिता इष्टका उपाधीयते ’नाम्नः स्त्री-नाम्नो नपुंसक-नाम्नः17 ।
- बृहद्देवतायां त्रिविधस्य तस्य लिङ्गस्य विवेचनं साधितम् - “त्रीणि-एव लोके लिङ्गानि पुमान् स्त्री च नपुंसकम्18 ॥
- पाणिनीय-व्याकरणे प्रयोगानुसारं लिङ्गस्य भेद-त्रयम् उपन्यस्तं विद्यते । आचार्यः पाणिनिः सूत्रेषु साक्षात् ’पुंसि’ ’स्त्रियाम् ‘नपुंसकम्’ इति पदोपादान-पुरस्सरं विभाजनं साधितवन्तः । कस्यचिच् छब्दस्य लिङ्गाधिक्ये वर्तमानता लक्ष्येऽभ्युपगता विद्यते ।
- वाक्यपदीय-व्याख्याने हेलाराजः लिङ्गस्य प्रयोगानुसारं भेद-चतुष्टयं साधितवान् स्त्रीलिङ्गम्, पुंलिङ्गम्, नपुंसकलिङ्गम्, स्त्री/पुं/नपुंसकलिङ्गम् इति भेद-विज्ञानात् । तदुक्त्या “विकल्पेन स्त्री-नपुंसकानां शब्दैः प्रत्यायने चत्वारः भेदाः “19 इति ।
पुंलिङ्ग-स्त्रीलिङ्ग-क्लीवलिङ्गेषु नपुंसक-लिङ्गस्य प्राधान्यं सिद्धान्तितं वर्त्तते । वैदिक-वाङ्मयात् पाणिनि-व्याकरणं यावत् एषा व्यवस्था प्रतिपन्ना । वाजसनेय-प्रतिशाख्ये प्रोक्तम् - ‘महोनपुंसके’20 अथर्वण-प्रातिशाख्ये - ‘नपुंसकम् आयुदात्तं ब्रह्म’ इति21 । यत्र लिङ्गं निरूपणीयं न जायते तत्र नपुंसक-लिङ्गं भवतीति वार्त्तिककारः - ‘सामान्ये नपुंसकम्’22 महाभाष्यकारः लिङ्गान्तरापेक्षया नपुंसक-लिङ्गस्य प्राधान्यं विमृश्य-अभिहितवान् । तदुक्त्या “प्रधाने कार्य-सम्पत्याच्-छेषः, किञ्च प्रधानम् ? नपुंसकम् । एवं हि दृश्यते लोके अनिर्मातेऽर्थे गुण-सन्देहे च नपुंसक-लिङ्गं प्रयुज्यते23 इति ।
लिङ्गबोधकपदानां व्युत्पत्तिचिन्तनम् -
अन्वर्थ-संज्ञाम् आदाय तद्-बोधक-पदानां व्युत्पत्तिश् चिन्तिता प्राप्यते । पुंधातोः डुम्शुन् (पुत्रो डुमशुन्) । पुनाति इति विग्रहे पुंस्-शब्दः सरूप-सूत्रे महाभाष्ये ’सू’ धातोः कर्त्तरि ’डुमृशुन्’ प्रत्यये टिल्-लक्षण-ङीप्-त्वात् सिद्धः । नपुंसक-शब्दस् तु न स्त्री-पुमान् इति विग्रहे ‘न श्राद्….. इत्यादिना सूत्रेण निपातनात् सिध्यति । लिङ्ग-शब्दस्य समभिव्याहार-कल्पनात् पुंलिङ्गादि-व्यवह्रियमाणाः शब्दाः ।
लिङ्ग शब्दनिष्ठम् अर्थनिष्ठं वा-
लिङ्गं शब्दनिष्ठम् अर्थनिष्ठं वा इति भावेन मत-द्वैधं विद्यते । कैयट-नागेश-प्रभृतयः अर्थनिष्ठ-पक्षपातिनः, कौण्डभट्ट-प्रभृतयः शब्दनिष्ठ-पक्षपातिन इति तत्तदुक्त्या प्रतिपद्यते । तथा-हि -
कैयटः- “लिङ्गं शब्दानिष्ठम् एव । तदुक्त्या एकार्थे शब्दान्यत्वात् दृष्टं लिङ्गान्यत्वम् अवयवान्यत्वाच् च ’24 । इति
भर्तृहरिः- “लिङ्गम् अर्थनिष्ठम्” इति ।
[[P62]]
नागेशः- “अर्थनिष्ठत्वम् एव लिङ्गस्य (प.ल.म.)
कौण्डभट्टः- “शब्दनिष्ठत्वं लिङ्गस्य ।
लङ्गिस्य शब्दनिष्ठत्वात् सर्वत्र-अपि अयं पदर्थः, इयं व्यक्तिः, इदं वस्तु इति व्यवहारः सिध्यति । पशुना यजेत इति व्यवहारे पुंलिङ्ग-साधनं प्रमाणीक्रियते । शब्द-स्पर्श-रूप-रस-गन्धानाम् उपचयापचयो अर्थनिष्ठम् एव भाष्याभिप्रेतम् ।
पाणिनौ लिङ्गविधानव्यवस्थायाः अङ्गीकरणम् ऐतिह्यञ्च -
’लुपि युक्तिवद्-व्याक्ति-वचने’25 ‘विशेषणानां च-अजातेः’26 इति सूत्र-द्वयस्य-आशयात् प्रतिपद्यते यल् लिङ्गं सर्वथाऽशिष्यम् । प्राचाम् अनुरोधेन-इयं व्यवस्था स्वकृताव् अङ्गीकृता । काशिकायां स्पष्टं प्रतिपादितम् - “एवञ्च लिङ्ग-प्रकरणं जात्याख्यायाम् इत्यादि-संख्या-प्रकरणञ्च पूर्वाचार्यान्-अुरोधेन कृतम् इति ध्वनितं सूत्रकृता ।27 पदमञ्जरी-न्यासे च-अनुरूपं व्याख्यानं विहितम् ।
’शब्दे अर्थ आरोपितः सन् भासते’ इति सिद्धान्तवत् शब्दे लिङ्गम् आरोपितं सत् प्रवर्त्तते । हरदत्तेन प्रतिपादितम्- “अर्थगतं स्त्रीत्वं शब्दे समारोप्यं स्त्रीलिङ्ग-निर्देशः” । “शब्द-रूपाश्रया च-इयं द्वि-लिङ्गता क्वचिद् अर्थ-भेदेन-अपि व्यवतिष्ठते ।
भर्तृहरिणा सिद्धान्तितं यद् एकस्य शब्दस्य सर्वथा लिङ्ग-त्रयं विद्यते । किन्तु व्यवहर्तुः कृते सामान्य-प्रतीतेः कारणात् लिङ्गस्य प्रत्ययो न-आगच्छति । एकम् एव लिङ्गं तद्-दृष्ट्या आरोपित-मार्गेण-अवधार्यते । तदुक्त्या -
इदं वेदमयं वेति शब्द-संस्कार-मात्रकम् ।
निमित्त-दर्शनाद् अर्थे कैश्चित् सर्वत्र वर्ण्यते ॥28
नागेशेन उद्योत-व्याख्याने प्रस्तुतं यत् शस-विषाणादिवत् यथा प्रातिपदिकत्वं कल्प्यते तस्य शब्दस्य सत्ताभावेऽपि तथा शब्द-लिङ्ग-योगो निश्चीयते । शब्दे लिङ्गम् अन्तर्निहिततयाऽवातिष्ठते । तथा ह्य् उक्तम्-
“ब्रह्नेर्यथा योनि-गतस्य मूर्र्त्तिर् न दृश्यते न-एव च लिङ्ग-नाशः ”29
कैयटेन सिद्धान्तितं यत् यथा आदित्य-गतिः प्रत्यक्षतया गृह्यते किन्तु स्थान प्राप्ता सती अवधार्यते तथा कस्याचिच् छब्दस्य लिङ्गं न-अवधार्यते किन्तु यदा प्रयोगे समापतति तदा लिङ्गाधानं क्रियते तथा हि “अथवा यथाऽऽदित्यस्य गतिः सती न-उपलभ्यते तद्वत् खट्वा वृक्षयोः सल्लिङ्गं न-उपलभ्यते……, तत् कार्य्य-दर्शनाद् अनुमीयते’ ’30 ।
लिङ्ग-विधान-व्यवस्था प्राचीना, प्राक्-पाणिनीय-कालात् प्रवृत्ता विद्यते सर्वथाऽऽरोपित-मार्गेण प्रयोर्गाह-भूतेषु शब्देषु समवधार्यते ।
टिप्पणीः
-
लि.शा. १ ↩︎
-
म. भार. १/२/१२ ↩︎
-
वा.म.को. ४८-७३ ↩︎
-
S. E. D. Page 262 ↩︎
-
चु.धा.सं. १७४० ↩︎
-
म. भा. ४/१/३ पृ. २३ भाग ४/६ ↩︎
-
म. भा. ४/१/३ पृ. २३ भाग ४/६ ↩︎
-
म. भा. प्र. पृ. १७ भा. ४/६ ↩︎
-
वा. प. ३/२०-२१ ↩︎
-
बौ. द. पृ. ४५ ↩︎
-
मी. सू. ६/१/१ ↩︎
-
शा.भा.६/१/८ ↩︎
-
त. भा. पृ. ३७ ↩︎
-
वै. सू. ३/१/१५-१६ ↩︎
-
वे.द. कारिका ↩︎
-
T. Ph. of G. Page 226 ↩︎
-
श. बा १०/५/१-२ ↩︎
-
गो. ब्रा. १/१/२६ ↩︎
-
वा. प. ३/१३/३ ↩︎
-
वा. प्रा. २/३२ ↩︎
-
अ.वे.प्रा. १/१७ ↩︎
-
पा. सू. २/४/३० वा. ७ ↩︎
-
म. भा. १/२/६९ ↩︎
-
म. भा. प्र. १/२/६९ ↩︎
-
पा. सू. १/२/५२ ↩︎
-
पा. सू. १/२/४३ ↩︎
-
का. वृ. १/२/८३ ↩︎
-
वा.प. ३/१३/३१ ↩︎
-
श्वे. श्व. उ. १/३ ↩︎
-
म. भा. प्र. ४/१/१३ ↩︎