06 अवर्णि

मूलम् - 5.1.1

॥ अथ अवर्णिप्रकरणम् ॥ ५ ॥
मू ॥ अवर्णिन्यनुक्तं समोप्यातिरिक्तं परित्यज्य दुष्कीर्तितञ्चाभिवीक्ष्य । ककारादि वर्णक्रमेणाहमेतां सुवृत्तिं करिष्यामि विस्पष्टवाच्याम् ॥ १ ।
व्या ॥ अवर्णिनि अवर्ण्याख्यप्राचीनलक्षणे अनुक्तम् समोप्य संयोज्य अतिरिक्तम् दुष्कीर्तितं च परित्यज्य अभिवीक्ष्य सावधानेन मनसा
संयगालोच्य च ककारादि वर्णक्रमेण विस्पष्टवाच्याम् एतां सुवृत्तिं अवर्ण्याख्यलक्षणम् करिष्यामि ॥ १ ॥

मूलम् - 5.1.2

मू ॥ ओदेदवर्णसंछन्नम् संहितायां पदादिगम् । अवर्णं ज्ञातुमस्माभिः इदं शास्त्रं प्रणीयते ॥ २ ॥
व्या ॥ कर्तव्यम् प्रतिजानीते - ओदिति ॥ ओदित्योकारस्य ग्रहणम्, एदित्येकारान्तम् । अवर्णेति अकाराकारयोर्ग्रहणम् । ’ह्रस्वो वर्णोत्तरस्त्रयाणां’
इति (प्रा.१.२०) प्रतिपादितत्वात् ह्रस्वदीर्घप्लुतानां ग्रहणे सत्यपि अत्र प्लुतस्य न ग्रहणम् । प्रयोजानाभावात् । ओच्च एच्च अवर्णश्च ओदेदवर्णाः । तैः
पदान्तरवर्तिभिः संहितायां सञ्छन्नं पदादिगम् उत्तरपदादिगतमित्यर्थः । अवर्णं पूर्ववत् अकाराकारौ ज्ञातुं इदं शास्त्रं अवर्ण्याख्यलक्षणम् प्रणीयते
क्रियत इत्यर्थः ॥

मूलम् - 5.1.3

मू ॥ नोदात्तो यः पदाध्याय उदात्तस्संहितागमे । यश्चोदात्तः पदाध्याये स्वरितस्संहितागमे ॥ ३ ॥

मूलम् - 5.1.4

मू ॥अघोषाक्षरतः पूर्वः ओकारस्सांहितश्च यः । तेभ्यः परः पदाध्याये त्वकारस्स्यात्पदादिगः ॥ ४ ॥
व्या ॥ अकारादीनि कानिचित् पदानि समासेन दर्शयति - नोदात्त इति । श्लोकद्वयमेकान्वयम् । यः वर्णः पदाध्ययनकाले नोदात्तः उदात्तस्वर-
व्यतिरिक्तस्वर इत्यर्थः । संहितागमे उदात्तः भवतीति शेषः । यश्च वर्णः पदाध्ययनकाले उदात्तः संहितायां स्वरितो भवति, यश्च संहितायां भवः
अघोषाक्षरेभ्यः पूर्वः ओकारः तेभ्यः परः अनन्तरः पदादिगः अकारः पदाध्याये स्यात् । अघोषाणि च तान्यक्षराणि च अघोषाक्षराणि । तेभ्यः ।
पञ्चम्यास्तसिल् । अघोषाणि च, ’ऊष्मविसर्जनीय प्रथमद्वितीया अघोषाः । न हकारः । ’ (प्रा.१.११,१२) इत्युक्तानि द्रष्टव्यानि । उदा - नोदात्त इति
। उद्धृ॒तोऽहु॑ते (२-२-२१), अध्व॒र्योऽवेः᳚, (६-४-१५), सुभे॑षजं॒ यथाऽस॑ति (१-८-११), ए॒व श्रा॑य॒सो॑ऽवेत् (५-४-३४), यथा॒ जन॑य्यँ॒ते॑ऽव॒सम्
(२-२-२७) । अघोषेति । प्र॒जाभ्यो॑ऽकल्पत (७-२-१०), तमिन्द्रो॑ऽचायत् (२-१-२५,२६), स तपो॑ऽतप्यत (३-१-१), अ॒भिषु॑तोऽपूत॒पाः (४-४-
२५) । एवं अन्यान्यप्यूह्यानि । अघोषेति किम् । सूर्यो॒ ज्योति॑षाम् (३-१-२) । सांहित इति किम् । अथो॒ खल्वा॑हुः (५-४-१०) ॥

मूलम् - 5.1.5

मू ॥ संयोगादिगतो रेफो यश्छकारपरो न तु । संयोगाद्युत्तमो यश्च पदस्थस्स्वरितो न तु । यश्चानुस्वार एतेभ्योऽकारः पूर्वः पदादिगः ॥ ५ ॥
व्या ॥ संयोगादीति । किञ्च, संहितायां पदान्तवर्तिनाम् ओकारादीनामुपरि संयोगादिगतः संयुक्तयोर्व्यञ्जनयोः पूर्वव्यञ्जनमित्यर्थः । रेफः छकारपरो
न चेत् तस्माद्रेफात्पूर्वः पदादिगतः अकारोऽस्ति । उदा - म॒खस्य॑ मा॒ यशो᳚ऽर्यात् (३-२-११) । लो॒केऽर्धु॑कम् भवति (६-२-१९) । आ॒दि॒त्यो᳚ऽर्यमा
(२-३-२०) । संयोगादिगत इति किम् - यो रु॒द्रो अ॒ग्नौ (५-५-३९) । छकारपरो न तु इति किम् । आर्ति॒मार्च्छे᳚त् (६-४-४७) । अत्र
ऋच्छेदित्येव । संयोगाद्युत्तम इति । पदान्तवर्तिभ्य ओकारादिभ्यः परः पदस्थः यो वर्णः संयोगाद्युत्तमः, संयोगादिश्च उत्तमश्च भवति सः स्वरितो न
चेत् तस्मात्पूर्वः अकारोऽस्ति । ङ, ञ, ण, न, म एषां वर्णानां उत्तम इति संज्ञा । (उदा) यज॒तेऽङ्गा॒परूषि (२-५-३३), अव॑रुन्धेऽञ्ज॒लिना᳚ (५-
४-४६), पा॒व॒कोऽन्ने॑न (५-४-१८), अव॑रु॒न्धेऽम्भ॑स्स्थ (१-५-३१) । संयोगाद्युत्तम इति किम् । ते नो॒ अर्व॑न्तः (१-७-३५) । पदस्थ इति किम् ।
अधि॑ष्कन्ना॒ न्यमे॑हत् (२-२-४१) । स्वरितो नत्विति किम् । से॒ना॒न्यो॑ गृ॒हे (१-८-१५), अ॒सावा॑दि॒त्यो न्यङ् (२-४-२८) । यश्चेति । यः अनुस्वारः
तत्पूर्वः पदादिगतः अकारोऽस्ति । उदा - ह॒वा॒म॒हे॒ऽहो॒मुच᳚म् (२-१-६०), सोमो॒ऽशून् (६-४-१९), त्वयाऽश॒भुवा᳚ (६-४-३५) ॥ ५ ॥
अवतारिका - वक्ष्यमाण सार्धश्लोकद्वयेन कानिचित्पदानि विभक्त्यादिभिर्भिन्नाकाराण्यपि अकारादीनीति प्रतिपादयति -

मूलम् - 5.1.6

मू ॥ अष्टासुराक्षराग्न्यग्र मध्योदात्ताश्विनश्श्रुतिः । अरण्यारुणशब्दौ च न स्वारान्तोऽदितिश्रुतिः ॥ ६ ॥
व्या ॥ अष्ट । असुर । अक्षर । अग्नि । अग्र । एते शब्दाः श्रुतिशब्देन विभक्त्यादिभिर्भिन्नाकारा अपि अकारादय इति ज्ञेयम् । (उदा) -
अष्ट - धा॒ताऽष्टौ वस॑वः (३-४-३४), अ॒र्यम्णो᳚ऽष्ट॒मी (५-७-५४), स्वाहा᳚ऽष्टा॒भ्यः (७-२-४१), आ॒यत॑नेऽष्ट॒मे (७-२-३३), रु॒न्धे॒ऽष्ट॒रा॒त्रः (७-
२-८)
असुर - तेऽसु॑रा॒ (यद्दे॒वानां᳚) (१-५-३७), जा॒य॒तेऽसु॑राः॒ (६-६-१७), तेऽसु॑रान् (२-४-२,६-२-३९), तेऽसु॑राणां (६-६-४२)
अक्षर - साऽष्टाऽक्ष॑रा (६-१-४१), अ॒ष्टाऽक्ष॑राणि (६-१-१५), अ॒ष्टाख्ष॑रां (७-३-६), अ॒ष्टाख्ष॑रेण (१-७-४३)
अग्नि - मा॒ऽग्ने॒ (१-१-२१), द॒धेऽग्ने᳚ (१-२-२२), वन्द्योऽग्ने᳚ (१-३-२८), अ॒ग्निना॒ऽग्निः (३-५-३६), ग॒च्छ॒ते॒ऽग्निः (३-३-२६), सो᳚ऽग्निः (१-५-२),
नो॒ऽग्नयः॑ (१-७-३३), ए॒ते᳚ऽग्नयः॑ (५-५-३७), स्वाहा॒ऽग्निम् (१-३-२०), अ॒ग्ने॒ऽग्निम् (१-१-१०), यो᳚ऽग्निम् (१-५-९), छन्द॑सा॒ऽग्निना᳚ (५-५-३५),
सन्त॑तो॒ऽग्निना᳚ (५-३-३८), वृ॒णी॒ते॒ऽग्निना᳚ (५-५-२६), यज॑मानो॒ऽग्निभ्या᳚म् (३-३-२२), वृ॒ङ्क्ते᳚ऽग्निभ्यः॑ (५-१-४०), रु॒न्धे॒ऽग्नये॑ (२-३-१३),
ध॒त्ते॒ऽग्नेः (१-६-४३), ए॒षो᳚ऽग्नी॒नाम् (५-६-३६), सञ्चि॑ते॒ऽग्नौ (७-५-३९), उ॒प॒यन्तो॒ऽग्नौ (१-५-१), दि॒वोऽग्ना॑विष्णू (२-५-७०), ऊ॒ह॒तेऽग्ना॑विष्णू
(५-७-१०)
अग्र - व॒पाऽग्र᳚म् (६-३-४९), तेऽग्र᳚म् (६-४-४८), सोऽग्र᳚म् (६-६-३९), साऽग्रे᳚ (६-५-१८), अ॒ग्रे॒गु॒वोऽग्रे᳚ (१-१-७), जि॒ह्वा॒ऽग्रेण॑ (५-७-
४३), आरा᳚ऽग्रा, आरा᳚ऽग्राम् (६-२-१९) ।
अश्विनशब्दः मध्योदात्तश्चेत् पूर्वोक्तविधो भवति । उदा - साऽश्विनोः᳚ (२-१-५६), प्र॒स॒वे᳚ऽश्विनोः᳚ (१-३-१), छन्दोऽश्विनोः (३-१-१८),
सु॒शेवा॒ऽश्विना᳚ (४-३-७), मे॒ऽश्विनौ᳚ (४-७-१२), आ॒नु॒जा॒व॒रो᳚ऽश्विनौ (७-२-२३) । मध्योदात्त इति किम् । दक्षि॑णाऽऽश्वि॒नन्द्वि॑कपा॒लम् (१-८-
१६) । अत्र मध्योदात्तत्वाभावात् आकारादिः ॥
अरण्य । अरुण । अदिति । एते शब्दाः पूर्ववदकारादयो भवन्ति । उदा -
अरण्य - प॒शवोऽर॑ण्य॒म् (६-५-४०), पु॒रु॒त्राऽर॑ण्येषु (४-६-३७) । स्वाहाऽर॑ण्याय (७-१-४६) ।
अरुण - क्षोधु॑कोऽरु॒णः (६-१-६०), ति॒स्रो॑ऽरु॒णाः (५-६-४६), त्रयो॑ऽरुणै॒ताः (५-६-४९), त्रयो॑ऽरु॒णल॑लामाः (५-६-५१),
स्वाहा॑ऽरुणै॒ताय॑ (७-३-३९), स्वाहा॑ऽरु॒णाय॒ (७-३-४०) । [द॒तो॑ऽरुणत् (२-६-४६)?]
अदिति - त्वाऽदि॑त्याः, अरा॑त॒योऽदि॑त्याः (१-१-७), इ॒ष्ट्वाऽदि॑तिम् (६-१-३६), साऽदि॑तिः (६-४-३२),ह॒वि॒र्धानेऽदि॑तिः (४-४-२५), नोऽदि॑तिः
(४-६-३०), स्वाहाऽदि॑त्यै (७-३-३६), अ॒द्य॒तेऽदि॑त्यै (५-३-१८), द्वाद॑शकपा॒लोऽदि॑त्यै (७-५-३८), तेऽदि॑त्याम् (६-१-३४), रन्तेऽदि॑ते (७-
१-२८) । अदितिशब्दः स्वारान्तः स्वरितान्तश्चेत् अकारादिः न । उदा - मेऽदि॑तिश्च मे॒ दिति॑श्च (४-७-१६) । अत्र स्वरितान्तत्वादकारादिर्न ॥ ६ ॥

मूलम् - 5.1.7

मू ॥ अश्वशब्दो न विच्छ्वोन्तोऽमृतशब्दो न यान्तकः ॥ ७ ॥

मूलम् - 5.1.8

मू ॥ कृन्ततेनाचपूर्वस्तु तत्राकारो न विद्यते । अध्वर्युशब्दश्चेत्येते श्रुत्यैवाकारपूर्वकाः ॥ ८ ॥
व्या ॥ अश्वेति । अश्वशब्दः पूर्वोक्तविधो भवति । उदा - होत्रेऽश्व᳚म् (१-८-१), ग॒र्दभोऽश्व᳚म् (५-१-७), पुरु॒षोऽश्वः॑ (१-५-२७), यथाऽश्वः॑ (५-
५-४७), याव॒तोऽश्वान् (२-३-४६), वृष्णाऽश्वान् (७-३-३५), पि॒त्राऽश्वः॑ (७-१-४१), गवेऽश्वा॑य (१-८-१०), भर॒न्तोऽश्वा॑य (४-१-३८),
वृष॑पाण॒योऽश्वाः᳚ (४-६-२९), प्रा॒जा॒प॒त्योऽश्वः॑ (५-१-६), सोऽश्व॑स्य (५-२-३५), रथोऽश्वैः᳚ (७-५-५१), मा॒रु॒तो᳚ऽश्व॒त्थः (३-५-२३),
दे॒वता᳚ऽश्व॒युजौ᳚ (४-४-२८), अश्वे॒भ्योऽश्व॑पतिभ्यः (४-५-८), यो᳚ऽश्वमे॒धेन॑ (५-३-४८) । ’वित्, श्वः’ एतदन्तश्चेत् अकारादिर्न । द्या॒वा॒पृ॒थि॒व्या᳚
श्वा॒वित् (५-५-५८), जा॒य॒ते॒ श्वश्श्वः॑ (१-५-३७,२-५-२२) ॥
अमृतशब्दः पूर्वोक्तविधो भवति । त्वा॒ऽमृत᳚म् (१-७-३९), ध॒त्ते॒ऽमृत᳚म् (३-३-१०), आपो॒ऽमृत᳚म् (१-७-२३), अप॑राजिता॒ऽमृते॑न (४-४-१९),
ते॑ऽमृते॑न (२-३-४०), प्रा॒णो॑ऽमृते॑न (३-३-१०), छा॒याऽमृत॑स्य (७-१-५२), स्व॒धा॒वो॒ऽमृत॑स्य (३-१-४०) । यान्तकः यकारान्तश्चेत् अकारादिर्न
। यथा॑ मृ॒ताया॑नु॒स्तर॑णीम् (६-६-२६) ॥ कृन्ततेनाच पूर्व इति । कृन्तते, अना, इत्येवंपूर्व पूर्वश्चेत् अकारादिर्न । निकृ॑न्तते मृ॒ता वै (६-१-२),
अना॑मृत ए॒वाग्निम् (५-२-१५) ॥
अध्वर्युशब्द इति । अध्वर्युशब्दश्च विभक्त्यादिभिर्भिन्नाकारोऽप्यकारादिर्भवति । होता᳚ऽध्व॒र्युः (४-६-४०), सोमे᳚ऽध्व॒र्युः (६-३-६), अप्र॑तिष्ठितोऽ-
ध्व॒र्युः (३-१-८), अ॒श्विना᳚ऽध्व॒र्यू (४-३-७,८,९), होता᳚ऽध्व॒र्युम् (३-२-३५,३८,४१), सो᳚ऽध्व॒र्युम् (५-६-८), वा॒ऽध्व॒र्यवे᳚ (७-१-३०),
प्र॒ति॒ग॒रो᳚ऽध्वर्यूणाम् (३-२-४०) इत्यादि । इत्येत इति । इति उक्तप्रकाराः एते अष्टाद्यध्वर्युपर्यन्ताः शब्दाः श्रुत्यैव विभक्त्यादिभिर्भिन्नाकारा अपि
श्रवणमात्रेणेत्यर्थः । अकारपूर्वकाः । अकारः पूर्वः येषां ते अकारपूर्वाः । त एव तथोक्ताः ॥ ८ ॥

मूलम् - 5.1.9

मू ॥ यद्यद्दत्वत इत्यत्र परपक्षगतं पदम् । तत्तत्सर्वमकारादि जननायेति वर्जयेत् ॥ ९ ॥
व्या ॥ ’दत्वत’ इत्यत्र । दत्वत इत्यनुवाके यत् यत् पदम् परपक्षगतं भवति, अदन्तकायेत्याद्युत्तरपक्षगतं भवति, तत्तत्सर्वमकारादि । तानि च -
अ॒द॒
न्तका॑य, अ॒प्रा॒णाय॑, अ॒मु॒खाय॑, अ॒ना॒सि॒काय॑, अ॒न॒ख्षिका॑य, अ॒क॒र्णका॑य, अ॒शी॒र्षका॑य, अ॒पा॒दका॑य, अप्रा॑णते, अव॑दते, अप॑श्यते, अशृ॑ण्वते (७-
५-३५), अ॒म॒नसे᳚, अ॒रे॒तस्का॑य, अ॒लो॒मका॑य, अ॒त्वक्का॑य, अ॒च॒र्मका॑य, अ॒लो॒हि॒ताय॑, अ॒मा॒सका॑य, अ॒स्ना॒वका॑य, अ॒न॒स्थिका॑य, अ॒म॒ज्जका॑य, अ॒न॒ङ्गाय॑,
अना᳚त्मने (७-५-३६)। ’प्र॒जाभ्य॒स्स्वाहा᳚ प्र॒जन॑नाय॒ स्वाहा᳚’ इत्यत्र परपक्षगतं पदं अकारादि न । अत एव वर्जयेदित्युक्तम् ॥ ९ ॥
॥ इति परिभाषा ॥

मूलम् - 5.1.10

मू ॥ उपसर्गेङ्ग्यपूर्वोऽकरक्तमक्रानकुर्वत । अकूपारस्य चाकुर्वन्नकर्णा उत्तरं तथा ॥ १० ॥
व्या ॥ उपसर्गपूर्वः, इङ्ग्यपूर्वो वा ’अक’ इत्यकारादिः । अक्तम् । अक्रान् । अकुर्वत । अकूपारस्य । अकुर्वन्न् । एतानि पदानि अकारादीनि
भवन्ति । अकर्णा इति पदं उत्तरमकारादि । उदा -
(उपसर्गपूर्वः) अकः - गो॒ष्ठमाऽकः॑ (७-४-४४)
(इङ्ग्यपूर्वः) अकः - प्रति॑धातवेऽकः (१-४-४९), दे॒व॒त्राऽकः॑ (५-१-३८) उपसर्गेङ्ग्यपूर्व इति किम् - मि॒थु॒या क॑र्भाग॒धेय᳚म् (१-३-१३)
[व्यस्तपदेऽपि दृश्यते, यथा - वा॒ज्यर्वाऽकः॒ स लो॒कम् (४-१-८)]*
अक्तम् - आ॒दि॒त्येभ्य॑स्त्वा॒ऽक्तम् (१-१-२२)
अक्रान् - आऽक्रान् वा॒जी (७-५-४५)
अकुर्वत - य॒ज्ञेऽकु॑र्वत॒ तत् (१-७-१३,२-५-२२,३-२-५,३-४-१७,५-३-११,६-४-२७,४८,६-६-३४), नि॒र्बा॒धे॑ऽकुर्वत (५-१-५४)
अकूपारस्य - तेऽकू॑पारस्य वा॒चे (५-५-५१)
अकुर्वन्न् - पत्न॒योऽग्रे॑ऽकुर्वन्ताभिः॑ (५-१-३६)
अकर्णाः (उत्तरम्) - बा॒र्ह॒स्प॒त्यो येऽक॑र्णाः (१-८-१७) उत्तरमिति किम् - ये क॒र्णास्सः (१-८-१७) अत्र पूर्वत्वात् ’कर्णा’ इत्येव ॥

मूलम् - 5.1.11

मू ॥ अकामयन्ताक्रमिषमकामयत चाकरम् । अकृष्टपच्यं पाश्चात्यं अक्रंस्ताक्षन्नथाक्ष्णया ॥ ११ ॥
व्या ॥ अकामयन्त । अक्रमिषम् । अकामयत । अकरम् । एतानि पदानि अकारादीनि । अकृष्टपच्यम्, एतत्पाश्चात्यञ्चेदकारादि । अक्रस्त ।
अक्षन्न् । अक्ष्णया । एतानि अकारादीनि । उदा -
अकामयन्त - वि॒त्वाऽका॑मयन्त (६-२-३९,४०), ते॑ऽकामयन्त (७-२-१९,७-४-४)
अक्रमिषम् - पृ॒थि॒वीम्, अ॒न्तरि॑ख्षम्, दिव॒माऽक्र॑मिषम् (५-६-३०)
अकामयत - साऽका॑मय॒तौष॑धीभिः (७-४-९)
अकरम् - चि॒त्तान्याऽक॑रम् (४-२-१८)
अकृष्टपच्यं (पाश्चात्यं) - मे॒ऽकृ॒ष्ट॒प॒च्यञ्च॑ (४-७-१०) पाश्चात्यमिति किम् - ओष॑धयश्च मे कृष्टप॒च्यञ्च॑ (४-७-९) अत्र पूर्वत्वादकारादि न ।
अक्रस्त - वा॒ज्याऽक्रस्त (७-५-४५)
अक्षन्न् - यथा॒ऽक्षन्नाप॑न्नम् (६-१-५९)
अक्ष्णया - आर॑भतेऽक्ष्ण॒या (५-४-१९,६-३-३४), अव॑रुन्धेऽख्ष्ण॒या (६-२-४१) ॥

मूलम् - 5.1.12

मू ॥ अक्षीभ्यामगुरागाश्चाप्यगाच्च न परापरम् । अगन्तागच्छदगममगृहीता अगन्म च ॥ १२ ॥
व्या ॥ अक्षीभ्याम् । अगुः । आगाः । अगात् । एतानि पदानि अकारादीनि । ’परा’ इत्यस्मात् परञ्चेत् अगात् इत्येतत् अकारादि न । अगन्त ।
अगच्छत् । अगमम् । अगृहीताः । अगन्म । एतानि अकारादीनि । उदा -
अक्षीभ्याम् - स्वाहा॒ऽक्षीभ्या॒ स्वाहा᳚ (७-३-३७)
अगुः - ति॒स्र आऽगुः॑, अनु॒ ज्योति॒षाऽगुः॑ (४-३-२१)
आगाः - अ॒मृते॒नागाः᳚ (४-२-३९), अ॒ज॒र॒ उ॒ष॒ आगाः᳚ (४-३-२५)
आकारेण किम् - पू॒षा गाः (४-१-४४), धन्व॑ना॒ गाः (४-६-२७)
अगात् (नपरापरं) - आऽगा᳚त् (१-३-२५,३-१-३९,४-२-४,४-३-२५,५-२-५) नपरापरमिति किम् - अ॒व॒हाय॒ परा॑ गात् (५-७-३६)
अगन्त - परे᳚क्षे॒ताग॑न्त पितरः (३-२-१५)
अगच्छत् - प्रत्याऽग॑च्छत् (२-५-२०,६-४-४९), सः, रु॒द्र आऽग॑च्छत् (३-१-२७), चाऽग॑च्छत् (६-१-४०,४१),
अगमम् - अ॒ग्न॒ आऽग॑मम् (१-४-५१,५३)
अगृहीताः - अ॒स्यै॒तेऽगृ॑हीताः (३-२-२)
अगन्म - आऽग॑न्म वित्रावरुणा (३-५-१२) ॥

मूलम् - 5.1.13

मू ॥ अगृह्णादगथा अघ्नन्नगच्छन्नप्यघारयत् । अघावग्रहवर्ति स्यात् अचरच्चाच्छिनत्तथा ॥ १३ ॥
व्या ॥ अगृह्णात् । अगथाः । अघ्नन्न् । अगच्छन्न् । अघारयत् । अघ एतान्यकारादीनि । अघ इत्येतत् अवग्रहवर्ति चेदकारादि । अचरत् ।
अच्छिनत् । एते अप्यकारादिनी । उदा -
अगृह्णात् - वरु॑णोऽगृह्णा॒त्सः (५-२-३)
अगथाः - वर्च॑साऽगथाः (१-५-२०,३०)
अघ्नन् - वज्रं॑ कृ॒त्वाऽघ्नन्न् (६-५-२७)
अगच्छन्न् - यां तेऽग॑च्छन्न् (५-६-२२)
अघारयत् - आ॒घा॒रमाघा॑रयत् (२-५-६३,६-३-३७)
अघ (अवग्रहवर्ति) - ई॒श॒त॒ माऽघशसः (१-१-१), स॒वि॒ताऽघशसात् (१-६-८), उ॒त्त॒र॒तो॑ऽघा॒युः (५-७-९) [दू॒रे अ॒घशसः (१-२-२८),
माकि॑र्नो अ॒घशसः (१-४-२५,४-६-३०) इत्यत्र अकारस्य असञ्छन्नत्वात् नोदाहरणम्] अवग्रहवर्तीति किम् - उ॒त वा॑ घा स्या॒लात् (१-१-२५),
यद्वा॑ घा स॒त्यम् (३-४-४६), यद्वा॑ घास्य (४-६-४१) इङ्ग्यपदस्य पूर्वखण्ड एव अवग्रहः ।
अचरत् - अ॒भ्य॒र्धो॑ऽचरत् (२-३-२९), वा॒युर्भूत्वाऽच॑रत् (७-१-१४)
अच्छिनत् - शिरो᳚ऽच्छिनत् (२-१-४१,३-५-२२), योनि॒माऽच्छि॑नत् (६-१-२२) ॥

मूलम् - 5.1.14

मू ॥ अच्छिद्यमानयाजोऽजन्यजक्षीरे भवेदजेत् । अजायन्ताप्यजातश्च नोदात्तान्तोऽजिहीत च ॥ १४ ॥
व्या ॥ अच्छिद्यमानया । अजः । अजनि । अजक्षीरे । अजेत् । अजायन्त । अजातः । अजिहीत एतान्यकारादीनि । ’अजातः’ इत्ययं
उदात्तान्तश्चेत् अकारादिर्न । उदा -
अच्छिद्यमानया - सू॒च्याऽच्छि॑द्यमानया (३-३-३६)
अजः - सुव॑र्धामा॒ऽजो॑ऽसि (१-३-५), ततो॒ऽजस्तू॑प॒रः (२-१-४), आ॒र॒ण्यो॑ऽजो न॑कु॒लः (५-५-५०), कृ॒ष्णो॑ऽजस्सा॑रस्व॒ती (५-५-६२)
अजनि - शत्रु॑र्मेऽज॒नीति॑ (२-५-९), वृ॒त्र॒हाऽज॑नि (३-५-३५)
अजक्षीरे - रस॑वतेऽजक्षी॒रे (२-२-१८) [क्षीर इति किम्?] — *
अजेत् - गामा॒ऽजेत्ताम् (२-२-३४)
अजायन्त - वी॒रा आऽजा॑यन्त (७-१-३३)
अजातः (नोदात्तान्तः) - पु॒त्रोऽजा॑त॒स्स्यात् (१-५-३५,१-७-२९), भूति॑का॒मोऽजा॑तः (२-१-३२) नोदात्तान्त इति किम् - पु॒त्रो जा॒तः (१-५-३५,.),
यतो॑ जा॒तः (१-५-१८,..), इ॒तो जा॒तः (१-५-४९), यो जा॒तः (१-७-४८), स॒द्यो जा॒तः (५-१-५९), व॒थ्सो जा॒तः (५-४-९)
अजिहीत - पर्णं परा॑ऽजिहीत (५-४-११) ॥

मूलम् - 5.1.15

मू ॥ तोऽजायामजयन्ताजाप्यजस्रोऽपि तथाऽजयन्न् । न युधापदपूर्वञ्चेत् अणिष्ठा अत्रिमत्यपि ॥ १५ ॥
व्या ॥ तोऽजायाम् । अजयन्त । अजा । अजस्रः । अजयन्न् । अणिष्ठाः । अत्रिम् । अति । एतानि पदानि अकारादीनि । अजयन्न् इत्येतत् युधा
पदपूर्वञ्चेत् अकारादि न । उदा -
तोऽजायाम् - लो॒कं यन्तो॒ऽजाया᳚म् (५-४-१०,११) तो इति किम् - यथा॑ जा॒यामा॒नीय॑ (५-३-३२)
अजयन्त - य॒ज्ञं परा॑ऽजयन्त (६-३-१)
अजा - गौश्छन्दो॒ऽजा छन्दः॑ (४-३-१३)
अजस्रः - ह॒व्याऽज॑स्रो वक्षि (४-३-३४)
अजयन्न् (न युधापूर्वं) - (पृ॒थि॒वीम्, अ॒न्तरि॑ख्षम्, दिव᳚म्) आऽज॑यन्न् (५-६-२९) नयुधापूर्वमिति किम् - प्र॒मृ॒णो यु॒धा जयन्न् (४-६-१७)
अणिष्ठाः - येऽणि॑ष्ठा॒स्तान् (२-५-२८) [मेऽण॑वश्च (४-७-८)]
अत्रिम् - साऽत्रि श्र॒द्धादे॑वम् (७-१-३४)
अति - माऽति॑ धा॒गग्ने᳚ (१-१-१२), ययाऽति॒ विश्वा᳚ (१-२-४), विष्ण॒वेऽति॑ (२-४-३९,४०,४२), सेतु॒नाऽति॑ यन्ति (३-२-५), भुव॒नाऽत्य॒न्या
(४-२-४६), वाऽति॑ नावयेत् (६-३-२२), माऽति॑ व्याथ्सीः (७-५-३२), मूज॑व॒तोऽती॑हि (१-८-११), स्रिधोऽत्यचि॑त्तिम् (४-१-२७),
सदोऽती॑यात् (६-३-६), सोमोऽति॑ पवते (६-५-४२), अ॒श्व॒त॒रोऽत्य॑प्रवत (७-१-२), अव॑कॢ॒प्तोऽति॒ हि (७-१-३), नु॒द॒तेऽति॑ स॒दृश᳚म् (२-४-
४), अ॒ना॒ले॒शेऽत्य॒न्यान् (५-१-२५), चे॒ष्य॒सेऽति॑ मा (५-५-१०), मे॒ऽति॒ग्रा॒ह्याः᳚ (४-७-१४), मि॒मी॒तेऽति॑-च्छन्दाः (६-१-६२), रु॒न्ध॒ते॒ऽति॒रा॒त्रौ
(७-२-२१,७-४-३,८,१४), मध्ये॑ऽतिरा॒त्रम् (७-३-८), जा॒य॒तेऽति॒रा॒त्रौ (७-४-२१), कृ॒त्वाऽत्ये॑ति (६-१-३३), वा॒ऽति॒पा॒दये᳚त्, अ॒ति॒पा॒दय॑ति,
अ॒ति॒पाद्य॑ (२-२-६,२६), स्वाहा॑ऽतिरा॒त्रम् (२-४-१९), पि॒तृ॒दे॒व॒त्याऽति॑खाता (२-६-२१), अ॒वि॒श॒स्ताऽति॒हाय॑ (४-६-४६), सा त्वा॑ऽतिद॒ह्यमा॑ना
(५-५-१०), स्वाहाऽति॑शिष्टाय (७-३-४२) ॥

मूलम् - 5.1.16

मू ॥ अत्रातिष्ठदतीकाशादत्रीरद्भ्योऽद्भिरप्यथो । अथाददाददधत तथादब्धाप्यदन्तकः ॥ १६ ॥
व्या ॥ अत्र । अतिष्ठत् । अतीकाशात् । अत्रीः । अद्भ्यः । अद्भिः । अथो । अथ । अददात् । अदधत । अदब्ध । अदन्तकः । एतानि
अकारादीनि । उदा - अत्र - नोऽत्रास्तु॑ (२-६-१४), येऽत्र॒ स्थ (४-२-१४), मेऽत्रापीति॑ (७-१-२१)
अतिष्ठत् - क्षु॒रप॑विर्भूत्वाऽति॑ष्ठत् (५-६-२३)
अतीकाशात् - मा॒ऽती॒का॒शात्पा॑हि (१-२-४)
अत्रीः - प्र॒जाः प्रजा॑यन्ते॒ऽत्रीश्च॑ (६-४-४५)
अद्भ्यः - स्वाहा॒ऽद्भ्यः त्वा᳚, स्वाहा᳚ (१-३-२०,१-८-२६)
अद्भिः - दि॒व आद्भिस्स॑मु॒द्रं पृ॑ण (२-४-२२,२९), वरु॑णो॒ऽद्भिस्साम्ने᳚ (७-५-५१) द्विपदग्रहणेन किम् - अदित्यवग्रहेणैवालमिति चेत् - मैवम् ।
सद॑नानि कृ॒त्वादित् (३-१-३८) अत्र आदिति पदविभागः । अतः आकारादि शङ्कानिवृत्त्यर्थं पदद्वयम् प्रयुक्तम् ।
अथो - आ ध॒त्तेऽथो᳚ (१-५-१३), नोप॒स्थेयोऽथो᳚ (१-५-४१), ए॒षाऽथो᳚ (१-७-११), साऽथो॑ यु॒क्तेन॑ (६-२-३५)
अथ - अप॑शु॒ष्काऽथ॑ (२-१-२८), अप्र॑तिष्ठि॒तोऽथै॒षः (२-१-२७), प॒र्या॒वर्ततेऽथ॑ (२-४-२८), र॒ज॒ताऽथ॒ हरि॑णी (६-२-१५)
अददात् - सोमा॑य॒ राज्ञे॑ऽददात् (२-३-३४)
अदधत - अ॒ग्नीनाऽद॑धत (३-५-२)
अदब्ध - रसोऽद॑ब्धेन (१-१-१८), अग्ने॑ऽदब्धायो (१-१-२४)
अदन्तकः - प्र॒पि॒ष्टभा॑गोऽद॒न्तकः॑ (२-६-४६) [अदन्तकाय इति तु परिभाषायां गतम् (श्लो.९) । ] ॥

मूलम् - 5.1.17

मू ॥ अदादददतादाभ्यमद्यादृहन्नदत्ततत् । अदस्यन्नध्वनोदायोदधुरध्रियतादुहत् ॥ १७ ॥
व्या ॥ अदात् । अददत । अदाभ्यम् । अद्य । अदृहन्न् । अदत्त तत् । अदस्यन्न् । अध्वनः । अदायः । अदधुः । अध्रियत । अदुहत् । एतानि
पदानि अकारादीनि । उदा -
अदात् - स॒ह कु॒म्भ्याऽदा᳚त् (३-२-३३) [राज्ञे॑ऽददात् (२-३-२४)?]
अद॑दत, अ॒द॒द॒त॒ - रा॒ष्टमाऽद॑दत (तत्) (३-४-१८), पुन॒राऽद॑दत (६-१-६८)
अदाभ्यम् - योऽदा᳚भ्यं गृही॒त्वा (३-३-९), [मेऽदा᳚भ्यः (४-७-१३), वि॒दुषोऽदा᳚भ्यः (६-६-३४)]
अद्य - पा॒हि मा॒ऽद्य दि॒वः (१-१-२४), अनु॑ नो॒ऽद्यानु॑मतिः (३-३-३४)
अदृहन्न् - ते दिशो॑ऽदृहन्न् (५-३-७)
अदत्त तत् - आऽद॑त्त॒ तद्ग॑र्दभे (७-१-२) तदिति किम् - उ॒द्नो द॑त्त (२-४-२१,४-७-२५), ताव॑न्नो द॒त्तेति॑ (६-२-२३)
अदस्यन् - तेषां॒ दिशो॑ऽदस्यन्न् (१-६-४१)
अध्वनः - पू॒षाऽध्व॑नः पातु (१-२-१०,६-१-५१)
अदायः - गाह॑मानोऽदा॒यः (४-६-१७)
अदधुः - ज॒वमाऽद॑धुः (१-७-३३)
अध्रियत - सो᳚ऽग्नये᳚ऽध्रियत (२-६-१६)
अदुहत् - त्रे॒धाऽदु॑ह॒त्तत् (२-३-३७) ॥

मूलम् - 5.1.18

मू ॥ अदित्सन्ताप्यध्यधममधिताधादधा इति । आ रेतोऽधत्त मेऽधायि त्वधस्तादप्यनुष्ठुया ॥ १८ ॥
व्या ॥ अदित्सन्त । अधि । अधमम् । अधित । अधात् । अधा इति । आपूर्वं, रेतः पूर्वं वा ’अधत्त’ इति पदम् । मेऽधायि । अधस्तात् ।
अनुष्ठुया । एतान्यकारादीनि । उदा -
अदित्सन्त - सह॒साऽदि॑त्सन्त (१-५-१)
अधि - वित॒ताऽधि॒ धन्वन्न् (४-६-२७), आ॒त्मनेऽध्या॑ह (२-५-६९), ए॒तेऽध्यप॑थेन (७-२-३१), ए॒षोऽध्यप॑थेन (२-२-६), पु॒रो॒डाशोऽध्ये॒वम्
(२-४-३०), वन॒स्पति॒भ्योऽधि॑ (४-६-१), त्रि॒वृतोऽधि॑ (७-४-८), इन्द्रो॑ऽधिरा॒जः (२-३-२८), रु॒द्रोऽधि॑पतिः (३-१-१५), धा॒ता, पू॒षाऽधि॑पतिः
(४-३-१८,१९), तेऽधि॑पतिः (४-४-२०), ते तेऽधि॑पतयः (४-४-३१), स॒मु॒द्रोऽधि॑पतयः (५-५-४५), त्वयाऽध्य॑ख्षेण (४-७-२९),
वा॒ऽधि॒स्प॒र्शये᳚त् (६-२-३०), च॒ मे॒ऽधि॒षव॑णे (४-७-१५), ऊधो॑ऽधि॒षव॑णे (६-२-५९), भ॒व॒तो॒ऽधि॒रा॒जाः (७-३-१०), नमोऽधि॑पत॒येऽधि॑पतिः
(७-४-४२)
अधमम् - अ॒ह रक्षो॑ऽध॒मम् (१-३-१७,६-३-४६)
अधित - उ॒पस्थ॒ आऽधि॑त (१-४-४१)
अधात् - पू॒षा मा॑ऽधात् (४-२-३३)
अधा (इति) - द्विः, त्रिः मा॑ऽधा॒ इति (२-४-४०) इतीति किम् - मा॒ धाः॒ । (१-२-१९,१-५-४४), मा॒ धाः॒ स्वाहा᳚ (३-१-३२), प॒दा धा॒ अच्छि॑द्रा
(५-६-३५), वाते॑ धाः । (१-१-२४,.), वयो॑ धाः । (३-५-३३,.)
अधत्त (आ पूर्वं) - तम्पू॒षा, धा॒ता, त्वष्टाऽऽऽध॑त्त (१-५-३)
अधत्त (रेतः पूर्वं) - सा रेतो॑ऽधत्त (६-५-१८) आरेत इति किम् - सु॒म्ने मा॑, दे॒व॒त्रा ध॑त्त शु॒क्रम् (१-३-२१,२३), अ॒स्मे ध॑त्त (१-४-४७), नो॒ ध॒त्त॒
(१-५-५१,४-२-३९,५-७-२६), ओजो॑ धत्त (३-१-३)
मेऽधायि - सु॒मन्मे॑ऽधायि॒ मन्म॑ (४-६-४१) म इति किम् - इ॒ह प्र॑थ॒मो धा॑यि (१-५-१७,२६)
अधस्तात् - वरु॑णराजानो॒ऽधस्ता᳚त् (५-५-४१)
अनुष्ठुया - स॒त्य॒ता॒ते॒ऽनु॒ष्ठु॒या (१-२-३३) ॥

मूलम् - 5.1.19

मू ॥ क्रन्दनोऽनिमिषोऽनाप्तमनमित्रमनक्ति च । अनक्तु च तथा प्रोक्तमनशन्यपि कीर्तितम् ॥ १९ ॥
व्या ॥ क्रन्दनोऽनिमिषः । अनाप्तम् । अनमित्रम् । अनक्ति । अनक्तु । अनशनि । एतानि पदानि अकारादीनि । उदा -
क्रन्दनोऽनिमिषः - सं॒क्रन्द॑नोऽनिमि॒षः (४-६-१६) क्रन्दन इति किम् - व॒ इष॑वो निमि॒षः (५-५-४६) [प्रा॒ण॒तो नि॑मिष॒तः (४-१-३२,.)]
अनाप्तम् - यद्वा॒चोऽना᳚प्तम् (५-१-४५,६-१-१६) [होताऽना᳚प्तस्य (७-१-१९)]
अनमित्रम् - च॒ मे॒ऽन॒मि॒त्रञ्च॑ मे (४-७-६)
अनक्ति - त्रे॒धाऽन॑क्ति॒ त्रयः॑ (२-६-२६), प॒थ आऽन॑क्ति (४-१-२९), तेज॑साऽनक्ति (६-२-५३),
अनक्तु - स॒वि॒ता मध्वा॑ऽनक्तु (१-३-९,१०,६-३-१४,२०)
अनशनि - स्वाहा॑ऽनश॒न्य॑व॒स्फूर्जन्न् (२-४-१९) ॥

मूलम् - 5.1.20

मू ॥ अनीकेनानायतना अनड्वाहोनयानृतम् । अनु नोदात्तमन्वक्चाप्यनोवाहौ तथानयोः ॥ २० ॥
अनीकेन । अनायतनाः । अनड्वाहः । अनया । अनृतम् । अनु । अन्वक् । अनोवाहौ । अनयोः । एतान्यकारादीनि । उदात्तञ्चेत् ’अनु’
इत्येतदकारादि न । उदा - अनीकेन - सैनाऽनी॑केन (४-३-३०,४-६-५)
अनायतनाः - हू॒यन्ते॑ऽनायत॒नाः (३-१-२७) यतना इति किम् - रि॒पवो॒ ना ह॑ देभुः (१-२-३२)? [मेऽना॑मयत् (४-७-६)?]
अनड्वाहः - त्रयो॑ऽन॒ड्वाहः॑ (५-६-४९)
अनया - पू॒षाऽनया॑ मा (२-४-१३), इ॒यं वै मनो॒ऽनयै॒व (१-६-२५,२६) {अग्ने॒ नया दे॒वाना᳚म् (४-२-४८) इति तु ह्रस्वान्तम्}
अनृतम् - ए॒व सोऽनृ॑तम् करोति (२-५-२७)
अनु (नोदात्तं) - अनु॑ पि॒ताऽनु॒ भ्राता᳚ (१-२-१०), भुव॒नाऽनु॑ (३-३-३१), सर्वे॑ऽनु॒ जीवा॑म (१-२-२५), अदि॒तेऽनु॑ मन्यस्व (२-३-२), तेजोऽनु॒
प्रेहि॑ (१-१-१८), सग॒र्भ्योऽनु॒ सखा᳚ (१-२-१०) …. नोदात्तमिति किम् - योजा॒ न्वि॑न्द्र (१-८-७,८), प्र॒जया॒ न्वग्रे॒ सुवः॑ (३-५-१३), हु॒वे नु श॒क्रम्
(१-६-५०), वि॒दुषो॒ नु (१-३-२२), मनो॒ न्वा हु॑वामहे (१-८-८) (उदात्तत्वादकारादि न)
अन्वक् - मा त्वा॒ऽन्वङ्मा (१-१-२)
अनोवाहौ-स्व॒राज्ञे॑ऽनोवा॒हौ (५-६-५२) वाहाविति किम्-ब॒हु॒ला न॑ उ॒र्वी (१-१-२८), ते नः॑ पान्तु (१-२-६), मा नो॑ हिसीत् (४-२-२९)
अनयोः - ज्योग॑परुद्धो॒ऽनयो॒र्हि (२-१-२७), गर्भो॒ऽनयोः᳚ (३-४-३) ॥

मूलम् - 5.1.21

मू ॥ अनवावग्रहोऽनड्वाननिर्दिष्टाऽनपाऽपथात् । अपिबच्चापतन्नप्राः अन्तोदात्तमपस्तथा ॥ २१ ॥
व्या ॥ अनव इत्येतत् अवग्रहश्चेदकारादि । अनड्वान् । अनिर्दिष्ट । अनप । अपथात् । अपिबत् । अपतन्न् । अप्राः । एतानि अकारादीनि । अपः
इत्येतत् अन्तोदात्तं चेदकारादि । उदा -
अनव (अवग्रहः) - ल॒भ॒तेऽन॑वरुद्धा (१-७-३१), शू॒द्रो य॒ज्ञेऽन॑वकॢप्तः (७-१-६), अ॒न्वा॒र॒म्भोऽन॑वच्छित्त्यै (६-१-७५,..) अवग्रह इति किम् -
आ॒त्मा न॑व॒मः (३-४-४), स्वाहा॑ न॒वभ्यः॑ (७-२-४१).., गृ॒ह्य॒न्ते॒ नव॑ (३-५-३०), सम्प॑द्यन्ते॒ नवा॒न्यानि॑ (७-४-३७), मि॒त्रो नवा᳚ख्षरेण (१-७-
४३), पि॒तरो॒ नव॑ग्वाः (२-६-७०)
अनड्वान् - वोढा॑ऽन॒ड्वान् (७-५-४४), च॒ मे॒ऽन॒ड्वान् (४-७-१८), छन्दो॑ऽन॒ड्वान् (४-३-१०), अ॒न्यो॑ऽन॒ड्वान् (६-२-१)
अनिर्दिष्ट - अ॒न्योऽनि॑र्दिष्टभागः (२-२-२०)
अनप - त्रा॒य॒ते॒ऽन॒प॒रु॒ध्यः (२-२-४४), ए॒षोऽन॑पोब्धो॒ जाये॑त (२-४-४३)
अपथात् - ग॒त्वाऽप॑था॒त्पन्था᳚म् (७-२-३२)
अपिबत् - सोम॑मभी॒षहा॑ऽपिबत् (२-३-११,६-५-४१)
अपतन्न् - शी॒र्षाणि॒ परा॑ऽपतन्न् (२-४-२४)
अप्राः - आऽप्रा॒ द्यावा॑पृथि॒वी (१-४-४४,२-४-४७)
अपः (अन्तोदात्तं) - ज्योति॑षा॒ऽपस्त॑तान (१-५-५०), ब्रह्म॑णा॒ऽपः (२-६-२४), पीव॑सा॒ऽपः (५-७-५२) अन्तोदात्तमिति किम् - स्वाहाऽऽपो॑
देवीः (१-२-३) ॥

मूलम् - 5.1.22

मू ॥ अपोनप्त्रीयमप्राप्य चाप्स्वपूपमपाप्यपाम् । अपश्यदपराभ्याञ्चापश्यन्नप्रथतापसा ॥ २२ ॥
व्या ॥ अपोनप्त्रीयम् । अप्राप्य । अप्सु । अपूपम् । अप । अपि । अपाम् । अपश्यत् । अपराभ्याम् । अपश्यन्न् । अप्रथत । अपसा ।
एतान्यकारादीनि । उदा - अपोनप्त्रीयं - अव॑यजतेऽपोन॒प्त्रीय᳚म् (२-३-४७)
अप्राप्य - साऽप्रा᳚प्य॒ न्य॑वर्तत (६-१-४०) आप्येति किम् - पू॒षा प्राश्य॑ (२-६-४६), साग्रे॒ प्राश्ञा᳚त् (६-५-१८) …
अप्सु - यथा॒ऽप्सु ना॒वा (५-३-४०), रा॒ज॒न्यो᳚ऽफ्सु (५-२-११), यन्तो॒ऽफ्सु (६-१-२)
अपूपं - भ॒द्र॒शो॒चे॒ऽपू॒पन्दे॑व (४-२-८)
अप - त्वा॒ऽपा॒नाय॑ त्वा (१-१-९), माऽप॑ गात (१-५-२१), ज॒य॒तेऽप॒ वै (२-२-२), आधि॑पत्येऽपा॒नम् (३-३-११), ल॒भ॒ते॒ऽप॒वा॒ह॒तः (६-६-२३),
मृधोऽपा॑हत (२-५-१५)
अपि - माऽपि॑ (३-३-३५), यज॒तेऽपि॑ (१-७-२), इ॒ध्मेऽपि॑ म॒यूखान् (२-३-५), ग॒र्दभोऽप्य॑नाले॒शे (५-१-२५), सोऽपि॑ (७-२-४०)
अपाम् - त्वा॒ऽपाञ्च॑ (३-३-२), स्वाहा॒ऽपाम्मोदा॑य (७-१-४३), आधि॑पत्ये॒ऽपाम् (३-३-११), चि॒नु॒ते॒ऽपाम् (५-२-३५), आपो॒ऽपाञ्च॑ (२-१-
५४), स॒पी॒त॒योऽपा᳚न्नपात् (२-४-२१), अ॒प॒वा॒ह॒तो॑ऽपाम् (६-६-२३)
अपश्यत् - ज॒मद॑ग्नि॒स्तप॑साऽपश्यत् (३-३-१२), अग्रेऽप॑श्यत् (२-६-३९)
अपराभ्यां - द॒ह्नम् वै साऽप॑राभ्याम् (७-५-९)
अपश्यन्न् - तानि॒ तप॑साऽपश्यन्न् (५-३-२६), ते॑ऽपश्यन्न् (१-५-३८), मि॒थु॒ने॑ऽपश्यन्न् (२-१-५६),
अप्रथत - साऽप्र॑थत॒ सा पृ॑थि॒वी (७-१-१४)
अपसा - कर्म॑णा॒ऽपस॒र्तस्य॑ (७-१-४७) ॥

मूलम् - 5.1.23

मू ॥ अपरापतदप्रीणीताबाधन्ताबिभेदपि । अब्रवीच्चाबिभरुश्चाप्यब्रुवन्नभवन्नभि ॥ २३ ॥
व्या ॥ अपर । अपतत् । अप्रीणीत । अबाधन्त । अबिभेत् । अब्रवीत् । अबिभरुः । अब्रुवन्न् । अभवन्न् । अभि । एतान्यकारादीनि । उदा -
अपर - रा॒काऽप॑रप॒क्षः कु॒हूः (३-४-३४), आयु॒षोऽप॑रः (२-२-१०), इ॒तोऽप॑रः (६-१-२२), चित॑योऽपरप॒ख्षाः (५-७-२९)
अपतत् - रसः॒ परा॑ऽपतत् (२-१-४१), द्वि॒तीयः॑, यल्लोहि॑तं प॒राऽप॑तत् (२-१-४२), रस॑ ऊ॒र्ध्वो॑ऽपतत् (२-४-२४)
अप्रीणीत - आ॒त्मान॒माऽप्री॑णीत (५-१-४२)
अबाधन्त - दि॒ग्भ्य आऽबा॑धन्त (५-७-९)
अबिभेत् - सो॑ऽबिभेत् (२-२-४५), सोऽसु॑रेभ्योऽबिभेत् (७-३-१६)
अब्रवीत् - साऽब्र॑वीत् (२-५-२), वि॒श्वक॑र्माऽब्रवीत् (५-७-१९), सो᳚ऽब्रवीत् (२-१-७), ए॒भ्यो॒ऽब्र॒वी॒त् (३-१-३०), सोमो᳚ऽब्रवीत् (२-४-१३);
अबिभरुः - वस॑वोऽबिभरु॒स्ते (५-६-२९)
अब्रुवन्न् - ते᳚ऽब्रुवन्न् (२-५-३), तं वस॑वोऽब्रुवन्न् (५-५-१२), ऋष॑योऽब्रुवन्न् (५-७-२३)
अभवन्न् - य॒ज्ञदु॑ग्धाः॒ परा॑ऽभवन्न् (१-७-१), तत॒स्ते॑ऽभवन्न् (६-२-२८), वै॒दे॒ह्यो॑ऽभवन्न् (२-१-२५)
अभि - स्व॒धया॒ऽभि (२-३-५६), पूर्व॑याऽभि॒जय॑ति (२-५-३०), कु॒रु॒ते॒ऽभि॒भूः (१-६-३३), मी॒य॒ते॒ऽभि (२-२-१०), ग्रहो॒ऽभि (१-२-१३),
अ॒ग्नि॒ष्वा॒त्तेभ्यो॑ऽभिवा॒न्या॑यै (१-८-७) ॥

मूलम् - 5.1.24

मू ॥ अभिप्रयाय्यभागानि त्वभूवन्नपरापरम् । अभरन्नभरच्चाभूदभिमात्यभितोऽभवत् ॥ २४ ॥
व्या ॥ अभिप्रयायी । अभागानि । अभूवम् । योषत् अभरन्न् । अभरत् । अभूत् । अभिमाति । अभितः । अभवत् । एतान्यकारादीनि ।
’अभूवम्’ इत्येतत् ’परा’ इत्यस्मात्परञ्चेत् अकारादि न । उदा -
अभिप्रयायी - उ॒त्त॒र॒तो॒ऽभि॒प्र॒या॒यी ज॑यति (५-३-९,१२,१८,२४)
अभागानि - न वो॑ऽभा॒गानि॑ ह॒व्यम् (२-६-१५,५-१-१)
अभूवम् (न परापरम्) - ज्योति॑षाऽभूवम् (१-६-१८,.), अनु॑पाक्तोऽभूव॒म् (२-६-१६) न परापरमिति किम् - मा परा॑ भूव॒म् (२-५-२)
अभरन्न् - सुव॒राऽभ॑रन्नि॒दम् (४-३-२२)
अभरत् - पृ॒थि॒व्या अध्याऽभ॑रत् (४-१-१)
अभूत् - प्र॒ति॒चख्ष्या॑ऽभूत् (१-४-३४), स॒न्धाऽभू᳚त् (१-७-३७),राजा॑ऽभूत् (१-८-३२), मि॒न्दाऽभू᳚त् (३-२-१९),पि॒ताऽभू᳚त् (३-५-१६)
अभिमाति - त्वा॒ऽभि॒मा॒ति॒घ्ने (१-४-१), श॒तोत॑येऽभिमाति॒षाहे᳚ (५-७-६)
अभितः - सौ॒म्यो रा॑ज॒न्यो॑ऽभितः॑ (२-१-१५), पर॑स्सामानो॒ऽभितः॑ (७-३-२६,२७),
अभवत्-व॒शाऽभ॑वत् (२-१-३२),आऽभ॑वत् (२-२-६४),सू॒तव॑शाऽभवत् (६-१-२२),उ॒न्न॒तो॑ऽभवत् (२-१-२९),सो॑ऽभवत् (२-२-४५)

मूलम् - 5.1.25

मू ॥ अभावयन्नभूवंश्चाप्यभ्रिश्च अ॒शि॒क्ष॒न्तद॑शक्नुवनामुममीव च । अमूममन्यतामुष्मिन्नमित्रानप्यमूस्तथा ॥ २५ ॥
व्या ॥ अभावयन्न् । अभूवन्न् । अभ्रिः । अमुम् । अमीव । अमूम् । अमन्यत । अमुष्मिन्न् । अमित्रान् । अमूः । एतान्यकारादीनि । उदा -
अभावयन्न् - परा॑ऽभावय॒न्निति॑ (७-३-२)
अभूवन्न् - वी॒रुधो॑ऽभूव॒न्न् (२-५-१७), होता॑रोऽभूवन्न्, अध्वा॒नोऽभू॑वन्न् (२-५-६२)
अभ्रिः - सु॒षि॒राऽभ्रि॑र्भवति (५-१-४)
अमुम् - प्र॒यु॒ज्यन्ते॒ऽमुमे॒व (६-५-३९)
अमीव - र॒क्षो॒हाऽमी॑व॒चात॑नः (१-४-५३)
अमूम् - स्व॒य॒मा॒तृ॒ण्णाऽमूमे॒व (५-३-३४)
अमन्यत - साऽम॑न्यतो॒च्छेषणात् (६-५-१८)
अमुष्मिन् - यदा॑हव॒नीये॒ऽमुष्मिन्न् (६-४-१०)
अमित्रान् - र॒क्षो॒हाऽमित्रान् (४-६-१७)
अमूः - आऽमूर॑ज (४-६-३३) ॥

मूलम् - 5.1.26

मू ॥ अमुह्यन्नप्यमुष्माच्चामुष्यां चामात्यइत्यपि । अमन्यन्ताप्यमुष्मै चामेध्यावग्रहवर्त्यमा ॥ २६ ॥
व्या ॥ अमुह्यन्न् । अमुष्मात् । अमुष्याम् । अमात्यः । अमन्यन्त । अमुष्मै । अमेध्या । अवग्रहवर्ति ’अमा’ इति पदम् । एतान्यकारादीनि । उदा -
अमुह्यन्न् - ज॒घ्नुष॑ ऋ॒तवो॑ऽमुह्यन्न् (६-५-१५)
अमुष्मात् - आऽमुष्मा॑द॒मुष्यै᳚ (२-३-५)
अमुष्याम् - स्व॒य॒मा॒तृ॒ण्णाऽमुष्या॑मे॒व (५-४-३२)
अमात्यः - अच्यु॑तो॒ऽमात्यो॑ऽसि (१-२-१३)
अमन्यन्त - जीर्य॑न्तोऽमन्यन्त (१-५-१३), ते॑ऽमन्यन्त (२-४-९,६-१-१७,६-२-८,६-३-२५,२७,५२,६-५-९)
अमुष्मै - आ शा॑से॒ऽमुष्मै᳚ (१-५-२४,३५,१-६-१९,१-७-२९), आधी॑यते॒ऽमुष्मा॑ आहव॒नीयः॑ (६-१-५८,६-४-१०)
अमेध्या - अ॒लो॒मका॑ऽमे॒ध्या यत् (२-६-२४)
अमा (अवग्रहवर्ति) - आऽ, आ॒मिक्ष॑याऽ, व॒शाऽमा॑वा॒स्या॑याम् (२-५-१२,३०,३१), अ॒ष्टाक॑पालोऽमावा॒स्या॑याम् (२-५-१६,२-६-१६),
सो॑ऽमावा॒स्या᳚म् (२-५-२०), द्वाद॑शकपालोऽमावा॒स्या᳚ (३-५-४). अवग्रहवर्तीति व्यर्थम्, ते॑ऽमैषा᳚म् (४-७-३१) इत्यत्र ’अमा’ इत्यनव-ग्रहेणैव
स्थितत्वात् । [अ॒भिसम॑गच्छन्ता॒मा वै (२-५-२०), इत्या॑हा॒मैव (६-१-६१) इत्यत्र तु ह्रस्वान्तपरत्वात् नोदाहर्तव्यम् । ] ॥

मूलम् - 5.1.27

मू ॥ अयाशयाप्ययःस्थूणावयजन्तायनाय च । अयन्नोदात्तं मेऽयक्ष्ममयाजयदयाम च ॥ २७ ।
व्या ॥ अयाशया । अयःस्थूणौ । अयजन्त । अयनाय । अयत् । मेऽयक्ष्मम् । अयाजयत् । अयाम । एतान्यकारादीनि । ’अयत्’ इत्येतत्
उदात्तञ्चेदकारादि न । उदा -
अयाशया - या ते॑ अग्नेऽयाश॒या (१-२-२१) शयेति किम् - विष्ण॑वे त्वा॒ या ते᳚ (१-२-१८) (अत्र न)
अयःस्थूणौ - वि॒रो॒केऽयः॑स्थूणौ (१-८-२३) स्थूणाविति किम् - च्य॒व॒ते॒ यो वि॑ष्णुक्र॒मान् (१-७-२५,२६) (अत्र न)
अयजन्त - त आऽय॑जन्त॒ द्रवि॑णम् (४-६-७)
अयनाय - आऽय॑नाय॒ स्वाहा᳚ (७-१-४२)
अयत् (नोदात्तं) सृ॒ण्या॑ प॒क्वमाऽय॑त् (४-२-२३) नोदात्तमिति किम् - आ यदि॒षे (१-३-२९) अत्र उदात्तत्वात् ’यत्’ इत्येव ।
मेऽयक्ष्मम् - मे॒ऽय॒क्ष्मञ्च॑ (४-७-६) म इति किम् - परा॒ यक्ष्म सुवामि (१-३-२७) (अत्र न)
अयाजयत् - सं॒ज्ञान्या॑ऽयाजयत् (२-२-६३), सर्व॑पृष्ठयाऽयाजयत् (२-३-२९)
अयाम - उप॑ व॒ आऽया॒मेति॑ (५-७-२३) ॥

मूलम् - 5.1.28

मू ॥ व्योयुक्तोऽयानि न स्वारान्तोऽयानामयुताय च । अयातयामाह्ययातयाम्नियायाडयस्मयम् ॥ २८ ॥
व्या ॥ व्योयुक्तः । अयानि एते अकारादिनी । ’अयानि’ इत्ययं स्वारान्तः स्वरितान्तश्चेदकारादि न । अयानाम् । अयुताय । अयातयामाहि ।
अयातयाम्निया । अयाट् । अयस्मयम् । एतान्यकारादीनि । उदा -
व्योयुक्तः - स॒व्योऽयु॒क्तोऽथ॑ (३-४-३९) व्य इति किम् - दक्षि॑णो यु॒क्तः (३-४-३९), अश्वो॑ यु॒क्तः (५-५-४७) (अत्र न)
अयानि - उप॒ त्वाऽया॒नीति॑ (५-७-१९,२०,२१,२२) न स्वारान्त इति किम् - योक्त्रा॒ यानि॑ (१-६-१३), अ॒व॒भृ॒थो यानि॑ (१-७-२४), दु॒रि॒ता यानि॑
(१-८-९), वि॒बा॒धव॑ते॒, प्रती॑कवते॒ यानि॑ (२-४-३), उ॒ष्णिहा॒ यानि॑ (२-४-३०), ऋष॑यो॒ यानि॑ (४-१-२५), अ॒ग्ने॒ यानि॑ (४-१-३८,५-१-५१),
स॒मिधो॒ यानि॑ (५-७-३३), लो॒को यानि॑ (६-५-३९) अत्र स्वरितान्तत्वादकारादि न ।
अयानाम् - त्रेताऽया॑नाम् (४-३-५), द्वा॒प॒रो, आ॒स्क॒न्दोऽया॑नाम् (४-३-६)
अयुताय - स्वाहा॒ऽयुता॑य॒ स्वाहा᳚ (७-२-५०)
अयातयामा हि - लो॒क॒म्पृ॒णाऽया॑तयामा॒ ह्य॑सौ (५-७-२२) हीति किम् - शि॒थि॒लो या॒तया॑मा॒ सः (७-१-३३) (अत्र न)
अयातयाम्निया - मि॒मी॒तेऽया॑तयाम्नियाऽयातयाम्निया (६-१-६३)
अयाट् - दे॒वकृ॑त॒मेनो॑ऽयाट् (१-४-५०)
अयस्मयम् - वि॒श्व॒रू॒पे॒ऽय॒स्मय॒म् वि चृ॑त (४-२-१९,२०) ॥

मूलम् - 5.1.29

मू ॥ अयत्ययमयज्ञो वा अतिभूमिरिति त्रिषु । निष्क्रीतो जायते शास्ते प्रजाभ्यो नस्तमस्त्वया ॥ २९ ॥

मूलम् - 5.1.30

मू ॥हूतो राज्ञे जर्हृषाणो राजाविन्नश्च मा मुचे । गच्छते चिनुते स्वाहेत्येतेभ्यः परमप्ययम् ॥ ३० ॥
व्या ॥ अयति इत्येतदकारादि । उदा - अयति - पुन॑स्ते प्रा॒ण आऽय॑ति (१-३-२७)
’अयज्ञो वै, अति, भूमिः’ एतेषु त्रिष्वनुवाकेषु ’अय’ इत्येतदकारादि ।
अयज्ञो वा एष योऽसामोपप्रयन्त इत्यत्र - अव॑रुन्धे॒ऽयन्ते॒ योनिः॑ (१-५-२६)
अत्यन्यानगामित्यत्र - यन्त्वा॒ऽय स्वधि॑तिः (१-३-९) [मन्द॑तु त्वा॒ यन्ते᳚ (२-४-४७), काय॑ त्वा॒ यन्त्वा᳚ (३-२-८)]
भूमिर्भूम्ना द्यौर्वरिणान्तरिक्षमित्यत्र - आऽयङ्गौः पृश्ञिः॑ (१-५-१०) [आ यन्नरः॑ (२-४-२१), आ य हस्ते᳚ (३-५-३५)] एतेषु त्रिष्वनुवाकेष्विति
किम् - रु॒न्धे॒ यं का॒मये॑त (२-५-४२) अत्र ’यम्’ इत्येव ।
निष्क्रीत इति ॥ ’निष्क्रीतः, जायते, शास्ते, प्रजाभ्यः, नः, तमः, त्वया, हूतः, राज्ञे, जर्हृषाणः, राजा, आविन्नः, मा, मुचे, गच्छते, चिनुते, स्वाहा’
एतेभ्यः परं ’अयम्’ इत्येतदकारादि । उदा -
(निष्क्रीतः पूर्वं) - निष्क्री॑तो॒ऽयय्यँ॒ज्ञिय᳚म् (३-१-१२)
(जायते पूर्वं) - प॒शुर्जा॑यते॒ऽयं पु॒रः (५-२-५६)
(शास्ते पूर्वं) - आशा᳚स्ते॒ऽयं यज॑मानः (२-६-५५)
(प्रजाभ्यः पूर्वं) - प्र॒जाभ्यो॒ऽयन्द॑क्षि॒णा (४-३-२)
(नः पूर्वं) - यो वै नो॒ऽयं म्रि॒यते᳚ (२-४-१)
(तमः पूर्वं) - श्रेष्ठ॑तमो॒ऽयं भग॑वत्तमो॒ऽयम् (१-५-४४)
(त्वया पूर्वं) - त्वया॒ऽयं वृ॒त्रम् व॑ध्यात् (१-७-३२,१-८-२३,२९)
(हूतः पूर्वं) - उप॑हूतो॒ऽयं यज॑मानः (२-६-४०)
(राज्ञे पूर्वं) - स्व॒राज्ञे॒ऽयं वै (२-३-२८)
(जर्हृषाणः पूर्वं) - जर्हृ॑षाणो॒ऽयं वाज᳚म् (१-३-६)
(राजा पूर्वं) - राजा॒ऽयमिन्द्रः॑ (२-३-२८)
(आविन्नः पूर्वं) - आवि॑न्नो॒ऽयम॒सौ (१-८-२२)
(मा पूर्वं) - को मा॒ऽयमु॒पर्यु॑परि (६-२-२१)
(मुचे पूर्वं) - अ॒हो॒मुचे॒ऽयन्नो॒ राजा᳚ (१-८-१६)
(गच्छते पूर्वं) - ग॒च्छ॒ते॒ऽयन्नो॒ नभ॑सा (३-३-२६)
(चिनुते पूर्वं) - अ॒ग्निं चि॑नुते॒ऽयसः (५-२-१६)
(स्वाहा पूर्वं) - स्वाहा॒ऽयन्नो॑ अ॒ग्निः (१-३-६)
[(यज्ञः पूर्वं) - अ॒ध्व॒रो य॒ज्ञो॑ऽयम॑स्तु (३-१-२८)
(वराहः पूर्वं) - व॒रो॒हो॑ऽयं वा॑ममो॒षः (६-२-२१)]

एतेभ्यः परमिति किम् - क॒र्मण्यो॑ य सर्वे᳚ (१-२-२५), यन्न॑स्समा॒नो यमस॑मानो॒ यम् (१-३-३,६-२-५७), अर॑ण्ये॒ यम् (२-१-५८), स॒ह॒ते॒ यम्
(२-२-१४), भा॒गो यम् (३-१-२९), अग्ने॒ यय्यँ॒ज्ञम् (४-१-४३), प्रचे॑तसो॒ यम् (४-७-३३), दृ॒ह॒णा॒ यम् (४-७-३४), अस॑मानो॒ यम् (६-२-
५७), ते यं द्वि॒ष्मः (४-४-८,३१,४-५-२७,५-५-४२,४३,४६), सदो॒ यं प्र॑थ॒मम् (६-२-५५) इत्यादिषु ’यम्’ इत्येव ॥

मूलम् - 5.1.31

मू ॥तस्मात्परं कामयेत द्विष्यादिति च नत्वयम् । अरोऽरथेभ्यः प्रथममरातीयत्यरानरिम् ॥ ३१ ॥
व्या ॥ तस्मात् पूर्वोक्त निष्क्रीताद्यन्यतमनिमित्तयुक्तात्* ’अयं’ इति पदात् ’कामयेत, द्विष्यात्’ एतत्पदद्वयं परञ्चेदकारादि न । उदा -
कामयेतपरं - य॒ज॒ते॒, रु॒न्धे॒ यं का॒मये॑त (१-६-३६,२-५-४२,…), रा॒ज॒न्यो॑, सम॑नसो॒ यं का॒मये॑त (५-१-२०,५-३-४), मु॒च्य॒ते॒, भु॒ञ्ज॒ते॒, प॒शवो॒ यं
कामये॑त (५-४-२२,२३,६-३-२३,६-३-६१), उ॒पा॒शु॒सव॑नो॒ यं का॒मये॑त (६-४-३०), मी॒य॒ते॒, वि॒न्द॒ते॒,जा॒य॒ते॒ यं का॒मये॑त (६-४-३०,६-६-१६)]
द्विष्यात्परं - चि॒नु॒ते॒ यं द्वि॒ष्यात् (५-२-३०), उ॒भ॒याद॑द्भ्यो॒ यं द्वि॒ष्यात् (५-१-१०) अत्र ’यम्’ इत्येव । पूर्वोक्तस्यापवादोऽयम् ।
अर इत्येतदकारादि । अरथेभ्य इत्येतत्प्रथमञ्चेदकारादि । अरातीयति । अरान् । अरिम् । एतान्यकारादीनि । उदा -
अरः - मा भेर्माऽरः॑ (४-५-२१)
अरथेभ्यः (प्रथमं) - र॒थिभ्यो॑ऽर॒थेभ्य॑श्च (४-५-९) प्रथममिति किम् - वो॒ नमो॒ नमो॒ रथे᳚भ्यः (४-५-९) अत्र उत्तरत्वादकारादि न ।
अरातीयति - अस॑मानोऽराती॒यति॑ (१-३-३), दू॒रे॑ऽराती॒यति॑ (१-६-८), यो नो॑ऽराती॒यति॑ (३-५-२५)
अरान् - दे॒व॒पानो॒ऽरा इ॑व (२-५-५३)
अरिम् - अक॑वारिन्दि॒व्यम् (१-४-१८) ॥

मूलम् - 5.1.32

मू ॥ अरिष्यत्यररुश्चाराध्यरुहं चाप्यरेणवः । तथारमतचारोहन्नरथा अप्यलोमका ॥ ३२ ॥
व्या ॥ अरिष्यति । अररुः । अराधि । अरुहम् । अरेणवः । अरमत । अरोहन्न् । अरथाः । अलोमका एतान्यकारादीनि । उदा -
अरिष्यति - आर्ति॒माऽरि॑ष्यति (२-६-३०,४६,६-२-४२)
अररुः - अप॑हतो॒ऽररुः॑ (१-१-१३,१४)
अराधि - तन्मे॑ऽराधि य॒ज्ञः (१-६-१९)
अरुहम् - चक्षु॒राऽरु॑हम् (१-२-९,६-१-४८), नाव॒माऽरु॑हम् (१-५-५१), अ॒न्तरि॑ख्ष॒माऽरु॑हम् (४-६-२१,५-४-३०)
अरेणवः - पू॒र्व्यासो॑ऽरे॒णवः॑ (७-५-५२)
अरमत - तद्यवे॑ऽरमत (६-४-४६)
अरोहन्न् - सु॒व॒र्गल्लोँ॒कमाऽरो॑हन्न् (७-३-११)
अरथाः - ये प॒वयो॑ऽर॒थाः (१-६-५१)
अलोमका - ए॒षाऽलो॒मका॑ऽमे॒ध्या (२-६-३४) ॥

मूलम् - 5.1.33

मू ॥ अलभन्त तथालं चालभताप्यवमावतु । अवन्तु चाववृत्रंश्च दावन्द्रासोऽवृकास्तथा ॥ ३३ ॥
व्या ॥ अलभन्त । अलम् । अलभत । अवमा । अवतु । अवन्तु । अववृत्रन्न् । दकारपूर्वञ्चेत् ’अवन्’ इत्येतत् । द्रासोऽवृकाः । एतान्यकारा-
दीनि । उदा - अलभन्त - कामा॒याऽल॑भन्त (२-१-९), म॒ल्हा आऽल॑भन्त (२-१-१०), दश॑र्षभा॒माऽल॑भन्त (२-१-२१), व॒शामाऽल॑भन्त (२-१-
२४,४८), पूर्व आऽल॑भन्त (३-५-३), मेधा॒याऽल॑भन्त (६-३-२८)
अलम् - योऽलं॑ प्र॒जायै॒ सन्न् (२-१-३,३१,२-२-१,२४,), योऽलं॒ भूत्यै॒ सन्न् (२-१-३२,२-३-१,५-३-४१), योऽल श्रि॒यै सन्न् (२-२-४५)
अलभत - दे॒वता॑या॒ आऽल॑भत (२-१-४,१६,५३), वर॒माऽल॑भत (२-१-७), कृ॒ष्णग्री॑व॒माऽल॑भत (२-१-२६)
अवमा - प॒र॒माणि॒ याऽव॒मा या (४-६-१०)
अवतु - अधि॑पति॒स्स मा॑ऽवतु, अधि॑पति॒ तन्मा॑ऽवतु (३-४-१६)
अवन्तु - ते नो॑ऽवन्तु (१-२-६,१-८-१२,२-६-६८,४-३-६,), ते मा॑ऽवन्तु (३-४-१६), अव॑न्तीस्त्वाऽवन्तु (७-४-३८)
अववृत्रन् - अ॒भि मामाऽव॑वृत्रन्न् (पू॒षा) (१-२-७,६-१-३१), त आऽव॑वृत्रन्न् (३-१-३८)
दावन्न् - सदा॑ऽवन्भा॒गम् (३-५-३४) दावन्निति किम् - स॒ह॒सा॒व॒न्परि॑ष्टौ (१-६-५१) (अत्र न)
द्रासोऽवृकाः - अत॑न्द्रासोऽवृ॒का अश्र॑मिष्ठाः (१-२-३२) द्रास इति किम् - मा त्वा॒ वृका॑ अघा॒यवः॑ (१-३-१७) (अत्र न) ॥

मूलम् - 5.1.34

मू ॥ अविद्वान्मेऽवधीश्चाविमुच्यमानोऽप्यवोचथाः । अवहश्चाप्यवट्याभ्योऽविन्दतावृणतावृहत् ॥ ३४ ॥
व्या ॥ अविद्वान् । मेऽवधीः । अविमुच्यमानः । अवोचथाः । अवहः । अवट्याभ्यः । अविन्दत । अवृणत । अवृहत् । एतान्यकारादीनि । उदा

  • अविद्वान् - योऽवि॑द्वा॒निष्ट॑काम् (५-२-४२)
    मेऽवधीः - पु॒त्रं मे॑ऽवधी॒रिति॑ (२-४-३६,२-५-८) म इति किम् - हार्दि॑ त्वि॒षा व॑धीः (३-२-१७), भा॒मि॒तो व॑धीः (३-४-४३,४-५-२३), मा नो॑
    वधीः (४-५-२२)
    अविमुच्यमानः - यु॒क्तोऽवि॑मुच्यमानः (५-५-४७) मुच्यमान इति किम् - सा वि॒राट् वि॒क्रम्य॑ (७-३-२२) (अत्र न)
    अवोचथाः - हन्ता॑ऽवोचथाः (६-२-२१), आह॑र्ताऽवोचथाः (६-२-२२)
    अवहः - यानाऽव॑ह उश॒तः (१-४-४७)
    अवट्याभ्यः - स्वाहा॑ऽव॒ट्या᳚भ्य॒स्स्वाहा᳚ (७-४-३९)
    अविन्दत - ततो॒ वै सोऽवि॑न्दत (७-४-२५)
    अवृणत - गावो॑ऽवृणत रा॒ज्याय॑ (३-३-२९)
    अवृहत् - सक्थ्याऽवृ॑ह॒त्तद्दे॒वाः (५-३-४८) ॥
मूलम् - 5.1.35

मू ॥ अवतेन्द्रोऽवृणीतावाप्यवर्तिमवरैरपि । अवस्युरवसेनावाङवत्यप्यपरापरम् ॥ ३५ ॥
व्या ॥ अवत । इन्द्रोऽवृणीत । अव । अवर्तिम् । अवरैः । अवस्युः । अवसेन । अवाङ् । अवति । एतान्यकारादीनि । ’अवति’ इत्येतत्
परापरञ्चेदकारादि न । उदा -
अवत - वाजे॑वाजेऽवत (१-७-३५,४-७-२१), इ॒ह मा॑ऽवत (२-४-२०,३-४-१६), ततो॑ नो॒ वृष्ट्या॑ऽवत (२-४-२१,४-७-२५)
इन्द्रोऽवृणीत - यु॒ष्मानिन्द्रो॑ऽवृणीत (१-१-७) इन्द्र इति किम् - मर्तो॑ वृणीत स॒ख्यम् (१-२-३,४-१-३५,६-१-१४)
अव - चख्षु॒षाऽवे᳚ख्षे (१-१-१८), चि॒त्रव॒त्याऽवे᳚ख्षते (५-७-३), सन्तेऽव॑ ते (२-५-७०), स॒ह॒स्र॒योज॒नेऽव॑ (४-५-२६), व॒ल॒ग॒हनोऽव॑ नयामि
(१-३-४), यज॑मा॒नोऽव॑ रुन्धे (२-५-१६), छन्द॒साऽव॑बाढः (१-३-३), स्वाहा॑ऽवया॒साय॑ (१-४-३६), लो॒केऽव॑हिता (१-७-१), स्वि॒ष्ट॒कृते॑ऽव॒-
द्यन्ति॑ (२-६-३४), रख्षोऽव॑धूताः (१-१-७), ओष॑धीभ्योऽव॒रुध्य॑ (१-५-४), …..
अवर्तिम् - ततो॒ वै तेऽव॑र्तिम्, आस॒तेऽव॑र्तिम् (७-४-४), उ॒भ॒यतोऽव॑र्तिम् (७-४-५)
अवरैः - परोऽव॑रै॒स्तन्त्वा᳚ (१-३-९), प॒रोऽव॑रै॒रिति॑ (६-३-१३)
अवस्युः - स्वाहा॑ऽव॒स्युर॑सि (४-७-२३)
अवसेन - त्वया॑ऽव॒सेन॑ (५-७-७) [तञ्जु॑षस्व॒ तेना॑ऽव॒सेन॑ (१-८-११)?]
अवाङ् - मा मेऽवा॒ङ्नाभि᳚म् (३-२-१८), प्रा॒णोऽवा॑ङपा॒नः (६-३-५)
अवति (अपरापरम्) - ह्ये॑षाऽव॑ति (२-५-५६), वृ॒धाऽव॑ति (२-६-६३) अपरापरमिति किम् - प॒र॒मस्या᳚म् परा॒वति॑ (१-१-१३,१४)
परापरत्वादकारादि न । परा (इत्यस्मात्) परं, परापरम् । न परापरम् अपरापरम् ॥

मूलम् - 5.1.36

मू ॥ अजावयस्त्ववार्येभ्योऽप्यवटेष्ववरेतताः । अवृञ्जतावदच्चाविमवमोवर्ततावसत् ॥ ३६ ॥
व्या ॥ अजावयः । अवार्येभ्यः । अवटेषु । अवरेतताः । अवृञ्जत । अवदत् । अविम् । अवमः । अवर्तत । अवसत् । एतान्यकारादीनि । उदा

  • अजावयः - उ॒पा॒श्व॒न्त॒र्या॒माव॑जा॒वयः॑ (६-५-३६) अत्र ’अवय’ इति विभागः । अजेति किम् - वय॑सा॒ वयः॑ (१-४-४५), वय॑स्वन्तो
    वय॒स्कृत᳚म् (१-५-२०), सु॒भरो॑ वयो॒धाः (३-१-३६), यज॑माने॒ वयो॑ धाः (३-५-३३,.), श्रवो॒ वयः॑ (४-२-३०,५-२-३१), त्रि॒व॒थ्सो वयः॑ (४-३-
    ६), उ॒ख्षा, ऋ॒ष॒भः, पुरु॑षः, ब॒स्तः, व्या॒घ्रः, सि॒हः, वि॒ष्ट॒म्भः, वि॒श्वक॑र्मा, मू॒र्धा, छन्दः॑ वयः॑ (४-३-१०,५-२-६०,५-३-५) (अत्र न)
    अवार्येभ्यः - पा॒र इ॒क्षवो॑ऽवा॒र्ये᳚भ्यः (७-३-३७)
    अवटेषु - ये वा॑ऽव॒टेषु॒ शेर॑ते (४-२-३५)
    अवरेतताः* - पि॒ता॒म॒हाः॒ प॒रे॒ऽव॒रे॒ तताः᳚ (३-४-१६) [परेऽव॑रे॒ ते नः॑ (४-३-६) इत्यपि*] परेऽवरे* इति वक्तव्यम् । तता [परे ?] इति किम् -
    अ॒व॒साने॒ वरे॑ दे॒वाना᳚म् (२-५-३३), प॒र॒म॒च्छदो॒ वर॒ आ (अत्र न)
    अवृञ्जत - वा॒म॒भृता॑ऽवृञ्जत (५-५-१७)
    अवदत् - अव्या॑कृताऽवदत् (६-४-३३)
    अविम् - योऽवि॑म् प्रतिगृ॒ह्णाति॑ (२-२-३२)
    अवमः - स त्वन्नो॑ अग्नेऽव॒मः (२-५-७२)
    अवर्तत - स द॑क्षि॒णाऽऽऽव॑र्तत (५-७-४०)
    अवसत् - परि॑मुषितोऽवसत् (६-१-४३) ॥
मूलम् - 5.1.37

मू ॥ अवर्ष्याभ्यश्च पाश्चात्यमवारेऽविरवाकया । अविध्यदव्यथमानावृकेभिरविता तथा ॥ ३७ ॥
व्या ॥ “अवर्ष्याभ्यः” इत्येतत्पाश्चात्यञ्चेदकारादि । अवारे । अविः । अवाकया । अविध्यत् । अव्यथमाना । अवृकेभिः । अविता ।
एतान्यकारादीनि । उदा - अवर्ष्याभ्यः (पाश्चात्यं) - स्वाहा॑ऽव॒र्ष्याभ्यः॑ (७-४-३९) पाश्चात्यमिति किम् - प॒ल्व॒ल्या᳚भ्य॒स्स्वाहा॒ वर्ष्या᳚भ्यः (७-४-
३९) अत्र पूर्वत्वादकारादि न ।
अवारे - स्वाहा॑ऽवा॒र इ॒क्षवः॑ (७-३-३७)
अविः - कृ॒ष्णाऽवि॑रभवत्, साऽवि॑र्वशा (२-१-८), पि॒श॒ङ्गि॒लाऽवि॑रासीत् (७-४-४५)
अवाकया - स॒मु॒द्रस्य॑ त्वा॒ऽवाक॑या (४-६-१)
अविध्यत् - सूर्यं॒ तम॑साऽविध्यत् (२-१-८)
अव्यथमाना - सु॒प॒र्णोऽव्य॑थमाना (४-२-३६)
अवृकेभिः - त्राय॑स्व नोऽवृ॒केभिः॑ (१-६-५१)
अविता - ताभि॑र्नोऽवि॒ता भ॑व (४-१-४३) ॥

मूलम् - 5.1.38

मू ॥ अवत्तरमशीयाश्रिरशीत्यै चाशयत्तथा । अशीताप्यष्ट्वषाढाश्चाष्ठीवदस्यसृजत्तथा ॥ ३८ ॥
व्या ॥ अवत्तरम् । अशीय । अश्रिः । अशीत्यै । अशयत् । अशीत । अष्टु । अषाढाः । अष्ठीवत् । असि । असृजत् । एतान्यकारादीनि । उदा

  • अवत्तरम् - वे॒त॒सेऽव॑त्तरम् (४-६-२) तरमिति किम् - प्र॒जाव॑द॒स्मे द्रवि॑णा (४-३-८) अत्र ’वत्’ इत्येव ।
    अशीय - ते॒ऽशी॒योप॑हूते, सा मे᳚ (१-६-८,९)
    अश्रिः - अ॒ष्टाऽश्रि॑र्भवति (६-३-१८), अ॒ग्नि॒ष्ठाऽश्रिः॒ सम्मि॑ता (६-३-२१)
    अशीत्यै - स्वाहा॑ऽशी॒त्यै (७-२-४७,४८)
    अशयत् - गर्भ आऽश॑यत् (३-४-६)
    अशीत - अद॑ब्धा॒योऽशी॑ततनो (१-१-२४)
    अष्टु - मन॑स्त्वाऽष्टू॒रु (१-४-३,४,६-४-२३/२४)
    अषाढाः - दे॒वता॑ऽषा॒ढा नक्ष॑त्रम् (४-४-२७)
    अष्ठीवत् - स्वाहा᳚ऽष्ठी॒वद्भ्या᳚म् (७-३-३८)
    असि - रास्ना॑ऽसि (१-१-३), प्र॒तक्वा॑ऽसि (१-३-५), हन्ताऽसि॑ (६-२-२२), अ॒ग्ने॒ऽसि॒ (१-१-२३), मे॒ऽसि॒ (१-२-२२), घ॒र्मो॑ऽसि (१-१-४),
    प॒रि॒षद्यो॑ऽसि (१-३-५), भा॒गोऽसि॑ (१-४-३), प्रा॒णोऽसि॑ (२-३-३८) ..
    असृजत् - वृथा॑ऽसृजत्प॒थिभिः॑ (२-३-५५) ॥
मूलम् - 5.1.39

मू ॥ असन्नोदात्तमसददसितोऽसिचदासदः । अस्कान् सहासनोदस्मिन्नस्यस्वासादयन्नसौ ॥ ३९ ॥
व्या ॥ ’असत्’ इत्येतदुदात्तञ्चेदकारादि न । असदत् । असितः । असिचत् । आऽसदः । अस्कान् सह । असनोत् । अस्मिन् । अस्यस्व ।
असादयन्न् । असौ । एतान्यकारादीनि । उदा -
असत् (नोदात्तं) - सु॒दिना॒ साऽस॑त् (१-२-३०), व॒रि॒वो॒वित्त॒राऽस॑त् (१-४-२३,२-१-६३), यथाऽस॑त् (२-३-४०,..), ओष॑ध॒योऽ-स॒त्पुरु॑षः (२-
१-३२), धारा॑ऽसत् (५-४-३७), स एको॑ऽस॒द्यः (६-५-१९) नोदात्तमिति किम् - कु॒रु॒ते॒ सद॑सि (१-७-२३), अ॒भ्या सज्ज॒जान॑ (४-६-६) अत्र
उदात्तत्वात् ’सत्’ इत्येव ।
असदत् - स॒धस्थ॒माऽस॑दत् (४-१-१७,५-१-३०)
असितः - मै॒त्रा मृ॒त्यवे॑ऽसि॒तः (५-५-५२)
असिचत् - य आऽसि॑चत् (३-३-३२)
आऽसदः - वरू॑थ॒माऽस॑दः (४-१-१४), इ॒हाऽस॑दः (४-१-३७,४-२-५,१८), पुन॒राऽस॑दः (४-२-१२) आकारेण किम् - ऐ॒न्द्रि॒या सदः॑ (३-१-
१७), दे॒वत॑या॒ सदः॑ (६-२-५३,५५), अ॒न्त॒रा स॑दः (६-२-३२), च॒क्रि॒रे॒ सदः॑ (४-१-४५), मे॒ सदः॑ (४-७-१५), क्र॒म॒ते॒ सदः॑ (६-६-१) अत्र
’सद’ इत्येव ।
अस्कान् सह - मा᳚ऽस्कान् स॒ह (३-१-२५) सहेति किम् - मा स्का॒न् वस॑वः (१-१-१५) अत्र ’स्कान्’ इत्येव ।
असनोत् - गयः॑ पृथि॒व्याऽस॑नोत् (४-४-२४)
अस्मिन्न् - आऽस्मि॑न्नु॒ग्राः (३-३-६,८), आऽस्मिन्रा॒ष्ट्रे (७-५-४४), ते मा॒ऽस्मिन्न् (३-२-११), च॒रुणा॒ऽस्मिन्न् (५-५-६), अ॒वा॒न्त॒र॒दी॒ख्षाऽस्मिन्न्
(६-२-१९), लो॒के᳚ऽस्मिन्गो॒ष्ठे᳚ऽस्मिन्ख्षये॒ऽस्मिन्न् (१-५-२१), पि॒ता ते॒ऽस्मिन्न् (२-६-७०), अ॒न्वार॑भते॒ऽस्मिन्न् (६-३-४८), आ॒दि॒त्यो᳚ऽस्मिन्न् (२-
५-४४,७-३-२५), य॒मो᳚ऽस्मिन्न् (२-६-३३), का॒र्यो᳚ऽस्मिन्न् (५-५-५)
अस्यस्व - स्रुच॒म् आऽस्य॑स्व (२-५-५६)
असादयन्न् - दक्षि॑ण॒ आऽसा॑दयन्न् (६-१-७१)
असौ - नक्ष॑त्रविहिता॒ऽसौ (२-५-१२), होता॒ऽसौ (३-२-४०), यथा॒ऽसौ (५-३-४२), उत्त॑रे॒ऽसौ वै (७-१-१३), सु॒व॒र्गका॑मो॒ऽसौ (२-३-२०),
यज॑मानो॒ऽसौ (२-६-५५) ॥

मूलम् - 5.1.40

मू ॥ अस्यन्त्यस्तुवतास्थेङ्ग्येऽस्थन्नस्मे चास्तमस्ति च । अस्मै चास्थान्यसीदच्चास्मानस्यां निहतो न तु ॥ ४० ॥
व्या ॥ अस्यन्ति । अस्तुवत । एते अकारादिनी । ’अस्थ’ एतदिङ्ग्ये स्थितञ्चेकारादि । अस्थन्न् । अस्मे । अस्तम् । अस्ति । अस्मै । अस्थानि ।
असीदत् । अस्मान् । एतान्यकारादीनि । ’अस्याम्’ इत्येतत् निहतं अनुदात्तं चेदकारादि न । उदा -
अस्यन्ति - जा॒ताम् परा᳚ऽस्यन्ति (६-५-३८)
अस्तुवत - एक॑याऽस्तुवत (४-३-१८), एक॑विशत्याऽस्तुवत (४-३-१९), एक॑त्रिशताऽस्तुवत (४-३-२०)
अस्थ (इङ्ग्ये) - स्वाहा॒ऽस्थभ्यः॑ (७-३-३८) इङ्ग्य इति किम् - ए॒तस्मि॑ल्लोँ॒के स्थ (३-२-२१) (अत्र न)
अस्थन्न् - वीय॑न्ते, वी॒य॒न्ते॒ऽस्थ॒न्वतीः᳚ (६-१-४६), स्वाहा᳚ऽस्थ॒न्वते᳚ (७-५-३६)
अस्मे - विश्वे॒ऽस्मे ध॑त्त (१-४-४७), रु॒न्धे॒ऽस्मे रायः॑ (६-१-५७), ध॒त्ते॒ऽस्मे ज्योतिः॑ (६-१-६९)
अस्तम् - कृ॒त्वाऽस्तं॒ प्रेत॑ (१-८-४)
अस्ति - नेह लो॒को᳚ऽस्ति (५-७-१९,२०,२१,२२), अ॒मुष्मि॑ल्लोँ॒केऽस्ति॑ वा (६-१-१), नाम॑ य॒ज्ञो᳚ऽस्ति (६-६-३८)
अस्मै - स्यो॒नाऽस्मै॑ सु॒षदा᳚ (१-४-४१), ते᳚ऽस्मै, कल्प॑न्तेऽस्मै (१-६-४३), स्वे᳚ऽस्मै (२-२-५७), ब्रह्म॑णे॒ऽस्मै (३-४-२१), कल्प॑तेऽस्मै (५-६-
९), रु॒न्धे॒ऽस्मै (६-४-१०), सो᳚ऽस्मै (२-२-२४,.), श्वःश्वो᳚ऽस्मा ईजा॒नाय॑ (२-५-२२), शाम्य॑तोऽस्मै (२-५-४५), ऋ॒तवो᳚ऽस्मै (३-४-२७),
ज्योति॑ष्मन्तोऽस्मै (६-६-३३)
अस्थानि - च॒ मे॒ऽस्थानि॑ च (४-७-२)
असीदत् - आऽसी॑द॒द्विश्वा᳚ (१-२-१५)
अस्मान् - पिन्व॑माना॒ऽस्मान् (४-२-२३),तया॒ऽस्मान् (४-५-४), यो᳚ऽस्मान् (१-१-५), सो᳚ऽस्मान् (५-५-२२), स्मो᳚ऽस्मान् (६-६-४)
अस्याम् (निहतो न तु) - यो᳚ऽस्याम् (१-२-२२), आ॒मु॒ष्या॒य॒णो᳚ऽस्याम् (१-८-२२),ध्रु॒वाऽस्याम् (२-६-२९), ख्ष॒त्रे᳚ऽस्याम् (३-४-१६,४-३-६),
नो॒ऽस्याम् (६-२-२३) निहतो नत्विति किम् - अ॒मुष्मि॑ल्लोँ॒के स्या॒मिति॑ (५-४-५२), वा॒चः प्र॑वदि॒ता स्या॒मिति॑ (७-१-३७) अत्रानुदात्तत्वादकारादि
न ॥ *[विय॑त्तोऽस्याम् (४-४-१८,१९) इत्यत्र अपवादः वक्तव्यः । ]

मूलम् - 5.1.41

मू ॥ अस्याऽहिरहभूनोऽहन्नहुतादोऽहरन्नहः । अहरच्चाहरन्ताहारहार्षम् चाहुतादहम् ॥ अहास्था अहरताञ्चेत्युक्तो ह्रस्वस्य संग्रहः ॥ ४१ ॥
व्या ॥ अस्य । अहिः । अहभूनः । अहन्न् । अहुतादः । अहरन्न् । अहः । अहरत् । अहरन्त । अहाः । अहार्षम् । अहुतात् । अहम् । अहास्थाः
। अहरताम् । एतान्यकारादीनि । उदा -
अस्य - पा॒त॒माऽस्य (१-२-४), अव॑गताऽस्य॒ विट् (२-३-४), उ॒भये᳚ऽस्य (१-६-२५), जु॒षन्ते᳚ऽस्य (१-६-२७,..), यो᳚ऽस्यै॒वम् (१-५-४),
अ॒प॒रु॒ध्यमा॑नोऽस्य (२-३-२), ….
अहिः - वि॒सा॒रेऽहि॒र्धुनिः॑ (३-१-३८)
अहभूनः - वातो॑ऽह॒भून॒ ऋषिः॑ (४-३-६)
अहन्न् - द॒श॒मेऽह॑न्गृह्यन्ते (३-५-३१), प्रा॒य॒णीयेऽहन्न् (७-२-२७), अ॒ष्ट॒मेऽह॑न्नाग्रय॒णः (७-२-३०)
अहुतादः - मधु॑षाऽहु॒तादो᳚ ग्रा॒म्यम् (५-४-२०)
अहरन्न् - प्र स्रुचोऽह॑रन्न् (६-३-२७), (सोमम्, अग्रे) आऽह॑रन्न् (६-१-७०,७-४-१८)
अहः - त्वाऽह॑र्जिन्व (४-४-१), रात्रि॒याऽहः॑ (५-४-४५), उप॑तिष्ठ॒तेऽहः॑ (१-५-३७), येऽहः॑ (७-५-१७), अ॒पोऽहः॒ प्र (६-४-९), मि॒त्रोऽह॒र-
ज॑नयत् (६-४-३६)
अहरत् - सोम॒ञ्चाऽह॑रत् (६-१-४१), सोम॒माऽह॑रत् (६-२-३/४), स॒प्त॒रा॒त्रमाऽह॑रत् (७-२-५), तमाऽह॑रत् (७-१-३३) …
अहरन्त - तस्या॒मश॒माऽह॑रन्त (७-१-२२)
अहाः - पुन॒राऽहाः᳚ (३-२-१९)
अहार्षम् - आ त्वा॑ऽहार्षम॒न्तः (४-२-४,५-२-४)
अहुतात् - अ॒ग्धादेको॑ऽहु॒तात् (३-३-२३)
अहम् - आऽहम् पि॒तॄन्, वृ॒णे॒, दी॒ख्षाम्, अ॒जा॒नि॒ (२-६-६७,४-६-२४,७-१-४८,७-४-४७), पत्या॒ऽहम् (१-१-१७), नख्ष॑त्रविहिता॒ऽहम् (२-
५-१२), लो॒के॑ऽहम् (३-२-२१),ध्रु॒वो॑ऽहम् (१-६-४), स्वि॒ष्ट॒कृतो॒ऽहम् (१-६-७), ….
अहास्थाः - क॒थाऽहा᳚स्था॒ इति॑ (२-६-१६)
अहरताम् - तमाऽह॑रता॒न्तेन॑ (७-१-११) ॥ इति उक्तप्रकारः ह्रस्वस्य अकारस्य संग्रह उक्तः ॥
॥ इति सप्तलक्षणव्याख्यायाम् अवर्णिप्रकरणम् ॥ ५ ॥