विश्वास-प्रस्तुतिः
संसर्गि भेदकं यद् यत् सव्यापारं प्रतीयते ।
गुणत्वं परतन्त्रत्वात् तस्य शास्त्र उदाहृतम् ॥ ३।५।१ ॥
मूलम्

द्रव्यस्याव्यपदेशस्य य उपादीयते गुणः ।
भेदको व्यपदेशाय तत्प्रकर्षो ऽभिधीयते ॥ ३।५।२ ॥

सर्वस्यैव प्रधानस्य न विना भेदहेतुना ।
प्रकर्षो विद्यते नापि शब्दस्योपैति वाच्यताम् ॥ ३।५।३ ॥

विद्यमानाः प्रधानेषु न सर्वे भेदहेतवः ।
विशेषशब्दैर् उच्यन्ते व्यावृत्तार्थाभिधायिभिः ॥ ३।५।४ ॥

वस्तूपलक्षणे तत्र विशेषो व्यापृतो यदि ।
प्रकर्षो नियमाभावात् स्याद् अविज्ञातहेतुकः ॥ ३।५।५ ॥

सर्वं च सर्वतो ऽवश्यं नियमेन प्रकृष्यते ।
संसर्गिणा निमित्तेन निकृष्टेनाधिकेन वा ॥ ३।५।६ ॥

नापेक्षते निमित्तं च प्रकर्षे व्यापृतं यदि ।
द्रव्यस्य स्याद् उपादानं प्रकर्षं प्रत्य् अनर्थकम् ॥ ३।५।७ ॥

सव्यापारो गुणस् तस्मात् स्वप्रकर्षनिबन्धनः ।
द्रव्यात्मानं भिनत्त्य् एव स्वप्रकर्षं निवेशयन् ॥ ३।५।८ ॥

अरूपं पररूपेण द्रव्यम् आख्यायते यथा ।
अप्रकर्षं प्रकर्षेण गुणस्याविश्यते तथा ॥ ३।५।९ ॥

॥ इति गुणसमुद्देशः ॥