10 परिभाषा

मूलम् - 7.0.1

॥ अथ अनिङ्ग्य प्रकरणम् ॥ ७ ॥
मू ॥ मुनिमानसमन्थानमथितागमसागरात् । उदिताय नमो भूयादमृताय मुरारये ॥ १ ॥
व्या ॥ आदौ चिकीर्षितस्य ग्रन्थस्याविघ्नेन परिसमाप्त्यर्थम् इष्टदेवतानमस्कारात्मकम् मङ्गलम् शिष्यशिक्षायै ग्रन्थतो निबध्नाति - मुनीति ।
’निर्वित्तस्सर्वतत्त्वज्ञः कामक्रोधविवर्जितः । ध्यानस्थो निष्क्रियो दान्तस्तुल्यमृत्काञ्चनो मुनिः ॥ ’ इत्युक्तलक्षणलक्षितानां मुनीनां मानसमेव मन्थानः
मथनदण्डः तेन मथितात् आलोडितात् आगम एव सागरः समुद्रः तस्मात्, उदिताय उत्पन्नाय, वेदान्तवेद्यायेत्यर्थः । अमृताय - नाशरहिताय,
मुरस्य अरिः - मुरारिः तस्मै विष्णवे नमः भूयात् । ’नमस्स्वस्ती’ (पा.सू.२.३.१६) त्यादिना चतुर्थी ॥

मूलम् - 7.0.2

मू ॥ गुणत्रय विहीनाय जगत्त्रयविधायिने । श्रुतित्रयदृशे शश्वत्पुरत्रयमथे नमः ॥ २ ॥
व्या ॥ गुणेति । गुणानां सत्त्वरजस्तमोगुणानां त्रयम् । त्रयोऽवयवा अस्य समुदायस्येति त्रयम् । एवमेवोत्तरेषां त्रयाणाम् । ’द्वित्रिभ्यान्तयस्यायज्वा’
(पा.सू.५.२.४३) इति वैकल्पिकोऽयच् । तेन हीनाय । अनेन निर्गुणत्वमुक्तम् । उत्तरेण विशेषणत्रयेण सगुणत्वमुच्यते । जगत्त्रयं विदधातीति
जगत्त्रयविधायी तस्मै । जगत्स्रष्ट्र् इत्यर्थः । श्रुतित्रयं दृक् यस्य सः, श्रुतित्रयदृक्, तस्मै । पुरत्रयं तदाख्यासुरत्रयं मथ्नातीति पुरत्रयमथ् । तस्मै ।
शिवाय नमः । पूर्ववच्चतुर्थी ॥

मूलम् - 7.0.3

मू ॥ नमस्कृत्य विनेतारं विघ्नानामनुशिष्यते । अनिङ्ग्यमिङ्ग्यसादृश्याद्यत्सन्देहास्पदम् पदम् ॥ ३ ॥
व्या ॥ नमस्कृत्येति । विघ्नानां विनेतारं विघ्नेश्वरं नमस्कृत्य, यत् अनिङ्ग्यपदम्, इङ्ग्यसादृश्यात् = इङ्ग्यसमानत्वात्, सन्देहास्पदं = ’इदं पदमनिङ्ग्यम् उतेङ्ग्यम्’ इति सन्देहस्य आस्पदं (भवति) तत् अनिङ्ग्यमनुशिष्यत इत्यन्वयः । वक्ष्यमाणनिमित्तवत्पदमेवानिङ्ग्यमिति शिक्षणमनुशासनम् । तत् क्रियत इत्यर्थः । अनिङ्ग्यन्नाम किमिति चेदुच्यते । अविभागपदमेवानिङ्ग्यम् । नत्वसमासपदम् । शचीपतिः, बृहस्पतिरित्यादीनां समस्तत्वेऽप्यनिङ्ग्यत्वाङ्गीकारात् । समस्तत्वं चावयवार्थादवगम्यते । अनेकोदात्तत्वञ्च शचीपतिरित्यादीनां समस्तत्वे सत्यपि युज्यते प्रकृतिस्वरोपपत्तेः । अन्यथा ’अनुदात्तं पदमेकवर्ज’मिति सामान्यतः पदानामेकाक्षरवर्जं अनुदात्तता विहिता । अपि च अद्भ्यः, दिग्भ्यः
इत्यादीनामसमासपदानामपि सविभागत्वेन इङ्ग्यत्वाच्च अविभागपदमेवानिङ्ग्यमिति युक्तम् । अस्मिन् लक्षणे अखिलस्या-
निङ्ग्यपदजातस्याननुशासनादव्याप्तिशङ्कां निवारयति ’इङ्ग्यसादृश्याद्यत्सन्देहास्पदं पद’मित्यनेन । लक्ष्यैकदेशे लक्षणस्यासत्त्वमेवाव्याप्तिः ।
तेनायमर्थः । यत् । अ॒प॒स्याः᳚ । उ॒प॒दधा॒तीत्यु॑प-दधा॑ति । (५-२-५६) प्रा॒ण॒भृत॒ इति॑ प्राण-भृतः॑ । उपेति॑ । द॒धा॒ति॒ । (५-३-२) इत्यादि समस्तव्यस्तरूपद्वयं पदजातं नात्र विषयभूतम् । एतादृश पदजातविषयनिश्चयः लक्षणान्तरेण ’यो हि यद्यत..’ (ष.सू.) इत्यादिना कार्यः । प्रकृते तु इदं पदमखण्डम् उत सखण्डमिति यत्पदं सन्दिह्यते तदेवात्र विषयभूतमिति तादृशसन्देहनिरासायैव लक्षणारम्भ इति ॥

मूलम् - 7.0.4

अवतारिका - पूर्वोक्तसन्देहविषयभूतस्य समग्रस्याप्यनिङ्ग्यपदजातस्य परिगणने ग्रन्थविस्तरभीत्या एकपदप्रतिपादनेनैव अनेकपदानि अनिङ्ग्यत्वबोधकानि कानिचिल्लिङ्गानि दर्शयति -
मू ॥ श्रुतिश्रुच्छब्दनिर्दिष्टम् विकृतं चापदात्मकैः । स्यादनन्यवदन्काराद्यकारादि च यत्पदम् ॥ ४ ॥
व्या ॥ श्रुतिश्रुच्छब्दनिर्दिष्टम् = श्रुति, श्रुत्, शब्द, इत्येतेषां त्रयाणामन्यतमेन निर्दिष्टं शब्दरूपम्, अपदात्मकैः पदं आत्मा (स्वरूपं) येषां ते
पदात्मानः, त एव पदात्मकाः, न पदात्मकाः अपदात्मकाः, तैर्वर्णैर्विकृतमपि न्यूनाधिकभावेन किञ्चिदन्यथाभूतमप्यनन्यवत्स्यात्, अन्यथा न स्यात्
। यस्य पदस्य अनिङ्ग्यत्वं विधीयते श्रुत्यादिनिर्दिष्टत्वे तस्य अपदात्मकवर्णविकृतत्वेऽप्यनिङ्ग्यत्वमित्यर्थः । च शब्दः ’भिर्भ्या’मित्यादिभिर्विकृतस्य
दीर्घान्तस्याकर्षकः । यतः ’स्वादिष्वसर्वनामस्थान’ (१.४.१७) इति पाणिनिसूत्रेण भ्यामादिभ्यः पूर्वेषां भागानामेव पदसंज्ञाविधानेऽपि
तत्साहचर्यात् सखिभिरित्यादिष्विङ्ग्यत्वेन प्रोच्यमानत्वात्प्रातिशाख्ये ’नानापदवदिङ्ग्यमसङ्ख्याने’ (प्रा.१. ४८) इति सूत्रेण ’तस्य पूर्वपदमवग्रहः’
(प्रा.१.४९) इति सूत्रे पूर्वपदमित्युक्तत्वेन उत्तरखण्डस्यापि पदत्वज्ञापनाच्च प्रकृतानां ’भिः, भ्यां, भ्यः, सु’ इत्येतेषां पदत्वं वैदिकसार्वभौमैः
प्रत्यपादि । तथासति देवताशब्दवदित्यादिषु शब्दादि निर्देशेन देवताभिरित्यादीनां पदात्मकवर्णविकृतत्वादनिङ्ग्यत्वे अप्राप्ते भिर्भ्याम्भ्यस्सुभि-
र्विकृतस्य दीर्घान्तस्यानिङ्ग्यत्वप्रतिपादकेन वक्ष्यमाणविधिना तस्याप्यनन्यवत्त्वसंभवेन चकारेण तदाकर्षणं युक्तमेव । श्रुत्यादयो लोकप्रसिद्धार्था
एव । यथायोगम् वक्ष्यमाणत्वान्नानेकविकल्पनादोषः ।
श्रुत्यादिनिर्दिष्टत्वादपदात्मकवर्णविकृतत्वेऽप्यनिङ्ग्यानि कानिचित्पदान्युदाह्रियन्ते ।
तत्र श्रुतिनिर्दिष्टन्तावत्, आर्तवश्रुतिरित्यादि (श्लो.१३) वक्ष्यति । आ॒र्तवोऽधि॑पतिः (४-३-१८), तस्मा॑दार्तवाः (७-२-२०,२१), तदा᳚र्तवाना᳚म् (७-
२-१९), ऋ॒तुष्वे॒वार्तवेषु॑ (७-२-२१) ।
श्रुन्निर्दिष्टन्तावत् अनड्वाहश्रुदित्यादि (श्लो.५) वक्ष्यति । त्रयो॑ऽन॒ड्वाहः॑ (५-६-४९), अ॒न॒ड्वाहौ॑ वारु॒णी (५-६-५२), वह्नि॒र्वा अ॑न॒ड्वान् (२-२-
५७,६-१-६७..), अ॒न॒ड्वाह॑म॒ग्नीधे᳚ (१-८-३४) ।
शब्दनिर्दिष्टन्तावत् अजगरशब्द इत्यादि (श्लो.६) वक्ष्यति । बला॑याजग॒रः (५-५-५२), अ॒ज॒ग॒रेण॑ स॒र्पान् (७-३-३५) ।
अपदात्मकैरिति किम् - आ॒ग्र॒य॒ण॒त्वम् (६-४-४९), श्रेष्ठ॑तमः (१-५-४४), षो॒ड॒श॒धा (५-४-२२), स॒मा॒व॒च्छः (२-३-२४), वन॒स्पति॑भ्यः -
(४-६-१) इत्यादिषु आग्रयणश्रुतिरित्यादिना श्रुत्यादिनिर्दिष्टेष्वपि ’त्वं, तम’ इत्यादि पदात्मकवर्णविकृतत्वादनिङ्ग्यत्वन्न ।
त्वमित्यादीनां कथं पदात्मकत्वमिति चेदुच्यते - प॒र्णस्य॑ पर्णत्वम् (३-५-२२), अ॒यं भग॑वत्तमः (१-५-४४), ए॒क॒धा ब्र॒ह्मणे᳚ (२-३-७), ऋ॒तु॒शः
पाथः॑ (५-१-५९) इत्यादिष्वनिङ्ग्यपरिगणनानन्तर्गतानां पर्ण, भगवत्, एक, ऋतु, इत्यादीनाम् त्वं, तमः, धा, शः इत्यादिभिर्योगे विभागवत्त्वेन
प्रोच्यमानत्वात् त्वमित्यादीनाम् पदात्मकत्वं सिद्धम् ।
अन्कारादीति ॥ अनिङ्ग्यत्वेन विधीयमानं यत्पदं अन्कारादि वा अकारादि वा भवति तत्पदञ्चानन्यवत् । तदप्यनिङ्ग्यमित्यर्थः । चशब्दः
अनन्यवदित्यस्याकर्षकः । अन्कारादि यथा । आमयादि (श्लो.७) पदम् अमीवशब्दश्चानिङ्ग्यमिति वक्ष्यति । तेन, अना॑मयच्च मे (४-७-६),
अ॒न॒मी॒वो भ॑वा नः (३-४-३६) इत्यादिष्वप्यनिङ्ग्यम् ।
अकारादि यथा । व्यथादि (श्लो.८) पदं दन्दशूकाश्रुतिः (श्लो.३६) इत्याद्यनिङ्ग्यमिति वक्ष्यति । तेन अव्य॑थमानाम् (४-३-११), अद॑न्दशूकाः
(६-१-६९) इत्यादिष्वप्यकारादित्वादनिङ्ग्यम् ॥

मूलम् - 7.0.5

मू ॥ भिर्भ्याम्भ्यस्सुभिरर्वागोभावं ह्रस्वभागदीर्घं च । नित्यं विहाय नेङ्ग्यं गोगीस्सुरदुन्दु चेति भिश्श्रुत्या ॥ ५ ॥
व्या ॥ भिर्भ्याम्भ्यस्सुभिः = भिः, भ्याम्, भ्यः, सु, इत्येतैस्सह योगे अर्वाक् पूर्वस्थितम् ओभावम्, ह्वस्वभाजम्, अदीर्घं च विहाय अन्यत् नित्यम्
अनिङ्ग्यं भवति । अत्र ओभावशब्देन, विसर्जनीयविकार ओभावो गृह्यते । ह्रस्वभाक् शब्देन प्रातिशाख्ये ह्रस्वाध्यायविद्यमानावग्रहाधिकारेण
संहितायाम् दीर्घान्तस्य यस्य ह्रस्वत्वं विधीयते तत् गृह्यते । अदीर्घशब्देन ह्रस्वस्वरसहितं व्यञ्जनं गृह्यते । प्लुतस्यासम्भवात् । चशब्देन
स्वररहितव्यञ्जनं च गृह्यते । पारिशेष्यात् दीर्घान्तम् भिरादिभिर्युक्तमपि विभागानर्हं भवतीत्यर्थः । नित्यग्रहणम् लक्षणान्तरनिषेधार्थम् । तेन
वावदद्भिरित्यत्र वावादिपदमनिङ्ग्यमिति वक्ष्यमाणविधिना प्राप्तमनिङ्ग्यत्वं अज्रहितव्यञ्जनान्तत्वान्निवारितम् । अपि च रुद्रेषु अपञ्चषाक्षर इत्यादिना
श्वभ्यः, श्वपतिभ्यः, इत्यत्र उपसर्गायुक्तत्वेन भवे इत्यादिभिरयुक्तेन अपञ्चषाक्षरत्वेन च प्राप्तमनिङ्ग्यत्वं ह्रस्वान्तत्वान्निवारितम् । इत्याद्यनेकेतर-
लक्षणनिषेधा ऊह्याः । विधिनिषेधयोः उदाहरणानि क्रमेण लिख्यन्ते ।
जङ्घा॑भिः (५-७-४५), भूयि॑ष्ठाभिः (६-५-३६) [द्र. श्लो.१६], पू॒र्वीभिः॑ (४-३-३३), पत्नी॑भिः (४-७-२६), त॒नूभिः॑ (१-४-४६), रु॒द्रेभिः॑ (२-१-
६१), हस्ता᳚भ्याम् (४-१-१०), अ॒क्षीभ्या᳚म् (७-३-३७), मानु॑षीभ्यः (४-१-१६), उ॒स्रिया॑सु (१-८-४२), भ॒न्दना॑सु॒ कोत॑नासु (३-३-५) इत्यादिषु
भिरादिभिर्योगेऽपि दीर्घान्तत्वादनिङ्ग्यत्वम् ।
ओभावं विहायेति किम् - विपक्षो॑भिः (५-१-५७), शमहो᳚भ्याम् (१-३-१७), अम्भो᳚भ्य॒स्स्वाहा᳚ (७-४-४०) इत्यादीङ्ग्यमेव ।
ह्रस्वभाग्विहायेति किम् - रात्री॑भिरसुभ्नन्न् (२-४-१), चिती᳚भ्यामु॒पायन्न् (५-७-२३), ओष॑धीभ्य॒स्स्वाहा᳚ (७-३-४१) इत्यादिषु ओषधीत्यादीनाम्
प्रातिशाख्ये ह्रस्वत्वविधानादिङ्ग्यमेव ।
अदीर्घञ्च विहायेति किम् - साम॑भिः पातु (४-४-३३), सखि॑भि॒र्वाव॑दद्भिः (३-४-४३), अ॒ग्निभ्यः॑ प॒शून् (५-१-४०), दो॒षभ्या॒ स्वाहा᳚ (७-३-
३८), ज्या॒का अधि॒ धन्व॑सु (१-७-५१), हृ॒थ्सु क्रतु᳚म् (१-२-१५/१६), अ॒फ्सु वा॑ यजत्र (४-२-१६)
गोगीस्सुरदुन्दुचेतिभिश्श्रुत्येति ॥ गोगीस्सुरदुन्दु, गो, गीः, सुर, दुन्दु इत्येतानि भिश्श्रुत्या सहयोगे अनिङ्ग्यानि भवन्ति । चशब्दः अनिङ्ग्यम्
इत्यस्य समुच्चायकः । पूर्वोक्तस्यापवादोऽयम् । गोग्रहणम् विसर्जनीयविकारवदोभावशङ्कानिवृत्त्यर्थम् । तेन भिर्भ्याम् भ्य इत्यतेभ्योऽर्वाक् स्थित
ओकारस्सर्वत्र विसर्गस्थानिक एवेति गम्यते । उदा -
अग्ने॒ गोभिः॑ (२-४-१५), गी॒र्भिः कृ॑णुध्वम् (४-१-४६), सु॒र॒भिर्वसा॑नः (१-३-२५), दु॒न्दु॒भिर्वा॑वदीति (४-६-३३) भिश्श्रुत्येति श्रुतिनिर्देशेन
भिश्शब्दस्य विकृतत्वेऽप्यनिङ्ग्यत्वं यथा - सु॒र॒भि नो॒ मुखा᳚ (१-५-५०), सु॒र॒भीणि॑ वियन्तु (४-३-३४), या दु॑न्दु॒भौ (६-१-२५), दु॒न्दु॒भीन्
स॒माघ्न॑न्ति (७-५-२९) (इत्यादि) ॥

मूलम् - 7.0.6

मू ॥ अर्वाक्सर्वं षुणा तद्वत्स्यादिस्माद्यक्षरैरवि । वैकारादि पदम् वैष्णा वैश्वायुक्सासहादि च ॥ ६ ॥
व्या ॥ षुणा, षु, इत्यनेन युक्तम् अर्वाक् पूर्वस्थितं सर्वमनिङ्ग्यम् भवति । उदा - आ॒जिषु॑ (३-५-३६), प॒शुषु॑ (२-५-२८), मेषी॑षु॒ वाशी॑षु (३-३-
५), चिती॑षु (५-४-५), ओष॑धीषु (३-५-८) । अनयोरवग्रहत्वाद्ध्रस्वत्वन्न । गोषु॑ (३-४-४२), पु॒रु॒क्षु (४-७-३१) ।
स्याद्यक्षरैश्च स्माद्यक्षरैश्च युक्तञ्च तद्वत्, पूर्वस्थितम् सर्वमनिङ्ग्यम् भवतीत्यर्थः । अ॒प॒स्याः᳚ (५-२-५६), अ॒व॒स्युः (१-३-५), आ॒स्ये॑न (५-७-४४),
क॒त॒मस्मै᳚ (७-३-३६), पर॑स्मात् (४-२-४४)
अवि । विष्यू॑तम् (६-२-४,४८) इत्यत्र ’वि’ इत्यनेन युक्तत्वादिङ्ग्यत्वमेव । नन्वत्र अविभागसमये स्याद्यक्षरन्न भवति । ततः किमर्थ-मिदमवीति
विशेषणमिति चेदुच्यते । उत्तरत्र ’हुततमतिग्मनिप्रनि’रित्यत्र तमग्रहणेन मीढुष्टमेत्यत्रापीङ्ग्यत्वसंभवादत्रापि आदेशविकृतमपि ग्राह्यमेव ।
वैष्णावैश्वायुक्, वैष्णा, वैश्व इत्येताभ्यामयुक्तम् वैकारादि पदमनिङ्ग्यम् । वै॑दे॒ह्यः॑ (२-१-२५), वैभी॑दकः (२-१-३५), वैमृ॒धाय॑ (२-२-३८),
वै॒स॒र्जनानि॑ (६-३-७), वैक॑ङ्कतम् (६-४-४७), वै॒खा॒न॒सम् (७-१-१३).. वैष्णावैश्वायुगिति किं - वै॒ष्णा॒व॒रु॒णीम् (२-१-२४), वै॒श्व॒दे॒वीम् (२-१-
४५ ..), यद्वै᳚श्वकर्मणानि॑ (३-२-३२) इत्यादीनीङ्ग्यान्येव । वैश्व इति ह्रस्वान्तेन किम् - वै॒श्वा॒न॒रं (१-५-४७) इत्यत्र दीर्घान्तत्वात्तद्युक्तत्वेन
चानिङ्ग्यमेव ।
सासहादि पदमनिङ्ग्यम् । सा॒स॒ह्याम॑ (३-५-११), वाजे॑षु सा॒सह॑त् (१-३-३०), पृत॑नासु सास॒हिम् (४-१-३९) ॥

मूलम् - 7.0.7

मू ॥ सौकारादि सपर्यादि नीयवीयामयादि च । त्रैकारादि कुकारादि नसोगोपोयुतम् विना ॥ ७ ॥
व्या ॥ सौकारादि पदमनिङ्ग्यम् भवति । सौ॒त्रा॒म॒ण्या (५-६-१४), सौ॒दा॒सान् (७-४-२५), सौ॒ध॒न्व॒नाः (३-१-२७), सौ॒प॒र्णेयाः (६-१-३९),
सौभ॑गानि (१-३-२६), सौभा᳚ग्यम्, सौ॒म॒न॒सम् (१-१-१६), सौ॒व॒र्चन॒सः (१-७-७), सौ॒श्र॒व॒साय॑ (४-६-४०), सौहा᳚र्द्येन (४-४-२१) (इत्यादि)
सपर्यादि पदमनिङ्ग्यम् भवति । स॒प॒र्यन्तः॑ (१-८-४०), सहु॑री सप॒र्यात् (४-२-४६)
नीयेति । नीय, वीय, आमय एते पदैकदेशाः आदयः यस्य (पदजातस्य) तत् नीयवीयामयादि । तादृशम् पदमनिङ्ग्यम् भवति ।
नी॒य॒ते॒, नी॒य॒न्ते॒ (३-१-१५,६-१-४१), नी॒यमा॑नम् (६-३-४८), वी॒य॒न्ते॒, वी॒यमा॑णः (६-१-४६,१-१-२३) अत्र मानमाण श्रुदन्तकमित्यनेनैवा-
निङ्ग्यत्वे सिद्धेऽपि पुनर्विधानं छान्दसानामुपसर्गयुक्तत्वशङ्कानिवृत्त्यर्थम् ।
आ॒मय॑ति (२-१-३), आ॒म॒या॒वी (३-२-९,१०)
त्रैकारादि पदमनिङ्ग्यम् । त्रै॒धा॒त॒वीये॑न (२-४-३१), त्रै॒धा॒त॒वीय᳚म् (२-४-३२), त्रैष्टु॑भाय (७-५-३८) इत्यादि ।
नसः, गोपः एताभ्यामयुक्तम् कुकारादि पदमनिङ्ग्यम् भवति । कु॒च॒रः (१-६-४९), कु॒टरुः॑ (५-५-५५), कु॒णप᳚म् (७-२-३८), कु॒ण्डृ॒णाची᳚ (५-
५-५४), कु॒न॒खी (२-५-७), कु॒म्भाश्च॑ कु॒म्भीश्च॑ (५-६-७), कु॒ली॒कयः॑ (५-५-५१), कु॒षीत॑कः (५-५-५१), कु॒सु॒रु॒बिन्दः॑ (७-२-५) ..
नसोगोपोयुतं विनेति किम् - कु॒म्भी॒नसः॑ (५-५-५२), कु॒ल॒गो॒पः (६-२-२९) । नसः, गोपः एताभ्यां युक्तत्वादिङ्ग्यमेव ॥

मूलम् - 7.0.8

मू ॥ अरात्यादि च वावादि जशब्दायुक् प्रथादि च । धूर्वातिष्ठादिकम् पष्ठौ तुर्यौ दित्यौ व्यथादि च ॥ ८ ॥
व्या ॥ अरात्यादि पदमनिङ्ग्यम् भवति । अ॒रा॒ती॒य॒तः (४-२-१), अ॒रा॒ती॒यन्त᳚म् (३-१-१४), अ॒रा॒ती॒वा (७-४-४१) इत्यादि ।
वावादि पदमनिङ्ग्यम् । वाव॑दतः (३-४-४३), वा॒वाता᳚ (१-२-३०), वा॒व॒शा॒ने (१-७-४७), वाव॑शतीः (२-३-५४), वा॒वृ॒धा॒नः (२-६-६९)
इत्यादि ।
जशब्दायुक् जकारेणायुक्तम् प्रथादि पदमनिङ्ग्यम् भवति । प्र॒थ॒मे (७-५-९), प्र॒थ॒मः (३-१-२५), प्रथस्वतीम् (४-२-३६), प्रथि॑ष्ठम् (१-२-३३),
प्रथ॑मानम् (५-१-५७), प्र॒थि॒मा (४-७-३), अप्र॑थेताम् (४-७-३८) (इत्यादि) । जशब्दायुगिति किम् - प्र॒थ॒म॒जः (१-८-२), प्र॒थ॒म॒जाः (२-४-
२२) इत्यादि जकारेण युक्तत्वादिङ्ग्यमेव ।
धूर्व, अतिष्ठ एतदादिपदमनिङ्ग्यम् । धूर्व॑न्त॒न्धूर्व तय्योँ᳚ऽस्मान्धूर्व॑ति॒ तन्धू᳚र्व यं व॒यं धूर्वा॑मः (१-१-५) ।
अति॑ष्ठमाना (६-१-२५), अति॑ष्ठमानाः (२-२-६२), अति॑ष्ठमाने (६-१-१७), अ॒ति॒ष्ठि॒पा(३) (६-६-८) ।
पष्ठौ, तुर्यौ, दित्यौ, व्यथ एतदादिपदमनिङ्ग्यम् । प॒ष्ठौ॒ही (४-७-१७), प॒ष्ठौ॒ह्यः॑ (५-६-४५), तु॒र्यौ॒ही (४-७-१७), तु॒र्यौ॒ह्यः॑ (५-६-४८), दि॒त्यौ॒ही
(४-७-१७), दि॒त्यौ॒ह्यः॑ (५-६-४६), व्य॒थि॒तम् (१-२-२२) । पष्ठावादिषु त्रिषु औकारेण किम् - प॒ष्ठ॒वात् (४-७-१७), तु॒र्यवाट् (४-७-१७),
दि॒त्य॒वाट् (४-७-१७) इत्यादिष्विङ्ग्यत्वसम्पादनार्थः ॥

मूलम् - 7.0.9

मू ॥ ईदुपाद्यक्षरन्तच्चेदेकव्यञ्जनमध्यगम् । मेघशीकादिशब्दौ च वर्जयित्वा द्वितीयकौ ॥ ९ ॥
व्या ॥ यस्य पदस्य उपाद्यक्षरं आद्यक्षरात्परमक्षरम् ईत् ईकारो भवति तत् ईदुपाद्यक्षरम् । एकव्यञ्जनमध्यगञ्चेत् एकरूपयोर्व्यञ्जनयोर्मध्यगं यदि तत्
निमित्तद्वयवदीकारयुक्तम् पदमनिङ्ग्यम् भवतीत्यर्थः ।
अजी॑जिपत (१-७-३७), अवी॑वरत (५-६-३), अमी॑मदन्त (१-८-८), अती॑तृपन्त (१-८-८), अमी॑मदन्त (१-८-८) । ईदुपाद्यक्षरमिति किम् -
अ॒भि॒भूः (१-६-४), नवा॑वसानम् (१-६-२३) इत्यादिष्विङ्ग्यमेव ।
एकव्यञ्जनमध्यगमिति किम् - अनी॑कवते (१-८-५) इत्यादि इङ्ग्यमेव ।
मेघेति ॥ मेघशीकादिशब्दौ = मेघादिशब्दौ, शीकादिशब्दौ च द्वितीयकौ वर्जयित्वा अन्यावनिङ्ग्यौ, स्वाहाकारो न गणनविषयभूतः ।
मे॒घा॒यि॒ष्य॒ते, मे॒घि॒ताय॑ (७-५-३३), शी॒का॒यि॒ष्य॒ते, शी॒कि॒ताय॑ (७-५-३४) । द्वितीयकौ वर्जयित्वेति किम् - मे॒घा॒य॒ते (७-५-३३), शी॒का॒य॒ते
(७-५-३४) एताविङ्ग्यावेव ॥

मूलम् - 7.0.10

मू ॥ मामादि चैकतायादि त्रिकमीदृङ्ङिति त्रयम् । प्रत्नथादि चतुष्कं चेदृशायादि चतुश्श्रुतिः ॥ १० ॥
व्या ॥ मामादि पदमनिङ्ग्यम् । मा॒म॒ते॒यम् (१-२-३२), मा॒म॒हा॒नः (४-६-१३), मा॒म॒काना᳚म् (४-६-१९)
एकतायादि त्रिकं एकतायादीनि स्वाहाकारव्यतिरिक्तानि त्रीणि पदान्यनिङ्ग्यानीत्यर्थः ॥ ए॒क॒ताय॑, द्वि॒ताय॑, त्रि॒ताय॑ (१-१-१२) ।
ईदृङ्ङिति त्रयम् ईदृङ्ङ् इत्यादि पदत्रयमनिङ्ग्यम् । ई॒दृङ्ङ्, अ॒न्या॒दृङ्ङ्, ए॒ता॒दृङ्ङ् (१-८-२५) न चकारो गणनविषयान्तर्गतः । अत्र त्रयग्रहणस्योप-
लक्षणत्वादेतत्समुदायाघटकस्यापि त्रयान्तर्गतसदृशस्यानिङ्ग्यत्वमेव । ई॒दृङ् वै रा॒ष्ट्र्म् (२-५-१) (इत्यादि) त्रयमिति किम् - प्र॒ति॒दृङ्च॑ (१-८-२५)
इदमिङ्ग्यमेव ।
प्रत्नथादिचतुष्कं पदचतुष्टयमनिङ्ग्यम् । प्र॒त्नथा᳚, पू॒र्वथा᳚, वि॒श्वथा᳚, इमथा᳚ (१-४-१०) चतुष्कमिति किम् - ज्ये॒ष्ठता॑तिं (१-४-१०) इत्यादीङ्ग्यमेव ।
ईदृशायादीनि स्वाहाकारव्यतिरिक्तानि चत्वारि पदान्यनिङ्ग्यानि । ई॒दृशा॑य, की॒दृशा॑य, ता॒दृशा॑य, स॒दृशा॑य (७-३-३९) चतुरिति किम् - विस॑दृशाय
(७-३-३९) इत्यादीङ्ग्यमेव ।
श्रुतिनिर्देशेन ईदृशादीनां विकृतत्वेऽप्यनिङ्ग्यत्वम् । ई॒दृशे᳚ (१-१-२७), ई॒दृख्षा॑सः, ए॒ता॒दृख्षा॑सः, स॒दृख्षा॑सः (४-६-२६), स॒दृशीः᳚, स॒दृशी॑नाम्
(६-६-३१,२-५-३८), स॒दृश्यै᳚ (६-२-३३), स॒दृश᳚म् (२-४-४) ॥

मूलम् - 7.0.11

मू ॥ रुद्रेषु च द्वितीयादिष्वष्टस्वनुपसर्गयुक् । भवे मते कराय न्ये तीक्ष्णगो पूर्व वास्त्वयुक् ॥ ११ ॥

मूलम् - 7.0.12

अपञ्चषाक्षरश्शब्दः निषासूसस्सहादयः । नीप्यायुधाशवासीनावट्यावार्यादि शब्दवत् ॥ १२ ॥
व्या ॥ नमस्ते रुद्रेत्यादीनां एकादशानामनुवाकानां ’रुद्रा’ इति संज्ञा । तेषु द्वितीयादिष्वष्टसु अनुवाकेषु अनुपसर्गयुक् उपसर्गैरयुक्तम्, भवे, मते,
कराय, न्ये, तीक्ष्ण, गो, पूर्व, वास्तु एतैरयुक्तं च, अपञ्चषाक्षरश्शब्दः अपञ्चाक्षरम् अषडक्षरम् च पदमनिङ्ग्यं भवति । उदा -
ब॒भ्लु॒शाय॑ (४-५-५), स्थ॒पत॑ये (४-५-६), म॒न्त्रिणे॑ वाणि॒जाय॑ (४-५-६), गि॒रि॒शाय॑ (४-५-११) इत्यादि । अनुपसर्गयुगिति किम् । सं॒वृध्व॑ने
(४-५-११), आ॒त॒प्या॑य (४-५-१६), आ॒ला॒द्या॑य (४-५-१८) इत्यादि उपसर्गयुक्तत्वादिङ्ग्यमेव ।
’भवे मत’ इत्यादिभिरयुगिति किम् - श॒म्भवे᳚ (४-५-१७), इ॒षु॒धि॒मते᳚ (४-५-७), श॒ङ्क॒राय॑ (४-५-७), से॒ना॒न्ये᳚ (४-५-५), ती॒क्ष्णेष॑वे (४-५-
१५), गोष्ठ्या॑य (४-५-१९), पू॒र्वजाय॑ (४-५-१३), वा॒स्तु॒पाय॑ (४-५-१६) एतानि ’भवे’इत्यादिभिर्युक्तत्वादिङ्ग्यान्येव । अपञ्चषाक्षर इति किम् ।
हरि॑केशाय (४-५-५) पञ्चाक्षरत्वादिङ्ग्यम् । हिर॑ण्यबाहवे (४-५-५) षडक्षरत्वादिङ्ग्यम् ।
’निषा, सू, सः सह’ एवमादयश्शब्दाः ’नीप्य, आयुध, आशव, आसीन, अवट्य, अवार्य’ एवमादयश्शब्दाश्च शब्दनिर्देशेन विकृता अपि अनिङ्ग्या
भवन्ति । नि॒षा॒देभ्यः॑ (४-५-१०) । षा इत्यनेन किम् । नि॒ष॒ङ्गिणे᳚ (४-५-७) एतदिङ्ग्यमेव । सूद्या॑य (४-५-१५) । सू इत्यत्र ऊकारेण किम् ।
सु॒धन्व॑ने (४-५-१५) इदम् इङ्ग्यमेव । स॒स्पिञ्ज॑राय (४-५-५), नम॒स्सह॑मानाय (४-५-७) अनयोः पञ्चाक्षरत्वा-दिङ्ग्यत्वप्राप्तिः । नी॒प्या॑य (४-
५-१५), आ॒यु॒धिने᳚ (४-५-१५), आ॒शवे᳚ (४-५-१२), आसी॑नेभ्यः (४-५-८), अ॒व॒ट्या॑य (४-५-१६), अ॒वा॒र्या॑य (४-५-१८)
अनुपसर्गयुगित्यनेन निषादिषु नीप्यादिषु च पदेषु उपसर्गयुक्तत्वशङ्कया सञ्जातमिङ्ग्यत्वं निवारितम् । शब्दनिर्देशः - आयु॑धं (४-५-२४), सू॒र्म्या᳚
(४-६-२४), आसी॑नाः (५-१-५५), अ॒व॒ट्या᳚भ्यः (७-४-३९), अ॒वा॒र्ये᳚भ्यः (७-३-३७) इत्यादिष्वप्यनिङ्ग्यत्वसम्पादनार्थः ॥

मूलम् - 7.0.13

मू ॥ ईङ्कारादावीमवापोपसन्न्युद्विप्रायुग्या सा श्रुतिः प्रोथते च । ऊर्ध्वे पक्षे दत्वतादावदादिर्हित्वाऽरेतस्काय चाप्राणते च ॥ १३ ॥
व्या ॥ ईङ्कारादौ - ईङ्कारः आदिः यस्य (अनुवाकस्य) तस्मिन्ननुवाके, ईम्, अव, अप, उप, सं, नि उत्, वि, प्र, एतैरयुक्ता या श्रुतिःसा अनिङ्ग्यम्
। ईमवादिभिरयुक्तं पदं श्रुतिनिर्देशेन विकृतमप्यनिङ्ग्यं भवतीत्यर्थः । पलायिताय, चंक्रमिष्यते, आसिष्यते (७-१-४९,५१) इत्यादि । प्रोथते
इत्येतत्पदञ्चानिङ्ग्यम् । प्रेत्युपसर्गयुक्तत्वशङ्कया इङ्ग्यत्वनिवारणाय पृथक् प्रयुक्तम् । चकारः श्रुतशब्दाकर्षकः । तेन ’प्रोथत’ इति विकृतमप्य-
निङ्ग्यमित्यर्थः । प्रोथ॑ते (७-१-४९), प्रोथ॑त् (४-४-९) । ईमवादिभिरयुगिति किम् । ई॒ङ्का॒राय॑ (७-१-४९), ईङ्कृ॑ताय (७-१-४९), अ॒व॒क्रन्द॑ते
(७-१-४९), अ॒पा॒नाय॑ (७-१-४९), उ॒प॒र॒स्य॒ते (७-१-४९), स॒हा॒स्य॒ते (७-१-५१), नि॒वे॒क्ष्य॒ते (७-१-४९), उ॒त्था॒स्य॒ते (७-१-५१), वी॒क्षि॒ष्य॒ते
(७-१-५०), प्र॒भो॒थ्स्य॒ते (७-१-५०) इत्यादीङ्ग्यमेव ॥
दत्वतादौ = पूर्ववत्समासः । दत्वत इत्यनुवाके ऊर्ध्वपक्षे = अदन्तकाय, अप्राणाय इत्याद्युत्तरपक्ष इत्यर्थः । अरेतस्काय अप्राणते हित्वा =
एतत्पदद्वयं हित्वेत्यर्थः । अदादिः = अकारादिश्शब्दः अनिङ्ग्यो भवति । अ॒द॒न्तका॑य, अ॒लो॒मका॑य, अ॒न॒स्थिका॑य (७-५-३५,३६) इत्यादि ।
ऊर्ध्वे पक्ष इति किम् । अक्षण्वते, अस्थन्वते एतत्पदद्वयं पूर्वपक्षस्थितत्वात् अकाराद्यपीङ्ग्यमेव । अदादिरिति किम् । प्र॒जन॑नाय (७-१-५१)
इदमिङ्ग्यमेव । अरेतस्काय, अप्राणते एतत्पदद्वयमिङ्ग्यमेव । अत एव हित्वेत्युक्तम् ॥

मूलम् - 7.0.14

मू ॥ एकाक्षराद्यदित्पूर्वं मानमाणश्रुदन्तकम् । बहिश्शतोपसर्गयुक् विना सात्मानमित्यपि ॥ १४ ॥
व्या ॥ एकेति ॥ एकमक्षरं आदौ यस्य तदेकाक्षरादि । अत्, अकारः । इत्, इकारः । अच्च इच्च अदितौ, पूर्वौ, यस्मात् तत् अदित्पूर्वम् ।
अकारपूर्वं इकारपूर्वं वेत्यर्थः । बहिः, शत, उपसर्ग, एतैरयुक्तम् एवं भूतं पदं सात्मानं विना, सात्मानमिति पदादन्यत् अनिङ्ग्यम् भवति ।
एकाक्षरादि यथा । भूमान᳚म् (१-७-६), सो॒मान᳚म् (१-५-२४), जे॒मान᳚म् (१-६-७), स॒मा॒नः (१-३-३), प्रे॒माण᳚म् (५-५-३५) ।
अत्पूर्वं यथा । गाह॑मानः (४-६-१७) ज॒ञ्ज॒भ्यमा॑नः (२-५-११), यज॑मानः (१-५-६), श॒स्यमा॑नम् (१-२-३३), सह॑मानम् (१-६-१), पव॑मानानाम्
(३-२-१), दीप्य॑मानाम्, रोच॑मानाम् (१-४-३५), वह॑मानाः, भर॑माणाः (१-४-४८), इ॒च्छमा॑नः (१-५-४), वर्ध॑मानम् (१-५-२२), जाय॑मानः
(१-५-४८), ब॒ध्यमा॑नाः (३-१-१२), पिन्व॑मानम् (४-२-३३), व्य॒च्यमा॑नम् (४-२-४३), जेह॑मानम् (४-६-३६), जन॑मानम् (४-७-३३),
प्रथ॑मानम् (५-१-५७), कल्प॑मानम् (६-१-३६), शिख्ष॑माणस्य (१-२-४), य॒ख्ष्यमा॑णे (१-६-२३), ईख्ष॑माणः (१-७-२), रख्ष॑माणाः (२-१-
६३), श्रोष॑माणाः (२-१-६५), सीख्ष॑माणः (२-२-१४), कृ॒षमा॑णः (३-४-९), क्रि॒यमा॑णे (३-४-११), ज॒नि॒ष्यमा॑णान् (२-६-१०), इय॑ख्षमाणाः
(४-६-२२), जिगी॑षमाणम् (४-६-३६), दी॒ख्षि॒ष्यमा॑णः (५-५-४), ह्रि॒यमा॑णम् (६-३-५३), गृ॒ह्यमा॑णः (६-५-२७), प॒यि॒ष्यला॒मा॑णाय,
शुश्रू॑षमाणाय, च॒ङ्क्र॒म्यमा॑णाय (७-१-४९,५०,५१), क्री॒यमा॑णः (४-४-२५)
इत्पूर्वं यथा । म॒हि॒मान᳚म् (१-६-७), मिमा॑ना (५-१-५८), ज॒रि॒माण᳚म् (१-८-१९), व॒रि॒माण᳚म् (१-२-१५), धू॒म्रि॒माण᳚म् (२-१-५७), ह॒रि॒माण᳚म्
(५-७-५५) । श्रुन्निर्देशः अख्षी॑यमाणस्य (१-१-१७), अस॑मानः (१-३-३), अहृ॑णीयमानाः (२-१-६२), अहे॑डमानः (२-१-६५), अति॑ष्ठमानाः
(२-२-६२), अय॑जमानम् (४-२-२१), अख्षी॑यमाणाः (४-४-३२) अति॑ष्ठमाने (६-१-१७), इत्यादिष्वप्यनिङ्ग्यत्व-सम्पादनार्थः । एकाक्षरादिति
किम् । ताव॑न्मानम् (२-३-४५) इत्यादीङ्ग्यमेव । अदित्पूर्वमिति किम् । सत्य॑धर्माणः (१-२-२), सु॒तर्मा॑णम् (१-२-४), सु॒त्रामा॑णम् (१-५-५१),
अया॑तयामानः (५-५-२७), पर॑स्सामानः (७-३-२६), अन्त॑नामानौ (७-४-२८) इत्यादीङ्ग्यमेव । बहिश्शतेत्यादि किम् । ब॒हि॒ष्प॒व॒मा॒ने (६-३-
१), श॒तमा॑नम् (३-३-१०), वि॒मानः॑ (४-६-१४), वि॒च॒क्र॒मा॒णः (१-२-२७), प्र॒ति॒माना॑नि (२-२-६६), अ॒भि॒च॒र्यमा॑णः (२-२-१२), प्रो॒ह्यमा॑णः
(४-४-२५), प्र॒णी॒यमा॑नः (४-४-२५), आ॒धू॒यमा॑नः (४-४-२५), उ॒पा॒व॒ह्रि॒यमा॑णः (४-४-२५), नि॒रु॒प्यमा॑णम् (१-६-२७), आ॒ह्रि॒यमा॑णाम्
(१-७-१), आ॒क्रम॑माणाय (२-४-१६), अ॒भि॒षू॒यमा॑णस्य (३-१-२४), अ॒प॒ख्षीय॑माणम् (३-५-३), अ॒प॒गु॒रमा॑णाय (४-५-२०), प्र॒ह्रि॒यमा॑णाय
(६-३-३१), वीख्ष॑माणाय, नि॒कष॑माणाय (७-१-५१), वि॒च्छिद्य॑मानम् (३-२-३), स्व॒प॒स्यमा॑ना (४-३-२५), अपा᳚त्मानम् (५-५-३६),
आ॒प्याय॑मानम् (२-३-२६) इत्यादि बहिरादिभिर्युक्तत्वादिङ्ग्यमेव । सात्मा॑नमिति पदमिङ्ग्यमेव । अस्य एकाक्षरादीत्यनेन प्राप्तमनिङ्ग्यत्वम्
विनेत्यनेन निराकृतम् ॥

मूलम् - 7.0.15

मू ॥ शृतन्दशपुरोदक्षस्वगात्वदुपसर्गयुक् । विहाय तारशब्दान्तं तथातव्यश्रुदन्तकम् ॥ १५ ॥
व्या ॥ शृतमिति । शृतम्, दश, पुरः, दक्ष, स्वगा, त्वत् एतैरयुक्तम्, उपसर्गैर्युक्तं च विहाय, शृतमादिभिर्युक्तादन्यत् तारशब्दान्तम् पदमनिङ्ग्यम्
भवति । त॒र्पयि॒तारः॑ (१-४-२३), त्रा॒तार᳚म्, अ॒वि॒तार᳚म् (१-६-५०), होता॑रः (२-५-६२), शमि॑तारः, श॒मि॒तारः॑ (३-१-१३,४-६-४२), द॒दि॒तारः॑
(३-३-७), गो॒प्तारः॑ (४-४-१८), ज॒रि॒तारः॑ (४-६-७), अ॒र्चि॒तारः॑ (७-३-३), व॒दि॒तारः॑ (७-४-१६) । शृतमादियुक्तं विहायेति किम् ।
दक्ष॑पितारः (१-२-६), त्वत्पि॑तारः (१-५-४४), अ॒व॒ग॒म॒यि॒तारः॑ (२-३-१), स्व॒गा॒क॒र्तार᳚म् (२-६-५७), शृ॒तङ्क॒र्तार᳚म् (३-१-१४), उ॒प॒गा॒तारः॑,
प्र॒ति॒ह॒र्तारः॑ (३-३-३), उ॒प॒श्रो॒तार॑म्, अ॒नु॒ख्या॒तार॑म् (३-३-२६), नि॒ष्क॒र्तार᳚म् (४-२-३१), पु॒र॒ए॒तारः॑ (४-६-४), प्र॒दा॒तारः॑ (६-६-४), दश॑होतारम्
(७-२-१३) इत्यादि शृतमादिभिर्युक्तत्वादिङ्ग्यमेव ॥
तथा उपसर्गयुक्तादन्यत्तव्यशब्दान्तं पदं श्रुन्निर्देशेन तव्यशब्दस्य विकृतत्वेऽप्यनिङ्ग्यम् । क॒र्तव्य᳚म् (१-५-८), हो॒त॒व्य᳚म्, हो॒त॒व्याः᳚ (२-४-२७,३-
४-१५), यो॒क्त॒व्यः॑ (३-१-३३), चे॒त॒व्यः॑ (५-२-४१), अ॒ध्व॒र्तव्याः (३-२-६), वा॒स्त॒व्यः॑, वा॒स्त॒व्या॑य (५-२-४५,४-५-१६), ऋ॒त॒व्याः᳚ (५-४-
५), ग्र॒ही॒त॒व्याः᳚ (६-६-३१) तथेत्युपसर्गयुग्विहायेति किम् । स्वे॑तव्यम् (६-१-१), प्र॒व॒स्त॒व्य᳚म् (६-२-२९) । इत्याद्युपसर्गयुक्तत्वादिङ्ग्यमेव ॥

मूलम् - 7.0.16

मू ॥ सुप्रायुग्वांसशब्दान्तमसुयुक्ची श्रुदन्तकम् । धृतान्ताविष्ठयन्तान्तशब्दावनुपसर्गकौ ॥ १६ ॥
व्या ॥ सुप्रायुक् = सु, प्र एताभ्यामयुक्तम् वांसशब्दान्तं पदमनिङ्ग्यम् । दी॒दि॒वास᳚म्, त॒स्थि॒वासः॑ (१-२-३१), दा॒श्वासः॑, ज॒क्षि॒वासः॑,
प॒पि॒वासः॑ (१-४-१७,४७), स॒सृ॒वासः॑, जि॒गि॒वासः॑ (१-७-३७), अज॑घ्निवासम् (२-१-५८), ज॒घ्नि॒वास᳚म्, शु॒श्रु॒वासः॑, वि॒द्वासः॑,
अवि॑द्वासः (२-५-१५,५२,६१,७४), पी॒पि॒वास᳚म् (३-१-३६) इत्यादि । सुप्रायुगिति किम् - सुवि॑द्वासः (४-६-२१), प्र॒वि॒वि॒शि॒वास᳚म् (४-
७-३३) । एते इङ्ग्ये एव ।
असुयुक् = सुकारेणायुक्तम् चीश्रुदन्तम् पदम् अनिङ्ग्यम् । अ॒र्वाची᳚ (१-४-२३), परा॑ची (२-१-५९), प्राची᳚ (४-३-५), वि॒श्वाची᳚, घृ॒ताची᳚ (४-
४-८), दे॒वाच्या᳚ (४-४-१७), स॒मीची᳚ (५-५-४२), प्र॒तीची᳚, ति॒रश्ची᳚, अ॒नूची᳚ (५-५-३०), विषू॑ची (६-३-५०), कु॒ण्डृ॒णाची᳚ (५-५-५४) ।
असुयुगिति किम् । सुप्रा॑ची, सुप्र॑तीची (१-२-१०), स्व॑र्वाची (३-२-१६) इत्यादीङ्ग्यमेव ।
धृतेति । धृतः अन्तः ययोः तौ धृतान्तौ । धृतो नाम प्रचयः । प्रचयान्तावित्यर्थः । अनुपसर्गकौ उपसर्गरहितौ इष्ठ, यन्त एतौ अन्तौ ययोस्तौ
इष्ठयन्तान्तौ तौ च तौ शब्दौ च इष्ठयन्तान्तशब्दौ । तावनिङ्ग्यौ भवतः । वर्षि॑ष्ठे, तेजि॑ष्ठेन, भूयि॑ष्ठाम् (१-१-१२,१६,२७), अश्र॑मिष्ठाः, तपि॑ष्ठैः (१-
२-२८,३२), शवि॑ष्ठ, अश॑मिष्ठाः (१-४-४०,४७), यजि॑ष्ठः (१-५-१७), नवि॑ष्ठया (१-८-८), ख्षेपि॑ष्ठा (२-१-१), वसि॑ष्ठः (२-२-६३),
स्थवि॑ष्ठाः, अणि॑ष्ठाः, नेदि॑ष्ठः (२-५-२८,७२), ब्रह्मि॑ष्ठः, रजि॑ष्ठम् (२-६-४८,६५), नाभा॒नेदि॑ष्ठम् (३-१-२९), वरि॑ष्ठाम्, व्यचि॑ष्ठम्, चेति॑ष्ठः (४-
१-५,९,३०), महि॑ष्ठस्य, शचि॑ष्ठया (४-२-१३,४७), गवि॑ष्ठिरः, श्रवि॑ष्ठाः (४-४-११,२७), ग्रसि॑ष्ठः (४-६-३६), गमि॑ष्ठौ (४-७-३५), पति॑ष्ठः
(५-४-५२), भूयि॑ष्ठाभिः (६-५-३६), *[य॒वि॒ष्ठ॒ (१-२-३०), शो॒चि॒ष्ठ॒ (१-५-२३), वा॒सि॒ष्ठः (३-५-५), क॒नि॒ष्ठाय॑ (४-५-१३), ति॒ष्ठि॒प॒त् (४-
६-४६), अ॒ज॒नि॒ष्ठाः॒ (५-५-१२), ?]
पश्य॑न्तः (१-२-३२), वा॒जय॑न्तः (१-३-२६,.), जय॑न्तम् (१-४-१०), मृ॒ड॒यन्तः॑ (१-४-२३)[#५४तः], जीर्य॑न्तः (१-५-१३), हय॑न्तम्, म॒हय॑न्तः
(१-६-४९,५१), ख्षय॑न्तम् (२-२-६८), त॒र्पय॑न्तम् (३-१-३७), स्त॒नय॑न्तम् (३-१-४१), शिम्य॑न्तः (५-२-६३), गाय॑न्तम् (६-१-४४),
गाय॑न्त्यः (७-५-३२), धा॒रय॑न्तः (२-१-६३), ज॒म्भय॑न्तः (१-७-३५), अप॑श्यन्तः (३-२-४), *[स॒रि॒ष्यन्तः॑, जे॒ष्यन्तः॑ (१-७-३७), स॒प॒र्यन्तः॑
(१-८-४०), भि॒ष॒ज्यन्तः॑ (२-५-२१), भ॒ख्षय॑न्तः (३-२-३१), ख॒नि॒ष्यन्तः॑ (४-१-८), अ॒ध्व॒र्यन्तः॑ (४-६-१४), अ॒रा॒ती॒यन्त᳚म् (३-१-१४), ?]
धृतान्ताविति किम् - पु॒रु॒नि॒ष्ठः (१-३-२४), सु॒प्र॒ति॒ष्ठा॒नः, उ॒त्तिष्ठन्न्, ओ॒षि॒ष्ठ॒हन᳚म् (१-४-२७,३१,३७), वि॒ष्ठाः (१-७-४६), प्र॒ति॒ष्ठा, ओ॒षि॒ष्ठ॒दाव्ने᳚
(१-६-४०,४८), प॒रि॒ष्ठाः (४-२-२६), र॒यि॒ष्ठा (३-४-६), अ॒ग्नि॒ष्ठाम् (६-३-२१), अ॒प्र॒ति॒ष्ठा॒नः (१-७-३०), प्र॒ति॒ष्ठाप्यः॑ (६-६-८); वा॒ज॒यन्तः॑
(१-४-५४), उ॒प॒यन्तः॑ (१-५-१), सु॒म्ना॒यन्तः॑ (१-५-५०), अ॒मि॒त्र॒यन्त᳚म् (१-६-४९), प्र॒ति॒ख्ष्यन्त᳚म् (४-१-९), आ॒यन्त᳚म् (४-१-१७),
अ॒पि॒यन्त᳚म् (४-६-४६), न॒म॒स्यन्तः॑ (६-६-१३) इत्यादि धृतान्तत्वाभावादिङ्ग्यमेव ।
अनुपसर्गकाविति किम् । उ॒प॒तिष्ठ॑ते (१-५-३३), अ॒भिष्ठि॑तः (१-४-४९), प्रति॑ष्ठितेन (१-६-४०), अप॑रावपिष्ठम् (४-१-१०), आय॑जिष्ठः (४-६-
५), उ॒त्तिष्ठ॑तः (७-४-३०), प॒रा॒भ॒वि॒ष्यन्तः॑ (२-५-४), उ॒द्यन्तः॑ (७-१-३४), प्र॒यन्तः॑ (७-५-४), अ॒भि॒व॒र्तय॑न्तः (७-५-२२), अ॒व॒क्राम॑न्तः,
अन॑पव्ययन्तः (४-६-२९), नि॒र्यन्तः॑ (६-२-५६), अ॒भि॒वद॑न्तः (७-५-२२), इत्याद्युपसर्गयुक्तत्वादिङ्ग्यमेव ॥ भू॒यि॒ष्ठ॒भाक्त॑मः (५-४-३९) इति तु
पदात्मकवर्णविकृतत्वात् इङ्ग्यम् (श्लो.४) ॥

मूलम् - 7.0.17

मू ॥ निस्संव्युक्थेर्मवीरासः पूर्णायुक् त्रिचतुस्स्वरम् । एतैकाद्यपि वाऽसोन्तम् तथायांसश्रुदन्तकम् ॥ १७ ॥
व्या ॥ निः, सं, वि, उक्थ, ईर्म, वीरासः, पूर्ण एतेषामन्यतमेन अयुक्तम्, त्रिचतुस्स्वरम् = त्र्यक्षरं चतुरक्षरम् वा, एतैकाद्यपि = एता, एका
एवमादि वा, असोऽन्तम् = ’असः’ इत्येतदन्तम् पदमनिङ्ग्यम् भवति ।
धीरा॑सः, अद॑ब्धासः (१-१-१५,१७), दे॒वा॒सः॒, यज्ञि॑यासः, भ्र॒मासः॑, अत॑न्द्रासः, स्वा॒नासः॑ (१-२-२,२८,३२,३४), अ॒यासः॑ (१-३-११), ओमा॑सः,
आदि॑त्यासः, मर्त्या॑सः, सु॒तासः॑ (१-४-१७,२३,३४,५३), प्रि॒यासः॑, अ॒न॒श्वासः॑ (१-६-५१), पर्व॑तासः, जनासः (१-७-४७,४८), तु॒रासः॑ (२-१-
६५), स्तोमा॑सः (२-२-६६), सो॒म्यासः॑, परा॑सः, पू॒र्वासः॑, उप॑रासः, प्र॒त्नासः॑ (२-६-६६,६७,६८), अकृ॑शासः (३-२-३३), भामा॑सः (३-३-३२),
कि॒त॒वासः॑ (३-४-४६), स्ते॒नासः॑ (४-१-३९), पु॒री॒ष्या॑सः, अश्वा॑सः, मेध्या॑सः (४-२-१६,४०,४५), घ॒र्मासः॑, अत्या॑सः, व॒थ्सासः॑ (४-३-
२१,३५), धू॒मासः॑, अ॒रु॒षासः॑ (४-४-१४), ई॒दृक्षा॑सः, स॒दृख्षा॑सः, मि॒तासः॑, ब्राह्म॑णासः, व्राता॑सः, शूर॑णासः, दि॒व्यासः॑ (४-६-२६,२९,३६,३७),
कृ॒क॒ला॒सः (५-५-५७), पू॒र्व्यासः॑ (७-५-५२) ।
ए॒का॒दशासः॑ (१-४-१२), ए॒ता॒दृक्षा॑सः (४-६-२६), अत्रिचतुस्स्वरत्वात् एतैकादीति पृथगुक्तम् । अन्यत्र तु, अवि॑दुष्टरासः (१-१-२८),
वात॑जूतासः, तु॒वि॒म्र॒क्षासः॑ (३-३-३२,३३), गृह॑मेधासः (४-३-३३), प्रति॑सदृख्षासः, सिलि॑कमध्यमासः (४-६-२६,३७) इत्यादीङ्ग्यमेव ॥ ’वास’
इत्यादि द्व्यक्षरेष्विङ्ग्यत्वानास्पदत्वात् ’त्रिचतुस्स्वर’मित्युक्तम् ।
निराद्ययुगिति किम् । नि॒र्या॒सः (२-५-४), सम्मि॑तासः (४-६-२६), वि॒शि॒खासः॑ (४-५-२६), उ॒क्थ॒शासः॑ (४-६-७), ई॒र्मान्ता॑सः (४-६-३७),
सु॒वीरा॑सः (१-५-२०), पू॒र्णमा॑सः (३-५-४), फ॒ल्गु॒नी॒, चि॒त्रा॒पू॒र्णमा॒सः (७-४-२९) । एतानि निराद्यन्यतमयुक्तत्वादिङ्ग्यमेव ॥
यांसश्रुदन्तकम् = ’यांस’ इत्यन्तम् पदं श्रुन्निर्देशेन यांसशब्दस्य विकृतत्वेऽप्यनिङ्ग्यम् । तथेति = त्रिचतुस्स्वरमिति विशेषणमेवानुवर्तते ।
निरादिभिर्योगासम्भवात् । श्रेयासम् (२-४-४), भूयासः (२-५-४), ज्यायासः (२-६-३०), वयासि (३-१-१), कनी॑यासः (५-१-१८),
द्राघी॑यासौ (५-२-२५), वसी॑यासम् (५-४-१८), ह्रसी॑यासम् (६-६-१५), रघी॑यासः (७-४-३१) इत्यादि । तथेति त्रिचतुस्स्वरमिति
विशेषणस्यानुवर्तनेन किम् । प॒क्षप्र॑वयासि (५-२-२५) इत्यादीङ्ग्यमेव ॥

मूलम् - 7.0.18

मू ॥ स्तान्मस्यन्तम् स्वतस्वन्तष्मतष्मन्तश्रुदन्तकम् । त्वतत्वन्तष्यतष्यन्त श्रुदन्तं नोपसर्गयुक् ॥ १८ ॥
व्या ॥ स्तात्, मसि, इत्येवमन्तम् पदमनिङ्ग्यम् । पु॒रस्ता᳚त् (१-१-२), प॒रस्ता᳚त् (१-५-२७), अ॒धस्ता᳚त् (२-६-१७), अ॒वस्ता᳚त् (३-५-१६);
ज॒या॒म॒सि॒ (१-१-२६), उ॒श्म॒सि॒ (१-३-१०), दी॒प॒या॒म॒सि॒, इ॒म॒सि॒ (१-५-११,२२), न॒या॒म॒सि॒ (३-२-३४), मि॒नी॒मसि॑, चरा॑मसि (३-४-४६),
द॒ध्मसि॑ (४-१-३८), पा॒र॒या॒म॒सि॒, भ॒रा॒म॒सि॒ (४-२-२८,२९), व॒दा॒म॒सि॒, त॒न्म॒सि॒ (४-५-२,२६), व्य॒या॒म॒सि॒ (४-६-१), धा॒र॒या॒म॒सि॒ (६-६-२७);
स्वत, स्वन्त, ष्मत, ष्मन्त, इत्येतदन्यतमान्तम् पदम् श्रुन्निर्देशेन स्वतादीनाम् विकृतत्वेऽप्यनिङ्ग्यम् । ऊर्ज॑स्वतीः, पय॑स्वतीः (१-१-१), सर॑स्वत्यै
(१-२-३), वय॑स्वते, तेज॑स्वते, ओज॑स्वते, भ्राज॑स्वते, भास्व॑तीम् (१-४-१३,३०,३१,३२,३५), सा॒र॒स्व॒तम्, दुव॑स्वते (१-८-३,१३), मन॑स्वते
(२-१-१६), सा॒र॒स्व॒ताभ्या᳚म्, पुस्व॑तीः (२-५-२३,४८), सह॑स्वते (२-६-६४), सर॑स्वतः, यश॑स्वतीः (३-१-३६,३९), सा॒र॒स्व॒तौ (३-५-४),
अ॒ङ्गि॒र॒स्वत् (४-१-३), व्यच॑स्वतीम्, प्रथ॑स्वतीम् (४-२-३६), विव॑स्वते, सह॑स्वत् (४-४-२१,३४), मन॑स्वतीभ्याम् (५-१-१४), सा॒र॒स्व॒त्यः॑
(५-६-४३), मेद॑स्वत् (६-३-६१), पीव॑स्वतीः (७-४-४३) इत्यादि । ऊर्ज॑स्वन्तं॒ पय॑स्वन्तम् (१-२-१४), वय॑स्वन्तः, यश॑स्वन्तः (१-५-२०),
मन॑स्वन्तम् (२-१-१७), तेज॑स्वन्तम् (२-२-१४), विव॑स्वन्तम् (२-६-७०), सर॑स्वन्तम् (३-१-३७), वर्च॑स्वन्तम्, ओज॑स्वन्तम्, भ्राज॑स्वन्तम्
(३-३-१), दास्व॑न्तम् (४-४-१७) इत्यादि । ह॒विष्म॑तीः (१-३-२१), ज्योति॑ष्मतीम् (१-४-३५), आयु॑ष्मते (२-२-१२), ज्योति॑ष्मतः (३-४-६)
इत्यादि । आयु॑ष्मन्तम् (२-२-१२), ज्योति॑ष्मन्तौ (२-६-११), ह॒विष्म॑न्तः (३-४-४३) इत्यादि ।
त्वत, त्वन्त, ष्यत, ष्यन्त इत्येतदन्यतमान्तं, नोपसर्गयुक् =उपसर्गैरयुक्तं पदं श्रुन्निर्देशेन त्वतेत्यादीनाम् विकृतत्वेऽप्यनिङ्ग्यम् ।
म॒रुत्व॑ते (१-४-१८), प्र॒व॒त्व॒ति॒ (२-२-६५), म॒रु॒त्व॒तीय᳚म् (४-४-५), द॒त्वते᳚ (७-५-३५) इत्यादि । म॒रुत्व॑न्तम् (१-४-१८) ।
क॒रि॒ष्य॒तः (४-१-१), श॒यि॒ष्य॒ते, जा॒ग॒रि॒ष्य॒ते, च॒ङ्क्र॒मि॒ष्य॒ते, क॒ण्डू॒यि॒ष्य॒ते (७-१-५०,५१), मे॒घा॒यि॒ष्य॒ते, स्त॒न॒यि॒ष्य॒ते, व॒र्षि॒ष्य॒ते, शी॒का॒यि॒ष्य॒ते,
प्रो॒षि॒ष्य॒ते (७-५-३३,३४) इत्यादि ।
पुष्य॑न्त्याः (१-२-१४), स॒रि॒ष्यन्तः॑, जे॒ष्यन्तः॑ (१-७-३७), ईर्ष्य॑न्तीः (२-३-२४), ख॒नि॒ष्यन्तः॑ (४-१-८), भ॒रि॒ष्यन्ती᳚, स॒नि॒ष्यन्ती॑नाम् (४-२-
११,२६) इत्यादि । नोपसर्गयुगिति किम् । स्वत॑वसः (४-१-४५), विव॑स्वद्वाते (४-४-३६), स॒न्तवी᳚त्वत् (१-७-३६), नि॒युत्व॑ते, नि॒युत्व॑न्तम्
(२-१-२), पू॒रु॒ष॒त्वता᳚ (४-१-४३), नि॒वे॒ख्ष्य॒ते, वी॒ख्षि॒ष्य॒ते (७-१-४९,५०), सं॒प्लो॒ष्य॒ते (७-५-३३), प॒रा॒भ॒वि॒ष्यन्तः॑ (२-५-४), प्र॒ति॒ख्ष्यन्त᳚म्
(४-१-९), इत्याद्युपसर्गयुक्तत्वादिङ्ग्यमेव ॥

मूलम् - 7.0.19

मू ॥ तवै तवे महै महे महिध्वमन्तकं तथा । उकश्रुदन्तकं यदप्यभावुकोपसर्गयुक् ॥ १९ ॥
व्या ॥ तवै, तवे, महै, महे, महि, ध्वम्, इत्येतदन्यतमान्तम्, तथेति उपसर्गायुगिति उत्तरार्द्धाल्लभ्यते । तथाभूतम् पदमनिङ्ग्यम् ।
हन्त॒वै (१-२-३४), स्तवै᳚ (१-६-४८), यात॒वै (६-२-३०);, के॒तवे᳚ (१-२-१७), तन्त॑वे (१-५-२४), जी॒वात॑वे (२-३-३९), अत्त॑वे (२-६-६५),
अस्त॑वे (४-५-२), गन्त॑वे (५-७-३१), अ॒के॒तवे᳚ (७-४-५१); वृ॒णा॒म॒है॒ (२-३-२५), वि॒न्दा॒म॒है॒ (२-५-५), ईडा॑महै (२-५-५६), सि॒ञ्चाम॑है,
अ॒श्ञवा॑महै (४-२-२२,२८), जा॒या॒म॒है॒ (५-५-१२), ह्व॒या॒म॒है॒ (६-१-४४), ज॒या॒म॒है॒ (६-२-३७), ह॒रा॒म॒है॒ (७-१-२२), आसा॑महै (७-५-७);
ई॒म॒हे॒, ह॒वा॒म॒हे॒, म॒ना॒म॒हे॒ (१-२-२,६), शपा॑महे (१-३-२०), व॒ना॒म॒हे॒, यजा॑महे (१-६-१३,३९), क॒रा॒म॒हे॒ (१-७-३२), हु॒वा॒म॒हे॒ (१-८-८),
ल॒फ्स्या॒म॒हे॒, या॒चि॒षा॒म॒हे॒ (२-१-९,६४), म॒न्या॒म॒हे॒ (२-५-४), स्त॒रा॒म॒हे॒ (२-६-६२), म॒रा॒म॒हे॒ (३-४-४१), भरामहे (४-५-२१), बा॒धा॒म॒हे॒, म॒न्म॒हे॒
(४-७-३२,३५), आ॒स्म॒हे॒ (५-२-४८), गृ॒ह्णी॒म॒हे॒ (५-७-३६); इ॒धी॒म॒हि॒, अ॒यु॒ज्म॒हि॒ (१-१-२०,२६), म॒न्दि॒षी॒म॒हि॒, अ॒ग॒स्म॒हि॒, छि॒थ्स्म॒हि॒ (१-२-
६,१७,१९), अग॑न्महि, अवृ॑णीमहि, ए॒धि॒षी॒महि॑, अ॒सृ॒ख्ष्म॒हि॒ (१-४-४६,४७,५१), धी॒म॒हि॒ (१-५-२४), धु॒क्षी॒महि॑ (१-६-१३), स॒चे॒म॒हि॒,
अ॒दि॒म॒हि॒, अम॑न्महि (१-८-९,११,१९), स॒क्षी॒महि॑ (२-१-६५), सी॒महि॑ (४-३-३०), हा॒स्म॒हि॒ (४-७-३०), अ॒शी॒म॒हि॒ (५-७-७), वि॒न्दे॒म॒हि॒ (६-
२-३९), सृ॒जे॒म॒हि॒, रु॒न्धी॒म॒हि॒ (७-२-१९), वृ॒ञ्जी॒म॒हि॒ (७-३-२२), अ॒रु॒थ्स्म॒हि॒ (७-५-७); प्या॒य॒ध्व॒म्, शुन्ध॑ध्वम्, पृ॒च्य॒ध्व॒म्, अ॒वृ॒णी॒ध्व॒म्,
त॒प्य॒ध्व॒म्, सृ॒ज्य॒ध्व॒म्, मा॒दय॑ध्वम् (१-१-१,४,७,११,१२,२४), र॒ख्ष॒ध्व॒म् (१-२-१४), रम॑ध्वम्, ऊ॒ढ्व॒म्, कृ॒णु॒ध्व॒म् (१-३-१२,१५,२४), जु॒ष॒ध्व॒म्
(१-४-११), मृ॒ढ्व॒म् (१-६-८), मि॒मी॒ध्व॒म्, मु॒च्य॒ध्व॒म् (१-७-३४,३७), म॒न्द॒ध्व॒म्, सु॒व॒ध्व॒म् (१-८-७,१९), व॒द॒ध्व॒म् (२-१-५६), वृ॒णी॒ध्वम् (२-
५-५०), र॒री॒ध्व॒म् (३-१-४१), ह्व॒य॒ध्व॒म् (३-२-११), यु॒ङ्ग्ध्वम् (३-४-२३), मो॒द॒ध्व॒म्, भ॒र॒ध्व॒म् (४-१-१७,४५), श्र॒य॒ध्व॒म् (४-२-३२),
ति॒र॒ध्व॒म्, अचि॑ध्वम् (४-३-३४,३५), जु॒हु॒ध्व॒म्, स॒ह॒ध्व॒म्, वी॒र॒य॒ध्व॒म्, र॒भ॒ध्व॒म्, क्रम॑ध्वम्, आ॒द्ध्व॒म्, पृ॒ण॒ध्व॒म् (४-६-४,१६,१७,२१,४०),
च्य॒व॒ध्व॒म् (४-७-२७), अ॒ज॒नि॒ढ्व॒म् (५-५-१३), कु॒रु॒ध्व॒म् (६-३-३), गृ॒ह्णी॒ध्व॒म् (६-४-३२), इ॒च्छ॒ध्व॒म् (७-१-१५) इत्यादि । अनुपसर्गयुगिति
किम् । अन्वे॑त॒वै (१-४-४९), अ॒भिच॑रित॒वै (५-६-११), प्रति॑धातवे (१-४-४९), स॒मार॑भामहै (२-४-५), स॒मव॑द्यामहै (६-२-८),
अ॒न्वार॑भामहे (१-७-४२), वि॒ह्वया॑महे (४-१-१५), स॒मध॑ध्वम् (१-७-३७), अ॒भ्याव॑र्तध्वम् (५-७-१६) इत्याद्युपसर्गयुक्तत्वादिङ्ग्यमेव ।
उक इति ॥ अभावुकोपसर्गयुक् = भावुकशब्देन उपसर्गैश्च अयुक्तम् उकश्रुदन्तकम् उकः इत्येतदन्तं पदम् श्रुन्निर्देशेन ’उक’ इत्यस्य
विकृतत्वेऽप्यनिङ्ग्यम् । ख्षोधु॑कः (१-६-२४), भावु॑कः (१-७-६)*, उ॒र्वा॒रु॒कम् (१-८-११), मारु॑कः (२-५-६), मा॒न्धु॒कः (३-४-२४), व॒सु॒कः
(३-५-९), क्रु॒मु॒कम् (५-१-४९), दशु॑काः (५-२-५३), वर्षु॑कः, अव॑र्षुकः, ग॒वीधु॑काः (५-४-४,१०), गा॒वी॒धु॒कम् (५-५-४०), हारु॑काः
(५-६-१९), कामु॑काः (६-१-४४), अर्धु॑कः, घातु॑कः (६-३-३,४७), ग्राहु॑कः (६-४-१), मोहु॑काः (६-५-११), घातु॑काः (७-१-१७),
अख्षो॑धुकाः (७-४-३५) इत्यादि । *अत्र भावुकशब्दस्य पृथक् स्थितत्वान्न निषेधः । अभावुकोपसर्गयुगिति किम् । उ॒द्बन्धु॑कः, उ॒न्मादु॑कः,
प्र॒मायु॑कः (२-५-७,५५), अनू᳚र्ध्वम्भावुकम् (२-६-२६), स॒मर्धु॑कम् (३-४-९), अव्य॑र्धुकः (५-३-३०), प्र॒पादु॑काः (५-६-३६), अ॒प॒क्रामु॑काः
(५-७-३७), प॒रा॒पातु॑काः, पा॒म॒न॒म्भावु॑काः (६-१-१९,२४), नि॒र्मार्गु॑काः, अन॑तिवादुकः (६-४-७,२१) इत्यादीङ्ग्यमेव ॥

मूलम् - 7.0.20

मू ॥ प्राङ्वागयुगगागङ्ङाङन्तम् चेन्नचतुस्स्वरम् । त्वान् षाडन्तम्सषोपेत वीवद्वान्मान्मदन्तकम् ॥ २० ॥
व्या ॥ प्राङ्वागयुक् = प्राङ्, वाक्, एताभ्यामयुक्तम्, अगागङ्ङाङन्तम् = अक्, आक्, अङ्, आङ्, इत्येतदन्यतमान्तम् पदमनिङ्ग्यम् ।
अ॒न्वक्, ति॒र्यक्, त्वक्, धा॒क् (१-१-२,७,१२), विष्व॑क्, अ॒र्वाक्, आ॒नु॒षक् (१-२-२८,३०,३१), वाक्, पृथ॑क् (१-३-१६,२६), प्राक्, अपा᳚क्,
उद॑क्, अ॒ध॒राक्, ऋध॑क् (१-४-२,४७), ता॒जक् (२-१-३५), अ॒भा॒क् (३-१-२९), भि॒षक् (४-५-२), आ॒यु॒न॒क् (४-६-३४), प्र॒त्यक् (५-६-
११), वि॒व्य॒क् (७-४-४१), प्र॒त्यङ्ङ्, पराङ्, विष्वङ्ङ् (१-५-४२), प्राङ् (१-७-३१)
, न्यङ्ङ् (२-४-२८), अ॒र्वाङ् (३-१-४१), अवाङ् (३-२-
१८), द॒ध्यङ्ङ् (३-५-३५), उदङ्ङ् (५-४-११), य॒द्रियङ्ङ्, त॒द्रियङ्ङ् (५-५-१,२) । प्राङ्वागयुगिति किम् । सुप्रा॑ङ॒जः (४-६-३९) [अपितु -
प्राङ्*], सु॒वाक् (१-२-२५) [अपितु - वाक्*], पु॒रु॒ष॒वाक् (५-५-५०), दु॒र्वाक् (६-२-४५) अत्र इङ्ग्यमेव । चेन्न चतुस्स्वरम् =
पूर्वोक्तमिनित्तयुक्तम् पदं चतुरक्षरञ्चेदनिङ्ग्यन्न । अ॒स्म॒द्रिय॑क् (१-४-२२), कवा॑तिर्यङ्ङ् (१-५-४२), उ॒पावा᳚स्राक् (१-६-४१), वि॒ष्व॒द्रिय॑क् (१-७-
४९), श॒तभि॑षक् (४-४-२८) इत्यादीङ्ग्यमेव । अज्रहितव्यञ्जनं न गणनीयम् ।
त्वान्, षाट्, इत्येतदन्यतरान्तं पदमनिङ्ग्यम् । म॒रुत्वान् (१-४-२०), चि॒कि॒त्वान् (३-१-११);, तु॒रा॒षाट् (१-७-५०), ऋ॒ता॒षाट् (३-४-१९),
पृ॒त॒ना॒षाट् (४-४-२), वि॒श्वा॒षाट् (४-४-२४) इत्यादि ॥
सषोपेतम् = सकारेण षकारेण वा युक्तम्, वीवद्वान्मान्मदन्तकम् = वी, वत्, वान्, मान्, मत्, एतदन्यतमान्तं च पदमनिङ्ग्यम् । वस्वी᳚ (१-१-
१५), ते॒ज॒स्वी (१-५-३५), ओ॒ज॒स्वी, भ्रा॒ज॒स्वी (३-३-१,२), व॒र्चस्वी, ह॒र॒स्वी (३-५-११), अ॒न॒स्वी (५-२-१०), रे॒त॒स्वी (५-५-१९), र॒ख्ष॒स्वी
(६-६-१०);, पय॑स्वत् (१-५-४५), अ॒ङ्गि॒र॒स्वत् (४-१-३), सह॑स्वत् (४-४-३४), स॒र्पिष्व॑त् (५-२-११), मेद॑स्वत् (६-३-६१); दुव॑स्वान्,
नभ॑स्वान् (१-३-५), पय॑स्वान् (१-४-५१), विव॑स्वान् (१-५-१२), ऊर्ज॑स्वान् (१-६-१०), मन॑स्वान् (१-७-४८), स॒र्पिष्वान्, प्रय॑स्वान् (३-४-
२८,४५), सर॑स्वान् (३-५-४), वर्च॑स्वान् (४-२-४१), सह॑स्वान् (४-६-१७), अव॑स्वान्, पर॑स्वान् (५-५-४५,५९); ह॒विष्मान् (१-३-२१),
चक्षु॑ष्मान्, आयु॑ष्मान् (१-६-६,७), ज्योति॑ष्मान् (१-८-२५), तुवि॑ष्मान् (२-३-५४); आयु॑ष्मत् (२-३-४०); सषोपेतमिति किम् । द्यावा॑पृथिवी
(१-२-२), ज्योगा॑मयावी (२-१-३), स॒र्पि॒र्ग्री॒वी (३-२-३२), त्र्य॒वी, प॒ञ्चा॒वी (४-७-१७), वै॒श्व॒दे॒वी (६-१-१५);, घृ॒तव॑त् (१-३-१८), नृ॒वत् (१-
४-२२), प्र॒त्न॒वत्, वी॒रव॑त् (२-२-६४,७१), वा॒ताव॑त् (२-४-१९), अम॑वत् (२-६-६३), औ॒र्वभृ॒गु॒वत्, अ॒प्न॒वा॒न॒वत् (३-१-४२), प्र॒स्थाव॑त् (४-
२-२३), नि॒धन॑वत्, प्र॒जाव॑त्, मि॒त्रव॑त् (४-३-४,८,३५), प्र॒या॒जव॑त्, अ॒नू॒या॒जव॑त् (६-१-३६), हरि॑वत् (६-६-४१); इन्द्रा॑वान् (१-१-२१),
इ॒न्द्रि॒यावान्, अम॑वान् (१-२-८,२८), प्र॒जावान्, इडा॑वान्, स॒भावान् (१-६-११,२०), स्ववान् (१-७-५०), भ्रातृ॑व्यवान्, वृष॑ण्वान् (२-१-
२४,६०), अन्न॑वान्, रस॑वान् (२-२-१५,१८), आ॒यत॑नवान् (३-१-२८), सुव॑र्वान् (३-४-२०), … शी॒र्ष॒ण्वान् (५-४-५२), क॒ख्षीवान् (५-६-
२२), वि॒षू॒वान् (७-४-१२); वृ॒ष्टि॒मान् (१-४-२१), बन्धु॑मान्, प॒शु॒मान् (१-५-४,३८), वसु॑मान्, गोमान्, अवि॑मान् (१-६-१८,२०), क॒कुद्मान्
(१-७-३३), शरु॑मान् (२-२-६६), शी॒र्ष॒क्ति॒मान् (२-६-५०), पु॒ष्टि॒मान्, द्यु॒मान् (४-२-१८,४८), ..; द्यु॒मत् (१-१-८), क्रतु॑मत् (१-८-३९),
मधु॑मत् (३-१-३२), अ॒शु॒मत् (३-२-४), के॒तु॒मत्, सु॒मत् (४-६-३३,४१), षो॒ड॒शि॒मत् (७-४-२६) इत्यादीङ्ग्यमेव । क॒त॒मत् (४-६-९) इति
तु श्लो.२५तः अनिङ्ग्यम् ॥

मूलम् - 7.0.21

मू ॥ चीनाञ्चाञ्चस्विनान्तश्रुत्त्वान्तम्मह्यभियुग्विना । अपि द्वादिश्च संख्याश्रुद्विहाय परनिप्रयुक् ॥ २१ ॥
व्या ॥ चीनाञ्चाञ्चस्विनान्तश्रुत् = चीन, अञ्च, आञ्च, स्विन इत्येतदन्यतमान्तं पदं श्रुन्निर्देशेन चीनादीनां विकृतत्वेऽप्यनिङ्ग्यम् । वि॒षू॒चीनान् (१-
१-२२), प्र॒ती॒ची॒नम् (१-४-१०), अ॒र्वा॒चीन᳚म् (१-४-३८), प॒रा॒चीन᳚म् (१-५-१६), प्रा॒चीन᳚म् (२-१-६४), प्रा॒चीना॑नि, प्र॒ती॒चीना॑नि, ति॒र॒श्चीन᳚म्
(२-६-५,४५), प॒रा॒चीना᳚ (४-५-२५), वि॒षू॒चीन᳚म्, वि॒षू॒चीना॑नि (५-२-३३,५१), स॒मी॒चीन᳚म्, स॒मी॒चीना॑नि (५-२-३४,५१), अ॒नू॒चीन᳚म् (६-
\३-४६), प॒रा॒चीना॑नि (६-५-३९), प्र॒त्यञ्च᳚म्, ति॒र्यञ्च᳚म्, अ॒न्वञ्च᳚म् (१-८-२३), स्वञ्च᳚म् (२-५-७४), प्राञ्च᳚म्, विष्व॑ञ्चम् (२-६-२७), स॒म्यञ्च᳚म्
(२-६-६४), उद॑ञ्चम्, न्य॑ञ्चम् (३-१-१०,४०), उ॒र्व्यञ्च᳚म् (४-४-११), अ॒र्वाञ्च᳚म् (४-७-३२), परा᳚ञ्चम् (६-३-१९); अ॒न्वञ्चौ᳚ (२-६-३३),
विष्व॑ञ्चौ (५-२-५९), अवा᳚ञ्चौ (५-३-१०), प्राञ्चौ᳚, प्र॒त्यञ्चौ᳚ (६-४-४३,४४); प्र॒तीचः॑ (३-४-२६), प्राचः॑, उदी॑चः (५-२-२७), परा॑चः, (६-२-
१७), प्र॒त्यञ्चः॑ (१-८-१), अ॒न्वञ्चः॑ (२-२-१०), परा᳚ञ्चः (२-४-१३), अ॒र्वाचः॑, अ॒र्वाञ्चः॑ (२-५-५०), स॒ध्रिय॑ञ्चः (३-१-४०), विष्व॑ञ्चः (३-३-
१९), स्वञ्चः॑ (४-३-३५), प्राञ्चः॑ (५-५-१०); न॒म॒स्विनः॑ (२-६-६३), ते॒ज॒स्वि॒न्, ओ॒ज॒स्वि॒न्, भ्रा॒ज॒स्वि॒न् (३-३-१,२), ओ॒ज॒स्विनी᳚ (५-५-
४२), य॒श॒स्वि॒न् (५-७-१५), म॒न॒स्विने᳚, रे॒त॒स्विने᳚ (७-५-३५)
मह्यभियुग्विना = महि, अभि एताभ्याम् युक्तादन्यत् त्वान्तम् पदमनिङ्ग्यम् । वि॒त्त्वा (१-१-२४), उ॒दि॒त्वा (१-६-२८), सू॒त्वा, ग्रा॒ह॒यि॒त्वा (२-१-
२४,३२), आ॒प्त्वा (२-२-३१), अगृ॑हीत्वा (३-२-२), म॒थि॒त्वा (५-१-४७), सु॒प्त्वा (५-२-१३), नी॒त्वा (७-४-३१), … मह्यभियुग्विनेति किम् ।
म॒हि॒त्वा (१-५-१०), [स॒जित्वा॑नम् (३-४-४४)?], म॒हि॒त्वना (४-१-२), अ॒भिस॑त्त्वा (४-६-१७) इत्यादीङ्ग्यमेव । परनिप्रयुग्विहाय = पर, नि,
प्र, एतैर्युक्तादन्यः, संख्याश्रुत्वं =संख्यावाचकशब्दः श्रुन्निर्देशेन तस्य विकृतत्वेऽप्यनिङ्ग्यः ।
च॒त्वा॒रि॒शत् (४-७-२०), त्रि॒शत् (६-२-२४), वि॒श॒त्यै, त्रि॒श॒ते᳚, च॒त्वा॒रि॒शते᳚, प॒ञ्चा॒शते᳚ (७-२-४७) इत्यादि ।
अपि द्वादिश्च- द्वा इत्येतदादिरपि संख्यावाचकशब्दोऽनिङ्ग्यः । द्वा॒वि॒शः (४-३-१५), द्वाद॒शी (५-७-५४), द्वाद॑श (६-२-२५) इत्यादि ।
द्वादिश्चेति वचनम् संख्यान्तरादेः संख्याशब्दस्य परिगणनार्थम् । संख्याश्रुदित्यनेन पञ्चदशेत्यादीनामनिङ्ग्यत्वसम्भवे द्वादेरेव संख्याशब्द-
स्यानिङ्ग्यत्वसंपादनाय द्वादिरित्युक्तम् । ’एकादश, षोडश’ इत्यनयोः एकादशश्रुतिः, षोडशश्रुत् इति वक्ष्यमाणविधिनाऽनिङ्ग्यत्वं सिद्धम् ।
परनिप्रयुग्विहायेति किम् । प॒रा॒र्धाय॑, नि॒युता॑य, प्र॒युता॑य (७-२-५०) इत्यादीङ्ग्यमेव ॥

मूलम् - 7.0.22

मू ॥ अग्रे भागा भगश्रुद्गिरिहरिसमनीकोर्जभद्राद्रिवृत्राऽऽवर्तिन्नाशाशुरफ्शिन्नुदसधसहसा धूस्स्वधातानरूप ।
देवत्वन्दानवोवाडुरुपुरुमहसो वाजिनी वाजविश्व श्रुज्जातश्रुद्वसावस्वृतघृतशतगात्वग्निमित्र त्रिलोक ॥ २२ ॥

मूलम् - 7.0.23

पते मते शुचिशिपिसत्यचक्षणाक्षपीतयो रयिरिशचंद्रचारिणि । भवो दुघेऽध्वरमघयज्ञवाहनप्रणीतयो हुततमतिग्मनिप्रनिः ॥ २३ ॥

मूलम् - 7.0.24

एभिर्युक्तं ह्रस्वभाग्युग्बहुस्वर्योदूदन्तं देवताद्वन्द्वकं च । हित्वा सर्वं नीचमन्यस्वरं चेन्नीचन्तच्चाप्येवमेवोहनीयम् ॥ २४ ॥
व्या ॥ अग्रे, भागा, भगश्रुत्, गिरि, हरि, सम्, अनीक, ऊर्ज, भद्र, अद्रि, वृत्र, आवर्तिन्न्, आशा, आशु, रफ्शिन्, उद, सध, सहसा, धूः, स्वधा,
तान, रूप, देव, त्वम्, दानवः, वाट्, उरु, पुरु, महसः, वाजिनी, वाज, विश्वश्रुत्, जातश्रुत्, वसा, वसु, ऋत, घृत, शत, गातु, अग्नि, मित्र, त्रि,
लोक, पते, मते, शुचि, शिपि, सत्य, चक्षण, अक्ष, पीतयः, रयि, रिश, चन्द्र, चारिणि, भवः, दुघे, अध्वर, मघ, यज्ञ, वाहन, प्रणीतयः, हुत,
तम, तिग्म, नि, प्र, निः - एभिरग्र इत्यादिभिर्युक्तं पदं हित्वा ह्रस्वभाग्युक् = प्रातिशाख्ये तृतीयाध्याये देवाशीकेत्यादि ह्रस्वभागवग्रहयुक्तं पदञ्च
हित्वा, बहुस्वर्योदूदन्तम् = बह्वक्षरवत्, ओकारान्तम्, ऊकारान्तम् पदञ्च हित्वा, देवताद्वन्द्वकं पदञ्च हित्वा अन्यत् नीचं अनुदात्तं, सर्वं
पदमनिङ्ग्यम् भवति । सर्वग्रहणं प्राप्त्यन्तरप्रतिषेधार्थम् । (उदा)
न॒र्दबु॒द॒ (३-३-३०), दै॒धि॒ष॒व्य॒ (३-२-१४), भु॒न॒जा॒ध्वै॒ (२-५-१४), आ॒यु॒ञ्ज॒न्न् (१-७-३३), आ॒म॒म॒त् (४-५-२१), आ॒यु॒न॒क् (४-६-३४),
पा॒प॒यि॒ष्ट॒ (३-२-३१), सी॒ष॒धा॒ति॒ (१-१-२६), चा॒क॒शी॒हि॒ (४-५-१), वि॒य॒न्तु॒ (४-३-३४), गो॒पा॒य॒ (३-३-२७), कृ॒ण॒व॒त् (३-२-१९), ऋ॒ध्नु॒व॒न्ति॒
(३-५-३०), आ॒र्ती॒ये॒ता॒म् (२-५-६४), आ॒स॒न्न् (३-५-३६) । एषामुपसर्गयुक्तत्वशङ्का सर्वग्रहणेन प्रतिषिध्यते । एवं सर्वत्रोन्नेयम् । एभिरित्यनेन
अग्रइत्यादिभिर्युक्तं हित्वेति किम् । अ॒ग्रे॒पु॒वः॒, अ॒ग्रे॒गु॒वः॒ (१-१-७);, सु॒भा॒गाः॒ (३-३-२८); भगश्रुदित्यनेन सु॒भ॒ग॒, सु॒भ॒गे॒ (३-३-३३,३६), भ॒ग॒वः॒
(४-१-३९) इत्यादिष्वपीङ्ग्यत्वम् । गि॒रि॒श॒न्त॒, गि॒रि॒त्र॒ (४-५-१,२);, ह॒र्यश्व॒ (१-७-४९), ह॒रि॒वः॒ (२-२-७), ह॒रि॒व॒र्ण (३-२-१७); स॒स्फा॒न॒ (३-
३-२४); पु॒र्वणी॒क॒ (१-३-२५/२६), स्व॒नी॒क॒ (३-५-३३);, ऊ॒र्जस॒ने॒ (१-३-३०);, भ॒द्र॒शो॒चे॒ (४-२-८);, अ॒द्रि॒वः॒ (७-४-४१);, वृ॒त्र॒ह॒णा॒ (१-१-
२५), वृ॒त्र॒ह॒न् (१-४-१,३८);, अ॒भ्या॒व॒र्ति॒न्न् (४-२-२);, आ॒शा॒पा॒लाः॒ (७-१-४१);, आ॒शु॒हे॒म॒न्न् (१-७-३३);, वि॒र॒फ्शि॒न्न् (१-१-१५);, उ॒द॒धे॒
(५-५-३७); स॒ध॒स्थ॒, स॒ध॒स्थाः॒ (५-७-३०);, स॒ह॒सा॒व॒न्न् (१-६-५१);, धू॒र्षा॒हौ॒ (१-२-१६);, स्व॒धा॒वः॒ (२-२-७०), आ॒ता॒न॒ (१-३-१५);,
वि॒रू॒प॒ (२-६-६२);, दे॒व॒य॒ज॒नि॒ (१-१-१३), दे॒व॒यो॒ (१-८-४१); त्वं॒वे॒द॒ (१-६-४२);, सु॒दा॒न॒वः॒ (१-८-४);, सु॒व॒र्वा॒ट् (३-२-२९);, उ॒रु॒क्र॒म॒ (३-
२-४२);, पु॒रु॒हू॒त॒ (१-६-५१), पु॒रु॒प्रि॒य॒ (४-४-१२), पु॒र्वणी॒क॒ (१-३-२५);, वि॒म॒ह॒सः॒ (४-२-४७);, वा॒जि॒नी॒व॒ति॒ (१-७-३४);, वा॒ज॒जि॒तः॒ (१-
७-३७);, वि॒श्व॒श॒म्भु॒वः॒ (१-२-३) । विश्वशब्दश्श्रुन्निर्दिष्टः, तस्मात् - वि॒श्व॒वा॒र॒ (१-४-५), वि॒श्व॒दे॒व्य॒ (१-८-३९), वि॒श्व॒क॒र्मन्न् (३-२-३०),
वि॒श्व॒च॒र्षणे॒ (३-४-४४/४५), वि॒श्व॒मि॒न्व॒ (३-१-४१), वि॒श्व॒वा॒रे॒ (३-५-१), वि॒श्व॒रू॒पे॒ (४-२-१९) इत्यादिष्वपीङ्ग्यत्वम् । जा॒त॒वे॒द॒सौ॒ (१-३-
१३) - श्रुन्निर्दिष्टत्वात्, जा॒त॒वे॒दः॒ (१-४-५२), सु॒जा॒ताः॒ (३-१-२४), ऋ॒त॒जा॒त॒ (३-२-४४), दि॒वि॒जा॒त॒ (४-३-३०), स॒जा॒ताः॒ (४-६-१७)
इत्यादिष्वपीङ्ग्यत्वम् । व॒सा॒पा॒वा॒नः॒ (१-३-१९);, व॒सु॒नी॒थ॒ (४-२-१३);, [ऋ॒ता॒व॒रीः॒ (१-१-४), ऋ॒ता॒वृ॒धा॒ (१-४-६)]?, ऋ॒त॒ज्ञाः॒ (१-७-३५),
ऋ॒त॒प्र॒जा॒त॒ (१-८-४०), ऋ॒त॒पाः॒, ऋ॒त॒जा॒त॒ (३-२-२९,४४);, घृ॒त॒यो॒ने॒, घृ॒त॒पा॒वा॒नः॒ (१-३-६,१९);, श॒त॒क्र॒तो॒ (१-६-४६,४८), श॒त॒क्र॒त्वः॒ (४-
२-२४), श॒त॒मू॒र्धन्न् (४-६-२३);, गा॒तु॒वि॒दः॒ (१-१-२४);, अ॒ग्नी॒त् (२-६-२९);, मि॒त्र॒म॒हः॒ (१-२-३३) [मि॒त्रा॒व॒रु॒णा॒, मि॒त्रा॒व॒रु॒णौ॒ (१-४-६,३-२-
४३)?];, त्रि॒णा॒म॒न्न् (२-१-६२);, लो॒क॒कृ॒तौ॒ (१-१-२१);, प॒वि॒त्र॒प॒ते॒, व्र॒त॒प॒ते॒ (१-२-२,२०), य॒ज्ञ॒प॒ते॒ (१-४-४८), गृ॒ह॒प॒ते॒ (१-५-२४), प॒शु॒प॒ते॒
(३-१-११), र॒यि॒प॒ते॒ (३-२-७), नृ॒प॒ते॒ (४-१-९), ऋ॒तु॒प॒ते॒ (४-३-३२), प्र॒जा॒प॒ते॒ (७-४-५१);, अ॒नु॒म॒ते॒ (३-३-३४), शु॒चि॒पाः॒ (३-४-५);,
शि॒पि॒वि॒ष्ट॒ (२-२-६७);, स॒त्य॒ता॒ते॒ (१-२-३३);, वि॒च॒क्ष॒ण॒ (२-४-४७);, स॒ह॒स्रा॒क्ष॒ (४-६-२२);, स॒पी॒त॒यः॒ (२-४-२१);, र॒यि॒वः॒ (१-३-२६),
र॒यि॒प॒ते॒ (३-२-७);, रि॒शा॒द॒सः॒ (४-३-३१);, सु॒श्च॒न्द्र॒ (२-२-७०);, वि॒चा॒रि॒णि॒ (२-२-६६);, सु॒भ॒वः॒ (१-४-३);, का॒म॒दु॒घे॒ (४-२-२३);, स्व॒ध्व॒र॒
(४-१-१४);, म॒घ॒व॒न्न् (१-४-४);, य॒ज्ञ॒प॒ते॒ (१-४-४८), य॒ज्ञ॒वा॒ह॒सः॒ (४-२-४७);, क॒व्य॒वा॒ह॒न॒ (२-६-६९);, सु॒प्र॒णी॒त॒यः॒ (२-६-६६);, आ॒हु॒त॒
(४-६-१२);, अ॒ङ्गि॒र॒स्त॒म॒ (१-३-२६), चि॒त्र॒श्र॒व॒स्त॒म॒ (४-४-१२), मी॒ढु॒ष्ट॒म॒ (४-५-४);, ति॒ग्म॒हे॒ते॒ (१-२-२९), ति॒ग्म॒ज॒म्भ॒ (४-४-१४);,
नि॒च॒ङ्कु॒ण॒ (१-४-५०);, प्र॒चे॒तः॒ (१-५-४९), प्र॒पि॒ता॒म॒ह॒ (१-८-७), प्र॒य॒ज्य॒वः॒ (४-३-३४);, नि॒र्ऋ॒ते॒ (१-८-१) । भव इत्याद्यन्यतमयुक्तत्वा-
दिङ्ग्यान्येव । ह्रस्वभाग्युक् हित्वेति किम् । शु॒द्धा॒यु॒वः॒ (१-३-१५), इ॒न्द्रि॒या॒वः॒ (६-५-२८/२९), च॒र्ष॒णी॒धृ॒तः॒ (१-४-१७) इत्यादीन्यनुदात्तान्यपि
देवाशीकेत्यादि ह्रस्वभागवग्रहयुक्तत्वादिङ्ग्यान्येव ।
बहुस्वर्योदूदन्तम् हित्वेति किम् । अ॒द॒ब्धा॒यो॒ऽशी॒त॒त॒नो॒ (१-१-२४), सु॒क्र॒तो॒ (३-४-४४), वि॒भा॒व॒सो॒ (१-१-२८), च॒म॒सा॒ध्व॒र्यो॒ (६-४-१४),
वृ॒ष॒ण्व॒सू॒ (४-१-५), सु॒क्र॒तू॒ (१-८-४०) इत्यादीनि बहुस्वरवदोकारोकारान्तत्वादिङ्ग्यान्येव । बहुस्वरीति विशेषेण किम् । उ॒रु वि॑ष्णो (१-३-६)
इत्याद्यनिङ्ग्यमेव । देवताद्वन्द्वव्यतिरिक्तानि हित्वेति किम् । इ॒न्द्रा॒ग्नी॒ (१-१-२५), इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ (३-३-३२), इ॒न्द्रा॒प॒र्वता॒ (२-१-६०), द्या॒वा॒पृ॒थि॒वी॒
(३-२-१४) इत्यादीन्यनुदात्तान्यपीङ्ग्यान्येव । अन्यस्वरञ्चेन्नीचन्तच्चाप्येवमेवोहनीयमिति । नीचम् = उक्तप्रकारे-ण नीचत्वेन अनिङ्ग्यभूतम्
पदमित्यर्थः । अन्यस्वरञ्चेत्, नीचादन्यैः स्वरितादिभिर्युक्तञ्चेत्, तच्चापि तत्पदमपि, एवमेव अनिङ्ग्यमेव ऊहनीयम् । उक्तप्रकारेण नीचत्वेन
अनिङ्ग्यभूतम् पदं क्वचित् स्वरितादिभिर्युक्तञ्चेत् तत्पदमपि इतस्ततो विकीर्णत्वान्निपुणैः अनिङ्ग्य-मेवोहनीयमित्यर्थः । वि॒य॒न्तु॒ । गो॒पा॒य॒ । कृ॒ण॒व॒त्
। वि॒दे॒य॒ (१-२-१२) । आ॒स॒न्न् (१-५-१) । वि॒धे॒म॒ (४-१-३२) । इत्यादिषु वियन्त्वि-त्यादीनां नीचत्वेनानिङ्ग्यत्वं निश्चितम् । वि॒यन्तु॑ (१-१-२२),
वि॒धेम॑ (४-६-२४), गो॒पा॒य (१-२-६), कृ॒णव॑त् (४-२-८), आ॒सन्न् (१-४-१४), आसन्न् (६-६-४२), वि॒देय॑ (१-६-१४) इत्यादिषु
स्वरितादिभिर्युक्तानामपि वियन्त्वित्यादीनाम् अनिङ्ग्यत्वमूहनीयमित्यर्थः ॥
॥ इति परिभाषा ॥