11 मूलम्

मूलम् - 7.1.1

मू ॥
अथानमित्रान्यतराम्बरीष-
श्रुतोऽवधिष्माश्वतरोऽनवद्यम् ।
अवाकयाङ्काङ्कमसूषुदन्तावयातवीयानवतादवध्यम् ॥ १ ॥

व्या ॥ अथ शब्दः आनन्तर्यार्थः । अनमित्रादीनि पदान्यनिङ्ग्यानि भवन्ति । बहुवचननिर्देशात्, श्रुदिति अनमित्र, अन्यतर, अम्बरीष इत्येतैः
त्रिभिस्सम्बध्यते । तेन अनमित्रादीनि त्रीणि पदानि अपदात्मकवर्णैर्विकृतान्यप्यनिङ्ग्यानीति बोध्यम् । उदा -
अनमित्र-श्रुत् - अ॒न॒मि॒त्रं (४-७-६), अ॒न॒मि॒त्राय॑ (१-८-१९)
अन्यतर-श्रुत् - अ॒न्य॒त॒रान् (२-४-९), अ॒न्य॒त॒रस्य॑ (७-१-१३)
अम्बरीष-श्रुत् - अ॒म्ब॒रीषा᳚त् (५-१-४८), अ॒म्ब॒रीषे᳚ (५-१-४८)
अवधिष्म - रक्षोऽव॑धिष्म (१-८-१३)
अश्वतरः - अ॒श्व॒त॒रोऽत्य॑प्रवत (७-१-१२)
अनवद्यम् - अ॒न॒व॒द्यं युवा॑नम् (१-३-२९)
अवाकया- अ॒वाक॒याऽग्ने᳚ (४-६-१)
अङ्काङ्कम् - अ॒ङ्का॒ङ्कञ्छन्दः॑ (४-३-२८)
असूषुदन्त - असू॑षुदन्त य॒ज्ञियाः᳚ (१-८-१९)
अवया - अ॒व॒या दुरि॑ष्ट्यै (३-२-३१)
अतवीयान् - त॒वस॒मत॑वीयान् (२-२-६८)
अवतात् - अव॑तान्मा नाथि॒तम् (१-२-२२)
अवध्यम् - अ॒कृ॒णो॒र॒व॒ध्यम् (४-६-११) ॥

मूलम् - 7.1.2

मू ॥ अपस्पृधेथामपथागृहीतश्रुदभ्यसेतामरपा अरेपाः । अपिप्रयम् चाप्सरसश्रुदस्यस्यपस्युवोऽनुल्बणमस्रवन्तीम् ॥ २ ॥
व्या ॥ अपस्पृधेथाम् - यदप॑स्पृधेथां त्रे॒धा (३-२-४५)
अपथ, अगृहीत एतौ शब्दौ श्रुन्निर्दिष्टत्वापदात्मकवर्णविकृतत्वेऽप्यनिङ्ग्यौ ।
अपथ श्रुत् - अप॑थेन, अप॑थात् (२-२-६)
अगृहीत श्रुत् - अगृ॑हीताः (३-२-२), अगृ॑हीतेभ्यः (७-३-४१), अगृ॑हीत्वा (३-२-२,५-७-३६)
अभ्यसेताम् - रोद॑सी॒ अभ्य॑सेताम् (१-७-४८)
अरपाः [श्रुत्] - अ॒र॒पा ए॑धते (३-२-३२) [अ॒र॒पो द॑धात (२-६-६७)]
अरेपाः [श्रुत्] - त॒नूर॑रे॒पाश्शुचि॑ (२-२-७०) [समो॑कसावरे॒पसौ᳚ (१-३-१३)
] * - [श्लो.४]
अपिप्रयम् - अपि॑प्रय॒म् चोद॑ना वाम् (५-१-५८)
अप्सरश्शब्दः श्रुन्निर्दिष्टत्वात् पूर्ववत् ।
अफ्सरस श्रुत् - अ॒प्स॒रसः॑ (३-४-१९), अ॒प्स॒रसौ᳚ (४-४-७), अ॒फ्स॒रसा᳚म् (५-५-५४)
अस्यसि - पे॒रुमस्य॑स्यर्जुनि (२-२-६६)
अपस्युवः - अ॒प॒स्युवो॒ वसा॑नः (१-८-२१)
अनुल्बणम् - अ॒नु॒ल्ब॒णं व॑यत॒ जोगु॑वाम् (३-४-६)
अस्रवन्तीम् - अस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये᳚ (१-५-५१) ॥

मूलम् - 7.1.3

मू ॥ अवत्तशब्दोऽपशवोऽपशव्यश्रुदश्वकोऽदिद्युतदप्नवानः । अपद्यमानान्तरतोऽपवित्रावपारमन्वीपमपेशसे च ॥ ३ ॥
व्या ॥ अवत्तशब्दः शब्दनिर्दिष्टत्वात् पूर्ववत् ।
अवत्त (शब्दः?) - प॒शोरव॑त्तम् भवति (६-३-५४)*?
अपशवः - ऋ॒ष॒भस्याप॑शवो॒ वै (५-२-५१)
अपशव्यशब्दः श्रुन्निर्दिष्टत्वात् पूर्ववत् । अपशव्य श्रुत् - अ॒प॒श॒व्यम् (६-१-६०), अ॒प॒श॒व्यः (६-३-१६), प॒श॒व्यः॑ (६-३-१७)
अश्वकः - स॒सस्त्य॑श्व॒कः (७-४-४८)
अदिद्युतत् - अदि॑द्युत॒त्सवी॑मनि (१-२-१३)
अप्नवानः - यमप्न॑वानो॒ भृग॑वः (१-५-१७)
अपद्यमाना - अप॑द्यमाना पृथिवि (४-१-२४) - अवत्तादीनामुपसर्गयुक्तत्वशङ्का निवारिता । एवमेवोत्तरत्र ज्ञेयम् ।
अन्तरतः - अ॒न्त॒र॒त ए॒वैन᳚म् (६-३-३५)
अपवित्रौ - अ॒प॒वि॒त्रौ गृ॒ह्येया॑ताम् (६-४-२९)
अपारम् - अ॒पा॒रं प्रप्ल्वन्ते (७-५-१०)
अन्वीपम् - यद॑न्वी॒पन्तिष्ठन्न् (६-४-७)
अपेशसे - पेशो॑मर्या अपे॒शसे᳚ (७-४-५१) ॥

मूलम् - 7.1.4

मू ॥ अनुष्ठुयाऽनिष्टृतोऽनिष्टकेऽभिष्टीरभिष्टयेऽभीरवोऽभीपतोऽभित्यै । अनेनसाऽनेहसानागसावर्तिश्रुतोऽरपोऽरेपसावन्यथाङ्गुष्ठम् ॥ ४ ॥
अनुष्ठुया - अनुष्ठुया कृणुहि (१-२-३३)
अनिष्टृतः - व॒र्धता॒न्ते॒ अनि॑ष्टृतः (४-१-२६)
अनिष्टके - अ॒नि॒ष्ट॒क आहु॑तिम् (५-४-४९)
अभिष्टीः - अ॒भि॒ष्टीरु॑प॒सद्यः॑ (२-४-४५)
अभिष्टये - सु॒मृ॒डी॒का अ॒भिष्ट॑ये (२-१-६४) [कुतः न अभिष्टिश्रुत्?]
अभीरवः - अभी॑रवो वि॒द्रे (२-१-६१)
अभीपतः - अ॒भी॒प॒तो वृ॒ष्ट्या (३-१-३७)
अभित्त्यै - परि॑ददा॒म्यभि॑त्त्यै (४-१-३६)
अनेनस, अनेहस, अनागस, अवर्ति एते श्रुन्निर्दिष्टत्वात् पूर्ववत् ।
अनेनस (श्रुत्?) - क॒रोतु॒ माम॑ने॒नस᳚म् (१-८-९)*
अनेहस श्रुत् - द्यावा॑पृथि॒वी अ॑ने॒हसा᳚ (४-६-३०), अ॒ने॒हस सु॒शर्मा॑णम् (१-५-५१)
अनागस श्रुत् - सु॒व॒ता॒दना॑गसः (१-५-५०,४-१-४४,४-२-४), स्व॒रि॒त्रामना॑गसम् (१-५-५१), अना॑गाः (४-७-३९)
अवर्ति श्रुत् - अव॑र्तिम्पा॒प्मान᳚म् (७-४-४), म॒न्युना॒ यदव॑र्त्या (१-५-११)
[अरपः - शंयोर॑र॒पो द॑धात (२-६-६७)
अरेपसौ - समो॑कसावरे॒पसौ᳚ (१-३-१३)]* पूर्वमेव अरप, अरेपश्रुदित्येव सुवचम् ।
अन्यथा - अ॒न्यथाऽऽहु॑तिः (५-४-४६)
अङ्गुष्ठम् - सर्वा᳚स्वङ्गु॒ष्ठमुप॑ (६-१-६३) ॥

मूलम् - 7.1.5

मू ॥ अलजोऽतीकाशाच्छावाक श्रुदवोचामाजुष्टानिष्टाः । अहभूनोऽवाशृङ्गोऽनाश्वानददृहन्तानड्वाहश्रुत् ॥ ५ ॥
अलजः - अ॒ल॒ज आ᳚न्तरि॒क्षः (५-५-५८)
अतीकाश, अच्छावाक एतौ श्रुन्निर्दिष्टत्वात् पूर्ववत् ।
अतीकाश श्रुत् - नख्ष॑त्राणामतीका॒शाः (६-१-४), अ॒ती॒का॒शान्क॑रोति (६-१-१), अ॒ती॒का॒शात्पा॑हि (१-२-४)
अच्छावाक श्रुत् - अ॒च्छा॒वा॒काया॑न॒ड्वाह᳚म् (१-८-३४), अ॒च्छा॒वा॒क ए॒व (७-१-१८)
अवोचाम - अवो॑चाम क॒वये᳚ (४-४-११)
अजुष्टा - तमासि गूहता॒मजु॑ष्टा (१-८-४२)
अनिष्टाः - अनि॑ष्टा दे॒वता॒ आसन्न् (२-६-५)
अहभूनः - अ॒ह॒भून॒ ऋषिः॑ (४-३-६)
अवाशृङ्गः - अ॒वा॒शृ॒ङ्गो भ॑वति (२-१-५२)
अनाश्वान् - अना᳚श्वानुप॒वसे᳚त् (१-६-२३)
अददृहन्त - अद॑दृहन्त॒ पूर्वे᳚ (४-६-९)
अनड्वाहशब्दः श्रुन्निर्दिष्टत्वात् पूर्ववत् । अनड्वाहश्रुत् - अ॒न॒ड्वाह᳚म् (१-८-३४), अ॒न॒ड्वान् (२-२-५७), अ॒न॒ड्वाहः॑, अ॒न॒ड्वाहौ᳚ (५-६-४९, ५२) ॥

मूलम् - 7.1.6

मू ॥ अजगरशब्दोऽवद्यादरमतिरपुवायतेऽपुवायेत । अपशुरकूपारस्यानाशीर्केणान्यकेषाञ्च ॥ ६ ॥
व्या ॥ अजगरशब्दः शब्दनिर्दिष्टत्वात् पूर्ववत् । उदा -
अजगरशब्दः - बला॑याजग॒रः (५-५-५२), अ॒ज॒ग॒रेण॑ स॒र्पान् (७-३-३५)
अवद्यात् - मि॒त्र॒म॒हो॒ अ॒व॒द्यात् (१-२-३३)
अरमतिः - अ॒रम॑तिर्वसू॒युः (४-३-३४)
अपुवायते - ए॒वास्या॑पुवा॒यते᳚ (६-२-१२)
अपुवायेत - अ॒पु॒वा॒येत॑ सौ॒म्यर्चा (६-३-९)
अपशुः - अ॒प॒शुर्भावु॑कः (१-७-६), [अप॑शवः (५-२-५१)]
अकूपारस्य - तेऽकू॑पारस्य वा॒चे (५-५-५१)
अनाशीर्केण - अ॒ना॒शीर्के॑ण य॒ज्ञेन॑ (१-६-३६)
अन्यकेषाम् - नभ॑न्तामन्य॒केषा᳚म् (१-७-५१) ॥

मूलम् - 7.1.7

मू ॥ अरेडतावरावटश्रुतावपूपमंकुपम् । अरेणवोऽवकावृकावसापसश्रुतोऽगदम् ॥ ७ ॥
व्या ॥ अरेडता - अरे॑डता॒ मन॑सा (१-६-९)
अवर, अवट एतौ शब्दौ श्रुन्निर्दिष्टत्वात् पूर्ववत् । उदा -
अवरश्रुत् - अव॑रैः॒ परै᳚श्च (१-४-४), स॒व्वँतोऽव॑रान् (२-६-६४), अव॑र॒ इन्द्रः॑ (४-६-३७), अव॑रे स॒धस्थे᳚ (४-६-२४)
अवट श्रुत् - अ॒व॒टमु॒द्रिण᳚म् (४-२-२२), अ॒व॒टेषु॒ शेर॑ते (४-२-३५), ख॒न॒त्व॒व॒ट॒ (४-१-२२)
अपूपम् - ए॒का॒ष्ट॒काया॑मपू॒पम् (३-३-२५)
अंकुपम् - अं॒कु॒पम् छन्दः॑ (४-३-२७)
अरेणवः - अ॒रे॒णवो॒ वित॑ताः (७-५-५२)
अवक, अवृक, अवस, अपस एते शब्दाः श्रुन्निर्दिष्टत्वात् पूर्ववत् । उदा -
अवक श्रुत् - अव॑का॒मनूप॑ (५-४-५), अव॑का वेतसशा॒खया᳚ (५-४-१६), अव॑काभिश्च (५-४-१६)
अवृक श्रुत् - अ॒वृ॒का अश्र॑मिष्ठाः (१-२-३२), अ॒वृ॒के ख्षे॑षि (१-३-३०), अ॒वृ॒केभि॒र्वरू॑थैः (१-६-५१)
अवस श्रुत् - अव॑से (१-३-१८), अव॑सा (२-१-६५), तेना॑व॒सेन॑ (१-८-११), अ॒व॒साय॑ प॒द्वते᳚ (७-४-४३), यथाऽव॑सः (२-६-६४)
अपस श्रुत् - अ॒पस॑श्छिथ्स्महि (१-२-१९), अप॑सस्पा॒रे (३-२-४५), अ॒पस॒र्तस्य॑ (७-१-४७)
अगदम् - ए॒वैन॑मग॒दं क॑रोति (३-४-३१) ॥

मूलम् - 7.1.8

मू ॥ अहिंसन्तमसुन्वन्तमदित्सन्तमयाचितम् । अनवारमनर्वाणं अथर्वाणोऽतिथिश्रुतिः ॥ ८ ॥
व्या ॥ अहिसन्तम् - प्र॒जाभ्योऽहिसन्तम् (४-१-१०)
असुन्वन्तम् - असु॑न्वन्त॒मय॑जमानम् (४-२-२१)
अदित्सन्तम् - अदि॑त्सन्तं दापयतु (१-७-४०)
अयाचितम् - अया॑चितं ब्राह्म॒णाय॑ (५-५-३०)
अनवारम् - ए॒ते॑ऽनवा॒रम॑पा॒रम् (७-५-१०)
अनर्वाणम् - अ॒न॒र्वाण रथे॒शुभ᳚म् (४-३-३४)
अथर्वाणः - अथ॑र्वाणो॒ भृग॑वः (२-६-७०)
अतिथिशब्दः श्रुतिनिर्दिष्टत्वात् पूर्ववत् । उदा -
अतिथिश्रुतिः - अति॑थिः (१-६-४७), अति॑थिम् (१-४-१४), अति॑थीनाम् (५-२-१०), अति॑थये (५-२-११), अति॑थेः (१-२-१८) ॥

मूलम् - 7.1.9

मू ॥ अध्वर्यन्तोऽन्तमायक्ष्मायस्मयामीवशब्दवत् । अध्वर्युश्रुदभीकेतोध्यक्षिताङ्घारिशब्दवत् ॥ ९ ॥
व्या ॥ अध्वर्यन्तः - अ॒ध्व॒र्यन्तो॑ अस्थुः (४-६-१४)
अन्तमा, अयक्ष्म, अयस्मय, अमीव एते शब्दाः शब्दनिर्दिष्टत्वात् पूर्ववत् । उदा-
अन्तमशब्द - अ॒न्त॒मम् (६-३-४९), अ॒न्त॒माः (६-४-८)
अयक्ष्म शब्द - अ॒य॒क्ष्माय॑ (४-१-१९), अ॒य॒क्ष्मम् (४-७-६)
अयस्मय शब्द - अ॒य॒स्मयं॒ विचृ॑त (४-२-२०), अ॒य॒स्मय्य॑व॒मा (६-२-१५)
अमीव शब्द - अमी॑वाः (१-७-३५,३६), अ॒न॒मी॒वः (३-४-३६)
अध्वर्यु शब्दः श्रुन्निर्दिष्टत्वात् पूर्ववत् । उदा -
अध्वर्यु श्रुत् - अ॒ध्व॒र्यवे᳚ (१-८-३४), अ॒ध्व॒र्युः (२-६-२९), अ॒ध्व॒र्यवः॑ (२-६-३९), अ॒ध्व॒र्यू (२-६-२०), अ॒ध्व॒र्योः (२-६-२७), अ॒ध्व॒र्यो॒ (२-५-
५६), अ॒ध्व॒र्युम् (३-२-३५), अ॒ध्व॒र्यूणाम् (३-२-४०), अध्व॑र्यो (६-४-१५)
अभीके - द्यौर॒भीके᳚ (१-३-२९), अ॒भीके॑ चिदु (१-७-५१)
अतोधि - यद॒तोध्य॑र्चि॒तारः॑ (७-३-३)
अक्षित, अंघारि, एतौ शब्दौ शब्दनिर्दिष्टत्वात् पूर्ववत् । उदा -
अक्षित शब्द - अक्षि॑तः, अक्षि॑त्यै (१-६-१०), अक्षि॑तम् (१-६-१५), अख्षि॑तयः (२-४-४४), अख्षिताम् (३-३-३४), अख्षि॑तिः (४-७-८),
अख्षि॑तिम् (१-७-६)
अंघारि शब्द - अंघा॑रिरसि (१-३-५), अंघा॑रे॒ बम्भा॑रे (१-२-१४) ॥

मूलम् - 7.1.10

मू ॥ अजरेभिरनीजानमवमा चावमोऽवमम् । अच्छलाभिरभीशूनामश्ञुवीताशमन्त च ॥ १० ॥
व्या ॥ अजरेभिः - अ॒जरे॑भि॒र्नान॑दद्भिः (१-३-२७)
अनीजानम् - ई॒जा॒नादनी॑जानम् (६-६-२८)
अवमा - अ॒व॒मा या म॑ध्य॒मा (४-६-१०)
अवमः - अ॒व॒मो भ॑वो॒ती (२-५-७२)
अवमम् - अ॒व॒मं प॑र॒मता᳚म् (७-१-१०) अवमा, अवमः, अवमम् इति पदत्रयोपादानं, अवमायेत्यत्र इङ्ग्यत्वसंपादनार्थम् (६-२-२४) ।
अच्छलाभिः - अ॒च्छला॑भिः क॒पिञ्ज॑लान् (५-७-४५)
अभीशूनाम् - अ॒भीशू॑नां महि॒मान᳚म् (४-६-२८)
अश्ञुवीत - यद॑श्ञुवी॒तान्धः॑ (६-४-४७)
अशमन्त - अश॑मन्त दे॒वाः (४-६-१३) ॥

मूलम् - 7.1.11

मू ॥ अपीच्योऽस्रीविरन्यासाम् अनशन्यपरीषु च । अवारेऽप्रवतावातोऽविताश्रुदणवोऽधमम् ॥ ११ ॥
व्या ॥ अपीच्यः - प्रि॒यस्स्त्री॒णाम॑पी॒च्यः॑ (७-४-४८)
अस्रीविः - अ॒स्री॒विश्छन्दः॑ (४-३-१३)
अन्यासाम् - तस्मा॒द्योगे॒ऽन्यासा᳚म् (५-२-७)
अनशनि - अ॒न॒श॒न्य॑व॒स्फूर्जन्न् (२-४-१९)
अपरीषु - ये अ॑प॒रीषु॒ पश्यान् (१-४-३४)
अवारे - अ॒वा॒र इ॒क्षवः॑ (७-३-३७)
अप्रवत - अ॒श्व॒त॒रोऽत्य॑प्रवत (७-१-२) - एतत् अनुदात्तत्वेन सिद्धानिङ्ग्यभावमपि प्र इत्यनेन युक्तत्वशङ्कया पठितम् ।
अवातः - व॒न्वन्नवा॑तः (२-६-६५)
अविताशब्दः श्रुन्निर्दिष्टत्वात् पूर्ववत् । उदा - अविता श्रुत् - नो॒ऽवि॒ता (४-१-४३), इन्द्र॑मवि॒तार᳚म् (१-६-५०), धी॒नाम॑वि॒त्री (१-८-३८)
अणवः - अण॑वश्च मे (४-७-८)
अधमम् - अ॒ध॒मव्विँ म॑ध्य॒मम् (१-५-४९) ॥

मूलम् - 7.1.12

मू ॥ आत्मा मुष्यायणा र्षेया मिक्षा ग्नेया युषश्श्रुतिः । आमा ण्डा जिश्श्रुदाट्णार आरण्या दित्य शब्दवत् ॥ १२ ॥
आत्म श्रुतिः - आ॒त्मा (१-१-१७), आ॒त्मन्न् (१-५-३२), आ॒त्मान᳚म्, आ॒त्मना᳚, आ॒त्मनः॑ (१-७-४,१३,२७), आ॒त्म॒न्वन्त᳚म् (२-३-५०), आ॒त्मने᳚
(२-५-६९), आ॒त्म॒न्वत् (४-७-३५), अना᳚त्मने (७-५-३६) [नतु - सात्मा᳚ (५-३-२४)*]
आमुष्यायण श्रुतिः - आ॒मु॒ष्या॒य॒णम्, आ॒मु॒ष्या॒य॒णः (१-८-१९,२२), आ॒मु॒ष्या॒य॒णस्य॑ (३-४-२७)
आर्षेय श्रुतिः - आ॒र्षे॒यं वृ॑णीते (२-५-५०), च॒त्वार॑ आर्षे॒याः (३-४-२८)
आमिक्षा श्रुतिः - आ॒मिक्षा᳚म् (१-८-४), आ॒मिख्ष॑या (२-५-३०), आ॒मिक्षा᳚ (३-३-२९)
आग्नेय श्रुतिः - आ॒ग्ने॒यम्, आ॒ग्ने॒याः, आ॒ग्ने॒यी (१-५-६,३८), आ॒ग्ने॒यीम्, आ॒ग्ने॒यः, आ॒ग्ने॒यौ (२-१-१०,१४,१५), आ॒ग्ने॒यस्य॑ (२-३-१६), आ॒ग्ने॒येन॑
(२-४-१७), आ॒ग्ने॒य्या (३-१-१७), आ॒ग्ने॒यीः (५-५-१), आ॒ग्ने॒यीषु॑ (७-२-१७)
आयुष श्रुतिः - आयु॑षे, आयुः॑, आयु॑षा (१-१-९,१०,१७), आयु॑षि (१-२-३०), आयूषि (१-३-३०), आयु॑षः (२-२-१०), आ॒यु॒ष्याः᳚ (५-३-
४५)
आमा - तस्मा॑दा॒मा प॒क्वम् (६-५-२१)
आण्ड, आजि एतौ श्रुन्निर्दिष्टत्वात्पूर्ववत् । उदा -
आण्ड श्रुत् - आ॒ण्डम॑जायत (६-५-१८), आ॒ण्डाभ्या॒ स्वाहा᳚ (७-३-३८), द्यावा॑पृथि॒वी आ॒ण्डौ (७-५-५४)
आजि श्रुत् - पु॒रो॒यावा॑नमा॒जिषु॑ (३-५-३६), आ॒जिञ्ज॑येम (४-६-२७)
आट्णारः - ए॒तम् वै पर॑ आट्णा॒रः (५-६-२२)
आरण्य, आदित्य, एतौ शब्दौ शब्दनिर्दिष्टत्वात् पूर्ववत् । उदा -
आरण्य श्रुत् - आ॒र॒ण्याः, आ॒र॒ण्यस्य॑, आ॒र॒ण्यान्, आ॒र॒ण्यम् (१-६-२३,२४), आ॒र॒ण्यः (२-१-५८), आ॒र॒ण्याना᳚म्, आ॒र॒ण्येषु॑ (५-४-१०,१६)
आदित्य श्रुत् - आ॒दि॒त्याः, आ॒दि॒त्याना᳚म्, आ॒दि॒त्येभ्यः॑ (१-१-१५,२०,२२), आ॒दि॒त्या, आ॒दि॒त्यैः (१-२-११,२३), आ॒दि॒त्य॒ (१-४-२३), आ॒दि॒त्यः
(१-५-३९), आ॒दि॒त्यस्य॑, आ॒दि॒त्यान् (१-७-२७,४२), आ॒दि॒त्यम्, आ॒दि॒त्याम् (१-८-१,३५), आ॒दि॒त्याः॒ (२-१-६४), आदित्येभिः (७-१-४७)

मूलम् - 7.1.13

मू ॥ आप्ता जीगर्ति मार्तश्श्रुद्विनार्तोरार्तवश्रुतिः । आप्यानामाश्विनाश्वत्थ श्रुतावास्पात्रमाप्स्यथ ॥ १३ ॥
व्या ॥ आप्ता - तेषा॑मे॒वैषाप्ता (३-४-१४) [अना᳚प्तम् (२-५-६४), अना᳚प्तस्य, अना᳚प्तः (७-१-१९,३८)]
आजीगर्तिम् - शुन॒श्शेप॒माजी॑गर्तिम् (५-२-३)
आर्तशब्दः आर्तोरित्येतद्विना श्रुन्निर्देशेनापदात्मकवर्णविकृतत्वेऽप्यनिङ्ग्यम् ।
आर्तश्रुत् - आर्त᳚म् (७-४-२८), आर्ति᳚म् (१-५-९), आर्त्या᳚ (२-६-३२,३३) [अना᳚र्त्यै (२-६-५१), अना᳚र्तः (३-४-१२), अना᳚र्ताः (७-५-३)]
विनार्तोरिति किम् - आर्तो॒र्यद॒ग्नये᳚ (२-२-२१) इत्यत्रेङ्ग्यमेव ।
आर्तव शब्दः श्रुतिनिर्दिष्टत्वात्पूर्ववत् । उदा - आर्तवश्रुतिः - आ॒र्तवः (४-३-१८), आ॒र्तवाः, आ॒र्तवाना᳚म्, आ॒र्तवेषु॑ (७-२-१९,२१)
आप्यानाम् - वर्षि॑ष्ठ॒माप्या॑नाम् (७-४-३८)
आश्विन, आश्वत्थ, एतौ श्रुन्निर्दिष्टत्वात् पूर्ववत् । उदा -
आश्विन श्रुत् - आ॒श्वि॒नम् (१-८-१६), आश्वि॒ने, आ॒श्वि॒नीम् (२-१-५६,५९), आ॒श्वि॒नः (४-७-१३), आश्वि॒नीः (५-३-१), आ॒श्वि॒नाः (५-६-
४४), आश्वि॒नानि॑ (७-४-१९)
आश्वत्थ श्रुत् - आश्व॑त्थे (१-८-१६), आश्व॑त्थाः, आश्व॑त्थान् (२-३-५), आश्व॑त्थः (३-४-२५), आश्व॑त्थी (३-५-२३,७-२-३), आश्व॑त्थीम्
(५-१-५२)
आस्पात्रम् - आस्पात्रं॑ जु॒हूः (२-५-५३)
आप्स्यथ - प्रवा॒ऽऽप्स्यथ॑ (६-३-३) ॥

मूलम् - 7.1.14

मू ॥ आविथाथर्वणश्चाख आखुरातित्थ्यशब्दवत् । आविन्नावश्रुदाशूनाम् आशाद्याज्यात्तशब्दवत् ॥ १४ ॥
व्या ॥ आविथ - स॒ख्यमावि॑थ (३-२-४४)
आथर्वणः - द॒ध्यङ्ङा॑थर्वणः (५-६-२५)
आखः - म॒ आख॒ इय॑ति (६-४-५०)
आखुः - आ॒खुस्ते॑ रुद्र (१-८-१०)
आतिथ्यशब्दश्शब्दनिर्दिष्टत्वात् पूर्ववत् । उदा -
आतिथ्य शब्दवत् - आ॒ति॒थ्यम् (१-२-१८), आ॒ति॒थ्यस्य॑ (६-२-३)
आविन्न, आव, इत्येतौ शब्दौ श्रुन्निर्दिष्टत्वात् पूर्ववत् । उदा -
आविन्न श्रुत् - आवि॑न्नः, आवि॑न्ना, आवि॑न्ने, आवि॑न्नौ (१-८-२२)
आव श्रुत् - आवः॑ (१-३-२३), आ॒वम्, आ॒वत् (२-५-१०,३८)
आशूनाम् - आ॒शू॒नां व्री॑ही॒णाम् (१-८-१८)
आश, आद्य, आज्य, आत्त, इत्येते शब्दनिर्दिष्टत्वात् पूर्ववत् ।
आश शब्दवत् - आश॑ (४-६-४२), आशाः᳚ (४-१-२४), आ॒शया᳚ (४-३-३३), आशा᳚ (४-४-३६)
आद्य शब्दवत् - आ॒द्य᳚म् (२-२-२३), आ॒द्याः᳚ (३-४-१३), अ॒ना॒द्यम् (५-७-३७), आ॒द्या᳚ (६-४-४६)
आज्य शब्दवत् - आज्य॑स्य (१-३-६), आज्य᳚म् (१-५-११), आज्ये᳚ (१-८-१६), आज्ये॑न (२-२-५४), आज्या॑नि (३-१-२१)
आत्त (शब्दवत्?) - आत्तः॑ (१-५-४६,४-४-२५,६-३-७)* ॥

मूलम् - 7.1.15

मू ॥ आव्यमान्त्यायनश्चायन्ननन्तोदात्तमासनि । आसन्यादानशानाश्चाशितिम्ने चाश्यमाशुया ॥ १५ ॥
व्या ॥ आव्यम् - आ॒व्य᳚म् (२-२-३२,३-२-३८)
आन्त्यायनः - व्यश्ञि॑यश्चान्त्याय॒नश्च॑ (१-७-३८,४-७-२०)
आयन्न् - विश्व॒मायन्न् (४-१-३४), दे॒व॒त्वमायन्न् (४-६-४), अ॒व॒रुरु॑त्समाना॒ अन्वा॑यन्न् (१-५-१), सु॒व॒र्गल्लोँ॒कमा॑यन्न् (६-२-२८) आयन्निति पदम्
अन्तोदात्तं चेदनिङ्ग्यन्न । उदा - आयन्न् (अन्तोदात्तं) - आ॒यन्प्र च॒न्द्रमाः᳚ (२-४-४४) अन्यस्वरञ्चेदित्यस्या (#24) पवादोऽयम् ।
आसनि - दर्वी᳚ श्रीणीष आ॒सनि॑ (२-२-७०) [आ॒सन्न् (१-४-१४), आसन्न् (२-४-३) अपि अनिङ्ग्ये - नीचस्वराभावेऽपि । ]
आसन्यात् - आ॒स॒न्या᳚न्मा॒ मन्त्रा᳚त् (३-१-१९)
आनशानाः - सुव॑रानशा॒नाः (३-१-२७)
आशितिम्ने - आ॒शि॒ति॒म्ने स्वाहा᳚ (७-१-४६)
आश्यम् - नाश्य॑ङ्काम᳚म् (२-५-४), तस्मा᳚द्वा॒श्य᳚म् (६-१-७६)
आशुया - आ॒शु॒या प॑त॒न्त्यनु॑ (१-२-२८) ॥

मूलम् - 7.1.16

मू ॥ आम्बानामाहुवध्यै चासामहै चाभुराक्षिषुः । आङ्गिरस्यान्तरिक्षश्चाशुषाणा आशुशुक्षणिः ॥ १६ ॥
व्या ॥ आम्बानाम् - स॒त्याया॒म्बाना᳚म् (१-८-१८)
आहुवध्यै - आ॒हु॒वध्या॑ उ॒भा (१-१-२५)
आसामहै - आसा॑महा ए॒वेमौ (७-५-७) [श्लो.१९तः एव प्राप्तः । अतः अत्र नापेक्षितः । ]*
आभूः - आ॒भुर॑स्य निष॒ङ्गथिः॑ (४-५-४)
आक्षिक्षुः - यदाक्षि॑क्षुर्दि॒व्यम् (४-६-३७)
आङ्गिरसी - आ॒ङ्गि॒र॒स्यूर्ण॑म्रदाः (१-२-४)
आन्तरिक्षः - अ॒ल॒ज आ᳚न्तरि॒क्षः (५-५-५८)
आशुषाणाः - अ॒ग्न॒ ऋ॒तमा॑शुषा॒णाः (२-६-६८)
आशुशुक्षणिः - आ॒शु॒शु॒क्षणि॒स्त्वम॒द्भ्यः (४-१-९) ॥

मूलम् - 7.1.17

मू ॥ आनृहुरानृचुरापयितायोरायिनमायव आयवसे च । आशित आशिरमासुर मारादानशुराग्रयणश्रुतिराच्छत् ॥ १७ ॥
व्या ॥ आनृहुः - वसू᳚न्यानृ॒हुः (३-२-३१)
आनृचुः - यदा॑नृ॒चुस्तेन॑, वा॒चाऽऽनृ॒चुः (७-३-३)
आपयिता - आ॒प॒यि॒ताथा॑हुः (७-१-१९)
आयोः - आ॒योस्त्वा॒ सद॑ने (४-४-९)
आयिनम् - आ॒यिन॒म् मनो॑जवसम् (२-४-१९,२३)
आयवः - प्रति॑भूषन्त्या॒यवः॑ (३-३-३५)
आयवसे - आय॑वसे रमन्ते (५-२-४३)
आशितः - आशि॑तो भवति (६-१-४)
आशिरम् - आ॒शिर स॒ह (३-२-३३), आ॒शिर॒मव॑नयति (६-१-४३)
आसुरम्[श्रुत्?] - अ॒न्वाहा॑सु॒रम् (२-५-६१)[(आसुरः) - सुव॑र्भानुरासु॒रः (२-१-८), नामा॑सु॒रः (२-६-५२), आ॒सु॒री मा॒या (४-१-३६)]
आरात् - आ॒राच्चि॒द्द्वेषः॑ (१-७-५१)
आनशुः - [आहु॑तिमान॒शे (२-५-२०)], म॒हि॒मान॑मान॒शुः (५-७-५)
आग्रयणशब्दः श्रुतिनिर्दिष्टत्वात् पूर्ववत् ।
आग्रयणश्रुतिः-आ॒ग्र॒य॒णः (१-४-११), आ॒ग्र॒य॒णस्य॑ (२-३-४०), आ॒ग्र॒य॒णात् (३-१-२६), आ॒ग्र॒य॒णम् (५-७-८), आ॒ग्र॒य॒णे (६-४-५०)
आच्छत् - आ॒च्छच्छन्दः॑ (४-३-२७) ॥

मूलम् - 7.1.18

मू ॥ आसन्द्येवादकामाविराग्नेन्द्रा इन्द्रियाव्यपि । इष्टर्ग इष्टकेलान्दश्रुदिदावथ्सरेण च ॥ १८ ॥
व्या ॥ आसन्दी - आ॒स॒न्दी सा॑दयति (५-६-३६) । आसन्द्येवेत्येवकारः, ’आ॒स॒न्दीमु॑द्गा॒ता’(७-५-२७) इत्यत्र अनिङ्ग्यत्वनिरासार्थः ।
आदकाम् - आद॑काङ्खा॒देन॑ (५-७-४३)
आविः - आ॒विष्कृ॑णुष्व॒ दैव्या॑नि (१-२-२९)
आग्नेन्द्राः - आ॒ग्ने॒न्द्राः कृ॒ष्णल॑लामाः (५-६-४८)
इन्द्रियावी - इ॒न्द्रि॒या॒वी भू॑यासम् (१-६-४४)
इष्टर्गः - इ॒ष्टर्गो॒ वा अ॑ध्व॒र्युः (३-१-१९)
इष्टक, इलान्दशब्दौ श्रुन्निर्दिष्टत्वात् पूर्ववत् ।
इष्टक[श्रुत्] - इष्ट॑काः, इष्ट॑काम् (३-४-३७), इ॒ष्ट॒के॒ (४-२-३७), इष्ट॑कायाः, इष्ट॑का (५-२-३७,४१), इष्ट॑के (५-३-२४), इष्ट॑कायाम् (५-४-
११), इष्ट॑कानाम् (५-५-२८), इष्ट॑काभिः (५-६-२५)
इलान्द श्रुत् - इला᳚न्दं भवति, इला᳚न्दे॒नेरा᳚म् (७-५-२८)
इदावथ्सरेण - इ॒दा॒व॒थ्स॒रेण॒ नम॑स्करोमि (५-५-३१) ॥

मूलम् - 7.1.19

मू ॥ ईडेन्यश्रुदुदर्येणोदरोपस्त्युशिजश्रुतिः । उदारश्चोर्वरामुथ्समुदीचश्चोष्णिहाश्रुतिः ॥ १९ ॥
व्या ॥ ईडेन्यशब्दः श्रुन्निर्दिष्टत्वात् पूर्ववत् ।
ईडेन्य श्रुत् - अ॒ग्निरी॒डेन्यो॑ गि॒रा (४-४-१४), दे॒वा ई॒डेन्यान्, म॒नु॒ष्या॑ वा ई॒डेन्याः᳚ (२-५-५६)
उदर्येण - नभ॑ उद॒र्ये॑णेन्द्रा॒णीम् (५-७-४८)
उदर, उपस्ति, उशिज एते शब्दाः श्रुतिनिर्दिष्टत्वात् पूर्ववत् ।
उदर श्रुतिः - उ॒दरं॒ वै वृ॒त्रः (२-४-४१), ब्रा॒ह्म॒णस्यो॒दरे॑ण (२-६-४८), उ॒दर॑स्याप॒वाति॑ (४-६-४२)
उपस्ति श्रुतिः - स्तोम॒स्योप॑स्तिर्भवति, भ्रातृ॑व्यमे॒वोप॑स्तिम् (७-२-१६)
उशिज श्रुतिः - वह्नी॑रु॒शिजः॑ (१-३-१२), उ॒शिज॑ङ्क॒विक्र॑तुम् (४-२-३१)
उदारः - श्री॒णामु॑दा॒रः (४-२-८)
उर्वराम् - उ॒र्वरा᳚म्प्रभि॒न्दन्ति॑ (६-६-२९)
उथ्सम् - उथ्स॑न्दुह्रते (३-१-३४)
[उदीचशब्दः श्रुतिनिर्दिष्टत्वात् पूर्ववत् । ] उदीच [श्रुति] - उदी᳚च्याम् (१-६-१६), उदी॑चीम् (१-८-२४), उदी॑चीः (१-८-२८), उदी॑ची (४-३-
६), उदी॑चः (५-२-२७), उदी᳚च्या (५-५-३६), उदी᳚च्यै (७-१-४४)
उष्णिहाशब्दः श्रुतिनिर्दिष्टत्वात् पूर्ववत् । उष्णिहा श्रुतिः - उ॒ष्णिहा᳚ (२-४-३०), उ॒ष्णिहाः᳚ (५-३-३६), रथ॑मु॒ष्णिहा॑भिः (५-७-४६) ॥

मूलम् - 7.1.20

मू ॥ उपहत्नुमुपानहावुपाकेऽप्युपरिष्टादुपरेण चोत्तरेद्युः । उभयाददुदङ्क उद्रिणञ्चोभयतश्चोदकमुद्यतेऽनुदात्तम् ॥ २० ॥
व्या ॥ उपहत्नुम् - भी॒ममु॑पह॒त्नुमु॒ग्रम् (४-५-२४)
उपानहौ - उ॒पा॒नहा॒वुप॑मुञ्चते (५-४-१७,५-६-२३)
उपाके - उ॒पा॒क आरो॑चते (४-३-२९)
उपरिष्टात् - चो॒परि॑ष्टाच्च (१-७-१७)
उपरेण - पृ॒थि॒वीमुप॑रेण दृह (१-३-१०)
उत्तरेद्युः - उत्त॒रे॒द्युरुप॑तिष्ठते (५-२-७)
उभयादत् - उ॒भ॒याद॑त्प्रति॒गृह्य॑ (२-२-३२/३३)
उदङ्कः - उ॒द॒ङ्कश्शौ᳚ल्बाय॒नः (७-४-२१,७-५-१२)
उद्रिणम् - उ॒द्रिण सिञ्चे॒ अक्षि॑तम् (४-२-२२)
उभयतः - उ॒भ॒यत॑ ए॒व सु॑व॒र्गे (७-४-३६)
उदकं - स्थल॑योद॒कं प॑रिगृ॒ह्णन्ति॑ (१-६-३७)
अनुदात्तम् ’उद्यत’ इति पदमनिङ्ग्यम् । उद्यते (अनुदात्तं) - व्यु॑द्यते (३-१-३८), वागु॑द्यते (६-४-३३) अनुदात्तमिति किम् - उ॒द्य॒ते स्वाहा᳚ (७-२-
५०) अत्र इङ्ग्यमेव ॥

मूलम् - 7.1.21

मू ॥ उदितमुषासानक्तोलूखलमुच्चावचानुदावर्तः । उदित उदुम्बरशब्दोऽप्यूष्मण्योर्णायुमूर्मिणीऋणधत् ॥ २१ ॥
व्या ॥ उदितम् - पूर्व॑मे॒वोदि॒तम् (५-१-१९)
उषासानक्ता - न योना॑वु॒षासा॒नक्ता᳚ (४-१-३०)
उलूखलम् - उ॒लूख॑लञ्च॒ मुस॑लञ्च (१-६-२७)
उच्चावचान् - उ॒च्चा॒व॒चान् हि स्तोमान् (७-४-१४)
उदावर्तः - उ॒दा॒व॒र्तः प्र॒जाः (६-४-१)
उदितः - उ॒दि॒तस्तस्मा᳚त् (२-५-१)
उदितम्, उदितः इति पदद्वयग्रहणम् एतद्भिन्नस्येङ्ग्यत्वसंपादनार्थः । श्रुत्याद्यन्यतमनिर्देशे सर्वत्रानिङ्ग्यत्वं स्यात् । उदि॑तौ (१-८-२३,४-१-३३),
उदि॑तेषु (६-१-२८), उदि॑ताय (७-२-५०) अत्रेङ्ग्यमेव । एवं क्वचिदूहनीयम् । ’उदित्वा’ इत्यस्य तु प.श्लो.२१तः अनिङ्ग्यत्वप्राप्तिः । *
उदुम्बरशब्दश्शब्दनिर्दिष्टत्वात् पूर्ववत् । उदुम्बरशब्दः - ऊर्ग्वा उ॑दु॒म्बरः॑ (२-१-६), उ॒दु॒म्बरे॒णोर्ज᳚म् (७-३-३५)
ऊष्मण्या - ऊ॒ष्म॒ण्या॑ पि॒धाना᳚ (४-६-४३)
ऊर्णायुम् - इ॒मामू᳚र्णा॒युम् वरु॑णस्य (४-२-४४)
ऊर्मिणीः - ऊ॒र्मिणी॒र्मधु॑मत्तमाः (१-१-४)
ऋणधत् - भृ॒त्यामृ॒णध॑त् (४-२-४८) ॥

मूलम् - 7.1.22

मू ॥ ऋक्वतर्दूदरेणर्तुस्थायज्ञायज्ञियेन च । ऋत्वियादृक्षमश्रुत् स्यादृग्मियाण्यृत्विजश्रुतिः ॥ २२ ॥
व्या ॥ ऋक्वता - स ऋक्व॑ता ग॒णेन॑ (२-३-५४)
ऋदूदरेण - ऋ॒दू॒दरे॑ण॒ सख्या᳚ (२-२-६६)
ऋतुस्थायज्ञायज्ञियेन - ऋ॒तु॒स्थाय॑ज्ञाय॒ज्ञिये॑न॒ पुच्छ᳚म् (५-५-३४)
ऋत्वियात्, ऋक्षम एतौ शब्दौ श्रुन्निर्दिष्टत्वात् पूर्ववत् ।
ऋत्विय श्रुत् - योनि॑र् ऋ॒त्वियः॑ (१-५-१८), तस्मा॒दृत्वि॑या॒त्स्त्रियः॑ (२-५-५)
ऋक्षम श्रुत् - जग॑त्या॒ ऋक्ष॑मम्, ऋक्ष॑मात् (४-३-३)
ऋग्मियाणि - षडृग्मि॑याणि जुहोति (६-६-६)
ऋत्विजशब्दः श्रुतिनिर्दिष्टत्वात् पूर्ववत् । ऋत्विजश्रुत् - ऋ॒त्विजः॑ (१-६-१५), ऋ॒त्विजा᳚म् (३-१-३३), ऋ॒त्विज᳚म् (४-३-३१), ऋ॒त्विक्षु॑ (७-२-
३७) ॥

मूलम् - 7.1.23

मू ॥ ऋध्नवच्चैतशैतावदेतद्वेकादशश्रुतिः । ऐलबृदा ओजसीनौशिज औदुम्बरश्रुतिः ॥ २३ ॥
ऋध्नवत् - ऋ॒ध्नव॒त्खलु॒ सः (१-५-२)
एतश, एतावत्, एतदु, एकादश एते शब्दाः श्रुतिनिर्दिष्टत्वात्पूर्ववत् ।
एतश श्रुतिः - यदेत॑शेभिः (१-२-९), एत॑शेन त्वा॒ सूर्यः॑ (१-६-१३), स एत॑शः (४-१-२), याम॒न्नेत॑शस्य (४-६-२)
एतावत् श्रुतिः* - ए॒तावान् (१-७-२२), ए॒ताव॑न्तः (२-१-५), ए॒ताव॑न्ति, ए॒ताव॑तीः (२-३-३१,५०), ए॒ताव॑ती, ए॒ताव॑तः, ए॒ताव॑ता (२-६-
२०,५८), ए॒ताव॑त् (३-३-१४),
एतदु श्रुतिः - ए॒तदु॒र्वै नाम॑ (२-६-५२), ए॒तदु॑मे॒वासु॒रम् (२-६-५३)
एकादश श्रुतिः - य ए॑काद॒शः (६-६-१९), ए॒तामे॑काद॒शिनी᳚म् (६-६-१८)
ऐलबृदाः - ऐ॒ल॒बृ॒दा य॒व्युधः॑ (४-५-२६)
ओजसीना - अह॑न्योज॒सीना᳚ (४-४-३३)
औशिजः - क॒क्षीवा औशि॒जः (५-६-२२)
औदुम्बरशब्दः श्रुतिनिर्दिष्टत्वात् पूर्ववत् । औदुम्बर श्रुत् - औदु॑म्बरः (२-१-६), औदु॑म्बरम् (२-५-२४), ओदु॑म्बरीम्, औदु॑म्बरी (५-१-
५१,५२), औदु॑म्बरीः, औदु॑म्बरेण (५-४-२४,४४), औदु॑म्बर्याम् (६-२-५३) ॥

मूलम् - 7.1.24

मू ॥ ककुहकनिक्रदशब्दौ कृदरङ्किकिदीवि काद्रवेय श्रुत् । ककुभिकरम्भ कपिञ्जलकर्मण्य श्रुत्कनानकाभ्यां च ॥ २४ ॥
व्या ॥ ककुह, कनिक्रद, एतौ शब्दौ शब्दनिर्दिष्टत्वात् पूर्ववत् ।
ककुह शब्दः - क॒कु॒ह रू॒पम् (३-३-६), क॒कु॒हासु॒ शक्व॑रीषु (३-३-५)
कनिक्रद शब्दः - क॒नि॒क्र॒दं वा॒जिन᳚म् (४-२-४३), कनि॑क्रद॒द्वाव॑शतीः (२-३-५४)
कृदरम् - समि॑द्धो अ॒ञ्जन्कृद॑रम् (५-१-५६)
किकिदीवि, काद्रवेय एतौ श्रुन्निर्दिष्टत्वात्पूर्ववत् । किकिदीविश्रुत् - कि॒कि॒दी॒विर्वि॑दी॒गयः॑ (५-६-५३), श्ये॒नेन॑ किकिदी॒विना᳚ (४-२-२७)
काद्रवेय [श्रुत्]? - का॒द्र॒वे॒यो मन्त्र᳚म् (१-५-१३)?*
ककुभि, करम्भ, कपिञ्जल, कर्मण्य, एते श्रुन्निर्दिष्टत्वात्पूर्ववत् ।
ककुभि श्रुत् - क॒कुभि॑ शिश्रिया॒णः (३-३-२९), क॒कुच्छन्दः॑ (४-३-२७), नमः॑ ककु॒भाय॑ (४-५-७)
करम्भ श्रुत् - क॒र॒म्भेण॑ स॒जोष॑सः (१-८-४), पु॒रो॒डाशा᳚त् कर॒म्भात् (३-१-३३), धा॒नाः क॑र॒म्भः (६-५-४२)
कपिञ्जल श्रुत् - क॒पिञ्ज॑लोऽभवत् (२-५-२), अ॒च्छला॑भिः क॒पिञ्ज॑लान् (५-७-४५)
कर्मण्य श्रुत् - जा॒य॒ता॒ङ्क॒र्मण्यः॑ (१-२-२५), क॒र्मण्या᳚म् मृद᳚म् (४-१-१९)
कनानकाभ्याम् - वि॒द्युतौ॑ क॒नान॑काभ्याम् (५-७-४४) ॥

मूलम् - 7.1.25

मू ॥ कालका कलविङ्कश्च कार्ष्मर्यः कतमश्रुतिः । कसर्णीरः करिक्रच्च कत्कटः कर्वराणि च ॥ २५ ॥
व्या ॥ कालका - काल॑का दार्वाघा॒टः (५-५-५३)
कलविङ्कः - स क॑ल॒विङ्को॒ यत् (२-५-२)
कार्ष्मर्यः [श्रुतिः] - का॒र्ष्मर्यो॑ वज्रे॑ण (५-२-३९), का॒र्ष्मर्य॑मपश्यन्न् (६-२-५)
कतम शब्दः श्रुतिनिर्दिष्टत्वात्पूर्ववत् । कतम श्रुतिः - क॒त॒म ए॒ते (२-६-५१), क॒त॒मत्स्वि॑त् (४-६-९), क॒त॒मस्मै॒ स्वाहा᳚ (७-३-३६)
कसर्णीरः - स ए॒तम् क॑स॒र्णीरः॑ (१-५-१३)
करिक्रद् - करि॑क्र॒दच॑रद॒सौ (६-४-४३)
कत्कटः - धा॒तुः क॑त्क॒टः (५-५-५३)
कर्वराणि - ज॒नय॒न्कर्व॑राणि (१-७-४६) ॥

मूलम् - 7.1.26

मू ॥ कृत्वाय कृकवाकुश्च क्षुमन्तश्च क्षमाचराः । गोपं गोपौ तु गौपत्यं गायत्री गर्दभ श्रुतिः ॥ २६ ॥
व्या ॥ कृत्वाय - कृ॒त्वाय॒ सा म॒हीमु॒खाम् (४-१-२१,५-१-३४)
कृकवाकुः - कृ॒क॒वाकु॑स्सावि॒त्रः (५-५-५६) [कृ॒क॒ला॒सः (५-५-५७)]
क्षुमन्तः - क्षु॒मन्तो॒ याभि॒र्मदे॑म (१-७-५१,२-२-७१,२-४-४७)
क्षमाचराः - अ॒धः क्ष॑माच॒राः (४-५-२६)
गोपं - उ॒रु गो॒पम॑स्तु (४-७-२९)
गोपौ - भुव॑नस्य गो॒पौ (१-८-४२) गोपं, गोपौ, इति पदद्वयोपादानम् एतद्भिन्नस्य इङ्ग्यत्वसंपादनार्थम् । गो॒पाम् (१-५-२२), गो॒पाः (१-५-४८)
इत्यादीङ्ग्यमेव । गो॒पा॒य॒त॒ (७-१-४१) - अत्र नीचत्वादनिङ्ग्यमेव ।
गौपत्यम् [श्रुत्?] - गौ॒प॒त्यम् (३-१-२९,४-१-२१), गौ॒प॒त्येन॑ (१-५-२२,४४)
गायत्री, गर्दभ एतौ श्रुतिनिर्दिष्टत्वात्पूर्ववत् । गायत्र/त्री श्रुतिः -गा॒य॒त्रेण॑ (१-१-१५), गा॒य॒त्रम् (१-३-१२), गा॒य॒त्रीभिः॑, गा॒य॒त्री (१-५-३३),
गा॒य॒त्रिणः॑ (१-६-४७), गा॒य॒त्रीम् (१-७-४३), गा॒य॒त्रि॒यै (२-१-४१), गा॒य॒त्रि॒या, गा॒य॒त्रः (२-२-२२,२७), गा॒य॒त्रस्य॑ (२-३-३९), गा॒य॒त्रियः॑ (२-
५-४७), गा॒य॒त्रि॒याः (३-१-२०), गा॒य॒त्रात् (४-३-२), गा॒य॒त्रीः (५-३-३५), गा॒य॒त्रि॒याम् (७-२-२१), गा॒य॒त्राय॑ (७-५-३८)
गर्दभश्रुतिः - ग॒र्दभम्, ग॒र्दभः, ग॒र्दभे, ग॒र्दभेन॑ (५-१-५,२४,२५) ॥

मूलम् - 7.1.27

मू ॥ गोलत्तिका गवीन्यौ गव्यूतिश्रुद्गविष्ठिरो गर्मुत् । गोपीथाय गमध्ये गोधूमा गोतमाश्च गिर्वणसे ॥ २७ ॥
गोलत्तिका - गो॒लत्ति॑का॒ ताः (५-५-५४)
गवीन्यौ - वि ग॑वी॒न्यौ᳚ (३-३-३०)
गव्यूतिशब्दः श्रुन्निर्दिष्टत्वात् पूर्ववत् ? । गव्यूति [श्रुत्] - गव्यू॑तिम् (१-८-४०,२-६-५४) [स्व॒स्तिग॑व्यूति॒रभ॑यानि (४-१-६)?]*
गविष्ठिरः - गवि॑ष्ठिरो॒ नम॑सा (४-४-११)
गर्मुत् - ग॒र्मुदुद॑तिष्ठत् (२-४-१२)
गोपीथाय - प्र॒जायै॑, प॒शू॒नां गो॑पी॒थाय॑ (२-५-७,२-६-३७)
गमध्ये - ग॒मध्ये॒ गावो॒ यत्र॑ (१-३-११)
गोधूमाः - गो॒धूमा᳚श्च (४-७-८)
गोतमात् - गोत॑मा॒दन्वि॑याय (१-२-३२)
गिर्वणसे - जुष्टं॒ गिर्व॑णसे॒ गिरः॑ (१-६-४७) ॥

मूलम् - 7.1.28

मू ॥ गृह्येयाताम् ग्रुमुष्टिश्रुद्गोधा गोत्राणि गार्मुतम् । गर्गराणां गरुत्मांश्च घृणीवांश्च घनाघनः ॥ २८ ॥
व्या ॥ गृह्येयाताम् - गृ॒ह्येया॑ताम् प्रा॒णम॑पा॒नः (६-४-२९)
ग्रुमुष्टिशब्दः श्रुन्निर्दिष्टत्वात् पूर्ववत् । ग्रुमुष्टि श्रुत् - वै ग्रु॑मु॒प्टिस्स॑योनि॒त्वाय॑ (५-४-२१), ग्रु॒मु॒ष्टिनावो᳚क्षति (५-४-२०)
गोधा - गो॒धा काल॑का (५-५-५३)
गोत्राणि - अ॒भि गो॒त्राणि॒ सह॑सा (४-६-१७)
गार्मुतम् - गा॒र्मुतञ्च॒रुन्निर्व॑पेत् (२-४-१२) [कुतो न गर्मुत् श्रुत् ?]
गर्गराणाम् - म॒ह॒तां गर्ग॑राणाम् (३-३-२९)
गरुत्मान् - सु॒प॒र्णो॑ऽसि ग॒रुत्मान् (४-१-४२)
घृणीवान् - घृणी॑वाञ्चेतति (३-५-३२)
घनाघनः - घ॒ना॒घ॒नः क्षोभ॑णः (४-६-१६) ॥

मूलम् - 7.1.29

मू ॥ चक्रवाकश्चिकितुषे चक्राणश्चैत्रियायणः । चिकित्नू चेकितानश्रुच्चुपुणीका चनोहितः ॥ २९ ॥
व्या ॥ चक्रवाकः - दि॒ग्भ्यश्च॑क्रवा॒कः (५-५-५१)
चिकितुषे - चि॒कि॒तुषे॑ दधातु (३-३-३६) [चि॒कि॒त्वान् (३-१-११) प.श्लो.२०तः अनिङ्ग्यम् । ]
चक्राणः - स॒त्रा च॑क्रा॒णो अ॒मृता॑नि (२-२-६५)
चैत्रियायणः - य॒ज्ञसे॑नश्चैत्रियाय॒णः (५-३-३५)
चिकित्नू - श॒रदाऽह्ना᳚म् चिकित्नू (४-४-३५) अस्य बहुस्वर्यूदन्तत्वात् प्राप्तमिङ्ग्यत्वं निवारितम् ।
चेकितान शब्दः श्रुन्निर्दिष्टत्वात् पूर्ववत् । चेकितान श्रुत् - सत्प॑ति॒श्चेकि॑तानः (४-७-२६), वृ॒ष॒भं चेकि॑तानम् (५-७-४)
चुपुणीका - चु॒पु॒णीका॒ नामा॑सि (४-४-१८)
चनोहितः - उ॒शिग्दू॒तश्चनो॑हितः (४-१-४६) ॥

मूलम् - 7.1.30

मू ॥ चराचरेभ्यश्चात्वाल चरित्र चरम श्रुतिः । चकृवान् जर्हृषाणश्च जर्भुराणा च जम्भयोः ॥ ३० ॥
व्या ॥ चराचरेभ्यः - च॒रा॒च॒रेभ्य॒स्स्वाहा᳚ (१-८-२६)
चात्वाल, चरित्र, चरम, एते श्रुतिनिर्दिष्टत्वात् पूर्ववत् ।
चात्वाल श्रुतिः - य॒ज्ञस्य॒ चात्वा॑लम्, चात्वा॑ले कृष्णविषा॒णां (६-१-२४), चात्वा॑ला॒द्धिष्णि॑यान् (६-३-१), चात्वा॑ल॒स्यान्ते᳚ (७-५-२३)
चरित्र श्रुतिः - शु॒द्धाश्च॒रित्रा॒श्शम् (१-३-१६), च॒रित्रा॑या॒ग्निः (४-२-३७) [’चरित्वा’ (५-२-२४) प.श्लो.२१तः अनिङ्ग्यम् । ]
चरम श्रुतिः - च॒र॒मेण॑ प॒शुना᳚ (१-२-१४), च॒र॒माया॒मिष्ट॑कायाम् (५-४-११)
चकृवान् - एन॑श्चकृवा॒न्महि॑ (३-२-३०)
जर्हृषाणः - जर्हृ॑षाणो॒ऽयम् (१-३-६)
जर्भुराणा - जर्भु॑राणा चरन्ति (४-६-३७)
जम्भ[श्रुत्?]योः - ते॒ द॒धा॒मि॒ जम्भ॑योः (४-१-४०) [जम्भे॑ दधामि (४-४-९)] ॥

मूलम् - 7.1.31

मू ॥ जनता जीवातु श्रुज्जमदग्निर्जामदग्नियौ जहका । जनिता जीमूतश्रुज्जनिमा जञ्जभ्यते जरित्रे च ॥ ३१ ॥
व्या ॥ जनता, जीवातु एतौ शब्दौ श्रुन्निर्दिष्टत्वात् पूर्ववत् ।
जनता श्रुत् - वी॒र्ये॑ण ज॒नता॑मेति (२-२-४), ज॒नता॑या॒ञ्चर॑ति (२-२-३३)
जीवातु श्रुत् - जी॒वात॑वे (२-३-३९), जी॒वातु᳚म् (३-३-३४,३-४-४१), जी॒वातुः॑ (४-७-६)
जमदग्निः - ज॒मद॑ग्नि॒रर्चन्न् (२-२-६७…)
जामदग्नियौ - प॒लि॒तौ जाम॑दग्नियौ (७-१-३५)
जहका - जह॑का संवथ्स॒राय॑ (५-५-५६)
जनिता [श्रुत्?] - हि॒सी॒ज्ज॒नि॒ता (४-२-२९) [ज॒नि॒तार᳚म् (४-२-४५) प.श्लो.१५तः अनिङ्ग्यम् । ]
जीमूत शब्दः श्रुन्निर्दिष्टत्वात् पूर्ववत् । जीमूत श्रुत् - जी॒मूत॑स्येव (४-६-२७), ज॒त्रवो॑ जी॒मूतान् (५-७-४८)
जनिमा - विश्वा॑नि दे॒वो जनि॑मा (२-३-५६) [जनि॑म॒ तत्ते᳚ (४-२-३३)?]
जञ्जभ्यते - यज्ज॑ञ्ज॒भ्यते॒ तत् (७-५-५४)
जरित्रे - मृ॒डा ज॑रि॒त्रे रु॑द्र (४-५-२४) ॥

मूलम् - 7.1.32

मू ॥ जुहुराणं जुजुषाणा ज्येष्ठ जरायु श्रुतौ जनित्रं च । जाम्बीलेन जनित्वैर्जायेन्यस्यापि जीवनस्यायै ॥ ३२ ॥
व्या ॥ जुहुराणम् - जु॒हु॒रा॒णमेनः॑ (१-१-२७,१-४-४४)
जुजुषाणा - जु॒जु॒षा॒णा घृ॒ताची᳚ (१-८-३९)
ज्येष्ठ, जरायु, एतौ श्रुन्निर्दिष्टत्वात् पूर्ववत् । ज्येष्ठ श्रुत् - ज्ये॒ष्ठाय॑, ज्ये॒ष्ठाना᳚म् (१-८-१९), ज्यैष्ठ्या॑य (२-२-६२), ज्ये॒ष्ठः (२-३-३), ज्ये॒ष्ठम् (२-
५-१४), ज्यैष्ठ्य᳚म्, ज्ये॒ष्ठाः (३-५-२६,३०)
जरायु श्रुत् - ज॒रायु॑ च (३-३-३१), ज॒रायु॒णाग्ने᳚ (४-६-१)
जनित्रम् - अ॒ग्नेर्जनित्र॑मसि (१-३-१२) [जनि॑त्री, ज॒नि॒त्री (४-३-२१,२५)?]
जाम्बीलेन - अर॑ण्यं॒ जाम्बी॑लेन (५-७-४३)
जनित्वैः - भि॒नद॒दुज्जनि॑त्वैः (४-२-९)
जायेन्यस्य - तज्जा॒येन्य॑स्य॒ यः (२-३-३५)
जीवनस्यायै - जी॒वात॑वे जीवन॒स्यायै᳚ (२-३-३९) ॥

मूलम् - 7.1.33

मू ॥ तत्त्वाय तावत श्रुत्तादृक् त्वष्टीमती तुविष्मणसम् । त्रेधा च तेतिजान स्ततृषाणस्तारकाश्च तनयित्नोः ॥ ३३ ॥
व्या ॥ तत्त्वाय - त॒त्त्वाय॑ सवि॒ताधियः॑ (४-१-१)
तावतशब्दः श्रुन्निर्दिष्टत्वात् पूर्ववत् । तावत श्रुत् - ताव॑त् (१-६-२९), ताव॑तः (२-३-४६), ताव॑ती (२-४-२७), ताव॑तीः (२-५-४६), ताव॑न्तः
(७-१-७)
तादृक् - ता॒दृगे॒व (१-५-७) [ता॒दृशा॑य॒ स्वाहा᳚ (७-३-३९)]
त्वष्टीमती - त्वष्टी॑मती ते सपेय (१-२-१२,६-१-५८)
तुविष्मणसम् - तु॒वि॒ष्म॒णस सु॒यज᳚म् (३-३-३३) [तुवि॑ष्मान्दा॒ता (२-३-५४)?]
त्रेधा - त्रे॒धा निद॑धे (१-२-२५)
तेतिजानः - स्वधि॑ति॒स्तेति॑जानः (१-३-९)
ततृषाणः - न त॑तृषा॒णो अ॒जरः॑ (४-६-२)
तारकाः - तार॑का अ॒स्थानि॑ (७-५-५३)
तनयित्नोः - त॒न॒यि॒त्नोर॒चित्ता᳚त् (१-३-२४) ॥

मूलम् - 7.1.34

मू ॥ तुरण्यतस्तुरीप श्रुत् त्रसदस्युस्तमस्वरीः । तूपरत्वोतशब्दौ च त्रिष्टुभश्रुत्तरित्रतः ॥ ३४ ॥
व्या ॥ तुरण्यतः - द्रव॑तस्तुरण्य॒तः प॒र्णम् (१-७-३६)
तुरीपशब्दः श्रुन्निर्दिष्टत्वात् पूर्ववत् । तुरीप श्रुत् - तन्न॑स्तु॒रीप॒मध॑ (३-१-३५), तु॒रीपा॑य॒ स्वाहा᳚ (७-३-३६)
तूपर, त्वोत, एतौ शब्दौ शब्दनिर्दिष्टत्वात् पूर्ववत् ।
तूपर शब्दः - तूप॒रः, तूप॒रम् (२-१-५), तूप॒रौ (५-५-६२), तूप॒राः (५-६-४२), तूप॒रा (७-५-२)
त्वोत शब्दः - त्वोत॑ उ॒त (१-३-२९), त्वोता॒स्तव॑ (१-२-३३)
त्रिष्टुभशब्दः श्रुन्निर्दिष्टत्वात्पूर्ववत् । त्रिष्टुभश्रुत् - त्रि॒ष्टुभ᳚म् (१-७-४४), त्रि॒ष्टुभा᳚ (२-२-२२), त्रि॒ष्टुभः॑ (२-३-३९), त्रि॒ष्टुभे᳚ (६-२-२), त्रि॒ष्टुभि॑ (७-
२-२१)
तरित्रतः - स॒होर्जा तरि॑त्रतः (१-७-३६) ॥

मूलम् - 7.1.35

मू ॥ दिद्युद्दुहितरशब्दः द्रविणस्युर्दृशीकवः । दूषीकाभिश्च देवाच्या दात्यौहश्च दविद्युतत् ॥ ३५ ॥
व्या ॥ दिद्युत् - दि॒द्युद्वर्ष॑न्त्वे॒षः (२-४-१९)
दुहितरशब्दः शब्दनिर्दिष्टत्वात् पूर्ववत् । दुहितर शब्दः - सूर्य॑स्य दुहि॒ता (१-८-३७), दु॒हि॒तर॑ आस॒न्ताः (२-३-२४)
द्रविणस्युः - द्र॒वि॒ण॒स्युर्वि॑प॒न्यया᳚ (४-३-२९)
दृशीकवः - बाह्या॑ दृशी॒कवः॑ (७-३-२)
दूषीकाभिः - दू॒षीका॑भिर्ह्रा॒दुनि᳚म् (५-७-५२)
देवाच्या - दे॒वाच्या॑ कृ॒पा (४-४-१७)
दात्यौहः - कु॒टरु॑र्दात्यौ॒हस्ते (५-५-५५)
विद्युतत् - निहि॑तो॒ दवि॑द्युतत् (४-७-२६) ॥

मूलम् - 7.1.36

मू ॥ दर्विदा देविका देवताशब्दवत् द्राघुया दीधितिं दिदिविं दीदिवान् । द्वापरो दुष्टरन्दुष्टरीतुर्दृषद्द्युम्नदुर्यश्रुतिः दन्दशूकाश्रुतिः ॥ ३६ ॥
व्या ॥ दर्वि॑दा॒ ते वा॑य॒व्याः᳚ (५-५-५१)
देविकाः - देवि॑का॒ निर्व॑पेत् (३-४-२९)
देवता शब्दः शब्दनिर्दिष्टत्वात् पूर्ववत् । देवताशब्दवत् - दे॒वता᳚ (१-४-२६), दे॒वता॑याम्, दे॒वता॑भिः (१-५-४,१४), दे॒वता᳚भ्यः, देवता᳚म्, दे॒वता॑सु,
दे॒वताः᳚ (१-६-३,१३,२१), दे॒वता॑नाम् (१-७-१६), दे॒वता॑यै, दे॒वत॑या, दे॒वते᳚ (२-१-४,८,५५), दे॒वता॑याः (५-१-२)
द्राघुया - द्रा॒घु॒या च॑ मे (४-७-३)
दीधितिं - शुचीद॑य॒न्दीधि॑तिं (२-६-६८)
दीदिविं - गो॒पामृ॒तस्य॒ दीदि॑विम् (१-५-२२)
दीदिवान्[श्रुति] - [दोषा॑वस्तर्दीदि॒वास᳚म् (१-२-३१), दी॒दि॒वोऽग्ने᳚ (१-३-३१)], त्वे॒षो दी॑दि॒वा अ॑सदत् (३-५-३३)
द्वापरः - द्वा॒प॒रोऽया॑नां (४-३-६)
दुष्टरं - दु॒ष्टर॑म॒स्त्वोजः॑ (४-४-३४)
दुष्टरीतुः - दु॒ष्टरी॑तु॒रदा᳚भ्यः (४-४-३३)
दृषत् - दृ॒षच्चोप॑ला च (१-६-२७)
द्युम्न, दुर्य, एतौ शब्दौ श्रुतिनिर्दिष्टत्वात्पूर्ववत् । द्युम्नश्रुतिः - द्यु॒म्नम्, द्यु॒म्नानि॑, द्यु॒म्ना (१-२-३,३०,३१), द्यु॒म्नस्य॑ (१-३-२९), द्यु॒म्निनीः᳚, द्यु॒म्नेन॑ (१-८-
२१,२७), द्यु॒म्नैः (४-७-१)
दुर्यश्रुतिः - दुर्याः᳚ (१-१-६), दुर्यान् (१-२-१८)
दन्दशूका शब्दः श्रुतिनिर्दिष्टत्वात्पूर्ववत् । दन्दशूका श्रुतिः - द॒न्द॒शूकाः᳚ (१-८-२७), द॒न्द॒शूका॑नाम्, अद॑न्दशूकाः (६-१-६९) ॥

मूलम् - 7.1.37

मू । द्युतानो दधीचो दरिद्द्रद्द्वितीयश्रुतिर्धाणिका च ध्रजीमाश्च धेष्ठा । नराशसशब्दो नवेदा नवग्वा नपात्को नपातंच नक्षत्रशब्दः ॥ ३७ ॥
व्या ॥ द्युतानः - द्यु॒ता॒नस्त्वा॑ मारु॒तः (१-३-२)
दधीचः - द॒धी॒चो अ॒स्थभि॒रिति॑ (५-६-२५)
दरिद्रत् - दरि॑द्र॒न्नील॑लोहित (४-५-२१)
द्वितीयशब्दः श्रुतिनिर्दिष्टत्वात्पूर्ववत् । द्वितीयश्रुतिः - द्वि॒तीयः॑ (२-१-४१), द्वि॒तीय॑स्याम् (१-२-२२), द्वि॒तीय᳚म् (१-३-२८), द्वि॒तीया॑य (१-८-१०),
द्वि॒तीये᳚ (३-१-२७), द्वि॒तीया᳚ (५-५-२३), द्वि॒तीया᳚म् (५-५-२४), द्वि॒तीये॑न (६-५-१६), द्वि॒तीयाः᳚ (७-२-३९)
धाणिका - निज॑ल्गुलीति॒ धाणि॑का (७-४-४९)
ध्रजीमान् - वात॑ इव॒ ध्रजी॑मान् (४-६-३७)
धेष्ठा - उ॒श॒ते धेष्ठा᳚ (१-१-२६)
नराशसशब्दः शब्दनिर्दिष्टत्वात्पूर्ववत् । नराशस शब्दः - नरा॒शस॑स्य (१-६-११), नरा॒शसे॑न (१-७-१५), नरा॒शसः (४-१-२९)
नवेदाः - नवे॑दा॒ यश॑स्वतीः (३-१-३९)
नवग्वाः - दि॒व्या नव॑ग्वा॒ वना᳚ (३-३-३३)
नपात्कः - न॒पा॒त्को वै नाम॑ (५-४-५०)
नपातं[श्रुति] - अ॒पान्नपा॑तमश्विना (१-६-४९) [अ॒पां॒ न॒पा॒त् (१-२-८,२-५-७०)?]
नक्षत्रशब्दः शब्दनिर्दिष्टत्वात्पूर्ववत् । नक्षत्रशब्दः - नक्ष॑त्राणाम् (१-२-४), नक्ष॑त्रम् (१-५-४), नक्ष॑त्रेभ्यः (१-८-२६), नक्ष॑त्राणि (३-४-१९),
नक्ष॑त्रैः (५-२-६४), नक्ष॑त्रेषु (६-१-२८), न॒क्ष॒त्रिया᳚म्, न॒क्ष॒त्रिया॑याम् (७-१-९) ॥

मूलम् - 7.1.38

मू ॥ नक्तोषासा नक्तया नव्यसेश्रुन्नाराशसश्रुन्निदो नन्नमीति । नैयग्रोधो नानदन्नीत नृम्णश्रुन्नीवारा नाथितश्रुन्नभन्ताम् ॥ ३८ ॥
व्या ॥ नक्तोषासा - नक्तो॒षासा॒ सम॑नसा (४-६-२२)
नक्तया - न॒क्त॒या चि॒दरू᳚क्षितं (४-३-३०)
नव्यसे, नाराशस, एतौ श्रुन्निर्दिष्टत्वात्पूर्ववत् ।
नव्यसेश्रुत् - सु॒वि॒ताय॒ नव्य॑से (१-४-२५), पि॒तरा॒ नव्य॑सीभिः (४-१-४६)
नाराशसश्रुत् - ना॒रा॒श॒सेन (१-८-८), नाराश॒सः (४-४-२५), ना॒रा॒श॒सीभ्यः॑ (७-५-३४)
निदः - द्रु॒हो नि॒दो मि॑त्रमहः (१-२-३३)
नन्नमीति - प्र॒स॒वो नन्न॑मीति (४-७-२२)
नैयग्रोधः - नैय॑ग्रोध॒ औदु॑म्बरः (३-४-२५)
नानदत् - नान॑द॒द्रास॑भः॒ पत्वा᳚ (४-१-१६)
नीत, नृम्ण, एतौ श्रुन्निर्दिष्टत्वात्पूर्ववत् ।
नीतश्रुत्? - नी॒तासु॒ दक्षि॑णासु (६-१-२४) [नी॒त्वा (७-४-३१) तु प.श्लो.२१तः अनिङ्ग्यम् । ]
नृम्णश्रुत्? - नृ॒म्णस्य॑ म॒ह्ना सः (१-७-४८)
नीवाराः - नी॒वारा᳚श्च मे (४-७-८)
नाथितशब्दः श्रुन्निर्दिष्टत्वात्पूर्ववत् । नाथितशब्दः - मा ना॒थि॒तं (१-२-२२), ना॒थि॒तो जो॑हवीमि (४-७-३३), ना॒थि॒तान् हि (६-२-३५)
नभन्तां - नभ॑न्तामन्य॒केषां᳚ (१-७-५१) ॥

मूलम् - 7.1.39

मू ॥ नीहारश्रुन्नहना नन्दथुना नीक्षणञ्च नीलङ्गोः । नीनिमनूतनशब्दौ नैवारश्रुन्निलायत न्यङ्कुः ॥ ३९ ॥
नीहारशब्दः श्रुन्निर्दिष्टत्वात्पूर्ववत् । नीहारश्रुत् - नी॒हा॒रेण॒ प्रावृ॑ताः (४-६-७), नी॒हा॒राय॒ स्वाहा᳚ (७-५-३३)
नहना - नह॑ना॒ व्यस्यन्न् (३-४-४३)
नन्दथुना - आ॒न॒न्दन्न॒न्दथु॑ना (५-७-५१)
नीक्षणम् - यन्नीक्ष॑णं मा॒स्पच॑न्याः (४-६-४३)
नीलङ्गोः - नील॑ङ्गोः॒ क्रिमिः॑ (५-५-४९)
नीनिम, नूतन एतौ शब्दनिर्दिष्टत्वात्पूर्ववत् ।
नीनिमशब्दः? - दक्षि॑णा॒न्न नी॑निम (३-२-३१)
नूतनशब्दः - नूत॑नाय (१-४-१८), नूत॑नेन (२-१-६५), नूत॑नासु (३-३-५), नूत॑नाः (४-२-१४)
नैवारशब्दः श्रुन्निर्दिष्टत्वात्पूर्ववत् । नैवारश्रुत्? - नै॒वा॒रञ्च॒रुम् (१-८-१८)
निलायत - स निला॑यत॒ सो॑ऽपः (२-६-३०)
न्यङ्कुः - पि॒त्वो न्यङ्कुः॒ कशः॑ (५-५-५५) ॥

मूलम् - 7.1.40

मू ॥ निष्कावं निष्कासे निष्केवल्यं निषङ्गथिर्नीविः । निष्टर्क्यं निष्ट्याय न्यग्रोधश्रुन्नरन्धिषश्रुच्च ॥ ४० ॥
व्या ॥ निष्कावं - नि॒ष्काव॑मादन्न् (६-२-५)
निष्कासे - नि॒ष्का॒स उ॑दय॒नीय᳚म् (६-१-३८)
निष्केवल्यं - निष्के॑वल्यमु॒क्थं (४-४-५)
निषङ्गथिः - आ॒भुर॑स्य निष॒ङ्गथिः॑ (४-५-४)
नीविः - पि॒तृ॒णान्नी॒विरोष॑धीनाम् (६-१-३)
निष्टर्क्यं - नि॒ष्ट॒र्क्यं॑ बध्नाति (६-१-४७)
निष्ट्याय - उ॒त स नि॒ष्ट्याय॑ स॒ह (६-२-२०)
न्यग्रोध, नरन्धिष, एतौ श्रुन्निर्दिष्टत्वात्पूर्ववत् ।
न्यग्रोधश्रुत् - न्य॒ग्रोधे॑न॒ वन॒स्पतीन्॑ (७-३-३५), न्य॒ग्रोध॑श्चम॒सैः (७-४-३८)
नरन्धिषश्रुत् - न॒रन्धि॑षः प्रो॒ह्यमा॑णः (४-४-२५), पू॒ष्णे न॒रन्धि॑षाय (७-३-३६) ॥

मूलम् - 7.1.41

मू ॥ पृत्सुतीः पुरितता पृतन्यतः प्रुष्णते पृषतयः परिष्कृतः । पत्वने परमतां पृतन्यवः पस्पशे च पतयिष्णु पायवः ॥ ४१ ॥
पृत्सुतीः - पृ॒त्सु॒तीर्मर्त्या॑नां (१-४-५४)
पुरितता - अ॒न्तरि॑क्षं पुरि॒तता᳚ (५-७-४८)
पृतन्यतः - सह॑स्व पृतन्य॒तः (१-६-१)
प्रुष्णते - प्रु॒ष्ण॒ते स्वाहा᳚ (७-५-३४)
पृषतयः - म॒रुतां॒ पृष॑तयः (१-१-२२)
परिष्कृतः - दू॒तः परि॑ष्कृतः (३-२-४६)
पत्वने - श्ये॒नाय॒ पत्व॑ने॒ स्वाहा᳚ (३-२-२९)
परमतां - प॒र॒मता॑मे॒व ग॑च्छति (७-१-१०)
पृतन्यवः - ये पृ॑त॒न्यवः॑ (४-७-२७)
पस्पशे - यतो᳚ व्र॒तानि॑ पस्प॒शे (१-३-११)
पतयिष्णु - प॒त॒यि॒ष्ण॑र्वन्तव॑ (४-६-३७)
पायवः - ये पा॒यवो॑ मामते॒यं (१-२-३२) ॥

मूलम् - 7.1.42

मू ॥ प्रउगं प्रयसः प्रजापतेरहृदयेनापि पितामहश्रुतिः । परमेष्ठी च पतत्त्रिणश्रुतिः पृतनाज्येषु च पुण्डरिस्रजाम् ॥ ४२ ।
व्या ॥ प्रउगं - प्रउ॑गमु॒क्थं (४-४-४)
प्रयसः - ई॒म॒न्द्रासु॑ प्र॒यसः॑ (४-१-३०) [प्रय॑स्वान् (३-४-४५) प.श्लो.२०तः इङ्ग्यम् । ]
प्रजापतेर्हृदयेन - प्र॒जाप॑ते॒र्हृद॑येनापिप॒क्षं (५-५-३५)
पितामहशब्दः श्रुतिनिर्दिष्टत्वात्पूर्ववत् । पितामहशब्दः - पि॒ता॒म॒ह॒ (१-८-७), पि॒ता॒म॒हाः॒ (३-४-१६,४-३-६), पि॒ता॒म॒हः (७-२-२४)
परमेष्ठी [श्रुतिः?] - प॒र॒मे॒ष्ठिनः॑ (१-६-३०), प॒र॒मेष्ठी (३-४-२०), प॒र॒मे॒ष्ठिने᳚ (५-६-४४), प॒र॒मे॒ष्ठिन᳚म् (५-७-२२)
पतत्त्रिणशब्दः श्रुतिनिर्दिष्टत्वात्पूर्ववत् । पतत्त्रिणश्रुतिः - प॒त॒त्त्रिणीः᳚ (४-२-२५), प॒त॒त्रि (४-६-३६), प॒त॒त्त्रिणः॑ (४-७-२४,७-३-३५)
पृतनाज्येषु - उ॒ग्रः पृ॑त॒नाज्ये॑षु (३-४-१५)
पुण्डरिस्रजां - पु॒ण्ड॒रि॒स्र॒जां प्र य॑च्छति (१-८-३४) ॥

मूलम् - 7.1.43

मू ॥ पतङ्गं पिशङ्गाश्रुतिः पार्वतेयी पराचः प्रतीचीश्रुतिः पाकलाय । पुरन्धिः पुरोडाशशब्दः परिष्टौ पृदाकुः पराके च पल्पूलनेन ॥ ४३ ॥
व्या ॥ पतङ्गं (श्रुतिः)? - जु॒ह्वा॑ पत॒ङ्गान् (१-२-२८), वाक्प॑त॒ङ्गाय॑ (१-५-१०), प॒तय॑न्तं पत॒ङ्गम् (४-६-३६)
पिशङ्गाश्रुतिः - पि॒शङ्गी॑ पष्ठौ॒ही (१-८-३५), पि॒शङ्गौ॑ तूप॒रौ (५-५-६२), त्रयः॑ पि॒शङ्गाः᳚ (५-६-५०), पि॒शङ्गा॑य॒ स्वाहा᳚ (७-३-४०)
पार्वतेयी - धि॒षणा॑सि पार्वते॒यी (१-१-९)
पराचः, प्रतीचः एतौ श्रुतिनिर्दिष्टत्वात्पूर्ववत् । पराचः श्रुतिः - प॒रा॒चैः (१-४-४९), परा॑चीम् (१-७-३), परा॑चीः (२-१-७), परा॑ची (२-१-५९),
परा॑चीभिः (३-१-३४), परा॑चः (६-२-१७)
प्रतीच श्रुतिः - प्र॒तीच्या᳚म् (१-६-१६), प्र॒तीची᳚म् (१-७-३), प्र॒तीची᳚ (२-१-५९), प्र॒तीचीः᳚ (२-५-४१), प्र॒तीचः॑ (३-४-२६), प्र॒तीच्या᳚ (५-५-
३५), प्र॒तीच्यै᳚ (७-१-४४)
पाकलाय - पा॒क॒लाय॒ स्वाहा᳚ (७-३-४०)
पुरन्धिः - पुर॑न्धि॒र्योषा᳚ (७-५-४४)
पुरोडाशशब्दः शब्दनिर्दिष्टत्वात्पूर्ववत् । पुरोडाशशब्दः - पु॒रो॒डाशः॑, पु॒रो॒डाश᳚म् (१-५-४,७), पु॒रो॒डाशैः᳚ (२-२-५२), पु॒रो॒डाशाः᳚ (२-३-२८),
पु॒रो॒डाशे᳚ (२-४-३०), पु॒रो॒डाशान् (२-६-१७), पु॒रो॒डाशौ᳚ (२-६-३३), पु॒रो॒डाशा᳚त् (३-१-३३), पु॒रो॒डाशे॑न (५-५-५), पु॒रो॒डाशा॑नाम् (६-५-
४२)
परिष्टौ - स॒ह॒सा॒व॒न्परि॑ष्टौ (१-६-५१)
पृदाकुः - पृदा॑कुः॒ प्राची॒ नामा॑सि (५-५-४२)
पराके - रज॑सः परा॒के (२-२-६८)
पल्पूलनेन - नास्य॒ पल्पू॑लनेन॒ वासः॑ (२-५-३२) ॥

मूलम् - 7.1.44

मू ॥ पर्यारि पर्यारिणी पारयिष्णुश्रुतिः पौरुषेयश्रुतिः प्रावृषा पर्वतिः । प्रोषिष्यतेपि प्रतीपं प्रतीकश्रुतिः प्रावृतस्य श्रुतिः प्रासचाय ॥ ४४ ॥
व्या ॥ पर्यारि - प॒र्या॒रीव॒ ह्ये॑तस्य॑ (२-१-२७)
पर्यारिणी - प॒र्या॒रिणी॑ भवति (२-१-२७)
पारयिष्णु, पौरुषेय एतौ श्रुतिनिर्दिष्टत्वात्पूर्ववत् ।
पारयिष्णुश्रुतिः - अच्छि॑द्रां पारयि॒ष्णुं (१-५-५१), वी॒रुधः॑ पारयि॒ष्णवः॑ (४-२-२४)
पौरुषेयश्रुतिः - पौरु॑षेयो व॒धः (४-४-७), पौरु॑षेयेण॒ दैव्ये॑न (४-७-३७)
प्रावृषा - प्रा॒वृषाह्ना॒ सुव॑र्वती (४-४-३४)
पर्वतिः - प्रति॑ त्वा पर्वतिर्वे᳚त्तु (१-१-९)
प्रोषिष्यते - प्रो॒षि॒ष्य॒ते स्वाहा᳚ (६-४-७)
प्रतीक, प्रावृतस्य, एतौ श्रुतिनिर्दिष्टत्वात्पूर्ववत् ।
प्रतीकश्रुतिः - त्वम॑ग्ने॒ प्रती॑केन (२-५-७४), प्रती॑कं॒ यद्व॒र्मी (४-६-२७)
प्रावृतस्य श्रुतिः - रेक्ण॑सा॒ प्रावृ॑तस्य (४-६-३९), नी॒हा॒रेण॒ प्रावृ॑ताः (४-६-७)
प्रासचाय - प्रा॒स॒चाय॒ स्वाहा᳚ (७-५-३३) ॥

मूलम् - 7.1.45

मू ॥ प्रायश्चित्तिश्रुत्प्राकाशौ प्राशृङ्गश्रुत्पूर्वेद्युश्च । पूतुद्रुश्रुत्प्रश्नम्प्रच्छत्प्रत्नप्रत्तश्रुत्पड्बीशम् ॥ ४५ ॥
व्या ॥ प्रायश्चित्तिशब्दः श्रुन्निर्दिष्टत्वात्पूर्ववत् ।
प्रायश्चित्तिश्रुत् - प्राय॑श्चित्तिमैच्छन्न् (२-१-८), सैव ततः॒ प्राय॑श्चित्तिः (३-१-१०)
प्राकाशौ - प्रा॒का॒शाव॑ध्व॒र्यवे᳚ (१-८-३४)
प्राशृङ्गशब्दः श्रुन्निर्दिष्टत्वात्पूर्ववत् । प्राशृङ्गश्रुत् - ल॒लामं॑ प्राशृ॒ङ्गम्, प्रा॒शृ॒ङ्गो भ॑वति (२-१-१६,२०)
पूर्वेद्युः - पू॒र्वेद्युः क्रि॑यते (२-५-२०)
पूतुद्रु शब्दः श्रुन्निर्दिष्टत्वात्पूर्ववत् । उदा - पूतुद्रुश्रुत् - तां पूतु॑द्रौ॒ यां (६-२-४२), तत्पूतु॑द्र्वभवत् (६-२-४४)
प्रश्नं - प्र॒श्नमै॑तां (२-५-६४)
प्रच्छत् - प्र॒च्छच्छन्दः॑ (४-३-२८)
प्रत्न, प्रत्त, एतौ श्रुन्निर्दिष्टत्वात्पूर्ववत् ।
प्रत्नश्रुत् - प्र॒त्नाम् (१-५-१७), लो॒कः प्र॒त्नः (१-५-२५), प्र॒त्न॒ रा॒ज॒न्न् (२-५-७३), प्र॒त्नासो॑ अग्ने (२-६-६८), प्र॒त्न स॒धस्थ᳚म् (४-१-१७)
प्रत्तश्रुत् - प्रत्ता॒ वै (१-७-२), प्रत्त᳚म् (२-२-४३), प्रत्ता॒ङ्गां, प्रत्ता॒न्काम᳚म् (२-३-२८), प्रत्त्या॒ अग्ने᳚ (५-४-३१), प्रत्ते॒ काम᳚म् (५-४-४५)
पड्बीशं - अर्व॑न्तं॒ पड्बी॑शं (४-६-४४) ॥

मूलम् - 7.1.46

मू ॥ प्राणायनः पिशङ्गिला प्रावाहणिः पिलिप्पिला । प्रैयंगवं प्रियङ्गवः पावीरवी पवीरवम् ॥ ४६ ॥
व्या ॥ प्राणायनः - व॒स॒न्तः प्रा॑णाय॒नो गा॑य॒त्री (४-३-२)
पिशङ्गिला - कि स्वि॑दासीत्पिशङ्गि॒ला (७-४-४५)
प्रावाहणिः - ब॒ब॒रः प्रावा॑हणिरकामयत (७-१-३७)
पिलिप्पिला - कि स्वि॑दासीत्पिलिप्पि॒ला (७-४-४५)
प्रैयङ्गवं - प्रैय॑ङ्गवञ्च॒रुन्निः (२-२-६१)
प्रियङ्गवः - प्रि॒यङ्ग॑वश्च॒ मेऽण॑वः (४-७-८)
पावीरवी - पावी॑रवी क॒न्या᳚ (४-१-४४)
पवीरवं - लाङ्ग॑ल॒म्पवी॑रवम् (४-२-२३) ॥

मूलम् - 7.1.47

मू ॥ प्रेमाणम्प्राणिने प्रेणा प्रेता पौतुद्रवश्रुतिः । पुरूरवाः परुच्छेपः परमश्रुत्प्रवत्वति ॥ ४७ ॥
व्या ॥ प्रेमाणं - प्रे॒माण॑मे॒वास्य॑ गच्छति (५-५-३५)
प्राणिने - प्रा॒णिने॒ स्वाहा᳚ (७-५-३५)
प्रेणा - प्रे॒णानु॒ प्रावि॑शत् (५-५-८)
प्रेता - पृश्ञेः᳚ प्रे॒ता (१-४-२९)
पौतुद्रवशब्दः श्रुतिनिर्दिष्टत्वात्पूर्ववत् । पौतुद्रवश्रुतिः - पौतु॑द्रवान्परि॒धीन् (६-२-४१), यत्पौतु॑द्रवाः परि॒धयः॑ (६-२-४४)
पुरूरवाः - पु॒रू॒रवा॑ घृ॒तेन॑ (१-३-१२)
परुच्छेपः - परु॑च्छेपो॒ऽभ्य॑वदत् (२-५-४६)
परमशब्दः श्रुन्निर्दिष्टत्वात्पूर्ववत् । परमश्रुत् - प॒र॒मेण॑, प॒र॒मस्या᳚म् (१-१-४,१३), प॒र॒मम् (१-३-११), प॒र॒माम् (१-६-३०), प॒र॒मस्याः᳚ (४-१-३७),
प॒र॒मे (४-२-४३), प॒र॒मा, प॒र॒माणि॑ (४-६-६,१०), प॒र॒मः, प॒र॒मता᳚म् (५-४-५६)
प्रवत्वति - प्र या भू॑मि प्रवत्वति म॒ह्ना (२-२-६५) ॥

मूलम् - 7.1.48

मू ॥ प्रातः पुरोडाशिन्यश्च पार्याः पापीयसीश्रुतिः । पोषयित्नु च पीवानः पावकः पाजसा श्रुतिः ॥ ४८ ॥
व्या ॥ प्रातः - न प्रा॒तस्स हि (१-५-४०)
पुरोडाशिन्यः - पु॒रो॒डा॒शिन्य॑ उप॒सदः॑ (७-१-३५)
पार्याः (श्रुतिः)? - यत्पार्या॑ यु॒नज॑ते (१-६-४६), पार्या॒दिन्द्र᳚म् (१-६-४८), नमः॑ पा॒र्या॑य च (४-५-१८)
पापीयसीशब्दः श्रुतिनिर्दिष्टत्वात्पूर्ववत् । पापीयसीश्रुतिः - [पापी॑यान् (१-५-२८) प.श्लो.१८तः], पापी॑यसा (५-१-६), पापी॑यसी (५-६-३१)
पोषयित्नु - गामश्वं॑ पोषयि॒त्नु (१-१-२६)
पीवानः - पीवा॑नः पु॒त्राः (३-२-३३)
पावकः, पाजसा एतौ श्रुतिनिर्दिष्टत्वात्पूर्ववत् ।
पावक श्रुतिः - पा॒व॒के (१-३-२६), पा॒व॒कः (१-३-२७), पा॒व॒क॒ (१-३-२८), पा॒व॒काय॑ (२-२-१६), पाव॑क (४-३-३२), पा॒व॒काः (४-६-१४),
पा॒व॒कायै᳚ (७-३-३६)
पाजसा श्रुतिः - पाजः॑ (१-२-२८), पाज॑सा (२-२-७०), पा॒ज॒स्य᳚म् (५-७-४८), पा॒ज॒स्या॑य (७-३-३७) ॥

मूलम् - 7.1.49

मू ॥ प्राचः प्रक्षश्रुतिः प्लक्षः फलिगं फलिनीश्रुतिः । बृहस्पतिश्रुतिस्तद्वद्बन्धुना बल्बजाश्रुतिः ॥ ४९ ॥
व्या ॥ प्राचः - प्राच्या᳚म् (१-६-१५), प्राची᳚ (३-१-९), प्राची᳚म् (३-३-३४), प्राचीः᳚ (४-५-२७), प्राचः॑ (५-२-२७), प्राच्या᳚ (५-५-३५), प्राच्यै᳚
(७-१-४४)
प्रक्षशब्दः श्रुतिनिर्दिष्टत्वात्पूर्ववत् । प्रक्षश्रुतिः - स प्र॒क्षो॑ऽभवत्, तत्प्र॒क्षस्य॑ प्रक्ष॒त्वम् (६-३-५२)
प्लक्षः - आश्व॑त्थः॒ प्लक्ष॒ इति॑ (३-४-२५)
फलिगं - फ॒लि॒ग रवे॑ण (२-३-५४)
फलिनीशब्दः श्रुतिनिर्दिष्टत्वात्पूर्ववत् । फलिनीश्रुतिः - फ॒लिनी॑रफ॒लाः (४-२-२४), फ॒लिन्यो॑ न॒ ओष॑धयः (७-५-४४)
बृहस्पतिश्रुतिः - बृ॒ह॒स्प॒ते॒ (४-२-३९) एतदनुदात्तमपि ’पते’ इत्यनेन युक्तत्वादत्र गृहीतम् । श्रुतिग्रहणं तु, बृह॒स्पतेः᳚ (१-१-३), बृह॒स्पतिः॑ (१-२-३),
बृह॑स्पते (१-३-१२), बृह॒स्पति॑ना (१-७-३४), बृह॒स्पति᳚म् (१-७-४१), बृह॒स्पत॑ये (१-८-१३) इत्यादिष्वनिङ्ग्यत्वसम्पादनार्थम् ।
बन्धुता, बल्बजाः एतौ श्रुनिनिर्दिष्टत्वात्पूर्ववत् ।
बन्धुताश्रुतिः - ब॒न्धुता॒ वचो॑भिः (१-२-३२), ब॒न्धुतां॒ वेद॒ बन्धु॑मान् (१-५-४)
बल्बजाश्रुतिः - बल्ब॑जा॒नपी॒ध्मे (२-२-४०), बल्ब॑जा॒ उद॑तिष्ठन्न् (२-२-४१) ॥

मूलम् - 7.1.50

मू ॥ बार्हस्पत्यश्रुद्बलाकाबहिष्टाद्बम्भारिश्रुद्ब्राह्मणाच्छसिने च । बर्हिष्यश्रुद्बार्हतश्रुद्बलक्षीभातृव्यश्रुद्भेषजश्रुद्भरिभ्रत् ॥ ५० ॥
व्या ॥ बार्हस्पत्यशब्दः श्रुन्निर्दिष्टत्वात्पूर्ववत् । बार्हस्पत्यश्रुत् - बा॒र्ह॒स्प॒त्यम्, बा॒र्ह॒स्प॒त्यः (१-८-१५,१७), बा॒र्ह॒स्प॒त्याम् (२-१-१०), बा॒र्ह॒स्प॒त्या
(५-५-२७), बा॒र्ह॒स्प॒त्यौ (५-५-६१)
बलाका - सौ॒री ब॒लाकर्श्यः॑ (५-५-५४)
बहिष्टात् - तस्मा॒द्द्वौद्वौ॑ ब॒हिष्टा᳚त् (६-४-३९)
बम्भारिशब्दः श्रुन्निर्दिष्टत्वात्पूर्ववत् । बम्भारिश्रुत् - अङ्घा॑रे॒ बम्भा॑रे (१-२-१४), अ॒सि॒ बम्भा॑रिः (१-३-५)
ब्राह्मणाच्छसिने - ब्रा॒ह्म॒णा॒च्छ॒सिने॒ वास॑सी (१-८-३४)
बर्हिष्य, बार्हत, एतौ श्रुन्निर्दिष्टत्वात्पूर्ववत् ।
बर्हिष्यश्रुत् - ब॒र्हि॒ष्य᳚म् (२-५-३५), ब॒र्हि॒ष्ये॑षु (२-६-६७), [ब॒र्हिः, ब॒र्हिषे᳚, ब॒र्हिषि॑ (१-१-२,१९,२४), ब॒र्हिषः॑, ब॒र्हिषा᳚ (१-६-११,२२)]
बार्हतश्रुत् - बार्ह॑ताय (२-३-३०), बार्ह॑तीमुत्त॒माम्, बार्ह॑तो॒ वै (२-५-४०), बार्ह॑ताः प॒शवः॑ (२-५-५९), बार्ह॑त ष॒ष्ठम् (७-२-२९)
बलक्षी - ब॒ल॒क्षी तास्सा॑रस्व॒त्यः॑ (५-६-४३)
भ्रातृव्य, भेषज एतौ शब्दौ श्रुन्निर्दिष्टत्वात् पूर्ववत् ।
भ्रातृव्यश्रुत् - भ्रातृ॑व्याय (१-५-३०), भ्रातृ॑व्यम्, भ्रातृ॑व्यः, भ्रातृ॑व्यान् (१-६-१७,२४,३४), भ्रातृ॑व्यस्य (१-७-२०), भ्रातृ॑व्येण, भ्रातृ॑व्ये (२-२-
२,४९), भ्रातृ॑व्येभ्यः (५-४-५३), भ्रातृ॑व्याः (५-६-५)
भेषजश्रुत् - अ॒फ्सु भे॑ष॒जम् (१-७-३३), त॒नूषु॑ भेष॒जानि॑ (१-८-४२), भे॒ष॒ज्या॑ त॒नूः (२-२-९), रु॒द्रस्य॑ भेष॒जी (४-५-२१)
भरिभ्रत् - अ॒रु॒षम्भरि॑भ्रत् (४-२-७) ॥

मूलम् - 7.1.51

मू ॥ भालन्दनो भरद्वाजो भुरण्युश्रुच्च भौवनः । भौवायनो भिषज्यन्तो भैषज्यमपि भामितः ॥ ५१ ॥
व्या ॥ भालन्दनः - भा॒ल॒न्द॒नो᳚ऽग्नेः (५-२-६)
भरद्वाजः - भ॒रद्वा॑ज॒ ऋषिः॑ (४-३-२)
भुरण्युशब्दः श्रुन्निर्दिष्टत्वात्पूर्ववत् । भुरण्युश्रुत् - अ॒रु॒षम्भु॑र॒ण्युम् (४-२-४३), श॒कु॒नो भु॑र॒ण्युः (४-७-२४)
भौवनः - अन्त्य॑श्च भौव॒नश्च॑ (४-७-२०)
भौवायनः - भौ॒वा॒य॒नो व॑स॒न्तः (४-३-२)
भिषज्यन्तः - ते तद्बि॑ष॒ज्यन्तः॑ (२-५-२१)
भैषज्यं - त्रे॒धा भैष॑ज्यं॒ वि (६-४-३८)
भामितः - रु॒द्र॒ भा॒मि॒तो व॑धीः (३-४-४३) ॥

मूलम् - 7.1.52

मू ॥ मालङ्गा मदिरा मुद्गा मान्दा मध्यमशब्दवत् । ममत्तु च मनीषाणां मुष्करा मारुतश्रुतिः ॥ ५२ ॥
व्या ॥ मालङ्गाः - मा॒लङ्गा᳚स्तूप॒राः (५-६-५०)
मदिरा - म॒दि॒रा मा॑दयि॒ष्णवः॑ (४-३-३२)
मुद्गाः - मु॒द्गाश्च॑ मे (४-७-८)
मान्दाः - मान्दा᳚स्स्थ (१-८-२०)
मध्यमशब्दः शब्दनिर्दिष्टत्वात्पूर्ववत् । मध्यमशब्दः - म॒ध्य॒मम् (१-५-४४), म॒ध्य॒माः (२-५-२०), मध्य᳚म् (३-५-२०), म॒ध्य॒माय॑ (४-५-१३),
म॒ध्य॒मा (४-६-१०), म॒ध्य॒माम् (५-६-३५), म॒ध्य॒मेन॑ (६-५-८), म॒ध्य॒मस्य॑ (७-१-१७), म॒ध्य॒मे (७-५-९)
ममत्तु - म॒मत्तु॑ नः॒ परि॑ज्मा वस॒र्हा (२-१-६०)
मनीषाणां (श्रुतिः)? - म॒नी॒षाम् (१-६-४८), मनी॒षा (२-६-६५), म॒नी॒षाणां᳚ (४-२-८), मनी॑षिणः (४-६-१०), म॒नी॒षया᳚ (५-२-६२)
मुष्कराः - ये मु॑ष्क॒रा यत् (५-५-१)
मारुतशब्दः श्रुतिनिर्दिष्टत्वात्पूर्ववत् । मारुतश्रुतिः - मा॒रु॒तः (१-३-२), मारु॑तम् (१-३-२४), मा॒रु॒तीम् (१-८-४), मारु॑तस्य (२-१-६१), मा॒रु॒ताः
(२-२-६१), मा॒रु॒ती (२-३-३), मारु॑ताय (४-१-४५), मा॒रु॒तान् (५-४-३६), मा॒रु॒तेन॑ (६-६-२१) ॥

मूलम् - 7.1.53

मू ॥ मार्जालीय मनोतायै मरुत्वतीयश्रुतो मतस्नाभ्याम् । मध्यन्दिने मघोनी स्यान्माध्यन्दिनमातरिश्वशब्दौ च ॥ ५३ ॥
व्या ॥ मार्जालीय, मनोतायै, मरुत्वतीय एते श्रुन्निर्दिष्टत्वात्पूर्ववत् । उदा -
मार्जालीयश्रुत् - मा॒र्जा॒लीय॑स्स॒म्राट् (१-३-५), षण्मा᳚र्जा॒लीये᳚ (५-४-५५), दा॒स्यो॑ मार्जा॒लीय᳚म् (७-५-३२)
मनोतायैश्रुत् - या म॒नोता᳚ (४-४-३७), म॒नोता॑यै ह॒विषः॑ (६-३-५३)
मरुत्वतीयश्रुत् - म॒रु॒त्व॒तीय॑मु॒क्थं (४-४-५), म॒रु॒त्व॒तीया॑ गृ॒ह्यन्ते᳚ (६-४-१५)
मतस्नाभ्यां - श॒र्वं, श्या॒म॒श॒ब॒लौ मत॑स्नाभ्यां (१-४-३७,५-७-५१)
मध्यन्दिने - ग्री॒ष्मे म॒ध्यन्दि॑ने (२-१-२१)
मघोनी - म॒घोनी॒ जुष्टि॑रसि (१-६-९) [त्वाव॑तो म॒घोनः॑ (२-२-७१)?]
माध्यन्दिन, मातरिश्व एतौ शब्दनिर्दिष्टत्वात्पूर्ववत् । माध्यन्दिनशब्दः - माध्य॑न्दिनस्य, माध्य॑न्दिनम् (२-२-५१), माध्य॑न्दिने (३-२-३५)
मातरिश्वशब्दः - मा॒त॒रिश्व॑नो घ॒र्मः (१-१-४), मा॒त॒रिश्वा॑ जभार (२-३-५२) ॥

मूलम् - 7.1.54

मू ॥ मिथुयामृडयन्तश्रुन्मुमुचानामादयिष्णवो मद्गुः । महिमा मदिन्तमश्रुन्महिना मान्थीलवो मलिम्लश्रुत् ॥ ५४ ॥
मिथुया - मि॒थु॒याक॑र्भाग॒धेयं᳚ (१-३-१३)
मृडयन्तशब्दः श्रुन्निर्दिष्टत्वात्पूर्ववत् । मृडयन्त(श्रुत्?) - भव॑ता मृड॒यन्तः॑ (१-४-२३,२-१-६३) एतद्धृतान्तत्वाभावेऽप्यनिङ्ग्यम् ।
मुमुचानाः - दे॒व॒ब॒न्धान्मु॑मुचा॒नाः (७-५-२९)
मादयिष्णवः - म॒दि॒रा मा॑दयि॒ष्णवः॑ (४-३-३२)
मद्गुः - उ॒द्रो म॒द्गुः (५-५-५८)
महिमश्रुत् - म॒हि॒मान᳚म् (१-६-७), म॒हि॒म्न उ॒त (३-३-२८), म॒हि॒मानः॑ (३-५-३६), म॒हि॒मा (४-६-२७), म॒हि॒माना॒वश्व᳚म् (७-५-५४)
मदिन्तमश्रुत् - इ॒न्द्रि॒यावा᳚न्म॒दिन्त॑मः (१-२-८), आप्या॑यस्व मदिन्तम (१-४-३३)
महिना - म॒हि॒ना वि॒श्वश॑म्भूः (३-१-२६)
मान्थीलवः - कशो॑ मान्थी॒लवः (५-५-५६)
मलिम्लुशब्दः श्रुन्निर्दिष्टत्वात्पूर्ववत् । मलिम्लुश्रुत् - दष्ट्र᳚भ्यां म॒लिम्लून्, जने॑षु म॒लिम्ल॑वः (४-१-३९) ॥

मूलम् - 7.1.55

मू ॥ मस्तिष्कश्रुन्मस्मसा मास्पचन्या मानव्यश्रुन्माहिनं मादयद्ध्यै । युष्मानीतो यादृशे यातुजूनां यावद्यज्ञायज्ञियश्रुद्यवागूः ॥ ५५ ॥
मस्तिष्कशब्दः श्रुन्निर्दिष्टत्वात्पूर्ववत् ।
मस्तिष्कश्रुत् - अ॒शनिं॑ म॒स्तिष्के॑ण (५-७-४४), पु॒रो॒डाशं॑ म॒स्तिष्क᳚म् (७-२-४०), म॒स्तिष्का॑य॒ स्वाहा᳚ (७-३-३७)
मस्मसा - तम्म॑स्म॒साकु॑रु (४-१-४०)
मास्पचन्याः - मा॒स्पच॑न्या उ॒खायाः᳚ (४-६-४३)
मानव्यशब्दः श्रुन्निर्दिष्टत्वात्पूर्ववत् । मानव्यश्रुत् - मा॒न॒व्यः॑ (१-५-३), मा॒न॒वीः (१-५-२१), मा॒न॒वी (२-२-५४), मा॒न॒वी (२-६-३८)
माहिनं - माहि॑न॒न्दत्त्र᳚म् (१-७-४९)
मादयध्यै - स॒ह मा॑द॒यध्यै᳚ (१-१-२५)
युष्मानीतः - यु॒ष्मानी॑तो॒ अभ॑यं (२-१-६५)
यादृशे - या॒दृशे॒ पुनः॑ (७-५-२०)
यातुजूनां - या॒तु॒जूना᳚ञ्जा॒मिम् (१-२-२९)
यावत् (श्रुतिः)? - याव॑दग्निहो॒त्रम्, याव॑ती पौर्णमा॒सी (१-६-२९), याव॑तीः॒ समाः᳚ (२-३-४५), याव॒तोऽश्वान् (२-३-४६)
यज्ञायज्ञियशब्दः श्रुन्निर्दिष्टत्वात्पूर्ववत् । यज्ञायज्ञियश्रुत् - य॒ज्ञा॒य॒ज्ञियं॒ पुच्छं᳚ (४-१-४२), य॒ज्ञा॒य॒ज्ञिय॑स्य स्तो॒त्रे (५-४-४८)
यवागूः - य॒वा॒गू रा॑ज॒न्य॑स्य (६-२-२६) ॥

मूलम् - 7.1.56

मू ॥ यायावरो युनजते युवानं यजथश्रुतिः । योयुप्येत यजत्राश्रुद्युक्त्वायापि च यव्युधः ॥ ५६ ॥
व्या ॥ यायावरः - या॒या॒व॒रः क्षे॒म्यस्य॑ (५-२-७)
युनजते - पार्या॑ यु॒नज॑ते (१-६-४६)
युवानं - ए॒तं युवा॑नम् (३-३-२८)
यजथशब्दः श्रुन्निर्दिष्टत्वात्पूर्ववत् । यजथश्रुतिः? - य॒जथा॑य देव (४-३-३०)
योयुप्येत - यो॒यु॒प्येत॒ स्तृति॑रे॒व (२-६-२८)
यजत्राशब्दः श्रुन्निर्दिष्टत्वात्पूर्ववत् । यजत्राश्रुत् - यज॑त्रैः (१-३-१४), य॒ज॒त्र॒ (१-६-४७), यज॑त्राः (२-४-४८), यज॑त्रम् (४-१-३९), य॒ज॒त्राः॒ (४-
७-३९)
युक्त्वाय - यु॒क्त्वाय॒ मन॑सा (४-१-१)
यव्युधः - ऐ॒ल॒बृ॒दा य॒व्युधः॑ (४-५-२६) ॥

मूलम् - 7.1.57

मू ॥ रुक्मन्तं राधयिष्यामो राजन्यश्रुच्च रुक्मते । रैवतश्रुल्लप्सुदिनो लोपाशो लोमशश्रुतिः ॥ ५७ ॥
व्या ॥ रुक्मन्तं - अ॒ग्निमे॒व रुक्म॑न्तं (२-२-१३) [एतत्तु प.श्लो.२०तः एव अनिङ्ग्यम् ?]
राधयिष्यामः - इ॒म रा॑धयि॒ष्यामः॑ (२-६-४४)
राजन्यशब्दः श्रुन्निर्दिष्टत्वात्पूर्ववत् । राजन्यश्रुत् - रा॒ज॒न्य॑स्य गृ॒हे (१-८-१५), सौ॒म्यो रा॑ज॒न्यः॑ (२-१-१५), वै रा॑ज॒न्या᳚त्, का॒मये॑त राज॒न्य᳚म् (२-
४-४३)
रुक्मते - रुक्म॑ते पुरो॒डाश᳚म् (२-२-१३)
रैवतशब्दः श्रुन्निर्दिष्टत्वात्पूर्ववत् । रैवतश्रुत्? - रै॒व॒ताय॑ शैशि॒राय॑ (७-५-३८)* [रेवतश्रुत् - रे॒वान्, रे॒वतः॑, रे॒वत॑यः, रे॒वती᳚, रे॒वती᳚म्, रे॒वतीः᳚,
रे॒वती॑नाम्, रे॒वत्?]
लप्सुदिनः - उ॒रु॒क्र॒माय॑ लप्सु॒दिनः॑ (५-६-४७)
लोपाशः - लो॒पा॒शस्सि॒हः (५-५-५९)
लोमशशब्दः श्रुतिनिर्दिष्टत्वात्पूर्ववत् । लोमशश्रुत् - लो॒म॒शं वै, प॒शवो॑ लोम॒शाः (५-१-४२) ॥

मूलम् - 7.1.58

मू ॥ वत्सतरश्रुद्वरिवो वरिमा वसतीवरी वरूत्रिश्रुत् । विप्रविपश्चिच्छब्दौ विवेष वार्द्ध्राणसो वरत्राश्च ॥ ५८ ॥
व्या ॥ वत्सतरशब्दः श्रुन्निर्दिष्टत्वात्पूर्ववत् । वत्सतरश्रुत् - व॒थ्स॒त॒री दक्षि॑णा (१-८-३३), द॒शभि॑र्वथ्सत॒रैः (१-८-३४)
वरिवः - सखि॑भ्यो॒ वरि॑वः कृणोतु (३-३-३२)
वरिमा - व॒रि॒मा च॑ मे (४-७-३)
वसतीवरीश्रुत् - तद्व॑सती॒वरी॑णाम्, ता व॑सती॒वरी॑रभवन्न् (६-४-६)
वरूत्रिश्रुत् - वरू᳚त्रयो॒ जन॑यः (४-१-२३), वरू᳚त्रि॒न्त्वष्टुः॑ (४-२-४४)
विप्र, विपश्चित् एतौ शब्दनिर्दिष्टत्वात्पूर्ववत् ।
विप्रशब्दः - विप्रा॒ विप्र॑स्य (१-२-२५), शुचि॒र्विप्रः॑ (१-३-३१), विप्रो॒ विप्रे॑ण (१-४-५४), विप्र सहस्य (१-५-२४), वि॒प्रा॒ अ॒मृ॒ताः॒ (१-७-३५),
ऋषि॒र्विप्रा॑णाम् (३-४-४१)
विपश्चिच्छब्दः - भ्राज॑मानो विप॒श्चिता᳚ (१-२-९), बृ॒ह॒तो वि॑प॒श्चितः॑ (१-२-२५,४-१-१)
विवेष - वि॒वेष॒ यन्मा᳚ (१-६-४८)
वार्द्ध्राणसः - शि॒ति॒क॒क्षी वा᳚र्द्ध्राण॒सः (५-५-५८)
वरत्राः - सव्वँ॑र॒त्रा द॑धातन (४-२-२२) ॥

मूलम् - 7.1.59

मू ॥ वीडित वडबवनस्पति वानस्पत्यश्रुतो वसव्यश्रुत् । वासिष्ठश्च वनिष्ठुर्वस्यष्टिर्विष्टपं व्यचिष्ठं च ॥ ५९ ॥
व्या ॥ वीडित, वडब, वनस्पति, वानस्पत्य एते शब्दाः वसव्यशब्दश्च श्रुन्निर्दिष्टत्वात्पूर्ववत् । उदा -
वीडितश्रुत्? - आयु॑धं वीडि॒त सह॑स्वत् (४-७-३६)
वडबश्रुत्- त्वा॒ष्ट्रं व॑ड॒बम्, सन्व॑ड॒बः (२-१-५०,५१), वड॑बा॒ दख्षि॑णा (१-८-३७),दि॒ग्भ्यो वड॑बे (५-६-५२), आ॒हु॒र्वड॑बायाम् (७-१-२)
वनस्पतिश्रुत् - वन॒स्पतिः॑ (१-२-५), वन॑स्पते (१-३-९), वन॒स्पत॑यः (१-६-१६), व॒न॒स्प॒त॒यः॒ (१-७-३७), वन॒स्पत॑ये, वन॒स्पती॑नाम् (१-८-१८),
वन॒स्पति॑षु (२-३-४८), वन॒स्पतीन् (२-५-३), वन॒स्पती॑नाम् (६-३-१७)
वानस्पत्यश्रुत् - अ॒सि॒ वा॒न॒स्प॒त्यः, वा॒न॒स्प॒त्यं प्रति॑ (१-१-८), ध॒त्ते॒ वा॒न॒स्प॒त्याः (५-७-६)
वसव्यश्रुत् - व॒स॒व्यै॑रा (१-२-२६), व॒स॒व्या॒ अग्ने᳚ (२-४-२१), इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य (४-२-४६)
वासिष्ठः - वा॒सि॒ष्ठो ब्र॒ह्मा का॒र्यः॑ (३-५-५)
वनिष्ठुः - पू॒ष्णो व॑नि॒ष्ठुर॑न्धा॒हेः (५-७-४९)
वस्यष्टिः - अ॒सि॒ वस्य॑ष्टिरसि (३-५-९)
विष्टपम् - ब्र॒ध्नस्य॑ वि॒ष्टप᳚म् (४-३-१५)
व्यचिष्ठम् - व्यचि॑ष्ठ॒मन्न रभ॒सम् (४-१-९) ॥

मूलम् - 7.1.60

मू ॥ वृषदंशो विदुषश्रुद्विषुणस्य विदीगयो विदानश्रुत् । विविदानो विदधश्रुद्विथुरा विश्पत्नियै विषूचश्रुत् ॥ ६० ॥
व्या ॥ वृषदशः - ह॒सो वृको॑ वृषद॒शः (५-५-५९)
विदुषशब्दः श्रुन्निर्दिष्टत्वात्पूर्ववत् । विदुषश्रुत् - वि॒दुषां᳚ देवाः (१-१-२८), वि॒दुषो॒ नु (१-३-२२), ए॒वं वि॒दुषा᳚ (६-४-३८) [व॒युना॑नि वि॒द्वान् (१-
१-२७), वि॒द्वासो॒ वै (२-५-६१)]
विषुणस्य - स॒तो विषु॑णस्य चा॒रुः (४-३-२९)
विदीगयः - कि॒कि॒दी॒विर्वि॑दी॒गयः॑ (५-६-५३)
विदानशब्दः श्रुन्निर्दिष्टत्वात् पूर्ववत् । विदानश्रुत् - हो॒तृ॒षद॑नो॒ विदा॑नः (३-५-३३), र॒भ॒सं विदा॑नम् (४-१-९)
विविदानः - वसु॑ विविदा॒नः (१-५-७)
विदथशब्दः श्रुन्निर्दिष्टत्वात्पूर्ववत् । विदथश्रुत् - वि॒दथे॑ अ॒न्तः (२-१-६४), वि॒दथे᳚ष्वा॒भुवः॑ (३-१-४१), वि॒दथा॑ क॒विः (३-२-४६), वि॒दथा॑नि
मन्महे (४-७-३५)
विथुरा - वि॒थु॒रेव॑ रेजते (४-३-३५)
विश्पत्नियै - तस्यै॑ वि॒श्पत्नि॑यै ह॒विः (३-१-३८)
विषूचश्रुत् - विषू॑ची॒ममी॑वा (१-८-४२), विषू॑च ए॒वास्मा᳚त् (५-२-५१), विषू॑ची॒रुप॑दधाति (५-२-५९), विषू॑ची॒ प्रह॑रति (६-३-५०) ॥

मूलम् - 7.1.61

मू ॥ वायव्यवैश्वानरवीर्य विद्या वासन्त वासन्तिक वार्षिकश्रुत् । वृत्वाय वल्मीक वराह शब्दौ वीथो वपा व्याघ्र वरीयसीश्रुत् ॥ ६१ ॥
व्या ॥ वायव्यादयः वार्षिकान्ताश्शब्दाः श्रुन्निर्दिष्टत्वात्पूर्ववत् ।
वायव्यश्रुत् - वा॒य॒व्य᳚म् (१-८-१२), वा॒य॒व्य॑या वाय॒व्या॑नि (३-१-१७), वा॒य॒व्या᳚, वा॒य॒व्या᳚म् (३-४-८), वा॒य॒व्यः॑, वा॒य॒व्याः᳚ (५-५-३,५१),
वा॒य॒व्ये॑न, वा॒य॒व्यैः᳚ (६-५-३७,४१)
वैश्वानरश्रुत् - वै॒श्वा॒न॒रम् (१-१-६), वै॒श्वा॒न॒राय॑ (१-४-१४), वै॒श्वा॒न॒रः, वै॒श्वा॒न॒रस्य॑, वैश्वा॑नर (१-५-४७,४८), वै॒श्वा॒न॒राः (३-२-३३),
वै॒श्वा॒न॒र॒ (४-२-१९), वै॒श्वा॒न॒र्या (५-२-२२), वै॒श्वा॒न॒रात् (५-५-४)
वीर्यश्रुत् - वी॒र्या॑णि (१-१-२१), वी॒र्या॑य (१-४-२२), वी॒र्य᳚म् (१-७-२७), वी॒र्ये॑ण (१-८-२८), वी॒र्य॑स्य (२-२-४), वी॒र्ये᳚ (२-४-३१), वी॒र्या᳚त्
(७-१-५)
विद्याश्रुत् - ब्रा॒ह्म॒णो वि॒द्याम् (२-१-१४), वि॒द्या वै, वि॒द्याभि॑रे॒व (५-१-३६)
वासन्तश्रुत् - गा॒य॒त्री वा॑स॒न्ती (४-३-२), त्रयो॑ वास॒न्ताः (५-६-५४), वा॒स॒न्ताया॒ष्टक॑पालः (७-५-३८)
वासन्तिकश्रुत्? - वास॑न्तिकावृ॒तू (४-४-२९)* [वसन्तश्रुत्? - व॒स॒न्तः, व॒स॒न्तम्, व॒सन्ता᳚, व॒स॒न्ताय॑?]
वार्षिकश्रुत् - वार्षि॑कावृ॒तू (४-४-२९), वार्षि॑काः॒ पृश्ञ॑यः (५-६-५४), वै॒रू॒पेभ्यो॒ वार्षि॑केभ्यः (७-५-३८)
वृत्वाय - वृ॒त्वाय॑ नो ब्रूहि (४-१-७)
वल्मीक, वराह एतौ शब्दनिर्दिष्टत्वात्पूर्ववत् ।
वल्मीकशब्दः - यद्व॒ल्मीको॒ऽग्निं (५-१-९), व॒ल्मीका᳚न्क्लो॒म्ना (५-७-४८)
वराहशब्दः? - व॒रा॒हो॑ऽयं वा॑ममो॒षः (६-२-२१)*
वीथः - वी॒थो घृ॒तस्य॒ गुह्या᳚ (१-८-३८)
वपा, व्याघ्र, वरीयसी एते श्रुन्निर्दिष्टत्वात्पूर्ववत् ।
वपाश्रुत् - आ॒त्मनो॑ व॒पाम् (२-१-४), व॒पया॑ गच्छ, व॒पायां॒ वै (३-१-१४,१६), यद्व॒पाऽग्र᳚म् (६-३-४९)
व्याघ्रश्रुत् - व्या॒घ्रो वयः॑ (४-३-१०), व्या॒घ्राः प्रहे॑तिः (४-४-८), व्या॒घ्र सु॒प्तं (५-४-५१), व्या॒घ्रेणा॑र॒ण्यान् (७-३-३५)
वरीयसीश्रुत्? - वरी॑यसीमे॒वास्मै᳚ (२-६-५४), उ॒रोर्वरी॑यः (४-६-२०)* ॥

मूलम् - 7.1.62

मू । वासवावंसगो वाहसो वायवो वस्यसीशब्दवद्वीरुधो वीरताम् । वाघतो वर्तिका विश्वतो विश्पतिश्रुच्च वाच्यायनो विश्ववीतश्रुतिः । ६२ ।
व्या ॥ वासवाः - स॒प्त वा॑स॒वाः (१-६-४७)
वसगः - ति॒ग्मशृ॑ङ्गो॒ न वस॑गः (२-६-६४)
वाहसः - आ॒ती, प्र॒ति॒श्रुत्का॑यै वाह॒सः (५-५-५१,५२)
वायवः - वा॒यव॑स्स्थ (१-१-१)
वस्यसीशब्दश्शब्दनिर्दिष्टत्वात्पूर्ववत् । वस्यसीशब्दः? - वस्य॑सः॒ कर॑त् (१-८-११), वस्य॒ आ (३-५-३४), वस्य॑स आ॒हृत्य॑ (६-५-३८),
वस्य॑सी स॒सद᳚म् (७-४-५)
वीरुधः [श्रुतिः?] - रेरि॑हद्वी॒रुधः॑ (१-३-२५), पय॑स्वद्वी॒रुधा᳚म् (१-५-४५)
वीरतां - योनि॑र्वी॒रतां᳚ पाहि (१-४-९)
वाघतः - मू॒र्द्ध्नो विश्व॑स्य वा॒घतः॑ (३-५-३४)
वर्तिका - क्षि॒प्र॒श्ये॒नस्य॒ वर्ति॑का (५-५-४९)
विश्वतः - इ॒मा भ॑वन्तु वि॒श्वतः॑ (१-३-२)
विश्पतिशब्दः श्रुन्निर्दिष्टत्वात्पूर्ववत् । विश्पतिश्रुत् - ए॒ना वि॒श्पति॑ना, ज्ये॒ष्ठो वि॒श्पतिः॑ (२-३-३), ह॒व॒न्त॒ वि॒श्पति᳚म् (४-३-३६), दस्म॒ विश्प॑ते
(४-४-१५)
वाच्यायनः - हे॒म॒न्तो वा᳚च्याय॒नः (४-३-४)
विश्व, वीत एतौ श्रुतिनिर्दिष्टत्वात्पूर्ववत् ।
विश्वश्रुतिः - विश्व॑स्मात्, विश्वे᳚, विश्वा॑नि, विश्वा᳚, विश्व᳚म् (१-१-१९,२४,२७,२८), विश्वा॑य, विश्वाः᳚ (१-२-१६,१७), विश्वा॑साम् (१-३-३),
विश्वे᳚भ्यः, विश्वा॑भिः (१-४-३,३३), विश्वा᳚भ्यः, विश्व॑स्य (१-८-२३,४२), विश्वान् (२-१-३९), विश्वा᳚त्, विश्व॑स्मै (३-१-१३,२८), विश्व॑स्मिन्
(३-४-४४), विश्वे॑भिः (३-५-११), विश्व॑स्याम्, विश्वा᳚म् (४-७-३३,३६)
वीतश्रुतिः - वी॒तं घृ॒तस्य॑ (१-८-३८), या॒हि॒ वी॒तये᳚ (२-५-४१), इ॒ष्टस्य॑ वी॒तस्य॑ (३-२-२३), लो॒कयो॒र्वीत्यै᳚ (५-१-२८), पृ॒ष्ठेव॑ वी॒ता (५-५-२१)

मूलम् - 7.1.63

मू । शुश्रूषेण्यां शिश्रियाणश्शरव्याशब्दौ शग्मां शारदश्रुच्छवर्तान् । श्रायन्तीयं शिंशुमारश्शिमीवाञ्छब्दः शुन्ध्यूश्शम्बरस्य श्वितिङ्गाः । ६३ ।
व्या ॥ शुश्रूषेण्यां - शु॒श्रू॒षेण्या᳚म्मनु॒ष्ये᳚भ्यः (३-३-४)
शिश्रियाणः, शरव्या, एतौ शब्दौ शब्दनिर्दिष्टत्वात्पूर्ववत् । उदा - शिश्रियाणश्शब्दः - शि॒श्रि॒या॒णः (३-३-२९), शि॒श्रि॒या॒णम् (४-४-१२)
शरव्याशब्दः - शि॒वा श॑र॒व्या॑ या (४-५-१), परा॑ पत॒ शर॑व्ये (४-६-१९), ति॒स्रश्श॑र॒व्याः᳚, श॒र॒व्या॑यै हरि॒णः (५-५-३०,५७)
शग्मां [श्रुतिः]?- श॒ग्मान्नो॒ वाचं᳚ (१-८-३९), श॒ग्मया॑ स॒सदा᳚ (३-४-३६), श॒ग्म स॑देम (४-६-२९)
शारदशब्दः श्रुन्निर्दिष्टत्वात् पूर्ववत् । उदा - शारदश्रुत् - अ॒नु॒ष्टुफ्छा॑र॒दी (४-३-३), शा॒र॒दावृ॒तू (४-४-२९), त्रय॑श्शार॒दाः (५-६-५४), शा॒र॒दाभ्यां᳚
पय॒स्या᳚ (७-५-३८)
शवर्तान् - श॒व॒र्तानूव॑ध्येन (५-७-५५)
श्रायन्तीयं - श्रा॒य॒न्तीय॑म्ब्रह्मसा॒मं (१-८-३४)
शिंशुमारः - सिन्धो᳚श्शिशु॒मारः॑ (५-५-४९)
शिमीवाञ्छब्दश्शब्दनिर्दिष्टत्वात्पूर्ववत् । उदा - शिमीवाञ्छब्दः - धुनि॒श्शिमी॑वा॒ञ्छरु॑मान् (२-२-६६), शिमी॑वतो भा॒मिनः॑ (४-२-४८)
शुन्ध्यूः - शु॒न्ध्यूर॑सि (१-३-५), वाशा॒श्शुन्ध्यूः᳚ (२-४-२०)
शम्बरस्य - दृ॒हि॒ताश्शम्ब॑रस्य॒ नव॑ (३-२-४६)
श्वितिङ्गाः - सौ॒म्यास्त्रय॑श्श्विति॒ङ्गाः (५-६-४६) ॥

मूलम् - 7.1.64

मू ॥ शकुन्तिकाशयण्डकश्रवस्यवश्च शुश्रुवान् । शिखण्डशैशिरश्रुतिश्शचीपतिश्च शित्पुटः ॥ ६४ ॥
व्या ॥ शकुन्तिका - श॒कु॒न्ति॒काहल॒मिति॑ (७-४-४९)
शयण्डक - आ॒खुस्सृ॑ज॒या श॒यण्ड॑कः (५-५-५२)
श्रवस्यवः - श्र॒व॒स्यवो॑ घृ॒तस्य॒ धाराः᳚ (१-८-४२)
शुश्रुवान्[श्रुतिः]? - ग॒तश्रि॑यश्शुश्रु॒वान् (२-५-२५), यच्छु॑श्रु॒वासः॑ (२-५-५२)
शिखण्ड, शैशिर एतौ श्रुतिनिर्दिष्टत्वात्पूर्ववत् । शिखण्डश्रुतिः - इ॒न्द्रा॒ग्नी शि॑ख॒ण्डाभ्या᳚म् (५-७-४७), शि॒ख॒ण्डेभ्यः॒ स्वाहा᳚ (७-३-३८)
शैशिरश्रुतिः - शै॒शि॒रावृ॒तू (४-४-२९), त्रयः॑ शैशि॒राः (५-६-५४), शै॒शि॒राय॒ द्वाद॑शकपालः (७-५-३८)
शचीपतिः - शची॒पति॑र् ऋष॒भेण॑ (४-४-२४)
शित्पुटः - बृह॒स्पत॑ये शित्पु॒टः (५-५-५५) ॥

मूलम् - 7.1.65

मू ॥ शुनश्शेपं शुनासीरा शीर्षण्या शुष्मिणश्रुतिः । शौल्बायनश्शमयितोः शार्दूलाय च शुष्मयम् ॥ ६५ ॥
व्या ॥ शुनश्शेपं - शुन॒श्शेप॒माजी॑गर्तिम् (५-२-३)
शुनासीरा[श्रुतिः]? - इन्द्रा॑य॒ शुना॒सीरा॑य (१-८-१२), पयो॑भि॒श्शुना॑सीरा (४-२-२३)
शीर्षण्या [श्रुतिः]? - या शी॑र्ष॒ण्या॑ रश॒ना (४-६-४१), शी॒र्ष॒ण्याः᳚ प्रा॒णाः (५-१-३५)
शुष्मिणः शब्दः श्रुतिनिर्दिष्टत्वात्पूर्ववत् ।
शुष्मिणश्रुतिः - शु॒ष्मी राजा᳚ (१-७-५०), शु॒ष्मि॒न्न॒व॒या (१-८-४), अ॒न॒मी॒वस्य॑ शु॒ष्मिणः॑ (४-२-१०)
शौल्बायनः - उ॒द॒ङ्कश्शौ᳚ल्बाय॒नः (७-४-२१,७-५-१२)
शमयितोः - यज॑मानस्य॒ शम॑यितो॒र्यर्हि॑ (३-१-१०)
शार्दूलाय - ग॒व॒यश्शा᳚र्दूलाय॒ राज्ञे᳚ (५-५-४९)
शुष्मयं - मद॑ञ्च शुष्म॒यञ्च॑ (२-२-६७) ॥

मूलम् - 7.1.66

मू ॥ शौचेयश्शोशुचानश्च शिशानश्शरदश्श्रुतिः । शुभितं शरभं श्रैष्ठ्य श्रेष्ठ श्यामाकशब्दवत् ॥ ६६ ॥
व्या ॥ शौचेयः - सार्व॑सेनिश्शोचे॒यो॑ऽकामयत (७-१-३७)
शोशुचानः - धृ॒ष॒ता शोशु॑चानः (१-२-२८)
शिशानः - शिशा॑नो अ॒ग्निः (१-२-३३)
शरदशब्दः श्रुतिनिर्दिष्टत्वात्पूर्ववत् ।
शरदश्श्रुतिः - श॒रद᳚म् (१-६-३८), श॒रदि॑ (२-१-११), श॒रदा᳚ (४-४-३५), श॒रदः॑ (५-७-६), श॒रदे᳚ (७-२-३८)
शुभितं - ओज॑श्शुभि॒तमु॒ग्रवी॑रं (४-४-३४)
शरभं - श॒र॒भमा॑र॒ण्यम् (४-२-४५)
श्रैष्ठ्य, श्रेष्ठ, श्यामाक एते शब्दनिर्दिष्टत्वात्पूर्ववत् ।
श्रैष्ठ्यश्रुत् - श्रैष्ठ्या᳚त्प॒थः (२-४-१६), श्रैष्ठ्य॒ आधे॑हि (३-५-१३), श्रैष्ठ्य समा॒नाना᳚म् (५-६-२९)
श्रेष्ठशब्दः - श्रेष्ठं॑ यविष्ठ (१-३-२६), श्रेष्ठो॑ गन्ध॒र्वः (१-५-४४), श्रेष्ठा॑ न आ॒शिषः॑ (४-७-३५)
श्यामाकशब्दः - सौ॒म्य श्या॑मा॒कम् (१-८-२), श्या॒माका᳚ अभवन्न् (२-३-११), श्या॒मा॒को भ॑वति (२-३-१२) ॥

मूलम् - 7.1.67

मू ॥ श्वितानश्शुरुधश्श्वात्राश्शमित्रे शाक्वरश्रुतिः । शण्डाय षोडशश्रुच्च सुषाव समया स्वरिः ॥ ६७ ॥
व्या ॥ श्वितानः - स श्वि॑ता॒नस्त॑न्य॒तुः (१-३-२७)
शुरुधः - स नो॑ रासच्छु॒रुधः॑ (१-१-२६)
श्वात्राः [श्रुतिः]? - श्वा॒त्रो॑ऽसि॒ प्रचे॑ताः (१-३-५), श्वा॒त्रास्स्थ॑ वृत्र॒तुरः॑ (१-४-१)
शमित्रे [श्रुतिः]? - शमि॑तारः (३-१-१३), श॒मि॒ता (४-१-३१), श॒मि॒त्रे, श॒मि॒तुः, श॒मि॒तारः॑ (४-६-१४,४२), ह॒वी(३)‍ श॑मितः (६-३-५१)
शाक्वरश्रुतिः - शाक्व॒राय॑ त्वा गृह्णामि (१-२-१९), शा॒क्व॒रो वज्रः॑ (३-२-३६), शा॒क्व॒राः प॒शवः॑ (३-२-३८)
शण्डाय - शण्डा॑य त्वै॒षः (१-४-९)
षोडशश्रुत् - षोड॒शिने᳚, षो॒ड॒शी (१-४-३८,४२), षो॒ड॒शम् (१-७-४४), षो॒ड॒शः (४-३-२६), षोड॑श (४-७-२०), षो॒ड॒शिनः॑, षो॒ड॒शिन᳚म् (६-
६-३८,३९), षो॒ड॒शि (७-१-१३)
सुषाव - यन्ते॑ सु॒षाव॑ हर्यश्वाद्रिः॑ (२-४-४६)
समया - स॒मया॒ विपृ॑क्त आ॒हुः (४-६-३४, ३५)
स्वरिः - स्व॒रिरम॑त्रो ववक्षे (२-४-४५) ॥

मूलम् - 7.1.68

मू ॥ स्वस्रीयस्स्वरणं सिन्धुस्स्वसारश्रुत्ससस्ति च । सनुतस्सनिता सख्यं सखायं सलिलश्रुतिः ॥ ६८ ॥
व्या ॥ स्वस्रीयः - स्व॒स्रीयोऽसु॑राणां (२-५-१)
स्वरणं - सो॒मान॒ स्वर॑णं (१-५-२४)
सिन्धुः - सिन्धु॒श्छन्द॑स्समु॒द्रं (४-३-२७)
स्वसारश्रुत् - स्वस्राऽम्बि॑कया (१-८-१०), असि॒ स्वसा᳚ (३-१-३७), स्वसॄ॑रजनयत्, त्रि॒शत्स्वसा॑रः (४-३-२२)
ससस्ति - स॒सस्त्य॑श्व॒कः (७-४-४७)
सनुतः - स॒नु॒तर्यु॑योतु (१-७-५१)
सनिता [श्रुतिः]? - स॒निर॑सि सनि॒तासि॑ (१-६-१४), सनि॑ता॒ यद॒ञ्जिभिः॑ (४-१-१५), स॒नि॒तुर्नि॒धाना᳚ (४-६-३५)
सख्यं [श्रुतिः]? - वृ॒णी॒त स॒ख्यं विश्वे᳚ (१-२-३), दे॒वाना स॒ख्यान्मा (१-२-१९)
सखायं [श्रुतिः]? - सखा᳚ (१-२-१०), सखा॑यः (१-३-१८), सखा॒ सख्या᳚ (१-४-५४), सख्युः॑ (१-७-४८), सखा॑यम् (४-६-२७)
सलिलश्रुतिः - स॒लि॒ले सद॑ने (४-३-१), स॒लि॒लञ्छन्दः॑ (४-३-२७), स॒लि॒लाय॑ त्वा (४-४-२१), स॒लि॒लः प्रप्लु॑तः (४-४-२५) ॥

मूलम् - 7.1.69

मू ॥ सचेरन्सूकरस्सूच्या सुतानां सुम्नयाश्रुतिः । सलावृकी सिनीवाली समान्यस्थावरश्रुतिः ॥ ६९ ॥
सचेरन्न् - रक्षासि सचेरन्न॒ग्निम् (२-२-७)
सूकरः - राज्ञे॑ सूक॒रः (५-५-४९)
सूच्या - सू॒च्याऽच्छि॑द्यमानया (३-३-३६)
सुतानां - प्र॒दिव॑स्सु॒ताना᳚म् (१-४-२०)
सुम्नयाशब्दः श्रुतिनिर्दिष्टत्वात्पूर्ववत् ।
सुम्नयाश्रुतिः - सु॒म्नाय॑ सुम्निनी सु॒म्ने (१-१-२४), सु॒म्नि॒नीः॒ (१-३-२१), सु॒म्नम् (१-४-२३), सु॒म्न॒या (४-२-२२)
सलावृकी - याव॑दि॒यस॑लावृ॒की त्रिः (६-२-२३)
सिनीवाली [श्रुतिः]? - सि॒नी॒वा॒ल्यै च॒रुम् (१-८-१४), वाग्वै सि॑नीवा॒ली (२-४-१८), सिनी॑वालि॒ पृथु॑ष्टुके (३-१-३७)
समान्यः [श्रुतिः]? - स॒मा॒न्या जु॑होति (५-५-१७), स॒मा॒न्य॑ ऋचो॑ भवन्ति (७-५-११)
स्थावरशब्दः श्रुतिनिर्दिष्टत्वात्पूर्ववत् । स्थावरश्रुतिः - वै स्था॑व॒राः, यथ्स्था॑व॒राणा᳚म् (६-४-८), स्था॒व॒राभ्यः॒ स्वाहा᳚ (७-४-३९) ॥

मूलम् - 7.1.70

मू ॥ समना समने सम्यत्सोमेन्द्रं सानग सुवानश्रुत् । सृञ्जयान्सृमरस्सङ्गे सायुज्यं साधुया सिषासन्तीः ॥ ७० ॥
व्या ॥ समना [श्रुतिः]? - स॒म॒ना स॑मा॒नान् (४-३-३१), सम॑ने पा॒रय॑न्ती, सम॑नेव (४-६-२८)
समने - इ॒य सम॑ने पा॒रय॑न्ती (४-६-२८)
सम्यत् - स॒म्यत्ते॒ गोर॒स्मे (१-२-१४)
सोमेन्द्रं - ए॒त सो॑मे॒न्द्र श्या॑मा॒कं (२-३-११)
सानगः - सान॑ग॒ ऋषि॑र्दक्षि॒णा (४-३-५)
सुवानः श्रुत्? - सु॒वा॒नस्सोम॑ ऋत॒युः (२-२-६७)*
सृञ्जयान् [श्रुतिः]? - यथ्सृञ्ज॑यान्बहुया॒जिनः॑ (६-६-७), स॒त्याद्वै सृञ्ज॑याः (६-६-८)
सृमरः - अर॑ण्याय सृम॒रः (५-५-४९)
सङ्गे - स॒ङ्गे स॒मत्सु॑ वृत्र॒हा (१-७-५१)
सायुज्यं - आ॒दि॒त्यस्यै॒व, दे॒वता॑ना॒ सायु॑ज्यङ्गच्छति (५-१-४४,५-७-२३)
साधुया - रू॒पं कृ॑णोतु साधु॒या (५-२-६४)
सिषासन्तीः - शृङ्गा॑णि॒ सिषा॑सन्तीः (७-५-७) ॥

मूलम् - 7.1.71

मू ॥ सुषुपुषस्सुषुवाणं समावती स्वरुं सदस्य समुद्रियशब्दवत् । स्वदयिता च सनेमि सवीमनि स्थविमतस्सरिरस्य सनिष्यवः ॥ ७१ ॥
व्या ॥ सुषुपुषः - सु॒षु॒पुष॑ इन्द्रि॒यम् (६-१-३१)
सुषुवाणम् - वरु॑ण सुषुवा॒णम् (२-१-५३)
समावती - तथै॑नान्थ्स॒माव॑ती (१-६-३७)
स्वरुं - स्वरुं॒ यूप॑स्य॒ सस्थि॑ते (६-३-२७)
सदस्य, समुद्रिय एतौ शब्दनिर्दिष्टत्वात्पूर्ववत् । सदस्यशब्दः - यत॑स्व सद॒स्यैः᳚ (१-४-४५), याव॑न्तो॒ वै स॑द॒स्याः᳚ (३-२-३१), स॒द॒स्या॑ने॒व (३-२-
३२), नापि॑ सद॒स्या॑नाम् (६-१-६४), सर्वे᳚भ्यः सद॒स्ये᳚भ्यः (७-१-१९)
समुद्रियशब्दः - बल॑मसि समु॒द्रियं᳚ (२-४-२२), स॒मु॒द्रिया᳚भ्य॒स्स्वाहा᳚ (७-४-३९) [समुद्रशब्दः ?- स॒मु॒द्रम्, स॒मु॒द्रस्य॑ (१-३-२०,२३), स॒मु॒द्रे (१-
४-५०), स॒मु॒द्र॒तः (२-४-२२), स॒मु॒द्रौ (३-२-४), स॒मु॒द्रः (३-४-१६), स॒मु॒द्रात् (३-५-१७), स॒मु॒द्राय॑ (४-४-९)]
स्वदयिता - प॒व॒यि॒ता स्व॑दयि॒ता तस्य॑ (६-४-३२)
सनेमि - रक्षासि सने᳚म्य॒स्मत् (१-७-३५)
सवीमनि - सवी॑मनि॒ हिर॑ण्यपाणिः (१-२-१३)
स्थविमतः - स्थ॒वि॒म॒तो ब॒र्हिर॒क्त्वा (६-३-४६)
सरिरस्य - स॒रि॒रस्य॒ मध्ये᳚ (४-२-४२,४-७-२७,५-५-४७)
सनिष्यवः - मे॒धसा॑ता सनि॒ष्यवः॑ (१-७-३५) ॥

मूलम् - 7.1.72

मू ॥ सत्रस्यर्द्ध्या सगरस्सुषिरस्वारसारङ्गशब्दाः । सब्दस्सुब्धान्सनवथ सकृथ्स्वाङ्कृतस्संस्कृतं च ॥ ७२ ॥
व्या ॥ सत्रस्यर्द्ध्या - स॒त्रस्यर्द्ध्या॑हव॒नीय॒स्यान्ते᳚ (७-५-२३)
सगरादयः सारङ्गान्ताः शब्दाः शब्दनिर्दिष्टत्वात्पूर्ववत् ।
सगरः शब्दः - सग॑रस्सु॒मेकः॑ (४-४-२३), सग॑रेण रख्ष (४-४-३४)
सुषिरशब्दः - सु॒षि॒र सु॑षि॒राऽभ्रि॑र्भवति (५-१-४)
स्वारशब्दः - स्वा॒र स्वा॒रान्म॒न्थी (४-३-३)
सारङ्गशब्दः - त्रयः॑, वा॒स॒न्ताः सा॒रङ्गाः᳚ (५-६-५०,५४), सा॒रङ्गा॑य॒ स्वाहा᳚ (७-३-४०)
सब्दः - सब्द॒स्सग॑रः (४-४-२३)
सुब्धान् - तान्थ्सु॒ब्धान्मृ॒तान् (२-४-१)
सनवथ - यथ्स॒नव॑थ॒ पूरु॑षम् (४-२-२५)
सकृत् - स॒कृद्यत्त्वा॒ मन॑सा (३-४-६)
स्वाङ्कृतः - स्वाङ्कृ॑तोऽसि॒ मधु॑मतीः (१-४-३)
संस्कृतं - दे॒वैः सस्कृ॒तम्, तन्न॑स्सस्कृ॒तम् (१-२-१७,१-४-४५) ॥

मूलम् - 7.1.73

मू ॥ स्नावन्याभ्यां सवन सदन स्वादुशब्दास्सनीयान् । सर्णीकाय स्वदित सुवित स्वस्तिशब्दास्स्वपन्तम् ॥ ७३ ॥
व्या ॥ स्नावन्याभ्यां - सन्त॑ति स्नाव॒न्या᳚भ्याम् (५-७-५५)
सवन, सदन, स्वादु, एते शब्दनिर्दिष्टत्वात्पूर्ववत् ।
सवनशब्दः - सव॑ना, सव॑नाय, सव॑नम् (१-४-११,१२,२३), सव॑नस्य, सव॑नानि (२-२-५१,५२), सव॑ने (३-१-२७), सव॑नेषु (३-४-४४),
सव॑ने (६-१-४२), सव॑नात् (७-५-१७)
सदनशब्दः - पि॒तृ॒णा सद॑नम् (१-३-२), सद॑नानि कृ॒त्वा (३-१-३८), सद॑ने सीद (३-२-१४), सद॑ने ऋ॒तस्य॑ (४-१-४६)
स्वादुशब्दः - स्वा॒द्वीन्त्वा᳚ स्वा॒दुना᳚ (१-८-३७), स्वा॒दोस्स्वादी॑यस्स्वा॒दुना᳚ (३-५-२९)
सनीयान् - प्रचे॑ता अ॒मुत॒स्सनी॑यान् (३-५-१८)
सर्णीकाय -सर्णी॑काय त्वा॒ सती॑काय (४-४-२१)
स्वदित, सुवित, स्वस्ति एते शब्दनिर्दिष्टत्वात्पूर्ववत् ।
स्वदितशब्दः? - स्व॒दि॒तानि॑ वक्षत् (५-१-५९)*
सुवितशब्दः - सु॒वि॒ते मा᳚ (१-२-१९), सु॒वि॒ताय॒ नव्य॑से (१-४-२५), सु॒वि॒ता नय॑न्तीः (१-४-४५), सु॒वि॒तन्नः॑ (५-७-७)
स्वस्तिशब्दः - स्व॒स्ति, स्व॒स्तये᳚ (१-२-१,६), स्व॒स्तिम् (३-१-२९), स्वस्तिः (३-२-११), स्व॒स्त्या (१-४-४६) ।
स्वपन्तं [शब्दः]? - स्व॒पन्तं॒ वै (६-१-२९), स्व॒प॒ते स्वाहा᳚ (७-१-५०) ॥

मूलम् - 7.1.74

मू ॥ साधारणं सर्दिगृदिं सभेयस्सालावृकेभ्यश्च सरीसृपेभ्यः । संस्कृत्य सुत्यास्तनयित्नुशब्दौ स्वात्तं समानत्र समस्य सङ्काः ॥ ७४ ॥
व्या ॥ साधारणं - साधा॑रणं कुरुते (२-६-६)
सर्दिगृदिं - सर्दि॑गृदिं प॒राव॑धीत् (७-४-४८)
सभेयः - स॒भेयो॒ युवा (७-५-४४)
सालावृकेभ्यः - यती᳚न्थ्सालावृ॒केभ्यः॑ (६-२-३८) [याव॑दि॒य स॑लावृ॒की (६-२-२३)]
सरीसृपेभ्यः - स॒री॒सृ॒पेभ्य॒स्स्वाहा᳚ (१-८-२६)
संस्कृत्य - शरी॑रमे॒व स॒स्कृत्य॑ (५-६-२५)
सुत्याशब्दः - सो॒म॒ सु॒त्याम॑शीय (१-२-२०), सु॒त्ययाप॑न्त्वा (५-५-३३), पू॒र्वप॒क्षे सु॒त्या (७-४-३०)
स्तनयित्नुशब्दः - स्त॒न॒यि॒त्नुनेह्य॒पः (३-१-४१), बाह्य स्तनयि॒त्नुम् (५-७-४४)
स्वात्तं - स्वा॒त्तं चि॒थ्सदे॑वं (१-३-१४)
समानत्र - तस्मा᳚थ्समा॒नत्र॒ तिष्ठ॑ता (३-१-७)
समस्य - मा न॑स्समस्य (२-६-६२)
सङ्काः - इ॒षु॒धिस्सङ्काः॒ पृत॑नाः (४-६-२८) ॥

मूलम् - 7.1.75

मू । सावित्र साहन्त्य सपत्न सूनृताशब्दा हविष्यं च हलीक्ष्णशब्दवत् । हेमन्त होत्रीय हिरण्ययश्रुतो हैमन्तिकश्रुच्च हिकं हिरण्मयम् ॥ ७५ ॥
व्या ॥ सावित्र, साहन्त्य, सपत्न, सूनृता एते शब्दनिर्दिष्टत्वात्पूर्ववत् ।
सावित्रशब्दः - सा॒वि॒त्रः (२-१-३८), सा॒वि॒त्रम् (१-८-३), सा॒वि॒त्राणि॑ (५-१-१), सा॒वि॒त्रीभ्या᳚म् (५-१-२३), सा॒वि॒त्रि॒या (५-१-५४), सा॒वि॒त्रौ
(५-५-६२), सा॒वि॒त्री (६-१-१४), सा॒वि॒त्रीम् (६-३-३०)
साहन्त्यशब्दः - अ॒ग्नये॑ साह॒न्त्याय॑, अ॒ग्निमे॒व सा॑ह॒न्त्यम् (२-२-१४)
सपत्नशब्दः - स॒पत्ना॒ इन्द्रः॑ (१-१-२२), सपत्न॑न्दुर्मरा॒युम् (१-६-५), अ॒भित॑स्स॒पत्नाः᳚ (४-६-११), स॒पत्नो॑ भवति (५-३-२५)
सूनृताशब्दः - सू॒नृता॑यै, सू॒नृता᳚ (१-६-४०), सू॒नृता॑नाम् (४-१-४४)
हविष्यम् - यद्ध॒विष्य॑मृतु॒शः (४-६-४०)
हलीक्ष्णशब्दः शब्दनिर्दिष्टत्वात्पूर्ववत् । हलीक्ष्णशब्दः - हली᳚क्ष्णः (५-५-५०), हली᳚क्ष्णान् (५-७-५५)
हेमन्त, होत्रीय, हिरण्यय एते श्रुन्निर्दिष्टत्वात्पूर्ववत् ।
हेमन्तश्रुत् - हे॒म॒न्तान् (१-५-३५), हे॒म॒न्तम्, हेमन्न् (२-६-१), हे॒म॒न्तः (४-३-४), हे॒म॒न्तेन॑ (५-६-३९)
होत्रीयश्रुत् - हो॒त्रीय᳚म् (३-२-१२), हो॒त्रीयः॑ (६-३-३)
हिरण्ययश्रुत् - हि॒र॒ण्ययी᳚ (३-३-३०), हि॒र॒ण्यये॑न (३-४-४२), हि॒र॒ण्ययी᳚म् (४-१-४), हि॒र॒ण्ययः॑ (४-२-४१), हि॒र॒ण्ययैः᳚ (४-७-२१)
हैमन्तिकशब्दः श्रुन्निर्दिष्टत्वात्पूर्ववत् । हैमन्तिकश्रुत् - हैम॑न्तिकौ (४-४-२९), हैम॑न्तिकाः (५-६-५४), हैम॑न्तिकाय (७-५-३८)
हिकं - हिक᳚म् (१-४-५३)
हिरण्मयं - हि॒र॒ण्मय᳚म् (२-४-४३) ॥

मूलम् - 7.1.76

मू ॥ प्रपञ्चत्वादनिङ्ग्यानां दिङ्मात्रमिह सूचितम् । अतोऽनुक्तञ्च यत्किञ्चिदुन्नेयन्तन्मनीषिभिः ॥ ७६ ॥
व्या ॥ प्रपञ्चत्वादीति ॥ इह - अस्मिन् लक्षणे अनिङ्ग्यानां, अनिङ्ग्यपदानां, प्रपञ्चत्वात् - बहुळत्वात्, दिङ्मात्रं - एकदेशमात्रं, सूचितं - ज्ञापितम्
। अतः बहुलीभूतानिङ्ग्यपददिङ्मात्रसूचनात् यत् अनिङ्ग्यपदमनुक्तं तत् मनीषिभिः - बुद्धिमद्भिः, उन्नेयम् अनिङ्ग्यमिति प्रयोगतोऽवगन्तव्यमित्यर्थः

मूलम् - 7.1.77

मू ॥ एषामनिङ्ग्यपदानां पदवी सन्दर्शिता सुगता सुधिया । देवीमनीषिसुतेन श्रीवत्साङ्केन तैत्तिरीयाणाम् ॥ ७७ ।
॥ अनिङ्ग्यप्रकरणं समाप्तम् ॥ ७ ॥
व्या ॥ सुधिया - बुद्धिमता, देवीमनीषिसुतेन - देवीमनीषीत्याख्यस्य कस्यचित्पुत्रेण, श्रीवत्साङ्केन - श्रीवत्साङ्कनाम्ना केनचिद्विदुषा, तैत्तिरीयाणां -
तैत्तिरीययजुस्संहितावर्तिनां, एषामनिङ्ग्यपदानां, सुगता - सुखेन ज्ञाता, पदवी - सन्दर्शितेत्यन्वयः ॥
॥ इति सप्तलक्षणव्याख्यायां अनिङ्ग्यप्रकरणम् ॥ ७ ॥
॥ सप्तलक्षणं समाप्तम् ॥ ॥ शुभमस्तु ॥
चिदचिच्छरीरी श्रितनारदादिमहर्षिसङ्घो मधुदर्पहन्ता । शारीरकाधीतशुभाश्रयान्वितः प्रीयेत कृत्या त्वनया परात्मा ॥
शङ्खचक्रकल्पवृक्ष केतुपद्मतोमरैः । वज्रचिह्नसप्तमैः विभाति वै हरेः पदम् ॥
वेदवेद्यो हयग्रीवो वचनैस्सम्परिष्कृतः । सप्तलक्षणसम्पन्नः प्रसीदतु ममानिशम् ॥