गलदृक् शिक्षा
इषेत्त्वाऽश्श्वस्तूपरः समिद्धोऽअञ्जन्त्सहस्रशीर्षा पुरुषस्तदेव स्वाहा
प्राणेभ्यश्चेत्येतेष्वध्यायेषु न गलिता ऋचः । द्वितीयेऽध्यायेऽग्ग्ने
व्रतपतऽ इति पश्चात्प्रविष्टाऽतस्त्र्यस्त्रिंशत् । तृतीयेऽध्यायेऽयमग्निः
पुरीष्य इति प्रविष्टाऽतो द्विषष्टिः । पञ्चमेऽध्यायेऽग्ग्ने व्रतपाश्च प्रविष्टोरु
व्विष्णो गतोऽतएकचत्वारिंशत् । षष्ठे ध्याये प्रथमा ऋग्गलितारेवतीरमद्ध्व-
मित्यत्र देवस्य त्वा एवं पञ्चत्रिंशत् । वाचस्पतय इत्यत्र स्वाङ्कृतोऽसि
आत्मने मे सम्पृक्ते । अयन्नोऽग्नेनयलुप्तत्वाच्चतुश्चत्वारिंशत् ।
आदित्येब्भ्यस्त्वेत्यत्र कदाचन । संव्वर्च्चसा युग्देवा गातुविदऽ
उदुत्त्यमवभृथनिचुम्पुणोशिक्त्वं गलिते सप्त षट्पञ्चाशत् । देव सवितरित्यत्र
देवस्याहमेकोनचत्वारिंशत् । अपो देवाऽ इत्यत्र सोमस्य त्विषिरिमं देवा
लुप्ता द्वात्रिंशत् । युञ्जान इत्यत्र युञ्जते मनो व्विश्श्वो देवस्य देव सवितः
पृथिव्याः सधस्थाद्वसवस्त्त्वाच्छृदन्तुमिलिताष्टाशीतिः । दृशानऽ इत्यत्र
हंसः शुचिषदक्रन्ददग्निर्द्वे दृशानो रुक्मः समिधाग्नि पुनरुर्ज्जा सहरय्याऽयन्ते
भवतन्नऽ इति मिलिता अष्टोत्तरशतम् । मयि गृह्णाम्यग्निर्म्मूर्द्धा प्रविष्टाऽ
अपाम्पृष्ठं महीद्यौर्व्विष्णोः कर्माणि चित्रन्देवानां त्रिपञ्चाशत् । ध्रुवक्षितिः
शुक्क्रश्च विश्वकर्मा त्वा द्वे नभश्चेषश्च राज्ञ्यसि मिलितं सहश्च षट्त्रिंशत् ।
अग्ने जातानग्निर्म्मूर्द्धा त्वामग्ने पुष्करादधि भुवो यज्ञस्यायमिहाग्ने त्त्वमयन्ते
लोकम्पृणताऽ अस्येन्द्रं विव्वा न चैता लुप्यन्ति परमेष्ठी त्वा द्वौ मिलिता
चतुः पञ्चाशत् । नमोऽस्तु नीलग्रीवाय नमोऽस्तु रुद्द्रेभ्यो द्वौ
मिलित्त्वाऽतस्त्रिषष्टिः । अश्मन्नूर्ज्जं हिमस्य त्वा व्वाचस्पतिं
विश्वकर्मन्हविषोदुत्वेंद्रंविश्वा नक्तोषासाऽग्ने तं सप्तनवतिः ।
वाजश्च देवस्य त्त्वा वाजस्यतु यास्ते या वऽ उद्बुध्यस्व येन व्वहसि
विनस्त्वंय्यविष्ठ्ठैकोनसप्ततिः । स्वाद्वीन्त्वा व्वायोः पूतः कुविदङ्ग
त्रिणवतिः । क्षत्रस्य योनिः समद्रे तऽ उपयामगृहीतोऽसि पुत्रमिव
निषसाद यदि जाग्रद्यदापो यदि दिवा यत्रेन्द्रश्च युवं सुराममिति नवतिः ।
इमम्मे तन्त्वा शन्नो वाजेवाजेऽवत होता यक्षदिनमृषभस्येति सरस्वतीम्मेषस्येति
प्रविष्टाः सप्तपञ्चाशत् । तेजोऽसि तत्त्सवितुर्विश्वोदेवस्य पृथिव्यै स्वाहा मधवे
स्वाहा वाजाय स्वाहाऽसवे स्वाहेति प्रविष्टा एकोनविंशतिः । हिरण्यगर्भः
कुविदङ्ग कः स्वित्सूर्यऽएकाकी स्विद्द्यौराशसीदुपयामगृहीतोऽसि सप्तपञ्चाशत् ।
शादन्दद्द्भिर्हिरण्यगर्भो यः प्राणतोऽग्ने त्वञ्चतुश्चत्वारिंशत् । अग्निश्च
वैश्वानरो नः पञ्च विंशतिः । समास्त्वोद्वयञ्चतुश्चत्वारिंशत् । होता
यक्षद्देवा दैव्या शुचिमुष्णिहानन्तरं सर्वाऽनः पञ्चत्रिंशत् । देव
सवितस्तत्त्सवितुर्विंशत् । अस्या ज रासो युक्ष्वा ह्ययमिह मूर्द्धानन्दिवऽ
उदुत्त्यंविश्वेऽअद्येन्द्र वायू यज्ञो देवानां गावऽ उप दैव्यावद्धर्य्यूऽअदब्धेभिः
सप्ताशीति । यज्जाग्रतऽआकृष्णेन सप्तपञ्चाशत् । अपेतोऽश्वत्थे वः
सुमित्रियांनऽ उद्द्वयमन्नऽआयूंषि ह्यष्टादश । ऋचंव्वाचम्भूर्भुवः कया नः
कस्त्वा स्योना पृथिवि आपो हिष्ठ्ठेति तिस्रो नमस्ते हरसे सुमित्रिया नोऽभीषुणो
दृते दृंह त्रयोदश । देवस्य त्वा देवी द्यावा पृथिवीऽन्द्रस्यौजोऽश्वस्य त्त्वा
ऋजवे त्वे यत्त्यग्रे प्रविष्टास्त्रयो हृदे त्वा युञ्जते मनः प्रैतु मखस्य शिरस्त्रयोदश ।
देवस्य त्वा सुमित्रिया नऽ उद्वयमेधोऽसीडऽ ह्यदित्यै रास्नासीन्द्राय त्वा
षड् द्वाविंशत् । ईशावास्यमन्धन्तमोऽन्यदेव सम्भूतिं च मिलितास्त्रयोऽग्नेनय
त्रयोदश ।एवं चतुषष्टिऋचो विलुप्तौ एकादशोत्तर शतानि ऋचोऽधिकाश्च । एवं
कृते धृतिशतान्यपिसङ्ख्यकाश्च प्रोक्ताः समार्यैः खलु कण्डिकाश्च १
इति लुप्तर्क्सङ्ख्यात्मिका शिक्षा समाप्ता