07 आवर्णि

मूलम् - 6.1.1

॥ अथ आवर्णि प्रकरणम् ॥ ६ ॥
मू ॥ आग्नीध्राग्रयणाज्योपावर्ताप्नोत्यायुधश्रुतिः । आशीराहवनीयाग्नेयाग्नामुष्यायणश्रुतिः ॥ १ ॥
(अव) इदानीं श्लोकत्रयेण पूर्ववत् विभक्तिभिर्भिन्नाकाराण्याकारादीनि पदान्याह -
व्या ॥ आग्नीध्र । आग्रयण । आज्य । उपावर्त । आप्नोति । आयुध । आशीः । आहवनीय । आग्नेय । आग्ना । आमुष्यायण । एते शब्दाः
श्रुतिशब्देन विभक्त्यादिभिर्भिन्नाकारा अपि आकारादय इति ज्ञेयाः । उदा -
(आग्नीध्र) -ऋ॒चाऽऽग्नी᳚ध्रम् (३-१-१७), अ॒न्तरि॑क्षमि॒वाऽऽग्नी᳚ध्रम् (५-४-२७), उत्त॑रे॒णाऽऽग्नी᳚ध्रम् (६-३-६,७-१-२६), स॒हाऽऽग्नी᳚ध्रम् (७-१-
२७), ह॒वि॒र्धान॒ञ्चाग्नी᳚ध्रम् (७-२-३), ऋ॒चाऽऽग्नी᳚ध्रे जुहुयात्, जुहोति (३-१-१०,६-३-१,९)ध्रेति किम् - दक्षि॑णाऽग्नीषो॒मीय᳚म् (१-८-१) अत्र
आकारादि न ।
(आग्रयण) - साऽऽग्र॑य॒णं प्रति॑ (६-४-४९), व॒र्तन्याऽऽग्र॑य॒णस्य॑ (२-३-४०) [(आग्रयण) - आ॒ग्र॒य॒णस्या᳚ग्रयण॒त्वम् (६-४-४९)?]
(आज्य) - जि॒न्वाऽऽज्य॒स्याऽऽज्य॑मसि (१-६-१), अ॒नूच्याज्य॑भागस्य (२-६-९), उत्त॒राऽऽज्य॑स्य (५-२-३९)
(उपावर्त) - उ॒पाव॑र्तते (५-४-२८), उ॒पाव॑र्तत (१-७-३), उ॒पाव॑र्तन्ते (५-२-२४), उ॒पाऽऽव॑र्तन्त (२-४-१४), उ॒पाव॑र्तेताम् (६-१-१७),
उ॒पाव॑र्तेत (५-४-४४), उ॒पाव॑र्थ्स्यन्ति (२-४-१२), उ॒पा॒व॒र्थ्स्यतः॑ (६-१-१७), इ॒यमु॑पाव॒र्थ्स्यति॑ (२-४-९,६-२-३४) उपेति किम् - स
द॑क्षि॒णाऽऽऽव॑र्तत (५-७-४०), शृङ्गा॑णि॒ प्राव॑र्तन्त (७-५-८) (अत्र न)
(आप्नोति) - प्राप्नु॑ताम् (२-१-५७), न परां॒ प्राप्नो॑ति (२-५-२५), उ॒पा॒प्नोति॑, उपा᳚प्नोति (१-६-२९), प्रा॒प्नु॒यात् (२-१-३०), प्राप्नु॑वन्न्, तेन॒ नाप्नु॑वन्न्
(६-३-३,७-४-१५), प्राप्नो᳚त् (७-१-३७), प्राप्नु॑वन्ति (७-४-१९)
(आयुध) - यत्रायु॑धम् (४-६-२९), तृ॒तीये॒नायु॑धम् (६-५-१६), चा॒यु॒धिने॑ च (४-५-१५), ति॒ग्मायु॑धा॒ रख्ष॑से (१-२-३४), वै य॑ज्ञाऽऽयु॒धानि॑
(१-६-२६,२७,५-४-३९,४०), श॒ताऽऽयु॑धाय (५-७-६),
(आशीः) - य॒ज्ञस्या॒शीः, साशी᳚र्केण (१-६-३६,३७), स॒त्याऽऽशीः (१-६-९,२-३-२), इत्या॑हा॒ऽऽशिष᳚म् (१-५-३०,…), ए॒वाशिष᳚म् (२-३-
२,.), चा॒शिष᳚म् (२-६-४०), य॒ज्ञस्या॒शिष᳚म् (२-६-५२,५३), आ॒हा॒शिषा᳚ (१-५-१३)
(आहवनीय) - क्वा᳚स्याऽऽहव॒नीयः॑ (५-७-१४), त्वष्टा॑ऽऽहव॒नीय᳚म् (२-४-३६,२-५-८), अ॒न्त॒राऽऽह॑व॒नीय᳚म् (६-२-३१,६-५-४),
अ॒भि॒षुत्या॑ऽऽहव॒नीये᳚ (६-२-५९), चा॒ऽऽह॒व॒नीय॑ञ्च (६-३-५३), प॒र्या॒णीया॑ऽऽहव॒नीय॑स्य (७-१-२६), स॒त्रस्यर्ध्या॑ऽऽहव॒नीय॑स्य (७-५-२३);
(आग्नेय) - तेना᳚ऽऽग्ने॒यः (२-३-१८), उ॒द्य॒ता, दक्षि॑णाऽऽग्ने॒यम॒ष्टाक॑पालम् (१-८-२,६,१२,१५), अ॒गृ॒ह्ण॒ता॒ऽऽग्नेयम् (६-६-३२), तेना᳚ऽऽग्ने॒याः (५-
५-१), ए॒वाऽऽग्ने॒येन॑ (२-४-१७,६-६-२०), तेना᳚ऽऽग्ने॒यस्य॑ (२-३-१६), आल॑भन्त, ल॒भे॒ता॒ऽऽग्ने॒यीम् (२-१-१०,११)
(आग्ना) - दक्षि॑णाऽऽग्नावैष्ण॒वम् (१-८-१,१४), प्र॒हृत्या᳚ऽऽग्नावैष्ण॒वेन॑ (२-५-२३), धारा᳚ऽऽग्नावैष्ण॒व्या (५-७-१०)
(आमुष्यायण) - अ॒मुष्या॑ऽऽमुष्याय॒णस्य॑ (३-४-२७) ॥

मूलम् - 6.1.2

मू ॥ आत्मशब्दो नोरसादिरायुश्शब्दो नघात्परः । अन्तोदात्तो निहतो वाप्यादित्यश्रुतिरिष्यते ॥ २ ॥
व्या ॥ आत्मशब्दः विभक्त्यादिभिर्भिन्नोऽप्याकारादिः । उदा -
(आत्म) - त्रे॒धा, होता॒ऽऽत्मान᳚म् (२-४-३८,६-६-५), ए॒षाऽऽत्मा (३-४-४), स्वाहा॒ऽऽत्मने᳚ (७-३-३८,.), नाऽऽत्मनो॒ मात्रा᳚म् (२-२-३३),
नि॒र्भज्या॒ऽऽत्मनः॑ (२-६-२२), अ॒स्या॒ऽऽत्मनः॑ (५-६-३१), नात्मना᳚ (२-५-२४), ए॒वात्मना᳚ (२-६-४२), स॒स्कृत्या॒त्मना᳚ (५-६-
२६),अपा᳚ऽऽत्मानम॒ग्निञ्चि॑नु॒तेऽपा᳚ऽऽत्मा, साऽऽत्मा॑नमे॒वाऽग्निञ्चि॑नुते॒ साऽऽत्मा᳚ (५-५-३६), ए॒वात्मन्न् (१-५-३२), कु॒र्वी॒तात्मन्न् (१-७-६),
तेना॒त्मन्न् (२-४-६), स॒म्भृत्या॒त्मन्न् (५-६-१४), आ॒हा॒त्मन्न् (५-७-३७) .. उरसादिश्चेदकारादिर्न । (उरसादि आत्म) - स॒मीची॒ उर॑सा॒ त्मना᳚ (४-
१-११) अत्र न ।
आयुश्शब्दः विभक्त्यादिभिर्भिन्नोऽप्याकारादिः । उदा -
(आयुः) - दृ॒हाऽऽयुः॑ (१-१-१०), य॒ज्ञस्याऽऽयुः॑ (१-५-४६), अ॒र्यमाऽऽयुः (४-६-३९), एक॒याऽऽयुः॑ (७-४-३३), स्व॒य॒मा॒तृ॒ण्णा-ऽऽयुः॑ (५-
३-३३), पुन॑रग्न इ॒षाऽऽयु॑षा (१-५-१२,४-२-३), त्वाऽऽयु॑षा (२-३-४०), आ वर्तस्वाऽऽयुषा (४-२-२), पु॒राऽऽयु॑षः (३-२-२,३),
शुष्मा॒याऽऽयु॑षे (३-२-१७), कामा॒याऽऽयु॑षे (७-५-३७), दे॒व॒य॒ज्ययाऽऽयु॑ष्मान् (१-६-७,११,४५,१-७-१५), ए॒वाऽऽ-यु॑ष्मन्तम् (२-२-१२),
ब्रह्माऽऽयु॑ष्मत्, आयु॒षाऽऽयु॑ष्मन्तम्, स्व॒धयाऽऽयु॑ष्मन्तः (२-३-४०), ब्र॒ह्माऽऽयु॑ष्मत्याः (३-२-२६) । घात्परः घकारात्परश्चेत् आकारादिर्न ।
उ॒त्त॒र॒तो॑ऽघा॒युः (५-७-९) (अत्र न)
अन्तोदात्तः निहतो वा अनुदात्तो वेत्यर्थः । एवं भूतः आदित्यशब्दः विभक्त्यादिभिन्नोऽपि आकारादिः । उदा -
(आदित्य) - उ॒प॒श्रो॒ता, ए॒तस्य॑, पा॒र॒या॒ऽऽदि॒त्यः (३-३-२६,५-३-४२,७,५,४६), तुरी॑यादित्य (१-४-२३), ऋ॒तेना॑ऽऽदित्याः (२-१-६४),
छन्द॑सा, ए॒व, यथा᳚, वा॒, द्वाद॑श, अथ॑, त्वा॒, येना॑ऽऽदि॒त्याः (१-१-१५,१-५-१६,२-१-६२,२-३-१,३-४-९,३-५-२,४-२-१३,५-७-५), त्वा॒, ए॒व,
साऽऽदि॒त्येभ्यः॑* (१-१-२२,२-३-१,६-५-१८), त्वा॒, वि॒श्वक॑र्माऽऽदि॒त्यैः (१-२-२३,६-२-३८), त्वा॒, वरु॑णायाऽऽ-दि॒त्यव॑ते* (१-४-१,२-२-
६३), च॒कार॑, दख्षि॑णा, ए॒वाऽऽदि॒त्यं (१-८-१,१५,२-१-२१,४८,५९), दख्षि॑णाऽऽदि॒त्याम् (१-८-३५), ल॒भे॒त॒, त्वा॒, आ॒स्ये॑न,
अ॒ति॒रा॒त्रेणा॑ऽऽदि॒त्यान् (२-१-१०,४-४-२,५-७-४४,७-१-१६), द्वि॒तीया॑ऽऽदि॒त्याना᳚म् (५-७-४९), आ॒हा॒ऽऽ-दि॒त्यस्य॑* (६-३-४३,६-४-
२४) *त्ये,त्य इत्येतयोः उदात्तत्वात् अन्तोदात्तत्वम् । भ्यः, स्य, वते इत्येतेषां स्वरितत्वात् स्वरितान्तत्वात् कथं आकारादि विधिः इति चेत्
मैवम् । अत्र प्रातिपदिकमात्रग्रहणस्यैव इष्टत्वात् ।
अन्तोदात्तो निहतो वेति किम् - प्रति॒ त्वाऽदि॑त्या॒स्त्वक् (१-१-८,९), यज॑माना॒याऽदि॑त्यै (४-१-२१), अदि॑त्यै॒वाऽदि॑त्याम् (५-१-३५),
स्वाहाऽदि॑त्यै (७-३-३६) अत्र निमित्तद्वयस्याप्यभावात् आकारादिः न ॥

मूलम् - 6.1.3

मू ॥ आश्विनारण्यशब्दौ चाप्यन्तोदात्तश्रुतौ श्रुतिः । आहुत्यायतनयोश्च शब्दौ नापूर्वकौ न तु ॥ ३ ॥
व्या ॥ आश्विन । आरण्य । एतौ शब्दौ अन्तोदात्तश्रुतौ यदि विभक्त्यादिभिर्भिन्नाकारावपि आकारादी । उदा -
(आश्विन) - दक्षि॑णाऽश्वि॒नन्द्वि॑कपा॒लम् (१-८-१६), यस्या᳚ऽऽश्वि॒ने श॒स्यमा॑ने (२-१-५९)
(आरण्य) - प॒शुषु॑ हि॒तो नाऽऽर॒ण्येषु॑ (५-४-१६), तेन॑, न, शु॒चा, व्या॒घ्रेणा॑ऽऽर॒ण्यान् (१-६-२४,५-२-५३,५-५-२३,७-३-३५),
प॒शुर्नाऽऽर॒ण्यः (२-१-५८), स॒प्त, अ॒स्तु॒व॒त॒, इ॒वा॒ऽऽर॒ण्याः (२-४-,४-३-,५-४-५७), नाऽऽर॒ण्येषु॑ (५-४-१६) । अन्तोदात्तश्रुताविति किम् -
साऽश्विनोः᳚, आ ल॑भेता॒ऽश्विनौ᳚ (२-१-५६), आ॒हा॒ऽश्विनौ᳚ (२-३-४२), सु॒शेवा᳚, य॒ज॒स्व॒, वै॒श्वा॒न॒राया॒ऽश्विना᳚ऽध्व॒र्यू (४-१-७,८,९), नाऽर॑ण्ये॒
यम् (२-१-५८), प॒रि॒च॒रायाऽर॑ण्यानाम् (४-५-७), पु॒रु॒त्राऽर॑ण्येषु (४-६-३७), स॒सू॒देनाऽर॑ण्यम् (५-७-४३), स्वाहाऽर॑ण्याय (७-१-४६)
इत्यादिषु अन्तोदात्तत्वाभावात् आकारादी न ।
आहुति । आयतन । एतौ शब्दौ च पूर्ववत् । उदा -
(आहुति) - स्वाहा᳚, ए॒वाऽऽहु॑तिम् (१-८-१,५-७-११), पु॒रु॒षा॒ऽऽहु॒तिर्हि (२-२-१०), घृ॒ता॒ऽऽहु॒तिः (२-५-५२), अ॒स्याऽऽहु॑तयः (३-५-२२), सा
यत्र॑, अ॒न्यथा, ए॒षाऽऽहु॑तिः (३-५-२४,५-४-४६,५-७-१३), सौ॒म्ययै॒व, अ॒जा, प॒ङ्क्त्या, एक॑या, आ॒हाऽऽहु॑त्या (२-४-२५,५-४-१०,५-४-
१९,६-१-१०,६-४-१४), घृ॒ते॒ना॒ऽऽहु॒त॒ (४-६-१२), पञ्चाऽऽहु॑तीः (५-४-४५) ।
(आयतन) - साऽऽय॑तनमे॒वैन᳚म् (५-१-८), ए॒व, आ॒ग्र॒य॒णस्य॑, ऐ॒न्द्र॒वा॒य॒वस्य॑, शु॒क्रस्या॒ऽऽयत॑ने (१-६-२१..,७-२-३२,३३), पुरी॑षाऽऽयतनः
(५-१-८), य॒ज॒मा॒ना॒ऽऽय॒त॒नम् (५-३-३१,५-४-५४), वेदा॒ऽऽयत॑नवान् (५-६-९), यज॑मानस्य, अ॒स्या॒ऽऽयत॑नम् (६-२-२९,६-६-३७),
ए॒तेन॑, अ॒ग्निना॒ऽऽयत॑नेन (७-१-१५), य॒था॒ऽऽय॒त॒नम्, य॒था॒ऽऽय॒त॒नात् (७-५-१८) ।
आहुत्यायतनशब्दौ नापूर्वकौ यदि आकारादी न । (नापूर्वं आहुति) - अना॑हुति॒र्वै ज॒र्तिला᳚श्च (५-४-१०); (नापूर्वं आयतन) - अ॒ना॒य॒त॒नाः (३-१-
२७,२८,७-१-१७) ॥

मूलम् - 6.1.4

मू ॥ उपाकुर्यादपोपादि चाकरोत्याकृताय च । इष्टिष्वाकाल आकूत्या कुर्वन्नाकूतिराकृतम् ॥ ४ ॥
व्या ॥ उपाकुर्यात् इत्येतत् आकारादि । ’अप, उप’ एतदादि चेत् आकरोति इत्येतत् आकारादि । आकृताय इत्येतत् आकारादि ।
द्वितीयकाण्डस्य अन्त्यानुवाकरहितानां द्वितीयतृतीयचतुर्थप्रश्नानाम् ’इष्टय’ इति संज्ञा ।
तथा च काण्डानुक्रमिण्याम् - ’प्रश्नास्त्रयः परे नान्याः इष्टयः परिकीर्तिताः’ इति । तासु इष्टिषु ’आकाल’ इत्याकारादिः । आकूत्या । आकुर्वन्न् ।
आकूतिः । आकृतम् । एतान्याकारादीनि ।
उपाकुर्यात् - स्तो॒त्रम्, प्रा॒त॒र॒नु॒वा॒कमु॒पाऽऽकु॑र्यात् (३-१-८,७-५-१३), अगृ॑हीत्वोपाकु॒र्यात् (३-२-२) । उपेति किम् - नि॒र्मन्थ्यं॑ वा कुर्यात् (३-१-
१०) (अत्र न)
आकरोति (अपादि) - यद्व॒थ्सान॑पाऽऽक॒रोति॑ (२-५-३१)
आकरोति (उपादि) - ए॒ताभ्या᳚म्, उ॒द्गा॒तृभ्यः॑, वा॒य॒व्य॑या, प्रा॒त॒र॒नु॒वा॒कम्, स्तो॒त्रमु॒पाऽऽक॑रोति (३-१-१५,३-३-३,३-४-१०,६-४-१३,६-६-४३)
अपोपादीति किम् - तथा॑ करोति (१-५-४०,२-५-३२,.), स्व॒गा क॑रोति (२-६-५८), मि॒थु॒न सा॑रस्व॒त्या क॑रोति (६-६-२०)
आकृताय - उ॒पाऽऽकृ॑ताय॒ स्वाहा᳚ (५-७-५२,७-४-४२)
आकाले (इष्टिषु) - प्रा॒त॒स्स॒व॒नस्या॑ऽऽका॒ले (२-२-५०,५१) । इष्टिष्विति किम् - आ॒प्त्त्वा का॒ल आग॑ते (५-५-७)
आकूत्या - स्वाहेत्या॒हाऽऽकू᳚त्या॒ हि (६-१-११)
आकुर्वन्न् - अ॒ध्व॒र्युरु॒पाऽऽकु॑र्वन्न् (३-३-३)
आकूतिः - चाऽऽकू॑तिश्च (३-४-१५), मम॒ यानि॑ ह॒व्याऽऽकू॑तिः (४-७-३०)
आकृतम् - उ॒पाकृ॑त शशमा॒नम् (३-१-१३), अ॒पाकृ॑तं॒ गौः (६-४-५१) ॥

मूलम् - 6.1.5

मू ॥ आक्रन्दयत आक्रम्या तथाऽऽक्रमणमित्यपि । आकूताय तथाऽऽकृत्या कूतमाखर आगमन्न् ॥ ५ ॥
व्या ॥ आक्रन्दयते । आक्रम्या । आक्रमणं । आकूताय । आकृत्य । आकूतम् । आखरे । आगमन्न् । एतानि पदानि आकारादीनि । उदा -
आक्रन्दयते - उ॒च्चैर्घो॑षायाऽऽक्र॒न्दय॑ते (४-५-६)
आक्रम्या - तस्मा॒न्नाक्रम्या᳚ (५-६-२४)
आक्रमणं - ऋ॒चाऽऽक्रम॑णं॒ प्रति॑ (५-५-३०), आ॒हा॒ऽऽक्रम॑णम् (६-५-११)
आकूताय - य॒त्रा॒ऽऽकू॒ताय॑ मनुष्यर॒थः (५-४-४७)
आकृत्य - उ॒पा॒ऽऽकृत्य॒ पञ्च॑ जुहोति (३-१-१५), उ॒पा॒ऽऽकृत्यै॒व मन्थ्यः॑ (६-३-२९)
आकूतम् - चित्ति॒श्चाऽऽकू॑तम् (३-४-१५)
आखरे - मृ॒गा॒ऽऽख॒रे यदि॒ न (७-५-४८)
आगमन्न् - दे॒वा इ॒हाऽऽगमन्न् (५-५-२०) ॥

मूलम् - 6.1.6

मू ॥ आग्निमारुतआगश्चोपागुरागामथेङ्ग्यगम् । उपागह्यागमिष्ठाश्चागच्छेदाघारमप्यथ ॥ ६ ॥
व्या ॥ आग्निमारुते । आगः । उपाऽऽगुः । इङ्ग्यगम् आगामित्येतत्पदं । उपाऽऽगहि । आगमिष्ठाः । आगच्छेत् । आघारम् । एतानि
आकारादीनि । उदा - आग्निमारुते - वै॒श्व॒दे॒वा॒ऽऽग्नि॒मा॒रु॒ते (४-४-६)
आगः - कच्च॒नाऽऽगः॑ (४-७-३८/३९)
उपाऽऽगुः - उप॒मामु॒पाऽऽगुः॑ (४-७-३३) उपेति किम् - विशः॒ प्राऽगुः॑ (१-३-१२,.), आऽगु॒स्त्रयः॑, अनु॒ ज्योति॒षाऽऽऽगुः॑ (४-३-२१) ।
आगाम् (इङ्ग्यगं) - ज॒नय॑न्नु॒पाऽऽगा᳚म् (५-७-४) । इङ्ग्यगमिति किम् - नान्यानुपा॑ऽगाम् (१-३-९,६-३-१३) ।
उपाऽऽगहि - सु॒मना॑ उ॒पाऽऽग॑हि (३-३-३६) । उपेति किम् - त्व॒ष्ट॒रि॒ह, रो॒हिद॑श्व इ॒हा ग॑हि (३-१-३६,४-१-३७), [धृ॒ष्णो॒, गोभि॑र्नः, अङ्गि॑रोभिः,
बिभ्र॑त्, ताभि॒रा ग॑हि (१-४-४०,२-४-१५,२-६-७०,४-५-२५,४-६-२)]
आगमिष्ठाः - त इ॒हाऽऽग॑मिष्ठाः (२-६-६७) [आगमन्न् - इ॒हाऽऽगम॑न्वी॒तिहोत्राः (५-५-२०) *]
आगच्छेत् - यदि॒ नाऽऽगच्छे᳚त् (७-५-४८)
आघारम् - ध्रु॒वाऽऽघा॒रमा॒घार्य॑ (२-५-६७/६८), आ॒दाया॑ऽऽघा॒रम् (३-१-२८), स्रु॒वेणा॑ऽऽघा॒रम् (६-२-१७) ॥

मूलम् - 6.1.7

मू ॥ सोच्चमाघारयेदिङ्ग्य आचितञ्चाजिमप्यथ । आञ्जीताण्डाभ्यामातञ्च्यादातिथ्यं चातपत्यथ ॥ ७ ॥
व्या ॥ सोच्चम् सोदात्तम् ’आघारयेत्’ इत्येतत्पदम् । इङ्ग्ये इङ्ग्यस्थं ’आचितम्’ इत्येतत्पदम् । आजिम् । आञ्जीत । आण्डाभ्याम् । आतञ्च्यात् ।
आतिथ्यं । आतपति । एतानि आकारादीनि । उदा -
आघारयेत्(सोच्चम्) - एक॑याऽऽघा॒रये᳚त् (२-५-६४) सोच्चमिति किम् - जि॒ह्मन्तस्या घा॑रयेत् (२-५-६७), आ॒घा॒रमा घा॑रयेत् (३-१-२८)
आचितम् (इङ्ग्ये) - स्थूरि॑ यवाऽऽचि॒तम् (१-८-३४) इङ्ग्य इति किम् - अ॒ग्निम् वा॑ चि॒तम् (५-७-२७)
आजिम् - धन्व॑ना॒ऽऽजिञ्ज॑येम (४-६-२७)
आञ्जीत - यदप॑तूलयाऽऽञ्जी॒त (६-१-६)
आण्डाभ्याम् - स्वाहा॒ऽऽण्डाभ्या॒ स्वाहा᳚ (७-३-३८)
आतञ्च्यात् - प॒र्णव॒ल्कैर्वा॑ऽऽत॒ञ्च्यात् (२-५-१९)
आतिथ्यम् - सोम॑स्याऽऽति॒थ्यम॑सि (१-२-१८,६-२-२), वि॒मुच्य॑, अना॑गताय, अथा॑ऽऽति॒थ्यम् (६-२-१), सोमा॑याऽऽति॒थ्यम् (६-२-७)
आतपति - स्वाहा॒ऽऽतप॑ति॒ वर्षन्न् (२-४-२०) ॥

मूलम् - 6.1.8

मू ॥ आतप्स्यतेप्यातपते प्यातपायातताविने । आतङ्क्येनाप्यातपतश्चातप्यायात्त आदिति ॥ ८ ॥
व्या ॥ आतप्स्यते । आतपते । आतपाय । आतताविने । आतङ्क्येन । आतपतः । आतप्याय । आत्तः । आत् । एतानि आकारादीनि । उदा -
आतप्स्यते - स्वाहा॑ऽऽतप्स्य॒ते (७-५-३४)
आतपते - स्वाहा॒ऽऽतप॑ते (७-५-३४)
आतपाय - स्वाहा॑ऽऽत॒पाय॑ (७-१-४६)
आतताविने - रु॒द्राया॑ऽऽतता॒विने᳚ (४-५-५)
आतङ्क्येन - शृ॒ता॒त॒ङ्क्ये॑न मेध्य॒त्वाय॑ (५-२-५०,६-५-२१)
आतपतः - छा॒यायै॑ चा॒ऽऽतप॑तश्च (६-४-९)
आतप्याय - ई॒द्ध्रिया॑य चाऽऽत॒प्या॑य च (४-५-१६)
आत्तः - अनु॑पलाभा॒याऽऽत्तः॑ (६-३-७)
आत् - कृ॒त्वाऽऽदित्पृ॑थि॒वी (३-१-३८) ॥

मूलम् - 6.1.9

मू ॥ आदायादिष्टमाद्याद्यास्तथादहनमित्यपि । आदानाश्चाधिमाधीतमाधिपत्यन्तथाधयः ॥ ९ ॥
व्या ॥ आदाय । आदिष्टम् । आद्या । आद्याः । आदहनम् । आदानाः । आधिम् । आधीतम् । आधिपत्यम् । आधयः । एतान्याकारा-दीनि ।
उदा - आदाय - सं॒गृह्या॒दाय॑ (२-४-९)
आदिष्टम् - नाऽऽदि॑ष्ट॒मुथ्सृ॑जेयुः (७-५-१९)
आद्या - नाऽऽद्या᳚ प्र॒जाप॑तेः (६-४-४६)
आद्याः - ता ए॒वाऽऽद्याः᳚ कुरुते (३-४-१३), चा॒द्या᳚श्च (६-४-४५)
आदहनम् - य॒ज्ञ॒वे॒श॒सं वा॒ऽऽदहनं॑ वा (३-४-३९)
आदानाः - हस्ता॑ऽऽदानाः॒ पुरु॑षः (६-४-२६)
आधिम् - स्वाहा॒ऽऽधिमाधी॑ताय (७-३-३६)
आधीतम् - स्वाहाऽऽधी॑त॒म्मन॑से (७-३-३६)
आधिपत्यम् - वरु॑ण॒स्याऽऽधि॑पत्यन्दि॒वः (४-३-१६), चाऽऽधि॑पत्यम् (४-३-२०)
आधयः - तस्या॒ऽऽधयो᳚ऽफ्स॒रसः॑ (३-४-२१) ॥

मूलम् - 6.1.10

मू ॥ आधानं चाप्यान्त्यायन आनुजावर इत्यपि । आनृचुश्चानुष्टुभवाक्तथाचापमथाप्स्यथ ॥ १० ॥
व्या ॥ आधानम् । आन्त्यायनः । आनुजावरः । आनृचुः । आनुष्टुभवाक् - आनुष्टुभ शब्द इत्यर्थः । आपम् । आप्स्यथ । एतान्याकारा-दीनि ।
उदा - आधानम् - अ॒ग्नेस्तू॑षा॒ऽऽधान᳚म् (६-१-३)
आन्त्ययनः - व्याश्ञि॑यश्चाऽऽन्त्यायनश्च (१-७-३८,४-७-२०)
आनुजावरः - गृ॒ह्णी॒ता॒ऽऽनु॒जा॒व॒रः (७-२-२३) । जावर इति किम् - पि॒ताऽनु॒ भ्राता᳚ (१-२-१०) ।
आनृचुः - वा॒चाऽऽनृ॒चुर्यद॒तोधि॑ (७-३-३)
आनुष्टुभवाक् - ह॒न्ता, आ भ॑र, दे॒वत॒याऽऽनु॑ष्टुभेन (१-६-१६,४-१-४,७-१-४७), ह॒न्ताऽऽनु॑ष्टुभम् (४-२-२) । आनुष्टुभवागिति किम् - ति॒ष्ठ॒,
दे॒वता᳚, चा॒ऽनु॒ष्टुप् (१-८-२४,३-१-१८,७-१-१३), म॒नी॒षा, अथ॑, अजा॑मित्वाय, प॒शुका॑मस्याऽनु॒ष्टुभा᳚ (४-४-३५,५-१-१५,५-५-२७,६-४-१३),
इत्या॑हाऽनु॒ष्टुभ॑ एव (६-२-३), तेना॑ऽनु॒ष्टुभः॑ (७-१-१३) अत्र अनुष्टुप्छब्दत्वादाकारादि न ।
आपम् - मन॑सा, तप॑सा, दी॒ख्षया᳚, सु॒त्यया᳚, व॒शयाऽऽप॑न्त्वाग्ने (५-५-३३)
आप्स्यथ - अथ॒ प्रवा॒ऽऽप्स्यथ॑ (६-३-३) ॥

मूलम् - 6.1.11

मू ॥ आप्त्यै आप्त्वा तथाचाप्ताप्यापस्वारान्त एव च । पश्यतापश्चापयितापलायिताय चोत्तरम् ॥ ११ ॥
व्या ॥ आप्त्यै । आप्त्वा । आप्ता । आप्य । स्वरितान्तम् ’आपः’ इत्येतत्पदम् । पश्यतापः । आपयिता । एतान्याकारादीनि । ’आपलायिताय’
इत्येतदुत्तरमाकारादि । उदा -
आप्त्यै - च॒तु॒र॒व॒त्तस्याऽऽप्त्या॑ एक॒धा (२-३-७), पुरु॑ष॒स्याऽऽप्त्यै᳚ (५-१-३९), सर्वस्याऽऽप्त्यै᳚ (५-४-५८)
आप्त्वा - स॒व्वँ॒थ्स॒रम्, अ॒हो॒रा॒त्राणि॑, वि॒राज᳚म्, छन्दास्ये॒वाऽऽप्त्वा (२-२-३१,३-४-३७,७-५-१८)
आप्ता - तेषा॑मै॒वैषाऽऽप्ता (३-४-१४)
आप्य - साप्रा᳚ऽऽप्य॒ न्य॑वर्तत (६-१-४०)
आपः (स्वारान्तः) - अ॒शी॒याऽऽपः॑ (१-२-१), स्वाहाऽऽपो॑ देवीः (१-२-३), रा॒यस्पोषे॒णाऽऽपो॑ देवीः (१-३-१५), ओष॑धीरु॒ताऽऽपः॑ (१-४-
५०,६-६-१२), चाऽऽप॑श्च, आ॒हाऽऽपः॑ (१-७-२२,५-७-३७,१-७-२३), च॒नाऽऽप॒स्त्वाव (२-१-३२), कृ॒णु॒ताप॒ ओष॑धीः (३-१-४२),
तस्याऽऽपो᳚ऽफ्स॒रसः॑ (३-४-२०), वेदाऽऽपो॒ वै (५-६-१६); स्वारान्त इति किम् - ज्योति॑षा॒ऽपस्त॑तान (१-५-५०), अ॒भिम॑न्येता॒ऽपो᳚ऽश्ञाति
(१-६-२४), रसः॑स्था॒ऽपः (१-८-२०), अ॒मूः, यश्चा॒ऽपः (२-४-२९,४-२-२९), केना॒ऽप इति॑, ब्रह्म॑णा॒ऽपः (२-६-२४), श्लो॒क॒या॒ऽपः (४-३-९),
पीव॑सा॒ऽपः (५-७-५२), नि॒वेद्या॒ऽपः (६-४-१४), प्र॒जन॑नाया॒ऽपः (६-५-३१) ॥
पश्यतापः - प॒श्य॒ता॒ऽऽप॒श्शि॒वया᳚ (५-६-२) अत्र स्वरितान्तत्वाभावेऽप्याकारादि । अत एव पृथग्ग्रहणम् ।
आपयिता - अना᳚प्तस्याऽऽपयि॒ताथ॑ (७-१-१९)
आपलायिताय (उत्तरं) - स्वाहा॒ऽऽपला॑यिताय॒ (७-१-४२) उत्तरमिति किम् - शूकृ॑ताय॒ स्वाहा॒ पला॑यिताय (७-१-४२) ॥

मूलम् - 6.1.12

मू ॥ यजुषा प्राप्तुमाभ्यश्चाभिराभ्याम् नत्ववग्रहात् । आम्बानामामनं च स्यादाममच्चामयाविनः ॥ १२ ॥
व्या ॥ ’यजुषा, प्र’ एताभ्यां परं चेत् ’आप्तुं’ इत्याकारादि । आभ्यः । आभिः । आभ्याम् । एतान्याकारादीनि । अवग्रहात्परञ्चेत् ’आभ्याम्’
इत्यकारादि न । भ्यामित्येव । आम्बानाम् । आमनम् । आममत् । आमयाविनः । एतान्याकारादीनि । उदा -
आप्तुं (यजुषा पूर्वं) - न हीमे यजु॒षाऽऽप्तु॒मर्ह॑ति (५-२-३९)
आप्तुं (प्र पूर्वं) - प॒शून् प्राऽऽप्तु॒मित्या॑हुः (२-१-३०) । यजुषाप्रेति किम् - अ॒प॒हत्या॒ऽप्तुम् (६-३-७), इत्या॑ऽऽहा॒ऽप्तुमे॒व (६-३-८) ।
आभ्यः - इ॒माने॒वाऽऽभ्यो॑ लो॒कान् (७-२-१०)
आभिः - तमे॒वाऽऽभि॒रुप॑ (३-४-३५)
आभ्याम् (न त्ववग्रहात्) - इत्या॑ऽऽहा॒भ्यामे॒वैन᳚म् (५-२-४६) । नत्ववग्रहादिति किम् - ऋ॒क्सा॒माभ्या॒ हि (३-१-४) अत्र अवग्रहात्पर-
त्वादाकारादि न ।
आम्बानाम् - मि॒त्राय॑ स॒त्याया॒म्बाना᳚म् (१-८-१८)
आमनम् - स्वाहाऽऽम॑नमसि (२-३-३५)
आममत् - किञ्च॒नाऽऽम॑मत् (४-५-२१)
*आमयाविनः - गृ॒ह्णी॒ता॒ऽऽम॒या॒विनः॑ (Ѐ्) नास्त्येव ॥

मूलम् - 6.1.13

मू ॥ आमिक्षयामयत्यायुमुपायन्त्यायतीं तथा । आयवस्तघपूर्वो नस्यादुपायंस्तथा भवेत् ॥ १३ ॥
व्या ॥ आमिक्षया । आमयति । आयुम् । उपायन्ति । आयतीम् । आयवः । उपायन्न् । एतान्याकारादीनि । त, घ इत्येवं पूर्वश्चेत् आयवः
इत्ययमाकारादिर्न । उदा -
आमिक्षया - मै॒त्रा॒व॒रु॒ण्याऽऽमिक्ष॑या (२-५-३०,३१,५-७-२८)
आमयति - यस्या॒ऽऽमय॑ति प्रा॒णः, प्रा॒णाः (७-२-२२,२६)
आयुम् - वृ॒द्धाऽऽयु॒मनु॒ वृद्ध॑यः (१-३-२)
उपायन्ति - न॒म॒स्यन्त॑ उ॒पाऽऽय॑न्ति (६-६-१३) उपेति किम् - अनु॒ धन्व॑ना यन्ति (२-४-२१)
आयतीम् - प्रति॑ धे॒नुमि॑वाऽऽय॒तीम् (४-४-११)
आयवः (तघपूर्वो न स्यात्) - उ॒पा॒ऽऽय॑वस्स्थ (१-१-१) । तघपूर्वो न स्यादिति किम् - ब्रा॒ह्म॒णा ऋ॑ता॒यवः॑ (१-५-५), वृका॑ अघा॒यवः॑ (१-२-१७)
अत्र तपूर्वत्वात्, घपूर्वत्वाच्च आकारादि न ।
उपाऽऽयन्न् - वैश्य॒मुपा॑ऽऽय॒न्तेभ्यः॑ (२-३-२९) उपेति किम् - विद॑धात्या॒यन्न् (२-४-४४) ॥

मूलम् - 6.1.14

मू ॥ सिताय सूर्यः पृथिव्या इत्येतेषु न चायते । आयासायायतयायो आर्तीयेतामथार्तवः ॥ १४ ॥
व्या ॥ आयते इत्येतत् आकारादि । उदा - आयते - स्वाहा॑ऽऽय॒ते स्वाहा᳚ (७-१-४२)
’सिताय स्वाहा । सूर्यो मा । पृथिव्यै स्वाहा’ । एषु त्रिष्वनुवाकेष्वाकारादि न ।
(सिताय स्वाहा) - स्वाहा॑ य॒ते स्वाहा᳚ (७-४-५३)
(सूर्यो मा) - दे॒वा॒य॒ते यज॑मानाय (३-५-१८)
(पृथिव्यै स्वाहा) - शी॒का॒य॒ते स्वाहा᳚ (७-५-३४)
आयासाय । आयतया । आयो । आर्तीयेताम् । आर्तवः । एतान्याकारादीनि ।
आयासाय - स्वाहा॑ऽऽया॒साय॒ स्वाहा᳚ (१-४-३६)
आयतया - यथाऽऽय॑तया समृ॒च्छते᳚ (३-२-३९)
आयो - अद॑ब्धा॒ऽऽयोऽशी॑ततनो (१-१-२४)
आर्तीयेताम् - वाक्च॒ मन॑श्चाऽऽर्तीयेताम् (२-५-६४)
आर्तवः - ऋ॒तवो॑ऽसृज्यन्ताऽऽर्तवः (४-३-१८) ॥

मूलम् - 6.1.15

मू ॥ आरभ्यार्द्रस्यारमार्ध्यन्तार्द्रार्तिम् चार्तवेषु च । आर्ध्नोदारभ्यते चारेप्यार्त्यारमणमार्पयत् ॥ १५ ॥
व्या ॥ आरभ्य । आर्द्रस्य । आरम् । आर्ध्यन्त । आर्द्रा । आर्तिम् । आर्तवेषु । आर्ध्नोत् । आरभ्यते । आरे । आर्त्या । आरमणम् । आर्पयत् ।
एतानि आकारादीनि । उदा -
आरभ्य - ए॒वाऽऽरभ्य॑ (१-६-२५,३-५-४,६-४-६,७)
आर्द्रस्य - शुष्क॑स्य चा॒ऽऽर्द्रस्य॑ च (६-४-५)
आरम् - ए॒वमवा॑ऽऽर॒मिति॑ (२-६-१७)
आर्ध्यन्त - सो॒म॒पी॒थेनाऽऽर्ध्य॑न्त (६-३-४)
आर्द्रा - दे॒वता॒ऽऽर्द्रा नक्ष॑त्रम् (४-४-२६)
आर्तिम् - नाऽऽर्ति᳚म् (१-५-९,७-५-१६), का॒मये॒ताऽऽर्ति᳚म् (३-१-१०), भिद्ये॒ताऽऽर्ति᳚म् (५-१-४६), ख्षु॒धाऽऽर्ति᳚म् (७-४-३५)
आर्तवेषु - पञ्च॒र्तुष्वे॒वाऽऽर्तवेषु॑ (७-२-२१)
आर्ध्नोत् - पू॒षा, त्वष्टा᳚, धा॒ताऽऽर्ध्नो᳚त् (१-५-३), तेन॒ नाऽऽर्ध्नो᳚त् (५-४-५१), तेनार्ध्नो᳚त् (६-६-३६)
आरभ्यते - यो मेधा॑याऽऽर॒भ्यते᳚ (६-३-३५)
आरे - तवा॒ऽऽरे अ॒स्मत् (४-५-४)
आर्त्या - य॒ज्ञस्याऽऽर्त्या॒ वसी॑यान् (२-६-३२)
आरमणम् - ए॒वाऽऽरम॑णं कुरुते (६-५-४२)
आर्पयत् - प्र॒जाश्शु॒चाऽऽर्प॑यत् (५-१-१६) ॥

मूलम् - 6.1.16

मू ॥ आरादालाद्यायालब्धायालब्धं चन नापरम् । आलभेताप्यालभतेप्येतौ सौदात्तकौ तथा ॥ १६ ॥
व्या ॥ आरात् । आलाद्याय । आलब्धाय । आलब्धम् । एतानि आकारादीनि । ’आलब्धं’ इत्येतत् ’ना’ इत्यस्मात्परञ्चेत् आकारादि न । आलभेत
। आलभते । एतौ शब्दौ सौदात्तकौ उदात्तवर्णसहितौ चेत् आकारादी । उदा -
आरात् - मन॑सा॒ऽऽराद॑जानाम् (४-६-३५)
आलाद्याय - आ॒ता॒र्या॑य चाऽऽला॒द्या॑य (४-५-१८)
आलब्धाय - स्वाहाऽऽल॑ब्धाय॒ स्वाहा᳚ (७-४-४२)
आलब्धम् (न नापरं)-तन्नेवाऽऽल॑ब्धम् (६-३-२९) ननापरमिति किम् -नेवाऽना॑लब्धम् (६-३-२९) अत्र ना इत्यस्मात्परत्वादाकारादि न ।
आलभेत (सोदात्तकं) - यत्प॒शून्नालभे॑त (५-१-४०)
आलभते (सोदात्तकं) - पूर्व॑या॒ऽऽलभ॑ते (२-५-२९)
सोदात्तकाविति किम् - अ॒र्धर्चमा ल॑भेत (२-५-४२), वशे॑ कृ॒त्वाऽऽल॑भते (६-३-४०) ॥

मूलम् - 6.1.17

मू ॥ आव्रश्चनात्तथावीतन्नाविराविद्धमित्यपि । आवन्नावग्रहादाव्यं पूर्वावल्वगत आवृतः ॥ १७ ॥
व्या ॥ आव्रश्चनात् । आवीतम् । नकारेण संहितं ’आविः’ इत्येतत्पदम् । आविद्धम् । अवग्रहात्परं न चेत् ’आवत्’ इति पदम् । आव्यम् । पूर्वं
’आवल्गत’ इति पदम् । आवृतः । एतान्याकारादीनि । उदा -
आव्रश्चनात् - यो वा॒ऽऽव्रश्च॑नान्नि॒र्येष॑ति (२-५-४)
आवीतम् - प्रा॒ची॒ना॒ऽऽवी॒तं पि॑तृ॒णाम् (२-५-६१)
आविः (नकारयुक्तं) - सूर्यो॒ नाऽऽर्भव॑ति (२-१-५९) नकारेण किम्- कृ॒ष्णाऽविः॑, साऽवि॑र्वशा (२-१-८), पि॒श॒ङ्गि॒लाऽविः॑ (७-४-४५)
आविद्धम् - यथाऽऽवि॑द्धं निष्कृ॒न्तति॑ (२-३-५०)
आवत् (नावग्रहात्) - भा॒ग॒धे अ॑सावा॒ऽऽवदधि॑ (२-५-३७/३८) नावग्रहादिति किम् - प्र॒जाव॑द॒स्मे (४-३-८)
आव्यम् - नाऽऽव्यं॑ प्रति॑गृह्णाति (२-२-३२)
आवल्गते (पूर्वं) - स्वाहा॒ऽऽवल्ग॑ते (७-१-४२) पूर्वेति किम् - स्वाहा॑ परा॒वल्ग॑ते (७-१-४२)
आवृतः - उ॒पा॒ऽऽवृतः॑ (४-२-३), तस्मा᳚द्दक्षि॒णाऽऽवृ॑तः (५-३-२०) ॥

मूलम् - 6.1.18

मू ॥ आवापस्य तथावृत्त्या आविवेशाप्युदात्तवान् । आववर्ति तथाव्याध आविष्टितमथाशिरम् ॥ १७ ॥
व्या ॥ आवापस्य । आवृत्त्यै । ’उदात्तवत्’ आविवेश इति पदम् । आववर्ति । आव्याधः । आविष्टितम् । आशिरम् । एतान्याकारादीनि । उदा -
आवापस्य - अ॒क्षा॒ऽऽवा॒पस्य॑ गृ॒हे (१-८-१६)
आवृत्त्यै - इत्या॒हाऽऽवृ॑त्त्यै पृथि॒व्याः (६-१-५५)
आविवेश (उदात्तवान्) - रु॒द्रो विश्वा॒ भुव॑नाऽऽवि॒वेश॑ (५-५-३९) । उदात्तवानिति किम् - अनी॑कम॒प आ वि॑वेश (१-४-४९), ओष॑धी॒रा वि॑वेश
(१-५-४७), वरे᳚, पि॒तुः आ वि॑वेश (४-६-६,१५)] ।
आववर्ति - उ॒त्त॒र॒वे॒दिरु॒पाऽऽव॑वर्ति (६-२-३७)
आव्याधः - उपा᳚ऽऽव्या॒धो भ॑वति, अ॒भ॒व॒त् (२-२-४७,७-२-१५,१६)
आविष्टितम् - उ॒ष्णीषे॒णाऽऽवि॑ष्टितम् (३-४-४)
आशिरम् - इन्द्रा॑या॒ऽऽशिर᳚म् (३-२-३३), साऽऽशि॑रमे॒वैन᳚म् (६-१-६७) ॥

मूलम् - 6.1.19

मू ॥ आश्ञादाश्राव्यमाश्रेषा आशितिम्ने तथाशच । आशानामाशुमाश्यं चाश्रावयेदप्युदात्तवान् ॥ १९ ॥
व्या ॥ आश्ञात् । आश्राव्यम् । आश्रेषाः । आशितिम्ने । आश । आशानाम् । आशुम् । आश्यम् । एतान्याकारादीनि । ’आश्रवयेत्’ इत्ययं
उदात्तवान् यद्याकारादिः । उदा -
आश्ञात् - तत् प्राऽऽश्ञा॒त्सा (६-५-१८)
आश्राव्यम् - अ॒न्वा॒रभ्या॒ऽऽश्राव्य᳚म् (३-१-८)
आश्रेषाः - दे॒वता᳚ऽऽश्रे॒षा नक्ष॑त्रम् (४-४-२६)
आशितिम्ने - स्वाहा॑ऽऽशिति॒म्ने (७-१-४६)
आश - मक्षि॒काऽऽश॒ यत् (४-६-४२)
आशानाम् - उ॒प॒स्थाऽऽशा॑नां (४-४-३५)
आशुं - गि॒राऽऽशुञ्जय॑न्तम् (१-४-१०)
आश्यम् - नि॒र्या॒सस्य॒, तस्य॒ नाऽऽश्य᳚म् (२-५-४,६-१-७६)
आश्रावयेत् (उदात्तवान्) - अन॑न्वारभ्याऽऽश्रा॒वये᳚त् (३-१-८) । उदात्तवानिति किम् - तत्तिष्ठ॒न्ना श्रा॑वयेत् (३-१-७) श्रावयेदित्यत्र
उदात्ताभावादाकारादिर्न ॥

मूलम् - 6.1.20

मू ॥ तथाचाशुरथाय स्यादासन्नास्तामथास्महे । आसीतास्ते तथासाते त्वासीनश्चासुरस्तथा ॥ २० ॥
व्या ॥ आशुरथाय । आसन्न् । आस्ताम् । आस्महे । आसीत । आस्ते । आसाते । आसीनः । आसुरः । एतान्याकारादीनि । उदा -
आशुरथाय - आ॒शुषे॑णाय चा॒ऽऽशुर॑थाय च (४-५-१४)
आसन्न् - वि॒श्व॒दा॒वस्य॑ त्वा॒ऽऽसञ्जु॑होमि (३-३-२३)
आस्ताम् - इ॒मे वै, द्यावा॑पृथि॒वी स॒हाऽऽस्ता᳚म् (३-४-७,५-२-१६)
आस्महे - ज्योति॒रुपा᳚ऽऽस्महे (५-२-४८,५-३-८)
आसीत - न स॒हाऽऽसी॑त॒ न (२-५-६)
आस्ते - प्र॒ति॒मुच्याऽऽस्तेऽथो᳚ (२-५-६)
आसाते - पापी॑याश्चाऽऽसाते (१-५-४०)
आसीनः - प्रा॒णैर्दा॑धा॒राऽऽसी॑नः (५-१-५५)
आसुरः - ए॒तदु॒र्वै नामा॑ऽऽसु॒रः (२-६-५२) ॥

मूलम् - 6.1.21

मू ॥ त्वापरन्नासते थास्यादासिष्यत इति त्रयम् । आसीदासामहै चापि त्वासामास्येन चासुरम् ॥ २१ ॥
व्या ॥ त्वापरं न चेत् ’आसते’ इत्येतदाकारादि । थ इत्येतत्पूर्वं यदि आस्यादित्येतदाकारादि । ’आसिष्यते’ इत्यादि पदत्रयं
स्वाहाकारव्यतिरिक्तमाकारादि । आसीत् । आसामहै । आसाम् । आस्येन । आसुरम् । एतान्याकारादीनि । उदा -
आसते (त्वापरं न) - विश्व॑, मा॒स॒भि॒ख्षाम्, रा॒त्रि॒, उ॒पाऽऽस॑ते (४-१-३२,७-५-४३,४-६-४३,५-७-४), तस्या॑ऽऽसते॒ हर॑यः (४-२-४१) ।
त्वापरं नेति किम् - स॒ते त्वाऽस॑ते त्वा (३-५-२५,७-१-४०) ।
आस्यात् (थापूर्वं) - यथा॒ऽऽस्या᳚द्ग्रसि॒तम् (६-१-५९) । थेति किम् - व॒शा, आज्य॑भागा, स्तो॒ता, नाशु॑का, प्र॒जा, प॒रा॒पातु॑का, अब॑द्धा, अय॑ता,
निखा॑ता, सा स्या॒त्/स्यात् (२-१-३३,२-२-४६,७१,२-६-२७,५-६-३१,६-१-२४,५०,६-३-४७,६-२-५२,७-१-२६) ।
आसिष्यत इति त्रयम् - आ॒सि॒ष्य॒ते स्वाहाऽऽसी॑नाय॒ स्वाहा॑ऽऽसि॒ताय॑ (७-१-५०)
आसीत् - दे॒वता॑ऽऽसीत् (२-४-३८), कर्माऽऽसी॒दार्ध्य॑त (३-४-१७), मा॒याऽऽसी᳚त् (६-५-२), अ॒लो॒मका॑ऽऽसीत् (७-४-९)
आसामहै - याव॑ती॒र्वाऽऽसा॑महै (७-५-७)
आसाम् - शम॑लमे॒वासा॒मप॑ (६-४-१५), सो॑ऽकामयता॒ऽऽसाम॒हम् (७-५-२५)
आस्येन - अ॒ग्नेस्त्वा॒ऽऽस्ये॑न (२-६-४७)
आसुरम् - अ॒न्वाहा॑ऽऽसु॒रम् (२-५-६१), ए॒तदु॑मे॒वाऽऽसु॒रम् (२-६-५३) ॥

मूलम् - 6.1.22

मू ॥ आसादयति चोदात्तवानासन्नाय चाप्यथ । आस्थातास्ताव आहावमाहृत्याहवनस्तथा ॥ २२ ॥
व्या ॥ उदात्तसहितम् ’आसादयति’ इति पदम् । आसन्नाय । आस्थाता । आस्तावः । आहावम् । आहृत्य । आहवनः । एतान्याकारादीनि । उदा

  • आसादयति - प्रोक्ष॑णीश्चाऽऽसा॒दय॑ति (१-६-३२) उदात्तवानिति किम् - वा॒रु॒ण्यर्चा सा॑दयति (६-१-७२)
    आसन्नाय - ह॒व्यायै॒वाऽऽस॑न्नाय (६-२-७,६-३-२९)
    आस्थाता - वी॒डय॑स्वाऽऽस्था॒ता ते᳚ (४-६-३१)
    आस्तावः - उपा᳚ऽऽस्ता॒वः क॒लशः॑ (३-२-११)
    आहावम् - निष्कृ॑ताऽऽहावमव॒टम् (४-२-२७)
    आहृत्य - अ॒न्यत॒स्तस्या॒ऽऽहृत्याव॑दध्यात् (५-१-४८)
    आहवनः - घृ॒ताऽऽह॑वन॒ इत्या॑ह (२-५-५२) ॥
मूलम् - 6.1.23

मू । अल्पेनाद्याहरन्ति स्यादाहनन्याय चाहलम् । ऋतुनास्मोपहत्य प्रपराश्राव्यानुवाक्यया ॥ आहैतत्पूर्वमाहुश्चेत्येषावर्णी सुनिर्मिता ॥ २३ ॥
व्या ॥ अल्पेनेत्येतदादि यदि आहरन्ति इत्येतदाकारादि । आहनन्याय । आहलम् । एते आकारादिनी । ऋतुना, स्म, उपहत्य, प्र, परा, आश्राव्य,
अनुवाक्यया एतत्पूर्वं यदि ’आह’ इत्येतदाकारादि । आहुः इत्येतदाकारादि । उदा -
आहरन्ति (अल्पेनादि) - वा अल्पे॑ना॒ऽऽहर॑न्ति (२-५-२४) अल्पेनादीति किम् - ए॒त शी॒र्ष्णा हर॑न्ति (६-१-६२) (अत्र न)
आहनन्याय - दु॒न्दु॒भ्या॑य चाऽऽहन॒न्या॑य च (४-५-१५)
आहलम् - श॒कु॒न्ति॒काऽऽहल॒मिति॑ (७-४-४९)
आह (ऋतुना पूर्वं) - द्विः पुन॑र्ऋतुना॑ऽऽह (६-५-१०,११)
आह (स्म पूर्वं) - अ॒रु॒णो ह॑ स्मा॒ऽऽहौप॑वेशिः (६-१-६०,६-४-२०)
आह (उपहत्य पूर्वं) - पृ॒ष॒दा॒ज्यस्यो॑प॒हत्याऽऽह॑ (६-३-६०)
आह (प्र पूर्वं) - ए॒तत्ते॒, य॒ज्ञम्, ए॒न॒म्, दे॒व॒म॒नु॒ष्येभ्यः॑, आ॒हृत्य॒ प्राऽऽह॑ (३-२-२६,३-५-६,७,६-१-२७,६-५-३८)
आह (परा पूर्वं) - यद्ब्रा᳚ह्म॒णं प॒राऽऽहा॒ऽऽत्मानं॒ परा॑ऽऽह (२-५-६९)
आह (आश्राव्य पूर्वं) - आ॒श्राव्या॑ऽऽह दे॒वान् (२-६-५१)
आह (अनुवाक्यया पूर्वं) - पु॒रो॒ऽनु॒वा॒क्य॑याऽऽह॒ प्र (२-६-१२) । एतत्पूर्वमिति किम् - ए॒तया॑ ह स्म (१-५-३०,५-४-३२), ए॒ताव॑ता॒ हैन॑सा (२-
६-५८), यथा॑ ह॒ तत् (४-७-३९), वा॒ ह॒ वै (५-४-३३) ।
आहुः - एन॑साऽऽहुः (३-२-२९/३०), र॒सया॑ स॒हाऽऽहुः (४-१-३२/३३) ॥ इत्येषाऽऽवर्णी सुनिर्मिता । स्पष्टोऽर्थः ॥
॥ इति सप्तलक्षणव्याख्यायां आवर्णि प्रकरणम् ॥ ६ ॥