मुखात् बहिः प्रयत्नः। यथा नासिकायां वा घोषतन्त्रीपरिसरे वा।
the båhya-prayatna is the mode of articulation at the close of the utterance of the sound. - vAsu
यमाः
“वर्गेष्व् आद्यानां चतुर्णां पञ्चमे परे मध्द्ये यमो नाम पूर्वसदृशो वर्णः प्रातिशाख्ये प्रसिद्धः ।
पलिक्क्नी, चख्ख्नतु, अग्ग्नि, घ्घ्नतीत्यत्र क्रमेण कखगघेभ्यः परे तत्सदृशा एव यमा । तत्र वर्गाणां प्रथमद्वितीया खय, तथा तेषामेव यमाः।”
इति सिद्धान्तकौमुदी।
“अनुस्वार-यमानाञ्च नासिकास्थानमुच्यते।”
इति काचित् शिक्षा।
“पूर्ववर्ण इव स्थानप्रयत्नं नासिका चाधिकं स्थानं इति मन्ये ।
अतः वर्गस्य तृतीयवर्णात्परो यो यमस्तस्य विशेषं नास्तिप्रायम्, वर्गस्य पञ्चमवर्णवदेव श्रूयते । वर्गचतुर्थात्परस्य यमस्य वैशिष्ट्यम् ईषदेव, महाप्राणे विशेषः । वर्गस्य प्रथमद्वितीययोः परौ यौ यमौ, ते विवार-श्वासाघोषत्वात् वर्गस्य पञ्चमाद्भिन्नौ प्रतीयेते ।”
इति धनञ्जयः।