परिचयः
- शिक्षाग्रन्थानाम् पात्रम् अन्यत्रोक्तम्।
सार्वत्रिकविकल्पाः
- “यरो द्वे वा” इत्यादिसूत्रैर् जन्यानि नैकानि रूपाण्य् अन्यत्रोक्तानि।
चयो द्वितीयाः शरि
चयो द्वितीयाः शरि पौष्करसादेः (वार्तिकम्)। चयो द्वितीया भवन्ति शरि परतः पौष्करसादेराचार्यस्य मतेन। तकारस्य थकारः वथ्सः। ककारस्य खकारः ख्षीरम्। पकारस्य फकारः अफ्सराः।
सन्धौ
- विसर्जनीयस्य सः (खरि)। शर्परे विसर्जनीयः। वा शरि। खर्परे शरि विसर्गलोपो वक्तव्यः।
- दुः + स्थितिः → दुस्थितिः, दुस्स्थितिः, दुःस्थितिः ।
ह्मकारे ह्नकारे ह्णकारे च
- नाट्यशास्त्रे - विपरीतं हमयोगे ब्रह्मादौ… २३ (नाट्यशास्त्र, अध्याय १७) इति प्राकृत एव विपरीतोच्चारणं विधत्ते।
- “हकारान् नणम-परान् नासिक्यम् " इति तैत्तिरीय-प्रातिशाख्य-सूत्रम् इमं यजुर्वेदिनामुच्चारणविशेषमनुविधत्ते ।
वबयोः
- धातुपाठे केचन धातवः वकार-बकार-भेदेन परिगणिताः विद्यन्ते । यथा - क्षीवृ / क्षीबृ मदे । पेवृ / पेबृ सेवने ।
- केचन पण्डिताः तु सर्वेषाम् एव बकारान्त/वकारान्तधातूनां एकत्वं मन्यन्ते । यथा, क्षीरतरङ्गिण्यां “कबृ वर्णे” इति धातोः “इ” प्रत्यये कृते “कवि” इति शब्दः साधितः अस्ति । परन्तु अयं पक्षः न सर्वसम्मतः । यथा, अमरकोशस्य सुधाव्याख्याने उच्यते — “कबृ वर्णे” इति मुकुटः (मूलधातुः) चिन्त्यः । तस्य औष्ठ्यान्तत्वात् । कविशब्दस्य दन्तोष्ठ्यान्तेषु पाठात् ।”
- कविशब्दस्य व्युत्पत्तिः - कुङ् (शब्दे, भ्वादिः / तुदादिः) / कु (शब्दे, अदादिः) + इ → कवि ।
- कबृ (वर्णे) धातोः सिद्धः शब्दः— कब् + उरच् → (रुमागमः भवति) कर्बुर ।
“there is a specific text called Dantyoṣṭhyavidhi to teach the distinction between व and ब, as these were confusing to some reciter, perhaps in Eastern India.”
लडयोः
क्षीरतरङ्गिणीटिप्पण्यां “लडँ विलासे” इत्यत्र लाडयति, “लडयोरेकत्वात् लालयति” इति निर्देशः वर्तते । अस्मिन् सन्दर्भे युधिष्ठिरमीमांंसकः वदति —
डलयोः एकत्वस्मरणं चिन्त्यम् । न हि डलयोः पृथक्-स्थान-प्रयत्न-साध्ययोः वर्णयोः एकत्वं शक्यते प्रतिज्ञातुम् ।
एवमेव, डळयोः एकत्वम्, रलयोः एकत्वम्, वबयोः एकत्वं च द्रष्टव्यम् ।
एतैः नियमैः निष्पादिताः प्रयोगाः वस्तुतः तद्विशिष्ट-वर्णवद्भ्यः धातुभ्यः निष्पन्नाः ।
आसन् पुरा एतादृशाः पृथगेव धातवः । तथा च दृश्यन्ते काशकृत्स्नपाठे ईड ईल स्तुतौ इति पृथग् द्वौ धातू ।
औत्तरकालिकैः तु वैयाकरणैः यदा भाषायां प्रयोगादर्शनात् ग्रन्थस्य सङ्क्षेपकारणात् वा केचन धातवः धातुपाठे न निबद्धाः, तदा तत्-समानार्थकाः वर्णभिन्नाः अपि प्रयोगाः एतादृशैः नियमैः निष्पादिताः ॥
पद्येषु
- “अपि माषं मषं कुर्यात् छन्दोभङ्गं न कारयेत्” इति प्रसिद्धा। रामायणे - " तस्याभिषेकसंभारान् दृष्ट्वा भार्या ऽथ कैकयी ।"
ऋग्-वेदे
initial sound (not word!) changes like īḍe -> Iḷe or súvàr -> svàr) and the subsequent orthoepic diaskeuasis (like pāvaka/pavāka), resulting in Śākalya’s RV Padapāṭha.
Vedic Variants occur in the adaptation and transmission of RV mantras in OTHER Vedas. RV mantras have been taken over early on by various Śākhās of the YV, SV, AV in “deteriorated” (perseverated) form, see Oldenberg (and even Aufrecht’s introduction to his RV edition!)
Oldenberg clearly shows how RV Mantras were adopted in perseverated form into the early YV while the later YV (Agnicayana) uses the correct, established forms of the RV transmission. Once adopted by the YV, SV, AV, they have been transmitted faithfully in the form they had attained in these various Śākhās. Hence so many “Vedic Variants”.
- M Witzel.
तैत्तिरीयशाखायाम्
पाणिनीय-विकल्पाः
केचन विकल्पाः सर्वत्रैव प्रायेणानुसृतः -
यद्यपि शाखान्तरे भाषायां च क्वचिद् एव विकल्पेन वर्तन्ते।
ङ्णोः कुक्टुक् शरि
प्रत्यङ् सोमो => प्रत्यङ्+क्+सोमो
प्रत्यङ् षडहो => प्रत्यङ् +क् +षडहो
चयो द्वितीयाः शरि
पाणिनीये वार्त्तिकम् -
चयो द्वितीयाः शरि पौष्करसादेः॥ चयो द्वितीया भवन्ति शरि परतः पौष्करसादेराचार्यस्य मतेन। तकारस्य थकारः-वथ्सः। ककारस्य खकारः-ख्षीरम्। पकारस्य फकारः-अफ्सराः॥
प्रातिशाख्ये “प्रथम ऊष्मपरो द्वितीयम्॥१४.१२॥ " इति।
नकारस्य ञकारः
“तकारश्चकारꣳ शचछपरः॥५.२२॥ नकार एतेषु ञकारम्॥५.२४॥"। तेन “अश्ञुते” इत्यादिकं साधु प्रातिशाख्यानुसारेण।
त्रिष्टुग् अनुष्टुक्
- क्वचित् त्रिष्टुग् अनुष्टुग् इति च दृश्यते। त्रि॒ष्टुगुद॑पत॒त्त्रयो॑दशाख्षरा।
- क्वचित् पदपाठे तु त्रिष्टुभ् अनुष्टुभ् इति तु लिख्यते, यथा ऽत्र - त्रि॒ष्टुगोज॑ इति संहितायाम्, “त्रिष्टुप्। ओजः।” इति तु पदपाठः।
- कुम्भघोण (ग्रन्थ,नागरलिप्योः) पुस्तक उभयत्र त्रिष्टुक् इत्येव पदपाठे ।
ककारागमः
if ङ् followed by स् , ष् then क् is Agama.
- प्रत्यङ् सोमो => प्रत्यङ्+क्+सोमो
- प्रत्यङ् षडहो => प्रत्यङ् +क् +षडहो
शिक्षाग्रन्थवृद्धिः
- षड्विंशतिसूत्राख्यलक्षणग्रन्थे, इतरशिक्षाग्रन्थेषु बहुषु कश्चन नियम ईरितः।
- भारद्वाजशिक्षायां यथा - अन्तःस्थाभ्यः पवर्गाच्च स्वरेभ्यः पूर्वतः स्थितौ । त्रिष्टुक् शब्दस्तथाऽनुष्टुक् ककारान्तावितीरितौ । अन्यत्र तु पकारान्तावेताविति विनिश्चितौ । अपवादः - प्राणानामिति च ग्रैष्मी पदयोः परभूतयोः । पूर्वस्य तु विधेस्तत्र वैपरीत्यमिति स्थितिः ।
- त्रि॒ष्टुग्ग्रै॒ष्मी (सं. 4-3-2). ॥ इति विद्यते। किन्तु, शाखान्तरे महाभाष्ये च - “त्रिष्टुब् ग्रैष्मी ।”
माध्यन्दिन-विकाराः
- भाषिकस्वरः तेषाम् उपनिषत्सु एव वर्तते - संहितायां नास्ति। तत्र हस्तस्वर एव प्रधानः।
षस्य खम्
- षकारस्य खकारोच्चारणं नियमानुसारं भवति
- तच्च प्रातिशाख्यपरिशिष्टात्मके कात्यायनकृते प्रतिज्ञासूत्रे “तस्मिञ्छुक्ले याजुषाम्नाये माध्यन्दिनीयके मन्त्रे स्वरप्रक्रिया। … अथो मूर्धन्यस्योष्मणोऽसंयुक्तस्य टुमृते संंयुक्तस्य च खकारोच्चारणमद्ध्ययनकर्मस्थवेलायाम् प्रकृत्या” इति वचनेनैव सुष्पष्टतयाऽन्वाख्यातमस्ति । [सम्मोदः अत्र]
- केशवीशिक्षायाम् - “षः खस् टुमृते च”
- एवं लघुमाध्यन्दिनशिक्षायामपि किञ्चित् - षकारस्य खकारस्स्यात् टुग्योगे तु न भवेत्।
- ऐतिहासिकदृष्ट्यै मूर्धापृष्ठम् ईक्षताम्।
जकारीकरणम्
एतेनैव प्रकारेण यकारस्य जकारोच्चारणमपि।
“पदादौ च पदादौ च संयोगाऽवग्रहेषु यः। जशब्द इति विज्ञेयो योऽन्यः स य इति स्मृतः ॥……”
इति याज्ञवल्क्यशिक्षायाम्।
एतच्च शतपथब्राह्मणे यथा लक्ष्यते, लिखितपाठेषु - ॺ-कारप्रयोगेण दर्श्यते।
प्रतिज्ञासूत्रेऽपि सूत्रमस्ति “अथान्तस्थानामाद्यस्य…"। किञ्च काण्वानाम् न तथा भवति, समानप्रातिशाख्यवताम्!
वकार-द्वित्त्वम्
वकारस्त्रिविधः प्रोक्तो गुरुर्ल्लघुलघूतरः
आदौ गुरुर्लघुर्मध्ये पदस्यान्ते लघूतरः
तत्र तत्र वकारो दीर्घीभवति। यथा शतपथब्राह्मणे -
पवि᳘त्रे स्थो व्वैष्ण᳘व्यावि᳘ति यज्ञो वै व्वि᳘ष्णुर्यज्ञि᳘येस्थऽ इ᳘त्ये᳘वैत᳘दाह॥