विश्वास-प्रस्तुतिः
आत्मा वस्तु स्वभावश् च शरीरं तत्त्वम् इत्य् अपि ।
द्रव्यम् इत्य् अस्य पर्यायास् तच् च नित्यम् इति स्मृतम् ॥ ३।२।१ ॥
मूलम्

सत्यं वस्तु तदाकारैर् असत्यैर् अवधार्यते ।
असत्योपाधिभिः शब्दैः सत्यम् एवाभिधीयते ॥ ३।२।२ ॥

अध्रुवेण निमित्तेन देवदत्तगृहं यथा ।
गृहीतं गृहशब्देन शुद्धम् एवाभिधीयते ॥ ३।२।३ ॥

सुवर्णादि यथा युक्तं स्वैर् आकारैर् अपायिभिः ।
रुचकाद्यभिधानानां शुद्धम् एवैति वाच्यताम् ॥ ३।२।४ ॥

आकारैश् च व्यवच्छेदात् सार्वार्थ्यम् अवरुध्यते ।
यथैव चक्षुरादीनां सामर्थ्यं नालिकादिभिः ॥ ३।२।५ ॥

तेष्व् आकारेषु यः शब्दस् तथाभूतेषु वर्तते ।
तत्त्वात्मकत्वात् तेनापि नित्यम् एवाभिधीयते ॥ ३।२।६ ॥

न तत्त्वातत्त्वयोर् भेद इति वृद्धेभ्य आगमः ।
अतत्त्वम् इति मन्यन्ते तत्त्वम् एवाविचारितम् ॥ ३।२।७ ॥

विकल्परूपं भजते तत्त्वम् एवाविकल्पितम् ।
न चात्र कालभेदो ऽस्ति कालभेदश् च गृह्यते ॥ ३।२।८ ॥

यथा विषयधर्माणां ज्ञाने ऽत्यन्तम् असम्भवः ।
तदात्मेव च तत् सिद्धम् अत्यन्तम् अतदात्मकम् ॥ ३।२।९ ॥

तथा विकाररूपाणां तत्त्वे ऽत्यन्तम् असम्भवः ।
तदात्मेव च तत् तत्त्वम् अत्यन्तम् अतदात्मकम् ॥ ३।२।१० ॥

सत् यम् आकृतिसंहारे यद् अन्ते व्यवतिष्ठते ।
तन् नित्यं शब्दवाच्यं तच् छब्दात् तच् च न भिद्यते ॥ ३।२।११ ॥

न तद् अस्ति न तन् नास्ति न तद् एकं न तत् पृथक् ।
न संसृष्टं विभक्तं न विकृतं न न चान्यथा ॥ ३।२।१२ ॥

तन् नास्ति विद्यते तच् च तद् एकं तत् पृथक् पृथक् ।
संसृष्टं च विभक्तं च विकृतं तत् तद् अन्यथा ॥ ३।२।१३ ॥

तस्य शब्दार्थसम्बन्ध- रूपम् एकस्य दृश्यते ।
तद् दृश्यं दर्शनं द्रष्टा दर्शने च प्रयोजनम् ॥ ३।२।१४ ॥

विकारापगमे सत्यं सुवर्णं कुण्डले यथा ।
विकारापगमे सत्यां तथाहुः प्रकृतिं पराम् ॥ ३।२।१५ ॥

वाच्या सा सर्वशब्दानां शब्दाश् च न पृथक् ततः ।
अपृथक्त्वे च सम्बन्धस् तयोर् नानात्मनोर् इव ॥ ३।२।१६ ॥

आत्मा परः प्रियो द्वेष्यो वक्ता वाच्यं प्रयोजनम् ।
विरुद्धानि यथैकस्य स्वप्ने रूपाणि चेतसः ॥ ३।२।१७ ॥

अजन्मनि तथा नित्ये पौर्वापर्यविवर्जिते ।
तत्त्वे जन्मादिरूपत्वं विरुद्धम् उपलभ्यते ॥ ३।२।१८ ॥

॥ इति द्रव्यसमुद्देशः ॥