७ साधनसमुद्देशः

विश्वास-प्रस्तुतिः

स्वाश्रये समवेतानां तद्वद् एवाश्रयान्तरे ।
क्रियाणाम् अभिनिष्पत्तौ सामर्थ्यं साधनं विदुः ॥ ३।७।१ ॥

मूलम्

स्वाश्रये समवेतानां तद्वद् एवाश्रयान्तरे ।
क्रियाणाम् अभिनिष्पत्तौ सामर्थ्यं साधनं विदुः ॥ ३।७।१ ॥

विश्वास-प्रस्तुतिः

शक्तिमा त्रासम् ऊहस्य विश्वस्यानेकधर्मणः ।
सर्वदा सर्वथा भावात् क्व चित् किं चिद् विवक्ष्यते ॥ ३।७।२ ॥

मूलम्

शक्तिमा त्रासम् ऊहस्य विश्वस्यानेकधर्मणः ।
सर्वदा सर्वथा भावात् क्व चित् किं चिद् विवक्ष्यते ॥ ३।७।२ ॥

विश्वास-प्रस्तुतिः

साधनव्यवहारश् च बुद्ध्यवस्थानिबन्धनः ।
सन्न् असन् वार्थरूपेषु भेदो बुद्ध्या प्रकल्प्यते ॥ ३।७।३ ॥

मूलम्

साधनव्यवहारश् च बुद्ध्यवस्थानिबन्धनः ।
सन्न् असन् वार्थरूपेषु भेदो बुद्ध्या प्रकल्प्यते ॥ ३।७।३ ॥

विश्वास-प्रस्तुतिः

बुद्ध्या समीहितैकत्वान् पञ्चालान् कुरुभिर् यदा ।
पुनर् विभजते वक्ता तदापायः प्रतीयते ॥ ३।७।४ ॥

मूलम्

बुद्ध्या समीहितैकत्वान् पञ्चालान् कुरुभिर् यदा ।
पुनर् विभजते वक्ता तदापायः प्रतीयते ॥ ३।७।४ ॥

विश्वास-प्रस्तुतिः

शब्दोपहितरूपांश् च बुद्धेर् विषयतां गतान् ।
प्रत्यक्षम् इव कंसादीन् साधनत्वेन मन्यते ॥ ३।७।५ ॥

मूलम्

शब्दोपहितरूपांश् च बुद्धेर् विषयतां गतान् ।
प्रत्यक्षम् इव कंसादीन् साधनत्वेन मन्यते ॥ ३।७।५ ॥

विश्वास-प्रस्तुतिः

बुद्धिप्रवृत्तिरूपं च समारोप्याभिधातृभिः ।
अर्थेषु शक्तिभेदानां क्रियते परिकल्पना ॥ ३।७।६ ॥

मूलम्

बुद्धिप्रवृत्तिरूपं च समारोप्याभिधातृभिः ।
अर्थेषु शक्तिभेदानां क्रियते परिकल्पना ॥ ३।७।६ ॥

विश्वास-प्रस्तुतिः

व्यक्तौ पदार्थे शब्दादेर् जन्यमानस्य कर्मणः ।
साधनत्वं तथा सिद्धं बुद्धिरूपप्रकल्पितम् ॥ ३।७।७ ॥

मूलम्

व्यक्तौ पदार्थे शब्दादेर् जन्यमानस्य कर्मणः ।
साधनत्वं तथा सिद्धं बुद्धिरूपप्रकल्पितम् ॥ ३।७।७ ॥

विश्वास-प्रस्तुतिः

स्वतन्त्रपरतन्त्रत्वे क्रमरूपं च दर्शितम् ।
निरीहेष्व् अपि भावेषु कल्पनोपनिबन्धनम् ॥ ३।७।८ ॥

मूलम्

स्वतन्त्रपरतन्त्रत्वे क्रमरूपं च दर्शितम् ।
निरीहेष्व् अपि भावेषु कल्पनोपनिबन्धनम् ॥ ३।७।८ ॥

विश्वास-प्रस्तुतिः

शक्तयः शक्तिमन्तश् च सर्वे संसर्गवादिनाम् ।
भावास् तेष्व् अस्वशब्देषु साधनत्वं निरूप्यते ॥ ३।७।९ ॥

मूलम्

शक्तयः शक्तिमन्तश् च सर्वे संसर्गवादिनाम् ।
भावास् तेष्व् अस्वशब्देषु साधनत्वं निरूप्यते ॥ ३।७।९ ॥

विश्वास-प्रस्तुतिः

घटस्य दृशिकर्मत्वे महत्त्वादीनि साधनम् ।
रूपस्य दृशिकर्मत्वे रूपत्वादीनि साधनम् ॥ ३।७।१० ॥

मूलम्

घटस्य दृशिकर्मत्वे महत्त्वादीनि साधनम् ।
रूपस्य दृशिकर्मत्वे रूपत्वादीनि साधनम् ॥ ३।७।१० ॥

विश्वास-प्रस्तुतिः

स्वैः सामान्यविशेषैश् च शक्तिमन्तो रसादयः ।
नियतग्रहणा लोके शक्तयस् तास् तथाश्रयैः ॥ ३।७।११ ॥

मूलम्

स्वैः सामान्यविशेषैश् च शक्तिमन्तो रसादयः ।
नियतग्रहणा लोके शक्तयस् तास् तथाश्रयैः ॥ ३।७।११ ॥

विश्वास-प्रस्तुतिः

इन्द्रियार्थमनःकर्तृ- सम्बन्धः साधनं क्व चित् ।
यद् यदा यदनुग्राहि तत् तदा तत्र साधनम् ॥ ३।७।१२ ॥

मूलम्

इन्द्रियार्थमनःकर्तृ- सम्बन्धः साधनं क्व चित् ।
यद् यदा यदनुग्राहि तत् तदा तत्र साधनम् ॥ ३।७।१२ ॥

विश्वास-प्रस्तुतिः

स्वशब्दैर् अभिधाने तु स धर्मोनाभिधीयते ।
विभक्त्यादिभिर् एवासाव् उपकारः प्रतीयते ॥ ३।७।१३ ॥

मूलम्

स्वशब्दैर् अभिधाने तु स धर्मोनाभिधीयते ।
विभक्त्यादिभिर् एवासाव् उपकारः प्रतीयते ॥ ३।७।१३ ॥

विश्वास-प्रस्तुतिः

निमित्तभावो भावानाम् उपकारार्थम् आश्रितः ।
नतिर् आवर्जनेत्य् एवं सिद्धः साधनम् इष्यते ॥ ३।७।१४ ॥

मूलम्

निमित्तभावो भावानाम् उपकारार्थम् आश्रितः ।
नतिर् आवर्जनेत्य् एवं सिद्धः साधनम् इष्यते ॥ ३।७।१४ ॥

विश्वास-प्रस्तुतिः

स तेभ्यो व्यतिरिक्तो वा तेषाम् आत्मैव वा तथा ।
व्यतिरेकम् उपाश्रित्य साधनत्वेन कल्प्यते ॥ ३।७।१५ ॥

मूलम्

स तेभ्यो व्यतिरिक्तो वा तेषाम् आत्मैव वा तथा ।
व्यतिरेकम् उपाश्रित्य साधनत्वेन कल्प्यते ॥ ३।७।१५ ॥

विश्वास-प्रस्तुतिः

सन्दर्शनं प्रार्थनायां व्यवसाये त्व् अनन्तरा ।
व्यवसायस् तथारम्भे साधनत्वाय कल्पते ॥ ३।७।१६ ॥

मूलम्

सन्दर्शनं प्रार्थनायां व्यवसाये त्व् अनन्तरा ।
व्यवसायस् तथारम्भे साधनत्वाय कल्पते ॥ ३।७।१६ ॥

विश्वास-प्रस्तुतिः

पूर्वस्मिन् या क्रिया सैव परस्मिन् साधनं मता ।
सन्दर्शने तु चैतन्यं विशिष्टं साधनं विदुः ॥ ३।७।१७ ॥

मूलम्

पूर्वस्मिन् या क्रिया सैव परस्मिन् साधनं मता ।
सन्दर्शने तु चैतन्यं विशिष्टं साधनं विदुः ॥ ३।७।१७ ॥

विश्वास-प्रस्तुतिः

निष्पत्तिमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके ।
व्यापारभेदापेक्षायां करणत्वादिसम्भवः ॥ ३।७।१८ ॥

मूलम्

निष्पत्तिमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके ।
व्यापारभेदापेक्षायां करणत्वादिसम्भवः ॥ ३।७।१८ ॥

विश्वास-प्रस्तुतिः

पुत्रस्य जन्मनि यथा पित्रोः कर्तृत्वम् उच्यते ।
अयम् अस्याम् इयं त्व् अस्माद् इति भेदो विवक्षया ॥ ३।७।१९ ॥

मूलम्

पुत्रस्य जन्मनि यथा पित्रोः कर्तृत्वम् उच्यते ।
अयम् अस्याम् इयं त्व् अस्माद् इति भेदो विवक्षया ॥ ३।७।१९ ॥

विश्वास-प्रस्तुतिः

गुणक्रियाणां कर्तारः कर्त्रा न्यक्कृतशक्तयः ।
न्यक्तायाम् अपि सम्पूर्णैः स्वैर् व्यापारैः समन्विताः ॥ ३।७।२० ॥

मूलम्

गुणक्रियाणां कर्तारः कर्त्रा न्यक्कृतशक्तयः ।
न्यक्तायाम् अपि सम्पूर्णैः स्वैर् व्यापारैः समन्विताः ॥ ३।७।२० ॥

विश्वास-प्रस्तुतिः

करणत्वादिभिर् ज्ञाताः क्रियाभेदानुपातिभिः ।
स्वातन्त्र्यम् उत्तरं लब्ध्वा प्रधाने यान्ति कर्तृताम् ॥ ३।७।२१ ॥

मूलम्

करणत्वादिभिर् ज्ञाताः क्रियाभेदानुपातिभिः ।
स्वातन्त्र्यम् उत्तरं लब्ध्वा प्रधाने यान्ति कर्तृताम् ॥ ३।७।२१ ॥

विश्वास-प्रस्तुतिः

यथा राज्ञा नियुक्तेषु योद्धृत्वं योद्धृषु स्थितम् ।
तेषु वृत्तौ तु लभते राजा जयपराजयौ ॥ ३।७।२२ ॥

मूलम्

यथा राज्ञा नियुक्तेषु योद्धृत्वं योद्धृषु स्थितम् ।
तेषु वृत्तौ तु लभते राजा जयपराजयौ ॥ ३।७।२२ ॥

विश्वास-प्रस्तुतिः

तथा कर्त्रा नियुक्तेषु सर्वेष्व् एकार्थकारिषु ।
कर्तृत्वं करणत्वादेर् उत्तरं न विरुध्यते ॥ ३।७।२३ ॥

मूलम्

तथा कर्त्रा नियुक्तेषु सर्वेष्व् एकार्थकारिषु ।
कर्तृत्वं करणत्वादेर् उत्तरं न विरुध्यते ॥ ३।७।२३ ॥

विश्वास-प्रस्तुतिः

अनाश्रिते तु व्यापारे निमित्तं हेतुर् इष्यते ।
आश्रितावधिभावं तु लक्षणे लक्षणं विदुः ॥ ३।७।२४ ॥

मूलम्

अनाश्रिते तु व्यापारे निमित्तं हेतुर् इष्यते ।
आश्रितावधिभावं तु लक्षणे लक्षणं विदुः ॥ ३।७।२४ ॥

विश्वास-प्रस्तुतिः

द्रव्यादिविषयो हेतुः कारकं नियतक्रियम् ।
कर्ता कर्त्रन्तरापेक्षः क्रियायां हेतुर् इष्यते ॥ ३।७।२५ ॥

मूलम्

द्रव्यादिविषयो हेतुः कारकं नियतक्रियम् ।
कर्ता कर्त्रन्तरापेक्षः क्रियायां हेतुर् इष्यते ॥ ३।७।२५ ॥

विश्वास-प्रस्तुतिः

क्रियायै करणं तस्य दृष्टः प्रतिनिधिस् तथा ।
हेत्वर्था तु क्रिया तस्मान् न स प्रतिनिधीयते ॥ ३।७।२६ ॥

मूलम्

क्रियायै करणं तस्य दृष्टः प्रतिनिधिस् तथा ।
हेत्वर्था तु क्रिया तस्मान् न स प्रतिनिधीयते ॥ ३।७।२६ ॥

विश्वास-प्रस्तुतिः

प्रातिलोम्यानुलोम्याभ्यां हेतुर् अर्थस्य साधकः ।
तादर्थ्यम् आनुलोम्येन हेतुत्वानुगतं तु तत् ॥ ३।७।२७ ॥

मूलम्

प्रातिलोम्यानुलोम्याभ्यां हेतुर् अर्थस्य साधकः ।
तादर्थ्यम् आनुलोम्येन हेतुत्वानुगतं तु तत् ॥ ३।७।२७ ॥

विश्वास-प्रस्तुतिः

सर्वत्र सहजा शक्तिर् यावद्द्रव्यम् अवस्थिता ।
क्रियाकाले त्व् अभिव्यक्तेर् आश्रयाद् उपकारिणी ॥ ३।७।२८ ॥

मूलम्

सर्वत्र सहजा शक्तिर् यावद्द्रव्यम् अवस्थिता ।
क्रियाकाले त्व् अभिव्यक्तेर् आश्रयाद् उपकारिणी ॥ ३।७।२८ ॥

विश्वास-प्रस्तुतिः

कुड्यस्यावरणे शक्तिर् अस्यादीनां विदारणे ।
सर्वदा स तु सन् धर्मः क्रियाकाले निरूप्यते ॥ ३।७।२९ ॥

मूलम्

कुड्यस्यावरणे शक्तिर् अस्यादीनां विदारणे ।
सर्वदा स तु सन् धर्मः क्रियाकाले निरूप्यते ॥ ३।७।२९ ॥

विश्वास-प्रस्तुतिः

स्वाङ्गसंयोगिनः पाशा दैत्यानां वारुणा यथा ।
व्यज्यन्ते विजिगीषूणां द्रव्याणां शक्तयस् तथा ॥ ३।७।३० ॥

मूलम्

स्वाङ्गसंयोगिनः पाशा दैत्यानां वारुणा यथा ।
व्यज्यन्ते विजिगीषूणां द्रव्याणां शक्तयस् तथा ॥ ३।७।३० ॥

विश्वास-प्रस्तुतिः

तैक्ष्ण्यगौरवकाठिन्य- संस्थानैः स्वैर् असिर् यदा ।
छेद्यं प्रति व्याप्रियते शक्तिमान् गृह्यते तदा ॥ ३।७।३१ ॥

मूलम्

तैक्ष्ण्यगौरवकाठिन्य- संस्थानैः स्वैर् असिर् यदा ।
छेद्यं प्रति व्याप्रियते शक्तिमान् गृह्यते तदा ॥ ३।७।३१ ॥

विश्वास-प्रस्तुतिः

प्राङ् निमित्तान्तरोद्भूतं क्रियायाः कैश् चिद् इष्यते ।
साधनं सहजं कैश् चित् क्रियान्यैः पूर्वम् इष्यते ॥ ३।७।३२ ॥

मूलम्

प्राङ् निमित्तान्तरोद्भूतं क्रियायाः कैश् चिद् इष्यते ।
साधनं सहजं कैश् चित् क्रियान्यैः पूर्वम् इष्यते ॥ ३।७।३२ ॥

विश्वास-प्रस्तुतिः

प्रवृत्तिर् एव प्रथमं क्व चिद् अप्य् अनपाश्रिता ।
शक्तीर् एकाधिकरणे स्रोतोवद् अपकर्षति ॥ ३।७।३३ ॥

मूलम्

प्रवृत्तिर् एव प्रथमं क्व चिद् अप्य् अनपाश्रिता ।
शक्तीर् एकाधिकरणे स्रोतोवद् अपकर्षति ॥ ३।७।३३ ॥

विश्वास-प्रस्तुतिः

अपूर्वं कालशक्तिं वा क्रियां वा कालम् एव वा ।
तम् एवम्लक्सनम् भावम् के चिद् आहुह् कथम् च न ॥ ३।७।३४ ॥

मूलम्

अपूर्वं कालशक्तिं वा क्रियां वा कालम् एव वा ।
तम् एवम्लक्सनम् भावम् के चिद् आहुह् कथम् च न ॥ ३।७।३४ ॥

विश्वास-प्रस्तुतिः

नित्याः षट् शक्तयो ऽन्येषां भेदाभेदसमन्विताः ।
क्रियासंसिद्धये ऽर्थेषु जातिवत् समवस्थिताः ॥ ३।७।३५ ॥

मूलम्

नित्याः षट् शक्तयो ऽन्येषां भेदाभेदसमन्विताः ।
क्रियासंसिद्धये ऽर्थेषु जातिवत् समवस्थिताः ॥ ३।७।३५ ॥

विश्वास-प्रस्तुतिः

द्रव्याकारादिभेदेन ताश् चापरिमिता इव ।
दृश्यन्ते तत्त्वम् आसां तु षट् शक्तीर् नातिवर्तते ॥ ३।७।३६ ॥

मूलम्

द्रव्याकारादिभेदेन ताश् चापरिमिता इव ।
दृश्यन्ते तत्त्वम् आसां तु षट् शक्तीर् नातिवर्तते ॥ ३।७।३६ ॥

विश्वास-प्रस्तुतिः

निमित्तभेदाद् एकैव भिन्ना शक्तिः प्रतीयते ।
षोढा कर्तृत्वम् एवाहुस् तत्प्रवृत्तेर् निबन्धनम् ॥ ३।७।३७ ॥

मूलम्

निमित्तभेदाद् एकैव भिन्ना शक्तिः प्रतीयते ।
षोढा कर्तृत्वम् एवाहुस् तत्प्रवृत्तेर् निबन्धनम् ॥ ३।७।३७ ॥

विश्वास-प्रस्तुतिः

तत्त्वे वा व्यतिरेके वा व्यतिरिक्तं तद् उच्यते ।
शब्दप्रमाणको लोकः स शास्त्रेणानुगम्यते ॥ ३।७।३८ ॥

मूलम्

तत्त्वे वा व्यतिरेके वा व्यतिरिक्तं तद् उच्यते ।
शब्दप्रमाणको लोकः स शास्त्रेणानुगम्यते ॥ ३।७।३८ ॥

विश्वास-प्रस्तुतिः

परमार्थे तु नैकत्वं पृथक्त्वाद् भिन्नलक्षणम् ।
पृथक्त्वैकत्वरूपेण तत्त्वम् एव प्रकाशते ॥ ३।७।३९ ॥

मूलम्

परमार्थे तु नैकत्वं पृथक्त्वाद् भिन्नलक्षणम् ।
पृथक्त्वैकत्वरूपेण तत्त्वम् एव प्रकाशते ॥ ३।७।३९ ॥

विश्वास-प्रस्तुतिः

यत् पृथक्त्वम् असन्दिग्धं तद् एकत्वान् न भिद्यते ।
यद् एकत्वम् असन्दिग्धं तत् पृथक्त्वान् न भिद्यते ॥ ३।७।४० ॥

मूलम्

यत् पृथक्त्वम् असन्दिग्धं तद् एकत्वान् न भिद्यते ।
यद् एकत्वम् असन्दिग्धं तत् पृथक्त्वान् न भिद्यते ॥ ३।७।४० ॥

विश्वास-प्रस्तुतिः

द्यौः क्षमा वायुर् आदित्यः सागराः सरितो दिशः ।
अन्तःकरणतत्त्वस्य भागा बहिर् अवस्थिताः ॥ ३।७।४१ ॥

मूलम्

द्यौः क्षमा वायुर् आदित्यः सागराः सरितो दिशः ।
अन्तःकरणतत्त्वस्य भागा बहिर् अवस्थिताः ॥ ३।७।४१ ॥

विश्वास-प्रस्तुतिः

कालविच्छेदरूपेण तद् एवैकम् अवस्थितम् ।
स ह्य् अपूर्वापरो भावः क्रमरूपेण लक्ष्यते ॥ ३।७।४२ ॥

मूलम्

कालविच्छेदरूपेण तद् एवैकम् अवस्थितम् ।
स ह्य् अपूर्वापरो भावः क्रमरूपेण लक्ष्यते ॥ ३।७।४२ ॥

विश्वास-प्रस्तुतिः

दृष्टो ह्य् अव्यतिरेके ऽपि व्यतिरेको ऽन्वये ऽसति ।
वृक्षाद्यर्थान्वयस् तस्माद् विभक्त्यर्थो ऽन्य इष्यते ॥ ३।७।४३ ॥

मूलम्

दृष्टो ह्य् अव्यतिरेके ऽपि व्यतिरेको ऽन्वये ऽसति ।
वृक्षाद्यर्थान्वयस् तस्माद् विभक्त्यर्थो ऽन्य इष्यते ॥ ३।७।४३ ॥

विश्वास-प्रस्तुतिः

सामान्यं कारकं तस्य सप्ताद्या भेदयोनयः ।
षट् कर्माख्यादिभेदेन शेषभेदस् तु सप्तमी ॥ ३।७।४४ ॥

मूलम्

सामान्यं कारकं तस्य सप्ताद्या भेदयोनयः ।
षट् कर्माख्यादिभेदेन शेषभेदस् तु सप्तमी ॥ ३।७।४४ ॥

कर्माधिकारः

विश्वास-प्रस्तुतिः

निर्वर्त्यं च विकार्यं च प्राप्यं चेति त्रिधा मतम् ।
तत्रेप्सिततमं कर्म चतुर्धान्यत् तु कल्पितम् ॥ ३।७।४५ ॥

मूलम्

निर्वर्त्यं च विकार्यं च प्राप्यं चेति त्रिधा मतम् ।
तत्रेप्सिततमं कर्म चतुर्धान्यत् तु कल्पितम् ॥ ३।७।४५ ॥

विश्वास-प्रस्तुतिः

औदासीन्येन यत् प्राप्यं यच् च कर्तुर् अनीप्सितम् ।
सञ्ज्ञान्तरैर् अनाख्यातं यद् यच् चाप्य् अन्यपूर्वकम् ॥ ३।७।४६ ॥

मूलम्

औदासीन्येन यत् प्राप्यं यच् च कर्तुर् अनीप्सितम् ।
सञ्ज्ञान्तरैर् अनाख्यातं यद् यच् चाप्य् अन्यपूर्वकम् ॥ ३।७।४६ ॥

विश्वास-प्रस्तुतिः

सती वाविद्यमाना वा प्रकृतिः परिणामिनी ।
यस्य नाश्रियते तस्य निर्वर्त्यत्वं प्रचक्षते ॥ ३।७।४७ ॥

मूलम्

सती वाविद्यमाना वा प्रकृतिः परिणामिनी ।
यस्य नाश्रियते तस्य निर्वर्त्यत्वं प्रचक्षते ॥ ३।७।४७ ॥

विश्वास-प्रस्तुतिः

प्रकृतेस् तु विवक्षायां विकार्यं कैश् चिद् अन्यथा ।
निर्वर्त्यं च विकार्यं च कर्म शास्त्रे प्रदर्शितम् ॥ ३।७।४८ ॥

मूलम्

प्रकृतेस् तु विवक्षायां विकार्यं कैश् चिद् अन्यथा ।
निर्वर्त्यं च विकार्यं च कर्म शास्त्रे प्रदर्शितम् ॥ ३।७।४८ ॥

विश्वास-प्रस्तुतिः

यद् असज् जायते सद् वा जन्मना यत् प्रकाश्यते ।
तन् निर्वर्त्यं विकार्यं च कर्म द्वेधा व्यवस्थितम् ॥ ३।७।४९ ॥

मूलम्

यद् असज् जायते सद् वा जन्मना यत् प्रकाश्यते ।
तन् निर्वर्त्यं विकार्यं च कर्म द्वेधा व्यवस्थितम् ॥ ३।७।४९ ॥

विश्वास-प्रस्तुतिः

प्रकृत्युच्छेदसम्भूतं किं चित् काष्ठादिभस्मवत् ।
किं चिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ॥ ३।७।५० ॥

मूलम्

प्रकृत्युच्छेदसम्भूतं किं चित् काष्ठादिभस्मवत् ।
किं चिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ॥ ३।७।५० ॥

विश्वास-प्रस्तुतिः

क्रियाकृता विशेषाणां सिद्धिर् यत्र न गम्यते ।
दर्शनाद् अनुमानाद् वा तत् प्राप्यम् इति कथ्यते ॥ ३।७।५१ ॥

मूलम्

क्रियाकृता विशेषाणां सिद्धिर् यत्र न गम्यते ।
दर्शनाद् अनुमानाद् वा तत् प्राप्यम् इति कथ्यते ॥ ३।७।५१ ॥

विश्वास-प्रस्तुतिः

विशेषलाभः सर्वत्र विद्यते दर्शनादिभिः ।
केषां चित् तदभिव्यक्ति- सिद्धिर् दृष्टिविषादिषु ॥ ३।७।५२ ॥

मूलम्

विशेषलाभः सर्वत्र विद्यते दर्शनादिभिः ।
केषां चित् तदभिव्यक्ति- सिद्धिर् दृष्टिविषादिषु ॥ ३।७।५२ ॥

विश्वास-प्रस्तुतिः

आभासोपगमो व्यक्तिः सोढत्वम् इति कर्मणः ।
विशेषाः प्राप्यमाणस्य क्रियासिद्धौ व्यवस्थिताः ॥ ३।७।५३ ॥

मूलम्

आभासोपगमो व्यक्तिः सोढत्वम् इति कर्मणः ।
विशेषाः प्राप्यमाणस्य क्रियासिद्धौ व्यवस्थिताः ॥ ३।७।५३ ॥

विश्वास-प्रस्तुतिः

निर्वर्त्यादिषु तत् पूर्वम् अनुभूय स्वतन्त्रताम् ।
कर्त्रन्तराणां व्यापारे कर्म सम्पद्यते ततः ॥ ३।७।५४ ॥

मूलम्

निर्वर्त्यादिषु तत् पूर्वम् अनुभूय स्वतन्त्रताम् ।
कर्त्रन्तराणां व्यापारे कर्म सम्पद्यते ततः ॥ ३।७।५४ ॥

विश्वास-प्रस्तुतिः

तद्व्यापारविवेके ऽपि स्वव्यापारे व्यवस्थितम् ।
कर्मापदिष्टाआल्लभते क्व चिच् छास्त्राश्रयान् विधीन् ॥ ३।७।५५ ॥

मूलम्

तद्व्यापारविवेके ऽपि स्वव्यापारे व्यवस्थितम् ।
कर्मापदिष्टाआल्लभते क्व चिच् छास्त्राश्रयान् विधीन् ॥ ३।७।५५ ॥

विश्वास-प्रस्तुतिः

निवृत्तप्रेषणं कर्म स्वक्रियावयवे स्थितम् ।
निवर्तमाने कर्मत्वे स्वे कर्तृत्वे ऽवतिष्ठते ॥ ३।७।५६ ॥

मूलम्

निवृत्तप्रेषणं कर्म स्वक्रियावयवे स्थितम् ।
निवर्तमाने कर्मत्वे स्वे कर्तृत्वे ऽवतिष्ठते ॥ ३।७।५६ ॥

विश्वास-प्रस्तुतिः

तानि धात्वन्तराण्य् एव पचिसिध्यतिवद् विदुः ।
भेदे ऽपि तुल्यरूपत्वाद् एकत्वपरिकल्पना ॥ ३।७।५७ ॥

मूलम्

तानि धात्वन्तराण्य् एव पचिसिध्यतिवद् विदुः ।
भेदे ऽपि तुल्यरूपत्वाद् एकत्वपरिकल्पना ॥ ३।७।५७ ॥

विश्वास-प्रस्तुतिः

एकदेशे समूहे च व्यापाराणां पचादयः ।
स्वभावतः प्रवर्तन्ते तुल्यरूपसमन्विताः ॥ ३।७।५८ ॥

मूलम्

एकदेशे समूहे च व्यापाराणां पचादयः ।
स्वभावतः प्रवर्तन्ते तुल्यरूपसमन्विताः ॥ ३।७।५८ ॥

विश्वास-प्रस्तुतिः

न्यग्भावना न्यग्भवनं रुहौ शुद्धे प्रतीयते ।
न्यग्भावना न्यग्भवनं ण्यन्ते ऽपि प्रतिपद्यते ॥ ३।७।५९ ॥

मूलम्

न्यग्भावना न्यग्भवनं रुहौ शुद्धे प्रतीयते ।
न्यग्भावना न्यग्भवनं ण्यन्ते ऽपि प्रतिपद्यते ॥ ३।७।५९ ॥

विश्वास-प्रस्तुतिः

अवस्थां पञ्चमीम् आहुर् ण्यन्ते तां कर्मकर्तरि ।
निवृत्तप्रेषणाद् धातोः प्राकृते ऽर्थे णिज् उच्यते ॥ ३।७।६० ॥

मूलम्

अवस्थां पञ्चमीम् आहुर् ण्यन्ते तां कर्मकर्तरि ।
निवृत्तप्रेषणाद् धातोः प्राकृते ऽर्थे णिज् उच्यते ॥ ३।७।६० ॥

विश्वास-प्रस्तुतिः

ब्रवीति पचतेर् अर्थं सिध्यतिर् न विना णिचा ।
स ण्यन्तः पचतेर् अर्थे प्राकृते व्यवतिष्ठते ॥ ३।७।६१ ॥

मूलम्

ब्रवीति पचतेर् अर्थं सिध्यतिर् न विना णिचा ।
स ण्यन्तः पचतेर् अर्थे प्राकृते व्यवतिष्ठते ॥ ३।७।६१ ॥

विश्वास-प्रस्तुतिः

केषां चिद् देवदत्तादेर् व्यापारो यः सकर्मके ।
स विना देवदत्तादेः कटादिषु विवक्ष्यते ॥ ३।७।६२ ॥

मूलम्

केषां चिद् देवदत्तादेर् व्यापारो यः सकर्मके ।
स विना देवदत्तादेः कटादिषु विवक्ष्यते ॥ ३।७।६२ ॥

विश्वास-प्रस्तुतिः

निवृत्तप्रेषणं कर्म स्वस्य कर्तुः प्रयोजकम् ।
प्रेषणान्तरसम्बन्धे ण्यन्ते लेनाभिधीयते ॥ ३।७।६३ ॥

मूलम्

निवृत्तप्रेषणं कर्म स्वस्य कर्तुः प्रयोजकम् ।
प्रेषणान्तरसम्बन्धे ण्यन्ते लेनाभिधीयते ॥ ३।७।६३ ॥

विश्वास-प्रस्तुतिः

सदृशादिषु यत् कर्म- कर्तृत्वं प्रतिपद्यते ।
आपत्त्यापादने तत्र विषयत्वं प्रति क्रिये ॥ ३।७।६४ ॥

मूलम्

सदृशादिषु यत् कर्म- कर्तृत्वं प्रतिपद्यते ।
आपत्त्यापादने तत्र विषयत्वं प्रति क्रिये ॥ ३।७।६४ ॥

विश्वास-प्रस्तुतिः

कुतश् चिद् आहृत्य पदम् एवं च परिकल्पने ।
कर्मस्थभावकत्वं स्याद् दर्शनाद्यभिधायिनाम् ॥ ३।७।६५ ॥

मूलम्

कुतश् चिद् आहृत्य पदम् एवं च परिकल्पने ।
कर्मस्थभावकत्वं स्याद् दर्शनाद्यभिधायिनाम् ॥ ३।७।६५ ॥

विश्वास-प्रस्तुतिः

विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता ।
क्रियाव्यवस्था त्व् अन्येषां शब्दैर् एव प्रकाश्यते ॥ ३।७।६६ ॥

मूलम्

विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता ।
क्रियाव्यवस्था त्व् अन्येषां शब्दैर् एव प्रकाश्यते ॥ ३।७।६६ ॥

विश्वास-प्रस्तुतिः

कालभावाध्वदेशानाम् अन्तर्भूतक्रियान्तरैः ।
सर्वैर् अकर्मकैर् योगे कर्मत्वम् उपजायते ॥ ३।७।६७ ॥

मूलम्

कालभावाध्वदेशानाम् अन्तर्भूतक्रियान्तरैः ।
सर्वैर् अकर्मकैर् योगे कर्मत्वम् उपजायते ॥ ३।७।६७ ॥

विश्वास-प्रस्तुतिः

आधारत्वम् इव प्राप्तास् ते पुनर् द्रव्यकर्मसु ।
कालादयो भिन्नकक्ष्यं यान्ति कर्मत्वम् उत्तरम् ॥ ३।७।६८ ॥

मूलम्

आधारत्वम् इव प्राप्तास् ते पुनर् द्रव्यकर्मसु ।
कालादयो भिन्नकक्ष्यं यान्ति कर्मत्वम् उत्तरम् ॥ ३।७।६८ ॥

विश्वास-प्रस्तुतिः

अतस् तैः कर्मभिर् धातुर् युक्तो ऽद्रव्यैर् अकर्मकः ।
लस्य कर्मणि भावे च निमित्तत्वाय कल्पते ॥ ३।७।६९ ॥

मूलम्

अतस् तैः कर्मभिर् धातुर् युक्तो ऽद्रव्यैर् अकर्मकः ।
लस्य कर्मणि भावे च निमित्तत्वाय कल्पते ॥ ३।७।६९ ॥

विश्वास-प्रस्तुतिः

सर्वं चाकथितं कर्म भिन्नकक्ष्यं प्रतीयते ।
धात्वर्थोद्देशभेदेन तन् नेप्सिततमं किल ॥ ३।७।७० ॥

मूलम्

सर्वं चाकथितं कर्म भिन्नकक्ष्यं प्रतीयते ।
धात्वर्थोद्देशभेदेन तन् नेप्सिततमं किल ॥ ३।७।७० ॥

विश्वास-प्रस्तुतिः

प्रधानकर्म कथितं यत् क्रियायाः प्रयोजकम् ।
तत्सिद्धये क्रियायुक्तम् अन्यत् त्व् अकथितं स्मृतम् ॥ ३।७।७१ ॥

मूलम्

प्रधानकर्म कथितं यत् क्रियायाः प्रयोजकम् ।
तत्सिद्धये क्रियायुक्तम् अन्यत् त्व् अकथितं स्मृतम् ॥ ३।७।७१ ॥

विश्वास-प्रस्तुतिः

दुह्यादिवन् नयत्यादौ कर्मत्वम् अकथाश्रयम् ।
आख्यातानुपयोगे तु नियमाच् छेष इष्यते ॥ ३।७।७२ ॥

मूलम्

दुह्यादिवन् नयत्यादौ कर्मत्वम् अकथाश्रयम् ।
आख्यातानुपयोगे तु नियमाच् छेष इष्यते ॥ ३।७।७२ ॥

विश्वास-प्रस्तुतिः

अन्तर्भूतणिजर्थानां दुह्यादीनां णिजन्तवत् ।
सिद्धं पूर्वेण कर्मत्वं णिजन्तनियमस् तथा ॥ ३।७।७३ ॥

मूलम्

अन्तर्भूतणिजर्थानां दुह्यादीनां णिजन्तवत् ।
सिद्धं पूर्वेण कर्मत्वं णिजन्तनियमस् तथा ॥ ३।७।७३ ॥

विश्वास-प्रस्तुतिः

करणस्य स्वकक्ष्यायां न प्रकर्षाश्रयो यथा ।
कर्मणो ऽपि स्वकक्ष्यायां न स्याद् अतिशयस् तथा ॥ ३।७।७४ ॥

मूलम्

करणस्य स्वकक्ष्यायां न प्रकर्षाश्रयो यथा ।
कर्मणो ऽपि स्वकक्ष्यायां न स्याद् अतिशयस् तथा ॥ ३।७।७४ ॥

विश्वास-प्रस्तुतिः

कर्मणस् त्व् आप्तुम् इष्टत्व आश्रिते ऽतिशयो यतः ।
आश्रीयते ततो ऽत्यन्तं भेदः पूर्वेण कर्मणा ॥ ३।७।७५ ॥

मूलम्

कर्मणस् त्व् आप्तुम् इष्टत्व आश्रिते ऽतिशयो यतः ।
आश्रीयते ततो ऽत्यन्तं भेदः पूर्वेण कर्मणा ॥ ३।७।७५ ॥

विश्वास-प्रस्तुतिः

णिजन्ते च यथा कर्ता सक्रियः सन् प्रयुज्यते ।
न दुह्यादौ तथा कर्ता निष्क्रियो ऽपि प्रयुज्यते ॥ ३।७।७६ ॥

मूलम्

णिजन्ते च यथा कर्ता सक्रियः सन् प्रयुज्यते ।
न दुह्यादौ तथा कर्ता निष्क्रियो ऽपि प्रयुज्यते ॥ ३।७।७६ ॥

विश्वास-प्रस्तुतिः

भेदवाक्यं तु यन् ण्यन्ते नीदुहिप्रकृतौ च यत् ।
शब्दान्तरत्वान् नैवास्ति संस्पर्शस् तस्य धातुना ॥ ३।७।७७ ॥

मूलम्

भेदवाक्यं तु यन् ण्यन्ते नीदुहिप्रकृतौ च यत् ।
शब्दान्तरत्वान् नैवास्ति संस्पर्शस् तस्य धातुना ॥ ३।७।७७ ॥

विश्वास-प्रस्तुतिः

यथैवैकम् अपादानं शास्त्रे भेदेन दर्शितम् ।
तथैकम् एव कर्मापि भेदेन प्रतिपादितम् ॥ ३।७।७८ ॥

मूलम्

यथैवैकम् अपादानं शास्त्रे भेदेन दर्शितम् ।
तथैकम् एव कर्मापि भेदेन प्रतिपादितम् ॥ ३।७।७८ ॥

विश्वास-प्रस्तुतिः

निर्वर्त्यो वा विकार्यो वा प्राप्यो वा साधनाश्रयः ।
क्रियाणाम् एव साध्यत्वात् सिद्धरूपो ऽभिधीयते ॥ ३।७।७९ ॥

मूलम्

निर्वर्त्यो वा विकार्यो वा प्राप्यो वा साधनाश्रयः ।
क्रियाणाम् एव साध्यत्वात् सिद्धरूपो ऽभिधीयते ॥ ३।७।७९ ॥

विश्वास-प्रस्तुतिः

अहितेषु यथा लौल्यात् कर्तुर् इच्छोपजायते ।
विषादिषु भयादिभ्यस् तथैवासौ प्रवर्तते ॥ ३।७।८० ॥

मूलम्

अहितेषु यथा लौल्यात् कर्तुर् इच्छोपजायते ।
विषादिषु भयादिभ्यस् तथैवासौ प्रवर्तते ॥ ३।७।८० ॥

विश्वास-प्रस्तुतिः

प्रधानेतरयोर् यत्र द्रव्यस्य क्रिययोः पृथक् ।
शक्तिर् गुणाश्रया तत्र प्रधानम् अनुरुध्यते ॥ ३।७।८१ ॥

मूलम्

प्रधानेतरयोर् यत्र द्रव्यस्य क्रिययोः पृथक् ।
शक्तिर् गुणाश्रया तत्र प्रधानम् अनुरुध्यते ॥ ३।७।८१ ॥

विश्वास-प्रस्तुतिः

प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते ।
यदा गुणे तदा तद्वद् अनुक्तापि प्रकाशते ॥ ३।७।८२ ॥

मूलम्

प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते ।
यदा गुणे तदा तद्वद् अनुक्तापि प्रकाशते ॥ ३।७।८२ ॥

विश्वास-प्रस्तुतिः

पचाव् अनुक्तं यत् कर्म क्त्वान्ते भावाभिधायिनि ।
भुजौ शक्त्यन्तरे ऽप्य् उक्ते तत् तद्धर्म प्रकाशते ॥ ३।७।८३ ॥

मूलम्

पचाव् अनुक्तं यत् कर्म क्त्वान्ते भावाभिधायिनि ।
भुजौ शक्त्यन्तरे ऽप्य् उक्ते तत् तद्धर्म प्रकाशते ॥ ३।७।८३ ॥

विश्वास-प्रस्तुतिः

इषेश् च गमिसंस्पर्शाद् ग्रामे यो लो विधीयते ।
तत्रेषिणैव निर्भोगः क्रियते गमिकर्मणः ॥ ३।७।८४ ॥

मूलम्

इषेश् च गमिसंस्पर्शाद् ग्रामे यो लो विधीयते ।
तत्रेषिणैव निर्भोगः क्रियते गमिकर्मणः ॥ ३।७।८४ ॥

विश्वास-प्रस्तुतिः

पक्त्वा भुज्यत इत्य् अत्र केषां चिन् न व्यपेक्षते ।
ओदनं पचतिः सो ऽसाव् अनुमानात् प्रतीयते ॥ ३।७।८५ ॥

मूलम्

पक्त्वा भुज्यत इत्य् अत्र केषां चिन् न व्यपेक्षते ।
ओदनं पचतिः सो ऽसाव् अनुमानात् प्रतीयते ॥ ३।७।८५ ॥

विश्वास-प्रस्तुतिः

तथाभिनिविशौ कर्म यत् तिङन्ते ऽभिधीयते ।
क्त्वान्ते ऽधिकरणत्वे ऽपि न तत्रेच्छन्ति सप्तमीम् ॥ ३।७।८६ ॥

मूलम्

तथाभिनिविशौ कर्म यत् तिङन्ते ऽभिधीयते ।
क्त्वान्ते ऽधिकरणत्वे ऽपि न तत्रेच्छन्ति सप्तमीम् ॥ ३।७।८६ ॥

विश्वास-प्रस्तुतिः

यन् निर्वृत्ताश्रयं कर्म प्राप्तेर् अप्रचितं पुनः ।
भक्ष्यादिविषयापत्त्या भिद्यमानं तद् ईप्सितम् ॥ ३।७।८७ ॥

मूलम्

यन् निर्वृत्ताश्रयं कर्म प्राप्तेर् अप्रचितं पुनः ।
भक्ष्यादिविषयापत्त्या भिद्यमानं तद् ईप्सितम् ॥ ३।७।८७ ॥

विश्वास-प्रस्तुतिः

धातोर् अर्थान्तरे वृत्तेर् धात्वर्थेनोपसङ्ग्रहात् ।
प्रसिद्धेर् अविवक्षातः कर्मणो ऽकर्मिका क्रिया ॥ ३।७।८८ ॥

मूलम्

धातोर् अर्थान्तरे वृत्तेर् धात्वर्थेनोपसङ्ग्रहात् ।
प्रसिद्धेर् अविवक्षातः कर्मणो ऽकर्मिका क्रिया ॥ ३।७।८८ ॥

विश्वास-प्रस्तुतिः

भेदा य एते चत्वारः सामान्येन प्रदर्शिताः ।
ते निमित्तादिभेदेन भिद्यन्ते बहुधा पुनः ॥ ३।७।८९ ॥

मूलम्

भेदा य एते चत्वारः सामान्येन प्रदर्शिताः ।
ते निमित्तादिभेदेन भिद्यन्ते बहुधा पुनः ॥ ३।७।८९ ॥

॥ इति कर्माधिकारः ॥

करणाधिकारः

विश्वास-प्रस्तुतिः

क्रियायाः परिनिष्पत्तिर् यद्व्यापाराद् अनन्तरम् ।
विवक्ष्यते यदा तत्र करणत्वं तदा स्मृतम् ॥ ३।७।९० ॥

मूलम्

क्रियायाः परिनिष्पत्तिर् यद्व्यापाराद् अनन्तरम् ।
विवक्ष्यते यदा तत्र करणत्वं तदा स्मृतम् ॥ ३।७।९० ॥

विश्वास-प्रस्तुतिः

वस्तुतस् तद् अनिर्देश्यं न हि वस्तु व्यवस्थितम् ।
स्थाल्या पच्यत इत्य् एषा विवक्षा दृश्यते यतः ॥ ३।७।९१ ॥

मूलम्

वस्तुतस् तद् अनिर्देश्यं न हि वस्तु व्यवस्थितम् ।
स्थाल्या पच्यत इत्य् एषा विवक्षा दृश्यते यतः ॥ ३।७।९१ ॥

विश्वास-प्रस्तुतिः

करणेषु तु संस्कारम् आरभन्ते पुनः पुनः ।
विनियोगविशेषांश् च प्रधानस्य प्रसिद्धये ॥ ३।७।९२ ॥

मूलम्

करणेषु तु संस्कारम् आरभन्ते पुनः पुनः ।
विनियोगविशेषांश् च प्रधानस्य प्रसिद्धये ॥ ३।७।९२ ॥

विश्वास-प्रस्तुतिः

स्वकक्ष्यासु प्रकर्षश् च करणानां न विद्यते ।
आश्रितातिशयत्वं तु परतस् तत्र लक्षणम् ॥ ३।७।९३ ॥

मूलम्

स्वकक्ष्यासु प्रकर्षश् च करणानां न विद्यते ।
आश्रितातिशयत्वं तु परतस् तत्र लक्षणम् ॥ ३।७।९३ ॥

विश्वास-प्रस्तुतिः

स्वातन्त्र्ये ऽपि प्रयोक्तार आराद् एवोपकुर्वते ।
करणेन हि सर्वेषां व्यापारो व्यवधीयते ॥ ३।७।९४ ॥

मूलम्

स्वातन्त्र्ये ऽपि प्रयोक्तार आराद् एवोपकुर्वते ।
करणेन हि सर्वेषां व्यापारो व्यवधीयते ॥ ३।७।९४ ॥

विश्वास-प्रस्तुतिः

क्रियासिद्धौ प्रकर्षो ऽयं न्यग्भावस् त्व् एव कर्तरि ।
सिद्धौ सत्यां हि सामान्यं साधकत्वं प्रकृष्यते ॥ ३।७।९५ ॥

मूलम्

क्रियासिद्धौ प्रकर्षो ऽयं न्यग्भावस् त्व् एव कर्तरि ।
सिद्धौ सत्यां हि सामान्यं साधकत्वं प्रकृष्यते ॥ ३।७।९५ ॥

विश्वास-प्रस्तुतिः

अस्यादीनां तु कर्तृत्वे तैक्ष्ण्यादि करणं विदुः ।
तैक्ष्ण्यादीनां स्वतन्त्रत्वे द्वेधात्मा व्यवतिष्ठते ॥ ३।७।९६ ॥

मूलम्

अस्यादीनां तु कर्तृत्वे तैक्ष्ण्यादि करणं विदुः ।
तैक्ष्ण्यादीनां स्वतन्त्रत्वे द्वेधात्मा व्यवतिष्ठते ॥ ३।७।९६ ॥

विश्वास-प्रस्तुतिः

आत्मभेदे ऽपि सत्य् एवम् एको ऽर्थः स तथा स्थितः ।
तदाश्रयत्वाद् भेदे ऽपि कर्तृत्वं बाधकं ततः ॥ ३।७।९७ ॥

मूलम्

आत्मभेदे ऽपि सत्य् एवम् एको ऽर्थः स तथा स्थितः ।
तदाश्रयत्वाद् भेदे ऽपि कर्तृत्वं बाधकं ततः ॥ ३।७।९७ ॥

विश्वास-प्रस्तुतिः

यथा च सन्निधानेन करणत्वं प्रतीयते ।
तथैवासन्निधाने ऽपि क्रियासिद्धेः प्रतीयते ॥ ३।७।९८ ॥

मूलम्

यथा च सन्निधानेन करणत्वं प्रतीयते ।
तथैवासन्निधाने ऽपि क्रियासिद्धेः प्रतीयते ॥ ३।७।९८ ॥

विश्वास-प्रस्तुतिः

स्तोकस्य वाभिनिर्वृत्तेर् अनिर्वृत्तेश् च तस्य वा ।
प्रसिद्धिं करणत्वस्य स्तोकादीनां प्रचक्षते ॥ ३।७।९९ ॥

मूलम्

स्तोकस्य वाभिनिर्वृत्तेर् अनिर्वृत्तेश् च तस्य वा ।
प्रसिद्धिं करणत्वस्य स्तोकादीनां प्रचक्षते ॥ ३।७।९९ ॥

विश्वास-प्रस्तुतिः

धर्माणां तद्वता भेदाद् अभेदाच् च विशिष्यते ।
क्रियावधेर् अवच्छेद- विशेषाद् भिद्यते यथा ॥ ३।७।१०० ॥

मूलम्

धर्माणां तद्वता भेदाद् अभेदाच् च विशिष्यते ।
क्रियावधेर् अवच्छेद- विशेषाद् भिद्यते यथा ॥ ३।७।१०० ॥

॥ इति करणाधिकारः ॥

कर्त्रधिकारः

विश्वास-प्रस्तुतिः

प्राग् अन्यतः शक्तिलाभान् न्यग्भावापादनाद् अपि ।
तदधीनप्रवृत्तित्वात् प्रवृत्तानां निवर्तनात् ॥ ३।७।१०१ ॥

मूलम्

प्राग् अन्यतः शक्तिलाभान् न्यग्भावापादनाद् अपि ।
तदधीनप्रवृत्तित्वात् प्रवृत्तानां निवर्तनात् ॥ ३।७।१०१ ॥

विश्वास-प्रस्तुतिः

अदृष्टत्वात् प्रतिनिधेः प्रविवेके च दर्शनात् ।
आराद् अप्य् उपकारित्वे स्वातन्त्र्यं कर्तुर् उच्यते ॥ ३।७।१०२ ॥

मूलम्

अदृष्टत्वात् प्रतिनिधेः प्रविवेके च दर्शनात् ।
आराद् अप्य् उपकारित्वे स्वातन्त्र्यं कर्तुर् उच्यते ॥ ३।७।१०२ ॥

विश्वास-प्रस्तुतिः

धर्मैर् अभ्युदितैः शब्दे नियमो न तु वस्तुनि ।
कर्तृधर्मविवक्षायां शब्दात् कर्ता प्रतीयते ॥ ३।७।१०३ ॥

मूलम्

धर्मैर् अभ्युदितैः शब्दे नियमो न तु वस्तुनि ।
कर्तृधर्मविवक्षायां शब्दात् कर्ता प्रतीयते ॥ ३।७।१०३ ॥

विश्वास-प्रस्तुतिः

एकस्य बुद्ध्यवस्थाभिर् भेदे च परिकल्पिते ।
कर्तृत्वं करणत्वं च कर्मत्वं चोपजायते ॥ ३।७।१०४ ॥

मूलम्

एकस्य बुद्ध्यवस्थाभिर् भेदे च परिकल्पिते ।
कर्तृत्वं करणत्वं च कर्मत्वं चोपजायते ॥ ३।७।१०४ ॥

विश्वास-प्रस्तुतिः

उत्पत्तेः प्राग् असद्भावो बुद्ध्यवस्थानिबन्धनः ।
अविशिष्टः सतान्येन कर्ता भवति जन्मनः ॥ ३।७।१०५ ॥

मूलम्

उत्पत्तेः प्राग् असद्भावो बुद्ध्यवस्थानिबन्धनः ।
अविशिष्टः सतान्येन कर्ता भवति जन्मनः ॥ ३।७।१०५ ॥

विश्वास-प्रस्तुतिः

कारणं कार्यभावेन यदा वाव्यवतिष्ठते ।
कार्यशब्दं तदा लब्ध्वा कार्यत्वेनोपजायते ॥ ३।७।१०६ ॥

मूलम्

कारणं कार्यभावेन यदा वाव्यवतिष्ठते ।
कार्यशब्दं तदा लब्ध्वा कार्यत्वेनोपजायते ॥ ३।७।१०६ ॥

विश्वास-प्रस्तुतिः

यथाहेः कुण्डलीभावो व्यग्राणां वा समग्रता ।
तथैव जन्मरूपत्वं सताम् एके प्रचक्षते ॥ ३।७।१०७ ॥

मूलम्

यथाहेः कुण्डलीभावो व्यग्राणां वा समग्रता ।
तथैव जन्मरूपत्वं सताम् एके प्रचक्षते ॥ ३।७।१०७ ॥

विश्वास-प्रस्तुतिः

विभक्तयोनि यत् कार्यं कारणेभ्यः प्रवर्तते ।
स्वा जातिर् व्यक्तिरूपेण तस्यापि व्यवतिष्ठते ॥ ३।७।१०८ ॥

मूलम्

विभक्तयोनि यत् कार्यं कारणेभ्यः प्रवर्तते ।
स्वा जातिर् व्यक्तिरूपेण तस्यापि व्यवतिष्ठते ॥ ३।७।१०८ ॥

विश्वास-प्रस्तुतिः

भावेष्व् एव पदन्यासः प्रज्ञाया वाच एव वा ।
नास्तीत्य् अप्य् अपदे नास्ति न च सद् भिद्यते ततः ॥ ३।७।१०९ ॥

मूलम्

भावेष्व् एव पदन्यासः प्रज्ञाया वाच एव वा ।
नास्तीत्य् अप्य् अपदे नास्ति न च सद् भिद्यते ततः ॥ ३।७।१०९ ॥

विश्वास-प्रस्तुतिः

बुद्धिशब्दौ प्रवर्तेते यथाभूतेषु वस्तुषु ।
तेषाम् अन्येन तत्त्वेन व्यवहारो न विद्यते ॥ ३।७।११० ॥

मूलम्

बुद्धिशब्दौ प्रवर्तेते यथाभूतेषु वस्तुषु ।
तेषाम् अन्येन तत्त्वेन व्यवहारो न विद्यते ॥ ३।७।११० ॥

विश्वास-प्रस्तुतिः

आकाशस्य यथा भेदश् छायायाश् चलनं यथा ।
जन्मनाशाव् अभेदे ऽपि तथा कैश् चित् प्रकल्पितौ ॥ ३।७।१११ ॥

मूलम्

आकाशस्य यथा भेदश् छायायाश् चलनं यथा ।
जन्मनाशाव् अभेदे ऽपि तथा कैश् चित् प्रकल्पितौ ॥ ३।७।१११ ॥

विश्वास-प्रस्तुतिः

यथैवाकाशनास्तित्वम् असन् मूर्तिनिरूपितम् ।
तथैव मूर्तिनास्तित्वम् असदाकाशनिश्रयम् ॥ ३।७।११२ ॥

मूलम्

यथैवाकाशनास्तित्वम् असन् मूर्तिनिरूपितम् ।
तथैव मूर्तिनास्तित्वम् असदाकाशनिश्रयम् ॥ ३।७।११२ ॥

विश्वास-प्रस्तुतिः

यथा तदर्थैर् व्यापारैः क्रियात्मा व्यपदिश्यते ।
अभेदग्रहणाद् एष कार्यकारणयोः क्रमः ॥ ३।७।११३ ॥

मूलम्

यथा तदर्थैर् व्यापारैः क्रियात्मा व्यपदिश्यते ।
अभेदग्रहणाद् एष कार्यकारणयोः क्रमः ॥ ३।७।११३ ॥

विश्वास-प्रस्तुतिः

विकारो जन्मनः कर्ता प्रकृतिर् वेति संशये ।
भिद्यते प्रतिपत्त्ट्णां दर्शनं लिङ्गदर्शनैः ॥ ३।७।११४ ॥

मूलम्

विकारो जन्मनः कर्ता प्रकृतिर् वेति संशये ।
भिद्यते प्रतिपत्त्ट्णां दर्शनं लिङ्गदर्शनैः ॥ ३।७।११४ ॥

विश्वास-प्रस्तुतिः

कॢपि सम्पद्यमाने या चतुर्थी सा विकारतः ।
सुवर्णपिण्डे प्रकृतौ वचनं कुण्डलाश्रयम् ॥ ३।७।११५ ॥

मूलम्

कॢपि सम्पद्यमाने या चतुर्थी सा विकारतः ।
सुवर्णपिण्डे प्रकृतौ वचनं कुण्डलाश्रयम् ॥ ३।७।११५ ॥

विश्वास-प्रस्तुतिः

वाक्ये सम्पद्यतेः कर्ता सङ्घश् च्व्यन्तस्य कथ्यते ।
वृत्तौ सङ्घीभवन्तीति ब्राह्मणानां स्वतन्त्रता ॥ ३।७।११६ ॥

मूलम्

वाक्ये सम्पद्यतेः कर्ता सङ्घश् च्व्यन्तस्य कथ्यते ।
वृत्तौ सङ्घीभवन्तीति ब्राह्मणानां स्वतन्त्रता ॥ ३।७।११६ ॥

विश्वास-प्रस्तुतिः

अत्वं सम्पद्यते यस् त्वं न तस्मिन् युष्मदाश्रया ।
प्रवृत्तिः पुरुषस्यास्ति प्राकृतः स विधीयते ॥ ३।७।११७ ॥

मूलम्

अत्वं सम्पद्यते यस् त्वं न तस्मिन् युष्मदाश्रया ।
प्रवृत्तिः पुरुषस्यास्ति प्राकृतः स विधीयते ॥ ३।७।११७ ॥

विश्वास-प्रस्तुतिः

पूर्वावस्थाम् अविजहत् संस्पृशन् धर्मम् उत्तरम् ।
सम्मूर्छित इवार्थात्मा जायमानो ऽभिधीयते ॥ ३।७।११८ ॥

मूलम्

पूर्वावस्थाम् अविजहत् संस्पृशन् धर्मम् उत्तरम् ।
सम्मूर्छित इवार्थात्मा जायमानो ऽभिधीयते ॥ ३।७।११८ ॥

विश्वास-प्रस्तुतिः

सव्यापारतरः कश् चित् क्व चिद् धर्मः प्रतीयते ।
संसृज्यन्ते च भावानां भेदवत्यो ऽपि शक्तयः ॥ ३।७।११९ ॥

मूलम्

सव्यापारतरः कश् चित् क्व चिद् धर्मः प्रतीयते ।
संसृज्यन्ते च भावानां भेदवत्यो ऽपि शक्तयः ॥ ३।७।११९ ॥

विश्वास-प्रस्तुतिः

विपरीतार्थवृत्तित्वं पुरुषस्य विपर्यये ।
गम्येत साधनं ह्य् अत्र सव्यापारं प्रतीयते ॥ ३।७।१२० ॥

मूलम्

विपरीतार्थवृत्तित्वं पुरुषस्य विपर्यये ।
गम्येत साधनं ह्य् अत्र सव्यापारं प्रतीयते ॥ ३।७।१२० ॥

विश्वास-प्रस्तुतिः

त्वम् अन्यो भवसीत्य् एषा तत्र स्यात् परिकल्पना ।
राज्ञि भृत्यत्वमापन्ने यथा तद्वद् गतिर् भवेत् ॥ ३।७।१२१ ॥

मूलम्

त्वम् अन्यो भवसीत्य् एषा तत्र स्यात् परिकल्पना ।
राज्ञि भृत्यत्वमापन्ने यथा तद्वद् गतिर् भवेत् ॥ ३।७।१२१ ॥

विश्वास-प्रस्तुतिः

सम्भावनात् क्रियासिद्धौ कर्तृत्वेन समाश्रितः ।
क्रियायाम् आत्मसाध्यायां साधनानां प्रयोजकः ॥ ३।७।१२२ ॥

मूलम्

सम्भावनात् क्रियासिद्धौ कर्तृत्वेन समाश्रितः ।
क्रियायाम् आत्मसाध्यायां साधनानां प्रयोजकः ॥ ३।७।१२२ ॥

विश्वास-प्रस्तुतिः

प्रयोगमात्रे न्यग्भावं स्वातन्त्र्याद् एव निश्रितः ।
अविशिष्टो भवत्य् अन्यैः स्वतन्त्रैर् मुक्तसंशयैः ॥ ३।७।१२३ ॥

मूलम्

प्रयोगमात्रे न्यग्भावं स्वातन्त्र्याद् एव निश्रितः ।
अविशिष्टो भवत्य् अन्यैः स्वतन्त्रैर् मुक्तसंशयैः ॥ ३।७।१२३ ॥

विश्वास-प्रस्तुतिः

निमित्तेभ्यः प्रवर्तन्ते सर्व एव स्वभूतये ।
अभिप्रायानुरोधो ऽपि स्वार्थस्यैव प्रसिद्धये ॥ ३।७।१२४ ॥

मूलम्

निमित्तेभ्यः प्रवर्तन्ते सर्व एव स्वभूतये ।
अभिप्रायानुरोधो ऽपि स्वार्थस्यैव प्रसिद्धये ॥ ३।७।१२४ ॥

॥ इति कर्त्रधिकारः ॥

हेत्वधिकारः

विश्वास-प्रस्तुतिः

प्रेषणाध्येषणे कुर्वंस् तत्समर्थानि चाचरन् ।
कर्तैव विहितां शास्त्रे हेतुसञ्ज्ञां प्रपद्यते ॥ ३।७।१२५ ॥

मूलम्

प्रेषणाध्येषणे कुर्वंस् तत्समर्थानि चाचरन् ।
कर्तैव विहितां शास्त्रे हेतुसञ्ज्ञां प्रपद्यते ॥ ३।७।१२५ ॥

विश्वास-प्रस्तुतिः

द्रव्यमात्रस्य तु प्रैषे पृच्छ्यादेर् लोड् विधीयते ।
सक्रियस्य प्रयोगस् तु यदा स विषयो णिचः ॥ ३।७।१२६ ॥

मूलम्

द्रव्यमात्रस्य तु प्रैषे पृच्छ्यादेर् लोड् विधीयते ।
सक्रियस्य प्रयोगस् तु यदा स विषयो णिचः ॥ ३।७।१२६ ॥

विश्वास-प्रस्तुतिः

गुणक्रियायां स्वातन्त्र्यात् प्रेषणे कर्मतां गतः ।
नियमात् कर्मसञ्ज्ञायाः स्वधर्मेणाभिधीयते ॥ ३।७।१२७ ॥

मूलम्

गुणक्रियायां स्वातन्त्र्यात् प्रेषणे कर्मतां गतः ।
नियमात् कर्मसञ्ज्ञायाः स्वधर्मेणाभिधीयते ॥ ३।७।१२७ ॥

विश्वास-प्रस्तुतिः

क्रियायाः प्रेरकं कर्म हेतुः कर्तुः प्रयोजकः ।
कर्मार्था च क्रियोत्पत्ति- संस्कारप्रतिपत्तिभिः ॥ ३।७।१२८ ॥

मूलम्

क्रियायाः प्रेरकं कर्म हेतुः कर्तुः प्रयोजकः ।
कर्मार्था च क्रियोत्पत्ति- संस्कारप्रतिपत्तिभिः ॥ ३।७।१२८ ॥

॥ इति हेत्वधिकारः ॥

सम्प्रदानाधिकारः

विश्वास-प्रस्तुतिः

अनिराकरणात् कर्तुस् त्यागाङ्गं कर्मणेप्सितम् ।
प्रेरणानुमतिभ्यां च लभते सम्प्रदानताम् ॥ ३।७।१२९ ॥

मूलम्

अनिराकरणात् कर्तुस् त्यागाङ्गं कर्मणेप्सितम् ।
प्रेरणानुमतिभ्यां च लभते सम्प्रदानताम् ॥ ३।७।१२९ ॥

विश्वास-प्रस्तुतिः

हेतुत्वे कर्मसञ्ज्ञायां शेषत्वे वापि कारकम् ।
रुच्यर्थादिषु शास्त्रेण सम्प्रदानाख्यम् उच्यते ॥ ३।७।१३० ॥

मूलम्

हेतुत्वे कर्मसञ्ज्ञायां शेषत्वे वापि कारकम् ।
रुच्यर्थादिषु शास्त्रेण सम्प्रदानाख्यम् उच्यते ॥ ३।७।१३० ॥

विश्वास-प्रस्तुतिः

भेदस्य च विवक्षायां पूर्वां पूर्वां क्रियां प्रति ।
परस्याङ्गस्य कर्मत्वान् न क्रियाग्रहणं कृतम् ॥ ३।७।१३१ ॥

मूलम्

भेदस्य च विवक्षायां पूर्वां पूर्वां क्रियां प्रति ।
परस्याङ्गस्य कर्मत्वान् न क्रियाग्रहणं कृतम् ॥ ३।७।१३१ ॥

विश्वास-प्रस्तुतिः

क्रियाणां समुदाये तु यदैकत्वं विवक्षितम् ।
तदा कर्म क्रियायोगात् स्वाख्ययैवोपचर्यते ॥ ३।७।१३२ ॥

मूलम्

क्रियाणां समुदाये तु यदैकत्वं विवक्षितम् ।
तदा कर्म क्रियायोगात् स्वाख्ययैवोपचर्यते ॥ ३।७।१३२ ॥

विश्वास-प्रस्तुतिः

भेदाभेदविवक्षा च स्वभावेन व्यवस्थिता ।
तस्माद् गत्यर्थकर्मत्वे व्यभिचारो न दृश्यते ॥ ३।७।१३३ ॥

मूलम्

भेदाभेदविवक्षा च स्वभावेन व्यवस्थिता ।
तस्माद् गत्यर्थकर्मत्वे व्यभिचारो न दृश्यते ॥ ३।७।१३३ ॥

विश्वास-प्रस्तुतिः

विकल्पेनैव सर्वत्र सञ्ज्ञे स्याताम् उभे यदि ।
आरम्भेण न योगस्य प्रत्याख्यानं समं भवेत् ॥ ३।७।१३४ ॥

मूलम्

विकल्पेनैव सर्वत्र सञ्ज्ञे स्याताम् उभे यदि ।
आरम्भेण न योगस्य प्रत्याख्यानं समं भवेत् ॥ ३।७।१३४ ॥

विश्वास-प्रस्तुतिः

त्यागरूपं प्रहातव्ये प्राप्ये संसर्गदर्शनम् ।
आस्थितं कर्म यत् तत्र द्वैरूप्यं भजते क्रिया ॥ ३।७।१३५ ॥

मूलम्

त्यागरूपं प्रहातव्ये प्राप्ये संसर्गदर्शनम् ।
आस्थितं कर्म यत् तत्र द्वैरूप्यं भजते क्रिया ॥ ३।७।१३५ ॥

॥ इति सम्प्रदानाधिकारः ॥

अपादानाधिकारः

विश्वास-प्रस्तुतिः

निर्दिष्टविषयं किं चिद् उपात्तविषयं तथा ।
अपेक्षितक्रियं चेति त्रिधापादानम् उच्यते ॥ ३।७।१३६ ॥

मूलम्

निर्दिष्टविषयं किं चिद् उपात्तविषयं तथा ।
अपेक्षितक्रियं चेति त्रिधापादानम् उच्यते ॥ ३।७।१३६ ॥

विश्वास-प्रस्तुतिः

संयोगभेदाद् भिन्नात्मा गमिर् एव भ्रमिर् यथा ।
ध्रुवावधिर् अपायो ऽपि समवेतस् तथाध्रुवे ॥ ३।७।१३७ ॥

मूलम्

संयोगभेदाद् भिन्नात्मा गमिर् एव भ्रमिर् यथा ।
ध्रुवावधिर् अपायो ऽपि समवेतस् तथाध्रुवे ॥ ३।७।१३७ ॥

विश्वास-प्रस्तुतिः

द्रव्यस्वभावो न ध्रौव्यम् इति सूत्रे प्रतीयते ।
अपायविषयं ध्रौव्यं यत् तु तावद् विवक्षितम् ॥ ३।७।१३८ ॥

मूलम्

द्रव्यस्वभावो न ध्रौव्यम् इति सूत्रे प्रतीयते ।
अपायविषयं ध्रौव्यं यत् तु तावद् विवक्षितम् ॥ ३।७।१३८ ॥

विश्वास-प्रस्तुतिः

सरणे देवदत्तस्य ध्रौव्यं पाते तु वाजिनः ।
आविष्टं यद् अपायेन तस्याध्रौव्यं प्रचक्षते ॥ ३।७।१३९ ॥

मूलम्

सरणे देवदत्तस्य ध्रौव्यं पाते तु वाजिनः ।
आविष्टं यद् अपायेन तस्याध्रौव्यं प्रचक्षते ॥ ३।७।१३९ ॥

विश्वास-प्रस्तुतिः

उभाव् अप्य् अध्रुवौ मेषौ यद्य् अप्य् उभयकर्मजे ।
विभागे प्रविभक्ते तु क्रिये तत्र विवक्षिते ॥ ३।७।१४० ॥

मूलम्

उभाव् अप्य् अध्रुवौ मेषौ यद्य् अप्य् उभयकर्मजे ।
विभागे प्रविभक्ते तु क्रिये तत्र विवक्षिते ॥ ३।७।१४० ॥

विश्वास-प्रस्तुतिः

मेषान्तरक्रियापेक्षम् अवधित्वं पृथक् पृथक् ।
मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक् पृथक् ॥ ३।७।१४१ ॥

मूलम्

मेषान्तरक्रियापेक्षम् अवधित्वं पृथक् पृथक् ।
मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक् पृथक् ॥ ३।७।१४१ ॥

विश्वास-प्रस्तुतिः

अभेदेन क्रियैका तु द्विसाध्या चेद् विवक्षिता ।
मेषाव् अपाये कर्तारौ यद्य् अन्यो विद्यते ऽवधिः ॥ ३।७।१४२ ॥

मूलम्

अभेदेन क्रियैका तु द्विसाध्या चेद् विवक्षिता ।
मेषाव् अपाये कर्तारौ यद्य् अन्यो विद्यते ऽवधिः ॥ ३।७।१४२ ॥

विश्वास-प्रस्तुतिः

गतिर् विना त्व् अवधिना नापाय इति गम्यते ।
वृक्षस्य पर्णं पततीत्य् एवं भाष्ये निदर्शितम् ॥ ३।७।१४३ ॥

मूलम्

गतिर् विना त्व् अवधिना नापाय इति गम्यते ।
वृक्षस्य पर्णं पततीत्य् एवं भाष्ये निदर्शितम् ॥ ३।७।१४३ ॥

विश्वास-प्रस्तुतिः

भेदाभेदौ पृथग्भावः स्थितिश् चेति विरोधिनः ।
युगपन् न विवक्ष्यन्ते सर्वे धर्मा बलाहके ॥ ३।७।१४४ ॥

मूलम्

भेदाभेदौ पृथग्भावः स्थितिश् चेति विरोधिनः ।
युगपन् न विवक्ष्यन्ते सर्वे धर्मा बलाहके ॥ ३।७।१४४ ॥

विश्वास-प्रस्तुतिः

धनुषा विध्यतीत्य् अत्र विनापायविवक्षया ।
करणत्वं यतो नास्ति तस्मात् तद् उभयं सह ॥ ३।७।१४५ ॥

मूलम्

धनुषा विध्यतीत्य् अत्र विनापायविवक्षया ।
करणत्वं यतो नास्ति तस्मात् तद् उभयं सह ॥ ३।७।१४५ ॥

विश्वास-प्रस्तुतिः

एकैव वा सती शक्तिर् द्विरूपा व्यवतिष्ठते ।
निमित्तं सञ्ज्ञयोस् तत्र परया बाध्यते ऽपरा ॥ ३।७।१४६ ॥

मूलम्

एकैव वा सती शक्तिर् द्विरूपा व्यवतिष्ठते ।
निमित्तं सञ्ज्ञयोस् तत्र परया बाध्यते ऽपरा ॥ ३।७।१४६ ॥

विश्वास-प्रस्तुतिः

निर्धारणे विभक्ते यो भीत्रादीनां च यो विधिः ।
उपात्तापेक्षितापायः सो ऽबुधप्रतिपत्तये ॥ ३।७।१४७ ॥

मूलम्

निर्धारणे विभक्ते यो भीत्रादीनां च यो विधिः ।
उपात्तापेक्षितापायः सो ऽबुधप्रतिपत्तये ॥ ३।७।१४७ ॥

॥ इत्य् अपादानाधिकारः ॥

अधिकरणाधिकारः

विश्वास-प्रस्तुतिः

कर्तृकर्मव्यवहिताम् असाक्षाद् धारयत् क्रियाम् ।
उपकुर्वत् क्रियासिद्धौ शास्त्रे ऽधिकरणं स्मृतम् ॥ ३।७।१४८ ॥

मूलम्

कर्तृकर्मव्यवहिताम् असाक्षाद् धारयत् क्रियाम् ।
उपकुर्वत् क्रियासिद्धौ शास्त्रे ऽधिकरणं स्मृतम् ॥ ३।७।१४८ ॥

विश्वास-प्रस्तुतिः

उपश्लेषस्य चाभेदस् तिलाकाशकटादिषु ।
उपकारास् तु भिद्यन्ते संयोगिसमवायिनाम् ॥ ३।७।१४९ ॥

मूलम्

उपश्लेषस्य चाभेदस् तिलाकाशकटादिषु ।
उपकारास् तु भिद्यन्ते संयोगिसमवायिनाम् ॥ ३।७।१४९ ॥

विश्वास-प्रस्तुतिः

अविनाशो गुरुत्वस्य प्रतिबन्धे स्वतन्त्रता ।
दिग्विशेषाद् अवच्छेद इत्याद्या भेदहेतवः ॥ ३।७।१५० ॥

मूलम्

अविनाशो गुरुत्वस्य प्रतिबन्धे स्वतन्त्रता ।
दिग्विशेषाद् अवच्छेद इत्याद्या भेदहेतवः ॥ ३।७।१५० ॥

विश्वास-प्रस्तुतिः

आकाशम् एव केषां चिद् देशभेदप्रकल्पनात् ।
आधारशक्तिः प्रथमा सर्वसंयोगिनां मता ॥ ३।७।१५१ ॥

मूलम्

आकाशम् एव केषां चिद् देशभेदप्रकल्पनात् ।
आधारशक्तिः प्रथमा सर्वसंयोगिनां मता ॥ ३।७।१५१ ॥

विश्वास-प्रस्तुतिः

इदम् अत्रेति भावानाम् अभावान् न प्रकल्पते ।
व्यपदेशस् तम् आकाश- निमित्तं सम्प्रचक्षते ॥ ३।७।१५२ ॥

मूलम्

इदम् अत्रेति भावानाम् अभावान् न प्रकल्पते ।
व्यपदेशस् तम् आकाश- निमित्तं सम्प्रचक्षते ॥ ३।७।१५२ ॥

विश्वास-प्रस्तुतिः

कालात् क्रिया विभज्यन्त आकाशात् सर्वमूर्तयः ।
एतावांश् चैव भेदो ऽयम् अभेदोपनिबन्धनः ॥ ३।७।१५३ ॥

मूलम्

कालात् क्रिया विभज्यन्त आकाशात् सर्वमूर्तयः ।
एतावांश् चैव भेदो ऽयम् अभेदोपनिबन्धनः ॥ ३।७।१५३ ॥

विश्वास-प्रस्तुतिः

यद्य् अप्य् उपवसिर् देश- विशेषम् अनुरुध्यते ।
शब्दप्रवृत्तिधर्मात् तु कालम् एवावलम्बते ॥ ३।७।१५४ ॥

मूलम्

यद्य् अप्य् उपवसिर् देश- विशेषम् अनुरुध्यते ।
शब्दप्रवृत्तिधर्मात् तु कालम् एवावलम्बते ॥ ३।७।१५४ ॥

विश्वास-प्रस्तुतिः

वसताव् अप्रयुक्ते ऽपि देशो ऽधिकरणं ततः ।
अप्रयुक्तं त्रिरात्रादि कर्म चोपवसौ स्मृतम् ॥ ३।७।१५५ ॥

मूलम्

वसताव् अप्रयुक्ते ऽपि देशो ऽधिकरणं ततः ।
अप्रयुक्तं त्रिरात्रादि कर्म चोपवसौ स्मृतम् ॥ ३।७।१५५ ॥

॥ इत्य् अधिकरणाधिकारः ॥

शेषाधिकारः

विश्वास-प्रस्तुतिः

सम्बन्धः कारकेभ्यो ऽन्यः क्रियाकारकपूर्वकः ।
श्रुतायाम् अश्रुतायां वा क्रियायां सो ऽभिधीयते ॥ ३।७।१५६ ॥

मूलम्

सम्बन्धः कारकेभ्यो ऽन्यः क्रियाकारकपूर्वकः ।
श्रुतायाम् अश्रुतायां वा क्रियायां सो ऽभिधीयते ॥ ३।७।१५६ ॥

विश्वास-प्रस्तुतिः

द्विष्ठो ऽप्य् असौ परार्थत्वाद् गुणेषु व्यतिरिच्यते ।
तत्राभिधीयमानः सन् प्रधाने ऽप्य् उपयुज्यते ॥ ३।७।१५७ ॥

मूलम्

द्विष्ठो ऽप्य् असौ परार्थत्वाद् गुणेषु व्यतिरिच्यते ।
तत्राभिधीयमानः सन् प्रधाने ऽप्य् उपयुज्यते ॥ ३।७।१५७ ॥

विश्वास-प्रस्तुतिः

निमित्तनियमः शब्दात् सम्बन्धस्य न गृह्यते ।
कर्मप्रवचनीयैस् तु स विशेषो ऽवरुध्यते ॥ ३।७।१५८ ॥

मूलम्

निमित्तनियमः शब्दात् सम्बन्धस्य न गृह्यते ।
कर्मप्रवचनीयैस् तु स विशेषो ऽवरुध्यते ॥ ३।७।१५८ ॥

विश्वास-प्रस्तुतिः

साधनैर् व्यपदिष्टे च श्रूयमाणक्रिये पुनः ।
प्रोक्ता प्रतिपदं षष्ठी समासस्य निवृत्तये ॥ ३।७।१५९ ॥

मूलम्

साधनैर् व्यपदिष्टे च श्रूयमाणक्रिये पुनः ।
प्रोक्ता प्रतिपदं षष्ठी समासस्य निवृत्तये ॥ ३।७।१५९ ॥

विश्वास-प्रस्तुतिः

निष्ठायां कर्मविषया षष्थी च प्रतिषिध्यते ।
शेषलक्षणया षष्ठ्या समासस्तत्र नेष्यते ॥ ३।७।१६० ॥

मूलम्

निष्ठायां कर्मविषया षष्थी च प्रतिषिध्यते ।
शेषलक्षणया षष्ठ्या समासस्तत्र नेष्यते ॥ ३।७।१६० ॥

विश्वास-प्रस्तुतिः

अन्येन व्यपदिष्टस्य यस्यान्यत्रोपजायते ।
व्यतिरेकः स धर्मौ द्वौ लभते विषयान्तरे ॥ ३।७।१६१ ॥

मूलम्

अन्येन व्यपदिष्टस्य यस्यान्यत्रोपजायते ।
व्यतिरेकः स धर्मौ द्वौ लभते विषयान्तरे ॥ ३।७।१६१ ॥

विश्वास-प्रस्तुतिः

प्राधान्यं स्वगुणे लब्ध्वा प्रधाने याति शेषताम् ।
सहयोगे स्वयोगे ऽतः प्रधानत्वं न हीयते ॥ ३।७।१६२ ॥

मूलम्

प्राधान्यं स्वगुणे लब्ध्वा प्रधाने याति शेषताम् ।
सहयोगे स्वयोगे ऽतः प्रधानत्वं न हीयते ॥ ३।७।१६२ ॥

॥ इति शेषाधिकारः ॥

विश्वास-प्रस्तुतिः

सिद्धस्याभिमुखीभाव- मात्रं सम्बोधनं विदुः ।
प्राप्ताभिमुख्यो ह्य् अर्थात्मा क्रियासु विनियुज्यते ॥ ३।७।१६३ ॥

मूलम्

सिद्धस्याभिमुखीभाव- मात्रं सम्बोधनं विदुः ।
प्राप्ताभिमुख्यो ह्य् अर्थात्मा क्रियासु विनियुज्यते ॥ ३।७।१६३ ॥

विश्वास-प्रस्तुतिः

सम्बोधनं न वाक्यार्थ इति पूर्वेभ्य आगमः ।
उद्देशेन विभक्त्यर्था वाक्यार्थात् समपोद्धृताः ॥ ३।७।१६४ ॥

मूलम्

सम्बोधनं न वाक्यार्थ इति पूर्वेभ्य आगमः ।
उद्देशेन विभक्त्यर्था वाक्यार्थात् समपोद्धृताः ॥ ३।७।१६४ ॥

विश्वास-प्रस्तुतिः

विभक्त्यर्थे ऽव्ययीभाव- वचनाद् अवसीयताम् ।
अन्यो द्रव्याद् विभक्त्यर्थः सो ऽव्ययेनाभिधीयते ॥ ३।७।१६५ ॥

मूलम्

विभक्त्यर्थे ऽव्ययीभाव- वचनाद् अवसीयताम् ।
अन्यो द्रव्याद् विभक्त्यर्थः सो ऽव्ययेनाभिधीयते ॥ ३।७।१६५ ॥

विश्वास-प्रस्तुतिः

द्रव्यं तु यद् यथाभूतं तद् अत्यन्तं तथा भवेत् ।
क्रियायोगे ऽपि तस्यासौ द्रव्यात्मा नापहीयते ॥ ३।७।१६६ ॥

मूलम्

द्रव्यं तु यद् यथाभूतं तद् अत्यन्तं तथा भवेत् ।
क्रियायोगे ऽपि तस्यासौ द्रव्यात्मा नापहीयते ॥ ३।७।१६६ ॥

विश्वास-प्रस्तुतिः

तस्माद् यत् करणं द्रव्यं तत् कर्म न पुनर् भवेत् ।
सर्वस्य वान्यथाभावस् तस्य द्रव्यात्मनो भवेत् ॥ ३।७।१६७ ॥

मूलम्

तस्माद् यत् करणं द्रव्यं तत् कर्म न पुनर् भवेत् ।
सर्वस्य वान्यथाभावस् तस्य द्रव्यात्मनो भवेत् ॥ ३।७।१६७ ॥

॥ इति साधनसमुद्देशः ॥

३,८ः क्रियासमुद्देश

यावत्सिद्धं असिद्धं वा साध्यत्वेनाभिधीयते ।
आश्रितक्रमरूपत्वात्तत्क्रियेति प्रतियते ॥ ३,८.१ ॥
कार्यकारणभावेन ध्वनतीत्याश्रितक्रमः ।
ध्वनिः क्रमनिवृत्तौ तु ध्वनिरित्येव कथ्यते ॥ ३,८.२ ॥
श्वेते श्वेतत इत्येतच्छ्वेतत्वेन प्रकाशते ।
आश्रितक्रमरूपत्वादभिधानं प्रवर्तते ॥ ३,८.३ ॥
गुणभूतैरवयवैः समूहः क्रमजन्मनाम् ।
बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥ ३,८.४ ॥
समूहः स तत्बाभूतः प्रतिभेदं समूहिसु ।
समाप्यते ततो भेदे कालभेदस्य संभवः ॥ ३,८.५ ॥
क्रमात्सदसतां तेषां आत्मानो न समूहिनाम् ।
सद्वस्तुविषयैर्यान्ति संबन्धं चक्षुरादिभिः ॥ ३,८.६ ॥
यथा गौरिति सम्घातः सर्वो नेन्द्रियगोचरः ।
भागशस्तूपलब्धस्य बुद्धौ रूपं निरूप्यते ॥ ३,८.७ ॥
इन्द्रियैरन्यथाप्राप्तौ भेदाम्शोपनिपातिभिः ।
अलातचक्रवद्रूपं क्रियाणां परिकल्प्यते ॥ ३,८.८ ॥
यथा च भागाः पचतेरुदकासेचनादयः ।
उदकासेचनादिनां ज्ञेया भागास्तथापरे ॥ ३,८.९ ॥
यश्चापकर्षपर्यन्तं अनुप्राप्तः प्रतीयते ।
तत्रैकस्मिन्क्रियाशब्दः केवले न प्रयुज्यते ॥ ३,८.१० ॥
पूर्वोत्तरैस्तथा भागैः समवस्थापितक्रमः ।
एकः सोऽप्यसदध्यासादाख्यातैरभिधीयते ॥ ३,८.११ ॥
कालानुपाति यद्रूपं तदस्तीत्यनुगम्यते ।
परितस्तु परिच्छिन्नं भाव इत्येव कथ्यते ॥ ३,८.१२ ॥
व्यवहारस्य सिद्धत्वान्न चेयं गुणकल्पना ।
उपचारो हि मुख्यस्य संभवादवतिष्ठते ॥ ३,८.१३ ॥
आहितोत्तरशक्तित्वात्प्रत्येकं वा समूहिनः ।
अनेकरूपा लक्ष्यन्ते क्रमवन्त इवाक्रमाः ॥ ३,८.१४ ॥
अनन्तरं फलं यस्याः कल्पते तां क्रियां विदुः ।
प्रधानभूतां तादर्थ्यादन्यासां तु तदाख्यता ॥ ३,८.१५ ॥
*क्रियाप्रवृत्तौ यो हेतुस्तदर्थं यद्विचेष्टितम् ।
अनपेक्ष्य प्रयुञ्जीत गच्छतीत्यवधारयन् ॥ ३,८.१६ * ॥
सत्सु प्रत्ययरूपोऽसौ भावो यावन्न जायते ।
तावत्परेषां रूपेण साध्यः सन्नभिधीयते ॥ ३,८.१७ ॥
सिद्धे तु साधनाकाङ्क्षा कृतार्थत्वान्निवर्तते ।
न क्रियावाचिनां तस्मात्प्रयोगस्तत्र विद्यते ॥ ३,८.१८ ॥
स चापूर्वापरिभूत एकत्वादक्रमात्मकः ।
पूर्वापराणां धर्मेण तदर्थेनानुगम्यते ॥ ३,८.१९ ॥
असन्निवर्तते तस्माद्यत्सत्तदुपलभ्यते ।
तयोः सदसतोश्चासावात्मैक इव गृह्यते ॥ ३,८.२० ॥
जातिं अन्ये क्रियां आहुरनेकव्यक्तिवर्तिनीम् ।
असाध्या व्यक्तिरूपेण सा साध्येवोपलभ्यते ॥ ३,८.२१ ॥
अन्ते या वा क्रियाभागे जातिः सैव क्रिया स्मृता ।
सा व्यक्तेरनुनिष्पादे जायमानेव गम्यते ॥ ३,८.२२ ॥
स्वव्यापारविशिष्टानां सत्ता वा, कर्तृकर्मनाम् ।
क्रिया व्यापारभेदेषु सत्ता वा समवायिनी ॥ ३,८.२३ ॥
अन्त्ये वात्मनि या सत्ता सा क्रिया कैश्चिदिष्यते ।
भाव एव हि धात्वर्थ इत्यविच्छिन्न आगमः ॥ ३,८.२४ ॥
बुद्धिं तज्जातिं अन्ये तु बुद्धिसत्तां अथापरे ।
प्रत्यस्तरूपां भावेषु क्रियेति प्रतिजानते ॥ ३,८.२५ ॥
आविर्भावतिरोभावौ जन्मनाशौ तथापरैः ।
षट्सु भावविकारेषु कल्पितौ व्यावहारिकौ ॥ ३,८.२६ ॥
ताभ्यां सर्वप्रवृत्तीनां अभेदेनोपसम्ग्रहः ।
जन्मैवाश्रितसारूप्यं स्थितिरित्यभिधीयते ॥ ३,८.२७ ॥
*जायमानान्न जन्र्नान्यद्विनाशेऽप्यपदार्थता ।
अतो भावविकारेषु सत्तैका व्यवतिष्ठते ॥ ३,८.२८ * ॥
*पूर्वभागस्तु यज्जातात्तज्जन्मेत्यपदिश्यते ।
आश्रितक्रमरूपेण निमित्तत्वे विवक्षिते ॥ ३,८.२९ ॥
आख्यातशब्दैरर्थोऽसावेवंभूतोऽभिधीयते ।
नामशब्दाः प्रवर्तन्ते संहरन्त इव क्रमम् ॥ ३,८.३० ॥
फलं फलापदेशो वा वस्तु वा तद्विरोधि यत् ।
तदन्यदेव पूर्वेषां नाग इत्यपदिश्यते ॥ ३,८.३१ ॥
नैवास्ति नैव नास्तीति वस्तुनो ग्रहनाद्विना ।
कल्पते पररूपेण वस्त्वन्यदनुगम्यते ॥ ३,८.३२ ॥
भावाभावौ घटादिनां अस्पृशन्नपि पाणिना ।
कश्चिद्वेदाप्रकाशेऽपि प्रकाशे तत एव वा ॥ ३,८.३३ ॥
व्यापि सौक्ष्म्यं क्व चिद्याति क्व चित्संहन्यते पुनः ।
अकुर्वाणोऽथ वा किं चित्स्वशक्त्यैवं प्रकाशते ॥ ३,८.३४ ॥
सर्वरूपस्य तत्त्वस्य यत्क्रमेणेव दर्शनम् ।
भागैरिव प्रक्ल्प्तिश्च तां क्रियां अपरे विदुः ॥ ३,८.३५ ॥
सत्ता स्वशक्तियोगेन सर्वरूपा व्यवस्थिता ।
साध्या च साधनं चैव फलं भोक्ता फलस्य च ॥ ३,८.३६ ॥
क्रियां अन्ये तु मन्यन्ते क्व चिदप्यनपाश्रिताम् ।
साधनैकार्थकारित्वे प्रवृत्तिं अनपायिनीम् ॥ ३,८.३७ ॥
सामान्यभूता सा पूर्वं भागशः प्रविभज्यते ।
ततो व्यापाररूपेण साध्येव व्यवतिष्ठते ॥ ३,८.३८ ॥
प्रकृतिः साधनानां सा प्रथमं तच्च कारकम् ।
व्यापाराणां ततोऽन्यत्वं अपरैरुपवर्ण्यते ॥ ३,८.३९ ॥
बहूनां संभवेऽर्थानां के चिदेवोपकारिनः ।
संसर्गे कश्चिदेसां तु प्राधान्येन प्रतीयते ॥ ३,८.४० ॥
साध्यत्वात्तत्र चाख्यातैर्व्यापाराः सिद्धसाधनाः ।
प्राधान्येनाभिधीयन्ते फलेनापि प्रवर्तिताः ॥ ३,८.४१ ॥
एकत्वावृत्तिभावाभ्यां भेदाभेदसमन्वये ।
संख्यास्तत्रोपलभ्यन्ते संख्येयावयवक्रियाः ॥ ३,८.४२ ॥
सिद्धस्यार्थस्य पाकादेः कथं साधनयोगिता ।
साध्यत्वे वा तिङन्तेन कृतां भेदो न कश्चन ॥ ३,८.४३ ॥
तत्र कारकयोगाया यद्याख्यातं निबन्धनम् ।
षष्ठ्वाः सा लेन संबन्धे व्युदस्ता कर्तृकर्मनोः ॥ ३,८.४४ ॥
एकाभिधान एकोऽर्थो युगपच्च द्विधर्मभाक् ।
न संभवति सिद्धत्वे स साध्यः स्यात्कथं पुनः ॥ ३,८.४५ ॥
एतावत्साधनं साध्यं एतावदिति कल्पना ।
शास्त्र एव न वाक्येऽस्ति विभागः परमार्थतः ॥ ३,८.४६ ॥
आख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता ।
प्रकल्पिता यथा शास्त्रे स घञादिस्वपि क्रमः ॥ ३,८.४७ ॥
साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना ।
सत्त्वभावस्तु यस्तस्याः स घञादिनिबन्धनः ॥ ३,८.४८ ॥
बन्धुताभेदरूपेण बन्धुशब्दे व्यवस्थिता ।
समूहो बन्ध्ववस्था तु प्रत्ययेनाभिधीयते ॥ ३,८.४९ ॥
तत्र यं प्रति साध्यत्वं असिद्धा तं प्रति क्रिया ।
सिद्धा तु यस्मिन्साध्यत्वं न तं एव पुनः प्रति ॥ ३,८.५० ॥
राज्ञः पुत्रस्य नप्तेति न राज्ञि व्यतिरिच्यते ।
पुत्रस्यार्थः प्रधानत्वं न चास्य विनिवर्तते ॥ ३,८.५१ ॥
मृगो धावति पश्येति साध्यसाधनरूपता ।
तथा विषयभेदेन सरणस्योपपद्यते ॥ ३,८.५२ ॥
लकृत्यक्तखलर्थानां तथाव्ययकृतां अपि ।
रूढिनिष्ठाघञादिनां धातुः साध्यस्य वाचकः ॥ ३,८.५३ ॥
साध्यस्यापरिनिष्पत्तेः सोऽयं इत्यनुपग्रहः ।
तिङन्तैरन्तरेणेवं उपमानं ततो न तैः ॥ ३,८.५४ ॥
साधनत्वं प्रसिद्धं च तिङ्क्षु संबन्धिनां यतः ।
तेनाध्यारोप एव स्यादुपमा तु न विद्यते ॥ ३,८.५५ ॥
न्यूनेषु च समाप्तार्थं उपमानं विधीयते ।
क्रिया चैवाश्रये सर्वा तत्र तत्र समाप्यते ॥ ३,८.५६ ॥
येनैव हेतुना हंसः पततीत्यभिधीयते ।
आतौ तस्य समाप्तत्वादुपमार्थो न विद्यते ॥ ३,८.५७ ॥
क्रियाणां जातिभिन्नानां सादृश्यं नावधार्यते ।
सिद्धेश्च प्रक्रमे साध्यं उपमातुं न शक्यते ॥ ३,८.५८ ॥
वनं वृक्षा इति यथा भेदाभेदव्यपाश्रयात् ।
अर्थात्मा भिद्यते भावे स बाह्याभ्यन्तरे क्रमः ॥ ३,८.५९ ॥
सामान्ये भाव इत्यत्र यल्लिङ्गं उपलभ्यते ।
भेदानां अनुमेयत्वान्न तत्तेषु विवक्ष्यते ॥ ३,८.६० ॥
निर्देशे चरितार्थत्वाल्लिङ्गं भावेऽविवक्सितम् ।
उपमानविधित्वाच्च भावादन्यत्पचादिसु ॥ ३,८.६१ ॥
भवतौ यत्पचादिनां तावदत्रोपदिश्यते ।
न च लिङ्गं पचादिनां भवतौ समवस्थितम् ॥ ३,८.६२ ॥
एकश्च सोऽर्थः सत्ताख्यः कथं चित्कैश्चिदुच्यते ।
लिङ्गानि चास्य भिद्यन्ते पचिरूपादिभेदवत् ॥ ३,८.६३ ॥
आचार्यो मातुलश्चेति यथैको व्यपदिश्यते ।
सम्बन्धिभेदादर्थात्मा स विधिः पक्तिभावयोः ॥ ३,८.६४ ॥

३,९ः कालसमुद्देशः

व्यापारव्यतिरेकेण कालं एके प्रचक्षते ।
नित्यं एकं विभु द्रव्यं परिमाणं क्रियावताम् ॥ ३,९.१ ॥
दिष्टिप्रस्थसुवर्णादि मूर्तिभेदाय कल्पते ।
क्रियाभेदाय कालस्तु संख्या सर्वस्य भेदिका ॥ ३,९.२ ॥
उत्पत्तौ च स्थितौ चैव विनाशे चापि तद्वताम् ।
निमित्तं कालं एवाहुर्विभक्तेनात्मना स्थितम् ॥ ३,९.३ ॥
तं अस्य लोकयन्त्रस्य सूत्रधारं प्रचक्षते ।
प्रतिबन्धाभ्यनुज्ञाभ्यां तेन विश्वं विभज्यते ॥ ३,९.४ ॥
यदि न प्रतिबध्नीयात्प्रतिबन्धं च नोत्सृजेत् ।
अवस्था व्यतिकीर्येरन्पौर्वापर्यविनाकृताः ॥ ३,९.५ ॥
तस्यात्मा बहुधा भिन्नो भेदैर्धर्मान्तराश्रयैः ।
न हि भिन्नं अभिन्नं वा वस्तु किं चन विद्यते ॥ ३,९.६ ॥
नैको न चाप्यनेकोऽस्ति न शुक्लो नापि चासितः ।
द्रव्यात्मा स तु संसर्गादेवंरूपः प्रकाशते ॥ ३,९.७ ॥
संसर्गिनां तु ये भेदा विशेषास्तस्य ते मताः ।
स भिन्नस्तैर्व्यवस्थानां कालो भेदाय कल्पते ॥ ३,९.८ ॥
विशिष्टकालसंबन्धाद्वृत्तिलाभः प्रकल्पते ।
शक्तीनां संप्रयोगस्य हेतुत्वेनावतिष्ठते ॥ ३,९.९ ॥
जन्माभिव्यक्तिनियमाः प्रयोगोपनिबन्धनाः ।
नित्याधीनस्थितित्वाच्च स्थितिर्नियमपूर्विका ॥ ३,९.१० ॥
स्थितस्यानुग्रहस्तैस्तैर्धर्मैः संसर्गिभिस्ततः ।
प्रतिबन्धस्तिरोभावः प्रहाणं इति चात्मनः ॥ ३,९.११ ॥
प्रत्यवस्थं तु कालस्य व्यापारोऽत्र व्यवस्थितः ।
काल एव हि विश्वात्मा व्यापार इति कथ्यते ॥ ३,९.१२ ॥
मूर्तीनां तेन भिन्नानां आचयापचयाः पृथक् ।
लक्ष्यन्ते परिणामेन सर्वासां भेदयोगिना ॥ ३,९.१३ ॥
जलयन्त्रभ्रमावेश- सदृशीभिः प्रवृत्तिभिः ।
स कलाः कलयन्सर्वाः कालाख्यां लभते विभुः ॥ ३,९.१४ ॥
प्रतिभद्धाश्च यास्तेन चित्रा विश्वस्य वृत्तयः ।
ताः स एवानुजानाति यथा तन्तुः शकुन्तिकाः ॥ ३,९.१५ ॥
विशिष्टकालसंबन्धाल्लब्धपाकासु शक्तिषु ।
क्रियाभिव्यज्यते नित्या प्रयोगाख्येन कर्मणा ॥ ३,९.१६ ॥
जातिप्रयुक्ता तस्यां तु फलव्यक्तिः प्रजायते ।
कुतोऽप्यद्भुतया वृत्त्या शक्तिभिः सा नियम्यते ॥ ३,९.१७ ॥
ततस्तु समवायाख्या शक्तिर्भेदस्य बाधिका ।
एकत्वं इव ता व्यक्तीरापादयति कारणैः ॥ ३,९.१८ ॥
अथास्मान्नियमादूर्ध्वं जातयो याः प्रयोजिकाः ।
ताः सर्वा व्यक्तिं आयान्ति स्वच्छे छाया इवाम्भसि ॥ ३,९.१९ ॥
कारणानुविधायित्वादथ कारण पूर्वकाः ।
गुणास्तत्रोपजायन्ते स्वजातिव्यक्तिहेतवः ॥ ३,९.२० ॥
आश्रयाणां च नित्यत्वं आश्रितानां च नित्यता ।
ता व्यक्तीरनुगृह्णाति स्थितिस्तेन प्रकल्पते ॥ ३,९.२१ ॥
अनित्यस्य यथोत्पादे पारतन्त्र्यं तथा स्थितौ ।
विनाशायैव तत्शृष्टं अस्वाधीनस्थितिं विदुः ॥ ३,९.२२ ॥
स्थितः संसर्गिभिर्भावैः स्वक्रियास्वनुगृह्यते ।
नैषां सत्तां अनुद्गृह्य वृत्तिर्जन्मवतां स्मृता ॥ ३,९.२३ ॥
जराख्या कालशक्तिर्या शक्त्यन्तरविरोधिनी ।
सा शक्तीः प्रतिबध्नाति जायन्ते च विरोधिनः ॥ ३,९.२४ ॥
प्रयोजकास्तु ये भावाः स्थितिभागस्य हेतवः ।
तिरोभवन्ति ते सर्वे यत आत्मा प्रहीयते ॥ ३,९.२५ ॥
यथैवाद्बुतया वृत्त्या निष्क्रमं निर्निबन्धनम् ।
अपदं जायते सर्वं तथास्यात्मा प्रहीयते ॥ ३,९.२६ ॥
क्रिययोरपवर्गिण्योर्नानार्थसमवेतयोः ।
संबन्धिना विनैकेन परिच्छेदः कथं भवेत् ॥ ३,९.२७ ॥
यथा तुलायां हस्ते वा नानाद्रव्यव्यवस्थितम् ।
गुरुत्वं परिमीयेत कालादेवं क्रियागतिः ॥ ३,९.२८ ॥
जहाति सहवृत्ताश्च क्रियाः स समवस्थिताः ।
व्रीहिर्यथोदकं तेन हायनाख्यां प्रपद्यते ॥ ३,९.२९ ॥
प्रतिबन्धाभ्यनुज्ञाभ्यां वृत्तिर्या तस्य शास्वती ।
तया विभज्यमानोऽसौ भजते क्रमरूपताम् ॥ ३,९.३० ॥
कर्तृभेदात्तदर्थेषु प्रचयापचयौ गतः ।
समत्वं विषमत्वं वा स एकः प्रतिपद्यते ॥ ३,९.३१ ॥
क्रियाभेदाद्यथैकस्मिंस्तक्षाद्याख्या प्रवर्तते ।
क्रियाभेदात्तथैकस्मिन्नृत्वाद्याख्योपजायते ॥ ३,९.३२ ॥
आरम्भश्च क्रिया चैव निष्ठा चेत्यभिधीयते ।
धर्मान्तराणां अध्यास- भेदात्सदसदात्मनः ॥ ३,९.३३ ॥
यावांश्च द्व्यणुकादीनां तावान्हिमवतोऽप्यसौ ।
न ह्यात्मा कस्य चिद्भेत्तुं प्रचेतुं वापि शक्यते ॥ ३,९.३४ ॥
अन्यैस्तु भावैरन्येषां प्रचयः परिकल्प्यते ।
शनैरिदं इदं क्षिप्रं इति तेन प्रतीयते ॥ ३,९.३५ ॥
असतश्च क्रमो नास्ति स हि भेत्तुं न शक्यते ।
सतोऽपि चात्मतत्त्वं यत्तत्तथैवावतिष्ठते ॥ ३,९.३६ ॥
क्रियोपाधिश्च सन्भूत- भविष्यद्वर्तमानताः ।
एकादशाभिराकारैर्विभक्ताः प्रतिपद्यते ॥ ३,९.३७ ॥
भूतः पञ्चविधस्तत्र भविष्यंश्च चतुर्विधः ।
वर्तमानो द्विधाख्यात इत्येकादश कल्पनाः ॥ ३,९.३८ ॥
काले निधाय स्वं रूपं प्रज्ञया यन्निगृह्यते ।
भावास्ततो निवर्तन्ते तत्र संक्रान्तशक्तयः ॥ ३,९.३९ ॥
भाविनां चैव यद्रूपं तस्य च प्रतिबिम्बकम् ।
सुनिर्मृष्ट इवादर्शे काल एवोपपद्यते ॥ ३,९.४० ॥
तृणपर्णलतादीनि यथा स्रोतोऽनुकर्षति ।
प्रवर्तयति कालोऽपि मात्रा मात्रावतां तथा ॥ ३,९.४१ ॥
आविश्येवानुसंधत्ते यथा गतिमतां गतीः ।
वायुस्तत्रैव कालात्मा विधत्ते क्रमरूपताम् ॥ ३,९.४२ ॥
अयनप्रविभागश्च गतीश्च ज्योतिषां ध्रुवा ।
निवृत्तिप्रभवाश्चैव भूतानां तन्निबन्धनाः ॥ ३,९.४३ ॥
मात्राणां परिणामा ये कालवृत्त्यनुपातिनः ।
नक्षत्राख्या पृथक्तेषु चिह्नमात्रं तु तारकाः ॥ ३,९.४४ ॥
रुतैर्मृगशकुन्तानां स्थावराणां च वृत्तिभिः ।
छायादिपरिणामैश्च ऋतुधामा निरूप्यते ॥ ३,९.४५ ॥
निर्भासोपगमो योऽयं क्रमवानिव दृश्यते ।
अक्रमस्यापि विश्वस्य तत्कालस्य विचेष्टितम् ॥ ३,९.४६ ॥
दूरान्तिकव्यवस्थानं अध्वाधिकरणं यथा ।
चिरक्षिप्रव्यवस्थानं कालाधिकरणं तथा ॥ ३,९.४७ ॥
तस्याभिन्नस्य कालस्य व्यवहारे क्रियाकृताः ।
भेदा इव त्रयः सिद्धा यांल्लोको नातिवर्तते ॥ ३,९.४८ ॥
एकस्य शक्तयस्तिस्रः कालस्य समवस्थिताः ।
यत्संबन्धेन भावानां दर्शनादर्शने सताम् ॥ ३,९.४९ ॥
द्वाभ्यां स किल शक्तिभ्यां भावानां वरणात्मकः ।
शक्तिस्तु वर्तमानाख्या भावरूपप्रकाशिनी ॥ ३,९.५० ॥
अनागता जन्मशक्तेः शक्तिरप्रतिबन्धिका ।
अतीताख्या तु या शक्तिस्तया जन्म विरुध्यते ॥ ३,९.५१ ॥
तमःप्रकाशवत्त्वेते त्रयोऽध्वानो व्यवस्थिताः ।
अक्रमास्तेषु भावानां क्रमः समुपलभ्यते ॥ ३,९.५२ ॥
द्वौ तु तत्र तमोरूपावेकस्यालोकवत्स्थितिः ।
अतीतं अपि केषां चित्पुनर्विपरिवर्तते ॥ ३,९.५३ ॥
युगपद्वर्तमानत्वं तद्धर्मा प्रतिपद्यते ।
केषां चिद्वर्तमानत्वाच्चैति तद्वदतीतताम् ॥ ३,९.५४ ॥
हेतुपकारादाक्षिप्तो वर्तमानत्वं आगतः ।
शान्तहेतूपकारः सन्पुनर्नोपैति दर्शनम् ॥ ३,९.५५ ॥
द्वे एव कालस्य विभोः केषां चिच्छक्तिवर्त्मनी ।
करोति याभ्यां भावानां उन्मीलननिमीलने ॥ ३,९.५६ ॥
कलाभिः पृथगर्थाभिः प्रविभक्तं स्वभावतः ।
के चिद्बुद्ध्यनुसंहार- लक्षणं तं प्रचक्षते ॥ ३,९.५७ ॥
ज्ञानानुगतशक्तिं वा बाह्यं वा सत्यतः स्थितम् ।
कालात्मानं अनाश्रित्य व्यवहर्तुं न शक्यते ॥ ३,९.५८ ॥
तिस्रो भावस्य भावस्य केषां चिद्भावशक्तयः ।
ताभिः स्वशक्तिभिः सर्वं सदैवास्ति च नास्ति च ॥ ३,९.५९ ॥
सत्त्वादव्यतिरेकेण तास्तिस्रोऽपि व्यवस्थिताः ।
क्रमस्तास्तदभेदाच्च सदसत्त्वं न भिद्यते ॥ ३,९.६० ॥
दर्शनादर्शनेनैकं दृष्टादृष्टं तदेव तु ।
अध्वनां एकता नास्ति न च किं चिन्निवर्तते ॥ ३,९.६१ ॥
शक्त्यात्मदेवतापक्षैर्भिन्नं कालस्य दर्शनम् ।
प्रथमं तदविद्यायां यद्विद्यायां न विद्यते ॥ ३,९.६२ ॥
अभेदे यदि कालस्य ह्रस्वदीर्घप्लुतादिषु ।
दृश्यते भेदनिर्भासः स चिरक्षिप्रबुद्धिवत् ॥ ३,९.६३ ॥
ह्रस्वदीर्घप्लुतावृत्त्या नालिकासलिलादिषु ।
कथं प्रचययोगः स्यात्कल्पनामात्रहेतुकः ॥ ३,९.६४ ॥
अभिव्यक्तिनिमित्तस्य प्रचयेन प्रचीयते ।
अभिन्नं अपि शब्दस्य तत्त्वं अप्रचयात्मकम् ॥ ३,९.६५ ॥
एवं मात्रातुरीयस्य भेदो दाशतयस्य वा ।
परिमाणविकल्पेन शब्दात्मनि न विद्यते ॥ ३,९.६६ ॥
अनुनिष्पादिकल्पेन येऽन्तराल इव स्थिताः ।
शब्दास्ते प्रतिपत्तॄणां उपायाः प्रतिपत्तये ॥ ३,९.६७ ॥
विशिष्टं अवधिं तं तं उपादाय प्रकल्पते ।
कालः कालवतां एकः क्षणमासर्तुभेदभाक् ॥ ३,९.६८ ॥
बुद्ध्यवग्रहभेदाच्च व्यवहारात्मनि स्थितः ।
तावानेव क्षणः कालो युगमन्वन्तराणि वा ॥ ३,९.६९ ॥
प्रतिबन्धाभ्यनुज्ञाभ्यां नालिकाविवराश्रिते ।
यदम्भसि प्रक्षरणं तत्कालस्यैव चेष्टितम् ॥ ३,९.७० ॥
अल्पे महति वा छिद्रे तत्संबन्धे न भिद्यते ।
कालस्य वृत्तिरात्मापि तं एवास्यानुवर्तते ॥ ३,९.७१ ॥
आक्रीड इव कालस्य दृश्यते यः स्वशक्तिभिः ।
बहुरूपस्य भावेषु बहुधा तेन भिद्यते ॥ ३,९.७२ ॥
त्वचिसारस्य वा वृद्धिं तृणराजस्य वा दधत् ।
तावत्तद्वृद्धियोगेन कालतत्त्वं विकल्पते ॥ ३,९.७३ ॥
व्यतिक्रमेऽपि मात्राणां तस्य नास्ति व्यतिक्रमः ।
न गन्तृगतिभेदेन मार्गभेदोऽस्ति कश्चन ॥ ३,९.७४ ॥
उदयास्तमयावृत्त्या ज्योतिषां लोकसिद्धया ।
कालस्याव्यतिपातेऽपि ताद्धर्म्यं इव लक्ष्यते ॥ ३,९.७५ ॥
आदित्यग्रहनक्षत्र- परिस्पन्दं अथापरे ।
भिन्नं आवृत्तिभेदेन कालं कालविदो विदुः ॥ ३,९.७६ ॥
क्रियान्तरपरिच्छेद- प्रवृत्ता या क्रियां प्रति ।
निर्ज्ञातपरिमाणा सा काल इत्यभिधीयते ॥ ३,९.७७ ॥
ज्ञाने रूपस्य संक्रान्तिर्ज्ञानेनैवानुसंहृतिः ।
अतः क्रियान्तराभावे सा क्रिया काल इष्यते ॥ ३,९.७८ ॥
भूतो घट इतीयं च सत्ताया एव भूतता ।
भूता सत्तेति सत्तायाः सत्ता भूताभिधीयते ॥ ३,९.७९ ॥
परतो भिद्यते सर्वं आत्मा तु न विकल्प्यते ।
पर्वतादिस्थितिस्तस्मात्पररूपेण भिद्यते ॥ ३,९.८० ॥
प्रसिद्धभेदा व्यापारा विरूपावयवक्रियाः ।
साहचर्येण भिद्यन्ते सरूपावयवक्रियाः ॥ ३,९.८१ ॥
*व्यवधानं इवोपैति निवृत्त इव दृश्यते ।
क्रियासमूहो भुज्यादिरन्तरालप्रवृत्तिभिः ॥ ३,९.८२ * ॥
*न च विच्छिन्नरूपोऽपि सोऽविरामान्निवर्तते ।
सर्वैव हि क्रियान्येन सम्कीर्णेवोपलभ्यते ॥ ३,९.८३ * ॥
*तदन्तरालदृष्टा वा सर्वैवावयवक्रिया * ।
सादृश्यात्सति भेदे तु तदङ्गत्वेन गृह्यते ॥ ३,९.८४ ॥
सदसद्वापि वस्तु स्यात्तृतीयं नास्ति किं चन ।
तेन भूतभविष्यन्तौ मुक्त्वा मध्यं न विद्यते ॥ ३,९.८५ ॥
निर्वृत्तिरूपं एकस्य भेदाभावान्न कल्पते ।
सदसद्वापि तेनैकं क्रमरूपं कथं भवेत् ॥ ३,९.८६ ॥
बहूनां चानवस्थानादेकं एवोपलभ्यते ।
यथोपलब्धि स्मरणं तत्र चाप्युपपद्यते ॥ ३,९.८७ ॥
सदसद्रूपं एकं स्याद्सर्वस्यैकत्वकल्पने ।
निर्वृत्तिरूपं निर्वृत्तेः सामान्यं अथ वा भवेत् ॥ ३,९.८८ ॥
कार्योत्पत्तौ समर्थं वा स्वेन धर्मेण तत्तथा ।
आत्मतत्त्वेन गृह्येत सा चास्मिन्वर्तमानता ॥ ३,९.८९ ॥
क्रियाप्रबन्धरूपं यदध्यात्मं विनिगृह्यते ।
संक्रान्तरूपं एकत्र तां आहुर्वर्तमानताम् ॥ ३,९.९० ॥
क्रियातिपत्तिरत्यन्तं क्रियानुत्पत्तिलक्षणा ।
न च भूतं अनुत्पन्नं न भविष्यत्तथाविधम् ॥ ३,९.९१ ॥
प्राग्विरुद्धक्रियोत्पादान्निर्वृत्ते वा विरोधिनि ।
व्यापारेऽवधिभेदेन विषयस्तत्र भिद्यते ॥ ३,९.९२ ॥
व्यभिचारे निमित्तस्य साधुत्वं न प्रकल्पते ।
भाव्यासीदिति सूत्रेण तत्कालेऽन्यत्र शिष्यते ॥ ३,९.९३ ॥
स्वकाल एव साधुत्वे कालभेदे गतिः कथम् ।
वाक्यार्थादतदर्थेषु विशिष्टत्वं न सिध्यति ॥ ३,९.९४ ॥
तदर्थश्चेदवयवो भाविनो भूततागतिः ।
न स्यादत्यन्तभूतत्वं एवैकं तत्र संभवेत् ॥ ३,९.९५ ॥
विशिष्टकालता पूर्वं तथापि तु विशेषणे ।
आश्रयात्सोऽन्तरङ्गत्वात्तत्र साधुर्भविष्यति ॥ ३,९.९६ ॥
आमिश्र एव प्रक्रान्तः स पदार्थस्तथाविधः ।
केवलस्य विमिश्रत्वं नित्येऽर्थे नोपपद्यते ॥ ३,९.९७ ॥
शुद्धे च काले व्याख्यातं आमिश्रे न प्रसिध्यति ।
साधुत्वं अयथाकालं तत्सूत्रेणोपदिश्यते ॥ ३,९.९८ ॥
आख्यातपदवाच्येऽर्थे निर्वर्त्यत्वात्प्रधानता ।
विशेषणं तदाक्षेपात्तत्काले व्यवतिष्ठते ॥ ३,९.९९ ॥
संप्रत्ययानुकारो वा शब्दव्यापार एव वा ।
अध्यस्यते विरुद्धेऽर्थे न च तेन विरुध्यते ॥ ३,९.१०० ॥
भूतं भविष्यदित्येतौ प्रत्ययौ वर्तमानताम् ।
अत्यजन्तौ प्रपद्येते विरुद्धाश्रयरूपताम् ॥ ३,९.१०१ ॥
अध्वनो वर्तमानस्य विषयेण भविष्यता ।
भाष्ये भविष्यत्कालेति कार्यार्थं व्यपदिश्यते ॥ ३,९.१०३ ॥
इच्छा चिकीर्शतीत्यत्र स्वकालं अनुरुध्यते ।
भविष्यति प्रकृत्यर्थे तत्कालं नानुरुध्यते ॥ ३,९.१०४ ॥
आशास्यमानतन्त्रत्वादाशंसायां विपर्ययः ।
प्रयोक्तृधर्मः शब्दार्थे शब्दैरेवानुशज्यते ॥ ३,९.१०५ ॥
अप्छालिबीजसंयोगे वर्तते निष्पदिर्यदा ।
तत्रावयववृत्तित्वाद्भविष्यत्प्रतिषेधनम् ॥ ३,९.१०६ ॥
फलप्रसवरूपे तु निष्पदौ भूतकालता ।
धर्मान्तरेषु तद्रूपं अध्यस्य परिकल्प्यते ॥ ३,९.१०७ ॥
उपयुक्ते निमित्तानां व्यापारे फलसिद्धये ।
तत्र रूपं यदध्यस्तं तत्कालं तत्प्रतीयते ॥ ३,९.१०८ ॥
निष्पत्ताववधिः कश्चित्कश्चित्प्रतिविवक्षितः ।
हेतुजन्मव्यपेक्षातः फलजन्मेति चोच्यते ॥ ३,९.१०९ ॥
अबहिःसाधनाधीना सिद्धिर्यत्र विवक्षिता ।
तत्साधनान्तराभावात्सिद्धं इत्यपदिश्यते ॥ ३,९.११० ॥
तस्मादवधिभेदेन सिद्धा मुख्यैव भूतता ।
अनागतत्वं अस्तित्वं हेतुधर्मव्यपेक्षणे ॥ ३,९.१११ ॥
सतां इन्द्रियसंबन्धात्सैव सत्ता विशिष्यते ।
भेदेन व्यवहारो हि वस्त्वन्तरनिबन्धनः ॥ ३,९.११२ ॥
अस्तित्वं वस्तुमात्रस्य बुद्ध्या तु परिगृह्यते ।
यः समासादनाद्भेदः स तत्र न विवक्षितः ॥ ३,९.११३ ॥
योगाद्वा स्त्रीत्वपुंस्त्वाभ्यां न किं चिदवतिष्ठते ।
स्वस्मिन्नात्मनि तत्रान्यद्भूतं भावि च कथ्यते ॥ ३,९.११४ ॥

३,१०ः पुरुषसमुद्देश

प्रत्यक्ता परभावश्चाप्युपाधी कर्तृकर्मनोः ।
तयोः श्रुतिविशेषेण वाचकौ मध्यमोत्तमौ ॥ ३,१०.१ ॥
सदसद्वापि चैतन्यं एताभ्यां अवगम्यते ।
चैतन्यभागे प्रथमः पुरुषो न तु वर्तते ॥ ३,१०.२ ॥
बुधिजानातिचितिभिः प्रथमे पुरुषे सति ।
सम्ज्ञानार्थैर्न चैतन्य- स्योपयोगः प्रकाश्यते ॥ ३,१०.३ ॥
संबोधनार्थः सर्वत्र मध्यमे कैश्चिदिष्यते ।
तथा संबोधने सर्वां प्रथमां युष्मदो विदुः ॥ ३,१०.४ ॥
संबोधनं न लोकेऽस्ति विधातव्येन वस्तुना ।
स्वाहेन्द्रशत्रुर्वर्धस्व यथा राजा भवेति च ॥ ३,१०.५ ॥
युष्मदर्थस्य सिद्धत्वान्नियता चाद्युदात्तता ।
युष्मदः प्रथमान्तस्य परश्चेन्न पदादसौ ॥ ३,१०.६ ॥
गुणप्रधानताभेदः पुरुशादिविपर्ययः ।
निर्देशश्चान्यथा शास्त्रे नित्यत्वान्न विरुध्यते ॥ ३,१०.७ ॥
यथानिर्देशं अर्थाः स्युर्येसां शास्त्रं विधायकम् ।
किं चित्सामान्यं आश्रित्य स्थिते तु प्रतिपादनम् ॥ ३,१०.८ ॥
योऽश्वे यः पीठ इत्यत्र भूतयोरश्वपीठयोः ।
यथोपलक्षणार्थत्वं तथार्थेष्वनुशासनम् ॥ ३,१०.९ ॥

३,११ः Sअंख्यासमुद्देश

संख्यावान्सत्त्वभूतोऽर्थः सर्व एवाभिधीयते ।
भेदाभेदविभागो हि लोके संख्यानिबन्धनः ॥ ३,११.१ ॥
स धर्मो व्यतिरिक्तो वा तेषां आत्मैव वा तथा ।
भेदहेतुत्वं आश्रित्य संख्येति व्यपदिश्यते ॥ ३,११.२ ॥
समवेता परिच्छेद्ये क्व चिदन्यत्र सा स्थिता ।
प्रकल्पयति भावानां संख्या भेदं तथात्मनः ॥ ३,११.३ ॥
परत्वे चापरत्वे च भेदे तुल्या श्रुतिर्यथा ।
संख्याशब्दाभिधेयत्वं भेदहेतोस्तथा गुणे ॥ ३,११.४ ॥
अस्वतन्त्रे स्वतन्त्रत्वं परधर्मो यथा गुणे ।
अभेद्ये भेद्यभावोऽपि द्रव्यधर्मस्तथा गुणे ॥ ३,११.५ ॥
स्वबुद्ध्या तं अपोद्धृत्य लोकोऽप्यागमं आश्रितः ।
स्वधर्मादन्यधर्मेण व्याचष्टे प्रतिपत्तये ॥ ३,११.६ ॥
परोपकारतत्त्वानां स्वातन्त्र्येनाभिधायकः ।
शब्दः सर्वपदार्थाना स्वधर्मद्विप्रकृष्यते ॥ ३,११.७ ॥
यथैवाविषयं ज्ञानं न किं चिदवभासते ।
तथा भावोऽप्यसंसृष्टो न कश्चिदुपलभ्यते ॥ ३,११.८ ॥
भेदेन तु समाख्यातं यल्लोकोऽप्यनुवर्तते ।
आगमाच्छास्त्रसदृशो व्यवहारः स वर्ण्यते ॥ ३,११.९ ॥
बुद्धौ स्थितेषु तेष्वेवं अध्यारोपो न दुर्लभः ।
परधर्मस्य न ह्यत्र सदसत्त्वं प्रयोजकम् ॥ ३,११.१० ॥
सामान्येष्वपि सामान्यं विशेषेषु विशिष्टता ।
संख्यासु संख्या लिङ्गेषु लिङ्गं एवं प्रकल्पते ॥ ३,११.११ ॥
अतो द्रव्याश्रितां संख्यां आहुः संसर्गवादिनः ।
भेदाभेदव्यतीतेषु भेदाभेदविधायिनीम् ॥ ३,११.१२ ॥
आत्मान्तरानां येनात्मा तद्रूप इव लक्ष्यते ।
अतद्रूपेण संसर्गात्सा निमित्तसरूपता ॥ ३,११.१३ ॥
संसृष्टेष्वपि निर्भागे भूतेष्वर्थक्रिया यथा ।
सत्त्वादिषु च मात्रासु सर्वास्वेवं प्रतीयते ॥ ३,११.१४ ॥
द्वित्वादियोनिरेकत्वं भेदास्तत्पूर्वका यतः ।
विना तेन न संख्यानां अन्यासां अस्ति संभवः ॥ ३,११.१५ ॥
एकत्वे बुद्धिसहिते निमित्तं द्वित्वजन्मनि ।
एकत्वाभ्यां समुत्पन्नं एवं वा तत्प्रतीयते ॥ ३,११.१६ ॥
एकत्वसमुदायो वा सापेक्षे वा पृथक्पृथक् ।
एकत्वे द्वित्वं इत्येवं तयोर्द्विवचनं भवेत् ॥ ३,११.१७ ॥
एकोऽपि गुणभेदेन सङ्घो भेदं प्रकल्पयेत् ।
आश्रयाश्रयिभेदो हि तदाश्रयनिबन्धनः ॥ ३,११.१८ ॥
संख्येयसङ्घसंख्यान- सङ्घः संख्येति कथ्यते ।
विम्शत्यादिसु सान्यस्व द्रव्यसङ्घस्य भेदिका ॥ ३,११.१९ ॥
एकविंशतिसंख्वावां संख्यान्तरसरूपयोः ।
एकस्यां बुद्ध्यनावृत्त्या, भागयोरिव कल्पना ॥ ३,११.२० ॥
असंख्यासमुदायत्वात्संख्याकार्यं विधीयते ।
समूहत्वे तु तन्न स्यात्स्वाङ्गादिसमुदायवत् ॥ ३,११.२१ ॥
संख्येयान्तरतन्त्रासु या संख्यासु प्रवर्तते ।
आवृत्तिवर्गसंख्येया तां संख्यां तादृशीं विदुः ॥ ३,११.२२ ॥
न संख्यायां न संख्येये द्वौ दशेत्यस्ति संभवः ।
भेदाभावान्न संख्यायां विरोधान्न तदाश्रये ॥ ३,११.२३ ॥
संख्यायेते दशद्वर्गौ द्विदशा इति संख्यया ।
तद्रूपे वापि संख्येय आवृत्तिः परिगण्यते ॥ ३,११.२४ ॥
संख्या नाम न संख्यास्ति संज्ञैषेति यथोच्यते ।
रूपं न रूपं अप्येवं सम्ज्ञा सा हि सितादिषु ॥ ३,११.२५ ॥
संख्यानजातियोगात्तु संख्या संख्येति कथ्यते ।
रूपत्वजातियोगाच्च रूपे रूपं इति स्मृतम् ॥ ३,११.२६ ॥
निमित्तं एकं इत्यत्र विभक्त्या नाभिधीयते ।
तद्वतस्तु यदेकत्वं विभक्तिस्तत्र वर्तते ॥ ३,११.२७ ॥
एकस्य प्रचयो दृष्टः समूहश्च द्वयोस्तथा ।
निमित्तव्यतिरेकेण संख्यान्या भेदिका ततः ॥ ३,११.२८ ॥
तदेकं अपि चैकत्वं विभक्तिश्रवणादृते ।
नोच्यते तेन शब्देन विभक्त्या तु सहोच्यते ॥ ३,११.२९ ॥
अन्वयव्यतिरेकौ च यदि स्याद्वचनान्तरम् ।
स्यातां असति तस्मिम्श्च प्रकृत्यर्थो न कल्प्यते ॥ ३,११.३० ॥
एकत्वं एक इत्यत्र शुद्धद्रव्यविशेषणम् ।
सगुणस्तु प्रकृत्यर्थो विभक्त्यर्थेन भिद्यते ॥ ३,११.३१ ॥
द्व्येकयोरिति निर्देशात्संख्यामात्रेऽपि संभवः ।
एकादीनां प्रसिद्ध्या तु संख्येयार्थत्वं उच्यते ॥ ३,११.३२ ॥

३,१२ः ऊपग्रहसमुद्देश

य आत्मनेपदाद्भेदः क्व चिदर्थस्य गम्यते ।
अन्यतश्चापि लादेशान्मन्यन्ते तं उपग्रहम् ॥ ३,१२.१ ॥
क्व चित्साधनं एवासौ क्व चित्तस्य विशेषणम् ।
साधनं तत्र कर्मादि व्यक्तवाचो विशेषणम् ॥ ३,१२.२ ॥
क्रिया विषयभेदेन जीविकादिषु भिद्यते ।
लादेशैः स क्रियाभेदो वाक्येष्वपि नियम्यते ॥ ३,१२.३ ॥
धात्वर्थस्तद्विशेषश्चाप्युक्तः क्व चिदुपग्रहः ।
धात्वर्थो गन्धनादिः स्याद्व्यतिहारो विशेषणम् ॥ ३,१२.४ ॥
क्रियाप्रवृत्तावाख्याता कैश्चित्स्वार्थपरार्थता ।
असति वा सति वापि विवक्षितनिबन्धना ॥ ३,१२.५ ॥
केसां चित्कर्त्रभिप्राये णिचा सह विकल्पते ।
आत्मनेपदं अन्येसां तदर्था प्रकृतिर्यथा ॥ ३,१२.६ ॥
क्रीणीष्व वपते धत्ते चिनोति चिनुतेऽपि च ।
आप्तप्रयोगा दृश्यन्ते येषु ण्यर्थोऽभिधीयते ॥ ३,१२.७ ॥
संविधानं पचादिनां क्व चिदर्थः प्रतीयते ।
तन्निमित्ता यथान्यापि क्रियाधिश्रयणादिका ॥ ३,१२.८ ॥
कर्त्रभिप्रायता सूत्रे क्रियाभेदोपलक्षणम् ।
तथाभूता क्रिया या हि तत्कर्ता फलभाग्यतः ॥ ३,१२.९ ॥
यथोपलक्ष्यते कालस्तारकादर्शनादिभिः ।
तथा फलविशेषेण क्रियाभेदो निदर्श्यते ॥ ३,१२.१० ॥
क्रियाविशेषवचने सामर्थ्यं उपरुध्यते ।
केसां चिदन्ये तु कृताः स्वरितेतो ञितस्तथा ॥ ३,१२.११ ॥
अनुबन्धश्च सिद्धेऽर्थे स्मृत्यर्थं अनुषज्यते ।
तुल्यार्थेष्वपि चावश्यं न सर्वेष्वेकधर्मता ॥ ३,१२.१२ ॥
दृशीक्ष्योः सदृशेऽप्यर्थे नाभेदः प्रतिपूर्वयोः ।
ण्यर्थोपादायिनस्तस्मान्न तुल्यार्थाः पचादिभिः ॥ ३,१२.१३ ॥
उम्भ्यर्थे वर्तमानस्य करोतेर्भिन्नधर्मणः ।
ण्यर्थोपादायिता तस्मान्नियताः शब्दशक्तयः ॥ ३,१२.१४ ॥
तथा ह्यनुप्रयोगस्य करोतेरात्मनेपदे ।
पूर्ववद्ग्रहणं प्राप्ते स्वरितं समुपस्थितम् ॥ ३,१२.१५ ॥
एकत्वेऽपि क्रियाख्याते साधनाश्रयसंख्यया ।
भिद्यते न तु लिङ्गाख्यो भेदस्तत्र तदाश्रितः ॥ ३,१२.१६ ॥
तस्मादवस्थितेऽप्यर्थे कस्य चित्प्रतिबध्यते ।
शब्दस्य शक्तिः स त्वेष शास्त्रेऽन्वाख्यायते विधिः ॥ ३,१२.१७ ॥
यस्यार्थस्य प्रसिद्ध्यर्थं आरभ्यन्ते पचादयः ।
तत्प्रधानं फलं तेषां न लाभादि प्रयोजनम् ॥ ३,१२.१८ ॥
यत्रोभौ स्वामिदासौ तु प्रारभेते सह क्रियाम् ।
युगपद्धर्मभेदेन धातुस्तत्र न वर्तते ॥ ३,१२.१९ ॥
यत्र प्रतिविधानार्थः पचिस्तत्रात्मनेपदम् ।
परस्मैपदं अन्यत्र संस्काराद्यभिधायिनि ॥ ३,१२.२० ॥
संविधातुश्च सांनिध्याद्दासे धर्मोऽनुसज्यते ।
प्लक्षशब्दस्य सांनिध्यान्न्यग्रोधे प्लक्षता यथा ॥ ३,१२.२१ ॥
पुरोडाशाभिधानं च धानादिषु यथा स्थितम् ।
छत्त्रिणा चाभिसंबन्धाच्छत्त्रिशब्दाभिधेयता ॥ ३,१२.२२ ॥
अर्थात्प्रतीतं अन्योन्यं पारार्थ्यं अविवक्षितम् ।
इत्ययं शेषविषयः कैश्चिदत्रानुवर्ण्यते ॥ ३,१२.२३ ॥
अथ प्रतिविधाता यो हलैः कृषति पञ्चभिः ।
भाष्ये नोदाहृतं कस्मात्प्राप्तं तत्रात्मनेपदम् ॥ ३,१२.२४ ॥
प्रतीतत्वात्तदर्थस्य शेषत्वं यदि कल्प्यते ।
न स्यात्प्राप्तविभाषासौ स्वरितेतां निवर्तिका ॥ ३,१२.२५ ॥
शुद्धे तु संविधानार्थे कैश्चिदत्रेष्यते कृषिः ।
तद्धर्मा यजिरित्येवं न स्यात्तत्रात्मनेपदम् ॥ ३,१२.२६ ॥
अत्र तूपपदेनायं अर्थभेदः प्रतीयते ।
प्राप्ते विभाषा क्रियते तस्मान्नात्रात्मनेपदम् ॥ ३,१२.२७ ॥

३,१३ः लिङ्गसमुद्देश

स्तनकेशादिसंबन्धो विशिष्टा वा स्तनादयः ।
तदुपव्यञ्जना जातिर्गुणावस्था गुणास्तथा ॥ ३,१३.१ ॥
शब्दोपजनितोऽर्थात्मा शब्दसंस्कार इत्यपि ।
लिङ्गानां लिङ्गतत्त्वज्ञैर्विकल्पाः सप्त दर्शिताः ॥ ३,१३.२ ॥
उपादानविकल्पाश्च लिङ्गानां सप्त वर्णिताः ।
विकल्पसंनियोगाभ्यां ये शब्देषु व्यवस्थिताः ॥ ३,१३.३ ॥
तिस्रो जातय एवैताः केसां चित्समवस्थिताः ।
अविरुद्धा, विरुद्धाभिर्गोमहिष्यादिजातिभिः ॥ ३,१३.४ ॥
हस्तिन्यां वडवायां च स्त्रीति बुद्धेः समन्वयः ।
अतस्तां जातिं इच्छन्ति द्रव्यादिसमवायिनीम् ॥ ३,१३.५ ॥
परतन्त्रस्य यल्लिङ्गं अपोद्धारे विवक्षिते ।
तत्रासौ शब्दसंस्कारः शब्दैरेव व्यपाश्रितः ॥ ३,१३.६ ॥
बुद्ध्या कल्पितरूपेषु लिङ्गेष्वपि च संभवः ।
स्त्रीत्वादीनां व्यवस्था हि सा लिङ्गैर्व्यपदिश्यते ॥ ३,१३.७ ॥
यथा सलिलनिर्भासा मृगतृष्णासु जायते ।
जलोपलब्ध्यनुगुणाद्बीजाद्बुद्धिर्जलेऽसति ॥ ३,१३.८ ॥
तथैवाव्यपदेश्येभ्यो हेतुभ्यस्तारकादिषु ।
मुख्येभ्य इव लिङ्गेभ्यो भेदा लोके व्यवस्थिताः ॥ ३,१३.९ ॥
व्यक्तेषु व्यक्तरूपाणां स्तनादीनां तु दर्शनात् ।
अव्यक्तव्यञ्जनाव्यक्तेर्जातिर्न परिकल्प्यते ॥ ३,१३.१० ॥
अस्तित्वं च प्रतिज्ञाय सदादर्शनं इच्छतः ।
अत्यन्तादर्शने न स्यादसत्त्वं प्रति निश्चयः ॥ ३,१३.११ ॥
न चालं अनुमानाय शब्दोऽदर्शनपूर्वकः ।
सिद्धे हि दर्शने किं स्यादनुमानप्रयोजनम् ॥ ३,१३.१२ ॥
आविर्भावस्तिरोभावः स्थितिश्चेत्यनपायिनः ।
धर्मा मूर्तिषु सर्वासु लिङ्गत्वेनानुदर्शिताः ॥ ३,१३.१३ ॥
सर्वमूर्त्यात्मभूतानां शब्दादिनां गुणे गुणे ।
त्रयः सत्त्वादिधर्मास्ते सर्वत्र समवस्थिताः ॥ ३,१३.१४ ॥
रूपस्य चात्ममात्रानां शुक्लादिनां प्रतिक्षणम् ।
का चित्प्रलीयते का चित्कथं चिदभिवर्धते ॥ ३,१३.१५ ॥
क्वथितोदकवच्चैषां अनवस्थितवृत्तिता ।
अजस्रं सर्वभावानां भाष्य एवोपवर्णिता ॥ ३,१३.१६ ॥
प्रवृत्तेरेकरूपत्वं साम्यं वा स्थितिरुच्यते ।
अविर्भावतिरोभाव- प्रवृत्त्या वावतिष्ठते ॥ ३,१३.१७ ॥
गुणा इत्येव बुद्धेर्वा निमित्तत्वं स्थितिर्मता ।
स्थितेश्च सर्वलिङ्गानां सर्वनामत्वं उच्यते ॥ ३,१३.१८ ॥
स्थितेषु सर्वलिङ्गेषु विवक्षानियमाश्रयः ।
कस्य चिच्छब्दसंस्कारे व्यापारः क्व चिदिष्यते ॥ ३,१३.१९ ॥
संनिधाने निमित्तानां किं चिदेव प्रवर्तकम् ।
यथा तक्षादिशब्दानां लिन्गेषु नियमस्तथा ॥ ३,१३.२० ॥
भावतत्त्वदृशः शिष्टाः शब्दार्थेषु व्यवस्थिताः ।
यद्यद्धर्मेऽङ्गतां एति लिङ्गं तत्तत्प्रचक्षते ॥ ३,१३.२१ ॥
स्वरभेदाद्यथा शब्दाः साधवो विषयान्तरे ।
लिङ्गभेदात्तथा सिद्धात्साधुत्वं अनुगम्यते ॥ ३,१३.२२ ॥
प्रयोगो विप्रयोगश्च लोके यत्रोपलभ्यते ।
शास्त्रं आरभ्यते तत्र न प्रयोगाविपर्यये ॥ ३,१३.२३ ॥
उपाधिभेदादर्थेषु गुणधर्मस्य कस्य चित् ।
निमित्तभावः साधुत्वे विवक्षा च व्यवस्थिता ॥ ३,१३.२४ ॥
हिमारण्ये महत्त्वेन युक्ते स्त्रीत्वं अवस्थितम् ।
ह्रस्वोपाधिविशिष्टायाः कुट्याः प्रसवयोगिता ॥ ३,१३.२५ ॥
शब्दान्तरानां भिन्नेऽर्थ उपायाः प्रतिपत्तये ।
एकतां इव निश्चित्य लघ्वर्थं उपदर्शिताः ॥ ३,१३.२६ ॥
उत्पत्तिः प्रसवोऽन्येषां नाशः संस्त्यानं इत्यपि ।
आत्मरूपं तु भावानां स्थितिरित्यपदिश्यते ॥ ३,१३.२७ ॥
दृष्टं निमित्तं केसां चिज्जात्यादिवदवस्थितम् ।
दृष्टवच्छब्दसंस्कार- मात्रं तु परिकल्पितम् ॥ ३,१३.२८ ॥
यथा प्रसिद्धेऽप्येकत्वे नानात्वाभिनिवेशिनः ।
नानात्वं जनयन्तीव शब्दा लिङ्गेऽपि स क्रमः ॥ ३,१३.२९ ॥
इदं वेयं अयं वेति शब्दसंस्कारमात्रकम् ।
निमित्तदर्शनादर्थे कैश्चित्सर्वत्र वर्ण्यते ॥ ३,१३.३० ॥
नावश्यं विषयत्वेन निमित्तं व्यवतिष्ठते ।
इन्द्रियादि यथादृष्टं भेदहेतुस्तदिष्यते ॥ ३,१३.३१ ॥

३,१४ः वृत्तिसमुद्देश

कुत्साप्रशंसातिशयैः समाप्तार्थं तु युज्यते ।
पदं स्वार्थादयः सर्वे यस्मात्कुत्सादिहेतवः ॥ ३,१४.१ ॥
देवदत्तादिकुत्सायां वर्तते कुत्सितश्रुतिः ।
कुत्सितस्था तु या कुत्सा तदर्थः को विधीयते ॥ ३,१४.२ ॥
प्रकृष्ट इति शुक्लादि- प्रकर्षस्याभिधायकः ।
प्रकृष्टस्य प्रकर्षे तु तरबादिर्विधीयते ॥ ३,१४.३ ॥
कुत्सितत्वेन कुत्स्यो वा न सम्यग्वापि कुत्सितः ।
स्वशब्दाभिहिते केन विशिष्टोऽर्थः प्रतीयते ॥ ३,१४.४ ॥
न च सांप्रतिकी कुत्सा भेदाभावात्प्रतीयते ।
पूज्यते कुत्सितत्वेन प्रशस्तत्वेन कुत्स्यते ॥ ३,१४.५ ॥
विशेषणविशेष्यत्वं पदयोरुपजायते ।
न प्रातिपदिकार्थश्च तत्रैव व्यतिरिच्यते ॥ ३,१४.६ ॥
विशेष्यं स्यादनिर्ज्ञातं निर्ज्ञातोऽर्थो विशेषणम् ।
परार्थत्वेन शेषत्वं सर्वेषां उपकारिणाम् ॥ ३,१४.७ ॥
विभक्तिभेदो नियमाद्गुणगुण्यभिधायिनोः ।
सामानाधिकरण्यस्य प्रसिद्धिर्द्रव्यशब्दयोः ॥ ३,१४.८ ॥
द्रव्येऽनिर्ज्ञातजातीये कृष्णशब्दः प्रयुज्यते ।
अनिर्ज्ञातगुणे चैवं तिलशब्दः प्रवर्तते ॥ ३,१४.९ ॥
सामान्यानां असंबन्धात्तौ विशेषे व्यवस्थितौ ।
रूपाभेदाद्विशेषं तं अभिव्यङ्क्तुं न शक्नुतः ॥ ३,१४.१० ॥
तावेव संनिपतितौ भेदेन प्रतिपादने ।
अवच्छेदं इवाधाय संशयं व्यपकर्षतः ॥ ३,१४.११ ॥
द्रव्यात्मा गुणसंसर्ग- भेदादाश्रीयते पृथक् ।
जातिसंबन्धभेदाच्च द्वितीय इव गृह्यते ॥ ३,१४.१२ ॥
निमित्तैरभिसंबन्धाद्या निमित्तसरूपता ।
तयैकस्यापि नानात्वं रूपभेदात्प्रकल्पते ॥ ३,१४.१३ ॥
द्रव्यावस्था तृतीया तु यस्यां संसृज्यते द्वयम् ।
तयोरवस्थयोर्भेदादाश्रयत्वे नियुज्यते ॥ ३,१४.१४ ॥
बुद्ध्यैकं भिद्यते भिन्नं एकत्वं चोपगच्छति ।
बुद्ध्यावस्था विभज्यन्ते सा ह्यर्थस्य विधायिका ॥ ३,१४.१५ ॥
व्यपदेशिवदेकस्मिन्बुद्ध्या नानात्वकल्पना ।
तया कल्पितभेदः सन्नर्थात्मा व्यपदिश्यते ॥ ३,१४.१६ ॥
क्रियाभेदेन दृष्टानां अश्मादीनां पुनः पुनः ।
किं चिद्दर्शनं अन्येन दर्शनेनापदिश्यते ॥ ३,१४.१७ ॥
प्रयोगभेदाद्धातूनां प्रकल्प्य बहुरूपताम् ।
भेदाभेदावुपादाय क्व चिदेकाच्त्वं उच्यते ॥ ३,१४.१८ ॥
अन्वयव्यतिरेकाभ्यां अर्थवान्परिकल्पितः ।
एको धात्वर्थविगमाद्वर्णत्वेनोपचर्यते ॥ ३,१४.१९ ॥
द्रव्यात्मानस्त्रयस्तस्माद्बुद्धौ नाना व्यवस्थिताः ।
आश्रयाश्रयिधर्मेणेत्ययं पूर्वेभ्य आगमः ॥ ३,१४.२० ॥
सामानाधिकरण्यं च शब्दयोः कैश्चिदिष्यते ।
विशेषणविशेष्यत्वं संज्ञासंज्ञित्वं एव च ॥ ३,१४.२१ ॥
केषां चिज्जातिगुणयोरेकार्थसमवेतयोः ।
वृत्तिः कृष्णतिलेष्विष्टा शब्दे द्रव्याभिधायिनि ॥ ३,१४.२२ ॥
संस्तु रूपरसादिनां आश्रयो नाभिधीयते ।
द्रव्याभिधानेन विना ततस्ते द्वन्द्वभाविनः ॥ ३,१४.२३ ॥
द्रव्याभिधायी कृष्णादिराकाङ्क्षावान्प्रवर्तते ।
निमित्तानुविधायित्वात्तत्तिलादौ न विद्यते ॥ ३,१४.२४ ॥
एवं जातिमति द्रव्ये प्रत्यासन्ने क्रियां प्रति ।
गुणधर्म गुणाविष्टं द्रव्यं भेदाय कल्पते ॥ ३,१४.२५ ॥
गुणमात्राभिधायित्वं के चिदिच्छन्ति वृत्तिषु ।
अजाश्वादिषु संबन्धाद्रूढीनां इव रूढिभिः ॥ ३,१४.२६ ॥
तिले पूर्वं उपात्ते वा तत्रैव मतुबिष्यते ।
स च धर्मः समासेषु गुणस्तस्माद्विशेषणम् ॥ ३,१४.२७ ॥
[पट्वीमृद्व्योः समासे तु यद्यप्येकार्थवृत्तिता ।
भिन्नं अत्राधिकरणं प्राग्वृत्तेस्तच्च गृह्यते ॥ ३,१४.२८ * ॥
अनुस्यूतेव भेदाभ्यां एका प्रख्योपजायते ।
यदा सहविवक्षां तां आहुर्द्वन्द्वैकशेषयोः ॥ ३,१४.२९ ॥
इतरेतरयोगस्तु भिन्नसङ्घाभिधायिनाम् ।
प्रत्येकं च समूहोऽसौ समूहिषु समाप्यते ॥ ३,१४.३० ॥
व्यापारसमुदायस्य यथाधिश्रयणादिषु ।
प्रत्येकं जातिवद्वृत्तिस्तथा द्वन्द्वपदेष्वपि ॥ ३,१४.३१ ॥
शौण्डार्धर्चपुरोडाश- च्छत्त्रिणोऽत्र निदर्शनम् ।
ते विष्णुमित्रा इति च भिन्नेषु सहचारिषु ॥ ३,१४.३२ ॥
अर्थान्तराभिधायित्वं तथार्थान्तरवर्तिनाम् ।
याभ्यां चैकं अनेकार्थं ताभ्यां एवापरं पदम् ॥ ३,१४.३३ ॥
समुदायान्तरत्वाच्च तादृशोऽर्थो न लौकिकः ।
अन्वयव्यतिरेकाभ्यां शास्त्रार्थोऽपि न दृश्यते ॥ ३,१४.३४ ॥
दुःखा दुरुपपादा च तस्माद्भाष्येऽप्युदाहृता ।
युगपद्वाचिता सा तु व्यवहारार्थं आश्रिता ॥ ३,१४.३५ ॥
समुदायं उपक्रम्य पदं तस्यां प्रयुज्यते ।
विभागेन समाख्याने ततस्तद्द्व्यर्थं उच्यते ॥ ३,१४.३६ ॥
वाक्येऽपि नियता धर्माः के चिद्वृत्तौ द्वयोस्तथा ।
ते त्वभेदेन सामर्थ्य- मात्र एवोपवर्णिताः ॥ ३,१४.३७ ॥
वृत्तौ विशेषवृत्तित्वाद्भेदे सामान्यवाचिता ।
उपमानसमासादौ श्यामादीनां उदाहृता ॥ ३,१४.३८ ॥
वृत्तिरन्यपदार्थे या तस्या वाक्येष्वसंभवः ।
चार्थे द्वन्द्वपदानां च भेदे वृत्तिर्न विद्यते ॥ ३,१४.३९ ॥
भेदे सति निरादीनां क्रान्ताद्यर्थेष्वसंभवः ।
प्राग्वृत्तेर्जातिवाचित्वं न च गौरखरादिषु ॥ ३,१४.४० ॥
क्रीडाया, जीविकायाश्च वाक्येनावचनात्तथा ।
न नित्यग्रहणं युक्तं कौटिल्ये यङ्विधौ यथा ॥ ३,१४.४१ ॥
निर्धारणादिविषये व्यपेक्षैव यतः स्थिता ।
समासप्रतिषेधानां ततो नास्ति प्रयोजनम् ॥ ३,१४.४२ ॥
विधिभिः प्रतिषेधैश्च भेदाभेदनिदर्शनम् ।
कृतं द्वन्द्वैकवद्भावे सङ्घवृत्त्युपदेशवत् ॥ ३,१४.४३ ॥
सामर्थ्यं अविशेषोक्तं अपि लोकव्यवस्थया ।
वृत्त्यवृत्त्योः प्रयोगज्ञैर्विभक्तं प्रतिपत्तृभिः ॥ ३,१४.४४ ॥
अर्थस्य विनिवृत्तत्वाल्लुगादि न विरुध्यते ।
एकार्थीभाव एवातः समासाख्या विधीयते ॥ ३,१४.४५ ॥
व्यवस्थितविभाषा च सामान्ये कैश्चिदिष्यते ।
तथा वाक्यं व्यपेक्षायां समासोऽन्यत्र शिष्यते ॥ ३,१४.४६ ॥
तुल्यश्रुतित्वात्तत्त्वेऽपि राजादीनां उपाश्रिते ।
वृत्तौ विशेषणाकाङ्क्षा- गमकत्वान्निवर्तते ॥ ३,१४.४७ ॥
संबन्धिशब्दः सापेक्षो नित्यं सर्वः प्रयुज्यते ।
स्वार्थवत्सा व्यपेक्षास्य वृत्तावपि न हीयते ॥ ३,१४.४८ ॥
समुदायेन संबन्धो येसां गुरुकुलादिना ।
संस्पृश्यावयवांस्तेऽपि युज्यन्ते तद्वता सह ॥ ३,१४.४९ ॥
अबुधान्प्रत्युपायाश्च विचित्राः प्रतिपत्तये ।
शब्दान्तरत्वादत्यन्त- भेदो वाक्यसमासयोः ॥ ३,१४.५० ॥
असमासे समासे च गोरथादिष्वदर्शनात् ।
युक्तादिनां न शास्त्रेण निवृत्त्यनुगमः कृतः ॥ ३,१४.५१ ॥
शब्दान्तरत्वाद्युक्तादिः क्व चिद्वाक्ये प्रयुज्यते ।
प्रपर्णप्रपलाशादौ गतशब्दश्च वृत्तिषु ॥ ३,१४.५२ ॥
विशेषणविशेस्यत्वं कैश्चिदेकस्तथाश्रयः ।
उपाये तत्त्वदर्शित्वादिष्यते वृत्तिवाक्ययोः ॥ ३,१४.५३ ॥
पदं यथैव वृक्षादि विशिष्टेऽर्थे व्यवस्थितम् ।
नीलोत्पलाद्यपि तथा भागाभ्यां वर्तते विना ॥ ३,१४.५४ ॥
श्रोत्रियक्षेत्रियादिनां न च वासिष्ठगार्ग्यवत् ।
भेदेन प्रत्ययो लोके तुल्यरूपासमन्वयात् ॥ ३,१४.५५ ॥
सप्तपर्णादिवद्भेदो न वृत्तौ विद्यते क्व चित् ।
रूढ्यरूढिविभागोऽपि क्रियते प्रतिपत्तये ॥ ३,१४.५६ ॥
या सामान्याश्रया संज्ञा विशेषविषया च या ।
बहुलग्रहणान्नास्ति प्रवृत्तिरुभयोस्तयोः ॥ ३,१४.५७ ॥
सुसूक्ष्मजटकेशादौ समासोऽवयवे यदि ।
स्यात्स्यात्तत्रान्तरङ्गत्वाद्बाधकोऽवयवस्वरः ॥ ३,१४.५८ ॥
समुदायस्य वृत्तौ च नैकदेशो विभाष्यते ।
भेद एव विभाषाया नियतो विषयो यतः ॥ ३,१४.५९ ॥
यतश्चाविषयः सोऽस्यास्तस्मान्नास्त्यकृतार्थता ।
अभेदप्रक्रमेऽत्यन्तं भेदानां अपसारणात् ॥ ३,१४.६० ॥
महाकष्टश्रितेत्येवं न स्याद्भेदः पदत्रये ।
वृत्ताववयवस्यात्त्वं यस्मान्न प्रतिषिध्यते ॥ ३,१४.६१ ॥
महारण्यं अतीते तु त्रिपदाद्भिद्यते स्वरः ।
यस्मात्तत्रान्तरङ्गत्वाद्बाधकोऽवयवस्वरः ॥ ३,१४.६२ ॥
सतिशिष्टबलियस्त्वात्थाथादिस्वर एव तु ।
द्विपदे तेन यगपत्त्रितयं न समस्यते ॥ ३,१४.६३ ॥
येषां अपूज्यमानत्वं परार्थानुगमात्मके ।
विशेषणविशेष्यत्वं अपि तेषां न कल्पते ॥ ३,१४.६४ ॥
विशेषः श्रूयमाणोऽपि प्रधानेषु गुणेषु वा ।
शब्दान्तरत्वाद्वाक्ये तु वृत्तौ नित्यं न विद्यते ॥ ३,१४.६५ ॥
विशेषकर्मसंबन्धे निर्भुक्तेऽपि कृतादिभिः ।
विशेषनिरपेक्षोऽन्यः कृतशब्दः प्रवर्तते ॥ ३,१४.६६ ॥
अकर्मकत्वे सत्येवं क्तान्तं भावाभिधायि तत् ।
ततः क्रियावता कर्त्रा योगो भवति कर्मणाम् ॥ ३,१४.६७ ॥
अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः ।
संबध्यते क्रिया तद्वत्कृतपूर्व्यादिषु स्थिता ॥ ३,१४.६८ ॥
मुण्डिसूत्र्वादयोऽसद्भिर्भागैरनुगता इव ।
विभक्ताः कल्पितात्मानो धातवः कुट्टिचर्चिवत् ॥ ३,१४.६९ ॥
पुत्रीयतौ न पुत्रोऽस्ति विशेषेच्छा तु तादृशी ।
विनैव पुत्रानुगमाद्या पुत्रे व्यवतिष्ठते ॥ ३,१४.७० ॥
प्राणैर्विना यथा धारिर्जीवतौ प्राणकर्मकः ।
न चात्र धारिर्न प्राणा जीवतिस्तु क्रियान्तरम् ॥ ३,१४.७१ ॥
तथा विनेषिपुत्राभ्यां पुत्रीयायां क्रियान्तरम् ।
अन्वाख्यानाय भेदास्तु सदृशाः प्रतिपादकाः ॥ ३,१४.७२ ॥
आक्षेपाच्च प्रयोगे.न विषयान्तरवर्तिना ।
सदपीच्छाक्यचः कर्म वाक्य एव प्रयुज्यते ॥ ३,१४.७३ ॥
प्रसिद्धेन हृतः शब्दो भावगर्हाभिधायिना ।
अभ्यासे तुल्यरूपत्वान्न यङन्तः प्रयुज्यते ॥ ३,१४.७४ ॥
शब्दा यथा विभज्यन्ते भागैरिव विकल्पितैः ।
अन्वाख्येयास्तथा शास्त्रं अतिदूरे व्यवस्थितम् ॥ ३,१४.७५ ॥
अर्थस्यानुगमं कं चिद्दृष्ट्वैव परिकल्पितम् ।
पदं वाक्ये पदे धातुर्धातौ भागश्च मुण्डिवत् ॥ ३,१४.७६ ॥
अविप्रयोगः साधुत्वे व्युत्पत्तिरनवस्थिता ।
उपायान्प्रतिपत्तीनां नाभिमन्येत सत्यतः ॥ ३,१४.७७ ॥
यथैव डित्थे दवतिः पाचके पचतिस्तथा ।
डयतिश्च पचिश्चैव द्वावप्येतावलौकिकौ ॥ ३,१४.७८ ॥
प्रकृतिप्रत्ययावूह्यौ पदात्ताभ्यां पदं तथा ।
अनुबन्धस्वरादिभ्यः शिष्टैः शास्त्रं न तान्प्रति ॥ ३,१४.७९ ॥
शास्त्रदृष्टिस्तु शास्त्रस्य प्राप्तिमात्रेऽप्यनिश्चिते ।
युज्यते प्रत्यवायेन शास्त्रं चक्षुरपश्यताम् ॥ ३,१४.८० ॥
अर्थान्तराभिधानाच्च पौर्वापर्यं न भिद्यते ।
राजदन्ताहिताग्न्यादि- राजाश्वादिषु सर्वथा ॥ ३,१४.८१ ॥
विनैव प्रत्ययैर्वृत्तौ ये भिन्नार्थाभिधायिनः ।
गर्गादयो लुका तेषां साधुत्वं अनुगम्यते ॥ ३,१४.८२ ॥
[सोऽयं इत्यभिसंबन्धात्प्रत्ययेन विना यदि ।
भृग्वादयः प्रयुज्येरन्नापत्ये नियमो भवेत् ॥ ३,१४.८३ * ॥
सोऽयं इत्यभिसंबन्धे लिङ्गोपव्यञ्जनादृते ।
प्रष्ठादिषु न जायैव नियमेन प्रतीयते ॥ ३,१४.८४ ॥
मानमेयाभिसंबन्ध- विशेषेऽङ्गीकृते तथा ।
प्रस्थादीनां असाधुत्वं तद्धितेन विना भवेत् ॥ ३,१४.८५ ॥
तद्धितो योगभेदेन वाक्यं वा स्याद्विभाषितम् ।
परिमाणाधिके तत्र प्रथमा शिष्यते पुनः ॥ ३,१४.८६ ॥
व्यतिरिक्तस्य साधुत्वे तदेव च निदर्शनम् ।
युज्यतेऽङ्गीकृताधिक्यं तत्सर्वाभिर्विभक्तिभिः ॥ ३,१४.८७ ॥
शुक्लादिषु मतुब्लोपो व्यतिरेकस्य दर्शनात् ।
असाधुत्वनिवृत्त्यर्थं साधवस्ते बिदादिवत् ॥ ३,१४.८८ ॥
विशेषणाद्विशेष्येऽर्थे तद्भावाभ्युच्चये सति ।
पुनश्च प्रतिसंहारे वृत्तिं एके प्रचक्षते ॥ ३,१४.८९ ॥
निमित्ते प्रत्ययः पूर्वो नानुप्राप्तो निमित्तिना ।
निमित्तवति बुद्धेश्च न निमित्तसरूपता ॥ ३,१४.९० ॥
संस्कारसहिताज्ज्ञानान्नोपश्लेसः स्मृतेरपि ।
व्यापारे तन्निमित्तानां न ग्राह्यं स्यात्तथा स्थितम् ॥ ३,१४.९१ ॥
अन्तःकरणवृत्तौ च व्यर्था बाह्यार्थकल्पना ।
तस्मादनुपकारे वा ग्राह्यं वा न तथा स्थितम् ॥ ३,१४.९२ ॥
अनुस्यूतेव संसृष्टैरर्थे बुद्धिः प्रवर्तते ।
व्याख्यातारो विभज्यार्थांस्तान्भेदेन प्रचक्षते ॥ ३,१४.९३ ॥
तदात्मन्यविभक्ते च बुद्ध्यन्तरं उपाश्रिताः ।
विभागं इव मन्यन्ते विशेषणविशेष्ययोः ॥ ३,१४.९४ ॥
अबुधान्प्रति वृत्तिं च वर्तयन्तः प्रकल्पिताम् ।
आहुः परार्थवचने त्यागाभ्युच्चयधर्मताम् ॥ ३,१४.९५ ॥
अन्वयाद्गम्यते सोऽर्थो विरोधी वा निवर्तते ।
द्व्यर्थं अर्थान्तरे वापि तत्राहुरुपसर्जनम् ॥ ३,१४.९६ ॥
उपायमात्रं नानात्वं समूहस्त्वेक एव सः ।
विकल्पाभ्युच्चयाभ्यां वा भेदसंसर्गकल्पना ॥ ३,१४.९७ ॥
वृत्तिं वर्तयतां एवं अबुधप्रतिपत्तये ।
भिन्नाः संबोधनोपायाः पुरुषेष्वनवस्थिताः ॥ ३,१४.९८ ॥
वाचिका द्योतिका वापि संख्यानां वा विभक्तयः ।
तद्रूपेऽवयवे वृत्तौ संख्याभेदो निवर्तते ॥ ३,१४.९९ ॥
अभेदैकत्वसंख्या वा तत्रान्यैवोपजायते ।
संसर्गरुपं सैंख्यानां अविभक्तं तदुच्यते ॥ ३,१४.१०० ॥
यथौषधिरसाः सर्वे मधुन्याहितशक्तयः ।
अविभागेन वर्तन्ते तां संख्यां तादृशीं विदुः ॥ ३,१४.१०१ ॥
भेदानां वा परित्यागात्संख्यात्मा स तथाविधः ।
व्यापाराज्जातिभागस्य भेदापोहेन वर्तते ॥ ३,१४.१०२ ॥
अगृहीतविशेषेण यथा रूपेण रूपवान् ।
प्रख्यायते न शुक्लादि- भेदरूपस्तु गृह्यते ॥ ३,१४.१०३ ॥
भेदरूपसमावेशे तथा सत्यविवक्षिते ।
भागः प्रकाशितः कश्चिच्छास्त्रेऽङ्गत्वेन गृह्यते ॥ ३,१४.१०४ ॥
संकःयासामान्यरूपेण तदा सोऽम्शः प्रतीयते ।
अर्थस्यानेकशक्तित्वे शब्दैर्नियतशक्तिभिः ॥ ३,१४.१०५ ॥
अव्ययानां च यो धर्मो यश्च भेदवतां क्रमः ।
अभिन्नव्यपदेशार्हं अन्तरालं तदेतयोः ॥ ३,१४.१०६ ॥
अलुकश्चैकवद्भावस्तस्मिन्सति न शिष्यते ।
स च गोषुचरादीनां धर्मोऽस्ति वचनान्तरे ॥ ३,१४.१०७ ॥
जातौ द्विवचनाभावात्तद्वृत्तिषु न विद्यते ।
प्रत्याख्याने तु योगस्य द्रव्ये गोषुचरादयः ॥ ३,१४.१०८ ॥
आश्रयाद्भेदवत्तायाः सर्वभेदसमन्वयः ।
द्रव्याभिधानपक्षोऽपि जात्याख्यायां न विद्यते ॥ ३,१४.१०९ ॥
सर्वद्रव्यगतिश्चैवं एकशेषश्च नोच्यते ।
प्रत्याख्यातेऽन्यथा सूत्रे भिन्नद्रव्यगतिर्भवेत् ॥ ३,१४.११० ॥
वृत्तौ यो युक्तवद्भावो वरणादिषु शिष्यते ।
अभेदैकत्वसंख्यायां गोदौ तत्र न सिध्यति ॥ ३,१४.१११ ॥
प्राग्वृत्तेर्युक्तवद्भावे षष्ठी भेदाश्रया भवेत् ।
वृत्तौ संख्याविशेषाणां त्यागाद्भेदो निवर्तते ॥ ३,१४.११२ ॥
विद्यमानासु संख्यासु के चित्संख्यान्तरं विदुः ।
अभेदाख्यं उपग्राहि वृत्तौ तच्चोपजायते ॥ ३,१४.११३ ॥
व्यापारं याति भेदाख्यैस्तत्स्वैरवयवैः क्व चित् ।
आत्मा भेदानपेक्षोऽस्य क्व चिदेति निमित्तताम् ॥ ३,१४.११४ ॥
दास्याः पतिरिति व्यक्तो गोदाविति च दृश्यते ।
व्यापारभेदः संख्यायास्तस्मादेव व्यवस्थितः ॥ ३,१४.११५ ॥
द्व्यादिनां च द्विपुत्रादौ बाह्यो भेदो निवर्तते ।
विभक्तिवाच्यः स्वार्थत्वान्निमित्तं त्ववतिष्ठते ॥ ३,१४.११६ ॥
द्वित्वोपसर्जने सङ्घे द्विशब्दस्तत्र वर्तते ।
सोऽयं इत्यभिसंबन्धादुभशब्दे न तत्तथा ॥ ३,१४.११७ ॥
उभयस्तत्र तुल्यार्थो वृत्तौ नित्यं प्रयुज्यते ।
सूत्रेऽपि नित्यग्रहणं तदर्थं अभिधीयते ॥ ३,१४.११८ ॥
आपि के चापरार्थत्वान्नाभेद उपजायते ।
उभे इति ततः स्वार्थे भेदे वृत्तिः प्रयुज्यते ॥ ३,१४.११९ ॥
स्त्रीत्वाभिधानपक्षेऽपि गुणभावविपर्ययः ।
स्वभावादपरार्थत्वात्तत्र भेदो न हीयते ॥ ३,१४.१२० ॥
तस्माद्द्विवचनाट्टापश्चोभयोऽन्यत्र दृश्यते ।
प्रत्ययं तयपं हित्वा नास्त्युत्तरपदे पुनः ॥ ३,१४.१२१ ॥
प्राप्तिः प्रगृह्यसंज्ञाया न स्यात्प्रत्ययलक्षणात् ।
कुमार्यगारे न ह्यस्ति समासो वचनान्तरे ॥ ३,१४.१२२ ॥
एकद्वयोर्यञादिनां विभाषा लुङ्न कल्पते ।
यौष्माकस्तावकश्चेति भेदाभावान्न सिध्यति ॥ ३,१४.१२३ ॥
दृष्टो गार्ग्यतरे भेदस्तथा गर्गतरा इति ।
युष्मत्पिता त्वत्पितेति तथादेशौ व्यवस्थितौ ॥ ३,१४.१२४ ॥
उपाधिभूता या संख्या प्रकृतौ समवस्थिता ।
आदेशैः सम्ज्नया वापि विभक्त्या व्यज्यते विना ॥ ३,१४.१२५ ॥
शौर्पिके मासजाते च परिमाणं स्वभावतः ।
उपाधिभूतां आश्रित्य संख्यां भेदेन वर्तते ॥ ३,१४.१.२६ ॥
वयस्विनि परिच्छेदः क्रीते चापि न गम्यते ।
इष्टोऽभेदादृते तत्र पतिमाणं अनर्थकम् ॥ ३,१४.१२७ ॥
भिन्नस्याभेदवचनात्प्रस्थादिभ्यः शसो विधिः ।
तद्धर्मत्वादभेदात्तु घटादिभ्यो न दृश्यते ॥ ३,१४.१२८ ॥
श्रूयते वचनं यत्र भावस्तत्र विशिष्यते ।
निवर्तते यद्वचनं तस्य भावो न विद्यते ॥ ३,१४.१२९ ॥
कार्यं सत्ताश्रयं शास्त्रादप्रवृत्तिरदर्शनम् ।
वाक्ये दृष्टं यदत्यन्तं अभावस्तस्य वृत्तिषु ॥ ३,१४.१३० ॥
सम्ज्ञाविषयभेदार्थं प्रसक्तादर्शनं स्मृतम् ।
श्रूयमानं तु वचनं विशिष्टं उपलभ्यते ॥ ३,१४.१३१ ॥
अभावो वा लुको यत्र रूपवान्वा विधीयते ।
व्यभिचारान्निमित्तस्य तत्रासाधुः प्रसज्यते ॥ ३,१४.१३२ ॥
भेदः संख्याविशेषो वा व्याख्यातो वृत्तिवाक्ययोः ।
सर्वत्रैव विशेषस्तु नावश्यं तादृशो भवेत् ॥ ३,१४.१३३ ॥
आतेश्च भेदहेतुत्वान्न लिङ्गेन विशेष्यते ।
प्रधानं मृगदुग्धादौ गार्गीपुत्रे न स क्रमः ॥ ३,१४.१३४ ॥
अभेदे लिङ्गसंख्याभ्यां योगाच्छुक्लं पटा इति ।
प्रसक्ते शास्त्रं आरब्धं सिद्धये लिङ्गसंख्ययोः ॥ ३,१४.१३५ ॥
परार्थं शेषभावं यो वृत्तिषु प्रतिपद्यते ।
गुणो विशेषणत्वेन स सूत्रे व्यपदिश्यते ॥ ३,१४.१३६ ॥
शब्दान्तरत्वाद्वाक्येषु विशेषा यद्यपि श्रुताः ।
वृत्तेरभिन्नरूपत्वात्तेषु वृत्तिर्न विद्यते ॥ ३,१४.१३७ ॥
रूपाच्च शब्दसंस्कारः सामान्यविषयो यतः ।
तस्मात्तदाश्रयं लिङ्गं वचनं च प्रसज्यते ॥ ३,१४.१३८ ॥
सलिङ्गं च ससंख्यं च ततो द्रव्याभिधायिना ।
संबध्यते पदं तत्र तयोर्भिन्ना श्रुतिर्भवेत् ॥ ३,१४.१३९ ॥
भाविनो बहिरङ्गस्य वचनादाश्रयस्य ये ।
लिङ्गसंख्ये गुणानां ते सूत्रेण प्रतिपादिते ॥ ३,१४.१४० ॥
विशेषवृत्तेरपि च रूपाभेदादलक्षितः ।
यस्माद्विशेषस्तेनात्र भेदकार्यं न कल्पते ॥ ३,१४.१४१ ॥
विशेष एव सामान्यं विशेसाद्भिद्यते यतः ।
अभेदो हि विशेषाणां आश्रितो विनिवर्तकः ॥ ३,१४.१४२ ॥
यद्यदाश्रीयते तत्तदन्यस्य विनिवर्तकम् ।
भेदाभेदविभागस्तु सामान्ये न निरूप्यते ॥ ३,१४.१४३ ॥
अपोद्धारश्च सामान्यं इति तस्योपकारिनः ।
निमित्तावस्थं एवातस्तत्स्वधर्मेण गृह्यते ॥ ३,१४.१४४ ॥
अनिर्धारितधर्मत्वाद्भेदा एव विकल्पिताः ।
निमित्तैर्व्यपदिश्यन्ते सामान्याख्याविशेसिताः ॥ ३,१४.१४५ ॥
यदा तु व्यपदिश्येते लिङ्गसंख्ये स्वभावतः ।
प्रयोगेष्वेव साधुत्वं वाक्ये प्रक्रम्यते तदा ॥ ३,१४.१४६ ॥
तत्र प्रयोगोऽनियतो गुणानां आश्रयैः सह ।
सामान्यं यत्तदत्यन्तं तत्रैव समवस्थितम् ॥ ३,१४.१४७ ॥
न गोत्वं शाबलेयस्य गौरिति व्यपदिश्यते ।
शुक्लत्वं बाहुलेयस्य शुक्ल इत्यपदिश्यते ॥ ३,१४.१४८ ॥
व्यतिरेके च सत्येवं मतुपः श्रवनं भवेत् ।
लुगन्वाख्यायते तस्माद्रसादिभ्यश्च नास्ति सः ॥ ३,१४.१४९ ॥
यत्सोऽयं इति संबन्धाद्रूपाभेदेन वर्तते ।
शुक्लादिवत्ततो लोपस्तद्रसादौ न विद्यते ॥ ३,१४.१५० ॥
आवेशो लिङ्गसंख्याभ्यां क्व चिन्मञ्चादिवत्स्थितह् ।
सोऽयं इत्यभिसंबन्धे स प्रस्थादौ न विद्यते ॥ ३,१४.१५१ ॥
लिङ्गं लिङ्गपरित्यागे सूत्रं प्रत्ययशासनम् ।
सोऽयं इत्यभिसंबन्धात्पुंशब्दे स्त्र्यभिधायिनि ॥ ३,१४.१५२ ॥
आश्रये लिङ्गसंख्याभ्यां आश्रितं व्यपदिश्यते ।
विशेषणानां चाजातेरिति शास्त्रव्यवस्थया ॥ ३,१४.१५३ ॥
निमित्तानुविधायित्वाद्ये धर्मा भेदहेतुषु ।
त आश्रयेऽपि विद्यन्त इति बुद्धिर्निवर्त्यते ॥ ३,१४.१५४ ॥
आख्यायते च शास्त्रेण लोकरूढा स्वभावतः ।
निमित्ततुल्या गोदादौ प्रवृत्तिर्लिङ्गसंख्ययोः ॥ ३,१४.१५५ ॥
हरितक्यादिषु व्यक्तिः संख्या खलतिकादिषु ।
मनुष्यलुब्विशेषाणां अभिधेयाश्रयं द्वयम् ॥ ३,१४.१५६ ॥
जातिप्रयोगे जात्या चेत्संबन्धं उपगच्छति ।
विशेषणं ततो धर्माञ् जातेस्तत्प्रतिपद्यते ॥ ३,१४.१५७ ॥
लुबन्ते संनिपतितं जातेरन्यद्विशेषणम् ।
लुबन्तस्य प्रधानत्वात्तद्धर्मैर्व्यपदिश्यते ॥ ३,१४.१५८ ॥
नञ्समासबहुव्रीहि- द्वन्द्वस्त्र्यतिशयेषु ये ।
भेदा भाष्यानुसारेण वाच्यास्ते लिङ्गसंख्ययोः ॥ ३,१४.१५९ ॥
यदि षष्ठीद्वितीयान्तान्निकृष्टात्तमबादयः ।
न्यक्कारिणि स्युरुत्कृष्टे प्रकृतेः स्याद्विलिङ्गता ॥ ३,१४.१६० ॥
काल्यां कालाद्द्वितीयान्तात्काले काल्यास्तरब्भवेत् ।
न्यक्कारिणि तथा गार्ग्ये गर्गेभ्यः प्रत्ययो भवेत् ॥ ३,१४.१६१ ॥
न्यक्कर्तृषु च गर्गेषु गार्ग्यात्स्यात्तच्च नेष्यते ।
कुमार्याः स्वार्थिके ङीप्स्यात्प्रकृत्यर्थो हि नाधिकः ॥ ३,१४.१६२ ॥
षष्ठ्यन्तादधिके तस्माद्गुणे स्वाश्रयवर्तिनि ।
उत्कृष्टसमवेतायां क्रियायां वा विधीयते ॥ ३,१४.१६३ ॥
उपात्तं च प्रकृत्यर्थो द्रव्यं एवाश्रयस्तयोः ।
सोऽयं इत्यभिसंबन्धादभेदेन प्रतीयते ॥ ३,१४.१६४ ॥
रूपाभेदाच्च तद्द्रव्यं आकाङ्क्षावत्प्रतीयते ।
विशेषैर्भिन्नरूपैस्तदाश्रयैरिव युज्यते ॥ ३,१४.१६५ ॥
भिन्नरूपेसु यल्लिङ्गं विशेषेसु व्यवस्थितम् ।
संख्या च ताभ्यां द्रव्यात्मा सोऽभिन्नो व्यपदिश्यते ॥ ३,१४.१६६ ॥
आश्रयः समवायि च निमित्तं लिङ्गसंख्ययोः ।
कर्तृस्थभावकः शेतिरतो भाष्य उदाहृतः ॥ ३,१४.१६७ ॥
निमित्तं आश्रयत्वेन गृह्येत यदि साधनम् ।
कर्मापदिष्टयोः प्राप्तिस्तत्र स्याल्लिङ्गसंख्ययोः ॥ ३,१४.१६८ ॥
शास्त्रे निमित्तभावेन समुदायादपोद्धृतः ।
स्त्र्यर्थस्तस्येच्छया योगः प्रकृत्या प्रत्ययेन वा ॥ ३,१४.१६९ ॥
स्त्रीशब्दो गुणशब्दत्वात्तुल्यधर्मा सितादिभिः ।
गुणमात्रे प्रयुज्येत संस्त्यानवति वाश्रये ॥ ३,१४.१७० ॥
स्त्र्यर्थः संस्त्यानवद्द्रव्यं प्रकृत्यर्थश्च यद्यसौ ।
द्रव्योपलक्षणार्थत्वं संस्त्यानस्य तथा सति ॥ ३,१४.१७१ ॥
संस्त्यानेन क्व चिद्द्रव्यं दृष्टं यद्युपलक्षितम् ।
अनङ्गीकृतसंस्त्यानात्तद्वृत्तेः प्रत्ययो भवेत् ॥ ३,१४.१७२ ॥
भूतादयः षडाख्याश्च संस्त्यानेनोपलक्षिते ।
ब्राह्मण्यादौ यदा वृत्तास्तेभ्यः स्युः प्रत्ययास्तदा ॥ ३,१४.१७३ ॥
तद्वन्तो हि प्रधानत्वात्प्रत्ययाणां प्रयोजकाः ।
सामानाधिकरैण्येऽपि तस्माट्टाबादिसंभवः ॥ ३,१४.१७४ ॥
गुणमात्राभिधायित्वं स्त्रीशब्दे वर्ण्यते यदा ।
प्रकृत्यर्थश्च संस्त्यानं स्वार्थिकाः प्रत्ययास्तदा ॥ ३,१४.१७५ ॥
संस्त्याने केवले वृत्तिः प्रकृतीनां न विद्यते ।
तदाविष्टे ततो द्रव्ये गृह्यन्ते समवस्थिताः ॥ ३,१४.१७६ ॥
उपकारि च संस्त्यानं येषु शब्देष्वपेक्षितम् ।
तेभ्यष्टाबादयस्तच्च भूतादिष्वविवक्षितम् ॥ ३,१४.१७७ ॥
संस्त्यानं प्रत्ययस्यार्थः शुद्धं आश्रीयते यदा ।
तदा द्विवचनानेक- प्रत्ययत्वं न सिध्यति ॥ ३,१४.१७८ ॥
जातिश्चेत्स्त्रीत्वं एवासौ भेदोऽन्यत्राविवक्षितः ।
यस्माद्भिन्नैरपि द्रव्यैस्तदेकं सद्विशिष्यते ॥ ३,१४.१७९ ॥
मात्राणां हि तिरोभावे परिमाणं न विद्यते ।
कुमार्य इति तेन स्यात्कुमार्यां भेदसंभवात् ॥ ३,१४.१८० ॥
जातिसंख्यासमाहारैर्यथैव सहचारिणि ।
द्रव्ये क्रियाः प्रवर्तन्त एकात्मत्वे व्यपेक्षिते ॥ ३,१४.१८१ ॥
मूर्तिभ्यो मूर्तिधर्माणां तथाभेदस्य दर्शनात् ।
सामानाधिकरण्यं च क्रियायोगश्च कल्पते ॥ ३,१४.१८२ ॥
सामानाधिकरण्ये तु मतुब्लोपादपेक्षिते ।
लुक्तद्धितलुकीति स्याल्लुक्तत्राप्युपलक्षणम् ॥ ३,१४.१८३ ॥
केसां चित्त्यक्तभेदेषु द्रव्येष्वेव विधीयते ।
संस्त्यानवत्सु टाबादिरभेदेन समन्वयात् ॥ ३,१४.१८४ ॥
सामान्यभूतो द्रव्यात्मा परिच्छिन्नपरिग्रहः ।
क्रियाभिर्युज्यते भेदैर्भागशश्चावतिष्ठते ॥ ३,१४.१८५ ॥
शुक्लादिष्वाश्रयद्रव्यं प्राधान्येनाभिधीयते ।
स्त्रीत्वं तु प्रत्ययार्थत्वादभिधाविषयो यतः ॥ ३,१४.१८६ ॥
सोऽयं इत्यभिसंबन्धादाश्रयं प्रतिपद्यते ।
स्त्रीत्वं स्वभावसिद्धो वा गुणभावविपर्ययः ॥ ३,१४.१८७ ॥
साकाङ्क्षत्वाद्गुणत्वेन सामान्यं वोपदिश्यते ।
व्यक्तीनां आत्मधर्मोऽसावेकप्रख्यानिबन्धनः ॥ ३,१४.१८८ ॥
एवम्भूता च सावस्था भागभेदपरिग्रहे ।
कृते बुद्ध्यैव भेदानां आश्रयत्वे च कल्पिते ॥ ३,१४.१८९ ॥
निस्कृष्टेष्वपि भेदेषु व्यक्तिरूपाश्रये ततः ।
लिङ्गप्रत्यवमर्शेन लिङ्गसंख्ये प्रपद्यते ॥ ३,१४.१९० ॥
अन्तरेन चशब्दस्य प्रयोगं द्वन्द्वभाविनाम् ।
अविशिष्टार्थवृत्तित्वं रूपाभेदात्प्रतीयते ॥ ३,१४.१९१ ॥
विकल्पवति वा वृत्तिर्निवर्त्येऽथ समुच्चिते ।
तेषां अज्ञातशक्तीनां द्योतकेन नियम्यते ॥ ३,१४.१९२ ॥
वृत्तौ विशिष्टरूपत्वाच्चशब्दो विनिवर्तते ।
अर्थभेदेऽपि सारूप्यात्तच्चार्थेनापदिश्यते ॥ ३,१४.१९३ ॥
चस्य चासत्त्वभूतोऽर्थः स एवाश्रियते यदि ।
तद्धर्मत्वं ततो द्वन्द्वे चादिष्वर्थकृतं हि तत् ॥ ३,१४.१९४ ॥
चार्थः शब्दे क्व चिद्भेदात्कथं चित्समवस्थितः ।
द्योतकाश्चादयस्तस्य वक्ता द्वन्द्वस्तु तद्वताम् ॥ ३,१४.१९५ ॥
विकल्पाद्यभिधेयस्य चार्थस्यान्यपदार्थता ।
द्योतकत्वान्न कल्पेत तस्मात्सदुपलक्ष्यते ॥ ३,१४.१९६ ॥
तत्र स्वाभाविकं लिङ्गं शब्दधर्मे व्यपेक्षिते ।
शब्दः कश्चित्तं एवार्थं कथं चित्प्रतिपद्यते ॥ ३,१४.१९७ ॥
शब्दादर्थाः प्रतायन्ते स भेदानां विधायकः ।
अनुमानं विवक्षायाः शब्दादन्यन्न विद्यते ॥ ३,१४.१९८ ॥
समुच्चितः स्याद्द्वन्द्वार्थो गुणभूतसमुच्चयः ।
समुच्चयो वापि भवेद्गुणभूतसमुच्चितः ॥ ३,१४.१९९ ॥
समुच्चितस्य प्राधान्ये लिङ्गसंख्ये स्वभावतः ।
समुच्चयस्य प्राधान्ये शास्त्रं स्यात्प्रतिपादकम् ॥ ३,१४.२०० ॥
समुच्चयवतोऽर्थस्य प्राधान्येऽप्यपरे विदुः ।
निमित्तानुविधायित्वादसिद्धिं लिङ्गसंख्ययोः ॥ ३,१४.२०१ ॥
समुच्चयो निमित्तं चेत्स्यान्निमित्तानुवर्तनम् ।
अन्वयव्यतिरेकाभ्यां चार्थो द्वन्द्वनिबन्धनः ॥ ३,१४.२०२ ॥
समुच्चितनिमित्तत्वे चार्थस्यापगमेऽपि वा ।
स्वभावसिद्धे द्वन्द्वस्य लिङ्गसंख्ये व्यवस्थिते ॥ ३,१४.२०३ ॥
पदान्तरस्थस्यार्थस्य द्योतकत्वान्न युज्यते ।
निपातो लिङ्गसंख्याभ्यां द्वन्द्वस्त्वर्थस्य वाचकः ॥ ३,१४.२०४ ॥
निमित्तानुविधाने च द्रव्यधर्मानपेक्षणात् ।
गुणप्रधानभावेन क्रियायोगो न कल्पते ॥ ३,१४.२०५ ॥
यस्य नास्ति क्रियायोगः स्वतन्त्रोऽसौ न विद्यते ।
अर्थो द्वन्द्वस्य तत्र स्यादुपादानं अनर्थकम् ॥ ३,१४.२०६ ॥
समुच्चयवतोऽर्थस्य वाचको नानुवर्तते ।
निमित्तं अपि चास्यार्थः स्वधर्मैर्युज्यते ततः ॥ ३,१४.२०७ ॥
बाह्यो नास्त्याश्रयो द्वन्द्वे विशेषौ तत्र हि श्रुतौ ।
समुच्चयस्तदाधारस्तद्धर्मैर्व्यपदिश्यते ॥ ३,१४.२०८ ॥
यो वावयवभेदाभ्यां भेदवद्भ्यां इवान्वितः ।
एकः समूहो धर्मान्स भागयोः प्रतिपद्यते ॥ ३,१४.२०९ ॥
एकश्च द्व्यात्मकोऽर्थोऽसौ भेदाभेदसमन्वितः ।
यौ भेदावाश्रितस्तत्स्थे लिङ्गसंख्ये प्रपद्यते ॥ ३,१४.२१० ॥
यथा स्वशब्दाभिहिते चैत्रार्थे न प्रयुज्यते ।
चैत्रशब्दो बहुव्रिहावप्रयोगस्तथा भवेत् ॥ ३,१४.२११ ॥
यथा गौरिति शुक्लादेरभिधानं न विद्यते ।
एवं यस्याभिसंबन्धो गोभिस्तावत्प्रतीयते ॥ ३,१४.२१२ ॥
संबन्धी नियतो रूढश्चित्राणां न च विद्यते ।
गवां यथा वज्रपाणिस्त्र्यक्षे वाऽपि व्यवस्थितः ॥ ३,१४.२१३ ॥
शब्दान्तरत्वाद्वाक्येषु विशेषा यद्यपि श्रुताः ।
वृत्तिशब्दोऽन्य एवायं सामान्यस्याभिधायकः ॥ ३,१४.२१४ ॥
अगोरचित्रगोश्चैव रूपभेदान्निवर्तकः ।
न चित्रगुर्विशेषाणां रूपाभेदात्तु वाचकः ॥ ३,१४.२१५ ॥
यथा चित्रगुरित्येतत्प्रयुक्ते न प्रयुज्यते ।
एवं यदि स्यात्सामान्यं तस्य न स्यात्प्रतिश्रुतिः ॥ ३,१४.२१६ ॥
सर्वादयो विशेषास्तु प्रदेशानां निवर्तकाः ।
यथा प्रदेशाः सामान्य- प्रदेशान्तरबाधकाः ॥ ३,१४.२१७ ॥
विभक्त्यर्थाभिधानाद्वा षष्ठी नानुप्रयुज्यते ।
द्रव्यस्यानभिधानात्तु तच्छब्दोऽनुप्रयुज्यते ॥ ३,१४.२१८ ॥
सामानाधिकरण्यं चेन्मतुब्लोपात्प्रकल्पते ।
मतुपोऽपि तदर्थत्वादनवस्था प्रसज्यते ॥ ३,१४.२१९ ॥
संबन्धस्य च संबन्दी संबन्धोऽन्यः प्रसज्यते ।
विभक्त्यर्थप्रधाने च क्रियायोगो न कल्पते ॥ ३,१४.२२० ॥
विभक्त्यर्थप्रधानत्वात्ततस्तत्रेति न क्रिया ।
दृश्यादिः कर्मकर्त्रादि- निमित्तत्वाय कल्पते ॥ ३,१४.२२१ ॥
अन्तर्भवेच्च संबन्धः प्राधान्याभिहितः कथम् ।
स प्रातिपदिकार्थश्च तथाभूतः कथं भत्वेत् ॥ ३,१४.२२२ ॥
असंभवात्तु संबन्धे संबन्धसहचारिणि ।
जातिसंख्यासमाहार- कार्याणां इव संभवः ॥ ३,१४.२२३ ॥
सोऽयं इत्यभिसंबन्धाद्विशिष्टाश्रयवाचिनाम् ।
शुक्लादिवल्लिङ्गसंख्ये शास्त्रारम्भाद्भविष्यतः ॥ ३,१४.२२४ ॥
भेदेन तु विवक्षायां सामान्ये वा विवक्षिते ।
सलिङ्गस्य ससंख्यस्य पदार्थस्यागतिर्भवेत् ॥ ३,१४.२२५ ॥
साधुत्वं न विभक्त्यर्थ- मात्रे वृत्तस्य दृश्यते ।
कृत्स्नार्थवृत्तेः साधुत्वं इत्यर्थग्रहणं कृतम् ॥ ३,१४.२२६ ॥
सोऽयं इत्यभिसंबन्धाद्द्रव्यवृत्तिरयं यदा ।
सलिङ्गस्य ससंख्यस्य तदा साधुत्वं उच्यते ॥ ३,१४.२२७ ॥
अन्तर्भूतविभक्त्यर्थे षष्ठी न श्रूयते यथा ।
तथाश्रुतिः प्रसज्येत लिङ्गसंख्याभिधायिनाम् ॥ ३,१४.२२८ ॥
साधर्म्यं अव्ययेन स्याद्बहुव्रीहेस्तथा सति ।
लिङ्गसंख्यानिमित्तस्य संस्कारस्यापवर्तनात् ॥ ३,१४.२२९ ॥
प्रयुक्तेन च संबन्धाच्चैत्रादिश्रवनं भवेत् ।
विना विभक्त्या संबन्धो विभक्त्या विद्यते विना ॥ ३,१४.२३० ॥
अभिधानेऽपि संख्यायाः संख्यात्वं न निवर्तते ।
षष्ठ्यर्थस्याभिधाने तु स्यात्प्रातिपदिकार्थता ॥ ३,१४.२३१ ॥
अनुप्रयोगसिद्ध्यर्थं न विभक्त्यर्थकल्पना ।
वस्त्वन्तरं उपक्षिप्तं इति के चित्प्रचक्षते ॥ ३,१४.२३२ ॥
संबन्दिभिर्विशिष्टानां संबन्धानां निमित्तता ।
संबन्धैर्वा विशिष्टानां तद्वतां स्यान्निमित्तता ॥ ३,१४.२३३ ॥
के चित्संयोगिनो दण्डाद्विषाणात्समवायिनः ।
तद्वति प्रत्ययानाहुर्बहुव्रीहिं तथैव च ॥ ३,१४.२३४ ॥
भिन्नं संबन्धिभेदेन संबन्धं अपरे विदुः ।
निमित्तं स विभक्त्यर्थः समासेनाभिधीयते ॥ ३,१४.२३५ ॥
प्रधानं अन्यार्थतया भिन्नं स्वैरुपसर्जनैः ।
निमित्तं अब्बिधेयं वा सर्वपश्चादपेक्ष्यते ॥ ३,१४.२३६ ॥
स्वामिनि व्यतिरेकश्च वाक्ये यद्यपि दृश्यते ।
प्राधान्य एव तस्येष्टो बहुव्रीहिर्विवक्षिते ॥ ३,१४.२३७ ॥
गवां विशेषणत्वेन यदा तद्वान्प्रवर्तते ।
अस्यैता इति तत्रार्थे बहुव्रीहिर्न विद्यते ॥ ३,१४.२३८ ॥
यदा प्रत्यवमर्शस्तु तासां स्वामी गवां इति ।
गोभिस्तदाभिसंबन्धो निमित्तत्वाय कल्पते ॥ ३,१४.२३९ ॥
अपेक्षमानः संबन्धं रूढित्वस्य निवृत्तये ।
निमित्तानुविधायित्वात्तद्धर्मार्थः प्रसज्यते ॥ ३,१४.२४० ॥
नाना चित्रा इति यथा निमित्तं अनुरुध्यते ।
नानाभूतेऽपि वृत्तः सन्बहुव्रीहिस्तथा भवेत् ॥ ३,१४.२४१ ॥
संबन्धिनि निमित्ते तु द्रव्यधर्मो न हीयते ।
लिङ्गाभावो हि लिङ्गस्य विरोधित्वेन वर्तते ॥ ३,१४.२४२ ॥
संख्वावांल्लिङ्गवाम्श्चार्थोऽभिन्नधर्मा, निमित्ततः ।
आसन्न एव द्रव्यत्वात्तद्धर्मैर्न विरुध्यते ॥ ३,१४.२४३ ॥
विभक्त्यर्थेन चाविष्टं शुद्धं चेति द्विधा स्थितम् ।
द्रव्यं शुद्धस्य यो धर्मः स न स्यादन्यधर्मणः ॥ ३,१४.२४४ ॥
द्रव्यमात्रस्य निर्देशे भेदोऽयं अविवक्षितः ।
ग्रन्थे पूर्वत्र भेदस्तु द्वितीयेऽनुप्रदर्शितः ॥ ३,१४.२४५ ॥
द्रव्यस्य ग्रहणं चात्र लिङ्गसंख्याविशेषणम् ।
द्रव्याश्रितत्वं हि तयोस्ततोऽन्यस्य न सिध्यतः ॥ ३,१४.२४६ ॥
संबन्धिभिन्नसंबन्ध- परिछिन्ने प्रवर्तते ।
समासो द्रव्यसामान्ये विशिष्टार्थानुपातिनि ॥ ३,१४.२४७ ॥
द्रव्यधर्मानतिक्रान्तो भेदधर्मेष्ववस्थितः ।
भविष्यदाश्रयापेक्षे लिङ्गसंख्ये प्रपद्यते ॥ ३,१४.२४८ ॥
शास्त्रप्रवृत्तिभेदेऽपि लौकिकोऽर्थो न भिद्यते ।
नञ्समसे यतस्तत्र त्रयः पक्षा विचारिताः ॥ ३,१४.२४९ ॥
शब्दान्तरेऽपि चैकत्वं आश्रित्यैवं विचारणा ।
अब्रह्मणादिषु नञः प्रयोगो न हि विद्यते ॥ ३,१४.२५० ॥
प्राक्समासात्पदार्थानां निवृत्तिर्द्योत्यते नञा ।
स्वभावतो निवृत्तानां रूपाभेदादलक्षिता ॥ ३,१४.२५१ ॥
ब्राह्मणादिस्थया वाक्येष्वाख्यातपदवाच्यया ।
क्रियया यस्य संबन्धो वृत्तिस्तस्य न विद्यते ॥ ३,१४.२५२ ॥
पाचकादिपदस्था चेन्नञा संबध्यते क्रिया ।
तत्र सत्तानुपादानात्त्रिपक्षी नोपपद्यते ॥ ३,१४.२५३ ॥
सत्तयैवाभिसंबन्धो यदि सर्वत्र कल्प्यते ।
असन्निति समासेऽस्मिन्सत्तान्या परिकल्प्यताम् ॥ ३,१४.२५४ ॥
क्त्वान्ते च तुमुनन्ते च नञ्समासे न दृश्यते ।
विशेषणविशेष्यत्वं नञासत्ताभिधायिना ॥ ३,१४.२५५ ॥
क्रियायाः साधनाधार- सामान्ये नञ् व्यवस्थितः ।
ततो विशिष्टैराधारैर्युज्यते ब्राह्मणादिभिः ॥ ३,१४.२५६ ॥
वृत्तौ यथा गताद्यर्थं उपादाय निरादयः ।
युज्यन्ते साधनाधारैर्नञ्समासेऽपि स क्रमः ॥ ३,१४.२५७ ॥
तत्रासति नञो वृत्तेर्ब्राह्मणक्षत्रियादिभिः ।
विशेषणविशेष्यत्वं कल्प्यते कुब्जखञ्जवत् ॥ ३,१४.२५८ ॥
कामचारे च सत्येवं असतः स्यात्प्रधानता, ।
गुणत्वं इतरेषां च तेषां वा स्यात्प्रधानता ॥ ३,१४.२५९ ॥
प्राधान्येनाश्रिताः पूर्वं श्रुतेः सामान्यवृत्तयः ।
विशेष एव प्रक्रान्ता ब्राह्मणक्षत्रिवादवः ॥ ३,१४.२६० ॥
यथा गौरादिभिस्तेषां अवच्छेदो विधीयते ।
असताप्यनभिव्यक्तं तादात्म्यं व्यज्यते तथा ॥ ३,१४.२६१ ॥
यथा सत्ताभिधानाय सन्नर्थः परिकल्प्यते ।
तथासत्ताभिधानाय निरुपाख्योऽपि कल्पते ॥ ३,१४.२६२ ॥
क्षत्रियादौ पदं कृत्वा बुद्धिः सत्तान्तराश्रया ।
जात्या भिन्नां ततः सत्तां प्रसक्तां अपकर्षति ॥ ३,१४.२६३ ॥
अभाव इति भावस्य प्रतिषेधे विवक्षिते ।
सोपाख्यत्वं अनाश्रित्य प्रतिषेधो न कल्पते ॥ ३,१४.२६४ ॥
अनेकधर्मवचनाः शब्दाः सङ्घाभिधायिनः ।
एकदेशेषु वर्तन्ते तुल्यरूपाः स्वभावतः ॥ ३,१४.२६५ ॥
यथैकदेशकरणात्कृत इत्वभिधीयते ।
अकृतश्चेति संघातः स एवाब्राह्मणे क्रमः ॥ ३,१४.२६६ ॥
ब्राह्मणोऽब्राह्मणस्तस्मादुपन्यासात्प्रसज्यते ।
अकृते वा कृतासङ्गादविशिष्टं कृताकृतात् ॥ ३,१४.२६७ ॥
अमुख्यसंभवे तत्र मुख्यस्य विनिवृत्तये ।
शास्त्रान्वाख्यानसमये नञ् प्रयुक्तो विशेषकः ॥ ३,१४.२६८ ॥
पदार्थानुपघातेन दृश्यतेऽन्यविशेषणम् ।
अथ जातिमतोऽर्थस्य कश्चिद्धर्मो निवर्तितः ॥ ३,१४.२६९ ॥
अवश्यं ब्राह्मणे कश्चित्क्व चिद्धर्मो न विद्यते ।
विशेषावचनात्तत्र नञः श्रुतिरनर्थिका ॥ ३,१४.२७० ॥
अविशिष्टस्य पर्यायो नञ्विशिष्टः प्रसज्यते ।
अन्वाख्यानाद्धि साधुत्वं एवंभूते प्रतीयते ॥ ३,१४.२७१ ॥
पदार्थानुपघातेन यद्यप्यत्र विशेषणम् ।
उपचारसतोऽर्थस्य सावस्था द्योत्यते नञा ॥ ३,१४.२७२ ॥
विशेष्येषु यथाभूतः पदार्थः समवस्थितः ।
तथाभूते तथाभावो गम्यते भेदहेतुभिः ॥ ३,१४.२७३ ॥
निवृत्तेऽवयवस्तस्मिन्पदार्थे वर्तते कथम् ।
नानिमित्ता हि शब्दस्य प्रवृत्तिरुपपद्यते ॥ ३,१४.२७४ ॥
आराच्छब्दवदेकस्य विरुद्धेऽर्थे स्वभावतः ।
शब्दस्य वृत्तिर्यद्यस्ति नञः श्रुतिरनर्थिका ॥ ३,१४.२७५ ॥
अथ स्वभावो वचनादन्वाख्येयत्वं अर्हति ।
तद्वाच्यं अप्रसिद्धत्वान्नञार्थो विनिवर्त्यते ॥ ३,१४.२७६ ॥
यद्यप्युभयवृत्तित्वं प्रधानं तु प्रतीयते ।
प्रस्थानं गम्यते शुद्धे तदर्थेऽपि न तिष्ठतौ ॥ ३,१४.२७७ ॥
किमर्थं अतथाभूतेऽसति मुख्यार्थसंभवे ।
भेदे ब्राह्मणशब्दस्य वृत्तिरभ्युपगम्यते ॥ ३,१४.२७८ ॥
अयं पदार्थ एतस्मिन्क्षत्रियादौ न विद्यते ।
इति तद्वचनः शब्दः प्रत्ययाय प्रयुज्यते ॥ ३,१४.२७९ ॥
बुद्धेर्विषयतां प्राप्ते शब्दादर्थे प्रतीयते ।
प्रवृत्तिर्वा निवृत्तिर्वा ग्रुत्या ह्यर्थोऽनुसज्यते ॥ ३,१४.२८० ॥
असम्यगुपदेशाद्वा निमित्तात्संशयस्य वा ।
शब्दप्रवृत्तिर्न त्वस्ति लोष्टादिषु विपर्ययात् ॥ ३,१४.२८१ ॥
अनेकस्मादस इति प्राधान्ये सति सिध्यति ।
सापेक्षत्वं प्रधानानां एवं युक्तं त्वतल्विधौ ॥ ३,१४.२८२ ॥
एकस्य च प्रधानत्वात्तद्विशेषणसंनिधौ ।
प्रधानधर्माव्यावृत्तिरतो न वचनान्तरम् ॥ ३,१४.२८३ ॥
प्रधानं अत्र भेद्यत्वादेकार्थो विकृतो नञा ।
हित्वा स्वधर्मान्वर्तन्ते द्व्यादयोऽप्येकतां गताः ॥ ३,१४.२८४ ॥
ब्राह्मणत्वं यथापन्ना नञ्युक्ताः क्षत्रियादयः ।
द्वित्वादिषु तथैकत्वं नञ्योगादुपचर्यते ॥ ३,१४.२८५ ॥
एकत्वयोगं आसाद्य स धर्मः प्रतिषिध्यते ।
द्व्यादिभ्यस्तेषु तच्छब्दो वर्तते ब्राह्मणादिवत् ॥ ३,१४.२८६ ॥
आविष्टसंख्यो वाक्येऽसौ यथा द्व्यादौ प्रयुज्यते ।
वृत्तौ तस्य प्रधानत्वात्सा संख्या न निवर्तते ॥ ३,१४.२८७ ॥
प्रतिषेध्यो यथाभूतस्तथाभूतोऽनुषज्यते ।
वचनान्तरयोगे हि न सोऽर्थः प्रतिषिध्यते ॥ ३,१४.२८८ ॥
अशुक्ल इति कृष्णादिर्यथार्थः संप्रतीयते ।
संख्यान्तरं तथानेक इत्यत्राप्यभिधीयते ॥ ३,१४.२८९ ॥
क्रियाप्रसङ्गात्सर्वेषु कर्मस्वङ्गीकृतेषु च ।
एकस्मिन्प्रतिषिद्धेऽपि प्राप्तं अन्यत्प्रतीयते ॥ ३,१४.२९० ॥
क्रियाश्रुतिश्च प्रक्रान्ते प्रसज्यप्रतिषेधने ।
पर्युदासे तु नियतं संख्येयान्तरं उच्यते ॥ ३,१४.२९१ ॥
धात्वर्थः कर्मविषयो व्यपदिष्टः स्वसाधनैः ।
अर्थात्सर्वाणि कर्माणि प्रागाक्षिप्यावतिष्ठते ॥ ३,१४.२९२ ॥
निर्ज्ञातसाधनाधारे यत्राख्याते प्रयुज्यते ।
अनेक इति पश्चाच्च तिष्ठतीत्यनुषज्यते ॥ ३,१४.२९३ ॥
साध्यत्वात्तत्र सिद्धेन क्रिया द्रव्येण लक्ष्यते ।
प्रागेवाङ्गीकृतं द्रव्यं अतः पूर्वेण भिद्यते ॥ ३,१४.२९४ ॥
संख्यैव प्रतिषेधेन संख्यान्तरं अपेक्षते ।
वाक्येऽपि तेन नैकत्व- मात्रं एव निवर्त्यते ॥ ३,१४.२९५ ॥
स्नेहान्तरादवच्छेदस्तथासत्तेः प्रतीयते ।
तैलेन भोजनेऽप्राप्ते न त्वन्यदुपसेचनम् ॥ ३,१४.२९६ ॥
एकार्थे वर्तमानाभ्यां असता ब्राह्मणेन च ।
यदा जात्यन्तरं बाह्यं क्षत्रियाद्यपदिश्यते ॥ ३,१४.२९७ ॥
श्यामेव शस्त्री कन्येति यथान्यद्व्यपदिश्यते ।
असन्ब्राह्मण इत्याभ्यां तथान्ये क्षत्रियादयः ॥ ३,१४.२९८ ॥
असास्नो गौरिति यथा, गवयो व्यपदिश्यते ।
जात्यन्तरं न गोरेव सस्नाभावः प्रतीयते ॥ ३,१४.२९९ ॥
तुल्यरूपं यथाख्यातं कण्टकैर्भेदहेतुभिः ।
खदिरं जातिभेदेन खर्जूरात्प्रतिपद्यते ॥ ३,१४.३०० ॥
अविद्यमानब्राह्मण्यो यादृशो ब्राह्मणो भवेत् ।
अङ्गीकृतोपमानेन तथान्योऽर्थोऽभिधीयते ॥ ३,१४.३०१ ॥
अवृष्टयो यथा वर्सा नीहाराभ्रसमावृताः ।
तद्रूपत्वात्स हेमन्त इत्यभिन्नः प्रतीयते ॥ ३,१४.३०२ ॥
अपरे ब्राह्मणादीनां सर्वेषां जातिवाचिनाम् ।
द्रव्यस्यान्यपदार्थत्वे नञा योगं प्रचक्षते ॥ ३,१४.३०३ ॥
न चैवंविषयः कश्चिद्बहुव्रीहिः प्रकल्पते ।
अगुरश्व इति व्याप्तिर्नञ्समासेन यस्य न ॥ ३,१४.३०४ ॥
द्वन्द्वैकदेशिनोरुक्ता परवल्लिङ्गता यतः ।
अवर्षासु ततोऽसिद्धिरिष्टयोर्लिङ्गसंख्ययोः ॥ ३,१४.३०५ ॥
विशेषणं ब्राह्मणादि क्रियासंबन्धिनोऽसतः ।
यदा विषयभिन्नं तत्तदासत्त्वं प्रतीयते ॥ ३,१४.३०६ ॥
ब्राह्मणत्वेन चासत्त्वादुच्यते सत्तदन्यथा ।
असदित्यपि सत्त्वेन सतः सत्ता निवर्त्यते ॥ ३,१४.३०७ ॥
समन्यद्रव्यवृत्तित्वान्निमित्तानुविधायिनः ।
अयोगो लिङ्गसंख्याभ्यां स्याद्वा सामान्यधर्मता ॥ ३,१४.३०८ ॥
प्रागसत्त्वाभिधायित्वं समासे द्रव्यवाचिता ।
निमित्तानुविधानं च न सर्वत्र स्वभावतः ॥ ३,१४.३०९ ॥
निमित्तानुविधाने च क्रियायोगो न कल्पते ।
तथा चाव्यपदेश्यत्वादुपादानं अनर्थकम् ॥ ३,१४.३१० ॥
असत्सामान्यवृत्तिर्वा विशेषैः क्षत्रियादिभिः ।
प्रयुक्तैराश्रयैर्भिन्नो याति तल्लिङ्गसंख्यताम् ॥ ३,१४.३११ ॥
प्रागाश्रयो हि भेदाय प्रधानेऽभ्यन्तरीकृतः ।
पुनः प्रत्यवमर्शेन विभक्त इव दृश्यते ॥ ३,१४.३१२ ॥
समासे श्रूयते स्वार्थो येन तद्वांस्तदाश्रयः ।
द्रव्यं तु लिङ्गसंख्यावदसताभ्यन्तरीकृतम् ॥ ३,१४.३१३ ॥
एकार्थविषयौ शब्दौ तस्मिन्नन्यार्थवर्तिनौ ।
असतैव तु भेदानां सर्वेषां उपसंग्रहः ॥ ३,१४.३१४ ॥
ते क्षत्रियादिभिर्वाच्या वाच्या वा सर्वनामभिः ।
यान्तीवान्यपदार्थत्वं नञो रूपाविकल्पनात् ॥ ३,१४.३१५ ॥
विशेषस्याप्रयोगे तु लिङ्गसंख्ये न सिध्यतः ।
अवर्षादिषु दोसश्च हेमन्तोऽन्याश्रयो यतः ॥ ३,१४.३१६ ॥
आकृतिः सर्वशब्दानां यदा वाच्या प्रतीयते ।
एकत्वादेकशब्दत्वं न्याय्यं तस्याश्च वर्ण्यते ॥ ३,१४.३१७ ॥
आविष्टलिङ्गता तस्यां स्याद्ग्राम्यपगुसङ्घवत् ।
द्रव्यभेदेऽपि चैकत्वात्तत्रैकवचनं भवेत् ॥ ३,१४.३१८ ॥
आश्रयाणां हि लिङ्गैः सा नियतैरेव युज्यते ।
तथा च युक्तवद्भावे प्रतिषेधो निरर्थकः ॥ ३,१४.३१९ ॥
सर्वत्राविष्टलिङ्गत्वं लोकलिङ्गपरिग्रहे ।
विरोधित्वात्प्रसज्येत नाश्रितं तच्च लौकिकम् ॥ ३,१४.३२० ॥
सामान्यं आकृतिर्भावो जातिरित्यत्र लौकिकम् ।
लिङ्गं न संभवत्येव तेनान्यत्परिगृह्यते ॥ ३,१४.३२१ ॥
प्रवृत्तिरिति सामान्यं लक्षणं तस्य कथ्यते ।
आविर्भावस्तिरोभावः स्थितिश्चेत्यथ भिद्यते ॥ ३,१४.३२२ ॥
प्रवृत्तिमन्तः सर्वेऽर्थास्तिसृभिश्च प्रवृत्तिभिः ।
सततं न वियुज्यन्ते वाचश्चैवात्र संभवः ॥ ३,१४.३२३ ॥
यश्चाप्रवृत्तिधर्मार्थश्चितिरूपेण गृह्यते ।
अनुयातीव सोऽन्येषां प्रवृत्तीर्विश्वगाश्रयाः ॥ ३,१४.३२४ ॥
तेनास्य चितिरूपं च चितिकालश्च भिद्यते ।
तस्य स्वरूपभेदस्तु न कश्चिदपि विद्यते ॥ ३,१४.३२५ ॥
अचेतनेषु चैतन्यं संक्रान्तं इव दृश्यते ।
प्रतिबिम्बकधर्मेण यत्तच्छब्दनिबन्धनम् ॥ ३,१४.३२६ ॥
अवस्था तादृशी नास्ति या लिङ्गेन न युज्यते ।
क्व चित्तु शब्दसंस्कारो लिङ्गस्यानाश्रये सति ॥ ३,१४.३२७ ॥
कृत्तद्धिताभिधेयानां भावानां न विरुध्यते ।
शास्त्रे लिङ्गं गुणावस्था तथा चाकृतिरिष्यते ॥ ३,१४.३२८ ॥
लिङ्गं प्रति न भेदोऽस्ति द्रव्यपक्षेऽपि कश्चन ।
तस्मात्सप्त विकल्पा ये सैवात्राविष्टलिङ्गता ॥ ३,१४.३२९ ॥
वचने नियमः शास्त्राद्द्रव्यस्याभ्युपगम्यते ।
यतस्तदाकृतौ शास्त्रं अन्यथैव समर्थ्यते ॥ ३,१४.३३० ॥
वर्तते यो बहुष्वर्थोऽभेदे तस्य विवक्षिते ।
स्वाश्रयैर्व्यपदिष्टस्य शास्त्रे वचनं उच्यते ॥ ३,१४.३३१ ॥
यदा त्वाश्रयभेदेन भेद एव प्रतीयते ।
आकृतेर्द्रव्यपक्षेन तदा भेदो न विद्यते ॥ ३,१४.३३२ ॥
अभेदे त्वेकशब्दत्वाच्छास्त्राच्च वचने सति ।
एकशेषो न वक्तव्यो वचनानां च संभवः ॥ ३,१४.३३३ ॥
ननु चानभिधेयत्वे द्रव्यस्य तदपाश्रयः ।
आकृतेरुपकारोऽयं द्रव्याभावान्न कल्पते ॥ ३,१४.३३४ ॥
व्यपदेशोऽभिधेयेन न शास्त्रे कश्चिदाश्रितः ।
द्रव्यं नाम पदार्थो यो न च स प्रतिषिध्यते ॥ ३,१४.३३५ ॥
गुणभावोऽभिधेयत्वं प्रति द्रव्यस्य नाश्रितः ।
उपकारि गुणः शेषः परार्थ इति कल्पना ॥ ३,१४.३३६ ॥
द्रव्ये न गुणभावोऽस्ति विनाद्रव्याभिधायिताम् ।
आकृतौ वा प्रधानत्वं अत एवं समर्थ्यते ॥ ३,१४.३३७ ॥
कैश्चिद्गुणप्रधानत्वं नामाख्यातवदिष्यते ।
न वृत्तिवत्परार्थस्य गुणभावस्तु वर्ण्यते ॥ ३,१४.३३८ ॥
गुणभूतस्य नानात्वादाकृतेरेकशब्दता ।
सिद्धो वचनभेदश्च द्रव्यभेदसमन्वयात् ॥ ३,१४.३३९ ॥
साधनं गुणभावेन क्रियाया भेदकं यथा ।
आख्यातेष्वेकशब्दाया जातेर्द्रव्यं तथोच्यते ॥ ३,१४.३४० ॥
एकत्वे तुल्यरूपत्वाच्छब्दानां प्रतिपादने ।
निमित्तात्तद्वतोऽर्थस्य विशिष्टग्रहणे सति ॥ ३,१४.३४१ ॥
सोऽयं इत्यभिसंबन्धादाश्रयैराकृतेः सह ।
प्रवृत्तौ भिन्नशब्दायां लिङ्गसंख्ये प्रसिध्यतः ॥ ३,१४.३४२ ॥
प्राक्च जात्यभिसंबन्धात्सर्वनामाभिधेयता ।
वस्तूपलक्षणं सत्त्वे प्रयुज्यन्ते त्यदादयः ॥ ३,१४.३४३ ॥
पाकौ पाका इति यथा भेदकः कैश्चिदाश्रयः ।
इष्यते चानुपादानो धर्मोऽसौ गुणवाचिनाम् ॥ ३,१४.३४४ ॥
आश्रयस्यानुपादाने केवलं लभते यदि ।
आधारधर्मान्सामान्यं पुरस्तात्तद्विचारितम् ॥ ३,१४.३४५ ॥
जातौ पूर्वं प्रवृत्तानां शब्दानां जातिवाचिनाम् ।
अशब्दवाच्यात्संबन्धाद्व्यक्तिरप्युपजायते ॥ ३,१४.३४६ ॥
सोऽयं इत्यभिसंबन्धाज्जातिधर्मोपचर्यते ।
द्रव्यं तदाश्रयो भेदो जातेश्चाभ्युपगम्यते ॥ ३,१४.३४७ ॥
मञ्चशब्दो यथाधेयं मञ्चेष्वेव व्यवस्थितः ।
तत्त्वेनाह तथा जाति- शब्दो द्रव्येषु वर्तते ॥ ३,१४.३४८ ॥
तत्र जातिपदार्थत्वं तथैवाभ्युपगम्यते ।
जातिरुत्सृष्टसंख्या तु द्रव्यात्मन्यनुषज्यते ॥ ३,१४.३४९ ॥
अस्येदं इति वा यत्र सोऽयं इत्यपि वा श्रुतिः ।
वर्तते परधर्मेण तदन्यदभिधीयते ॥ ३,१४.३५० ॥
यत्प्रधानं न तस्यास्ति स्वरूपं अनिरूपनात् ।
गुणस्य चात्मना द्रव्यं तद्भावेनोपलक्ष्यते ॥ ३,१४.३५१ ॥
गुणस्य भेदकाले तु प्राधान्यं उपजायते ।
संसर्गश्रुतिरर्थेषु साक्षादेव न वर्तते ॥ ३,१४.३५२ ॥
जातौ वृत्तो यदा द्रव्ये स शब्दो वर्तते पुनः ।
जातेरेव पदार्थत्वं न तदाभ्युपगम्यते ॥ ३,१४.३५३ ॥
प्रवृत्तानां पुनर्वृत्तिरेकत्वेनोपवर्ण्यते ।
प्रतिपत्तेरुपायेषु न तत्त्वं अनुगम्यते ॥ ३,१४.३५४ ॥
अपृथक्शब्दवाच्यस्य जातिराश्रीयते यदा ।
द्रव्यस्य सति संस्पर्शे तदा जातिपदार्थता ॥ ३,१४.३५५ ॥
द्रव्यस्य सति संस्पर्शे द्रव्यं आश्रीयते यदा ।
वाच्यं तेनैव शब्देन तदा द्रव्यपदार्थता ॥ ३,१४.३५६ ॥
अपृथक्शब्दवाच्यापि भेदमात्रे प्रवर्तते ।
यदा संबन्धवज्जातिः सापि द्रव्यपदार्थता ॥ ३,१४.३५७ ॥
अत्यन्तभिन्नयोरेव जातिद्रव्याभिधायिनोः ।
अवाच्यस्योपकारित्व आश्रिते तूभयार्थता ॥ ३,१४.३५८ ॥
आश्रिते त्वाश्रयकृतं भेदं अभ्युपगच्छता ।
पुनश्चाप्येकशब्दत्वं जातिशब्देऽनुवर्णितम् ॥ ३,१४.३५९ ॥
अनिर्जातस्य निर्ज्ञानं येन तन्मानं उच्यते ।
प्रस्थादि तेन मेयात्मा साकल्येनावधार्यते ॥ ३,१४.३६० ॥
अनिर्ज्ञातं प्रसिद्धेन येन तद्धर्म गम्यते ।
साकल्येनापरिज्ञानादुपमानं तदुच्यते ॥ ३,१४.३६१ ॥
द्वयोः समानयोर्धर्म उपमानोपमेययोः ।
समास उपमानानां शब्दैस्तदभिधायिभिः ॥ ३,१४.३६२ ॥
आधारभेदाद्भेदो यः श्यामत्वे सोऽविवक्षितः ।
गुणोऽसावाश्रितैकत्वो भिन्नाधारः प्रतीयते ॥ ३,१४.३६३ ॥
गुणयोर्नियतो भेदो गुणजातेस्तथैकता ।
एकत्वेऽत्यन्तभेदे वा, नोपमानस्य संभवः ॥ ३,१४.३६४ ॥
जातिमात्रव्यपेक्षायां उपमार्थो न कश्चन ।
श्यामत्वं एकं गुणयोरुभयोरपि वर्तते ॥ ३,१४.३६५ ॥
येनैव हेतुना श्यामा शस्त्री तत्र प्रतीयते ।
स हेतुर्देवदत्तायाः प्रत्यये न विशिष्यते ॥ ३,१४.३६६ ॥
आश्रयाद्यो गुणे भेदो जातेर्या चाविशिष्टता ।
ताभ्यां उभाभ्यां द्रव्यात्मा सव्यापारः प्रतीयते ॥ ३,१४.३६७ ॥
सोऽयं एकत्वनानात्वे व्यवहारः समाश्रितः ।
भेदाभेदविमर्शेन व्यतिकीर्णेन वर्तते ॥ ३,१४.३६८ ॥
श्यामेत्येवाभिधियेत जातिमात्रे विवक्षिते ।
शस्त्र्यादिनां उपादाने तत्र नास्ति प्रयोजनम् ॥ ३,१४.३६९ ॥
अशब्दवाच्यो यो भेदः श्याममात्रे न वर्तते ।
श्यामेषु केषु चिद्वृत्तिर्यस्य सोऽत्र व्यपेक्ष्यते ॥ ३,१४.३७० ॥
श्यामेषु केषु चित्किं चित्किं चित्सर्वत्र वर्तते ।
सामान्यं कश्चिदेकस्मिञ् छ्यामे भेदो व्यवस्थितः ॥ ३,१४.३७१ ॥
तथा हि सति सौरभ्ये भेदो जात्युत्पलादिषु ।
गन्धानां सति भेदे तु सादृश्यं उपलभ्यते ॥ ३,१४.३७२ ॥
गुणानां आश्रयाद्भेदः स्वतो वाप्यनुगम्यते ।
अनिर्देश्याद्विशेषाद्वा संकराद्वा गुणान्तरैः ॥ ३,१४.३७३ ॥
उपमानं प्रसिद्धत्वात्सर्वत्र व्यतिरिच्यते ।
उपमेयत्वं आधिक्ये साम्ये वा न निवर्तते ॥ ३,१४.३७४ ॥
अन्यैस्तु मानं जात्यादि भेद्यस्यार्थस्य वर्ण्यते ।
अनिर्ज्ञातस्वरूपो हि ज्ञेयोऽर्थस्तेन मीयते ॥ ३,१४.३७५ ॥
मितस्तु स्वेन मानेन प्रसिद्धो यो गुणाश्रयः ।
आश्रयान्तरमानाय स्वधर्मेण प्रवर्तते ॥ ३,१४.३७६ ॥
रूपान्तरेण संस्पर्शो रूपान्तरवतां सताम् ।
भिन्नेन यस्य भेद्यानां उपमानं तदुच्यते ॥ ३,१४.३७७ ॥
धर्मः समानः श्यामादिरुपमानोपमेययोः ।
आश्रियमानप्राधान्यो धर्मेणान्येन भिद्यते ॥ ३,१४.३७८ ॥
शस्त्रीकुमार्योः सदृशः श्याम इत्येवं आश्रिते ।
व्यपदेश्यं अनेनेति निमित्तं गुणयोः स्थितम् ॥ ३,१४.३७९ ॥
यदा निमित्तैस्तद्वन्तो गच्छन्तीव तदात्मताम् ।
भेदाश्रयं तदाख्यानं उपमानोपमेययोः ॥ ३,१४.३८० ॥
तत्त्वासङ्गविवक्षायां येषु भेदो निवर्तते ।
लुप्तोपमानि तान्याहुस्तद्धर्मेण समाश्रयात् ॥ ३,१४.३८१ ॥
शस्त्र्यां प्रसिद्धं श्यामत्वं मानं सा तेन मीयते ।
अन्या श्यामा तु तद्रूपा तेनात्यन्तं न मीयते ॥ ३,१४.३८२ ॥
शस्त्रिं स्वेन गुणेनातो मिमानां आश्रयान्तरम् ।
असमाप्तगुणं सिद्धेरुपमानं प्रचक्षते ॥ ३,१४.३८३ ॥
उपमेये स्थितो धर्मः श्रुतोऽन्यत्रानुमीयते ।
श्रुतोऽथ वोपमानस्थ उपमेयेऽनुमियते ॥ ३,१४.३८४ ॥
अधीयते ब्राह्मणवत्क्षत्रिया इति दृश्यते ।
उपमेयस्य भिन्नत्वाद्वचनं क्षत्रियाश्रयम् ॥ ३,१४.३८५ ॥
साधारणं ब्रुवन्धर्म क्व चिदेव व्यवस्थितम् ।
सामान्यवचनः शब्द इति सूत्रेऽपदिश्यते ॥ ३,१४.३८६ ॥
नाभेदेन न भेदेन गुणो द्विष्ठोऽभिधीयते ।
भिन्नयोर्धर्मयोरेकः श्रूयतेऽन्यः प्रतीयते ॥ ३,१४.३८७ ॥
नात्यन्ताय मिमीते यत्सामान्ये समवस्थितम् ।
सादृश्यादुपमेयार्थ- समीपे परिकल्प्यते ॥ ३,१४.३८८ ॥
मानं प्रति समीपं वा सादृश्येन प्रतीयते ।
परिच्छेदाद्धि सादृश्यं इह मानोपमानयोः ॥ ३,१४.३८९ ॥
एकजातिव्यपेक्षायां तदेवेत्यवसीयते ।
भेदस्यैव व्यपेक्षायां अन्यदेवेति गम्यते ॥ ३,१४.३९० ॥
कर्मत्वं करणत्वं च भेदेनैवाश्रितं यतः ।
अत्यन्तैकत्वविषयो न स्यात्तेनात्र सम्शयः ॥ ३,१४.३९१ ॥
भेदेऽपि तुल्यरूपत्वाच्छालीमं तानिति दृश्यते ।
जात्यभेदात्स एवायं इति भिन्नोऽभिधीयते ॥ ३,१४.३९२ ॥
कथं ह्यवयवोऽन्यस्य स्यादन्य इति चोच्यते ।
अत्यन्तभेदे नानात्वं यत्र तत्त्वं न विद्यते ॥ ३,१४.३९३ ॥
अभेदस्य विवक्षायां एकत्वं सङ्घसङ्घिनोः ।
सङ्घिनोर्न त्वभेदोऽस्ति तथान्यत्वं उदाहृतम् ॥ ३,१४.३९४ ॥
तत्राभिन्नव्यपेक्षायां उपमार्थो न विद्यते ।
यो हि गौरिति विज्ञाने हेतुः सोऽस्ति गवान्तरे ॥ ३,१४.३९५ ॥
व्यावृत्तानां विशेषाणां व्यापारे तु विवक्षिते ।
न कश्चिदुपकारोऽस्ति बुद्धेर्बुद्ध्यन्तरं प्रति ॥ ३,१४.३९६ ॥
किं चिद्यत्रास्ति सामान्यं यदि भेदाश्च के चन ।
गोत्वं गोष्वस्ति सामान्यं भेदाश्च शबलादयः ॥ ३,१४.३९७ ॥
सामान्यं श्यामतान्यैव तद्धि साधारणं द्वयोः ।
तदेव सिद्ध्यसिद्धिभ्यां भेद इत्यपदिश्यते ॥ ३,१४.३९८ ॥
श्यामत्वं एव सामान्यं अन्येषां उभयोः स्थितम् ।
संपूर्नत्वात्तदन्यस्माद्विशेष इति गम्यते ॥ ३,१४.३९९ ॥
आकृतौ वापि सामान्ये क्व चिदेव व्यवस्थिताः ।
श्यामादौ येऽवसीयन्ते विशेषास्त इहाश्रिताः ॥ ३,१४.४०० ॥
जातेरभेदे भेदे वा सादृश्यं तत्प्रचक्षते ।
कश्चित्कदा चितर्थात्मा तथाभूतोऽपदिश्यते ॥ ३,१४.४०१ ॥
यत्रार्थे प्रत्ययाभेदो न कदा चिद्विकल्पते ।
अविद्यमानभेदत्वात्स एक इति गम्यते ॥ ३,१४.४०२ ॥
योऽर्थ आश्रितनानात्वः स एवेत्यपदिश्यते ।
व्यापारं जातिभागस्य तत्रापि प्रतिजानते ॥ ३,१४.४०३ ॥
जातिभागाश्रया प्रख्या तत्राभिन्ना प्रवर्तते ।
व्यक्तिभागाश्रया बुद्धिस्तत्र भेदेन जायते ॥ ३,१४.४०४ ॥
अन्यत्र वर्तमानं सद्भेदाभेदसमन्वितम् ।
निमित्तं पुनरन्यत्र नानात्वेनेव गृह्यते ॥ ३,१४.४०५ ॥
आधारेषु पदन्यासं कृत्वोपैति तदाश्रयम् ।
स सादृश्यस्य विषय इत्यन्यैरपदिश्यते ॥ ३,१४.४०६ ॥
परापेक्षे यथा भावे कारणाख्या प्रवर्तते ।
तथान्याधिगमापेक्षं उपमानं प्रचक्षते ॥ ३,१४.४०७ ॥
गुरुगिश्यपितापुत्र- क्रियाकालादयो यथा ।
व्यवहारास्तथौपम्यं अप्यपेक्षानिबन्धनम् ॥ ३,१४.४०८ ॥
श्यामत्वं उपमाने चेद्वृत्तं वृत्तौ प्रयुज्यते ।
उपमेयं समासेन बाह्यं तत्राभिधीयते ॥ ३,१४.४०९ ॥
टाबन्त एव चैत्रादौ श्यामाशब्दस्तथा भवेत् ।
सूत्रे च प्रथमाभावान्न श्यामाद्युपसर्जनम् ॥ ३,१४.४१० ॥
अथ त्वेकविभक्तित्वाद्गुणत्वाद्वोपसर्जनम् ।
नैवं तित्तिरिकल्माष्यां इष्टः स्त्रीप्रत्ययो भवेत् ॥ ३,१४.४११ ॥
सतिशिष्टबलीयस्त्वाद्बाह्ये ङिषि च सत्यपि ।
उपमानस्वरो न स्यात्तस्मात्स्त्र्यन्तः समस्यते ॥ ३,१४.४१२ ॥
गुणे न चोपमानस्थे सापेक्षत्वं प्रकल्पते ।
प्रधानस्य तथा न स्याद्व्याघ्रादौ लिङ्गदर्शनम् ॥ ३,१४.४१३ ॥
तस्मात्सति गुणत्वेऽपि प्राधान्यं विग्रहान्तरे ।
नैवंजातीयकं शास्त्रे संभवत्युपसर्जनम् ॥ ३,१४.४१४ ॥
उपमेयात्मनि श्यामो वर्तमानोऽभिधीयते ।
उपमानेष्वनिर्दिष्टः सामर्थ्यात्स प्रतीयते ॥ ३,१४.४१५ ॥
द्रव्यमात्रेऽपि निर्दिष्टे चन्द्रवक्त्रेऽनुगम्यते ।
विशिष्ट एव चन्द्रस्थो गुणो नोपप्लवादयः ॥ ३,१४.४१६ ॥
भेदभावनयैतच्च समासेऽप्युपवर्ण्यते ।
विशिष्टगुणभिन्नेऽर्थे पदं अन्यत्प्रयुज्यते ॥ ३,१४.४१७ ॥
यदि भिन्नाधिकरणो वचनादनुगम्यते ।
मृगीव चपलेत्यत्र पुंवद्भावो न सिध्यति ॥ ३,१४.४१८ ॥
अस्त्रीपूर्वपदत्वात्तु पुंवद्भावो भविष्यति ।
यथैव मृगदुग्धादौ न चेत्स्त्र्यर्थो विवक्ष्यते ॥ ३,१४.४१९ ॥
शस्त्रीव शस्त्रीश्यामेति देवदत्तैव कथ्यते ।
तस्यां एवोभयं तस्मादुच्यते शास्त्रविग्रहे ॥ ३,१४.४२० ॥
पुंवद्भावस्य सिद्ध्यर्थं पक्षे स्त्रीप्रत्ययस्य च ।
बह्वपेक्ष्यं अतस्तस्यां उभयप्रतिपादनम् ॥ ३,१४.४२१ ॥
श्यामा शस्त्री यथा श्यामा शस्त्रीकल्पेति चोच्यते ।
तत्रोपमानेतरयोः श्यामेत्येतदपेक्ष्यते ॥ ३,१४.४२२ ॥
अथ श्यामेव शस्त्रीयं श्यामेत्येवं प्रयुज्यते ।
शस्त्री यथेयं श्यामेति तावदेव प्रतीयते ॥ ३,१४.४२३ ॥
उपलक्षणमात्रार्था गुणस्यास्य यदि श्रुतिः ।
पृथग्द्वयोः श्रुतोऽप्येष नेष्टस्वार्थस्य वाचकः ॥ ३,१४.४२४ ॥
उपमेयं तु यद्वाच्यं तस्य चेत्प्रतिपादने ।
सव्यापारा गुणास्तत्र सर्वस्योक्तिः सकृच्छ्रुतौ ॥ ३,१४.४२५ ॥
प्रकाराधारभेदेन विशेषे समवस्थितः ।
शब्दान्तराभिसंबन्धे सामान्यवचनः कथम् ॥ ३,१४.४२६ ॥
सादृश्यमात्रं सामान्यं द्विष्ठं कैश्चित्प्रतीयते ।
गुणो भेदेऽप्यभेदेन द्विवृत्तिर्वा विवक्षितः ॥ ३,१४.४२७ ॥
व्यापारो जातिभागस्य द्रव्ययोर्वाभिधित्सितः ।
रूपात्सामान्यवाचित्वं प्राग्वा वृत्तेरुदाहृतम् ॥ ३,१४.४२८ ॥
व्याघ्रशब्दो यदा शौर्यात्पुरुषार्थेऽवतिष्ठते ।
तदाधिकरणाभेदात्समासस्यास्ति संभवः ॥ ३,१४.४२९ ॥
शूरशब्दप्रयोगे तु व्याघ्रशब्दो मृगे स्थितः ।
भिन्नेऽधिकरणे वृत्तेस्तत्र नैवास्ति संभवः ॥ ३,१४.४३० ॥
सामानाधिकरण्येऽपि गुणभेदस्य संभवात् ।
प्रयोगः शूरशब्दस्य समासेऽप्यनुषज्यते ॥ ३,१४.४३१ ॥
पूजोपाधिश्च यो दृष्टः कुत्सनोपाधयश्च ये ।
तेषां भिन्ननिमित्तत्वान्नियमार्था पुनः श्रुतिः ॥ ३,१४.४३२ ॥
असंभवेऽपि वा वृत्तेः स्यादेतल्लिङ्गदर्शनम् ।
अच्वेरिति यथा लिङ्गं अभावेऽपि भृशादिषु ॥ ३,१४.४३३ ॥
वत्यन्तावयवे वाक्ये यदौपम्यं प्रतीयते ।
तत्प्रत्ययविधौ सूत्रे निर्देशोऽयं विचार्यते ॥ ३,१४.४३४ ॥
क्रियेत्युपाधिः प्राथम्यात्प्रकृत्यर्थस्य यद्यपि ।
न प्रातिपदिकं तत्र क्रियावाच्युपपद्यते ॥ ३,१४.४३५ ॥
सत्त्ववृत्तस्य शेषे वा तृतीया साधनेऽपि वा ।
तिङां असत्त्ववाचित्वादुभयं तन्न विद्यते ॥ ३,१४.४३६ ॥
पाकादयस्तृतीयान्ताः सत्त्वधर्मसमन्वयात् ।
न क्रियेत्यपदिश्यन्ते कृत्वोऽर्थप्रत्यये यथा ॥ ३,१४.४३७ ॥
ये चाव्ययकृतः के चित्क्रियाधर्मसमन्विताः ।
तेषां असत्त्ववाचित्वं तिङन्तैर्न विशिष्यते ॥ ३,१४.४३८ ॥
कृत्वसुज्विषया यापि शयितव्यादिषु क्रिया ।
उपमानोपमेयत्वं तत्रात्यन्तं असंभवि ॥ ३,१४.४३९ ॥
न केवलौ द्रव्यगुणौ तद्वान्वाप्युपमीयते ।
शयितव्यादिभिस्तेषु नोपमार्थोऽस्ति कश्चन ॥ ३,१४.४४० ॥
उपमानोपमेयत्वे द्रव्ये चानुक्तधर्मिणि ।
निमित्तत्वेन गम्यन्ते रूढयोगाः क्रियागुणाः ॥ ३,१४.४४१ ॥
होतव्यसदृशो होतेत्यत्राप्यर्थो न विद्यते ।
विरोधात्क्रियया तस्मात्क्रियावान्नोपमीयते ॥ ३,१४.४४२ ॥
क्रिया समानजातिया तद्भावान्नोपमीयते ।
जातिभेदेऽपि पाकेन भिन्नाः पाकादयः क्रियाः ॥ ३,१४.४४३ ॥
आधारभेदाद्भिन्नायां उपमानस्य संभवः ।
अध्येतव्येन विप्राणां तुल्यं अध्ययनं विशाम् ॥ ३,१४.४४४ ॥
अर्थात्प्रकरणाद्वापि यत्रापेक्ष्यं प्रतीयते ।
सामर्थ्यादनपेक्षस्य तस्य वृत्तिः प्रसज्यते ॥ ३,१४.४४५ ॥
तैलपाकेन तुल्ये च घृतपाके विवक्षिते ।
क्रियावदपि कार्याणां दर्शनात्प्रत्ययो भवेत् ॥ ३,१४.४४६ ॥
अतिङ्ग्रहणं एवं तु समासस्य निवर्तकम् ।
गमनं कारकस्येति ण्वुल्यन्यस्मिन्न संभवेत् ॥ ३,१४.४४७ ॥
सर्वस्य परिहारार्थं समुदायत्वं आश्रितम् ।
शुद्धायाः संभवान्न स्यात्क्रियाया ब्राह्मणादिषु ॥ ३,१४.४४८ ॥
उपमानविवक्षायां स्वधर्मश्च निवर्तते ।
क्रियाया न श्रुताद्यस्मादुपमानं समाप्यते ॥ ३,१४.४४९ ॥
तृतीयोऽप्याश्रितो भेदो धर्मः साधारणो द्वयोः ।
व्यापारवान्न कृत्स्नस्य साम्यं कृत्स्नेन विद्यते ॥ ३,१४.४५० ॥
द्रव्ये वापि क्रियायां वा निमित्तात्तत्प्रकल्पते ।
क्रियाणां विद्यमानत्वाद्वृत्तिर्न स्याद्गवादिषु ॥ ३,१४.४५१ ॥
अभावात्केवलायास्तु तद्वानर्थः प्रतीयते ।
प्रधानासंभवे युक्ता लक्षणार्था क्रियाश्रुतिः ॥ ३,१४.४५२ ॥
क्रियान्तरेषु सापेक्षाः क्रियाशब्दाः क्रियान्तरे ।
उपकाराय गृह्यन्ते यथैव ब्राह्मणादयः ॥ ३,१४.४५३ ॥
यथा प्रकर्षः सर्वत्र निमित्तान्तरहेतुकः ।
द्रव्यवद्गुणशब्देऽपि स निमित्तं अपेक्षते ॥ ३,१४.४५४ ॥
यो य उच्चार्यते शब्दः स स्वरूपनिबन्धनः ।
यथा तथोपमानेषु व्यपेक्ष न निवर्तते ॥ ३,१४.४५५ ॥
क्रियावृत्तेस्तृतीयान्तस्य्- ऐवं चासंभवे सति ।
प्रसिद्धन्यायकरणो भाष्ये युजिरुदाहृतः ॥ ३,१४.४५६ ॥
अन्तर्भूते तु करणे प्रयोगो न पुनर्भवेत् ।
न्यायेनायुक्तं इत्यत्र जीवतौ प्राणकर्मवत् ॥ ३,१४.४५७ ॥
शास्त्राभ्यासाच्च भेदोऽयं अयुक्तं इति वर्ण्यते ।
अशोभनं असंबद्धं इति रूढिर्व्यवस्थिता ॥ ३,१४.४५८ ॥
विविभक्तिः प्रकृत्यर्थं प्रत्युपाधिः कथं भवेत् ।
विभक्तिपरिणामे च प्रकल्प्यं विषयान्तरम् ॥ ३,१४.४५९ ॥
विभक्त्यन्तरयोगो हि यस्य तद्विषयान्तरे ।
विभक्त्यन्तरसंबन्धः सामर्थ्यादनुमीयते ॥ ३,१४.४६० ॥
सारूप्यात्तु तदेवेदं इति तत्रोपचर्यते ।
शब्दान्तरं विभक्त्या तु युक्तं शास्त्रे तदश्रुतम् ॥ ३,१४.४६१ ॥
प्रकृतिश्चेत्तृतीयान्ता तेनेत्यस्मात्प्रतीयते ।
क्रियेति प्रथमान्ता सा कथं भवितुं अर्हति ॥ ३,१४.४६२ ॥
क्रिययेति तृतीया च प्रयोगे कस्य कल्प्यताम् ।
तेनेत्यस्य हि संबन्धः सूत्रस्थेन न विद्यते ॥ ३,१४.४६३ ॥
सोपस्कारेषु सूत्रेषु वाक्यशेषः समर्थ्यते ।
तेन यत्तत्तृतीयान्तं क्रिया चेत्सेति गम्यते ॥ ३,१४.४६४ ॥
उपाधेः कस्य चिद्वाक्ये प्रयोग उपलभ्यते ।
प्रतीयमानधर्मान्यो न कदा चित्प्रयुज्यते ॥ ३,१४.४६५ ॥
नीलं उत्पलं इत्यत्र न विशेष्ये न भेदके ।
कश्चित्तद्धर्मवचनो वाक्ये शब्दः प्रयुज्यते ॥ ३,१४.४६६ ॥
अत्यन्तानुगमात्तत्र न सूत्रे न च विग्रहे ।
विभक्तिपरिणामेन किं चिदस्ति प्रयोजनम् ॥ ३,१४.४६७ ॥
तृतीयान्तं क्रियेत्येतद्विग्रहे न प्रयुज्यते ।
यथा दण्डः प्रहरणं क्रीडायां इति दृश्यते ॥ ३,१४.४६८ ॥
घविधौ यच्च संज्ञायां इति सूत्र उदाहृतम् ।
उपादानं प्रयोगेषु तस्यात्यन्तं न विद्यते ॥ ३,१४.४६९ ॥
यैरप्रयुक्तैः संस्कारः प्रधानेषु प्रतीयते ।
ते भेदेऽपि विभक्तीनां निर्दिश्यन्त उपाधयः ॥ ३,१४.४७० ॥
समुदायेषु वर्तन्ते भावानां सहचारिणाम् ।
शब्दास्तत्त्वविवक्षायां समुच्चयविकल्पयोः ॥ ३,१४.४७१ ॥
समुच्चयस्तु क्रियते येषु प्रत्यर्थवृत्तिषु ।
भेदाधिष्ठानया योगस्तेसां भवति संख्यया ॥ ३,१४.४७२ ॥
सर्वैर्विशिष्टास्तैरर्थैर्जन्यन्ते सहचारिभिः ।
बुद्धयः प्रतिपत्तॄणां शब्दार्थांस्तानतो विदुः ॥ ३,१४.४७३ ॥
संसृष्टाः प्रत्ययेष्वर्थाः सर्व एवोपकारिनः ।
तेषां प्रत्ययरूपेण सर्वेषां शब्दवाच्यता ॥ ३,१४.४७४ ॥
केवलानां तु भावानां न रूपं अवधार्यते ।
अनिरूपितरूपेषु तेषु शब्दो न वर्तते ॥ ३,१४.४७५ ॥
पूर्वशब्दप्रयोगाच्च समूहान्न निवर्तते ।
वर्ततेऽवयवे नापि नोपात्तं त्यजते क्व चित् ॥ ३,१४.४७६ ॥
समुदायाभिधायि च यदि भेदं विशेषयेत् ।
तत्रातुल्यविभक्तित्वं पूर्वकायादिवद्भवेत् ॥ ३,१४.४७७ ॥
समूहे च प्रदेशे च पञ्चाला इति दृश्यते ।
तथा विशेषणं सर्व इत्येतदुपपद्यते ॥ ३,१४.४७८ ॥
तथार्धपिप्पलीत्यत्र जात्यन्तरनिवृत्तये ।
अर्धं च पिप्पली चेति खन्दे शब्दः प्रतीयते ॥ ३,१४.४७९ ॥
पञ्चालानां प्रदेशोऽपि भिन्नो जनपदान्तरात् ।
तत्रान्यस्य निवृत्त्यर्थे शब्दे भेदो न गम्यते ॥ ३,१४.४८० ॥
प्रसिद्धास्तु विशेषेण समुदाये व्यवस्थिताः ।
प्रदेशे दर्शनं तेषां अर्थप्रकरणादिभिः ॥ ३,१४.४८१ ॥
यदुपव्यञ्जनं जातेः सहचारि च कर्मसु ।
तत्र वा रूढसंबन्धं यत्प्रायेणोपलक्षितम् ॥ ३,१४.४८२ ॥
समुदायः प्रदेशो वेत्येवं तस्मिन्ननाश्रिते ।
अर्थात्मन्यविशेषेण वर्तन्ते ब्राह्मणादयः ॥ ३,१४.४८३ ॥
यश्च तुल्यश्रुतिर्दृष्टः समुदाये व्यवस्थितः ।
तेनोपचरितैकत्वं प्रदेशेऽप्युपलभ्यते ॥ ३,१४.४८४ ॥
संस्कारादुपघाताद्वा वृत्तोऽक्तपरिमाणके ।
तैलादौ जातिशब्दोऽत्र सामर्थ्यादवसीयते ॥ ३,१४.४८५ ॥
न जातिगुणशब्देषु मूर्तिभेदो विवक्षितः ।
ते जातिगुणसंबन्ध- भेदमात्रनिबन्धनाः ॥ ३,१४.४८६ ॥
कृष्णादिव्यपदेशश्च सर्वावयववृत्तिभिः ।
गुणैस्तेऽप्येकदेशस्थाः पटादीनां विशेषकाः ॥ ३,१४.४८७ ॥
पटावयववृत्तास्तु यदा तत्र पटादयः ।
तदा तैलादिवत्तेषां जातिशब्दत्वं उच्यते ॥ ३,१४.४८८ ॥
निवृत्त्यर्था श्रुतिर्येषां भेदस्तेष्वनपेक्षितः ।
प्रदेशे समुदाये वा गुणोऽन्येषां निवर्तकः ॥ ३,१४.४८९ ॥
ब्राह्मणाध्ययने तत्र वर्तते ब्राह्मणश्रुतिः ।
सादृश्यं तत्र दृष्टं हि क्षत्रियाध्ययनादिभिः ॥ ३,१४.४९० ॥
ब्राह्मणाध्ययने वृत्तिर्यदि स्याद्ब्राह्मणश्रुतेः ।
वक्तव्यं केन धर्मेण तुल्यत्वं क्रिययोरिति ॥ ३,१४.४९१ ॥
अध्येतरि यदा वृत्तिरुच्यते ब्राह्मणश्रुतेः ।
निमित्तत्वं तदोपैति क्रियैवाध्येतरि स्थिता ॥ ३,१४.४९२ ॥
सिम्हशब्देन संबन्धे गौर्यमात्राभिधायिना ।
चैत्रात्षष्ठी प्रसज्येत योगे शत्त्र्यादिभिर्यथा ॥ ३,१४.४९३ ॥
ब्राह्मणायेव दातव्यं वैश्यायेत्येवमादिषु ।
संप्रदानादियोगश्च क्रियामात्रे न कल्पते ॥ ३,१४.४९४ ॥
क्रियामात्राभिधायित्वादव्ययेषु वतेर्न च ।
पाठः कदा चित्कर्तव्यस्तुल्यौ पक्षावुभौ यतः ॥ ३,१४.४९५ ॥
जहाति जातिं द्रव्यं वा तस्मान्नावयवे स्थितः ।
क्रियायास्तु श्रुतिर्यस्मात्तद्वत्यर्थेऽवतिष्ठते ॥ ३,१४.४९६ ॥
अक्रियाणां निवृत्त्यर्था, यतश्चात्र क्रियाश्रुतिः ।
क्रियोपलक्षिते तस्मात्क्रियाशब्दः प्रतीयते ॥ ३,१४.४९७ ॥
होतव्यादिषु यस्माच्च क्रियान्या ब्राह्मणादिवत् ।
अपेक्षणीया शुद्धेऽर्थे तस्माद्वृत्तिर्न कस्य चित् ॥ ३,१४.४९८ ॥
सर्वं वाप्येकदेशो वा यस्मिन्नाश्रियते क्व चित् ।
विशेषवृत्तिं तं सर्वं आहुर्भेदे व्यवस्थितम् ॥ ३,१४.४९९ ॥
समुच्चयो विकल्पो वा प्रकाराः सर्व एव वा ।
विशेषा इति वर्ण्यन्ते सामान्यं वाविकल्पितम् ॥ ३,१४.५०० ॥
न हि ब्राह्मण इत्यत्र भेदः कश्चिदपाश्रितः ।
अपाकृतो वा तेनायं समुदाये व्यवस्थितः ॥ ३,१४.५०१ ॥
क्रिया त्वाश्रीयते यस्मिन्स भेदोऽध्यवसीयते ।
तथान्यथा सर्वथा चेत्यप्रयोगे न विद्यते ॥ ३,१४.५०२ ॥
उपमाने क्रियावृत्तिं उपमेये क्रियाश्रुतिः ।
प्रत्याययन्ती भेदस्य करोतीव पदार्थताम् ॥ ३,१४.५०३ ॥
व्यापारेणैव सादृश्ये व्यापारस्य विवक्षिते ।
क्रियावद्वचनाच्छब्दात्प्रत्ययः प्रतिपाद्यते ॥ ३,१४.५०४ ॥
क्रियावतोऽपि सादृश्ये वक्तुं इष्टे क्रियावता ।
अध्येता ब्राह्मण इव प्रत्ययो न निवर्तते ॥ ३,१४.५०५ ॥
अधीते तुल्य इत्येवं पुंल्लिङ्गेन विशेषणम् ।
क्रियावति क्रियायां तु तुल्यशब्दे नपुंसकम् ॥ ३,१४.५०६ ॥
प्रकृत्यर्थे विशिष्टेऽपि प्रत्ययार्थाविशेषणात् ।
पुत्रेण तुल्यः कपिल इति वृत्तिः प्रसज्यते ॥ ३,१४.५०७ ॥
याः पुत्रे रूढसंबन्धाः क्रिया लोके विवक्षिताः ।
ताभिः क्रियावतः पुत्राद्गुणतुल्ये वतिर्भवेत् ॥ ३,१४.५०८ ॥
अन्तर्भूतं निमित्तं च रूढिशब्देषु यद्यपि ।
क्रियास्तु सहचारिण्यो रूढाः सन्ति पदार्थवत् ॥ ३,१४.५०९ ॥
क्रमं तु यदि बाधित्वा प्रत्ययार्थविशेषणम् ।
प्रधानानुग्रहात्साम्याद्विभक्तेश्चावतिष्ठते ॥ ३,१४.५१० ॥
प्रकृतेरविशिष्टत्वात्क्रियातुल्ये प्रसज्यते ।
पुत्रादौ गुणशब्देभ्यः पूर्वोक्तस्य विपर्यये ॥ ३,१४.५११ ॥
स्थूलेन तुल्यो यातीति बहिरङ्गा क्रियाश्रुतिः ।
अनिमित्तं वतेस्तुल्यं यातीत्यत्रेष्यते वतिः ॥ ३,१४.५१२ ॥
द्वयं विशेष्यते तेन यदेकत्र विशेषणम् ।
तुल्यशब्दो हि तं धर्मं उभयस्थं अपेक्षते ॥ ३,१४.५१३ ॥
एकः समानो धर्मश्चेदुपमानोपमेययोः ।
तुलया संमितं तुल्यं इति तत्रोपपद्यते ॥ ३,१४.५१४ ॥
सूत्रे श्रुतश्च द्विष्ठोऽसावभेदेन प्रतीयते ।
न च सामान्यशब्दत्वादश्रुता गम्यते क्रिया ॥ ३,१४.५१५ ॥
अश्रुताश्च प्रतीयन्ते निदेशस्थायितादयः ।
ये धर्मा नियतास्तेषां पुत्रादिषु न विद्यते ॥ ३,१४.५१६ ॥
अनाश्रितक्रियस्तस्मान्न तुल्योऽस्ति क्रियावता ।
क्रियायाः श्रवणे सापि क्रियावत्ता प्रतीयते ॥ ३,१४.५१७ ॥
द्वयोः प्रतिविधानाच्च ज्यायस्त्वं अभिधीयते ।
नित्यासत्त्वाभिधायित्वात्प्रत्ययार्थविशेषणे ॥ ३,१४.५१८ ॥
असत्त्वभूतो व्यापारः केवलः प्रत्यये यतः ।
विद्यते लक्षणार्थत्वं नास्ति तेन क्रियाश्रुतेः ॥ ३,१४.५१९ ॥
क्रियावतस्तु ग्रहणात्प्रकृत्यर्थविशेषणे ।
क्रियामात्रेन तुल्यत्वे सिद्धासत्त्वाभिधायिता ॥ ३,१४.५२० ॥
यदा क्रियानिमित्तं तु सादृश्यं स्यात्क्रियावतोः ।
क्रियावतोऽभिधेयत्वात्तदा द्रव्याभिधायिता ॥ ३,१४.५२१ ॥
अव्ययेषु वतेः पाठः कार्यस्तत्र स्वरादिवत् ।
ब्राह्मणेन समोऽध्येतेत्यत्र च प्रत्ययो भवेत् ॥ ३,१४.५२२ ॥
सामानाधिकरण्यं च वत्यर्थेनापदिश्यते ।
तुल्यं इत्यन्यथा कल्प्यो वाक्यशेषोऽश्रुतो भवेत् ॥ ३,१४.५२३ ॥
क्रियावतोश्च सादृश्ये प्रत्ययार्थविशेषणे ।
अध्येत्रा सदृशोऽध्येतेत्यत्र नास्ति वतेर्विधिः ॥ ३,१४.५२४ ॥
तुल्यार्थैरिति या तस्यास्तृतीयाया न भिद्यते ।
अर्थो भेदेऽपि सर्वाभिरितराभिर्विभक्तिभिः ॥ ३,१४.५२५ ॥
भोज्यते ब्राह्मण इव तुल्यं भुक्तं द्विजातिना ।
पश्यति ब्राह्मणं इव तुल्यं विप्रेण पश्यति ॥ ३,१४.५२६ ॥
ब्राह्मणेनेव विज्ञातं तुल्यं ज्ञातं द्विजातिना ।
दीयतां ब्राह्मणायेव तुल्यं विप्रेण दीयताम् ॥ ३,१४.५२७ ॥
ब्राह्मणादिव वैश्यात्त्वं अधीष्वाध्ययनं बहु ।
इत्येवमादिभिर्भेदस्तृतीयाया न कश्चन ॥ ३,१४.५२८ ॥
तुल्यं मधुरयाधीये मात्रा तुल्यं स्मरामि ताम् ।
मधुरायाश्च मातुश्च कथं सादृश्यकल्पना ॥ ३,१४.५२९ ॥
मधुराविषयः पाठः स्मरणं मातृकर्मकम् ।
मधुरामातृशब्दाभ्यां अभेदेनाभिधीयते ॥ ३,१४.५३० ॥
उष्ट्रावयवतुल्येषु मुखेषूष्ट्रश्रुतिर्यथा ।
वर्तते गृहतुल्ये च प्रासादे मधुराश्रुतिः ॥ ३,१४.५३१ ॥
यथाध्ययनयोः साम्यं अध्येत्रोरपदिश्यते ।
तथा क्रियागतैर्धर्मैरुच्यन्ते साधनाश्रयाः ॥ ३,१४.५३२ ॥
इवार्थे यच्च वचनं पूर्वसूत्रे च यो विधिः ।
क्रियाशब्दश्रुतौ भेदो न कश्चिद्विद्यते तयोः ॥ ३,१४.५३३ ॥
यद्यप्युपाधिरन्यत्र नियतो न प्रयुज्यते ।
रूपाभेदात्त्वनिर्ज्ञाता क्रियात्र श्रूयते पुनः ॥ ३,१४.५३४ ॥
यथा व्युत्परयः पुच्छौ क्यङन्ते सुदुरादयः ।
सत्यपि प्रत्ययार्थत्वे भेदाभावादुदाहृताः ॥ ३,१४.५३५ ॥
एवं च सति पूर्वेण सिद्धोऽत्रापि वतेर्विधिः ।
नियमे वाभिधाने वा भिद्यते न क्रियाश्रुतिः ॥ ३,१४.५३६ ॥
इवे द्रव्यादिविषयः प्रत्ययः पुनरुच्यते ।
क्रियाणां एव सदृश्वे पूर्वसूत्रे विधीयते ॥ ३,१४.५३७ ॥
मधुरायां इव गृहा ब्राह्मणस्येव पाण्डुराः ।
इत्यत्र द्रव्यगुणयोः पूर्वेण न वतिर्भवेत् ॥ ३,१४.५३८ ॥
आरम्भस्याक्रियार्थत्वे नार्थो योगेन विद्यते ।
ऋते क्रियाया ग्रहणात्पूर्वयोगेन सिध्यति ॥ ३,१४.५३९ ॥
मधुरावयवे वृत्तिर्व्वाख्याता मधुराश्रुतेः ।
ब्राह्मणावयवान्दन्तान्वक्ष्यति ब्राह्मणश्रुतिः ॥ ३,१४.५४० ॥
न का चिदिवयोगे तु बाह्यात्संबन्धिनो ।
षष्ठी विधीयते तत्र पूर्वेण प्रत्ययो भवेत् ॥ ३,१४.५४१ ॥
आधिक्यं तुल्यशब्देन संबन्ध उपजायते ।
षष्ठीतृतीये तत्र स्तस्तुल्यशब्दो हि वाचकः ॥ ३,१४.५४२ ॥
इवशब्दप्रयोगे तु बाह्यात्संबन्धिनो विना ।
नाधिक्यं उपमानेऽस्ति द्योतकः स प्रयुज्यते ॥ ३,१४.५४३ ॥
इवे यो व्यतिरेकोऽत्र स प्रासादादिहेतुकः ।
तुल्ये तद्विषयापेक्षं आधिक्यं उपजायते ॥ ३,१४.५४४ ॥
गवयेन समोऽनद्वानिति वृत्तिस्तथा भवेत् ।
न त्वस्ति गौरिवेत्यत्र व्यतिरेक इवाश्रयः ॥ ३,१४.५४५ ॥
उपमेयेन संबन्धात्प्राक्प्रासादादिहेतुके ।
व्यतिरेके वतेर्भावो न तुल्यार्थत्वहेतुके ॥ ३,१४.५४६ ॥
इवशब्देन संबन्धे न तृतीया विधीयते ।
प्रकृतां तां अतस्त्यक्त्वा विभक्त्यन्तरं आश्रितम् ॥ ३,१४.५४७ ॥
सप्तम्यपि न तत्रास्ति ज्ञापकार्था तु सा कृता ।
इष्टा सा शेषविषये नियतासु विभक्तिषु ॥ ३,१४.५४८ ॥
यदि तु व्यतिरेकेण विषयेऽस्मिन्विभक्तयः ।
प्रवर्तेरंस्तृतीयैव व्यभिचारं प्रदर्शयेत् ॥ ३,१४.५४९ ॥
व्यभिचारे तथा सिद्धे सप्तमीग्रहणाद्विना ।
सप्तम्येवोच्यते सर्वा न सन्त्यन्या विभक्तयः ॥ ३,१४.५५० ॥
अत्यन्तं अत्र विषये सप्तम्या ज्ञापकार्थया ।
बाधिता विनिवर्तेत षष्ठी सा गृह्यते पुनः ॥ ३,१४.५५१ ॥
पूर्वाभ्यां एव योगाभ्यां विग्रहान्तरकल्पनात् ।
अर्हार्थेऽपि वतिः सिद्धः स त्वेकेन निदर्श्यते ॥ ३,१४.५५२ ॥
तेन तुल्यं इति प्राप्ते क्रियोपाधिः प्रसिध्यति ।
राजवद्वर्तते राजेत्यत्र भेदे विवक्षिते ॥ ३,१४.५५३ ॥
राजत्वेन प्रसिद्धा ये पृथुप्रभृतयो नृपाः ।
युधिष्ठिरान्तास्तेऽन्येषां उपमानं महीक्षिताम् ॥ ३,१४.५५४ ॥
सिद्ध्यसिद्धिकृतो भेद उपमानोपमेययोः ।
सर्वत्रैव यतोऽसिद्धं प्रसिद्धेनोपमीयते ॥ ३,१४.५५५ ॥
राजवद्रूपं अस्येति राजन्येव विवक्षिते ।
अक्रियार्थेन योगेन द्वितीयेन भविष्यति ॥ ३,१४.५५६ ॥
उपमानाविवक्षायां नियमार्थोऽयं उच्यते ।
धर्मोऽर्हतिक्रियाकर्ता तदर्थं वचनं पुनः ॥ ३,१४.५५७ ॥
कृतहस्तवदित्येतत्प्रसिद्धेष्वेव दृश्यते ।
राजत्वेन प्रसिद्धे च राज्ञि राजवदित्यपि ॥ ३,१४.५५८ ॥
अराज्ञि येषां धर्माणां दृष्टोऽत्यन्तं असंभवः ।
ते राजनि नियम्यन्ते त्यज्यन्ते व्यभिचारिणः ॥ ३,१४.५५९ ॥
अर्हतेश्च क्रिया कर्त्री या तस्यां वतिरिष्यते ।
राजानं अर्हति च्छत्त्रं इति न त्वेवमादिषु ॥ ३,१४.५६० ॥
प्रयुक्तानां हि शब्दानां शास्त्रेणानुगमः सताम् ।
छत्त्राद्यर्थे तु वचने प्रत्याख्यानं न संभवेत् ॥ ३,१४.५६१ ॥
तदर्हं इति नारब्धं सूत्रं व्याकरणान्तरे ।
संभवत्युपमात्रापि भेदस्य परिकल्पनात् ॥ ३,१४.५६२ ॥
एकस्य कार्यनिर्ज्ञानात्सिद्धस्य विषयान्तरे ।
तद्धर्मत्वविवक्षायां बुद्ध्या भेदः प्रकल्प्यते ॥ ३,१४.५६३ ॥
सूत्रारम्भान्न चैतस्मादिवशब्दस्य विद्यते ।
प्रयोगः सोऽपि चैतस्य विषये विद्यते वतेः ॥ ३,१४.५६४ ॥
दस्युहेन्द्र इवेत्येतदैन्द्रमन्त्रे प्रयुज्यते ।
अन्यत्र दृष्टकर्मेन्द्रो यथेत्यस्मिन्विवक्षिते ॥ ३,१४.५६५ ॥
पूर्वां अवस्थां आश्रित्य यावस्था व्यपदिश्यते ।
सदृशस्त्वं तवैवेति तत्रैवं अभिधीयते ॥ ३,१४.५६६ ॥
प्रसिद्धभेदं यत्रान्यदुपमानं न विद्यते ।
उपमेयस्य तत्रात्मा स्वबुद्ध्या प्रविभज्यते ॥ ३,१४.५६७ ॥
योऽपि स्वाभाविको भेदः सोऽपि बुद्धिनिबन्धनः ।
तेनास्मिन्विषये भिन्नं अभिन्नं वा न विद्यते ॥ ३,१४.५६८ ॥
अङ्गदी कुण्डली चेति दर्शयन्भेदहेतुभिः ।
चैत्रं ईदृशं इत्याह बुद्ध्यवस्थापरिग्रहात् ॥ ३,१४.५६९ ॥
एतैः शब्दैर्यथाभूतः प्रत्ययात्मोपजायते ।
तत्प्रत्ययानुकारेण विषयोऽप्युपपद्यते ॥ ३,१४.५७० ॥
बुद्ध्यवस्थाविभागेन भेदकार्यं प्रतीयते ।
जन्यन्त इव शब्दानां अर्थाः सर्वे विवक्षया ॥ ३,१४.५७१ ॥
तथाविधेऽपि बाह्येऽर्थे भिद्यन्ते यत्र बुद्धयः ।
न तत्र कश्चित्सादृश्यं सदपि प्रतिपद्यते ॥ ३,१४.५७२ ॥
अत्यन्तं विषये भिन्ने यावत्प्रख्या न भिद्यते ।
न तावत्प्रत्यभिज्ञानं कस्य चिद्विनिवर्तते ॥ ३,१४.५७३ ॥
अयं एव तु सूत्रेण भेदो भेदेन दर्शितः ।
प्रसिद्धं अपि दुर्ज्ञानं अबुधः प्रतिपद्यते ॥ ३,१४.५७४ ॥
वैयाकरणवद्ब्रूते न वैयाकरणः सदा ।
वैयाकरणवद्ब्रूष्वेत्यतः सोऽप्यभिधीयते ॥ ३,१४.५७५ ॥
के चित्पुमांसो भाषन्ते स्त्रीवत्पुंवच्च योषितः ।
व्यभिचारे स्वधर्मोऽपि पुनस्तेनोपदिश्यते ॥ ३,१४.५७६ ॥
सदृशस्त्वं तवैवेति लोके यदभिधीयते ।
उपमानान्तरं तत्र प्रसक्तं विनिवर्तते ॥ ३,१४.५७७ ॥
युक्तं औपयिकं राज्ञ इत्यर्थस्य निदर्शने ।
उपमानाविवक्षायां तदर्हं इति पठ्यते ॥ ३,१४.५७८ ॥
प्रसक्तानुप्रसक्तस्तु वतिशेषोऽभिधीयते ।
उपमानाभिसंबन्धादस्मिन्वतिरुदाहृतः ॥ ३,१४.५७९ ॥
प्रधानकल्पनाभावे गुणशब्दस्य दर्शनात् ।
उपसर्गाद्वतौ सिद्धा धातौ धात्वर्थकल्पना ॥ ३,१४.५८० ॥
स्वं रूपं इति चैतस्मिन्नर्थस्यापि परिग्रहः ।
रूपवज्ज्ञापितस्तस्मादासन्नोऽर्थो ग्रहीष्यते ॥ ३,१४.५८१ ॥
धात्वर्थेनोपजनितं साधनत्वेन साधनम् ।
धातुना कृतं इत्येवं अस्मिन्सूत्रे प्रतीयते ॥ ३,१४.५८२ ॥
यः शब्दश्चरितार्थत्वादत्यन्तं न प्रयुज्यते ।
विषयेऽदर्शनात्तत्र लोपस्तस्याभिधीयते ॥ ३,१४.५८३ ॥
क्रियायां साधने द्रव्ये प्रादयो ये व्यवस्थिताः ।
तेभ्यः सत्त्वाभिधायिभ्यो वतिः स्वार्थे विधीयते ॥ ३,१४.५८४ ॥
प्रत्ययेन विना प्रादिस्तत्रार्थे न प्रयुज्यते ।
भेदेन तु समाख्याने विभागः परिकल्पितः ॥ ३,१४.५८५ ॥
अनङ्गीकृतसत्त्वं तु यदि गृह्येत साधनम् ।
विभक्तिभिर्नियोगः स्याद्यथैव तसिलादिषु ॥ ३,१४.५८६ ॥
पाठाद्यैरविभक्तित्वं वत्यन्तेष्वनुगम्यते ।
तेषां उद्वत इत्यत्र वक्तव्या सविभक्तिता ॥ ३,१४.५८७ ॥
वत्यर्थं नावगाहेते पुंवदित्यस्य दर्शनात् ।
नञ्स्नञावपवादस्य बाधकं तन्निपातनम् ॥ ३,१४.५८८ ॥
एतं उत्क्रामतो नूनं वत्यर्थं नञ्स्नञाविति ।
तयोः प्रवृत्तावुत्सर्गो बाधनान्नोपपद्यते ॥ ३,१४.५८९ ॥
नञ्स्नञौ विहितौ येन स योगो नावगाहते ।
वतिप्रकरणं तद्धि लिङ्गं एवं समर्थ्यते ॥ ३,१४.५९० ॥
अभेदेनोपमानस्य भिन्नार्थोपनिपातिता ।
ऊहस्तथोपमानानां अङ्गवन्नोपलभ्यते ॥ ३,१४.५९१ ॥
गावेधुके चरौ दृष्टा गोविकर्ताक्षवापयोः ।
पशू रुद्र इव ह्येतावित्येकवचनश्रुतिः ॥ ३,१४.५९२ ॥
उपमानस्य भेदाच्च बहुषु स्यादञो विधिः ।
काश्यपा इति लोपः स्यात्तथा प्रतिकृतिष्वपि ॥ ३,१४.५९३ ॥
एवं तु युक्तवद्भावादत्रैकवचनं भवेत् ।
लुं मनुष्ये तथोक्तं स्याल्लिङ्गस्यैकस्य सिद्धये ॥ ३,१४.५९४ ॥
उपमेयेषु भिन्नेषु किं चिदेकं प्रवर्तते ।
प्रत्ययस्य विधौ तत्र नित्यं युक्तवदिष्यते ॥ ३,१४.५९५ ॥
यदा प्रत्युपमेयं तु तदेकैकं अवस्थितम् ।
तदा बाह्यार्थभेदेन तद्धितान्तं प्रचीयते ॥ ३,१४.५९६ ॥
यथा समूहप्रचये द्विगूनां भिन्नसंख्यता ।
पञ्चपूल्यादिषु तथा लुबन्तप्रचयो भवेत् ॥ ३,१४.५९७ ॥
प्रचये भिद्यमाने तु संख्या पूलेषु भिद्यते ।
अर्थभेदो लुबन्तेषु नैवं कश्चन दृश्यते ॥ ३,१४.५९८ ॥
येषूपमेयवचनः शब्दोऽन्यो न प्रयुज्यते ।
उपमानस्य तत्रान्यैः संख्याया भेद इष्यते ॥ ३,१४.५९९ ॥
यथा गुडतिलादीनां प्रयोगादेकसंख्यता ।
पाकादेरप्रयोगे तु भिन्ना संख्याभिधीयते ॥ ३,१४.६०० ॥
यः संबन्धिगतो भेदः स प्रयोगे प्रतीयते ।
संबन्धिनां अतो भेद उपमेये न गम्यते ॥ ३,१४.६०१ ॥
तस्मात्सामान्यशब्दत्व- प्रसङ्गविनिवृत्तये ।
उपमेयगतो भेद उपमानेषु दृश्यते ॥ ३,१४.६०२ ॥
उपमानं समस्तानां अभिन्नं श्रूयते क्व चित् ।
भिन्नानां उपमेयनां एकैकं वोपमीयते ॥ ३,१४.६०३ ॥
यथा गरुड इत्येतद्व्यूहापेक्षं प्रयुज्यते ।
एकेन यत्र सादृश्यं वैनतेयेन हस्तिनाम् ॥ ३,१४.६०४ ॥
एकस्यापि प्रतीयेत भिन्ना प्रतिकृतिः सह ।
काश्यपस्येति तेनायं प्रत्येकं अवतिष्ठते ॥ ३,१४.६०५ ॥
मेघाः शैल इवेत्युक्ते समस्तानां प्रतीयते ।
सादृश्यं गिरिणैकेन प्रत्येकं तेन भिद्यते ॥ ३,१४.६०६ ॥
छापेक्षा तद्विषयता विधेयत्वान्न गम्यते ।
काकतालीयं इत्यत्र प्रसिद्धं ह्युपलक्षणम् ॥ ३,१४.६०७ ॥
राजाश्वादिश्च विषयः स्यादन्यो वेत्यनिश्चितम् ।
तेन च्छस्य विधानात्प्राग्व्यपदेशो न विद्यते ॥ ३,१४.६०८ ॥
द्वयोरिवार्थयोरत्र निमित्तत्वं प्रतीयते ।
एकेनावयवो युक्तः प्रत्ययोऽन्येन युज्यते ॥ ३,१४.६०९ ॥
चैत्रस्य तत्रागमनं काकस्यागमनं यथा ।
दस्योरभिनिपातस्तु तालस्य पतनं यथा ॥ ३,१४.६१० ॥
संनिपाते तयोर्यान्या क्रिया तत्रोपजायते ।
वधादिरुपमेयेऽर्थे तया छविधिरिष्यते ॥ ३,१४.६११ ॥
क्रियायां समवेतायां द्रव्यशब्दोऽवतिष्ठते ।
पातागमनयोः काक- तालशब्दौ तथा स्थितौ ॥ ३,१४.६१२ ॥
यदन्वाख्यायकं वाक्यं तदेवं परिकल्प्यते ।
प्रयोगवाक्वं यल्लोके तदेवं न प्रयुज्यते ॥ ३,१४.६१३ ॥
ययोरतर्किता प्राप्तिर्दृश्यते काकतालवत् ।
तयोः समासप्रकृतेर्वृत्तिरभ्युपगम्यते ॥ ३,१४.६१४ ॥
काकस्य तालेन यथा वधो यस्य तु दस्युना ।
तत्र चित्रीकृतेऽन्यस्मिन्नुपमेये छ इष्यते ॥ ३,१४.६१५ ॥
चञ्चत्प्रकारश्चञ्चत्को बृहत्क इति चापरे ।
मणिमड्डूकखद्योतान्सादृश्वेन प्रचक्षते ॥ ३,१४.६१६ ॥
तत्रोन्मेषनिमेषाभ्यां खद्योत उपमीयते ।
श्वासप्रबन्धैर्मण्डूकः स्पन्दमानप्रभो मणिः ॥ ३,१४.६१७ ॥
प्रविकासिप्रभोऽल्पोऽपि महान्य उपलभ्यते ।
बृहत्क इति तत्रैष मणौ शब्दः प्रयुज्यते ॥ ३,१४.६१८ ॥
सादृश्यं एव सर्वत्र प्रकारः कैश्चिदिष्यते ।
भेदेऽपि तु प्रकाराख्या कैश्चिदभ्युपगम्यते ॥ ३,१४.६१९ ॥
प्रकारवचनः कश्चित्प्रकारवति संस्थितः ।
प्रकारमात्रे वर्तित्वा कश्चित्तद्वति वर्तते ॥ ३,१४.६२० ॥
सादृश्यग्रहणं सूत्रे सदृशस्योपलक्षणम् ।
तुल्ययोरव्ययीभावे सहशब्दोऽभिधायकः ॥ ३,१४.६२१ ॥
विप्सासादृश्ययोर्वृत्तिर्या यथार्थाभिधायिनः ।
स चायं अव्ययीभावे भेदो भेदेन दर्शितः ॥ ३,१४.६२२ ॥
सादृश्यं योग्यता कैश्चिदनावभ्युपगम्यते ।
यत्तु मूर्तिगतं साम्यं तत्सहेनाभिधीयते ॥ ३,१४.६२३ ॥
इत्थंभावेऽपि सादृश्यं बुद्ध्यवस्थानिबन्धनम् ।
ग्रहणे भेदमात्रस्य तत्रान्यैवाभिधीयते ॥ ३,१४.६२४ ॥
गौर्वाहीक इति द्वित्वे सादृश्यं प्रत्युदाहृतम् ।
शुक्लादौ सति निष्पन्ने वाहीको न द्विरुच्यते ॥ ३,१४.६२५ ॥

इति भर्तृहरिकृतं वाक्यपदीयं समाप्तं