विसर्गः

स्थानम्

कण्ठोरसी

ऋक्प्रातिशाख्ये तैत्तिरीयप्रातिशाख्ये (कण्ठस्थानौ हकारविसर्जनीयौ॥२.४६॥) वाजसनेयिप्रातिशाख्ये च विसर्जनीयः कण्ठ्य इत्युक्तः।

किन्तु ऋक्प्रातिशाख्ये कथ्यते यत्, केचिदाचार्या इमम् उरस्यं मन्वते इति - केचिदेता उरस्यौ। (ऋ०प्रा० १। ४०)
अत्र हकार-विसर्जनीययोर् भेद एव विवक्षितो भाति,
स च प्रयत्न-विभागय् उच्यते।
नूनं विसर्गोचितो वायुरोधो मुख-विवरे हककारादिवत् कण्ठैकदेशे हि भवतीति नानुभूयते (यद्य् अपि तद् अपि स्थानं न तिरस्-क्रियते)।
अत एव च विसर्गस्य संहितायां स्थान्तरप्राप्तिश् च प्रसज्यतेतमाम् - शर्-उपध्मानीयादेशैः।

पूर्व-स्वर-स्थानं क्वचित्

तत्रैव तैत्तिरीयप्रातिशाख्यानुसारं विसर्जनीयस्य स्थानान्तरम् अप्युक्तम् -
यस्मात् स्वरात् परं विसर्जनीयस्तिष्ठति तस्येव उच्चारण-स्थानं भवति विसर्जनीयस्य (पूर्वान्तसस्थानो विसर्जनीयः॥२.४८॥)।

किन्तु ऋक्प्रातिशाख्ये निरस्त इति कश्चिद्दोष उक्तः।
पूर्ववर्ति-दीर्घ-वर्णस्य स्थानाद् विसर्जनीयस्य उच्चारणे ऽयं दोष उक्तः।
तथाहि–

स्वरात् परं पूर्व-सस्थानम् आहुर् दीर्घान् निरस्तं तु विसर्जनीयम्। (ऋ०प्रा० १४। ३०)

अनयोर् मतयोः समन्वयः कथम् इति उवटेन सम्यक् प्रदर्शितम्।
उवटो ऽस्य सूत्रस्य व्याख्याने पक्ष-द्वयं कल्पयति। तथाहि–

  • १. दीर्घात्परस्य विसर्जनीयस्यैव पूर्वसस्थानत्वं भवति - दीर्घात् स्वरात् परो विसर्जनीयो देवैरपि उच्चारयितुं न शक्यते इत्यतः।
  • २. अन्यस्थाने पूर्व-सस्थानत्वं दोषाय।

एवं संहितायाम् अपि पूर्व-सस्थानत्वं दोषायेति विश्वासः -
यथा “अन्तः सरित्” इत्यत्र।
पूर्वस्वरस्थानत्वे ऽपि प्रयत्ने व्यत्यासः पश्चाद् वक्ष्यते।

प्रयत्नः

विसर्जनम्

विसर्गो नाम प्राक्तन-स्वरस्योच्चारणे यो वायुस् तस्यान्तिमभागस्य विसर्जनम्, तेन प्राक्तनस्वरस्य कर्तनम् इव। एवं विसृष्टो वायुभागः प्राक्तनस्वरस्य छायामिवेषद् अनुवहति।

प्रातिशाख्येषु संज्ञा (द्रष्टुं नोद्यम्)
  • (प्रमाण-स्रोतांसि - राकेशवचनानि।)
  • तैत्तिरीयप्रातिशाख्यस्य वैदिकाभरणभाष्ये उच्यते यत् “वायोर्विसर्जनेन जन्यत्वाद् अयं विसर्जनीयो भवति”। (तै०प्रा०वै०भा० १। १८)
  • ऋक्प्रातिशाख्ये तथा तैत्तिरीयप्रातिशाख्ये यद्यपि विसर्जनीयसंज्ञा न विहिता किन्तु विसर्जनीयशब्दस्य बहुधा प्रयोग उपलभ्यते।
  • वाजसनेयिप्रातिशाख्ये तथा ऋक्तन्त्रे विसर्जनीयसंज्ञा विहिता। (अः इति विसर्जनीयः। वा०प्रा० ८। २२, ऋ०तं० १। २) अथर्वप्रातिशाख्ये विसर्जनीयसंज्ञा न विधीयते। किन्तु विसर्जनीयशब्दस्य प्रयोगः बहुधा समुपलभ्यते। किन्तु, विसर्जनीयस्य कृते अभिनिष्ठानशब्दस्य प्रयोगोऽपि अत्र विहितः। तथाहि– विसर्जनीयोऽभिनिष्ठानः। (च०अ० १। ४२)

शुद्ध-हकाराद् भेदः

तेनासौ शब्दः शुद्धहकाराद् भिन्नो भवति।
शुद्धहकारापेक्षया जिह्वा वायुम् बाधतेतराम्, मुखच्छदम् प्राप्नोतितराम्।

परं च -
“लक्ष्मीः” इत्यत्र वाऽन्तिमः शब्दः
“लक्ष्मीह्” इति वोच्चारिते श्रूयमाणात्
प्राक्तन-स्वर-च्छाया-रहित-शुद्ध-हकाराद् भिन्नो भवति।

जिह्वामूलीयाद् भेदः

जिह्वामूलीये शुद्ध-विसर्गापेक्षया जिह्वा वायुम् बाधतेतराम्,
मुख-च्छदम् प्राप्नोतितराम् (किञ्च, न ककारं यावत्)।

पाणिनिः - शर्परे विसर्जनीयः (खरि विसर्जनीयस्य)
तत्र संहितायां सत्याम्, जीह्वामूलीयवज् जिह्वामूल-स्पर्शो न भवति,
किञ्च वाक्यान्त-विसर्गवत् प्राक्तन-स्वरानूच्चारणम् अपि न भवति -
“अन्तस् सरति” इत्यादेर् अपेक्षया “अन्तः सरति” इत्यादौ यथा।

स्वर-सहित-हकाराद् भेदः

यः स्वर-सहित-हकार-सदृशः शब्दश् श्रूयेत क्वचित्,
स पूर्ण-स्वर-युक्त-हकाराद् भिन्नो भवति -
तस्याव्यक्ततरत्वात्,
निम्न-ध्वनित्वाद् अल्प-तर-मात्रात्वाच् च।
नाम “हरिहि” इत्युच्चारिते यो ऽन्यवर्ण-सदृशं व्यक्तः हि-कारश् श्रूयते ऽन्ते,
तद्-अपेक्षया “हरिः” इत्य्-उक्तय् इकाराद् उत्तरो ऽन्तिमवर्णो ऽबुद्धि-पूर्वको ऽव्यक्ततरो निम्न-ध्वनिश् च भवति।
यावान् अत्रोच्चारणे व्यक्तता ऽन्तिम-वर्णस्य,
तावान् ह्यत्र दोषः।
किञ्चाऽन्तिमशब्दस्य +अव्यक्ततायाम् अभावे वा प्रयत्नातिशये कृतेऽपि दोषः।

तुल्याभिप्रायाः

लघुमाध्यन्दिन-शिक्षायाम् -

देवो वः सविता चात्र हकारसदृशो भवेत् १८
देवीस्तिस्रो विसर्गस्तु हिकारसदृशो भवेत्
आखुस्ते पशुरित्यादौ हकारसदृशो भवेत् १९
विसर्गश्चाग्नेरित्यादौ हेकारसदृशो भवेत्
विसर्गो बाह्वोरित्यादौ होकारसदृशो भवेत् २०
अथ स्वैर्दृक्षैरित्यादौ हिकारसदृशो भवेत्
विसर्गो द्यौष्पितेत्यादौ हकारसदृशो भवेत् २१
हकारो नैव मन्तव्य इति शास्त्रव्यवस्थितिः
फणि-निश्वास-सदृशो विसर्गो भवति ध्रुवम् २२

अर्वाचीन-विकारः

“the voiced ह survived in all the Prakrits from the ancient to modern times. Under the influence of this situation, the pronunciation of visarga was affected and in many regions of India a word like देवैः came to be pronounced as देवैहि. This is no surprise, as the instrumental plural form reported in Prakrit and Pali exactly matches देवेहि [Skt. ऐ > ए, standard change in Pali and Prakrit]. "

इति देशपाण्डेय-माधवः। नैवमित्यन्ये।

ॠः (द्रष्टुं नोद्यम्)

मातॄः - One might wonder if it would be pronounced closer to RRhi or RRhu or RRha (the last vowel being indistinct/ muted). Answer is that it depends on the way ॠ is pronounced - is it closer to री or रू, or neither (pure र्-like). The last would be most justifiable due to its distinctiness.

उपध्मानीयदेर् भेदः

पफयोः परयोर् यद् वायु-विसर्गो भवति,
तत्र यदोष्ठौ प्रयुज्येते, तत्रोपध्मानीयः।
साधारण-विसर्गे तु न तथेति व्यत्यासः।

एवं सशषकारेभ्योऽपि स्थान-भेदो ज्ञेयः।

प्रदर्शनानि

  • धनञ्जयवैद्यो ऽत्र - विसर्गः (<-रुचिकरोयम्! विसर्गस्य ऊष्माणत्वेऽङ्गीकृते प्रातिशाख्यैर् अत्र परिष्कारोऽपेक्षितः।)।
  • YT19 (<- शुद्धाद् +हकाराद् भेदं नालं दर्शयति।)
  • पेजावर-माध्व-मठस्य विश्वप्रसन्नतीर्थो ऽत्र
  • उज्ज्वलो राजपुत्रः - “मया॑ क॒दाचि॑त् कारणविशे॒षाद् दन्ता॑दिना॒ केनापि॑ मुखस्था॒नेन॑ जिह्वा॒ग्रं संयो॑जयितु॒म् अश॑क्नुवता सका॒रम् उच्चा॑रयितु॒म् अस॑मर्थे॒नापि॑ आर्यभा॒षाया॒ अल॑मर्थं॒ बस् इत्ये॒नं शब्दं॑ कारणान्त॒रात् क॒थमपि॒ विव॑क्षता॒ तस्य॒ यो नेदि॑ष्ठश्रवणः॒ शब्दः॑ कृ॒तस् तस्यान्ते॑ विस॒र्गमि॑व श्रु॒तव॑ता विस्म॒यो ल॒ब्धः। यत् सं॑स्कृतवा॒क्येषु॑ यत्राव॒साने॑षु विस॒र्ग उ॒च्यते॒ तत्रै॒वान्यासु॒ सम्ब॑द्धासु॒ ग्रीका॑दिषु वा॒क्षु स॑का॒र इति॒ तेन॒ ममापि॑ आर्यभा॒षायाः॑ सका॒रस्य॒ तस्या॑म् अव॒स्थायां॑ विसर्गो॒च्चार॑ण॒म् उप॑पद्यत ए॒व।”