विश्वास-प्रस्तुतिः
अनादिनिधनं ब्रह्म शब्दतत्त्वं यद् अक्षरम् ।
विवर्तते ऽर्थभावेन प्रक्रिया जगतो यतः ॥ १।१ ॥
मूलम्

एकम् एव यद् आम्नातं भिन्नशक्तिव्यपाश्रयात् ।
अपृथक्त्वे ऽपि शक्तिभ्यः पृथक्त्वेनेव वर्तते ॥ १।२ ॥

अध्याहितकलां यस्य कालशक्तिम् उपाश्रिताः ।
जन्मादयो विकाराः षड् भावभेदस्य योनयः ॥ १।३ ॥

एकस्य सर्वबीजस्य यस्य चेयम् अनेकधा ।
भोक्तृभोक्तव्यरूपेण भोगरूपेण च स्थितिः ॥ १।४ ॥

प्राप्त्युपायो ऽनुकारश् च तस्य वेदो महर्षिभिः ।
एको ऽप्य् अनेकवर्त्मेव समाम्नातः पृथक् पृथक् ॥ १।५ ॥

भेदानां बहुमार्गत्वं कर्मण्य् एकत्र चाङ्गता ।
शब्दानां यतशक्तित्वं तस्य शाखासु दृश्यते ॥ १।६ ॥

स्मृतयो बहुरूपाश् च दृष्टादृष्टप्रयोजनाः ।
तम् एवाश्रित्य लिङ्गेभ्यो वेदविद्भिः प्रकल्पिताः ॥ १।७ ॥

तस्यार्थवादरूपाणि निश्रिताः स्वविकल्पजाः ।
एकत्विनां द्वैतिनां च प्रवादा बहुधागताः ॥ १।८ ॥

सत्या विशुद्धिस् तत्रोक्ता विद्यैवैकपदागमा ।
युक्ता प्रणवरूपेण सर्ववादाविरोधिना ॥ १।९ ॥

विधातुस् तस्य लोकानाम् अङ्गोपाङ्गनिबन्धनाः ।
विद्याभेदाः प्रतायन्ते ज्ञानसंस्कारहेतवः ॥ १।१० ॥

आसन्नं ब्रह्मणस् तस्य तपसाम् उत्तमं तपः ।
प्रथमं छन्दसाम् अङ्गम् आहुर् व्याकरणं बुधाः ॥ १।११ ॥

प्राप्तरूपविभागाया यो वाचः परमो रसः ।
यत् तत् पुण्यतमं ज्योतिस् तस्य मार्गो ऽयम् आञ्जसः ॥ १।१२ ॥

अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम् ।
तत्त्वावबोधः शब्दानां नास्ति व्याकरणाद् ऋते ॥ १।१३ ॥

तद् द्वारम् अपवर्गस्य वाङ्मलानां चिकित्सितम् ।
पवित्रं सर्वविद्यानाम् अधिविद्यं प्रकाशते ॥ १।१४ ॥

यथार्थजातयः सर्वाः शब्दाकृतिनिबन्धनाः ।
तथैव लोके विद्यानाम् एषा विद्या परायणम् ॥ १।१५ ॥

इदम् आद्यं पदस्थानं सिद्धिसोपानपर्वणाम् ।
इयं सा मोक्षमाणानाम् अजिह्मा राजपद्धतिः ॥ १।१६ ॥

अत्रातीतविपर्यासः केवलाम् अनुपश्यति ।
छन्दस्यश् छन्दसां योनिम् आत्मा छन्दोमयीं तनुम् ॥ १।१७ ॥

प्रत्यस्तमितभेदाया यद् वाचो रूपम् उत्तमम् ।
यद् अस्मिन्न् एव तमसि ज्योतिः शुद्धं विवर्तते ॥ १।१८ ॥

वैकृतं समतिक्रान्ता मूर्तिव्यापारदर्शनम् ।
व्यतीत्यालोकतमसी प्रकाशं यम् उपासते ॥ १।१९ ॥

यत्र वाचो निमित्तानि चिह्नानीवाक्षरस्मृतेः ।
शब्दपूर्वेण योगेन भासन्ते प्रतिबिम्बवत् ॥ १।२० ॥

अथर्वणाम् अङ्गिरसां साम्नाम् ऋग्यजुषस्य च ।
यस्मिन्न् उच्चावचा वर्णाः पृथक्स्थितपरिग्रहाः ॥ १।२१ ॥

यद् एकं प्रक्रियाभेदैर् बहुधा प्रविभज्यते ।
तद् व्याकरणम् आगम्य परं ब्रह्माधिगम्यते ॥ १।२२ ॥

नित्याः शब्दार्थसम्बन्धास् तत्राम्नाता महर्षिभिः ।
सूत्राणां सानुतन्त्राणां भाष्याणां च प्रणेतृभिः ॥ १।२३ ॥

अपोद्धारपदार्था ये ये चार्थाः स्थितलक्षणाः ।
अन्वाख्येयाश् च ये शब्दा ये चापि प्रतिपादकाः ॥ १।२४ ॥

कार्यकारणभावेन योग्यभावेन च स्थिताः ।
धर्मे ये प्रत्यये चाङ्गं सम्बन्धाः साध्वसाधुषु ॥ १।२५ ॥

ते लिङ्गैश् च स्वशब्दैश् च शास्त्रे ऽस्मिन्न् उपवर्णिताः ।
स्मृत्यर्थम् अनुगम्यन्ते के चिद् एव यथागमम् ॥ १।२६ ॥

शिष्टेभ्य आगमात् सिद्धाः साधवो धर्मसाधनम् ।
अर्थप्रत्यायनाभेदे विपरीतास् त्व् असाधवः ॥ १।२७ ॥

नित्यत्वे कृतकत्वे वा तेषाम् आदिर् न विद्यते ।
प्राणिनाम् इव सा चैषा व्यवस्थानित्यतोच्यते ॥ १।२८ ॥

नानर्थिकाम् इमां कश् चिद् व्यवस्थां कर्तुम् अर्हति ।
तस्मान् निबध्यते शिष्टैः साधुत्वविषया स्मृतिः ॥ १।२९ ॥

न चागमाद् ऋते धर्मस् तर्केण व्यवतिष्ठते ।
ऋषीणाम् अपि यज् ज्ञानं तद् अप्य् आगमपूर्वकम् ॥ १।३० ॥

धर्मस्य चाव्यवच्छिन्नाः पन्थानो ये व्यवस्थिताः ।
न तांल् लोकप्रसिद्धत्वात् कश् चित् तर्केण बाधते ॥ १।३१ ॥

अवस्थादेशकालानां भेदाद् भिन्नासु शक्तिषु ।
भावानाम् अनुमानेन प्रसिद्धिर् अतिदुर्लभा ॥ १।३२ ॥

निर्ज्ञातशक्तेर् द्रव्यस्य तां ताम् अर्थक्रियां प्रति ।
विशिष्टद्रव्यसम्बन्धे सा शक्तिः प्रतिबध्यते ॥ १।३३ ॥

यत्नेनानुमितो ऽप्य् अर्थः कुशलैर् अनुमातृभिः ।
अभियुक्ततरैर् अन्यैर् अन्यथैवोपपाद्यते ॥ १।३४ ॥

परेषाम् असमाख्येयम् अभ्यासाद् एव जायते ।
मणिरूप्यादिविज्ञानं तद्विदां नानुमानिकम् ॥ १।३५ ॥

प्रत्यक्षम् अनुमानं च व्यतिक्रम्य व्यवस्थिताः ।
पितृरक्षःपिशाचानां कर्मजा एव सिद्धयः ॥ १।३६ ॥

आविर्भूतप्रकाशानाम् अनुपप्लुतचेतसाम् ।
अतीतानागतज्ञानं प्रत्यक्षान् न विशिष्यते ॥ १।३७ ॥

अतीन्द्रियान् असंवेद्यान् पश्यन्त्य् आर्षेण चक्षुषा ।
ये भावान् वचनं तेषां नानुमानेन बाध्यते ॥ १।३८ ॥

यो यस्य स्वम् इव ज्ञानं दर्शनं नातिशङ्कते ।
थितं प्रत्यक्षपक्षे तं कथम् अन्यो निवर्तयेत् ॥ १।३९ ॥

इदं पुण्यम् इदं पापम् इत्य् एतस्मिन् पदद्वये ।
आचण्डालमनुष्याणाम् अल्पं शास्त्रप्रयोजनम् ॥ १।४० ॥

चैतन्यम् इव यश् चायम् अविच्छेदेन वर्तते ।
आगमस् तम् उपासीनो हेतुवादैर् न बाध्यते ॥ १।४१ ॥

हस्तस्पर्शाद् इवान्धेन विषमे पथि धावता ।
अनुमानप्रधानेन विनिपातो न दुर्लभः ॥ १।४२ ॥

तस्माद् अकृतकं शास्त्रं स्मृतिं च सनिबन्धनाम् ।
आश्रित्यारभ्यते शिष्टैः साधुत्वविषया स्मृतिः ॥ १।४३ ॥

द्वाव् उपादानशब्देषु शब्दौ शब्दविदो विदुः ।
एको निमित्तं शब्दानाम् अपरो ऽर्थे प्रयुज्यते ॥ १।४४ ॥

अविभक्तो विभक्तेभ्यो जायते ऽर्थस्य वाचकः ।
शब्दस् तत्रार्थरूपात्मा सम्भेदम् उपगच्छति ॥ १।४५ ॥

आत्मभेदं तयोः के चिद् अस्तीत्य् आहुः पुराणगाः ।
बुद्धिभेदाद् अभिन्नस्य भेदम् एके प्रचक्षते ॥ १।४६ ॥

अरणिस्थं यथा ज्योतिः प्रकाशान्तरकारणम् ।
तद्वच् छब्दो ऽपि बुद्धिस्थः श्रुतीनां कारणं पृथक् ॥ १।४७ ॥

वितर्कितः पुरा बुद्ध्या क्व चिद् अर्थे निवेशितः ।
करणेभ्यो विवृत्तेन ध्वनिना सो ऽनुगृह्यते ॥ १।४८ ॥

नादस्य क्रमजातत्वान् न पूर्वो न परश् च सः ।
अक्रमः क्रमरूपेण भेदवान् इव जायते ॥ १।४९ ॥

प्रतिबिम्बं यथान्यत्र स्थितं तोयक्रियावशात् ।
तत्प्रवृत्तिम् इवान्वेति स धर्मः स्फोटनादयोः ॥ १।५० ॥

आत्मरूपं यथा ज्ञाने ज्ञेयरूपं च दृश्यते ।
अर्थरूपं तथा शब्दे स्वरूपं च प्रकाशते ॥ १।५१ ॥

आण्डभावम् इवापन्नो यः क्रतुः शब्दसञ्ज्ञकः ।
वृत्तिस् तस्य क्रियारूपा भागशो भजते क्रमम् ॥ १।५२ ॥

यथैकबुद्धिविषया मूर्तिर् आक्रियते पटे ।
मूर्त्यन्तरस्य त्रितयम् एवं शब्दे ऽपि दृश्यते ॥ १।५३ ॥

यथा प्रयोक्तुः प्राग् बुद्धिः शब्देष्व् एव प्रवर्तते ।
व्यवसायो ग्रहीतॄणाम् एवं तेष्व् एव जायते ॥ १।५४ ॥

अर्थोपसर्जनीभूतान् अभिधेयेषु केषु चित् ।
चरितार्थान् परार्थत्वान् न लोकः प्रतिपद्यते ॥ १।५५ ॥

ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा ।
तथैव सर्वशब्दानाम् एते पृथग् अवस्थिते ॥ १।५६ ॥

विषयत्वम् अनापन्नैः शब्दैर् नार्थः प्रकाश्यते ।
न सत्तयैव ते ऽर्थानाम् अगृहीताः प्रकाशकाः ॥ १।५७ ॥

अतो ऽनिर्ज्ञातरूपत्वात् किम् आहेत्य् अभिधीयते ।
नेन्द्रियाणां प्रकाश्ये ऽर्थे स्वरूपं गृह्यते तथा ॥ १।५८ ॥

भेदेनावगृहीतौ द्वौ शब्दधर्माव् अपोद्धृतौ ।
भेदकार्येषु हेतुत्वम् अविरोधेन गच्छतः ॥ १।५९ ॥

वृद्ध्यादयो यथा शब्दाः स्वरूपोपनिबन्धनाः ।
आदैच्प्रत्यायितैः शब्दैः सम्बन्धं यान्ति सञ्ज्ञिभिः ॥ १।६० ॥

अग्निशब्दस् तथैवायम् अग्निशब्दनिबन्धनः ।
अग्निश्रुत्यैति सम्बन्धम् अग्निशब्दाभिधेयया ॥ १।६१ ॥

यो य उच्चार्यते शब्दो नियतं न स कार्यभाक् ।
अन्यप्रत्यायने शक्तिर् न तस्य प्रतिबध्यते ॥ १।६२ ॥

उच्चरन् परतन्त्रत्वाद् गुणः कार्यैर् न युज्यते ।
तस्मात् तदर्थैः कार्याणां सम्बन्धः परिकल्प्यते ॥ १।६३ ॥

सामान्यम् आश्रितं यद् यद् उपमानोपमेययोः ।
तस्य तस्योपमानेषु धर्मो ऽन्यो व्यतिरिच्यते ॥ १।६४ ॥

गुणः प्रकर्षहेतुर् यः स्वातन्त्र्येणोपदिश्यते ।
तस्याश्रिताद् गुणाद् एव प्रकृष्टत्वं प्रतीयते ॥ १।६५ ॥

तस्याभिधेयभावेन यः शब्दः समवस्थितः ।
तस्याप्य् उच्चारणे रूपम् अन्यत् तस्माद् विविच्यते ॥ १।६६ ॥

प्राक् सञ्ज्ञिनाभिसम्बन्धात् सञ्ज्ञा रूपपदार्थिका ।
षष्ठ्याश् च प्रथमायाश् च निमित्तत्वाय कल्पते ॥ १।६७ ॥

त्रार्थवत्त्वात् प्रथमा सञ्ज्ञाशब्दाद् विधीयते ।
अस्येति व्यतिरेकश् च तदर्थाद् एव जायते ॥ १।६८ ॥

स्वं रूपम् इति कैश् चित् तु व्यक्तिः सञ्ज्ञोपदिश्यते ।
जातेः कार्याणि संसृष्टा जातिस् तु प्रतिपद्यते ॥ १।६९ ॥

सञ्ज्ञिनीं व्यक्तिम् इच्छन्ति सूत्रे ग्राह्याम् अथापरे ।
जातिप्रत्यायिता व्यक्तिः प्रदेशेषूपतिष्ठते ॥ १।७० ॥

कार्यत्वे नित्यतायां वा के चिद् एकत्ववादिनः ।
कार्यत्वे नित्यतायां वा के चिन् नानात्ववादिनः ॥ १।७१ ॥

पदभेदे ऽपि वर्णानाम् एकत्वं न निवर्तते ।
वाक्येषु पदम् एकं च भिन्नेष्व् अप्य् उपलभ्यते ॥ १।७२ ॥

न वर्णव्यतिरेकेण पदम् अन्यच् च विद्यते ।
वाक्यं वर्णपदाभ्यां च व्यतिरिक्तं न किं च न ॥ १।७३ ॥

पदे न वर्णा विद्यन्ते वर्णेष्व् अवयवा न च ।
वाक्यात् पदानाम् अत्यन्तं प्रविभागो न कश् च न ॥ १।७४ ॥

भिन्नदर्शनम् आश्रित्य व्यवहारो ऽनुगम्यते ।
तत्र यन् मुख्यम् एकेषां तत्रान्येषां विपर्ययः ॥ १।७५ ॥

स्फोटस्याभिन्नकालस्य ध्वनिकालानुपातिनः ।
ग्रहणोपाधिभेदेन वृत्तिभेदं प्रचक्षते ॥ १।७६ ॥

स्वभावभेदान् नित्यत्वे ह्रस्वदीर्घप्लुतादिषु ।
प्राकृतस्य ध्वनेः कालः शब्दस्येत्य् उपचर्यते ॥ १।७७ ॥

शब्दस्य ग्रहणे हेतुः प्राकृतो ध्वनिर् इष्यते ।
स्थितिभेदनिमित्तत्वं वैकृतः प्रतिपद्यते ॥ १।७८ ॥

शब्दस्योर्ध्वम् अभिव्यक्तेर् वृत्तिभेदं तु वैकृताः ।
ध्वनयः समुपोहन्ते स्फोटात्मा तैर् न भिद्यते ॥ १।७९ ॥

इन्द्रियस्यैव संस्कारः शब्दस्यैवोभयस्य वा ।
क्रियते ध्वनिभिर् वादास् त्रयो ऽभिव्यक्तिवादिनाम् ॥ १।८० ॥

इन्द्रियस्यैव संस्कारः समाधानाञ्जनादिभिः ।
विषयस्य तु संस्कारस् तद्गन्धप्रतिपत्तये ॥ १।८१ ॥

चक्षुषः प्राप्यकारित्वे तेजसा तु द्वयोर् अपि ।
विषयेन्द्रिययोर् इष्टः संस्कारः स क्रमो ध्वनेः ॥ १।८२ ॥

स्फोटरूपाविभागेन ध्वनेर् ग्रहणम् इष्यते ।
कैश् चिद् ध्वनिर् असंवेद्यः स्वतन्त्रो ऽन्यैः प्रकल्पितः ॥ १।८३ ॥

यथानुवाकः श्लोको वा सोढत्वम् उपगच्छति ।
आवृत्त्या न तु स ग्रन्थः प्रत्यावृत्ति निरूप्यते ॥ १।८४ ॥

प्रत्ययैर् अनुपाख्येयैर् ग्रहणानुगुणैस् तथा ।
ध्वनिप्रकाशिते शब्दे स्वरूपम् अवधार्यते ॥ १।८५ ॥

नादैर् आहितबीजायाम् अन्त्येन ध्वनिना सह ।
आवृत्तपरिपाकायां बुद्धौ शब्दो ऽवधार्यते ॥ १।८६ ॥

असतश् चान्तराले याञ् शब्दान् अस्तीति मन्यते ।
प्रतिपत्तुर् अशक्तिः सा ग्रहणोपाय एव सः ॥ १।८७ ॥

भेदानुकारो ज्ञानस्य वाचश् चोपप्लवो ध्रुवः ।
क्रमोपसृष्टरूपा वाग् ज्ञानं ज्ञेयव्यपाश्रयम् ॥ १।८८ ॥

यथाद्यसङ्ख्याग्रहणम् उपायः प्रतिपत्तये ।
सङ्ख्यान्तराणां भेदे ऽपि तथा शब्दान्तरश्रुतिः ॥ १।९० ॥

प्रत्येकं व्यञ्जका भिन्ना वर्णवाक्यपदेषु ये ।
तेषाम् अत्यन्तभेदे ऽपि सङ्कीर्णा इव शक्तयः ॥ १।९१ ॥

यथैव दर्शनैः पूर्वैर् दूरात् सन्तमसे ऽपि वा ।
अन्यथाकृत्य विषयम् अन्यथैवाध्यवस्यति ॥ १।९२ ॥

व्यज्यमाने तथा वाक्ये वाक्याभिव्यक्तिहेतुभिः ।
भागावग्रहरूपेण पूर्वं बुद्धिः प्रवर्तते ॥ १।९३ ॥

यथानुपूर्वीनियमो विकारे क्षीरबीजयोः ।
तथैव प्रतिपत्तॄणां नियतो बुद्धिषु क्रमः ॥ १।९४ ॥

भागवत्स्व् अपि तेष्व् एव रूपभेदो ध्वनेः क्रमात् ।
निर्भागेष्व् अभ्युपायो वा भागभेदप्रकल्पनम् ॥ १।९५ ॥

अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता ।
कैश् चिद् व्यक्तय एवास्या ध्वनित्वेन प्रकल्पिताः ॥ १।९६ ॥

अविकारस्य शब्दस्य निमित्तैर् विकृतो ध्वनिः ।
उपलब्धौ निमित्तत्वम् उपयाति प्रकाशवत् ॥ १।९७ ॥

न चानित्येष्व् अभिव्यक्तिर् नियमेन व्यवस्थिता ।
आश्रयैर् अपि नित्यानां जातीनां व्यक्तिर् इष्यते ॥ १।९८ ॥

देशादिभिश् च सम्बन्धो दृष्टः कायवताम् अपि ।
देशभेदविकल्पे ऽपि न भेदो ध्वनिशब्दयोः ॥ १।९९ ॥

ग्रहणग्राह्ययोः सिद्धा योग्यता नियता यथा ।
व्यङ्ग्यव्यञ्जकभावे ऽपि तथैव स्फोटनादयोः ॥ १।१०० ॥

सदृशग्रहणानां च गन्धादीनां प्रकाशकम् ।
निमित्तं नियतं लोके प्रतिद्रव्यम् अवस्थितम् ॥ १।१०१ ॥

प्रकाशकानां भेदांश् च प्रकाश्यो ऽर्थो ऽनुवर्तते ।
तैलोदकादिभेदे तत् प्रत्यक्षं प्रतिबिम्बके ॥ १।१०२ ॥

विरुद्धपरिमाणेषु वज्रादर्शतलादिषु ।
पर्वतादिसरूपाणां भावानां नास्ति सम्भवः ॥ १।१०३ ॥

तस्माद् अभिन्नकालेषु वर्णवाक्यपदादिषु ।
वृत्तिकालः स्वकालश् च नादभेदाद् विभज्यते ॥ १।१०४ ॥

यः संयोगविभागाभ्यां करणैर् उपजन्यते ।
स स्फोटः शब्दजाः शब्दा ध्वनयो ऽन्यैर् उदाहृताः ॥ १।१०५ ॥

अल्पे महति वा शब्दे स्फोटकालो न भिद्यते ।
परस् तु शब्दसन्तानः प्रचयापचयात्मकः ॥ १।१०६ ॥

दूरात् प्रभेव दीपस्य ध्वनिमात्रं तु लक्ष्यते ।
घण्टादीनां च शब्देषु व्यक्तो भेदः स दृश्यते ॥ १।१०७ ॥

द्रव्याभिघातात् प्रचितौ भिन्नौ दीर्घप्लुताव् अपि ।
कम्पे तूपरते जाता नादा वृत्तेर् विशेषकाः ॥ १।१०८ ॥

अनवस्थितकम्पे ऽपि करणे ध्वनयो ऽपरे ।
स्फोटाद् एवोपजायन्ते ज्वाला ज्वालान्तराद् इव ॥ १।१०९ ॥

वायोर् अणूनां ज्ञानस्य शब्दत्वापत्तिर् इष्यते ।
कैश् चिद् दर्शनभेदो हि प्रवादेष्व् अनवस्थितः ॥ १।११० ॥

तस्य कारणसामर्थ्याद् वेगप्रचयधर्मणः ।
सन्निपाताद् विभज्यन्ते सारवत्यो ऽपि मूर्तयः ॥ १।११२ ॥

अणवः सर्वशक्तित्वाद् भेदसंसर्गवृत्तयः ।
छायातपतमःशब्द- भावेन परिणामिनः ॥ १।११३ ॥

स्वशक्तौ व्यज्यमानायां प्रयत्नेन समीरिताः ।
अभ्राणीव प्रचीयन्ते शब्दाख्याः परमाणवः ॥ १।११४ ॥

अथायम् आन्तरो ज्ञाता सूक्ष्मवागात्मनि स्थितः ।
व्यक्तये स्वस्य रूपस्य शब्दत्वेन विवर्तते ॥ १।११५ ॥

स मनोभावम् आपद्य तेजसा पाकम् आगतः ।
वायुम् आविशति प्राणम् अथासौ समुदीर्यते ॥ १।११६ ॥

अन्तःकरणतत्त्वस्य वायुर् आश्रयतां गतः ।
तद्धर्मेण समाविष्टस् तेजसैव विवर्तते ॥ १।११७ ॥

विभजन् स्वात्मनो ग्रन्थीञ् श्रुतिरूपैः पृथग्विधैः ।
प्राणो वर्णान् अभिव्यज्य वर्णेष्व् एवोपलीयते ॥ १।११८ ॥

आत्मा बुद्ध्या समर्थ्यार्थान् मनो युङ्क्ते विवक्षया ।
मनः कायाग्निम् आहन्ति स प्रेरयति मारुतम्] ॥ १।११९ ॥

अजस्रवृत्तिर् यः शब्दः सूक्ष्मत्वान् नोपलभ्यते ।
व्यजनाद् वायुर् इव स स्वनिमित्तात् प्रतीयते ॥ १।१२० ॥

तस्य प्राणे च या शक्तिर् या च बुद्धौ व्यवस्थिता ।
विवर्तमाना स्थानेषु सैषा भेदं प्रपद्यते ॥ १।१२१ ॥

शब्देष्व् एवाश्रिता शक्तिर् विश्वस्यास्य निबन्धनी ।
यन्नेत्रः प्रतिभात्मायं भेदरूपः प्रतायते ॥ १।१२२ ॥

शब्दादिभेदः शब्देन व्याख्यातो रूप्यते यतः ।
तस्माद् अर्थविधाः सर्वाः शब्दमात्रासु निश्रिताः ॥ १।१२३ ॥

शब्दस्य परिणामो ऽयम् इत्य् आम्नायविदो विदुः ।
छन्दोभ्य एव प्रथमम् एतद् विश्वं प्रवर्तते ॥ १।१२४ ॥

विभज्य बहुधात्मानं स च्छन्दस्यः प्रजापतिः ।
छन्दोमयीभिर् मात्राभिर् बहुधैव विवेश तम् ॥ १।१२५ ॥

साध्वी वाग् भूयसी येषु पुरुषेषु व्यवस्थिता ।
अधिकं वर्तते तेषु पुण्यं रूपं प्रजापतेः ॥ १।१२६ ॥

प्राजापत्यं महत् तेजस् तत्पात्रैर् इव संवृतम् ।
शरीरभेदे विदुषां स्वां योनिम् उपधावति ॥ १।१२७ ॥

यद् एतन् मण्डलं भास्वद् धाम चित्रस्य राधसः ।
तद्भावम् अभिसम्भूय विद्यायां प्रविलीयते ॥ १।१२८ ॥

इतिकर्तव्यता लोके सर्वा शब्दव्यपाश्रया ।
यां पूर्वाहितसंस्कारो बालो ऽपि प्रतिपद्यते ॥ १।१२९ ॥

यः करणविन्यासः प्राणस्योर्ध्वं समीरणम् ।
स्थानानाम् अभिघातश् च न विना शब्दभावनाम् ॥ १।१३० ॥

न सो ऽस्ति प्रत्ययो लोके यः शब्दानुगमाद् ऋते ।
अनुविद्धम् इव ज्ञानं सर्वं शब्देन भासते ॥ १।१३१ ॥

वाग्रूपता चेद् उत्क्रामेद् अवबोधस्य शाश्वती ।
न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥ १।१३२ ॥

सा सर्वविद्याशिल्पानां कलानां चोपबन्धनी ।
तद्वशाद् अभिनिष्पन्नं सर्वं वस्तु विभज्यते ॥ १।१३३ ॥

सैषा संसारिणां सञ्ज्ञा बहिर् अन्तश् च वर्तते ।
तन्मात्राम् अव्यतिक्रान्तं चैतन्यं सर्वजातिषु ॥ १।१३४ ॥

अर्थक्रियासु वाक् सर्वान् समीहयति देहिनः ।
तदुत्क्रान्तौ विसञ्ज्ञो ऽयं दृश्यते काष्ठकुड्यवत् ॥ १।१३५ ॥

भेदोद्ग्राहविवर्तेन लब्धाकारपरिग्रहा ।
आम्नाता सर्वविद्यासु वाग् एव प्रकृतिः परा ॥ १।१३६ ॥

एकत्वम् अनतिक्रान्ता वाङ्नेत्रा वाङ्निबन्धनाः ।
पृथक् प्रत्यवभासन्ते वाग्विभागा गवादयः ॥ १।१३७ ॥

षड्द्वारां षडधिष्ठानां षट्प्रबोधां षडव्ययाम् ।
ते मृत्युम् अतिवर्तन्ते ये वै वाचम् उपासते ॥ १।१३८ ॥

प्रविभागे यथा कर्ता तया कार्ये प्रवर्तते ।
अविभागे तथा सैव कार्यत्वेनावतिष्ठते ॥ १।१३९ ॥

प्रविभज्यात्मनात्मानं सृष्ट्वा भावान् पृथग्विधान् ।
सर्वेश्वरः सर्वमयः स्वप्ने भोक्ता प्रवर्तते ॥ १।१४० ॥

स्वमात्रा परमात्रा वा श्रुत्या प्रक्रम्यते यथा ।
तथैव रूढताम् एति तया ह्य् अर्थो विधीयते ॥ १।१४१ ॥

अत्यन्तम् अतथाभूते निमित्ते श्रुत्यपाश्रयात् ।
दृश्यते ऽलातचक्रादौ वस्त्वाकारनिरूपणा ॥ १।१४२ ॥

अपि प्रयोक्तुर् आत्मानं शब्दम् अन्तर् अवस्थितम् ।
प्राहुर् महान्तम् ऋषभं येन सायुज्यम् इष्यते ॥ १।१४३ ॥

तस्माद् यः शब्दसंस्कारः सा सिद्धिः परमात्मनः ।
तस्य प्रवृत्तितत्त्वज्ञस् तद् ब्रह्मामृतम् अश्नुते ॥ १।१४४ ॥

प्राणवृत्तिम् अतिक्रान्ते वाचस् तत्त्वे व्यवस्थितः ।
क्रमसंहारयोगेन संहृत्यात्मानम् आत्मनि ॥ १।१४५ ॥

वाचः संस्कारम् आधाय वाचं ज्ञाने निवेश्य च ।
विभज्य बन्धनान्य् अस्याः कृत्वा तां छिन्नबन्धनाम् ॥ १।१४६ ॥

ज्योतिर् आन्तरम् आसाद्य च्छिन्नग्रन्थिपरिग्रहः ।
कारणज्योतिषैकत्वं छित्त्वा ग्रन्थीन् प्रवर्तते ॥ १।१४७ ॥

न जात्व् अकर्तृकं कश् चिद् आगमं प्रतिपद्यते ।
बीजं सर्वागमापाये त्रय्य् एवातो व्यवस्थिता ॥ १।१४८ ॥

अस्तं यातेषु वादेषु कर्तृष्व् अन्येष्व् असत्स्व् अपि ।
श्रुतिस्मृत्युदितं धर्मं लोको न व्यतिवर्तते ॥ १।१४९ ॥

ज्ञाने स्वाभाविके नार्थः शास्त्रैः कश् च न विद्यते ।
धर्मो ज्ञानस्य हेतुश् चेत् तस्याम्नायो निबन्धनम् ॥ १।१५० ॥

वेदशास्त्राविरोधी च तर्कश् चक्षुर् अपश्यताम् ।
रूपमात्राद् धि वाक्यार्थः केवलं नातितिष्ठति ॥ १।१५१ ॥

सतो ऽविवक्षा पारार्थ्यं व्यक्तिर् अर्थस्य लैङ्गिकी ।
इति न्यायो बहुविधस् तर्केण प्रविभज्यते ॥ १।१५२ ॥

शब्दानाम् एव सा शक्तिस् तर्को यः पुरुषाश्रयः ।
स शब्दानुगतो न्यायो ऽनागमेष्व् अनिबन्धनः ॥ १।१५३ ॥

यद् उदुम्बरवर्णानां घटीनां मण्डलं महत् ।
पीतं न गमयेत् स्वर्गं किं तत् क्रतुगतं नयेत् ॥ १।१५४ ॥

रूपादयो यथा दृष्टाः प्रत्यर्थं यतशक्तयः ।
शब्दास् तथैव दृश्यन्ते विषापहरणादिषु ॥ १।१५५ ॥

यथैषां तत्र सामर्थ्यं धर्मे ऽप्य् एवं प्रतीयताम् ।
साधूनां साधुभिस् तस्माद् वाच्यम् अभ्युदयार्थिनाम् ॥ १।१५६ ॥

सर्वो ऽदृष्टफलान् अर्थान् आगमात् प्रतिपद्यते ।
विपरीतं च सर्वत्र शक्यते वक्तुम् आगमे ॥ १।१५७ ॥

साधुत्वज्ञानविटया सेयं व्याकरणस्मृतिः ।
अविच्छेदेन शिष्टानाम् इदं स्मृतिनिबन्धनम् ॥ १।१५८ ॥

वैखर्या मध्यमायाश् च पश्यन्त्याश् चैतद् अद्भुतम् ।
अनेकतीर्थभेदायास् त्रय्या वाचः परं पदम् ॥ १।१५९ ॥

गौर् इव प्रक्षरत्य् एका रसम् उत्तमशालिनी ।
दिव्यादिव्येन रूपेण भारती गौः शुचिस्मिता ॥ १।१६० ॥

एतयोर् अन्तरं पश्य सूक्ष्मयोः स्पन्दमानयोः ।
प्राणापानान्तरे नित्यम् एका सर्वस्य तिष्ठति ॥ १।१६१ ॥

अन्या त्व् अप्रेर्यमाणैव विना प्राणेन वर्तते ।
जायते हि ततः प्राणो वाचम् आप्याययन् पुनः ॥ १।१६२ ॥

प्राणेनाप्यायिता सैवं व्यवहारनिबन्धनी ।
सर्वस्योच्छ्वासम् आसाद्य न वाग् वदति कर्हि चित् ॥ १।१६३ ॥

घोषिणी जातनिर्घोषा अघोषा च प्रवर्तते ।
तयोर् अपि च घोषिण्या निर्घोषैव गरीयसी ॥ १।१६४ ॥

स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा ।
वैखरी वाक् प्रयोक्तॄणां प्राणवृत्तिनिबन्धना ॥ १।१६५ ॥

केवलं बुद्ध्युपादान- क्रमरूपानुपातिनी ।
प्राणवृत्तिम् अतिक्रम्य मध्यमा वाक् प्रवर्तते ॥ १।१६६ ॥

अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा ।
स्वरूपज्योतिर् एवान्तः सूक्ष्मा वाग् अनपायिनी ॥ १।१६७ ॥

पीयूषापूर्यमाणापि नित्यम् आगन्तुभिर् मलैः ।
अन्त्या कलेव सोमस्य नात्यन्तम् अभिभूयते ॥ १।१६८ ॥

यस्यां दृष्टस्वरूपायाम् अधिकारो निवर्तते ।
पुरुषे षोडशकले ताम् आहुर् अमृतां कलाम् ॥ १।१६९ ॥

प्राप्तोपरागरूपा सा विप्लवैर् अनुषङ्गिभिः ।
वैखरी सत्त्वमात्रेव गुणैर् न व्यवकीर्यते ॥ १।१७० ॥

तद्विभागाविभागाभ्यां क्रियमाणम् अवस्थितम् ।
स्वभावज्ञैस् तु भावानां दृश्यन्ते शब्दशक्तयः ॥ १।१७१ ॥

अनादिम् अव्यवच्छिन्नां श्रुतिम् आहुर् अकर्तृकाम् ।
शिष्टैर् निबध्यमाना तु न व्यवच्छिद्यते स्मृतिः ॥ १।१७२ ॥

अविभागाद् विवृत्तानाम् अभिख्या स्वप्नवच् छ्रुतौ ।
भावतत्त्वं तु विज्ञाय लिङ्गेभ्यो विहिता स्मृतिः ॥ १।१७३ ॥

कायवाग्बुद्धिविषया ये मलाः समवस्थिताः ।
चिकित्सालक्षणाध्यात्म- शास्त्रैस् तेषां विशुद्धयः ॥ १।१७४ ॥

शब्दः संस्कारहीनो यो गौर् इति प्रयुयुक्ष्यते ।
तम् अपभ्रंशम् इच्छन्ति विशिष्टार्थनिवेशिनम् ॥ १।१७५ ॥

अस्वगोण्यादयः शब्दाः साधवो विषयान्तरे ।
निमित्तभेदात् सर्वत्र साधुत्वं च व्यवस्थितम् ॥ १।१७६ ॥

ते साधुष्व् अनुमानेन प्रत्ययोत्पत्तिहेतवः ।
तादात्म्यम् उपगम्येव शब्दार्थस्य प्रकाशकाः ॥ १।१७७ ॥

न शिष्टैर् अनुगम्यन्ते पर्याया इव साधवः ।
ते यतः स्मृतिशास्त्रेण तस्मात् साक्षाद् अवाचकाः ॥ १।१७८ ॥

अम्ब्वम्ब्व् इति यथा बालः शिक्षमाणो ऽपभाषते ।
अव्यक्तं तद्विदां तेन व्यक्तौ भवति निश्चयः ॥ १।१७९ ॥

एवं साधौ प्रयोक्तव्ये यो ऽपभ्रंशः प्रयुज्यते ।
तेन साधुव्यवहितः कश् चिद् अर्थो ऽभिधीयते ॥ १।१८० ॥

पारम्पर्याद् अपभ्रंशा विगुणेष्व् अभिधातृषु ।
प्रसिद्धिम् आगता येन तेषां साधुर् अवाचकः ॥ १।१८१ ॥

दैवी वाग् व्यतिकीर्णेयम् अशक्तैर् अभिधातृभिः ।
अनित्यदर्शिनां त्व् अस्मिन् वादे बुद्धिविपर्ययः ॥ १।१८२ ॥

उभयेषाम् अविच्छेदाद् अन्यशब्दविवक्षया ।
यो ऽन्यः प्रयुज्यते शब्दो न सो ऽर्थस्याभिधायकः ॥ १।१८३ ॥

॥ इति भर्तृहरिकृते वाक्यपदीये ब्रह्मकाण्डं समाप्तम् ॥