विश्वास-प्रस्तुतिः
दिक् साधनं क्रिया काल इति वस्त्वभिधायिनः ।
शक्तिरूपे पदार्थानाम् अत्यन्तम् अनवस्थिताः ॥ ३।६।१ ॥
मूलम्

व्यतिरेकस्य यो हेतुर् अवधिप्रतिपाद्ययोः ।
ऋज्व् इत्य् एवं यतो ऽन्येन विना बुद्धिः प्रवर्तते ॥ ३।६।२ ॥

कर्मणो जातिभेदानाम् अभिव्यक्तिर् यदाश्रया ।
सा स्वैर् उपाधिभिर् भिन्ना शक्तिर् दिग् इति कथ्यते ॥ ३।६।३ ॥

परापरत्वे मूर्तीनां देशभेदनिबन्धने ।
तत एव प्रकल्पेते क्रमरूपे तु कालतः ॥ ३।६।४ ॥

आकाशस्य प्रदेशेन भागैश् चान्यैः पृथक् पृथक् ।
सा संयोगविभागानाम् उपाधित्वाय कल्पते ॥ ३।६।५ ॥

दिशो व्यवस्था देशानां दिग्व्यवस्था न विद्यते ।
शक्तयः खलु भावानाम् उपकारप्रभाविताः ॥ ३।६।६ ॥

प्रत्यस्तरूपा भावेषु दिक् पूर्वेत्य् अभिधीयते ।
पूर्वबुद्धिर् यतो दिक् सा समाख्यामात्रम् अन्यथा ॥ ३।६।७ ॥

स्वाङ्गाद् व्यवस्था या लोके न तस्यां नियता दिशः ।
प्रत्यङ्मुखस्य यत् पश्चात् तत् पुरस्ताद् विपर्यये ॥ ३।६।८ ॥

देशव्यवस्थानियमो दिक्षु न व्यवतिष्ठते ।
रूढम् अप्य् अपरत्वेन पूर्वम् इत्य् अभिधीयते ॥ ३।६।९ ॥

अतो भाषितपुंस्कत्वात् पुंवद्भावो न सिध्यति ।
अस्मिन्न् अर्थे न शब्देन प्रसवः क्व चिद् उच्यते ॥ ३।६।१० ॥

दिक्शक्तेर् अभिधाने तु नियतं दिशि दर्शनम् ।
पूर्वादीनां यथा षष्टेर् जीवितस्यावधारणे ॥ ३।६।११ ॥

छायाभाभ्यां नगादीनां भागभेदः प्रकल्पते ।
अतद्धर्मसु भावेषु भागभेदो न कल्पते ॥ ३।६।१२ ॥

परमाणोर् अभागस्य दिशा भागो विधीयते ।
भागप्रकल्पनाशक्तिं प्रथमां तां प्रचक्षते ॥ ३।६।१३ ॥

अदेशाश् चाप्य् अभागाश् च निष्क्रमा निरुपाश्रयाः ।
भावाः संसर्गिरूपात् तु शक्तिभेदः प्रकल्पते ॥ ३।६।१४ ॥

निर्भागात्मकता तुल्या परमाणोर् घटस्य च ।
भागः शक्त्यन्तरं तत्र परिमाणं च यत् तयोः ॥ ३।६।१५ ॥

यतः प्रकल्पते भेदो भेदस् तत्रापि दृश्यते ।
अदृष्टोपरतिं भेदम् अतो ऽयुक्ततरं विदुः ॥ ३।६।१६ ॥

सर्वत्र तस्य कार्यस्य दर्शनाद् विभुर् इष्यते ।
विभुत्वम् एतद् एवाहुर् अन्यः कायवतां विधिः ॥ ३।६।१७ ॥

चैतन्यवत् स्थिता लोके दिक्कालपरिकल्पना ।
प्रकृतिं प्राणिनां तां हि को ऽन्यथा स्थापयिष्यति ॥ ३।६।१८ ॥

सङ्करो व्यवहाराणां प्रकृतेः स्याद् विपर्यये ।
तस्मात् त्यजन्न् इमान् भावान् पुनर् एवावलम्बते ॥ ३।६।१९ ॥

तस्यास् तु शक्तेः पूर्वादि- भेदो भावान्तराश्रयः ।
भिन्ना दिक् तेन भेदेन भेदायैवोपकल्पते ॥ ३।६।२० ॥

अवधित्वेन चापेक्षा- योगे दिग्लक्षणो विधिः ।
पूर्वम् अस् येति षष्ठ्य् एव दृष्टा धर्मान्तराश्रये ॥ ३।६।२१ ॥

पूर्वादिनां विपर्यासो ऽदृष्टश् चावध्यसङ्करे ।
ऋज्व् एतद् अस्येत्य् एतच् च लिङ्गं न व्यतिकीर्यते ॥ ३।६।२२ ॥

अन्तःकरणधर्मो वा बहिर् एवं प्रकाशते ।
अस्यां त्व् अन्तर्बहिर्भावः प्रक्रियायां न विद्यते ॥ ३।६।२३ ॥

एकत्वम् आसां शक्तीनां नानात्वं वेति कल्पने ।
अवस्तुपतिते ज्ञात्वा सत्यतो न परामृशेत् ॥ ३।६।२४ ॥

विकल्पातीततत्त्वेषु सङ्केतोपनिबन्धनाः ।
भावेषु व्यवहारा ये लोकस् तत्रानुगम्यते ॥ ३।६।२५ ॥

नैकत्वम् अस्त्य् अनानात्वं विनैकत्वेन नेतरत् ।
परमार्थे तयोर् एष भेदो ऽत्यन्तं न विद्यते ॥ ३।६।२६ ॥

न शक्तीनां तथा भेदो यथा शक्तिमतां स्थितिः ।
न च लौकिकम् एकत्वं तासाम् आत्मसु विद्यते ॥ ३।६।२७ ॥

नैकत्वं व्यवतिष्ठेत नानात्वं चेन् न कल्पयेत् ।
नानात्वं चावहीयेत यद्य् एकत्वं न कल्पयेत् ॥ ३।६।२८ ॥

॥ इति दिक्समुद्देशः ॥