विश्वास-प्रस्तुतिः
ज्ञानं प्रयोक्तुर् बाह्यो ऽर्थः स्वरूपं च प्रतीयते ।
शब्दैर् उच्चरितैस् तेषां सम्बन्धः समवस्थितः ॥ ३।३।१ ॥
मूलम्

प्रतिपत्तुर् भवत्य् अर्थे ज्ञाने वा संशयः क्व चित् ।
स्वरूपेषूपलभ्येषु व्यभिचारो न विद्यते ॥ ३।३।२ ॥

अस्यायं वाचको वाच्य इति षष्ठ्या प्रतीयते ।
योगः शब्दार्थयोस् तत्त्वम् अप्य् अतो व्यपदिश्यते ॥ ३।३।३ ॥

नाभिधानं स्वधर्मेण सम्बन्धस्यास्ति वाचकम् ।
अत्यन्तपरतन्त्रत्वाद् रूपं नास्यापदिश्यते ॥ ३।३।४ ॥

उपकारात् स यत्रास्ति धर्मस् तत्रानुगम्यते ।
शक्तीनाम् अपि सा शक्तिर् गुणानाम् अप्य् असौ गुणः ॥ ३।३।५ ॥

तद्धर्मणोस् तु ताच्छब्द्यं संयोगसमवाययोः ।
तयोर् अप्य् उपकारार्था नियतास् तदुपाधयः ॥ ३।३।६ ॥

का चिद् एव हि सावस्था कार्यप्रसवसूचिता ।
कस्य चित् केन चिद् यस्यां संयोग उपजायते ॥ ३।३।७ ॥

निरात्मकानाम् उत्पत्तौ नियमः क्व चिद् एव यः ।
तेनैवाव्यपवर्गश् च प्राप्त्यभेदे स यत्कृतः ॥ ३।३।८ ॥

आत्मान्तरस्य येनात्मा तदात्मेवावधार्यते ।
यतश् चैकत्वनानात्वं तत्त्वं नाध्यवसीयते ॥ ३।३।९ ॥

तां शक्तिं समवायाख्यां शक्तीनाम् उपकारिणीम् ।
भेदाभेदाव् अतिक्रान्ताम् अन्यथैव व्यवस्थिताम् ॥ ३।३।१० ॥

धर्मं सर्वपदार्थानाम् अतीतः सर्वलक्षणः ।
अनुगृह्णाति सम्बन्ध इति पूर्वेभ्य आगमः ॥ ३।३।११ ॥

पदार्थीकृत एवान्यैः सर्वत्राभ्युपगम्यते ।
सम्बन्धस् तेन शब्दार्थः प्रविभक्तुं न शक्यते ॥ ३।३।१२ ॥

समवायात् स्व आधारः स्वा च जातिः प्रतीयते ।
एकार्थसमवायात् तु गुणाः स्वाधार एव ये ॥ ३।३।१३ ॥

द्रव्यत्वसत्तासंयोगाः स्वान्याधारोपबन्धनाः ।
तत्प्रदेशविभागाश् च गुणा द्वित्वादयश् च ये ॥ ३।३।१४ ॥

के चित् स्वाश्रयसंयुक्ताः के चित् तत्समवायिनः ।
संयुक्तसमवेतेषु समवेतास् तथापरे ॥ ३।३।१५ ॥

स्वाश्रयेण तु संयुक्तैः संयुक्तं विभु गम्यते ।
समवायस्य सम्बन्धो नापरस् तत्र दृश्यते ॥ ३।३।१६ ॥

सम्बन्धस्याविशिष्टत्वान् न चात्र नियमो भवेत् ।
तस्माच् छब्दार्थयोर् नैवं सम्बन्धः परिकल्प्यते ॥ ३।३।१७ ॥

अदृष्टवृत्तिलाभेन यथा संयोग आत्मनः ।
क्व चित् स्वस्वामियोगाख्यो ऽभेदे ऽन्यत्रापि स क्रमः ॥ ३।३।१८ ॥

प्राप्तिं तु समवायाख्यां वाच्यधर्मातिवर्तिनीम् ।
प्रयोक्ता प्रतिपत्ता वा न शब्दैर् अनुगच्छति ॥ ३।३।१९ ॥

अवाच्यम् इति यद् वाच्यं तद् अवाच्यतया यदा ।
वाच्यम् इत्य् अवसीयेत वाच्यम् एव तदा भवेत् ॥ ३।३।२० ॥

अथाप्य् अवाच्यम् इत्य् एवं न तद् वाच्यं प्रतीयते ।
विवक्षितास्य यावस्था सैव नाध्यवसीयते ॥ ३।३।२१ ॥

तथान्यथा सर्वथा च यस्यावाच्यत्वम् उच्यते ।
तत्रापि नैव सावस्था तैः शब्दैः प्रतिषिध्यते ॥ ३।३।२२ ॥

न हि संशयरूपे ऽर्थे शेषत्वेन व्यवस्थिते ।
अव्युदासे स्वरूपस्य संशयो ऽन्यः प्रवर्तते ॥ ३।३।२३ ॥

यदा च निर्णयज्ञाने निर्णयत्वेन निर्णयः ।
प्रक्रम्यते तदा ज्ञानं स्वधर्मेणावतिष्ठते ॥ ३।३।२४ ॥

सर्वं मिथ्या ब्रवीमीति नैतद् वाक्यं विवक्ष्यते ।
तस्य मिथ्याभिधाने हि प्रक्रान्तो ऽर्थो न गम्यते ॥ ३।३।२५ ॥

न च वाचकरूपेण प्रवृत्तस्यास्ति वाच्यता ।
प्रतिपाद्यं न तत् तत्र येनान्यत् प्रतिपद्यते ॥ ३।३।२६ ॥

असाधिका प्रतिज्ञेति नेयम् एवाभिधीयते ।
यथा तथास्य धर्मो ऽपि नात्र कश् चित् प्रतीयते ॥ ३।३।२७ ॥

व्यापारस्यापरो यस्मान् न व्यापारो ऽस्ति कश् च न ।
विरोधम् अनवस्थां वा तस्मात् सर्वत्र नाश्रयेत् ॥ ३।३।२८ ॥

इन्द्रियाणां स्वविषयेष्व् अनादिर् योग्यता यथा ।
अनादिर् अर्थैः शब्दानां सम्बन्धो योग्यता तथा ॥ ३।३।२९ ॥

असाधुर् अनुमानेन वाचकः कैश् चिद् इष्यते ।
वाचकत्वाविशेषे वा नियमः पुण्यपापयोः ॥ ३।३।३० ॥

सम्बन्धशब्दे सम्बन्धो योग्यतां प्रति योग्यता ।
मयाद् योग्यतासंविन् मातापुत्रादियोगवत् ॥ ३।३।३१ ॥

शब्दः कारणम् अर्थस्य स हि तेनोपजन्यते ।
तथा च बुद्धिविषयाद् अर्थाच् छब्दः प्रतीयते ॥ ३।३।३२ ॥

भोजनाद्य् अपि मन्यन्ते बुद्ध्यर्थे यद् असम्भवि ।
बुद्ध्यर्थाद् एव बुद्ध्यर्थे जाते तद् अपि दृश्यते ॥ ३।३।३३ ॥

अनित्येष्व् अपि नित्यत्वम् अभिधेयात्मना स्थितम् ।
अनित्यत्वं स्वशक्तिर् वा सा च नित्यान् न भिद्यते ॥ ३।३।३४ ॥

शब्देनार्थस्य संस्कारो दृष्टादृष्टप्रयोजनः ।
क्रियते सो ऽभिसम्बन्धम् अन्तरेण कथं भवेत् ॥ ३।३।३५ ॥

नावश्यम् अभिधेयेषु संस्कारः स तथाविधः ।
दृश्यते न च सम्बन्धस् तथाभूतो विवक्षितः ॥ ३।३।३६ ॥

सति प्रत्ययहेतुत्वं सम्बन्ध उपपद्यते ।
शब्दस्यार्थे यतस् तत्र सम्बन्धो ऽस्तीति गम्यते ॥ ३।३।३७ ॥

नित्ये ऽनित्ये ऽपि वाप्य् अर्थे पुरुषेण कथं च न ।
सम्बन्धो ऽकृतसम्बन्धैः शब्दैः कर्तुं न शक्यते ॥ ३।३।३८ ॥

व्यपदेशे पदार्थानाम् अन्य सत्तौपचारिकी ।
सर्वावस्थासु सर्वेषाम् आत्मरूपस्य दर्शिका ॥ ३।३।३९ ॥

स्फटिकादि यथा द्रव्यं भिन्नरूपैर् उपाश्रयैः ।
स्वशक्तियोगात् सम्बन्धं ताद्रूप्येणेव गच्छति ॥ ३।३।४० ॥

तद्वच् छब्दो ऽपि सत्तायाम् अस्यं पूर्वं व्यवस्थितः ।
धर्मैर् उपैति सम्बन्धम् अविरोधिविरोधिभिः ॥ ३।३।४१ ॥

एवं च प्रतिषेध्येषु प्रतिषेधप्रकॢप्तये ।
आश्रितेषूपचारेण प्रतिषेधः प्रवर्तते ॥ ३।३।४२ ॥

आत्मलाभस्य जन्माख्या सता लभ्यं च लभ्यते ।
यदि सज् जायते कस्माद् अथासज् जायते कथम् ॥ ३।३।४३ ॥

सतो हि गन्तुर् गमनं सति गम्ये प्रवर्तते ।
गन्तृवच् चेन् न जन्मार्थो न चेत् तद्वन् न जायते ॥ ३।३।४४ ॥

उपचर्य तु कर्तारम् अभिधानप्रवृत्तये ।
पुनश् च कर्मभावेन तां क्रियां च तदाश्रयाम् ॥ ३।३।४५ ॥

अथोपचारसत्तैवं विधेयास् तत्र लादयः ।
जन्मना तु विरोधित्वान् मुख्या सत्ता न विद्यते ॥ ३।३।४६ ॥

आत्मानम् आत्मना बिभ्रद् अस्तीति व्यपदिश्यते ।
अन्तर्भावाच् च तेनासौ कर्मणा न सकर्मकः ॥ ३।३।४७ ॥

प्राक् च सत्ताभिसम्बन्धान् मुख्या सत्ता कथं भवेत् ।
असंश् च नास्तेः कर्ता स्याद् उपचारस् तु पूर्ववत् ॥ ३।३।४८ ॥

तस्माद् भिन्नेषु धर्मेषु विरोधिष्व् अविरोधिनीम् ।
विरोधिख्यापनायैव शब्दैस् तैस् तैर् उपाश्रिताम् ॥ ३।३।४९ ॥

अभिन्नकालाम् अर्थेषु भिन्नकालेष्व् अवस्थिताम् ।
प्रवृत्तिहेतुं सर्वेषां शब्दानाम् औपचारिकीम् ॥ ३।३।५० ॥

एतां सत्तां पदार्थो हि न कश् चिद् अतिवर्तते ।
सा च सम्प्रतिसत्तायाः पृथग् भाष्ये निदर्शिता ॥ ३।३।५१ ॥

प्रदेशस्यैकदेशं वा परतो वा निरूपणम् ।
विपर्ययम् अभावं वा व्यवहारो ऽनुवर्तते ॥ ३।३।५२ ॥

यथेन्द्रियस्य वैगुण्यान् मात्राध्यारोपवान् इव ।
जायते प्रत्ययो ऽर्थेभ्यस् तथैवोद्देशजा मतिः ॥ ३।३।५३ ॥

अकृत्स्नविषयाभासं शब्दः प्रत्ययम् आश्रितः ।
अर्थम् आहान्यरूपेण स्वरूपेणानिरूपितम् ॥ ३।३।५४ ॥

रूपणव्यपदेशाभ्यं लौकिके वर्त्मनि स्थितौ ।
ज्ञानं प्रत्य् अभिलापं च सदृशौ बालपण्डितौ ॥ ३।३।५५ ॥

सर्वार्थरूपता शुद्धिर् ज्ञानस्य निरुपश्रया ।
ततो ऽप्य् अस्य परां शुद्धिम् एके प्राहुर् अरूपिकाम् ॥ ३।३।५६ ॥

उपप्लवो हि ज्ञानस्य बाह्याकारानुपातिता ।
कालुष्यम् इव तत् तस्य संसर्गे व्यतिभेदजम् ॥ ३।३।५७ ॥

यथा च ज्ञानम् आलेखाद् अशुद्धौ व्यवतिष्ठते ।
तथोपाश्रयवान् अर्थः स्वरूपाद् विप्रकृष्यते ॥ ३।३।५८ ॥

एवम् अर्थस्य शब्दस्य ज्ञानस्य च विपर्यये ।
भावाभावाव् अभेदेन व्यवहारानुपातिनौ ॥ ३।३।५९ ॥

यथा भावम् उपाश्रित्य तदभावो ऽनुगम्यते ।
तथाभावम् उपाश्रित्य तद्भावो ऽप्य् अनुगम्यते ॥ ३।३।६० ॥

नाभावो जायते भावो नैति भावो ऽनुपाख्यताम् ।
एकस्माद् आत्मनो ऽनन्यौ भावाभावौ विकल्पितौ ॥ ३।३।६१ ॥

अभावस्यानुपाख्यत्वात् कारणं न प्रसाधकम् ।
सोपाख्यस्य तु भावस्य कारणं किं करिष्यति ॥ ३।३।६२ ॥

तस्मात् सर्वम् अभावो वा भावो वा सर्वम् इष्यते ।
न त्व् अवस्थान्तरं किं चिद् एकस्मात् सत्यतः स्थितम् ॥ ३।३।६३ ॥

तस्मान् नाभावम् इच्छन्ति ये लोके भाववादिनः ।
अभाववादिनो वापि न भावं तत्त्वलक्षणम् ॥ ३।३।६४ ॥

अद्वये चैव सर्वस्मिन् स्वभावाद् एकलक्षणे ।
परिकल्पेषु मर्यादा विचित्रैवोपलभ्यते ॥ ३।३।६५ ॥

चतस्रो हि यथावस्था निरुपाख्ये प्रकल्पिताः ।
एवं द्वैविध्यम् अप्य् एतद् भावाभावव्यपाश्रयम् ॥ ३।३।६६ ॥

अविरोधी विरोधी वा सन्न् असन् वापि युक्तितः ।
क्रमवान् अक्रमो वापि नाभाव उपपद्यते ॥ ३।३।६७ ॥

अविरोधी विरोधी वा सन्न् असन् वापि तत्त्वतः ।
क्रमवान् अक्रमो वापि तेन भावो न विद्यते ॥ ३।३।६८ ॥

अभावे त्रिषु कालेषु न भेदस्यास्ति सम्भवः ।
तस्मिन्न् असति भावे ऽपि त्रैकाल्यं नावतिष्ठते ॥ ३।३।६९ ॥

आत्मतत्त्वपरित्यागः परतो नोपपद्यते ।
आत्मतत्त्वं तु परतः स्वतो वा नोपकल्पते ॥ ३।३।७० ॥

तत्त्वे विरोधो नानात्व उपकारो न कश् च न ।
तत्त्वान्यत्वपर्ल्त्यागे व्यवहारो निवर्तते ॥ ३।३।७१ ॥

यत्र द्रष्टा च दृश्यं च दर्शनं चाविकल्पितम् ।
तस्यैवार्थस्य सत्यत्वं श्रितास् त्रय्यन्तवेदिनः ॥ ३।३।७२ ॥

सामान्यं वा विशेषं वा यस्माद् आहुर् विशेषवत् ।
शब्दास् तस्माद् असत्येषु भेदेष्व् एव व्यवस्थिताः ॥ ३।३।७३ ॥

न ह्य् अभावस्य सद्भावे भावस्यात्मा प्रहीयते ।
न चाभावस्य नास्तित्वे भावस्यात्मा प्रसूयते ॥ ३।३।७४ ॥

न शाबलेयस्यास्तित्वं बाहुलेयस्य बाधकम् ।
न शाबलेयो नास्तीति बाहुलेयः प्रकल्पते ॥ ३।३।७५ ॥

अभावो यदि वस्तु स्यात् तत्रेयं स्याद् विचारणा ।
ततश् च तदभावे ऽपि स्याद् विचार्यम् इदं पुनः ॥ ३।३।७६ ॥

अवस्तु स्याद् अतितं यद् व्यवहारस्य गोचरः ।
तत्र वस्तुगतो भेदो न निर्वचनम् अर्हति ॥ ३।३।७७ ॥

अपदे ऽर्थे पदन्यासः कारणस्य न विद्यते ।
अथ च प्रागसद्भावः कारणे सति दृश्यते ॥ ३।३।७८ ॥

का तस्य प्रागवस्थेति वस्त्वाश्रितम् इदं पुनः ।
प्राग् अवस्थेति न ह्य् एतद् द्वयम् अप्य् अस्त्य् अवस्तुनि ॥ ३।३।७९ ॥

न चोर्ध्वम् अस्ति नास्तीति वचनायानिबन्धनम् ।
अलं स्याद् अपदस्थानम् एतद् वाचः प्रचक्षते ॥ ३।३।८० ॥

अत्यद्भुता त्व् इयं वृत्तिर् यद् अभागं यद् अक्रमम् ।
भावानां प्राग् अभूतानाम् आत्मतत्त्वं प्रकाशते ॥ ३।३।८१ ॥

विकल्पोत्थापितेनैव सर्वो भावेन लौकिकः ।
मुख्येनेव पदार्थेन व्यवहारो विधीयते ॥ ३।३।८२ ॥

भावशक्तिम् अतश् चैनां मन्यन्ते नित्यवादिनः ।
भावम् एव क्रमं प्राहुर् न भावाद् अपरः क्रमः ॥ ३।३।८३ ॥

क्रमान् न यौगपद्यस्य कश् चिद् भेदो ऽस्ति तत्त्वतः ।
यथैव भावान् नाभावः कश् चिद् अन्यो ऽवसीयते ॥ ३।३।८४ ॥

कालस्याप्य् अपरं कालं निर्दिशन्त्य् एव लौकिकाः ।
न च निर्देशमात्रेण व्यतिरेको ऽनुगम्यते ॥ ३।३।८५ ॥

आधारं कल्पयन् बुद्ध्या नाभावे व्यवतिष्ठते ।
अवस्तुष्व् अपि नोत्प्रेक्षा कस्य चित् प्रतिबध्यते ॥ ३।३।८६ ॥

तस्माच् छक्तिविभागेन नित्यः सदसदात्मकः ।
एको ऽर्थः शब्दवाच्यत्वे बहुरूपः प्रकाशते ॥ ३।३।८७ ॥

व्यवहारश् च लोकस्य पदार्थैः परिकल्पितैः ।
शास्त्रे पदार्थः कार्यार्थं लौकिकः प्रविभज्यते ॥ ३।३।८८ ॥

॥ इति सम्बन्धसमुद्देशः ॥