05 तपरम्

मूलम् - 4.1.1

॥ अथ तपर प्रकरणम् ॥ ४ ॥
मूलम् - अद्यादतृणदश्नीयादब्रवीदजुषत्ततः । अस्थादस्मदसच्चैवमनन्न्यजनदर्पयेत् ॥ १ ॥
व्याख्यानम् - अद्यात् । अतृणत् । अश्नीयात् । अब्रवीत् । अजुषत् । अस्थात् । अस्मत् । असत् । निपरं ’अनत्’ इति पदम् । अजनत् ।
अर्पयेत् । एतानि पदानि तकारान्तानि भवन्ति । उदा -
अद्यात् - अ॒न्नाद्या॒न्निर्भ॑जामि (१-६-१७)
अतृणत् - अ॒तृ॒ण॒न्न॒दीना᳚म् (२-३-५५)
अश्नीयात् - न मा॒सम॑श्नीया॒न्न स्त्रिय᳚म् (२-५-३२)
अब्रवीत् - अ॒ब्र॒वी॒न्न हि (२-६-४६,४७,४८), अ॒ब्र॒वी॒न्न वै (३-१-३१), अ॒ब्र॒वी॒न्न मयि॑ (५-५-१०,६-५-३२), अ॒ब्र॒वी॒न्नाहम् (६-४-३४)
अजुषत् - यस्याजु॑षन्नम॒स्विनः॑ (२-६-६३)
अस्थात् - अ॒स्था॒न्नि॒र्जग्मि॒वान् (४-२-४)
अस्मत् - अ॒स्मन्नि धे॑हि (४-५-४), अ॒स्मन्नि व॑पन्तु (४-५-२५)
असत् - अस॑न्नो॒ नेदी॑यः (४-२-२३), अप्य॑सन्नख्ष॒त्रिया॑याम् (७-१-९)
अनत् (निपरं) - इ॒दं प्रा॒णन्नि॑मि॒षत् (४-७-३३) नीति किम् - योनेः᳚ प्रा॒णन्निर्मि॑मीते (३-२-२५)
अजनत् - ए॒ने॒ अ॒ज॒न॒न्नन्न॑माने (४-६-९)
अर्पयेत् - शु॒चार्प॑ये॒न्नौष॑धयः, वयासि (५-२-३६,३७) ॥ १ ॥

मूलम् - 4.1.2

मूलम् - अस्मादवसृजेदक्रमीदवस्ताच्च गण्यते । अभवच्चावरोहेच्चानमदासीदिदुच्यते ॥ २ ॥
व्याख्यानम् - अस्मात् । अवसृजेत् । अक्रमीत् । अवस्तात् । अभवत् । अवरोहेत् । अनमत् । आसीत् । इत् । एतानि पदानि तकारान्तानि
भवन्ति । उदा -
अस्मात् - ए॒वास्मा॒न्निर्ऋ॑तिम् (५-२-२४), ह्य॑स्मान्निर्गृह्णाति॑ (६-५-४), ए॒वास्मा॒न्मृधः॑ (२-२-३८)
अवसृजेत् - अ॒न्वव॑सृजे॒न्न हु॒त्वा (६-५-२२)
अक्रमीत् - यु॒ष्मदक्र॑मी॒न्नास्मान् (६-१-४४)
अवस्तात् - यद॒वस्ता॒न्न स्युः (७-३-२६)
अभवत् - षो॒ड॒श्य॑भव॒न्न वै (६-६-३८) [अ॒भ॒व॒न्म॒ध्यन्दि॑ने (६-२-२८) इति तु नपरे (श्लो.३) सङ्गृहीतम् । ]
अवरोहेत् - प्र॒त्यव॑रोहे॒न्न हीमे (५-५-२०)
अनमत् - सम॑नम॒न्नख्ष॑त्रेभ्यः (७-५-५०)
आसीत् - आ॒सी॒न्न॒वभिः॑, न॒व॒द॒शभिः॑, नव॑विशत्या (४-३-१८,१९,२०)
इत् - इन्नु म॑घवन्न्, इन्नु ते (१-४-२३,१-५-२४), इन्न्वै (१-५-४१,१-६-२३), इन्नि मे᳚ (१-८-५) ॥

मूलम् - 4.1.3

मूलम् - इयादुदुपरिष्टाच्च नैः परन्त्वेनदिष्यते । स्वाहैकाच्चैवमेकस्मात् ॥३॥
व्याख्यानम् - इयात् । उत् । उपरिष्टात् । नैः परञ्चेत् ’एनत्’ इति पदम् । स्वाहापूर्वं ’एकात्’ इति पदम् ।
एकस्मात् । एतानि पदानि तकारान्तानि भवन्ति । उदा -
इयात् - उपे॑या॒न्नास्य॑ (२-५-३२), उ॒पे॒यान्निरि॑न्द्रियः (२-५-३६), उपे॑या॒न्न तृ॒तीय᳚म् (५-६-३३)
उत् - उन्न॑ये (१-३-२३,६-४-१५), उन्नतम्, उ॒न्न॒तः (२-१-२९,..), उन्न॑म्भय (२-४-२२,..), उन्नि॒वतः॑ (३-२-१४), उन्नी॑तः (४-४-२५), उन्न॑येत,
उ॒न्नीय॑ (३-१-८), उ॒न्नय॑ते (६-२-२०), उ॒न्ने॒ता (६-५-३४,७-१-१९), उ॒न्ने॒तरि॑ (६-५-३५), उ॒न्ने॒त्रे (७-१-१९)
उपरिष्टात् - उ॒परि॑ष्टा॒न्निर्व॑पेद॒स्याम् (२-२-५)
एनत् (नैः परं) - ए॒वैन॑न्नैर्ऋ॒तीः (५-२-२२) नैः परमिति किम् - ए॒न॒न्न्या॒यम् (२-२-४१), ए॒न॒न्निर्भ॑जति (२-६-२१), ए॒न॒न्निर्ऋ॑त्या (३-४-२६),
ए॒न॒न्न प्र (३-४-३५), ए॒न॒न्नि॒र्ऋ॒ति॒पा॒शात् (५-२-२३)
एकात् (स्वाहापूर्वं) - स्वाहैका॒न्न (७-२-४१,४२,४४) स्वाहेति किम् - स॒वि॒तैका॒न्नि य॑च्छति (४-३-२५)
एकस्मात् - ए॒तमे॑कस्मान्नपञ्चा॒शः, ..शम् (७-४-२५,२७) ॥

मूलम् - 4.1.4

मूलम् - इकारान्ते परत्र तु ॥ ३ ॥ पद एतच्च कुर्याच्च क्रामेत्कनिक्रदत्ख्षयात् । गृह्णीयाद्गमयेच्चिच्च जुहुयात्तावदीरितम् ॥ ४ ॥
व्याख्यानम् - इकारान्ते पदे परे सति ’एतत्’ इति पदम् । कुर्यात् । क्रामेत् । कनिक्रदत् । ख्षयात् । गृह्णीयात् । गमयेत् । चित् । जुहुयात् ।
तावत् । एतानि पदानि तकारान्तानि भवन्ति । उदा -
एतत् (इकारान्तपदपरं) - ए॒तन्नि ध॑त्ते (५-६-३३), ए॒तन्न॑श्यति (२-३-१०,२-६-१९) इकारान्ते पदे परत्रेति किम् - ए॒तन्नमः॑ (३-१-१४), ए॒तन्नोप॑
(३-४-३२,३३), ए॒तन्न॑वरा॒त्रम् (७-२-१०)
कुर्यात् - छ॒म्बट्कु॑र्या॒न्नेष्टिः॑ (२-५-२९)
क्रामेत् - यदा॒क्रामे॒न्निर्ऋ॑त्यै (५-६-२४)
कनिक्रदत् - कनि॑क्रद॒न्नान॑दत् (४-१-१६)
ख्षयात् - ए॒व तेन॒ ख्षया॒न्न य॑न्ति (७-४-८)
गृह्णीयात् - गृ॒ह्णी॒या॒न्नि॒र्मार्गु॑काः (६-४-७)
गमयेत् - ग॒म॒ये॒न्निर्यज॑मानम् (२-६-२९)
चित् - अ॒ग्नि॒चिन्नाभिच॑रित॒वै (५-६-११)
जुहुयात् - जु॒हु॒या॒न्नमो॑वृक्तिम् (३-१-१०)
तावत् - ताव॑न्नो द॒त्तेति॑ (६-२-२३) ॥ ३ ॥ ४ ॥

मूलम् - 4.1.5

मू - त्यत्तस्मात्तदितिप्रोक्तम् न नैर्निर्नोपनप्रति । नेमिन्नानुनविस्रंसयेन्नयैषु परेषु तु ॥ ५ ॥
व्या - त्यत् । तस्मात् । तत् । एतानि पदानि तान्तानि भवन्ति । उदा - त्यत् - प्रति॒ त्यन्नाम॑ रा॒ज्यम् (१-८-१९)
तस्मात् - तस्मा॒न्न (१-५-४१,….), तस्मा॒न्नासि॑कया (२-३-३४,.), तस्मा᳚न्निर्या॒सस्य॑ (२-५-४), तस्मा॒न्नख्ष॑त्रविहिता (२-५-१२),
तस्मा॒न्निर्ऋ॑तिम् (५-२-२३), तस्मा॒न्नव॑नीतेन (६-१-५), तस्मा॒न्नाना॑वीर्याः (६-१-६३), तस्मा᳚न्नव॒धा (६-२-४), तस्मा᳚न्नाभिद॒घ्ने (६-३-२३),
तस्मा॒न्नाना॑रूपाः (६-३-६०), तस्मा᳚न्नादेव॒त्या॑नि (६-४-३२), तस्मा᳚न्नव॒मे (७-२-३०)
तत् - तन्नौ॑ स॒ह (१-३-३), तन्नः॑ (१-४-४५,….), तन्नव॑नीतम् (२-३-३८,४२), तन्नि (३-२-४१,६-३-४३), तन्ना॑क॒सदा᳚म् (५-३-३१)
’नैः, निः, नोप, नप्रति, नेमिम्, नानु, नविस्रंसयेत्, नय’ एतेषु पदेषु परेषु सत्सु तदिति पदं तकारान्तं न भवति । उदा -
(नैः परम्) तत् - अ॒व॒शीय॑न्ते॒ तन्नैर्ऋ॒तम् (१-८-१)
(निः परम्) तत् - तन्निर॑वपत् (२-२-१,…), तन्निर्मा॑यम् (६-५-२), तन्निरि॑न्द्रियम् (६-५-२७)
(नोप परम्) तत् - तन्नोपा᳚ह्वयत (२-४-३६,२-५-८). उपेति किम् - तन्न प्र॑वस्त॒व्य᳚म् (६-२-२९), तन्न नि॒र्णेनि॑जति (७-२-३८)
(नप्रति परम्) तत् - तन्न प्रति॒ प्राय॑च्छन्न् (६-५-२९). प्रतीति किम् - तन्नेवा॑शि॒तम् (१-६-२४), तन्नेव॑ हु॒तम् (६-१-२९)
(नेमिम्परम्) तत् - तन्ने॒मिमृ॒भवः॑ (२-६-६१)
(नानु परम्) तत् - तन्नान्ववा॑यन्न् (३-२-६). अन्विति किम् - तन्न प्रा॑प्नु॒यात्, प्रा॒प्नोति॑ (७-२-२४,२५)
(नविस्रंसयेत्परम्) तत् - यत्तन्न वि॑स्र॒सये᳚त् (६-२-४८,.). विस्रंसयेदिति किम् - तन्नेवाल॑ब्धम् (६-३-२९), तन्नेवा॒न्वार॑ब्धम् (६-३-४२)
(नय परम्) तत् - प्रतन्न॑य प्रत॒राम् (४-२-८) ॥ ५ ॥

मूलम् - 4.1.6

मू - अकुर्वततदित्यत्र प्रतिषेधो न चेष्यते । दिद्युद्दरिद्रद्दध्याच्च धेयान्नशदिहेरितम् ॥ ६ ॥
व्या - ’अकुर्वततत्’ इत्यत्र प्रतिषेधः पूर्वोक्त निष्परत्त्वात्तकारनिषेधः न इष्यते । उदा - अकुर्वत तत् - अ॒कु॒र्वत॒ तन्नि॑र्बा॒धाना᳚म् (५-१-५४) ।
दिद्युत् । दरिद्रत् । दध्यात् । धेयात् । नशत् । एतानि पदानि तान्तानि भवन्ति । उदा -
दिद्युत् - पता॑ति दि॒द्युन्नर्य॑स्य (१-७-४८)
दरिद्रत् - दरि॑द्र॒न्नील॑लोहित (४-५-२१)
दध्यात् - उप॑दध्या॒न्नेन्द्रि॒येण॑ (५-५-३०)
धेयात् - भा॒ग॒धेया॒न्न च्या॑वयन्ति (७-५-२१)
नशत् - कर्म॑णा नश॒न्न प्रयो॑षत् (१-८-४१) ॥ ६ ॥

मूलम् - 4.1.7

मू - पात्रात्परस्तात्पुरस्तात्पद्ब्रूयाद्बृहदेव च । भद्राद्भूयाच्च मध्यान्मन्मिथुनाद्योषदिष्यते ॥ ७ ॥
व्या - पात्रात् । परस्तात् । पुरस्तात् । पत् । ब्रूयात् । बृहत् । भद्रात् । भूयात् । मध्यात् । मत् । मिथुनात् । योषत् । एतानि पदानि
तकारान्तानि भवन्ति । उदा - पात्रात् - अथो॒ पात्रा॒न्न छि॑द्यते (५-६-७)
परस्तात् - परे॑ प॒रस्ता॒न्न स्युः (७-३-२६)
पुरस्तात् - पु॒रस्ता॒न्निर्व॑पेत् (२-१-४९,३-४-७,३-५-४,५-५-६), पु॒रस्ता॒न्नाभ्याः᳚ (३-४-३)
पत् - प॒न्नेज॑नीर्गृह्णामि (३-५-२०)
ब्रूयात् - इति॑ ब्रूया॒न्न ग्रा॒म्यान् (६-६-१८)
बृहत् - कृ॒णु॒ता॒ बृ॒हन्नमः॑ (५-७-७)
भद्रात् - भ॒द्रान्नः॒ श्रेयः॑ (५-७-७)
भूयात् - म॒न्युर्भू॑या॒न्नमो॑ मा॒त्रे (१-८-२९)
मध्यात् - मध्या᳚न्नी॒चादु॒च्चा (२-३-५६)
मत् - म॒हि॒षद्द्यु॒मन्नमः॑ (३-२-३०), सु॒मन्मे॑ऽधायि (४-६-४१)
मिथुनात् - ए॒व मि॑थु॒नान्न य॑न्ति (७-५-३१)
योषत् - न प्रयो॑ष॒न्न यो॑षति (१-८-४१) ॥ ७ ॥

मूलम् - 4.1.8

मू - यावद्यज्ञाच्चयत्प्रोक्तम् एवन्दृश्येत वर्जयेत् । वपाम्यादृ्हणा भागः पूर्वँल्लोकाद्वपेद्वदेत् ॥ ८ ॥
व्या - यावत् । यज्ञात् । यत् । एतानि पदानि तान्तानि भवन्ति । उदा -
यावत् - क॒र्तं वा॒ याव॒न्नान॑से (६-२-३०)
यज्ञात् - ए॒व य॒ज्ञान्नैति॑ (३-५-१५)
यत् - रात्रि॒र्यन्नक्त᳚म् (१-५-४०,४१)
अत्र यदिति पदं ’वपामि, आ, दृहणा, भागः’ इत्येवं पूर्वं यदि दृश्येत, तर्हि तस्य तान्ततां वर्जयेत् । उदा -
(वपामि पूर्वं) यत् - व॒पा॒मि॒ यन्न॑स्समा॒नः (१-३-३,६-२-५७)
(आपूर्वं) यत् - आ यन्नर॑स्सु॒दान॑वः (२-४-२१)
(दृहणा पूर्वं) यत् - दृ॒ह॒णा॒ यन्नु॒देथे᳚ (४-७-३४)
(भागः पूर्वं) यत् - भा॒गो यन्नि॒रया॑चथाः (३-१-२९). वपाम्यादि किम् - न॒श्य॒ति॒ यन्नश्य॑ति (२-६-१९), तद्यन्नोपे॒यात् (५-६-३३), … इत्यादि ।
लोकात् । वपेत् । वदेत् । एतानि पदानि तान्तानि भवन्ति । उदा -
लोकात् - म॒नु॒ष्य॒लो॒कान्न (६-१-१), लो॒कान्निष्प॑द्येरन्न् (७-३-२६) [लो॒कान्म॑नु॒ष्याः᳚ (३-३-१७) इति तु नपरे (श्लो.१६) सङ्गृहीतम् । ]
वपेत् - निर्व॑पे॒न्निशि॑तायाम् (२-२-७)
वदेत् - नानृ॑तव्वदे॒न्न मा॒सम् (२-५-३२) ॥ ८ ॥

मूलम् - 4.1.9

मू - वृत्राद्वैश्वानराद्वृच्च व्रश्चनाद्वद्विदुच्यते । इवसत्सवनात्सीदत्स्याद्धिंसीद्धिणुयात्तथा ॥ ९ ॥
व्या - वृत्रात् । वैश्वानरात् । वृत् । व्रश्चनात् । वत् । वित् । इवसत् । सवनात् । सीदत् । स्यात् । हिसीत् । हिणुयात् । एतानि पदानि
तकारान्तानि भवन्ति । उदा -
वृत्रात् - दे॒वता॑ वृ॒त्रान्नि॒र्हूय॑ (२-५-११)
वैश्वानरात् - तेन॑ वैश्वान॒रान्नैति॑ (५-५-४)
वृत् - त्रि॒वृन्नो॑ वि॒ष्ठया᳚ (४-४-३३)
व्रश्चनात् - आ॒व्रश्च॑नान्नि॒र्येष॑ति (२-५-४)
वत् - सप्र॑त्न॒वन्नवी॑यसा (२-२-६४), सप्र॑त्न॒वन्नि काव्या᳚ (२-३-५१), नि॒धन॑वन्नि॒धन॑वतः (४-३-४)
वित् - सु॒व॒र्विन्मधोः᳚ (४-४-३३), सोमो॑ विश्व॒विन्ने॒ता (५-६-३५)
इवसत् - इ॒व॒ सन्न प्र॑दी॒येत॑ (२-२-४३) इवेति किम् - वसु॒ सन्न्य॑दधत (१-५-१) [अ॒सि॒ सन्मे᳚ (१-६-१५,.), ए॒व सन्नि॒रव॑दये (३-३-२३)]
सवनात् - तेनै॒व सव॑ना॒न्न य॑न्ति, तृ॒ती॒य॒स॒व॒नान्न य॑न्ति (७-५-१८)
सीदत् - ब॒र्हिषि॒ सीद॒न्नि होता᳚ (४-४-१२) [नि॒षीद॑न्नः (४-१-१७,५-१-२९) इति नपरे (श्लो.१८) गतम् । ]
स्यात् - स्या॒न्न पु॒रस्ता᳚त् (२-६-२७), स्यान्नि॑र्मन्थ्य᳚म् (३-१-१०), यज॑मानः स्या॒न्नाना᳚ (३-१-१५), स्यान्न॑स्सू॒नुस्तन॑यः (४-२-१६), स्या॒न्नी॒तासु॑ (६-
१-२४), स्या॒न्नापि॑ (६-१-६४), सोमः॑ स्या॒न्नास्यै॒ते (६-१-७०), स्या॒न्नाभिः॑, नाध्व॒र्युः (६-३-५), स्या॒न्नैन᳚म् (६-६-१३), स्या॒न्नैक॑रा॒त्रः (७-२-७)
हिसीत् - मा मा॑ हिसी॒न्निष॑साद (१-८-३१)
हिणुयात् - प्रहि॑णुया॒न्निर्ऋ॑तिम् (२-२-३४) ॥ ९ ॥

मूलम् - 4.1.10

मू - हविष्मन्निधनं पूर्वं हविष्कृन्निधनं तथा । हन्याद्दृन्नपरं तान्तं पदमेवं प्रकीर्तितम् ॥ १० ॥
व्या - ’हविष्मन्निधनं, हविष्कृन्निधनं’ इत्येतयोः इङ्ग्यपदयोः पूर्वं अवग्रहाख्यः पूर्वखण्डः इत्यर्थः । तान्तं भवति । उदा -
ह॒विष्म॑न्निधन॒मिति॑ ह॒विष्म॑त्-नि॒ध॒न॒म् (७-१-१३)
ह॒वि॒ष्कृन्नि॑धन॒मिति॑ हवि॒ष्कृत्-नि॒ध॒न॒म् (७-१-१३)
हन्यात् । हृत् एते च पदे तान्ते भवतः । उदा -
हन्यात् - न निह॑न्या॒न्न लोहि॑तम् (२-६-५८)
हृत् - यत्ते॒ पर॒ हृन्नाम॑ (४-४-२३,५-३-४६)
एवम् उक्तप्रकारेण नपरं तान्तं, तपरञ्च, पदं प्रकीर्तितम्, उक्तम् ॥ १० ॥

मूलम् - 4.1.11

मू - न तान्त पदमालेयं नवरत्नोत्तराक्षरा । सुगुणा वेदविदुषां रचिता कण्ठभूषणम् ॥ ११ ॥
व्या - चकारादि नवाक्षर रत्नयुता सुगुणा सारल्यादि गुणयुता तन्तुयुता च इयं न, तान्त पदमाला वेदविदुषां, वेदज्ञानां, कण्ठभूषणं, कण्ठाभरणं,
रचिता, कृता ॥ ११ ॥
॥ इति सप्तलक्षण व्याख्यायां तपर प्रकरणम् ॥ ४ ॥