विश्वास-प्रस्तुतिः
संसर्गरूपात् सम्भूताः संविद्रूपाद् अपोद्धृताः ।
शास्त्रे विभक्ता वाक्यार्थात् प्रकृतिप्रत्ययार्थवत् ॥ ३।४।१ ॥
मूलम्

निमित्तभूताः साधुत्वे शास्त्राद् अनुमितात्मकाः ।
के चित् पदार्था वक्ष्यन्ते सङ्क्षेपेण यथागमम् ॥ ३।४।२ ॥

वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते ।
द्रव्यम् इत्य् उच्यते सो ऽर्थो भेद्यत्वेन विवक्षितः ॥ ३।४।३ ॥

॥ इति भूयोद्रव्यसमुद्देशः ॥