विश्वास-प्रस्तुतिः
द्विधा कैश् चित् पदं भिन्नं चतुर्धा पञ्चधापि वा ।
अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत् ॥ ३।१।१ ॥
मूलम्

पदार्थानाम् अपोद्धारे जातिर् वा द्रव्यम् एव वा ।
पदार्थौ सर्वशब्दानां नित्याव् एवोपवर्णितौ ॥ ३।१।२ ॥

केषां चित् साहचर्येण जातिः शक्त्युपलक्षणम् ।
खदिरादिष्व् अशक्तेषु शक्तः प्रतिनिधीयते ॥ ३।१।३ ॥

अस्वातन्त्र्यफलो बन्धिः प्रमाणादीव शिष्यते ।
अतो जात्यभिधाने ऽपि शक्तिहीनं न गृह्यते ॥ ३।१।४ ॥

संश्लेषमात्रं बध्नातिर् यदि स्यात् तु विवक्षितः ।
शक्त्याश्रये ततो लिङ्गं प्रमाणाद्यनुशासनम् ॥ ३।१।५ ॥

स्वजातिः प्रथमं शब्दैः सर्वैर् एवाभिधीयते ।
ततो ऽर्थजातिरूपेषु तदध्यारोपकल्पना ॥ ३।१।६ ॥

यथा रक्ते गुणे तत्त्वं कषाये व्यपदिश्यते ।
संयोगिसन्निकर्षाच् च वस्त्रादिष्व् अपि गृह्यते ॥ ३।१।७ ॥

तथा शब्दार्थसम्बन्धाच् छब्दे जातिर् अवस्थिता ।
व्यपदेशे ऽर्थजातीनां जातिकार्याय कल्पते ॥ ३।१।८ ॥

जात्ज्शब्दैकशेषे सा जातीनां जातिर् इष्यते ।
शब्दजातय इत्य् अत्र तज्जातिः शब्दजातिषु ॥ ३।१।९ ॥

या शब्दजातिशब्देषु शब्देभ्यो भिन्नलक्षणा ।
जातिः सा शब्दजातित्वम् अव्यतिक्रम्य वर्तते ॥ ३।१।१० ॥

अर्थजात्यभिधाने ऽपि सर्वे जात्यभिधायिनः ।
व्यापारलक्षणा यस्मात् पदार्थाः समवस्थिताः ॥ ३।१।११ ॥

जातौ पदार्थे जातिर् वा विसेषो वापि जातिवत् ।
शब्दैर् अपेक्ष्यते यस्माद् अतस् ते जातिवाचिनः ॥ ३।१।१२ ॥

द्रव्यधर्मा पदार्थे तु द्रव्ये सर्वो ऽर्थ उच्यते ।
द्रव्यधर्माश्रयाद् द्रव्यम् अतः सर्वो ऽर्थ इष्यते ॥ ३।१।१३ ॥

अनुप्रवृत्तिधर्मो वा जातिः स्यात् सर्वजातिषु ।
व्यावृत्तिधर्मसामान्यं विशेषे जातिर् इष्यते ॥ ३।१।१४ ॥

संयोगिधर्मभेदेन देशे च परिकल्पिते ।
तेषु देशेषु सामान्यम् आकाशस्यापि विद्यते ॥ ३।१।१५ ॥

अदेशानां घटादीनां देशाः सम्बन्धिनो यथा ।
आकाशस्याप्य् अदेशस्य देशाः संयोगिनस् तथा ॥ ३।१।१६ ॥

भिन्नवस्त्वाश्रया बुद्धिः संयोगिष्व् अनुवर्तते ।
समवायिषु भेदस्य ग्रहणं विनिवर्तते ॥ ३।१।१७ ॥

अतः संयोगिदेशानां गौणत्वं परिकल्प्यते ।
अविवेकात् प्रदेशेभ्यो मुख्यत्वं समवायिनाम् ॥ ३।१।१८ ॥

अनुप्रवृत्तिरूपा या प्रख्या ताम् आकृतिं विदुः ।
के चिद् व्यावृत्तिरूपां तु द्रव्यत्वेन प्रचक्षते ॥ ३।१।१९ ॥

भिन्ना इति परोपाधिर् अभिन्ना इति वा पुनः ।
भावात्मसु प्रपञ्चो ऽयं संसृष्टेष्व् एव जायते ॥ ३।१।२० ॥

नैकत्वं नापि नानात्वं न सत्त्वं न च नास्तिता ।
आत्मतत्त्वेषु भावानाम् असंसृष्टेषु विद्यते ॥ ३।१।२१ ॥

सर्वशक्त्यात्मभूतत्वम् एकस्यैवेति निर्णये ।
भावानाम् आत्मभेदस्य कल्पना स्याद् अनर्थिका ॥ ३।१।२२ ॥

तस्माद् द्रव्यादयः सर्वाः शक्तयो भिन्नलक्षणाः ।
संसृष्टाः पुरुषार्थस्य साधिका न तु केवलाः ॥ ३।१।२३ ॥

यथैव चेन्द्रियादीनाम् आत्मभूता समग्रता ।
तथा सम्बन्धिसम्बन्ध- संसर्गे ऽपि प्रतीयते ॥ ३।१।२४ ॥

न तद् उत्पद्यते किं चिद् यस्य जातिर् न विद्यते ।
आत्माभिव्यक्तये जातिः कारणानां प्रयोजिका ॥ ३।१।२५ ॥

कारणेषु पदं कृत्वा नित्यानित्येषु जातयः ।
क्व चित् कार्येष्व् अभिव्यक्तिम् उपयान्ति पुनः पुनः ॥ ३।१।२६ ॥

निर्वर्त्यमानं यत् कर्म जातिस् तत्रापि साधनम् ।
स्वाश्रयस्याभिनिच्पत्त्यै सा क्रियायाः प्रयोजिका ॥ ३।१।२७ ॥

विधौ वा प्रतिषेधे वा ब्राह्मणत्वादि साधनम् ।
व्यक्त्याश्रिताश्रिता जातेः सङ्ख्याजातिर् विशेषिका ॥ ३।१।२८ ॥

यथा जलादिभिर् व्यक्तं मुखम् एवाभिधीयते ।
तथा द्रव्यैर् अभिव्यक्ता जातिर् एवाभिधीयते ॥ ३।१।२९ ॥

यथेन्द्रियगतो भेद इन्द्रियग्रहणाद् ऋते ।
इन्द्रियार्थेष्वदृश्यो ऽपि ज्ञानभेदाय कल्पते ॥ ३।१।३० ॥

तथात्मरूपग्रहणात् केषां चिद् व्यक्तयो विना ।
सामान्यज्ञानभेदानाम् उपयान्ति निमित्तताम् ॥ ३।१।३१ ॥

सत्यासत्यौ तु यौ भागौ प्रतिभावं व्यवस्थितौ ।
सत्यं यत् तत्र सा जातिर् असत्या व्यक्तयः स्मृताः ॥ ३।१।३२ ॥

सम्बन्धिभेदात् सत्तैव भिद्यमाना गवादिषु ।
जातिर् इत्य् उच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ॥ ३।१।३३ ॥

तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते ।
सा नित्या सा महान् आत्मा ताम् आहुस् त्वतलादयः ॥ ३।१।३४ ॥

प्राप्तक्रमा विशेषेषु क्रिया सैवाभिधीयते ।
क्रमरूपस्य संहारे तत् सत्त्वम् इति कथ्यते ॥ ३।१।३५ ॥

सैव भावविकारेउ षड् अवस्थाः प्रपद्यते ।
क्रमेण शक्तिभिः स्वाभिर् एवं प्रत्यवभासते ॥ ३।१।३६ ॥

आत्मभूतः क्रमो ऽप्य् अस्या यत्रेदं कालदर्शनम् ।
पौर्वापर्यादिरूपेण प्रविभक्तम् इव स्थितम् ॥ ३।१।३७ ॥

तिरोभावाभ्युपगमे भावानां सैव नास्तिता ।
लब्धक्रमे तिरोभावे नश्यतीति प्रतीयते ॥ ३।१।३८ ॥

पूर्वस्मात् प्रच्युता धर्माद् अप्राप्ता चोत्तरं पदम् ।
तदन्तराले भेदानाम् आश्रयाज् जन्म कथ्यते ॥ ३।१।३९ ॥

आश्रयः स्वात्ममात्रा वा भावा वा व्यतिरेकिणः ।
स्वशक्तयो वा सत्ताया भेददर्शनहेतवः ॥ ३।१।४० ॥

पृथिव्यादिष्व् अभिव्यक्तौ न संस्थानम् अपेक्षते ।
अनुच्छिन्नाश्रयाज् जातिर् अनित्ये ऽप्य् आश्रये स्थिता ॥ ३।१।४१ ॥

अनुच्छेद्याश्रयाम् एके सर्वां जातिं प्रचक्षते ।
न यौगपद्यं प्रलये सर्वस्येति व्यवस्थिताः ॥ ३।१।४२ ॥

प्रकृतौ प्रविलीनेषु भेदेष्व् एकत्वदर्शिनाम् ।
द्रव्यसत्त्वं प्रपद्यन्ते स्वाश्रया एव जातयः ॥ ३।१।४३ ॥

ब्राह्मणत्वादयो भावाः सर्वप्राणिष्व् अवस्थिताः ।
अभिव्यक्ताः स्वकार्याणां साधका इत्य् अपि स्मृतिः ॥ ३।१।४४ ॥

चित्रादिष्व् अप्य् अभिव्यक्तिर् जातीनां कैश् चिद् इष्यते ।
प्राण्याश्रितास् तु ताः प्राप्तौ निमित्तं पुण्यपापयोः ॥ ३।१।४५ ॥

ज्ञानं त्व् अस्मद्विशिष्टानां तासु सर्वेन्द्रियं विदुः ।
अभ्यासान् मणिरूप्यादि- विशेषेष्व् इव तद्विदाम् ॥ ३।१।४६ ॥

जात्युत्पलादिगन्धादौ भेदतत्त्वं यद् आश्रितम् ।
तद् भावप्रत्ययैर् लोके ऽनित्यत्वान् नाभिधीयते ॥ ३।१।४७ ॥

अस्वशब्दाभिधानास् तु नरसिंहादिजातयः ।
सरूपावयवेवान्या तासु श्रुतिर् अवस्थिता ॥ ३।१।४८ ॥

जात्यवस्थापरिच्छेदे सङ्ख्या सङ्ख्यात्वम् एव वा ।
विप्रकर्षे ऽपि संसर्गाद् उपकाराय कल्पते ॥ ३।१।४९ ॥

लक्षणा शब्दसंस्कारे व्यापारः कार्यसिद्धये ।
सङ्ख्याकर्मादिशक्तीनां श्रुतिसाम्ये ऽपि दृश्यते ॥ ३।१।५० ॥

न विना सङ्ख्यया कश् चित् सत्त्वभूतो ऽर्थ उच्यते ।
अतः सर्वस्य निर्देशे सङ्ख्या स्याद् अविवक्षिता ॥ ३।१।५१ ॥

एकत्वं वा बहुत्वं वा केषां चिद् अविवक्षितम् ।
तद् धि जात्यभिधानाय द्वित्वं तु स्याद् विवक्षितम् ॥ ३।१।५२ ॥

यद्य् एतौ व्याधितौ स्यातां देयं स्याद् इदम् औषधम् ।
इत्य् एवं लक्षणे ऽर्थस्य द्वित्वं स्याद् अविवक्षितम् ॥ ३।१।५३ ॥

एकादिशब्दवाच्यायाः कर्मस्व् अङ्गत्वम् इष्यते ।
सङ्ख्यायाः खनति द्वाभ्याम् इति रूपाद् धि साश्रिता ॥ ३।१।५४ ॥

यजेत पशुनेत्य् अत्र संस्कारस्यापि सम्भवे ।
यथा जातिस् तथैकत्वं साधनत्वेन गम्यते ॥ ३।१।५५ ॥

लिङ्गात् तु स्याद् द्वितीयादेस् तद् एकत्वं विवक्षितम् ।
एकार्थविषयत्वे च तल्लिङ्गं जातिसङ्ख्ययोः ॥ ३।१।५६ ॥

अन्यत्राविहितस्यैव स विधिः प्रथमं पशोः ।
क्रियायाम् अङ्गभावश् च तत् त्व् एतस्माद् विवक्षितम् ॥ ३।१।५७ ॥

ग्रहास् त्व् अन्यत्र विहिता भिन्नसङ्ख्याः पृथक् पृथक् ।
प्राजापत्या नवेत्य् एवम्- आदिभेदसमन्विताः ॥ ३।१।५८ ॥

अङ्गत्वेन प्रतीतानां सम्मार्गे त्व् अङ्गिनां पुनः ।
निर्देशं प्रति या सङ्ख्या सा कथं स्याद् विवक्षिता ॥ ३।१।५९ ॥

नान्यत्र विधिर् अस्तीति संस्कारो नापि चाङ्गिता ।
हेतुः सङ्ख्याविवक्षाया यत्नात् सा हि विवक्षिता ॥ ३।१।६० ॥

सम्मार्जने विशेषश् च न ग्रहे क्व चिद् आश्रितः ।
विहीतास् ते च संस्कार्याः सर्वेषाम् आश्रयस् ततः ॥ ३।१।६१ ॥

प्रत्याश्रयं समाप्तायां जाताव् एकेन चेत् क्रिया ।
पशुना न प्रकल्पेत तत् स्याद् एव प्रकल्पनम् ॥ ३।१।६२ ॥

एकेन च प्रसिद्धायां क्रियायां यदि सम्भवात् ।
पश्वन्तरम् उपादेयम् उपादानम् अनर्थकम् ॥ ३।१।६३ ॥

यथैवाहितगर्भायां गर्भाधानम् अनर्थकम् ।
तथैकेन प्रसिद्धायां पश्वन्तरम् अनर्थकम् ॥ ३।१।६४ ॥

तावतार्थस्य सिद्धत्वाद् एकत्वस्याव्यतिक्रमम् ।
के चिद् इच्छन्ति न त्व् अत्र सङ्ख्याङ्गत्वेन गृह्यते ॥ ३।१।६५ ॥

द्वितीयादि तु यल् लिङ्गम् उक्तन्यायानुवादि तत् ।
नसङ्ख्या साधनत्वेन जातिवत् तेन गम्यते ॥ ३।१।६६ ॥

अन्वयव्यतिरेकाभ्यां सङ्ख्याभ्युपगमे सति ।
युक्तं यत् साधनत्वं स्यान् न त्व् अन्यार्थोपलक्षणम् ॥ ३।१।६७ ॥

साधनत्वे पदार्थस्य सामर्थ्यं न प्रहीयते ।
सङ्ख्याव्यापारधर्मो ऽतस् तेन लिङ्गेन गम्यते ॥ ३।१।६८ ॥

अपूर्वस्य विधेयत्वात् प्राधान्यम् अवसीयते ।
विहितस्य परार्थत्वाच् छेषभावः प्रतीयते ॥ ३।१।६९ ॥

सम्मार्गस्य विधेयत्वाद् अन्यत्र विहिते ग्रहे ।
विधिवाक्ये श्रुता सङ्ख्या लक्षणायां न बाध्यते ॥ ३।१।७० ॥

विधिवाक्यान्तरे सङ्ख्या पशोर् नास्ति विरोधिनी ।
तस्मात् सगुण एवासौ सहैकत्वेन गम्यते ॥ ३।१।७१ ॥

निर्ज्ञातद्रव्यसम्बन्धे यः कर्मण्य् उपदिश्यते ।
गुणस् तेनार्थिता तस्य द्रव्येणेव प्रतीयते ॥ ३।१।७२ ॥

कश् चिद् एव गुणो द्रव्ये यथा सामर्थ्यलक्षणः ।
आधारो ऽपि गुणस्यैवं प्राप्तः सामर्थ्यलक्षणः ॥ ३।१।७३ ॥

तयोस् तु पृथगर्थित्वे सम्बन्धो यः प्रतीयते ।
न तस्मिन्न् उपघातो ऽस्ति कल्प्यम् अन्यन् न चाश्रुतम् ॥ ३।१।७४ ॥

क्रियया यो ऽभिसम्बन्धः स श्रुतिप्रापितस् तयोः ।
आश्रयाश्रयिणोर् वाक्यान् नियमस् त्व् अवतिष्ठते ॥ ३।१।७५ ॥

तत्र द्रव्यगुणाभावे प्रत्येकं स्याद् विकल्पनम् ।
श्रुतिप्राप्तो हि सम्बन्धो बलवान् वाक्यलक्षणात् ॥ ३।१।७६ ॥

यदा तु जातिः शक्तिर् वा क्रियां प्रत्य् उपदिश्यते ।
सामर्थ्यात् सन्निधीयेते तत्र द्रव्यगुणौ तदा ॥ ३।१।७७ ॥

जातीनां च गुणानां च तुल्ये ऽङ्गत्वे क्रियां प्रति ।
गुणाः प्रतिनिधीयन्ते छागादीनां न जातयः ॥ ३।१।७८ ॥

व्यक्तिशक्तेः समासन्ना जातयो न तथा गुणाः ।
साक्षाद् द्रव्यं क्रियायोगि गुणस् तस्माद् विकल्पते ॥ ३।१।७९ ॥

साम्येनान्यतराभावे विकल्पः कैश् चिद् इष्यते ।
अतद्गुणो ऽतश् छागः स्यान् मेषो वा तद्गुणो भवेत् ॥ ३।१।८० ॥

जातेर् आश्रितसङ्ख्यायाः प्रवृत्तिर् उपलभ्यते ।
सङ्ख्याविशेषम् उत्सृज्य क्व चित् सैव प्रवर्तते ॥ ३।१।८१ ॥

पराङ्गभूतं सामान्यं युज्यते द्रव्यसङ्ख्यया ।
स्वार्थं प्रवर्तमानं तु न सङ्ख्याम् अवलम्बते ॥ ३।१।८२ ॥

यजेत पशुनेत्य् अत्र यज्यर्थायां पशुश्रुतौ ।
कृतार्थैकेन पशुना प्रधानं भवति क्रिया ॥ ३।१।८३ ॥

यावतां सम्भवो यस्य स कुर्यात् तावतां यदि ।
आलम्भनं गुणैस् तेन प्रधानं स्यात् प्रयोजितम् ॥ ३।१।८४ ॥

सम्मृज्यमानतन्त्रे तु ग्रहे यत्र क्रियाश्रुतिः ।
सङ्ख्याविशेषग्रहणं नैव तत्राद्रियामहे ॥ ३।१।८५ ॥

शिष्यमाणपरे वाक्ये यद् एकग्रहणं कृतम् ।
शेषे विशिष्टसङ्ख्ये ऽपि व्यक्तं तल्लिङ्गदर्शनम् ॥ ३।१।८६ ॥

समासप्रत्ययविधौ यथा निपतिता श्रुतिः ।
गुणानां परतन्त्राणां न्यायेनैवोपपद्यते ॥ ३।१।८७ ॥

गुणे ऽपि नाङ्गीक्रियते प्रधानान्तरसिद्धये ।
सङ्ख्या कर्ता तथा कर्मण्य् अविशिष्टः प्रतीयते ॥ ३।१।८८ ॥

यस्यान्यस्य प्रसक्तस्य नियमार्था पुनः श्रुतिः ।
सरूपसमुदायात् तु विभक्तिर् या विधीयते ॥ ३।१।८९ ॥

निवृत्तौ चरितार्थत्वात् सङ्ख्या तत्राविवक्षिता ।
एकस् तत्रार्थवान् सिद्धः समुदायस्य वाचकः ॥ ३।१।९० ॥

प्रत्ययस्य प्रधानस्य समासस्यापि वा विधौ ।
सिद्धः सङ्ख्याविवक्षायां सर्वथानुग्रहो गुणे ॥ ३।१।९१ ॥

अभेदरूपं सादृश्यम् आत्मभूताश् च शक्तयः ।
जातिपर्यायवाचित्वम् एषाम् अप्य् उपवर्ण्यते ॥ ३।१।९२ ॥

दण्डोपादित्सया दण्डं यद्य् अपि प्रतिपद्यते ।
न तस्माद् एव सामर्थ्यात् स दण्डीति प्रतीयते ॥ ३।१।९३ ॥

नेच्छानिमित्ताद् इच्छावान् इति ज्ञानं प्रवर्तते ।
तस्मात् सत्य् अपि सामर्थ्ये बुद्धिर् अर्थान्तराश्रया ॥ ३।१।९४ ॥

स्वभावो ऽव्यपदेश्यो वा सामर्थ्यं वावतिष्ठते ।
सर्वस्यान्ते यतस् तस्माद् व्यवहारो न कल्पते ॥ ३।१।९५ ॥

यदा भेदान् परित्यज्य बुद्ध्यैक इव गृह्यते ।
व्यक्त्यात्मैव तदा तत्र बुद्धिर् एका प्रवर्तते ॥ ३।१।९६ ॥

भेदरूपैर् अनुस्यूतं यदैकम् इव मन्यते ।
समूहावग्रहा बुद्धिर् बहुभ्यो जायते तदा ॥ ३।१।९७ ॥

यदा सहविवक्षायाम् एकबुद्धिनिबन्धनः ।
बद्धावयवविच्छेदः समुदायो ऽभिधीयते ॥ ३।१।९८ ॥

प्रतिक्रियं समाप्तत्वाद् एको भेदसमन्वितः ।
द्वन्द्वे द्वित्वादिभेदेन तदासाव् उपगम्यते ॥ ३।१।९९ ॥

सकृत्प्रवृत्ताव् एकत्वम् आवृत्तौ सदृशात्मताम् ।
भिन्नात्मकानां व्यक्तीनां भेदापोहात् प्रपद्यते ॥ ३।१।१०० ॥

अनुप्रवृत्तेति यथा- भिन्ना बुद्धिः प्रतीयते ।
अर्थो व्यावृत्तरूपो ऽपि तथा तत्त्वेन गृह्यते ॥ ३।१।१०१ ॥

सरूपाणां च सर्वेषां न भेदोपनिपातिनः ।
विद्यन्ते वाचकाः शब्दा नापि भेदो ऽवधार्यते ॥ ३।१।१०२ ॥

ज्ञानशब्दार्थविषया विशेषा ये व्यवस्थिताः ।
तेषां दुरवधारत्वाज् ज्ञानाद्येकत्वदर्शनम् ॥ ३।१।१०३ ॥

ज्ञानेष्व् अपि यथार्थेषु तथा सर्वेषु जातयः ।
संसर्गदर्शने सन्ति ताश् चार्थस्य प्रसाधिकाः ॥ ३।१।१०४ ॥

ज्ञेयस्थम् एव सामान्यं ज्ञानानाम् उपकारकम् ।
न जातु ज्ञेयवज् ज्ञानं पररूपेण रूप्यते ॥ ३।१।१०५ ॥

यथा ज्योतिः प्रकाशेन नान्येनाभिप्रकाश्यते ।
ज्ञानाकारस् तथान्येन न ज्ञानेनोपगृह्यते ॥ ३।१।१०६ ॥

न चात्मसमवेतस्य सामान्यस्यावधारणे ।
ज्ञानशक्तिः समर्था स्याज् ज्ञातस्यान्यस्य वस्तुनः ॥ ३।१।१०७ ॥

अयौगपद्ये ज्ञानानाम् अस्येत्य् अग्रहणं न च ।
यथोपलब्धि स्मरणम् उपलब्धे च जायते ॥ ३।१।१०८ ॥

घटज्ञानम् इति ज्ञानं घटज्ञानविलक्षणम् ।
घट इत्य् अपि यज् ज्ञानं विषयोपनिपाति तत् ॥ ३।१।१०९ ॥

यतो विषयरूपेण ज्ञानरूपं न गृह्यते ।
अर्थरूपविविक्तं च स्वरूपं नावधार्यते ॥ ३।१।११० ॥

॥इति जातिसमुद्देशः ॥