श्रीमद्गणेशं प्रणिपत्य देवान्श्रीसूर्यनारायणसुप्रसादात् वक्ष्ये क्रियाया स्वरलक्षणं तद्यद्धोमकन्यापुरसूरिभट्टः १ तस्माच्चत्वारिपरश्चेदहरच्चाद्युदात्तवान् प्रायच्छत्त्रिर्यवं तस्मात्तस्मै त्वेष परस्त्वसि २ प्राविशत्तं प्राह तादृग्यत्सोमः प्राजनयत्तथा प्रावेशयन्त्याददत तत्प्रायुञ्जत तेन च ३ मिन्दाभून्मायासीत्कुंभ्यादादस्ति स्यवपूर्वकः भ आशयाद्धि पूर्वश्च परिभूरसि सादिगम् ४ जहीन्द्रश्शृणुते मान्तश्चिनुतेऽपात्मशीर्ष च प्रोक्षितं वीक्षितायात्र आदिशब्दावुदात्तगौ ५ चिनुते थो सर्वं नीचं यच्छब्दात्पर इत्यपि सांहितेन स्वरेणापि ज्ञेयश्शेषस्वरो बुधैः ६ यद्यावच्छब्दकौ यत्र यथाद्युच्चो यतो यदि यदा यर्हि ह्यधश्चादिराद्वादशात्क्रियोच्च भाक् ७ या प्रजाः पराबहुर्वै यो वै दे प्राण उत्तरः य एवमहर्यत्सोमः प्रयत्त्रिः प्राययद्धिमन् ८ यन्मैत्रावरुण यो वैसौ यथाक्षंश्च योऽग्निषः ह्येत विद्विर्यथानसि त्रिभवेद्यत्पुनश्चितिम् ९ आयुर्वा अन्यशब्दादिस्सोमं वारुण एष ते पृथिव्यै त्वेति सोमेऽपि न कुर्यात्पूर्वयापि च १० वत्सञ्चाधिश्रयत्यन्तं नाववे प्रपुरोदये अपयुष्मदाद्यावर्ततान्तमवर्ण आदितः ११ नक्षोधुकश्च सा सोममद्ध्वानोग्निः पुरा सभाम् अग्निरमुष्मिन्देवानां त्रीणि च शकथा गवि १२ सोमोऽग्निरेवास्मा ऊर्ध्वस्सत्यादनस्थिकेन च आदित्या अमुष्मिंश्चाच्युत्पयो विश्वेऽन्वतिष्ठत्तत् १३ वान्यशब्दौ पूर्वपक्षे पूर्वेष्वा पञ्चमस्तथा सव्यो न यज्ञं वस्वी च द्विर्निना नायतानृणम् १४ यवं सौदासानभोर्ध्वो रथचक्रपरासु च संबन्धश्चान्तसान्निध्ये तुल्ययोरादिरुच्चवान् १५ मयति वषट् स्तृणुते तृतीषोरुन्ध एव च युनक्ति प्रजापास्यस्तु पाह्यादि यजुरादि चेत् १६ न घ्नीण्यृषभं द्वेद्वेधः क्रिया चान्यश्रुतींग्यभाक् यथा मनुर्मनुष्याश्च योदयाजीसयो यथा १७ शीर्ष्णादिध्रुव ऊषाश्चान्वञ्चावाज्यं पुरीष च अङ्गारेष्वारुणो वेणोरजा वेदिः परं च यत् १८ उपह्यात्मनो देवानां सुवर्गोऽश्वाच्च चक्षुषी रुद्रो मृन्मयमूर्ध्वो हि नीचं दधाति केवलम् १९ चित्यामन्यां च नान्यां च पुरस्तादन्या यदीतरम् घार्यारभ्यापितन्मध्ये तच्छब्देऽनीचके स्थिते २० संख्या शब्देऽप्यनेदन्ते सान्निध्यं नैकमष्टकम् अपूर्वेऽपि क्रिया नित्यमित्याद्यन्ययजुःस्थितम् २१ न हि स तं हि ते तां हि तस्य माया हि तत्तथा यान्ते गच्छन्तु यस्तस्यां यत्तद्येषां हि चात्र हि २२ यो यक्ष्ये यस्यैवं यत्तं यावानेव य इत्यपि तत्स्वरसूचनार्थं हि बालानामिति वर्णितः २३ इति योहिप्राप्तिमूलं समाप्तम्