विश्वास-प्रस्तुतिः
आख्यातं शब्दसङ्घातो जातिः सङ्घातवर्तिनी ।
एको ऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहृतिः ॥ २।१ ॥
मूलम्

पदम् आद्यं पृथक् सर्वं पदं सापेक्षम् इत्य् अपि ।
वाक्यं प्रति मतिर् भिन्ना बहुधा न्यायदर्शिनाम् ॥ २।२ ॥

निघातादिव्यवस्थार्थं शास्त्रे यत् परिभाषितम् ।
साकाङ्क्षावयवं तेन न सर्वं तुल्यलक्षणम् ॥ २।३ ॥

साकाङ्क्षावयवं भेदे परानाकाङ्क्षशब्दकम् ।
कर्मप्रधानं गुणवद् एकार्थं वाक्यम् उच्यते ॥ २।४ ॥

सम्बोधनपदं यच् च तत् क्रियाया विशेषकम् ।
व्रजानि देवदत्तेति निघातो ऽत्र तथा सति ॥ २।५ ॥

यथानेकम् अपि क्त्वान्तं तिङन्तस्य विशेषकम् ।
तथा तिङन्तं तत्राहुस् तिङन्तस्य विशेषकम् ॥ २।६ ॥

यथैक एव सर्वार्थ- प्रकाशः प्रविभज्यते ।
दृश्यभेदानुकारेण वाक्यार्थावगमस् तथा ॥ २।७ ॥

चित्रस्यैकस्य रूपस्य यथा भेदनिदर्शनैः ।
नीलादिभिः समाख्यानं क्रियते भिन्नलक्षणैः ॥ २।८ ॥

तथैवैकस्य वाक्यस्य निराकाङ्क्षस्य सर्वतः ।
शब्दान्तरैः समाख्यानं साकाङ्क्षैर् अनुगम्यते ॥ २।९ ॥

यथा पदे विभज्यन्ते प्रकृतिप्रत्ययादयः ।
अपोद्धारस् तथा वाक्ये पदानाम् उपपद्यते ॥ २।१० ॥

वर्णान्तरसरूपत्वं वर्णभागेषु दृश्यते ।
पदान्तरसरूपाश् च पदभागा इव स्थिताः ॥ २।११ ॥

भागैर् अनर्थकैर् युक्ता वृषभोदकयावकाः ।
अन्वयव्यतिरेकौ तु व्यवहारनिबन्धनम् ॥ २।१२ ॥

शब्दस्य न विभागो ऽस्ति कुतो ऽर्थस्य भविष्यति ।
विभागैः प्रक्रियाभेदम् अविद्वान् प्रतिपद्यते ॥ २।१३ ॥

ब्राह्मणार्थो यथा नास्ति कश् चिद् ब्राह्मणकम्बले ।
देवदत्तादयो वाक्ये तथैव स्युर् अनर्थकाः ॥ २।१४ ॥

सामान्यार्थस् तिरोभूतो न विशेषे ऽवतिष्ठते ।
उपात्तस्य कुतस् त्यागो निवृत्तः क्वावतिष्ठताम् ॥ २।१५ ॥

अशाब्दो यदि वाक्यार्थः पदार्थो ऽपि तथा भवेत् ।
एवं सति च सम्बन्धः शब्दस्यार्थेन हीयते ॥ २।१६ ॥

विशेषशब्दाः केषां चित् सामान्यप्रतिरूपकाः ।
शब्दान्तराभिसम्बन्धाद् व्यज्यन्ते प्रतिपत्तृषु ॥ २।१७ ॥

तेषां तु कृत्स्नो वाक्यार्थः प्रतिभेदं समाप्यते ।
व्यक्तोपव्यञ्जना सिद्धिर् अर्थस्य प्रतिपत्तृषु ॥ २।१८ ॥

स व्यक्तः क्रमवाञ् शब्द उपांशु यम् अधीयते ।
अक्रमस् तु वितत्येव बुद्धिर् यत्रावतिष्ठते ॥ २।१९ ॥

यथोत्क्षेपविशेषे ऽपि कर्मभेदो न गृह्यते ।
आवृत्तौ व्यज्यते जातिः कर्मभिर् भ्रमणादिभिः ॥ २।२० ॥

वर्णवाक्यपदेष्व् एवं तुल्योपव्यञ्जना श्रुतिः ।
अत्यन्तभेदे तत्त्वस्य सरूपेव प्रतीयते ॥ २।२१ ॥

नित्येषु च कुतः पूर्वं परं वा परमार्थतः ।
एकस्यैव तु सा शक्तिर् यद् एवम् अवभासते ॥ २।२२ ॥

चिरं क्षिप्रम् इति ज्ञाने कालभेदाद् ऋते यथा ।
भिन्नकाले प्रकाशेते स धर्मो ह्रस्वदीर्घयोः ॥ २।२३ ॥

न नित्यः क्रममात्राभिः कालो भेदम् इहार्हति ।
व्यावर्तिनीनां मात्राणाम् अभावे कीदृशः क्रमः ॥ २।२४ ॥

ताभ्यो या जायते बुद्धिर् एका सा भागवर्जिता ।
सा हि स्वशक्त्या भिन्नेव क्रमप्रत्यवमर्शिनी ॥ २।२५ ॥

क्रमोल्लेखानुषङ्गेण तस्यां यद् बीजम् आहितम् ।
तत्त्वनानात्वयोस् तस्य निरुक्तिर् नावतिष्ठते ॥ २।२६ ॥

भावनासमये त्व् एतत् क्रमसामर्थ्यम् अक्रमम् ।
व्यावृत्तभेदो येनार्थो भेदवान् उपलभ्यते ॥ २।२७ ॥

अदानि वाक्ये तान्य् एव वर्णास् ते च पदे यदि ।
वर्णेषु वर्णभागानां भेदः स्यात् परमाणुवत् ॥ २।२८ ॥

भागानाम् अनुपश्लेषान् न वर्णो न पदं भवेत् ।
तेषाम् अव्यपदेश्यत्वात् किम् अन्यद् व्यपदिश्यताम् ॥ २।२९ ॥

द् अन्तःशब्दतत्त्वं तु भागैर् एकं प्रकाशितम् ।
म् आहुर् अपरे शब्दं तस्य वाक्ये तथैकताम् ॥ २।३० ॥

थभागैस् तथा तेषाम् आन्तरो ऽर्थः प्रकाश्यते ।
अस्यैवात्मनो भेदौ शब्दार्थाव् अपृथक्स्थितौ ॥ २।३१ ॥

प्रकाशकप्रकाश्यत्वं कार्यकारणरूपता ।
अन्तर्मात्रात्मनस् तस्य शब्दतत्त्वस्य सर्वदा ॥ २।३२ ॥

तस्यैवास्तित्वनास्तित्वे सामर्थ्ये समवस्थिते ।
अक्रमे क्रमनिर्भासे व्यवहारनिबन्धने ॥ २।३३ ॥

सम्प्रत्ययप्रमाणत्वात् पदार्थास्तित्वकल्पने ।
पदार्थाभ्युच्चये त्यागाद् आनर्थक्यं प्रसज्यते ॥ २।३४ ॥

राजशब्देन राजार्थो भिन्नरूपेण गम्यते ।
वृत्ताव् आख्यातसदृशं पदम् अन्यत् प्रयुज्यते ॥ २।३५ ॥

यथाश्वकर्ण इत्य् उक्ते विनैवाश्वेन गम्यते ।
कश् चिद् एव विशिष्टो ऽर्थः सर्वेषु प्रत्ययस् तथा ॥ २।३६ ॥

वाक्येष्व् अर्थान्तरगतेः सादृश्यपरिकल्पने ।
केषां चिद् रूढिशब्दत्वं शास्त्र एवानुगम्यते ॥ २।३७ ॥

उपादायापि ये हेयास् तान् उपायान् प्रचक्षते ।
उपायानां च नियमो नावश्यम् अवतिष्ठते ॥ २।३८ ॥

अर्थं कथं चित् पुरुषः कश् चित् सम्प्रतिपद्यते ।
संसृष्टा वा विभक्ता वा भेदा वाक्यनिबन्धनाः ॥ २।३९ ॥

सो ऽयम् इत्य् अभिसम्बन्धो बुद्ध्या प्रक्रम्यते यदा ।
वाक्यार्थस्य तदैको ऽपि वर्णः प्रत्यायकः क्व चित् ॥ २।४० ॥

केवलेन पदेनार्थो यावान् एवाभिधीयते ।
वाक्यस्थं तावतो ऽर्थस्य तद् आहुर् अभिधायकम् ॥ २।४१ ॥

सम्बन्धे सति यत् त्व् अन्यद् आधिक्यम् उपजायते ।
वाक्यार्थम् एव तं प्राहुर् अनेकपदसंश्रयम् ॥ २।४२ ॥

स त्व् अनेकपदस्थो ऽपि प्रतिभेदं समाप्यते ।
जातिवत् समुदाये ऽपि सङ्ख्यावत् कल्प्यते ऽपरैः ॥ २।४३ ॥

सर्वभेदानुगुण्यं तु सामान्यम् अपरे विदुः ।
तद् अर्थान्तरसंसर्गाद् भजते भेदरूपताम् ॥ २।४४ ॥

भेदान् आकाङ्क्षतस् तस्य या परिप्लवमानता ।
अवच्छिनत्ति सम्बन्धस् तां विशेषे निवेशयन् ॥ २।४५ ॥

कार्यानुमेयः सम्बन्धो रूपं तस्य न विद्यते ।
असत्त्वभूतम् अत्यन्तम् अतस् तं प्रतिजानते ॥ २।४६ ॥

नियतं साधने साध्यं क्रिया नियतसाधना ।
स सन्निधानमात्रेण नियमः सम्प्रकाशते ॥ २।४७ ॥

गुणभावेन साकाङ्क्षं तत्र नाम प्रवर्तते ।
साध्यत्वेन निमित्तानि क्रियापदम् अपेक्षते ॥ २।४८ ॥

सन्त एव विशेषा ये पदार्थेषु व्यवस्थिताः ।
ते क्रमाद् अनुगम्यन्ते न वाक्यम् अभिधायकम् ॥ २।४९ ॥

शब्दानां क्रममात्रे च नान्यः शब्दो ऽस्ति वाचकः ।
क्रमो हि धर्मः कालस्य तेन वाक्यं न विद्यते ॥ २।५० ॥

ये च सम्भविनो भेदाः पदार्थेष्व् अविभाविताः ।
सन्निधाने व्यज्यन्ते न तु वर्णेष्व् अयं क्रमः ॥ २।५१ ॥

वर्णानां च पदानां च क्रममात्रनिवेशिनी ।
पदाख्या वाक्यसञ्ज्ञा च शब्दत्वं नेष्यते तयोः ॥ २।५२ ॥

समाने ऽपि तु शब्दत्वे दृष्टः सम्प्रत्ययः पदात् ।
प्रतिवर्णं त्व् असौ नास्ति पदस्यार्थम् अतो विदुः ॥ २।५३ ॥

यथा सावयवा वर्णा विना वाच्येन केन चित् ।
अर्थवन्तः समुदिता वाक्यम् अप्य् एवम् इष्यते ॥ २।५४ ॥

अनर्थकान्य् अपायत्वात् पदार्थेनार्थवन्ति वा ।
क्रमेणोच्चरितान्य् आहुर् वाक्यार्थं भिन्नलक्षणम् ॥ २।५५ ॥

नित्यत्वे समुदायानां जातेर् वा परिकल्पने ।
एकस्यैकार्थताम् आहुर् वाक्यस्याव्यभिचारिणीम् ॥ २।५६ ॥

अभेदपूर्वका भेदाः कल्पिता वाक्यवादिभिः ।
भेदपूर्वान् अभेदांस् तु मन्यन्ते पददर्शिनः ॥ २।५७ ॥

पदप्रकृतिभावश् च वृत्तिभेदेन वर्ण्यते ।
पदानां संहिता योनिः संहिता वा पदाश्रया ॥ २।५८ ॥

पदाम्नायश् च यद्य् अन्यः संहिताया निदर्शकः ।
नित्यस् तत्र कथं कार्यं पदं लक्षणदर्शनात् ॥ २।५९ ॥

प्रतिवर्णम् असंवेद्यः पदार्थप्रत्ययो यथा ।
पदेष्व् एवम् असंवेद्यं वाक्यार्थस्य निरूपणम् ॥ २।६० ॥

वाक्यार्थः सन्निविशते पदेषु सहवृत्तिषु ।
यथा तथैव वर्णेषु पदार्थः सहवृत्तिषु ॥ २।६१ ॥

सूक्ष्मं ग्राह्यं यथान्येन संसृष्टं सह गृह्यते ।
वर्णो ऽप्य् अन्येन वर्णेन सम्बद्धो वाचकस् तथा ॥ २।६२ ॥

पदस्योच्चारणाद् अर्थो यथा कश् चिन् निरूप्यते ।
वर्णानाम् अपि सान्निध्यात् तथा सो ऽर्थः प्रतीयते ॥ २।६३ ॥

प्राप्तस्य यस्य सामर्थ्यान् नियमार्था पुनः श्रुतिः ।
तेनात्यन्तं विशेषेण सामान्यं यदि बाध्यते ॥ २।६४ ॥

यजेतेति ततो द्रव्यं प्राप्तं सामर्थ्यलक्षणम् ।
व्रीहिश्रुत्या निवर्तेत न स्यात् प्रतिनिधिस् तथा ॥ २।६५ ॥

तस्माद् व्रीहित्वम् अधिकं व्रीहिशब्दः प्रकल्पयेत् ।
द्रव्यत्वम् अविरुद्धत्वात् प्राप्त्यर्थः सन् न बाधते ॥ २।६६ ॥

तेन चापि व्यवच्छिन्ने द्रव्यत्वे सहचारिणि ।
असम्भवाद् विसेषाणं तत्रान्येषम् अदर्सनम् ॥ २।६७ ॥

न च सामान्यवत् सर्वे क्रियाशब्देन लक्षिताः ।
विशेषा न हि सर्वेषां सतां शब्दो ऽभिधायकः ॥ २।६८ ॥

शुक्लादयो गुणाः सन्तो यथा तत्राविवक्षिताः ।
तथाविवक्षा भेदानं द्रव्यत्वसहचारिणाम् ॥ २।६९ ॥

असन्निधौ प्रतिनिधिर् मा भून् नित्यस्य कर्मणः ।
काम्यस्य वा प्रवृत्तस्य लोप इत्य् उपपद्यते ॥ २।७० ॥

विशिष्टैव क्रिया येन वाक्यार्थः परिकल्प्यते ।
द्रव्याभावे प्रतिनिधौ तस्य तत् स्यात् क्रियान्तरम् ॥ २।७१ ॥

निर्ज्ञातार्थं पदं यच् च तदर्थे प्रतिपादिते ।
पिकादि यद् अविज्ञातं तत् किम् इत्य् अनुयुज्यते ॥ २।७२ ॥

सामर्थ्यप्रापितं यच् च व्यक्त्यर्थम् अनुषज्यते ।
श्रुतिर् एवानुषङ्गेण बाधिका लिङ्गवाक्ययोः ॥ २।७३ ॥

अप्राप्तो यस् तु शुक्लादिः सन्निधानेन गम्यते ।
स यत्नप्रापितो वाक्ये श्रुतिधर्मविलक्षणः ॥ २।७४ ॥

अभिन्नम् एव वाक्यं तु यद्य् अभिन्नार्थम् इष्यते ।
तत् सर्वं श्रुतिभूतत्वान् न श्रुत्यैव विरोत्स्यते ॥ २।७५ ॥

वाक्यानां समुदायश् च य एकार्थप्रसिद्धये ।
साकाङ्क्षावयवस् तत्र वाक्यार्थो ऽपि न विद्यते ॥ २।७६ ॥

प्रासङ्गिकम् इदं कार्यम् इदं तन्त्रेण लभ्यते ।
इदम् आवृत्तिभेदाभ्याम् अत्र बाधसमुच्चयौ ॥ २।७७ ॥

ऊहो ऽस्मिन् विषये न्याय्यः सम्बन्धो ऽस्य न बाध्यत् ।
सामान्यस्यातिदेशो ऽयं विशेषो ऽत्रातिदिश्यते ॥ २।७८ ॥

अर्थित्वम् अत्र सामर्थ्यम् अस्मिन्न् अर्थो न भिद्यते ।
शास्त्रात् प्राप्ताधिकारो ऽयं व्युदासो ऽस्य क्रियान्तरे ॥ २।७९ ॥

इयं श्रुत्या क्रमप्राप्तिर् इयम् उच्चारणाद् इति ।
क्रमो ऽयम् अत्र बलवान् अस्मिंस् तु न विवक्षितः ॥ २।८० ॥

इदं पराङ्गैः सम्बद्धम् अङ्गानाम् अप्रयोजकम् ।
प्रयोजकम् इदं तेषाम् अत्रेदं नान्तरीयकम् ॥ २।८१ ॥

इदं प्रधानं शेषो ऽयं विनियोगक्रमस् त्व् अयम् ।
साक्षाद् अस्योपकारीदम् इदम् आराद् विशेषकम् ॥ २।८२ ॥

शक्तिव्यापारभेदो ऽस्मिन् फलम् अत्र तु भिद्यते ।
सम्बन्धाज् ज्ञानभेदो ऽयं भेदस् तत्राविवक्षितः ॥ २।८३ ॥

प्रसज्यप्रतिषेधो ऽयं पर्युदासो ऽयम् अत्र तु ।
इदं गौणम् इदं मुख्यं व्यापीदं गुरु लघ्व् इदम् ॥ २।८४ ॥

भेदेनाङ्गाङ्गिभावो ऽस्य बहुधेदं विकल्प्यते ।
इदं नियम्यते ऽस्यात्र योग्यत्वम् उपजायते ॥ २।८५ ॥

अस्य वाक्यान्तरे दृष्टाल् लिङ्गाद् भेदो ऽनुमीयते ।
अयं शब्दैर् अपोद्धृत्य पदार्थः प्रविभज्यते ॥ २।८६ ॥

इति वाक्येषु ये धर्माः पदार्थोपनिबन्धनाः ।
ते सर्वे न प्रकल्पेरन् पदं चेत् स्याद् अवाचकम् ॥ २।८७ ॥

अविभक्ते ऽपि वाक्यार्थे शक्तिभेदाद् अपोद्धृते ।
वाक्यान्तरविभागेन यथोक्तं न विरुध्यते ॥ २।८८ ॥

यथैवैकस्य गन्धस्य भेदेन परिकल्पना ।
पुष्पादिषु तथा वाक्ये ऽप्य् अर्थभेदो ऽभिधीयते ॥ २।८९ ॥

गवये नरसिंहे चाप्य् एकज्ञानादृते यथा ।
भागं जात्यन्तरस्यैव सदृशं प्रतिपद्यते ॥ २।९० ॥

अप्रसिद्धं तु यं भागम् अदृष्टम् अनुपश्यति ।
तावत्य् असंविदं मूढः सर्वत्र प्रतिपद्यते ॥ २।९१ ॥

तथा पिकादियोगेन वाक्ये ऽत्यन्तविलक्षणे ।
सदृशस्यैव सञ्ज्ञानम् असतो ऽर्थस्य मन्यते ॥ २।९२ ॥

एकस्य भागे सादृश्यं भागे भेदश् च लक्ष्यते ।
निर्भागस्य प्रकाशस्य निर्भागेणैव चेतसा ॥ २।९३ ॥

तथैव भागे सादृश्यं भागे भेदो ऽवसीयते ।
भागाभावे ऽपि वाक्यानाम् अत्यन्तं भिन्नधर्मणाम् ॥ २।९४ ॥

रूपनाशे पदानां स्यात् कथं चावधिकल्पना ।
अगृहीतावधौ शब्दे कथं चार्थो विविच्यते ॥ २।९५ ॥

संसर्ग इव रूपाणां शब्दे ऽन्यत्र व्यवस्थितः ।
नानारूपेषु तद् रूपं तन्त्रेणापरम् इष्यते ॥ २।९६ ॥

तस्मिन्न् अभेदे भेदानां संसर्ग उपवर्तते ।
रूपं रूपान्तरात् तस्माद् अनन्यत् प्रविभज्यते ॥ २।९७ ॥

शास्त्रे प्रत्यायकस्यापि क्व चिद् एकत्वम् आश्रितम् ।
प्रत्याय्येन क्व चिद् भेदो ग्रहणग्राह्ययोः स्थितः ॥ २।९८ ॥

ऊ इत्य् अभेदम् आश्रित्य यथासङ्ख्यं प्रकल्पितम् ।
लृलुटोर् ग्रहणे भेदो ग्राह्याभ्यां सह कल्पितः ॥ २।९९ ॥

यस्येत्य् एतद् अणो रूपं सञ्ज्ञिनाम् अभिधायकम् ।
न हि प्रतीयमानेन ग्रहणस्यास्ति सम्भवः ॥ २।१०० ॥

ऊ इत्य् एतद् अभिन्नं च भिन्नवाक्यनिबन्धनम् ।
भेदेन ग्रहणं यस्य पररूपम् इव द्वयोः ॥ २।१०१ ॥

प्लुतस्याङ्गविवृद्धिं च समाहारम् अचोस् तथा ।
व्युदस्यता पुनर् भेदः शब्देष्व् अत्यन्तम् आश्रितः ॥ २।१०२ ॥

अर्धर्चादिषु शब्देषु रूपभेदः क्रमाद् यथा ।
तन्त्रात् तथैकशब्दत्वे भिन्नानां श्रुतिर् अन्यथा ॥ २।१०३ ॥

संहिताविषये वर्णाः स्वरूपेणाविकारिणः ।
शब्दान्तरत्वं यान्तीव शक्त्यन्तरपरिग्रहात् ॥ २।१०४ ॥

इन्द्रियादिविकारेण दृष्टं ग्राह्येषु वस्तुषु ।
आत्मत्यागाद् ऋते भिन्नं ग्रहणं स क्रमः श्रुतौ ॥ २।१०५ ॥

अभिधानक्रियाभेदाच् छब्देष्व् अविकृतेष्व् अपि ।
रूपम् अत्यन्तभेदेन तद् एवैकं प्रकाशते ॥ २।१०६ ॥

ऋचो वा गीतिमात्रं वा साम द्रव्यान्तरं न तु ।
गीतिभेदात् तु गृह्यन्ते ता एव विकृता ऋचः ॥ २।१०७ ॥

उपायाच् छ्रुतिसंहारे भिन्नानाम् एकशेषिणाम् ।
अन्त्रेणोच्चारणे तेषां शास्त्रे साधुत्वम् उच्यते ॥ २।१०८ ॥

परिगृह्य श्रुतिं चैकां रूपभेदवताम् अपि ।
तन्त्रेणोच्चारणं कार्यम् अन्यथा ते न साधवः ॥ २।१०९ ॥

सरूपाणां च वाक्यानां शास्त्रेणाप्रतिपादितम् ।
तन्त्रेणोच्चारणाद् एकं रूपं साधूपलभ्यते ॥ २।११० ॥

एकस्यानेकरूपत्वं नालिकादिपरिग्रहात् ।
यथा तथैव तन्त्रात् स्याद् बहूनाम् एकरूपता ॥ २।१११ ॥

यथा पदसरूपाणां वाक्यानां सम्भवः पृथक् ।
तथा वाक्यान्तराभावे स्याद् एषां पृथगर्थता ॥ २।११२ ॥

अभिधेयः पदस्यार्थो वाक्यस्यार्थः प्रयोजनम् ।
यस्य तस्य न सम्बन्धो वाक्यानाम् उपपद्यते ॥ २।११३ ॥

तत्र क्रियापदान्य् एव व्यपेक्षन्ते परस्परम् ।
क्रियापदानुषक्तस् तु सम्बन्धो ऽथ प्रतीयते ॥ २।११४ ॥

आवृत्तिर् अनुवादो वा पदार्थव्यक्तिकल्पने ।
प्रत्येकं तु समाप्तो ऽर्थः सहभूतेषु वर्तते ॥ २।११५ ॥

अविकल्पितवाक्यार्थे विकल्पा भावनाश्रयाः ।
अत्राधिकरणे वादाः पूर्वेषां बहुधा मताः ॥ २।११६ ॥

अभ्यासात् प्रतिभाहेतुः सर्वः शब्दो ऽपरैः स्मृतः ।
बालानां च तिरश्चां च यथार्थप्रतिपादने ॥ २।११७ ॥

अनागमश् च सो ऽभ्यासः समयः कैश् चिद् इष्यते ।
अनन्तरम् इदं कार्यम् अस्माद् इत्य् उपदर्शकः ॥ २।११८ ॥

अस्त्य् अर्थः सर्वशब्दानां इति प्रत्याय्यलक्षणम् ।
अपूर्वदेवतास्वर्गैः समम् आहुर् गवादिषु ॥ २।११९ ॥

प्रयोगदर्शनाभ्यासाद् आकारावग्रहस् तु यः ।
न स शब्दस्य विषयः स हि यत्नान्तराश्रयः ॥ २।१२० ॥

के चिद् भेदाः प्रकाश्यन्ते शब्दैस् तदभिधायिभिः ।
अनुनिष्पादिनः कांश् चिच् छब्दार्थान् इति मन्यते ॥ २।१२१ ॥

जातेः प्रत्यायके शब्दे या व्यक्तिर् अनुषङ्गिणी ।
न तद्व्यक्तिगतान् भेदाञ् जातिशब्दो ऽवलम्बते ॥ २।१२२ ॥

घटादीनां न चाकारान् प्रत्याययति वाचकः ।
वस्तुमात्रनिवेशित्वात् तद्गतिर् नान्तरीयका ॥ २।१२३ ॥

क्रिया विना प्रयोगेण न दृष्टा शब्दचोदिता ।
प्रयोगस् त्व् अनुनिष्पादी शब्दार्थ इति गम्यते ॥ २।१२४ ॥

नियतास् तु प्रयोगा ये नियतं यच् च साधनम् ।
तेषां शब्दाभिधेयत्वम् अपरैर् अनुगम्यते ॥ २।१२५ ॥

समुदायो ऽभिधेयो वाप्य् अविकल्पसमुच्चयः ।
असत्यो वापि संसर्गः शब्दार्थः कैश् चिद् इष्यते ॥ २।१२६ ॥

असत्योपाधि यत् सत्यं तद् वा शब्दनिबन्धनाम् ।
शब्दो वाप्य् अभिजल्पत्वम् आगतो याति वाच्यतं ॥ २।१२७ ॥

सो ऽयम् इत्य् अभिसम्बन्धाद् रूपम् एकीकृतं यदा ।
शब्दस्यार्थेन तं शब्दम् अभिजल्पं प्रचक्षते ॥ २।१२८ ॥

तयोर् अपृथगात्मत्वे रूढिर् अव्यभिचारिणी ।
किं चिद् एव क्व चिद् रूपं प्राधान्येनावतिष्ठते ॥ २।१२९ ॥

लोके ऽर्थरूपतां शब्दः प्रतिपन्नः प्रवर्तते ।
शास्त्रे तूभयरूपत्वं प्रविभक्तं विवक्षया ॥ २।१३० ॥

अशक्तेः सर्वशक्तेर् वा शब्दैर् एव प्रकल्पिता ।
एकस्यार्थस्य नियता क्रियादिपरिकल्पना ॥ २।१३१ ॥

यो वार्थो बुद्धिविषयो बाह्यवस्तुनिबन्धनः ।
स बाह्यं वस्त्व् इति ज्ञातः शब्दार्थ इति गम्यते ॥ २।१३२ ॥

आकारवन्तः संवेद्या व्यक्तिस्मृतिनिबन्धनाः ।
एते प्रत्यवभासन्ते संविन्मात्रं त्व् अतो ऽन्यथा ॥ २।१३३ ॥

यथेन्द्रियं सन्निपतद् वैचित्र्येणोपदर्शकम् ।
तथैव शब्दाद् अर्थस्य प्रतिपत्तिर् अनेकधा ॥ २।१३४ ॥

वक्त्रान्यथैव प्रक्रान्तो भिन्नेषु प्रतिपत्तृषु ।
स्वप्रत्ययानुकारेण शब्दार्थः प्रविभज्यते ॥ २।१३५ ॥

अस्मिन्न् अपि दृश्ये ऽर्थे दर्शनं भिद्यते पृथक् ।
कालान्तरेण चैको ऽपि तं पश्यत्य् अन्यथा पुनः ॥ २।१३६ ॥

एकस्यापि च शब्दस्य निमित्तैर् अव्यवस्थितैः ।
एकेन बहुभिश् चार्थो बहुधा परिकल्प्यते ॥ २।१३७ ॥

तस्माद् अदृष्टतत्त्वानां सापराधं बहुच्छलम् ।
दर्शनं वचनं वापि नित्यम् एवानवस्थितम् ॥ २।१३८ ॥

ऋषीणां दर्शनं यच् च तत्त्वे किं चिद् अवस्थितम् ।
न तेन व्यवहारो ऽस्ति न तच् छब्दनिबन्धनम् ॥ २।१३९ ॥

तलवद् दृश्यते व्योम खद्योतो हव्यवाड् इव ।
नैव चास्ति तलं व्योम्नि न खद्योते हुताशनः ॥ २।१४० ॥

तस्मात् प्रत्यक्षम् अप्य् अर्थं विद्वान् ईक्षेत युक्तितः ।
न दर्शनस्य प्रामाण्याद् दृश्यम् अर्थं प्रकल्पयेत् ॥ २।१४१ ॥

असमाख्येयतत्त्वानाम् अर्थानां लौकिकैर् यथा ।
व्यवहारे समाख्यानं तत् प्रज्ञो न विकल्पयेत् ॥ २।१४२ ॥

विच्छेदग्रहणे ऽर्थानां प्रतिभान्यैव जायते ।
वाक्यार्थ इति ताम् आहुः ē̃ पदार्थैर् उपपादिताम् ॥ २।१४३ ॥

इदं तद् इति सान्येषाम् अनाख्येया कथं च न ।
प्रत्यात्मवृत्ति सिद्धा सा कर्त्रापि न निरूप्यते ॥ २।१४४ ॥

उपश्लेषम् इवार्थानां सा करोत्य् अविचारिता ।
सार्वरूप्यम् इवापन्ना विषयत्वेन वर्तते ॥ २।१४५ ॥

साक्षाच् छब्देन जनितां भावनानुगमेन वा ।
इतिकर्तव्यतायां तां न कश् चिद् अतिवर्तते ॥ २।१४६ ॥

प्रमाणत्वेन तां लोकः सर्वः समनुगच्छति ।
समारम्भाः प्रतायन्ते तिरश्चाम् अपि तद्वशात् ॥ २।१४७ ॥

यथा द्रव्यविशेषाणां परिपाकैर् अयत्नजाः ।
मदादिशक्तयो दृष्टाः प्रतिभास् तद्वतां तथा ॥ २।१४८ ॥

स्वरवृत्तिं विकुरुते मधौ पुंस्कोकिलस्य कः ।
जन्त्वादयः कुलायादि- करणे शिक्षिताः कथम् ॥ २।१४९ ॥

आहारप्रीत्यपद्वेष- प्लवनादिक्रियासु कः ।
जात्यन्वयप्रसिद्धासु प्रयोक्ता मृगपक्षिणाम् ॥ २।१५० ॥

भावनानुगताद् एतद् आगमाद् एव जायते ।
आसत्तिविप्रकर्षाभ्याम् आगमस् तु विशिष्यते ॥ २।१५१ ॥

स्वभाववरणाभ्यास- योगादृष्टोपपादिताम् ।
विशिष्टोपहितां चेति प्रतिभां षड्विधां विदुः ॥ २।१५२ ॥

यथा संयोगिभिर् द्रव्यैर् लक्षिते ऽर्थे प्रयुज्यते ।
गोशब्दो न त्व् असौ तेषां विशेषाणां प्रकाशकः ॥ २।१५३ ॥

आकारवर्णावयवैः संसृष्टेषु गवादिषु ।
शब्दः प्रवर्तमानो ऽपि न तान् अङ्गीकरोत्य् असौ ॥ २।१५४ ॥

संस्थानवर्णावयवैर् विशिष्टे ऽर्थे प्रयुज्यते ।
शब्दो न तस्यावयवे प्रवृत्तिर् उपलभ्यते ॥ २।१५५ ॥

दुर्लभं कस्य चिल् लोके सर्वावयवदर्शनम् ।
कैश् चित् त्व् अवयवैर् दृष्टैर् अर्थः कृत्स्नो ऽनुमीयते ॥ २।१५६ ॥

तथा जात्युत्पलादीनां गन्धेन सहचारिणाम् ।
नित्यसम्बन्धिनां दृष्टं गुणानाम् अवधारणम् ॥ २।१५७ ॥

सङ्ख्याप्रमाणसंस्थान- निरपेक्षः प्रवर्तते ।
बिन्दौ च समुदाये च वाचकः सलिलादिषु ॥ २।१५८ ॥

संस्कारादिपरिच्छिन्ने तैलादौ यो व्यवस्थितः ।
आहैकदेशं तत्त्वेन तस्यावयववर्तिना ॥ २।१५९ ॥

येनार्थेनाभिसम्बद्धम् अभिधानं प्रयुज्यते ।
तदर्थापगमे तस्य प्रयोगो विनिवर्तते ॥ २।१६० ॥

यांस् तु सम्भविनो धर्मान् अन्तर्णीय प्रयुज्यते ।
शब्दस् तेषां न सान्निध्यं नियमेन व्यपेक्षते ॥ २।१६१ ॥

यथा रोमशफादीनां व्यभिचारे ऽपि दृश्यते ।
गोशब्दो न तथा जातेर् विप्रयोगे प्रवर्तते ॥ २।१६२ ॥

तस्मात् सम्भविनो ऽर्थस्य शब्दात् सम्प्रत्यये सति ।
अदृष्टविप्रयोगार्थः सम्बन्धित्वेन गम्यते ॥ २।१६३ ॥

वाचिका द्योतिका वा स्युर् द्वित्वादीनां विभक्तयः ।
स्याद् वा सङ्ख्यावतो ऽर्थस्य समुदायो ऽभिधायकः ॥ २।१६४ ॥

विना सङ्ख्याभिधानाद् वा सङ्ख्याभेदसमन्वितान् ।
अर्थान् स्वरूपभेदेन कांश् चिद् आहुर् गवादयः ॥ २।१६५ ॥

ये शब्दा नित्यसम्बन्धा विवेके ज्ञातशक्तयः ।
अन्वयव्यतिरेकाभ्यां तेषाम् अर्थो विभज्यते ॥ २।१६६ ॥

यावच् चाव्यभिचारेण तयोः शक्यं प्रकल्पनम् ।
नियमस् तत्र न त्व् एवं नियमो नुट्शबादिषु ॥ २।१६७ ॥

सम्भवे नाभिधानस्य लक्यणत्वं प्रकल्पते ।
आपेक्षिक्यो हि संसर्गे नियताः शब्दशक्तयः ॥ २।१६८ ॥

कूपसूपयूपानाम् अन्वयो ऽर्थस्य दृश्यते ।
अतो ऽर्थान्तरवाचित्वं सङ्घातस्यैव गम्यते ॥ २।१६९ ॥

अन्वाख्यानानि भिद्यन्ते शब्दव्युत्पत्तिकर्मसु ।
बहूनां सम्भवे ऽर्थानां निमित्तं किं चिद् इष्यते ॥ २।१७० ॥

वैरवासिष्ठगिरिशास् तथैकागारिकाद यः ।
कैश् चित् कथं चिद् आख्याता निमित्तावधिसङ्करैः ॥ २।१७१ ॥

यथा पथः समाख्यानं वृक्षवल्मीकपर्वतैः ।
अविरुद्धं गवादीनां भिन्नैश् च सहचारिभिः ॥ २।१७२ ॥

अन्यथा च समाख्यानम् अवस्थाभेददर्शिभिः ।
क्रियते किंशुकादीनाम् एकदेशावधारणम् ॥ २।१७३ ॥

कैश् चिन् निर्वचनं भिन्नं गिरतेर् गर्जतेर् गमेः ।
गवतेर् गदतेर् वापि गौर् इत्य् अत्रानुदर्शितम् ॥ २।१७४ ॥

गौर् इत्य् एव स्वरूपाद् वा गोशब्दो गोषु वर्तते ।
व्युत्पाद्यते न वा सर्वं कैश् चिच् चोभयथेष्यते ॥ २।१७५ ॥

सामान्येनोपदेशश् च शास्त्रे लघ्वर्थम् आश्रितः ।
जात्यन्तरवद् अन्यस्य विशेषाः प्रतिपादकाः ॥ २।१७६ ॥

अर्थान्तरे च यद् वृत्तं तत् प्रकृत्यन्तरं विदुः ।
तुल्यरूपं न तद् रूढाव् अन्यस्मिन्न् अनुषज्यते ॥ २।१७७ ॥

भिन्नाव् इजियजी धातू नियतौ विषयान्तरे ।
कैश् चित् कथं चिद् उद्दिष्टौ चित्रं हि प्रतिपादनम् ॥ २।१७८ ॥

एवं च वालवायादि जित्वरीवद् उपाचरेत् ।
भेदाभेदाभ्युपगमे न विरोधो ऽस्ति कश् च न ॥ २।१७९ ॥

अडादीनां व्यवस्थार्थं पृथक्त्वेन प्रकल्पनम् ।
धातूपसर्गयोः शास्त्रे धातुर् एव तु तादृशः ॥ २।१८० ॥

तथा हि सङ्ग्रामयतेः सोपसर्गाद् विधिः स्मृतः ।
क्रियाविशेषाः सङ्घाते प्रक्रम्यन्ते तथाविधाः ॥ २।१८१ ॥

कार्याणाम् अन्तरङ्गत्वम् एवं धातूपसर्गयोः ।
साधनैर् याति सम्बन्धं तथाभूतैव सा क्रिया ॥ २।१८२ ॥

प्रयोगार्हेषु सिद्धः सन् भेत्तव्यो ऽर्थो विशिष्यते ।
प्राक् च साधनसम्बन्धात् क्रिया नैवोपजायते ॥ २।१८३ ॥

धातोः साधनयोगस्य भाविनः प्रक्रमाद् यथा ।
धातुत्वं कर्मभावश् च तथान्यद् अपि दृश्यताम् ॥ २।१८४ ॥

बीजकालेषु सम्बन्धाद् यथा लाक्षारसादयः ।
वर्णादिपरिणामेन फलानाम् उपकुर्वते ॥ २।१८५ ॥

बुद्धिस्थाद् अभिसम्बन्धात् तथा धातूपसर्गयोः ।
अभ्यन्तरीकृताद् भेदः पदकाले प्रकाशते ॥ २।१८६ ॥

क्व चित् सम्भविनो भेदाः केवलैर् अनिदर्शिताः ।
उपसर्गेण सम्बन्धे व्यज्यन्ते प्रनिरादिना ॥ २।१८७ ॥

स वाचको विशेषाणां सम्भवाद् द्योतको ऽपि वा ।
शक्त्याधानाय वा धातोः सहकारी प्रयुज्यते ॥ २।१८८ ॥

स्थादिभिः केवलैर् यच् च गमनादि न गम्यते ।
तत्रानुमानाद् द्विविधात् तद्धर्मा प्रादिर् उच्यते ॥ २।१८९ ॥

अप्रयोगे ऽधिपर्योश् च यावद् दृष्टं क्रियान्तरम् ।
तस्याभिधायको धातुः सह ताभ्याम् अनर्थकः ॥ २।१९० ॥

तथैव स्वार्थिकाः के चित् सङ्घातान्तरवृत्तयः ।
अनर्थकेन संसृष्टाः प्रकृत्यर्थानुवादिनः ॥ २।१९१ ॥

निपाता द्योतकाः के चित् पृथगर्थप्रकल्पने ।
आगमा इव के चित् तु सम्भूयार्थस्य साधकाः ॥ २।१९२ ॥

उपरिष्टात् पुरस्ताद् वा द्योतकत्वं न भिद्यते ।
तेषु प्रयुज्यमानेयु भिन्नार्थेष्व् अपि सर्वथा ॥ २।१९३ ॥

चादयो न प्रयुज्यन्ते पदत्वे सति केवलाः ।
प्रत्ययो वाचकत्वे ऽपि केवलो न प्रयुज्यते ॥ २।१९४ ॥

समुच्चिताभिधाने तु व्यतिरेको न विद्यते ।
असत्त्वभूतो भावश् च तिङ्पदैर् अभिधीयते ॥ २।१९५ ॥

समुच्चिताभिधाने ऽपि विशिष्टार्थाभिधायिनाम् ।
गुणैः पदानां सम्बन्धः परतन्त्रास् तु चादयः ॥ २।१९६ ॥

जनयित्वा क्रिया का चित् सम्बन्धं विनिवर्तते ।
श्रूयमाणे क्रियाशब्दे सम्बन्धो जायते क्व चित् ॥ २।१९७ ॥

तत्र षष्थी प्रतिपदं समासस्य निवृत्तये ।
विहिता दर्शनार्थं तु कारकं प्रत्युदाहृतम् ॥ २।१९८ ॥

स चोपजातः सम्बन्धो विनिवृत्ते क्रियापदे ।
कर्मप्रवचनीयेन तत्र तत्र नियम्यते ॥ २।१९९ ॥

येन क्रियापदाक्षेपः स कारकविभक्तिभिः ।
युज्यते विर् यथा तस्य लिखाव् अनुपसर्गता ॥ २।२०० ॥

तिष्ठतेर् अप्रयोगश् च दृष्टो ऽप्रत्य् अजयन्न् इति ।
सुन्व् अभीत्य् आभिमुख्ये च केवलो ऽपि प्रयुज्यते ॥ २।२०१ ॥

कर्मप्रवचनीयत्वं क्रियायोगे विधीयते ।
षत्वादिविनिवृत्त्यर्थं स्वत्यादीनां विधर्मणाम् ॥ २।२०२ ॥

हेतुहेतुमतोर् योग- परिच्छेदे ऽनुना कृते ।
आरम्भाद् बाध्यते प्राप्ता तृतीया हेतुलक्षणा ॥ २।२०३ ॥

क्रियाया द्योतको नायं न सम्बन्धस्य वाचकः ।
नापि क्रियापदाक्षेपी सम्बन्धस्य तु भेदकः ॥ २।२०४ ॥

अनर्थकानां सङ्घातः सार्थको ऽनर्थकस् तथा ।
वर्णानां पदम् अर्थेन युक्तं नावयवाः पदे ॥ २।२०५ ॥

पदानाम् अर्थयुक्तानां सङ्घातो भिद्यते पुनः ।
अर्थान्तरावबोधेन सम्बन्धविगमेन च ॥ २।२०६ ॥

सार्थकानर्थकौ भेदे सम्बन्धं नाधिगच्छतः ।
अधिगच्छत इत्य् एके कुटीरादिनिदर्शनात् ॥ २।२०७ ॥

अर्थवद्भ्यो विशिष्टार्थः सङ्घात उपजायते ।
नोपजायत इत्य् एके समासस्वार्थिकादिषु ॥ २।२०८ ॥

के चिद् धि युतसिद्धार्था भेदे निर्ज्ञातशक्तयः ।
अन्वयव्यतिरेकाभ्यां के चित् कल्पितशक्तयः ॥ २।२०९ ॥

शास्त्रार्थ एव वर्णानाम् अर्थवत्त्वे प्रदर्शितः ।
आत्वादीनां हि शुद्धानां लौकिको ऽर्थो न विद्यते ॥ २।२१० ॥

कृत्तद्धितानाम् अर्थश् च केवलानाम् अलौकिकः ।
प्राग् विभक्तेस् तदन्तस्य तथैवार्थो न विद्यते ॥ २।२११ ॥

अभिव्यक्ततरो यो ऽर्थः प्रत्ययान्तेषु लक्ष्यते ।
अर्थवत्ताप्रकरणाद् आश्रितः स तथाविधः ॥ २।२१२ ॥

आत्मभेदो न चेत् कश् चिद् वर्णेभ्यः पदवाक्ययोः ।
अन्योन्यापेक्षया शक्त्या वर्णः स्याद् अभिधायकः ॥ २।२१३ ॥

वर्णेन केन चिन् न्यूनः सङ्घातो यो ऽभिधायकः ।
न चेच् छब्दान्तरम् असाव् अन्यूनस् तेन गम्यते ॥ २।२१४ ॥

स तस्मिन् वाचके शब्दे निमित्तात् स्मृतिम् आदधत् ।
साक्षाद् इव व्यवहितं शब्देनार्थम् उपोहते ॥ २।२१५ ॥

पदवाच्यो यथा नार्थः कश् चिद् गौरखरादिषु ।
सत्य् अपि प्रत्यये ऽत्यन्तं समुदाये न गम्यते ॥ २।२१६ ॥

समन्वित इवार्थात्मा पदार्थैर् यः प्रतीयते ।
पदार्थदर्शनं तत्र तथैवानुपकारकम् ॥ २।२१७ ॥

समुदायावयवयोर् भिन्नार्थत्वे च वृत्तिषु ।
युगपद् भेदसंसर्गौ विरुद्धाव् अनुषङ्गिणौ ॥ २।२१८ ॥

कश् च साधनमात्रार्थान् अध्यादीन् परिकल्पयेत् ।
अप्रयुक्तपदश् चार्थो बहुव्रीहौ कथं भवेत् ॥ २।२१९ ॥

प्रज्ञुसञ्ज्ञ्वाद्यवयवैर् न चास्त्य् अर्थावधारणम् ।
तस्मात् सङ्घात एवैको विशिष्टार्थनिबन्धनम् ॥ २।२२० ॥

गर्गा इत्य् एक एवायं बहुष्व् अर्थेषु वर्तते ।
द्वन्द्वसञ्ज्ञो ऽपि सङ्घातो बहूनाम् अभिधायकः ॥ २।२२१ ॥

यथैकशेषे भुज्यादिः प्रत्येकम् अवतिष्ठते ।
क्रियैवं द्वन्द्ववाच्ये ऽर्थे प्रत्येकं प्रविभज्यते ॥ २।२२२ ॥

यच् च द्वन्द्वपदार्थस्य तच्छब्देन व्यपेक्षणम् ।
सापि व्यावृत्तरूपे ऽर्थे सर्वनामसरूपता ॥ २।२२३ ॥

यथा च खदिरच्छेदे भागेषु क्रमवांश् छिदिः ।
तथा द्वन्द्वपदार्थस्य भागेषु क्रमदर्शनम् ॥ २।२२४ ॥

सङ्घैकदेशे प्रक्रान्तान् यथा सङ्घानुपातिनः ।
क्रियाविशेषान् मन्यन्ते स द्वन्द्वावयवे क्रमः ॥ २।२२५ ॥

प्रतिपादयता वृत्तिम् अबुधान् वाक्यपूर्विकाम् ।
वृत्तौ पदार्थभेदेन प्राधान्यम् उपदर्शितम् ॥ २।२२६ ॥

अभेदाद् अभिधेयस्य नञ्समासे विकल्पितम् ।
प्राधान्यं बहुधा भाष्ये दोषास् तु प्रक्रियागताः ॥ २।२२७ ॥

जहत्स्वार्थविकल्पे च सर्वार्थत्यागम् इच्छता ।
बहुव्रीहिपदार्थस्य त्यागः सर्वस्य दर्शितः ॥ २।२२८ ॥

शास्त्रे क्व चित् प्रकृत्यर्थः प्रत्ययेनाभिधीयते ।
प्रकृतौ विनिवृत्तायां प्रत्ययार्थश् च धातुभिः ॥ २।२२९ ॥

यम् अर्थम् आहतुर् भिन्नौ प्रत्ययाव् एक एव त ।
क्व चिद् आह पचन्तीति धातुस् ताभ्यां विना क्व चित् ॥ २।२३० ॥

अन्वाख्यानस्मृतेर् ये च प्रत्ययार्था निबन्धन ।
निर्दिष्टास् ते प्रकृत्यर्थाः स्मृत्यन्तर उदाहृताः ॥ २।२३१ ॥

प्रसिद्धेर् उद्वमिकरीत्य् एवं शास्त्रे ऽभिधीयते ।
व्यवहाराय मन्यन्ते शास्त्रार्थप्रक्रिया यतः ॥ २।२३२ ॥

शास्त्रेषु प्रक्रियाभेदैर् अविद्यैवोपवर्ण्यते ।
अनागमविकल्पा तु स्वयं विद्योपवर्तते ॥ २।२३३ ॥

अनिबद्धं निमित्तेषु निरुपाख्यं फलं यथा ।
तथा विद्याप्य् अनाख्येया शास्त्रोपायेव लक्ष्यते ॥ २।२३४ ॥

यथाभ्यासं हि वाग् अर्थे प्रतिपत्तिं समीहते ।
स्वभाव इव चानादिर् मिथ्याभ्यासो व्यवस्थितः ॥ २।२३५ ॥

उत्प्रेक्षते सावयवं परमाणुम् अपण्डितः ।
तथावयविनं युक्तम् अन्यैर् अवयवैः पुनः ॥ २।२३६ ॥

घटादिदर्शनाल्लोकः परिच्छिन्नो ऽवसीयते ।
समारम्भाच् च भावानाम् आदिमद् ब्रह्म शाश्वतम् ॥ २।२३७ ॥

उपायाः शिक्षमाणानां बालानाम् उपलापनाः ।
असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते ॥ २।२३८ ॥

अन्यथा प्रतिपद्यार्थं पदग्रहणपूर्वकम् ।
पुनर् वाक्ये तम् एवार्थम् अन्यथा प्रतिपद्यते ॥ २।२३९ ॥

उपात्ता बहवो ऽप्य् अर्था येष्व् अन्ते प्रतिषेधनम् ।
क्रियते ते निवर्तन्ते तस्मात् तांस् तत्र नाश्रयेत् ॥ २।२४० ॥

वृक्षो नास्तीति वाक्यं च विशिष्टाभावलक्षणम् ।
नार्थे न बुद्धौ सम्बन्धो निवृत्तेर् अवतिष्ठते ॥ २।२४१ ॥

विच्छेदप्रतिपत्तौ च यद्य् अस्तीत्य् अवधार्यते ।
अशब्दवाच्या सा बुद्धिर् निवर्त्येत स्थिता कथम् ॥ २।२४२ ॥

अथ यज् ज्ञानम् उत्पन्नं तन् मिथ्येति नञा कृतम् ।
नञो व्यापारभेदे ऽस्मिन्न् अभावावगतिः कथम् ॥ २।२४३ ॥

निराधारप्रवृत्तौ च प्राक्प्रवृत्तिर् नञो भवेत् ।
अथाधारः स एवास्य नियमार्था श्रुतिर् भवेत् ॥ २।२४४ ॥

नियमद्योतनार्था वाप्य् अनुवादो यथा भवेत् ।
कश् चिद् एवार्थवांस् तत्र शब्दः शेषास् त्व् अनर्थकाः ॥ २।२४५ ॥

विरुद्धं चाभिसम्बन्धम् उदाहार्यादिभिः कृतम् ।
वाक्ये समाप्ते वाक्यार्थम् अन्यथा प्रतिपद्यते ॥ २।२४६ ॥

स्तुतिनिन्दाप्रधानेटु वाक्येष्व् अर्थो न तादृशः ।
पदानां प्रविभागेन यादृशः परिकल्प्यते ॥ २।२४७ ॥

अथासंसृष्ट एवार्थः पदेषु समवस्थितः ।
वाक्यार्थस्याभ्युपायो ऽसाव् एकस्य प्रतिपादने ॥ २।२४८ ॥

पूर्वं पदेष्व् असंसृष्टो यः क्रमाद् उपचीयते ।
छिन्नग्रथितकल्पत्वात् तद् विशिष्टतरं विदुः ॥ २।२४९ ॥

एकम् आहुर् अनेकार्थं शब्दम् अन्ये परीक्षकाः ।
निमित्तभेदाद् एकस्य सार्वार्थ्यं तस्य भिद्यते ॥ २।२५० ॥

यौगपद्यम् अतिक्रम्य पर्याये व्यवतिष्ठते ।
अर्थप्रकरणाभ्यां वा योगाच् छब्दान्तरेण वा ॥ २।२५१ ॥

यथा सास्नादिमान् पिण्डो गोशब्देनाभिधीयते ।
तथा स एव गोशब्दो वाहीके ऽपि व्यवस्थितः ॥ २।२५२ ॥

सर्वशक्तेस् तु तस्यैव शब्दस्यानेकधर्मणः ।
प्रसिद्धिभेदाद् गौणत्वं मुख्यत्वं चोपजायते ॥ २।२५३ ॥

एको मन्त्रस् तथाध्यात्मम् अधिदैवम् अधिक्रतु ।
असङ्करेण सर्वार्थो भिन्नशक्तिर् अवस्थितः ॥ २।२५४ ॥

गोत्वानुषङ्गो वाहीके निमित्तात् कैश् चिद् इष्यते ।
अर्थमात्रं विपर्यस्तं शब्दः स्वार्थे व्यवस्थितः ॥ २।२५५ ॥

तथा स्वरूपं शब्दानां सर्वार्थेष्व् अनुषज्यते ।
अर्थमात्रं विपर्यस्तं स्वरूपे तु श्रुतिः स्थिता ॥ २।२५६ ॥

एकत्वं तु सरूपत्वाच् छब्दयोर् गौणमुख्ययोः ।
प्राहुर् अत्यन्तभेदे ऽपि भेदमार्गानुदर्शिनः ॥ २।२५७ ॥

सामिधेन्यन्तरं चैवम् आवृत्ताव् अनुषज्यते ।
मन्त्राश् च विनियोगेन लभन्ते भेदम् ऊहवत् ॥ २।२५८ ॥

तान्य् आम्नायान्तराण्य् एव पठ्यते किं चिद् एव तु ।
अनर्थकानां पाठो वा शेषस् त्व् अन्यः प्रतीयते ॥ २।२५९ ॥

शब्दस्वरूपम् अर्थस् तु पाठे ऽन्यैर् उपवर्ण्यते ।
अत्यन्तभेदः सर्वेषां तत्सम्बन्धात् तु तद्वताम् ॥ २।२६० ॥

अन्या संस्कारसावित्री कर्मण्यन्या प्रयुज्यते ।
अन्या जपप्रबन्धेषु सा त्व् एकैव प्रतीयते ॥ २।२६१ ॥

अर्थस्वरूपे शब्दानां स्वरूपाद् वृत्तिम् इच्छतः ।
वाक्यरूपस्य वाक्यार्थे वृत्तिर् अन्यानपेक्षया ॥ २।२६२ ॥

अनेकार्थत्वम् एकस्य यैः शब्दस्यानुगम्यते ।
सिद्ध्यसिद्धिकृता तेषां गौणमुख्यप्रकल्पना ॥ २।२६३ ॥

अर्थप्रकरणापेक्षो यो वा शब्दान्तरैः सह ।
युक्तः प्रत्याययत्य् अर्थं तं गौणम् अपरे विदुः ॥ २।२६४ ॥

शुद्धस्योच्चारणे स्वार्थः प्रसिद्धो यस्य गम्यते ।
स मुख्य इति विज्ञेयो रूपमात्रनिबन्धनः ॥ २।२६५ ॥

यस् त्व् अन्यस्य प्रयोगेण यत्नाद् इव नियुज्यते ।
तम् अप्रसिद्धं मन्यन्ते गौणार्थाभिनिवेशिनम् ॥ २।२६६ ॥

स्वार्थे प्रवर्तमानो ऽपि यस्यार्थं यो ऽवलम्बते ।
निमित्तं तत्र मुख्यं स्यान् निमित्ति गौण इष्यते ॥ २।२६७ ॥

पुराराद् इति भिन्ने ऽर्थे यौ वर्तेते विरोधिनि ।
अर्थप्रकरणापेक्षं तयोर् अप्य् अवधारणम् ॥ २।२६८ ॥

वाक्यस्यार्थात् पदार्थानाम् अपोद्धारे प्रकल्पिते ।
शब्दान्तरेण सम्बन्धः कस्यैकस्योपपद्यते ॥ २।२६९ ॥

यच् चाप्य् एकं पदं दृष्टं चरितास्तिक्रियं क्व चित् ।
तद् वाक्यान्तरम् एवाहुर् न तद् अन्येन युज्यते ॥ २।२७० ॥

यच् च को ऽयम् इति प्रश्ने गौर् अश्व इति चोच्यते ।
प्रश्न एव क्रिया तत्र प्रक्रान्ता दर्शनादिका ॥ २।२७१ ॥

नैवाधिकत्वं धर्माणां न्यूनता वा प्रयोजिका ।
आधिक्यम् अपि मन्यन्ते प्रसिद्धेर् न्यूनतां क्व चित् ॥ २।२७२ ॥

जातिशब्दो ऽन्तरेणापि जातिं यत्र प्रयुज्यते ।
सम्बन्धिसदृशाद् धर्मात् तं गौणम् अपरे विदुः ॥ २।२७३ ॥

विपर्यासाद् इवार्थस्य यत्रार्थान्तरताम् इव ।
मन्यन्ते स गवादिस् तु गौण इत्य् उच्यते क्व चित् ॥ २।२७४ ॥

नियताः साधनत्वेन रूपशक्तिसमन्विताः ।
यथा कर्मसु गम्यन्ते सीरासिमुसलादयः ॥ २।२७५ ॥

क्रियान्तरे न चैतेषां विभवन्ति न शक्तयः ।
रूपाद् एव तु तादर्थ्यं नियमेन प्रतीयते ॥ २।२७६ ॥

तथैव रूपशक्तिभ्याम् उत्पत्त्या समवस्थितः ।
शब्दो नियततादर्थ्यः शक्त्यान्यत्र प्रयुज्यते ॥ २।२७७ ॥

श्रुतिमात्रेण यत्रास्य सामर्थ्यम् अवसीयते ।
तं मुख्यम् अर्थं मन्यन्ते गौणं यत्नोपपादितम् ॥ २।२७८ ॥

गोयुष्मन्महतां च्व्यर्थे स्वार्थाद् अर्थान्तरे स्थितौ ।
अर्थान्तरस्य तद्भावस् तत्र मुख्यो ऽपि दृश्यते ॥ २।२७९ ॥

महत्त्वं शुक्लभावं च प्रकृतिः प्रतिपद्यते ।
भेदेनापेक्षिता सा तु गौणत्वस्य प्रसाधिका ॥ २।२८० ॥

अग्निसोमादयः शब्दा ये स्वरूपपदार्थकाः ।
सञ्ज्ञिभिः सम्प्रयुज्यन्ते ऽप्रसिद्धेस् तेषु गौणता ॥ २।२८१ ॥

अग्निदत्तस् तु यो ऽग्निः स्यात् तत्र स्वार्थोपसर्जनः ।
शब्दो दत्तार्थवृत्तित्वाद् गौणत्वं प्रतिपद्यते ॥ २।२८२ ॥

निमित्तभेदात् प्रक्रान्ते शब्दव्युत्पत्तिकर्मणि ।
हरिश्चन्द्रादिषु सुटो भावाभावौ व्यवस्थितौ ॥ २।२८३ ॥

ऋष्यादौ प्राप्तसंस्कारो यः शब्दो ऽन्येन युज्यते ।
तत्रान्तरङ्गसंस्कारो बाह्ये ऽर्थे न निवर्तते ॥ २।२८४ ॥

अत्यन्तविपरीतो ऽपि यथा यो ऽर्थो ऽवधार्यते ।
यथासम्प्रत्ययं शब्दस् तत्र मुख्यः प्रयुज्यते ॥ २।२८५ ॥

यद्य् अपि प्रत्ययाधीनम् अर्थतत्त्वावधारणम् ।
न सर्वः प्रत्ययस् तस्मिन् प्रसिद्ध इव जायते ॥ २।२८६ ॥

दर्शनं सलिले तुल्यं मृगतृष्णादिदर्शनैः ।
भेदात् तु स्पर्शनादीनां न जलं मृगतृष्णिका ॥ २।२८७ ॥

यद् असाधारणं कार्यं प्रसिद्धं रज्जुसर्पयोः ।
तेन भेदपरिच्छेदस् तयोस् तुल्ये ऽपि दर्शने ॥ २।२८८ ॥

प्रसिद्धार्थविपर्यास- निमित्तं यच् च दृश्यते ।
यस् तस्माल् लक्ष्यते भेदस् तम् असत्यं प्रचक्षते ॥ २।२८९ ॥

यच् च निम्नोन्नतं चित्रे सरूपं पर्वतादिभिः ।
न तत्र प्रतिघातादि कार्यं तद्वत् प्रवर्तते ॥ २।२९० ॥

स्पर्शप्रबन्धो हस्तेन यथा चक्रस्य सन्ततः ।
न तथालातचक्रस्य विच्छिन्नं स्पृश्यते हि तत् ॥ २।२९१ ॥

वप्रप्राकारकल्पैश् च स्पर्शनावरणे यथा ।
नगरेषु न ते तद्वद् गन्धर्वनगरेष्व् अपि ॥ २।२९२ ॥

मृगपश्वादिभिर् यावान् मुख्यैर् अर्थः प्रसाध्यत् ।
तावान् न मृन्मयेष्व् अस्ति तस्मात् ते विषयः कनः ॥ २।२९३ ॥

महान् आव्रियते देशः प्रसिद्धैः पर्वतादिभिः ।
अल्पदेशान्तरावस्थं प्रतिबिम्बं तु दृश्यते ॥ २।२९४ ॥

मरणादिनिमित्तं च यथा मुख्या विषादयः ।
न ते स्वप्नादिषु स्वस्य तद्वद् अर्थस्य साधकाः ॥ २।२९५ ॥

देशकालेन्द्रियगतैर् भेदैर् यद् दृश्यते ऽन्यथा ।
यथा प्रसिद्धिर् लोकस्य तथा तद् अवसीयते ॥ २।२९६ ॥

यच् चोपघातजं ज्ञानं यच् च ज्ञानम् अलौकिकम् ।
न ताभ्यां व्यवहारो ऽस्ति शब्दा लोकनिबन्धनाः ॥ २।२९७ ॥

घटादिषु यथा दीपो येनार्थेन प्रयुज्यते ।
ततो ऽन्यस्यापि सान्निध्यात् स करोति प्रकाशनम् ॥ २।२९८ ॥

संसर्गिषु तथार्थेषु शब्दो येन प्रयुज्यते ।
तस्मात् प्रयोजकाद् अन्यान् अपि प्रत्याययत्य् असौ ॥ २।२९९ ॥

निर्मन्थनं यथारण्योर् अग्न्यर्थम् उपपादितम् ।
धूमम् अप्य् अनभिप्रेतं जनयत्य् एकसाधनम् ॥ २।३०० ॥

तथा शब्दो ऽपि कस्मिंश् चित् प्रत्याय्ये ऽर्थे विवक्षिते ।
अविवक्षितम् अप्य् अर्थं प्रकाशयति सन्निधेः ॥ २।३०१ ॥

यथैवात्यन्तसंसृष्टस् त्यक्तुम् अर्थो न शक्यते ।
तथा शब्दो ऽपि सम्बन्धी प्रविवेक्तुं न शक्यते ॥ २।३०२ ॥

अर्थानां सन्निधाने ऽपि सति चैषां प्रकाशने ।
प्रयोजको ऽर्थः शब्दस्य रूपाभेदे ऽपि गम्यते ॥ २।३०३ ॥

क्व चिद् गुणप्रधानत्वम् अर्थानाम् अविवक्षितम् ।
क्व चित् सान्निध्यम् अप्य् एषां प्रतिपत्ताव् अकारणम् ॥ २।३०४ ॥

यच् चानुपात्तं शब्देन तत् कस्मिंश् चित् प्रतीयते ।
क्व चित् प्रधानम् एवार्थो भवत्य् अन्यस्य लक्षण ॥ २।३०५ ॥

आख्यातं तद्धितार्थस्य यत् किं चिद् उपदर्शकम् ।
गुणप्रधानभावस्य तत्र दृष्टो विपर्ययः ॥ २।३०६ ॥

निर्देशे लिङ्गसङ्ख्यानां सन्निधानम् अकारणम् ।
प्रमाणम् अर्धह्रस्वादाव् अनुपात्तं प्रतीयते ॥ २।३०७ ॥

ह्रस्वस्यार्धं च यद् दृष्टं तत् तस्यासन्निधाव् अपि ।
ह्रस्वस्य लक्षणार्थत्वात् तद्वद् एवाभिधीयते ॥ २।३०८ ॥

दीर्घप्लुताभ्यां तस्य स्यान् मात्रया वा विशेषणम् ।
जातेर् वा लक्षणाय स्यात् सर्वथा सप्तपर्णवत् ॥ २।३०९ ॥

गन्तव्यं दृश्यतां सूर्य इति कालस्य लक्षणे ।
ज्ञायतां काल इत्य् एतत् सोपायम् अभिधीयते ॥ २।३१० ॥

विध्यत्य् अधनुषेत्य् अत्र विशेषेण निदर्श्यते ।
सामान्यम् आश्रयः शक्तेर् यः कश् चित् प्रतिपादकः ॥ २।३११ ॥

काकेभ्यो रक्ष्यतां सर्पिर् इति बालो ऽपि चोदितः ।
उपघातपरे वाक्ये न श्वादिभ्यो न रक्षति ॥ २।३१२ ॥

प्रक्षालने शरावाणां स्थाननिर्मार्जनं तथा ।
अनुक्तम् अपि रूपेण भुज्यङ्गत्वात् प्रतीयते ॥ २।३१३ ॥

वाक्यात् प्रकरणाद् अर्थाद् औचित्याद् देशकालतः ।
शब्दार्थाः प्रविभज्यन्ते न रूपाद् एव केवलात् ॥ २।३१४ ॥

संसर्गो विप्रयोगश् च साहचर्यं विरोधिता ।
अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः ॥ २।३१५ ॥

सामर्थ्यम् औचिती देशः कालो व्यक्तिः स्वरादयः ।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ २।३१६ ॥

भेदपक्षे ऽपि सारूप्याद् भिन्नार्थाः प्रतिपत्तृषु ।
नियता यान्त्य् अभिव्यक्तिं शब्दाः प्रकरणादिभिः ॥ २।३१७ ॥

नामाख्यातसरूपा ये कार्यान्तरनिबन्धनाः ।
शब्दा वाक्यस्य तेष्व् अर्थो न रूपाद् अधिगम्यते ॥ २।३१८ ॥

या प्रवृत्तिनिवृत्त्यर्था स्तुतिनिन्दाप्रकल्पना ।
कुशलः प्रतिपत्ता ताम् अयथार्थां समीहते ॥ २।३१९ ॥

विधीयमानं यत् कर्म दृष्टादृष्टप्रयोजनम् ।
स्तूयते सा स्तुतिस् तस्य कर्तुर् एव प्रयोजिका ॥ २।३२० ॥

व्याघ्रादि-व्यपदेशेन
यथा बालो निवर्त्यते ।
अ-सत्यो ऽपि तथा कश्चित्
प्रत्यवायो ऽभिधीयते ॥ २।३२१ ॥
मूलम्
व्याघ्रादिव्यपदेशेन यथा बालो निवर्त्यते ।
असत्यो ऽपि तथा कश् चित् प्रत्यवायो ऽभिधीयते ॥ २।३२१ ॥
विश्वास-प्रस्तुतिः
न संविधानं कृत्वापि
प्रत्यवाये तथाविधे ।
शास्त्रेण प्रतिषिद्धे ऽर्थे
विद्वान् कश् चित् प्रवर्तते ॥ २।३२२ ॥
मूलम्
न संविधानं कृत्वापि प्रत्यवाये तथाविधे ।
शास्त्रेण प्रतिषिद्धे ऽर्थे विद्वान् कश् चित् प्रवर्तते ॥ २।३२२ ॥
विस्तारः (द्रष्टुं नोद्यम्)
तथा प्रत्यवायोपदेशेन च यच्छास्त्रेण प्रतिषिद्धं
न तत्राहो पुरुषिकया प्रत्यवाय-संविधानम् आरचय्य
प्रेक्षा-पूर्वकारिणः प्रवृत्तिर् उचितेत्याह - …
विश्वास-प्रस्तुतिः
सर्पेषु संविधायापि
सिद्धैर् मन्त्रौषधादिभिः ।
नान्यथा +++(हठ-मात्रेण)+++ प्रतिपत्तव्यं
“+++(सर्प-भिया)+++ न दतो गमयेद्” इति +++(शास्त्रवचनम्)+++ ॥ २।३२३ ॥
मूलम्
सर्पेषु संविधायापि सिद्धैर् मन्त्रौषधादिभिः ।
नान्यथा प्रतिपत्तव्यं न दतो गमयेद् इति ॥ २।३२३ ॥
विस्तारः (द्रष्टुं नोद्यम्)
दृष्टान्तश्चाग्रिमे पुनः -
“न दतो गमयेद्
यद् दतो गमयेत्, सर्पा एनं घातुका भवन्ति'
इत्यनेन पुरोडाशस्य दन्तोपदंशन-पूर्वकं भोजनं निषिद्ध्यते।
यत्र कश्चित् सर्पाणां प्रतिविधानं मन्त्रौषधादिभिः कृत्वा
यदि तथा प्रवृत्तस्
तदाऽनेन शास्त्रानुष्ठानं परित्यक्तम्
इति न शोभनमाचरितम् ॥
इति।
विश्वास-प्रस्तुतिः
क्व चित् तत्त्व-समाख्यानं
क्रियते स्तुति-निन्दयोः ।
तत्रापि च प्रवृत्तिश् च
निवृत्तिश् चोपदिश्यते ॥ २।३२४ ॥
मूलम्
क्व चित् तत्त्वसमाख्यानं क्रियते स्तुतिनिन्दयोः ।
तत्रापि च प्रवृत्तिश् च निवृत्तिश् चोपदिश्यते ॥ २।३२४ ॥
विश्वास-प्रस्तुतिः
रूपं सर्वपदार्थानां वाक्यार्थोपनिबन्धनन् ।
सापेक्षा ये तु वाक्यार्थाः पदार्थैर् एव ते समाः ॥ २।३२५ ॥

वाक्यं तद् अपि मन्यन्ते यत् पदं चरितक्रियम् ।
अन्तरेण क्रियाशब्दं वाक्यादेर् द्वित्वदर्शनात् ॥ २।३२६ ॥

आख्यातशब्दे नियतं साधनं यत्र गम्यते ।
तद् अप्य् एकं समाप्तार्थं वाक्यम् इत्य् अभिधीय ॥ २।३२७ ॥

शब्दव्यवहिता बुद्धिर् अप्रयुक्तपदाश्रया ।
अनुमानं तदर्थस्य प्रत्यये हेतुर् उच्यते ॥ २।३२८ ॥

अपरे तु पदस्यैव तम् अर्थं प्रतिजानते ।
शब्दान्तराभिसम्बन्धम् अन्तरेण व्यवस्थितम् ॥ २।३२९ ॥

यस्मिन्न् उच्चरिते शब्दे यदा यो ऽर्थः प्रतीयते ।
तम् आहुर् अर्थं तस्यैव नान्यद् अर्थस्य लक्षणम् ॥ २।३३० ॥

क्रियार्थोपपदेष्व् एवं स्थानिनां गम्यते क्रिया ।
वृत्तौ निरादिभिश् चैवं क्रान्ताद्यर्थः प्रतीयते ॥ २।३३१ ॥

तानि शब्दान्तराण्य् एव पर्याया इव लौकिकाः ।
अर्थप्रकरणाभ्यां तु तेषां स्वार्थो नियम्यते ॥ २।३३२ ॥

प्रतिबोधाभ्युपायास् तु ये तं तं पुरुषं प्रति ।
नावश्यं ते ऽभिसम्बद्धाः शब्दा ज्ञेयेन वस्तुना ॥ २।३३३ ॥

असत्यां प्रतिपत्तौ वा मिथ्या वा प्रतिपादने ।
स्वैर् अर्थैर् नित्यसम्बन्धास् ते ते शब्दा व्यवस्थिताः ॥ २।३३४ ॥

यथाप्रकरणं द्वारम् इत्य् अस्यां कर्मणः श्रुतौ ।
बधान देहि वेत्य् एतद् उपायाद् अवगम्यते ॥ २।३३५ ॥

तत्र साधनवृत्तिर् यः शब्दः सत्त्वनिबन्धनः ।
न स प्रधानभूतस्य साध्यस्यार्थस्य वाचकः ॥ २।३३६ ॥

स्वार्थमात्रं प्रकाश्यासौ सापेक्षो विनिवर्तते ।
अर्थस् तु तस्य सम्बन्धी प्रकल्पयति सन्निधिम् ॥ २।३३७ ॥

पारार्थ्यस्याविशिष्टत्वान् न शब्दाच् छब्दसन्निधिः ।
नार्थाच् छब्दस्य सान्निध्यं न शब्दाद् अर्थसन्निधिः ॥ २।३३८ ॥

नष्टरूपम् इवाख्यातम् आक्षिप्तं कर्मवाचिना ।
यदि प्राप्तं प्रधानत्वं युगपद् भावसत्त्वयोः ॥ २।३३९ ॥

तैस् तु नामसरूपत्वम् आख्यातस्यास्य वर्ण्यते ।
अन्वयव्यतिरेकाभ्यां व्यवहारो विभज्यते ॥ २।३४० ॥

न चापि रूपात् सन्देहे वाचकत्वं निवर्तते ।
अर्धं पशोर् इति यथा सामर्थ्यात् तद् धि कल्पते ॥ २।३४१ ॥

सर्वं सत्त्वपदं शुद्धं यदि भावनिबन्धनम् ।
संसर्गे च विभक्तो ऽस्य तस्यार्थो न पृथग् यदि ॥ २।३४२ ॥

क्रियाप्रधानम् आख्यातं नाम्नां सत्त्वप्रधानता ।
चत्वारि पदजातानि सर्वम् एतद् विरुध्यते ॥ २।३४३ ॥

वाक्यस्य बुद्धौ नित्यत्वम् अर्थयोगं च लौकिकम् ।
दृष्ट्वा चतुष्ट्वं नास्तीति वदत्य् औदुम्बरायणः ॥ २।३४४ ॥

व्याप्तिमांश् च लघुश् चैव व्यवहारः पदाश्रयः ।
लोके शास्त्रे च कार्यार्थं विभागेनैव कल्पितः ॥ २।३४५ ॥

न लोके प्रतिपत्तॄणाम् अर्थयोगात् प्रसिद्धयः ।
तस्माद् अलौकिको वाक्याद् अन्यः कश् चिन् न विद्यते ॥ २।३४६ ॥

अन्यत्र श्रूयमाणैश् च लिङ्गैर् वाक्यैश् च सूचिताः ।
स्वार्था एव प्रतीयन्ते रूपाभेदाद् अलक्षिताः ॥ २।३४७ ॥

उत्सर्गवाक्ये यत् त्यक्तम् अशब्दम् इव शब्दवत् ।
तद् बाधकेषु वाक्येषु श्रुतम् अन्यत्र गम्यते ॥ २।३४८ ॥

ब्राह्मणानां श्रुतिर् दध्नि प्रक्रान्ता माठराद् विना ।
माठरस् तक्रसम्बन्धात् तत्राचष्टे यथार्थताम् ॥ २।३४९ ॥

अनेकाख्यातयोगे ऽपि वाक्यं न्यायापवादयोः ।
एकम् एवेष्यते कैश् चिद् भिन्नरूपम् इव स्थितम् ॥ २।३५० ॥

नियमः प्रतिषेधश् च विधिशेषस् तथा सति ।
द्वितीये यो लुग् आख्यातस् तच्छेषम् अलुकं विदुः ॥ २।३५१ ॥

निराकाङ्क्षाणि निर्वृत्तौ प्रधानानि परस्परम् ।
तेषाम् अनुपकारित्वात् कथं स्याद् एकवाक्यता ॥ २।३५२ ॥

विशेषविधिनार्थित्वाद् वाक्यशेषो ऽनुमीयते ।
विधेयवन् निवर्त्ये ऽर्थे तस्मात् तुल्यं व्यपेक्षणम् ॥ २।३५३ ॥

सञ्ज्ञाशब्दैकदेशो यस् तस्य लोपो न विद्यते ।
विशिष्टरूपा सा सञ्ज्ञा कृता च न निवर्तते ॥ २।३५४ ॥

सञ्ज्ञान्तराच् च दत्तादेर् नान्या सञ्ज्ञा प्रतीयते ।
सञ्ज्ञिनं देवदत्ताख्यं दत्तशब्दः कथं वदेत् ॥ २।३५५ ॥

सर्वैर् अवयवैस् तुल्यं सम्बन्धं समुदायवत् ।
के चिच् छब्दस्वरूपाणां मन्यन्ते सर्वसञ्ज्ञिभिः ॥ २।३५६ ॥

वर्णानाम् अर्थवत्त्वं तु सञ्ज्ञानां सञ्ज्ञिभिर् भवेत् ।
सम्बद्धो ऽवयवः सञ्ज्ञा- प्रविवेके न कल्पते ॥ २।३५७ ॥

सर्वस्वरूपैर् युगपत् सम्बन्धे सति सञ्ज्ञिनः ।
नैकदेशसरूपेभ्यस् तत्प्रत्यायनसम्भवः ॥ २।३५८ ॥

एकदेशात् तु सङ्घाते केषां चिज् जायते स्मृतिः ।
स्मृतेस् तु विषयाच् छब्दात् सङ्घातार्थः प्रतीयते ॥ २।३५९ ॥

एकदेशात् स्मृतिर् भिन्ने सङ्घाते नियता कथम् ।
कथं प्रतीयमानः स्याच् छब्दो ऽर्थस्याभिधायकः ॥ २।३६० ॥

एकदेशसरूपास् तु तैस् तैर् भेदैः समन्विताः ।
अनुनिष्पादिनः शब्दाः सञ्ज्ञासु समवस्थिताः ॥ २।३६१ ॥

साधारणत्वात् सन्दिग्धाः सामर्थ्यान् नियताश्रयाः ।
तेषां ये साधवस् तेषु शास्त्रे लोपादि शिष्यते ॥ २।३६२ ॥

तुल्यायाम् अनुनिष्पत्तौ ज्येद्राघा इत्य् असाधवः ।
न ह्य् अन्वाख्यायके शास्त्रे तेषु दत्तादिवत् स्मृतिः ॥ २।३६३ ॥

कृतणत्वाश् च ये शब्दा नित्याः खरणसादयः ।
एकद्रव्योपदेशित्वात् तान् साधून् सम्प्रचक्षते ॥ २।३६४ ॥

गोत्राण्य् एव तु तान्य् आहुः सञ्ज्ञाशक्तिसमन्वयात् ।
निमित्तापेक्षणं तेषु स्वार्थे नावश्यम् इष्यते ॥ २।३६५ ॥

व्यवहाराय नियमः सञ्ज्ञानां सञ्ज्ञिनि क्व चित् ।
नित्य एव तु सम्बन्धो डित्थादिषु गवादिवत् ॥ २।३६६ ॥

कृतकत्वाद् अनित्यत्वं सम्बन्धस्योपपद्यते ।
सञ्ज्ञायां सा हि पुरुषैर् यथाकामं नियुज्यते ॥ २।३६७ ॥

यथा हि पांसुलेखानां बालकैर् मधुरादयः ।
सञ्ज्ञाः क्रियन्ते सर्वासु सञ्ज्ञास्व् एषैव कल्पना ॥ २।३६८ ॥

वृद्ध्यादीनां च शास्त्रे ऽस्मिञ् शक्त्यवच्छेदलक्षणः ।
अकृत्रिमो हि सम्बन्धो विशेषणविशेष्यवत् ॥ २।३६९ ॥

सञ्ज्ञा स्वरूपम् आश्रित्य निमित्ते सति लौकिकी ।
का चित् प्रवर्तते का चिन् निमित्तासन्निधाव् अपि ॥ २।३७० ॥

शास्त्रे ऽपि महती सञ्ज्ञा स्वरूपोपनिबन्धना ।
अनुमानं निमित्तस्य सन्निधाने प्रतीयते ॥ २।३७१ ॥

आवृत्तेर् अनुमानं वा सारूप्यात् तत्र गम्यते ।
शब्दभेदानुमानं वा शक्तिभेदस्य वा गतिः ॥ २।३७२ ॥

क्व चिद् विषयभेदेन कृत्रिमा व्यवतिष्ठते ।
सङ्ख्यायाम् एकविषयं व्यवस्थानं द्वयोर् अपि ॥ २।३७३ ॥

विषयं कृत्रिमस्यापि लौकिकः क्व चिद् उच्चरन् ।
व्याप्नोति दूरात् सम्बुद्धौ तथा हि ग्रहणं द्वयोः ॥ २।३७४ ॥

सङ्घैकशेषद्वन्द्वेषु के चित् सामर्थ्यलक्षणम् ।
प्रत्याश्रयम् अवस्थानं क्रियाणां प्रतिजानते ॥ २।३७५ ॥

भोजनं फलरूपाभ्याम् एकैकस्मिन् समाप्यते ।
अन्यथा हि व्यवस्थाने न तदर्थः प्रकल्पते ॥ २।३७६ ॥

अन्नादानादिरूपां च सर्वे तृप्तिफलां भुजिम् ।
प्रत्येकं प्रतिपद्यन्ते न तु नाट्यक्रियाम् इव ॥ २।३७७ ॥

पाद्यवत् सा विभागेन सामर्थ्याद् अवतिष्ठते ।
भुजिः करोति भुज्यर्थं न तन्त्रेण प्रदीपवत् ॥ २।३७८ ॥

दृश्यादिस् तु क्रियैकापि तथाभूतेषु कर्मसु ।
आवृत्तिम् अन्तरेणापि समुदायाश्रया भवेत् ॥ २।३७९ ॥

भिन्नव्यापाररूपाणां व्यवहारादिदर्शने ।
कर्तॄणां दर्शनं भिन्नं सम्भूयार्थस्य साधकम् ॥ २।३८० ॥

लक्ष्यस्य लोकसिद्धत्वाच् छास्त्रे लिङ्गस्य दर्शनात् ।
अर्थिष्व् आदैक्षु भेदेन वृद्धिसञ्ज्ञा समाप्यते ॥ २।३८१ ॥

शतादानप्रधानत्वाद् दण्डने शतकर्मके ।
अर्थिनां गुणभेदे ऽपि सङ्ख्येयो ऽर्थो न भिद्यते ॥ २।३८२ ॥

सङ्घस्यैव विधेयत्वात् कार्यवत् प्रतिपादने ।
तत्र तन्त्रेण सम्बन्धः समासाभ्यस्तसञ्ज्ञयोः ॥ २।३८३ ॥

लक्षणार्था श्रुतिर् येषां कां चिद् एव क्रियां प्रति ।
तैर् व्यस्तैश् च समस्तैश् च स धर्म उपलक्ष्यते ॥ २।३८४ ॥

वृषलैर् न प्रवेष्टव्यम् इत्य् एतस्मिन् गृहे यथा ।
प्रत्येकं संहतानां च प्रवेशः प्रतिषिध्यते ॥ २।३८५ ॥

सम्भूय त्व् अर्थलिप्सादि- प्रतिषेधोपदेशने ।
पृथग् अप्रतिषिद्धत्वात् प्रवृत्तिर् न विरुध्यते ॥ २।३८६ ॥

व्यवायलक्षणार्थत्वाद् अट्कुप्वाङादिभिस् तथा ।
प्रत्येकं वा समस्तैर् वा णत्वं न प्रतिषिध्यते ॥ २।३८७ ॥

अनुग्रहार्था भोक्तॄणां भुजिर् आरभ्यते यदा ।
देशकालाद्यभेदेन नानुगृह्णाति तान् असौ ॥ २।३८८ ॥

पात्रादिभेदान् नानात्वं यस्यैकस्योपदिश्यते ।
विपर्यये वा भिन्नस्य तस्यैकत्वं प्रकल्प्यते ॥ २।३८९ ॥

संहत्यापि च कुर्वाणा भेदेन प्रतिपादिताः ।
स्वं स्वं भोज्यं विभागेन प्राप्तं सम्भूय भुञ्जते ॥ २।३९० ॥

वीप्साया विषयाभावाद् विरोधाद् अन्यसङ्ख्यया ।
द्विधा समाप्त्ययोगाच् च शतं सङ्घे ऽवतिष्ठते ॥ २।३९१ ॥

भुजिर् द्वन्द्वैकशेषाभ्यां यत्रान्यैः सह शिष्यते ।
तत्रापि लक्षणार्थत्वाद् द्विधा वाक्यं समाप्यते ॥ २।३९२ ॥

वाक्यान्तराणां प्रत्येकं समाप्तिः कैश् चिद् इष्यते ।
रूपान्तरेण युक्तानां वाक्यानां तेन सङ्ग्रहः ॥ २।३९३ ॥

न वाक्यस्याभिधेयानि भेदवाक्यानि कानि चित् ।
तस्मिंस् तूच्चरिते भेदांस् तथान्यान् प्रतिपद्यते ॥ २।३९४ ॥

येषां समस्तो वाक्यार्थः प्रतिभेदं समाप्यते ।
तेषां तदानीं भिन्नस्य किं पदार्थस्य सत्तया ॥ २।३९५ ॥

अथ तैर् एव जनितः सो ऽर्थो भिन्नेषु वर्तते ।
पूर्वस्यार्थस्य तेन स्याद् विरोधः सह वा स्थितिः ॥ २।३९६ ॥

सहस्थितौ विरोधित्वं स्याद् विशिष्टाविशिष्टयोः ।
व्यभिचारी तु सम्बन्धस् त्यागे ऽर्थस्य प्रसज्यते ॥ २।३९७ ॥

एकः साधारणो वाच्यः प्रतिशब्दम् अवस्थितः ।
सङ्घे सङ्घिषु चार्थात्मा सन्निधाननिदेशकः ॥ २।३९८ ॥

यथा साधारणे स्वत्वं त्यागस्य च फलं धने ।
प्रीतिश् चाविकला तद्वत् सम्बन्धो ऽर्थेन तद्वताम् ॥ २।३९९ ॥

वर्णानाम् अर्थवत्तायां तेनैवार्थेन तद्वति ।
समुदाये न चैकत्वं भेदेन व्यवतिष्ठते ॥ २।४०० ॥

एकेनैव प्रदीपेन सर्वे साधारणं धनम् ।
पश्यन्ति तद्वद् एकेन सुपा सङ्ख्याभिधीयते ॥ २।४०१ ॥

नार्थवत्ता पदे वर्णे वाक्ये चैवं विशिष्यते ।
अभ्यासात् प्रक्रमो ऽन्यस् तु विरुद्ध इव दृश्यते ॥ २।४०२ ॥

विनियोगाद् ऋते शब्दो न स्वार्थस्य प्रकाशकः ।
अर्थाभिधानसम्बन्धम् उक्तिद्वारं प्रचक्षते ॥ २।४०३ ॥

यथा प्रणिहितं चक्षुर् दर्शनायोपकल्पते ।
तथाभिसंहितः शब्दो भवत्य् अर्थस्य वाचकः ॥ २।४०४ ॥

क्रियाव्यवेतः सम्बन्धो दृष्टः करणकर्मणोः ।
अभिधानियमस् तस्माद् अभिधानाभिधेययोः ॥ २।४०५ ॥

बहुष्व् एकाभिधानेषु सर्वेष्व् एकार्थकारिटु ।
यत् प्रयोक्ताभिसन्धत्ते शब्दस् तत्रावतिष्ठते ॥ २।४०६ ॥

आम्नायशब्दान् अभ्यासे के चिद् आहुर् अनर्थकान् ।
स्वरूपमात्रवृत्तिंश् च परेषां प्रतिपादने ॥ २।४०७ ॥

अभिधानक्रियायोगाद् अर्थस्य प्रतिपादकान् ।
नियोगभेदान् मन्यन्ते तान् एवैकत्वदर्शिनः ॥ २।४०८ ॥

तेषाम् अत्यन्तनानात्वं नानात्वव्यवहारिणः ।
अक्षादीनाम् इव प्राहुर् एकजातिसमन्वयात् ॥ २।४०९ ॥

प्रयोगाद् अभिसन्धानम् अन्यद् एषु न विद्यते ।
विषये यतशक्तित्वात् स तु तत्र व्यवस्थितः ॥ २।४१० ॥

नानात्वस्यैव सञ्ज्ञानम् अर्थप्रकरणादिभिः ।
न जात्व् अर्थान्तरे वृत्तिर् अन्यार्थानां कथं च न ॥ २।४११ ॥

पदरूपं च यद् वाक्यम् अस्तित्वोपनिबन्धनम् ।
कामं विमर्शस् तत्रायं न वाक्यावयवे पदे ॥ २।४१२ ॥

यथैवानर्थकैर् वर्णैर् विशिष्टो ऽर्थो ऽभिधीयते ।
पदैर् अनर्थकैर् एवं विशिट्टो ऽर्थो ऽभिधीयते ॥ २।४१३ ॥

यद् अन्तराले ज्ञानं तु पदार्थेषूपजायते ।
प्रतिपत्तेर् उपायो ऽसौ प्रक्रमानवधारणात् ॥ २।४१४ ॥

पूर्वैर् अर्थैर् अनुगतो यथार्थात्मा परः परः ।
संसर्ग एव प्रक्रान्तस् तथान्येष्व् अर्थवस्तुषु ॥ २।४१५ ॥

अङ्गीकृते तु केषां चित् साध्येनार्थेन साधने ।
आधारनियमार्थैव साधनानां पुनः श्रुतिः ॥ २।४१६ ॥

आधारे नियमाभावात् तदाक्षेपो न विद्यते ।
सामर्थ्यात् सम्भवस् तस्य श्रुतिस् त्व् अन्यनिवृत्तये ॥ २।४१७ ॥

क्रिया क्रियान्तराद् भिन्ना नियताधारसाधना ।
प्रक्रान्ता प्रतिपत्तॄणां भेदाः सम्बोधहेतवः ॥ २।४१८ ॥

अविभागं तु शब्देभ्यः क्रमवद्भ्यो ऽपदक्रमम् ।
प्रकाशते तदन्येषां वाक्यं वाक्यार्थ एव च ॥ २।४१९ ॥

स्वरूपं विद्यते यस्य तस्यात्मा न निरूप्यते ।
नास्ति यस्य स्वरूपं तु तस्यैवात्मा निरूप्यते ॥ २।४२० ॥

अशब्दम् अपरे ऽर्थस्य रूपनिर्धारणं विदुः ।
अर्थावभासरूपा च शब्देभ्यो जायते स्मृतिः ॥ २।४२१ ॥

अन्यथैवाग्निसम्बन्धाद् दाहं दग्धो ऽभिमन्यते ।
अन्यथा दाहशब्देन दाहार्थः सम्प्रतीयते ॥ २।४२२ ॥

पृथङ्निविष्टतत्त्वानां पृथगर्थानुपातिनाम् ।
इन्द्रियाणां यथा कार्यम् ऋते देहान् न कल्पते ॥ २।४२३ ॥

तथा पदानां सर्वेषां पृथगर्थनिवेशिनाम् ।
वाक्येभ्यः प्रविभक्तानाम् अर्थवत्ता न विद्यते ॥ २।४२४ ॥

संसर्गरूपं संसृष्टेष्व् अर्थवस्तुषु गृह्यते ।
नात्रोपाख्यायते तत्त्वम् अपदार्थस्य दर्शनात् ॥ २।४२५ ॥

दर्शनस्यापि यत् सत्यं न तथा दर्शनं स्थितम् ।
वस्तु संसर्गरूपेण तद् अरूपं निरूप्यते ॥ २।४२६ ॥

अस्तित्वेनानुषक्तो वा निवृत्त्यात्मनि वा स्थितः ।
अर्थो ऽभिधीयते यस्माद् अतो वाक्यं प्रयुज्यते ॥ २।४२७ ॥

क्रियानुषङ्गेण विना न पदार्थः प्रतीयते ।
सत्यो वा विपरीतो वा व्यवहारे न सो ऽस्त्य् अतः ॥ २।४२८ ॥

सद् इत्य् एतत् तु यद् वाक्यं तद् अभूद् अस्ति नेति वा ।
क्रियाभिधानसम्बन्धम् अन्तरेण न गम्यते ॥ २।४२९ ॥

आख्यातपदवाच्ये ऽर्थे साधनोपनिबन्धने ।
विना सत्त्वाभिधानेन नाकाङ्क्षा विनिवर्तते ॥ २।४३० ॥

प्राधान्यात् तु क्रिया पूर्वम् अर्थस्य प्रविभज्यते ।
साध्यप्रयुक्तान्य् अङ्गानि फलं तस्य प्रयोजकम् ॥ २।४३१ ॥

प्रयोक्तैवाभिसन्धत्ते साध्यसाधनरूपताम् ।
अर्थस्य चाभिसम्बन्ध- कल्पनां प्रसमीहते ॥ २।४३२ ॥

पचिक्रियां करोतीति कर्मत्वेनाभिधीयते ।
पक्तिः करणरूपं तु साध्यत्वेन प्रतीयते ॥ २।४३३ ॥

यो ऽंशो येनोपकारेण प्रयोक्तॄणां विवक्षितः ।
अर्थस्य सर्वशक्तित्वात् स तथैव व्यवस्थितः ॥ २।४३४ ॥

आराद्वृत्तिषु सम्बन्धः कदा चिद् अभिधीयते ।
आश्लिष्टो यो ऽनुपश्लिष्टः स कदा चित् प्रतीयते ॥ २।४३५ ॥

संसृष्टानां विभक्तत्वं संसर्गश् च विवेकिनाम् ।
नानात्मकानाम् एकत्वं नानात्वं च विपर्यये ॥ २।४३६ ॥

सर्वात्मकत्वाद् अर्थस्य नैरात्म्याद् वा व्यवस्थितम् ।
अत्यन्तयतशक्तित्वाच् छब्द एव निबन्धनम् ॥ २।४३७ ॥

वस्तूपलक्षणः शब्दो नोपकारस्य वाचकः ।
न स्वशक्तिः पदार्थानां संस्प्रष्टुं तेन शक्यते ॥ २।४३८ ॥

सम्बन्धिधर्मा संयोगः स्वशब्देनाभिधीयते ।
सम्बन्धः समवायस् तु सम्बन्धित्वेन गम्यते ॥ २।४३९ ॥

लक्षणाद् व्यवतिष्ठन्ते पदार्था न तु वस्तुतः ।
उपकारात् स एवार्थः कथं चिद् अनुगम्यते ॥ २।४४० ॥

वाक्यार्थो यो ऽभिसम्बन्धो न तस्यात्मा क्व चित् स्थितः ।
व्यवहारे पदार्थानां तम् आत्मानं प्रचक्षते ॥ २।४४१ ॥

पदार्थे समुदाये वा समाप्तो नैव वा क्व चित् ।
पदार्थरूपभेदेन तस्यात्मा प्रविभज्यते ॥ २।४४२ ॥

अन्वाख्यानाय यो भेदः प्रतिपत्तिनिबन्धनम् ।
साकाङ्क्षावयवं भेदे तेनान्यद् उपवर्ण्यते ॥ २।४४३ ॥

अनेकशक्तेर् एकस्य प्रविभागो ऽनुगम्यते ।
एकार्थत्वं हि वाक्यस्य मात्रयापि प्रतीयते ॥ २।४४४ ॥

सम्प्रत्ययार्थाद् बाह्यो ऽर्थः सन्न् असन् वा विभज्यते ।
बाह्यीकृत्य विभागस् तु शक्त्यपोद्धारलक्षणः ॥ २।४४५ ॥

प्रत्ययार्थात्मनियताः शक्तयो न व्यवस्थिताः ।
अन्यत्र च ततो रूपं न तासाम् उपलभ्यते ॥ २।४४६ ॥

बहुष्व् अपि तिङन्तेषु साकाङ्क्षेष्व् एकवाक्यता ।
तिङा तिङ्भ्यो निघातस्य पर्युदासस् तथार्थवान् ॥ २।४४७ ॥

एकतिङ् यस्य वाक्यं तु शास्त्रे नियतलक्षणम् ।
तस्यातिङ्ग्रहणेनार्थो वाक्यभेदान् न विद्यते ॥ २।४४८ ॥

तिङन्तान्तरयुक्तेषु युक्तयुक्तेषु वा पुनः ।
मृगः पश्यत यातीति भेदाभेदौ न तिष्ठतः ॥ २।४४९ ॥

इतिकर्तव्यतार्थस्य सामर्थ्याद् यत्र काङ्क्ष्यते ।
अशब्दलक्षणाकाङ्क्षं समाप्तार्थं तद् उच्यते ॥ २।४५० ॥

तत्त्वान्वाख्यानमात्रे तु यावान् अर्थो ऽनुषज्यते ।
विनापि तत्प्रयोगेण श्रुतेर् वाक्यं समाप्यते ॥ २।४५१ ॥

चङ्क्रम्यमाणो ऽधीष्वात्र जपंश् चङ्क्रमणं कुरु ।
तादर्थ्यस्याविशेषे ऽपि शब्दाद्भेदः प्रतीयते ॥ २।४५२ ॥

फलवन्तः क्रियाभेदाः क्रियान्तरनिबन्धनाः ।
असङ्ख्याताः क्रमोद्देशैर् एकाख्यातनिदर्शिताः ॥ २।४५३ ॥

निवृत्तभेदा सर्वैव क्रियाख्याते ऽभिधीयते ।
श्रुतेर् अशक्या भेदानां प्रविभागप्रकल्पना ॥ २।४५४ ॥

अश्वमेधेन यक्ष्यन्ते राजानः सत्त्रम् आसते ।
ब्राह्मणा इति नाख्यात- रूपाद् भेदः प्रतीयते ॥ २।४५५ ॥

सकृच् छ्रुता सप्तदशस्व् अनावृत्तापि या क्रिया ।
प्राजापत्येषु सामर्थ्यात् सा भेदं प्रतिपद्यते ॥ २।४५६ ॥

देवदत्तादिषु भुजिः प्रत्येकम् अवतिष्ठते ।
प्रतिस्वतन्त्रं वाक्यं वा भेदेन प्रतिपद्यते ॥ २।४५७ ॥

उच्चारणे तु वाक्यानाम् अन्यद् रूपं न गृह्यते ।
प्रतिपत्तौ तु भिन्नानाम् अन्यद् रूपं प्रतीयते ॥ २।४५८ ॥

एकं ग्रहणवाक्यं च सामान्येनाभिधीयते ।
कर्तरीति यथा तच् च पश्वादिषु विभज्यते ॥ २।४५९ ॥

यद्य् आकाङ्क्षा निवर्तेत तद्भूतस्य सकृच् छ्रुतौ ।
नैवान्येनाभिसम्बन्धं तद् उपेयात् कथं च न ॥ २।४६० ॥

एकरूपम् अनेकार्थं तस्माद् उपनिबन्धनम् ।
योनिर् विभागवाक्यानां तेभ्यो ऽनन्यद् इव स्थितम् ॥ २।४६१ ॥

क्व चित् क्रिया व्यक्तिभागैर् उपकारे प्रवर्तते ।
सामान्यभाग एवास्याः क्व चिद् अर्थस्य साधकः ॥ २।४६२ ॥

कालभिन्नाश् च ये भेदा ये चाप्य् उष्ट्रासिकादिषु ।
प्रक्रमे जातिभागस्य शब्दात्मा तैर् न भिद्यते ॥ २।४६३ ॥

एकसङ्ख्येषु भेदेषु भिन्ना जात्यादिभिः क्रियाः ।
भेदेन विनियुज्यन्ते तच्छब्दस्य सकृच् छ्रुतौ ॥ २।४६४ ॥

अक्षादिषु यथा भिन्ना भक्षिभञ्जिदिविक्रियाः ।
प्रयोगकालाभेदे ऽपि प्रतिभेदं पृथक् स्थिताः ॥ २।४६५ ॥

अक्षाणां तन्त्रिणां तन्त्रम् उपायस् तुल्यरूपता ।
एषां क्रमो विभक्तानां तन्निबद्धा सकृच् छ्रुतिः ॥ २।४६६ ॥

द्वाव् अप्य् उपायौ शब्दानां प्रयोगे समवस्थितौ ।
क्रमो वा यौगपद्यं वा यौ लोको नातिवर्तते ॥ २।४६७ ॥

क्रमे विभज्यते रूपं यौगपद्ये न भिद्यते ।
क्रिया तु यौगपद्ये ऽपि क्रमरूपानुपातिनी ॥ २।४६८ ॥

भेदसंसर्गशक्ती द्वे शब्दाद् भिन्ने इव स्थिते ।
यौगपद्ये ऽप्य् अनेकेन प्रयोगे भिद्यते श्रुतिः ॥ २।४६९ ॥

अभिन्नो रूपभेदेन य एको ऽर्थो विवक्षितः ।
तस्यावयवधर्मेण समुदायो ऽनुगृह्यते ॥ २।४७० ॥

भेदनिर्वचने त्व् अस्य प्रत्येकं वा समाप्यते ।
श्रुतिर् वचनभिन्ना वा वाक्यभेदे ऽवतिष्ठते ॥ २।४७१ ॥

तत्रैकवचनान्तो वा सो ऽक्षशब्दः प्रयुज्यते ।
प्रत्येकं वा बहुत्वेन प्रविभागो यथाश्रुति ॥ २।४७२ ॥

द्विष्ठानि यानि वाक्यानि तेष्व् अप्य् एकत्वदर्शिनाम् ।
अनेकशक्तेर् एकस्य स्वशक्तिः प्रविभज्यते ॥ २।४७३ ॥

अत्यन्तभिन्नयोर् वा स्यात् प्रयोगे तन्त्रलक्षणः ।
उपायस् तत्र संसर्गः प्रतिपत्तृषु भिद्यते ॥ २।४७४ ॥

भेदेनाधिगतौ पूर्वं शब्दौ तुल्यश्रुती पुनः ।
तन्त्रेण प्रतिपत्तारः प्रयोक्त्रा प्रतिपादिताः ॥ २।४७५ ॥

एकस्यापि विवक्षायाम् अनुनिष्पद्यते परः ।
विनाभिसन्धिना शब्दः शक्तिरूपः प्रकाशते ॥ २।४७६ ॥

अनेका शक्तिर् एकस्य युगपच् छ्रूयते क्व चित् ।
अग्निः प्रकाशदाहाभ्याम् एकत्रापि नियुज्यते ॥ २।४७७ ॥

आवृत्तिशक्तिभिन्नार्थे वाक्ये सकृद् अपि श्रुते ।
लिङ्गाद् वा तन्त्रधर्माद् वा विभागो व्यवतिष्ठते ॥ २।४७८ ॥

सम्प्रसारणसञ्ज्ञायां लिङ्गाभ्यां वर्णवाक्ययोः ।
प्रविभागस् तथा सूत्र एकस्मिन्न् एव जायते ॥ २।४७९ ॥

तथा द्विर्वचने ऽचीति तन्त्रोपायाद् अलक्षणः ।
एकशेषेण निर्देशो भाष्य एव प्रदर्शितः ॥ २।४८० ॥

प्रायेण सङ्क्षेपरुचीन् अल्पविद्यापरिग्रहान् ।
सम्प्राप्य वैयाकरणान् सङ्ग्रहे ऽस्तम् उपागते ॥ २।४८१ ॥

कृते ऽथ पातञ्जलिना गुरुणा तीर्थदर्शिना ।
सर्वेषां न्यायबीजानां महाभाष्ये निबन्धने ॥ २।४८२ ॥

अलब्धगाधे गाम्भीर्याद् उत्तान इव सौष्ठवात् ।
तस्मिन्न् अकृतबुद्धीनां नैवावास्थित निश्चयः ॥ २।४८३ ॥

वैजिसौभवहर्यक्षैः शुष्कतर्कानुसारिभिः ।
आर्षे विप्लाविते ग्रन्थे सङ्ग्रहप्रतिकञ्चुके ॥ २।४८४ ॥

यः पातञ्जलिशिष्येभ्यो भ्रष्टो व्याकरणागमः ।
कालेन दाक्षिणात्येषु ग्रन्थमात्रो व्यवस्थितः ॥ २।४८५ ॥

पर्वताद् आगमं लब्ध्वा भाष्यबीजानुसारिभिः ।
स नीतो बहुशाखत्वं चान्द्राचार्यादिभिः पुनः ॥ २।४८६ ॥

न्यायप्रस्थानमार्गांस् तान् अभ्यस्य स्वं च दर्शनम् ।
प्रणीतो गुरुणास्माकम् अयम् आगमसङ्ग्रहः ॥ २।४८७ ॥

वर्त्मनाम् अत्र केषां चिद् वस्तुमात्रम् उदाहृतम् ।
काण्डे तृतीये न्यक्षेण भविष्यति विचारणा ॥ २।४८८ ॥

प्रज्ञा विवेकं लभते भिन्नैर् आगमदर्शनैः ।
कियद् वा शक्यम् उन्नेतुं स्वतर्कम् अनुधावता ॥ २।४८९ ॥

तत् तद् उत्प्रेक्षमाणानां पुराणैर् आगमैर् विना ।
अनुपासितवृद्धानां विद्या नातिप्रसीदति ॥ २।४९० ॥

॥ इति भर्तृहरिकृते वाक्यपदीये वाक्यकाण्डं समाप्तम् ॥