वृत्तिः
परार्थाभिधानं वृत्तिः। यत्र अनेके शब्दाः एकीभूय विशिष्टम्, अवयवेभ्यः भिन्नम् अर्थं बोधयन्ति, तत्र “वृत्तिः” अस्ति इत्युच्यते ।
वृत्तिः पञ्चधा वर्तते —
- कृद्-वृत्तिः — कृत्प्रत्ययेन नूतनः अर्थः बोध्यते । यथा — यः पचति सः गच्छति = पाचकः गच्छति ।
- तद्धितवृत्तिः — तद्धितत्प्रत्ययेन नूतनः अर्थः बोध्यते । यथा — दशरथस्य पुत्रः गच्छति = दाशरथिः गच्छति ।
- समासवृत्तिः — समासनिर्माणेन नूतनः अर्थः बोध्यते । यथा — सीतायाः पतिः गच्छति = सीतापतिः गच्छति ।
- एकशेषवृत्तिः — एकशेषेण नूतनः अर्थः बोध्यते । यथा — माता गच्छति, पिता च गच्छति = पितरौ गच्छतः ।
- सनाद्यन्तधातुवृत्तिः — सनादिप्रत्ययेन नूतनः अर्थः बोध्यते । यथा — सः गर्दभः इव आचरति = सः गर्दभायते ।
केवलं सन्धिः यत्र विद्यते तत्र नूतनः अर्थः न सिद्ध्यति, अतः तत्र वृत्तित्वं न स्वीक्रियते । यथा, “इत्यपि” इत्यत्र वृत्तिः नास्ति ।
वृत्तिद्वय-वर्तनम्
लघुत्वम्
इह हि सर्वे मनुष्या अल्पेनाल्पेन महतो महतोर्थानाकाङ्क्षन्ति।
एकेन माषेण शतसहस्रम्।
एकेन कुद्दालकेन खारीसहस्रम्।
तत्र - कर्मधारय-प्रकृतिभिर् मत्वर्थीयैर् अभिधानम् अस्तु, +++(अथवा)+++ बहुव्रीहिणेति +++(चेत्)+++-
बहुव्रीहिणा भविष्यति लघुत्वात् —इति २.१.६९ वर्णो वर्णेन इत्यत्र भाष्यम् ।
अस्मादेव भाष्यात् वैयाकरणैः
न कर्मधारयात् मत्वर्थीयो
बहुव्रीहिश् चेत् तदर्थप्रतिपत्तिकरः
इति न्यायः स्वीकृतः अस्ति । कर्मधारयसमासात् मत्वर्थीय-प्रत्ययं कृत्वा यः अर्थः लभ्यते सः एव अर्थः केवलं बहुव्रीहिसमासेन लभ्यते चेत् बहुव्रीहिसमासः एव करणीयः — इति अस्य अर्थः । एकया वृत्त्या एव सिद्धे किं वृत्तिद्वयस्य आश्रयणेन — इति आशयः । अतः निरपराधी इत्यस्य अपेक्षया निरपराधः इति बहुव्रीहिसमासघटितः शब्दः एव उचिततरः ।
अधिकार्थनिर्देशः
यत्र मतुप्-प्रत्ययेन कश्चन अधिकः अर्थः अपि निर्दिश्यते, तत्र तु बहुव्रीहिसमासेन तस्य निर्देश-अभावात् तेषु स्थलेषु कर्मधारयात् मत्वर्थीयः उचितः एव । यथा, नित्यं निरपराधः अस्य अस्ति सः निरपराधी । अत्र नित्यम् इति अधिकः अर्थः मतुप्-प्रत्ययेन दीयते अतः एतेषु स्थलेषु “निरपराधी” इति शब्दः उचितः ।
एवमेव, निर्दोषी / निरुपयोगी / दीर्घकेशी एतेषु सर्वेषु अपि वृत्तिद्वयम् आश्रितम्, अतः तस्य स्थाने शक्यं चेत् — निर्दोषः (निर्गतः दोषः यस्मात् सः), निरुपयोगः (निर्गतः उपयोगः यस्मात् सः), दीर्घकेशः (दीर्घाः केशाः यस्य सः) एते प्रयोगाः एव प्रशस्ताः ।