अनुनासिकता

सन्धौ

सन्धौ वैकल्पिकरूपाणि भवन्ति।

  • “अनुनासिकस्य ययि परसवर्णः” इत्यनेन सव्ँवारः इत्यादीनि रूपाणि।
  • विसर्गसन्धिसहितः
    • “नश् छव्य् अप्रशान्” इत्यनेन - । यथा - भवांस्तरति, भवाँस्तरति। भवांस्थूकरोति, भवाँस्थूकरोति । शार्ङ्गिँश्छिन्धि । शार्ङ्गिंश्छिन्धि । चक्रिँस्त्रायस्व । चक्रिंस्त्रायस्व ।
    • पशूंँस् ताँश् चक्रे।
    • विस्तारो ऽन्यत्र

अवसाने

  • “अणो+++(=अ/इ/उ)+++ ऽप्रगृह्यस्यानुनासिकः” इत्यनेन विरामे सति विकल्पेनानुनासिकता। यथा - हे बाल, हे बालँ । तथा, तथाँ। इति, इतिँ।

वेदेषु

  • “आङो ऽनुनासिकश् छन्दसि” इत्यनेन “यद॒भ्र आँ अ॒पो”।